प्रथमो ऽध्यायः
श्रीगणेशाय नमः
सर्वशास्त्रार्थतत्त्वज्ञः सर्ववेदविदां वरः ।
पारगः सर्वविद्यानां दक्षो नाम प्रजापतिः ॥ १।१
ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा ।
एतेषां तु हितार्थाय दक्षः शास्त्रम् अकल्पयत् ॥ १।२
जातमात्रः शिशुस् तावद् यावद् अष्टौ समा वयः ।
स हि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रदर्शकः ॥ १।३
भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानृते ।
तस्मिन् काले न दोषो ऽस्ति स यावन् नोपनीयते ॥ १।४
उपनीतस्य दोषो ऽस्ति क्रियमाणैर् विगर्हितैः ।
अप्राप्तव्यवहारो ऽसौ यावद् षोडशवार्षिकः ॥ १।५
स्वीकरोति यदा वेदं चरेद् वेदव्रतानि च ।
ब्रह्मचारी भवेत् तावद् ऊर्ध्वं स्नातो भवेद् गृही ॥ १।६
द्विविधो ब्रह्मचारी तु स्मृतः शास्त्रे मनीषिभिः ।
उपकुर्वाणकस् त्व् आद्यो द्वितीयो नैष्ठिकः स्मृतः ॥ १।७
यो गृहस्थाश्रमम् आस्थाय ब्रह्मचारी भवेत् पुनः ।
न यतिर् न वनस्थश् च स सर्वाश्रमविवर्जितः ॥ १।८
अनाश्रमी न तिष्ठेत् तु क्षणम् एकम् अपि द्विजः ।
आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः ॥ १।९
जपे होमे तथा दाने स्वाध्याये च रतस् तु यः ।
नासौ तत् फलम् आप्नोति कुर्वाणो ऽप्य् आश्रमाच् च्युतः ॥ १।१०
त्रयानाम् आनुलोम्यं हि प्रातिलोम्यं न विद्यते ।
प्रातिलोम्येन यो याति न तस्मात् पापकृत्तमः ॥ १।११
मेखलाजिनदण्डैश् च ब्रह्मचारीति लक्ष्यते ।
गृहस्थो देवयज्ञाद्यैर् नखलोम्ना वनाश्रमी ॥ १।१२
त्रिदण्डेन यतिश् चैव लक्षणानि पृथक् पृथक् ।
यस्यैतल् लक्षणं नास्ति प्रायश्चित्ती न चाश्रमी ॥ १।१३
उक्तम् कर्मक्रमेणैव न कालो मुनिभिः स्मृतः ।
द्विजानां तु हितार्थाय दक्षस् तु स्वयम् अब्रवीत् ॥ १।१४
इति दक्षे धर्मशास्त्रे प्रथमो ऽध्यायः ।