मार्कण्डेयस्मृतिः

तत्रादौ वर्णाश्रमधर्म वर्णनम्

मार्कण्डेयं ( बहु ) ब्रह्मकल्प दर्शिनमेत्य ते ।

महात्मानः शौनकाद्याः सर्वज्ञमृषयोऽब्रुवन् ॥

भगवंस्त्वं बहुब्रह्मकल्पदर्शी विशेषवित् । अतस्त्वं सर्वदेवर्षिः योगियज्वाधिको मतः ॥ सर्ववर्णाश्रमाचारधर्माधर्मप्रवर्तकान् । जानासि कृतसंवादस्तैरत्यन्तं महात्मभिः ॥ अनेक ब्रह्मकल्पानां संप्रदायपरार्थगः । पुनर्वेदार्थतत्वज्ञः क्रियाकल्पविशेषवित् ॥ इतिहासपुराणज्ञः स्मृतितत्त्वरहस्यगः । आपत्कालैककर्तव्यमर्त्यधर्मविभागवित् ॥ इरिद्रसंपत्समयसदसत्कार्यनिर्णये । परिच्छेत्ता विशेषेण मुख्यामुख्यादितत्ववित् ॥ मावामधुना सर्वे संघीभूयाश्चिराद्वयम् । समालोच्य विधानेन निश्चित्य च पुनःपुनः ॥ उच्छामः सर्वधर्मश्च कर्तव्यान्मोक्षसाधनान् । सर्ववर्णाश्रमकृते निःशेषयुगसंमतान् ॥ अतस्त्वं कृपयास्मासु तान् सम्यग्वक्तुमर्हसि । इत्येवं स कृतप्रश्नः शौनकाद्य महर्षिभिः मार्कण्डेयो महाभागः सर्वदर्शी कृपामयः । तर्हि शृणुध्वमित्युक्त्वा स्मितपूर्वं वचोऽब्रवीत्

ब्रह्मादयोsपि निखिलाः किंचिज्ज्ञा एव केवलम् ।

परं तु तत्र सर्वेषां रक्षोमर्त्या मृतान्धसाम् ॥ ११॥

[[२]]

मार्कण्डेयस्मृतिः

तारतम्यं तस्य चैषां तद्भिन्नानां च सन्ततम् । अस्त्येव परमं तेन गुरुर्नोऽयं पितामहः ॥ सर्वज्ञस्तु स एवैको भगवान् भूतभावनः । अज्ञेयोऽत्यन्त निपुणैः सर्वोपाय क्रियादिभिः सर्वेश्वरः सर्वकर्ता सर्वभर्ता सनातनः । सर्वान्तकृत्सर्वान्तर्याम्ययं भूताश्रयः समः ॥ लोकशक्त्याश्रयः श्रीमान् पुराणो ब्रह्मनामकः । अजेयः शाश्वतो नित्यः ध्रुवश्चाध्वल्यवर्जितः ॥ भावशून्यो भावभर्ता कतु चाकर्तुमेव च । अन्यथाख्यातुमीशानः सच्चिदानन्दलक्षणः ॥

करणं कारणं गुह्यं वेदवेद्यमगोचरः । सर्ववेदान्तसंवेद्यो जगज्जन्मादिकारणम् ॥ तस्य प्रसादात्सर्वेषां मुक्तिर्वेदोदिता शिवा । सायुज्यनामिका दिव्या भवेदिति मनुश्रुतेः प्रसादस्तस्य कथितः वेदोक्त नित्यकर्मभिः । एकविंशतिसंख्याकैः अतिशीघ्रफलप्रदैः ॥ अतिशीघ्रफलं चापि चित्तशुद्धिरितिस्मृतम् । तेन ज्ञानं भवेद्दिव्यं ब्राह्मं श्रवणतो महत् ॥ मननादि क्रमेणैव तस्माद्वेदोदितानि वै ।

कर्मणां मुक्तिसाधनताविचारः

कर्माणि ब्राह्मणः कुर्यादयं मार्गो महान् शिवः । मुक्तिर्नान्यास्ति सरणिः ज्ञानमेवैकमुच्यते ॥ तस्मै सर्वाणि कर्माणि तपः कृच्छ्रादिकान्यपि ।

कुर्वन्ति सुमहात्मानः तानि स्युश्च विलम्बतः ॥

एतत्कार्य कराणीति प्राहुर्ब्रह्मविदोऽखिलाः । न कर्मणा न प्रजया त्यागेनानशनेन च ॥ तीर्थयात्रादिकेनापि मुक्तिः सायुज्यनामिका । भवेदेवेति किं तानि साधकान्यतिदूरतः ॥ न साक्षादिति वेदानां हृदयं तन्निबोधत । केचित्तु प्रवदन्त्यत्र वेदोक्तान्यखिलान्यपि ॥ नित्यान्येवेति तत्प्रीतिकृतानि यदि चेतसा ।

नैमित्तिकानि काम्यानि सर्वत्रापि मनः परम् ॥

प्रधानमिति विशेयं तस्मादेव विचक्षणः । कृष्णार्पणधिया नित्यं यज्ञेशं सन्ततं विभुम् ॥

ब्रह्मचारिधर्मवर्णनम्

नित्यैः नैमित्तिकैः काम्यैः कर्मभिः श्रुतिचोदितैः ।

कामनारहिताः सन्तः यजन्ते श्रद्धयान्विताः ॥

[[३]]

ब्रह्मार्पणधिया भक्ताः तज्ज्ञप्त्यै ब्रह्मवादिनः । यजनं गृहिणामेव धर्मोऽयं वनिनामपि ॥ न यतीनां वर्णिनां च यतिनां ब्रह्मचिन्तनम् । श्रवणादिक्रमेणैव वर्णिनां सन्ततं परम् ॥ ब्रह्मचारि धर्माः

वेदाध्ययनमेव स्यादग्निकार्य च कालयोः । वासो गुरुकुलेष्वेव नित्यं भिक्षाटनं परम् !! बन्धूनां सूतकं तस्य जननान्मरणादपि । न भवेदेव नितरां पित्रोस्तु मरणे पुनः ॥ सूतकं तावदेवस्याद् यावत्तत्क्रियते शुभम् । पिण्डदानादिकं कर्म तत्परं भिक्षयैव हि ॥ प्राणयात्रां प्रकुर्वीत तथाप्येषु दिनेषु चेत् । कुर्यादध्ययनं नैव वासो गुरुकुले भवेत् ॥ एवं मातामहस्यापि तत्पल्याश्च विशेषतः । पितृव्यस्याप्यपुत्रस्य तत्पल्या भ्रातुरेव च ॥ अग्रजस्य च तत्पत्न्याः सपत्नीमातुरेव च । तात्कालिकं सूतकंस्यात् पितृश्राद्धदिनेऽप्ययम्

भैक्षेण पितृशेषं तद् भुञ्जीयादिति तत्क्रमः ॥

यतिधर्माः

मातुर्मा यतेर्धर्मः कर्मणः करणं स्मृतम् । तनयान्तरराहित्ये चयनान्तं च तत्परम् ॥ केचिद्दाहान्तमित्यूचुः तद्दिने केवलं पुनः । करपात्रेण दर्शेऽपि प्राणयात्रा विधीयते ॥

तस्यापि सूतकं तावत् यदा वा कर्म नान्यथा ।

वर्णिनः सूतकाभावः तद्भिक्षानिरतस्य सुः (तु) ॥

तादृशं नियमं त्यक्त्वा विद्यमानस्य सूतकम् । भवेदेव न सन्देहो वर्णिनोऽपि निरन्तरम्

पुनर्ब्राह्मचारिधर्माः

भिक्षाचर्या च तद्धर्मः संतताध्ययनं तथा । नित्यं गुरुकुले वासो वह्निकार्यं च कालयोः ॥ एतान्येव प्रधानानि चैतत्तुल्यानि कानिचित् । अजिनं मेखलां दण्डः कौपीनं शुद्धमम्बरम् मेखला सा त्रिवृत्प्रोक्ता मौजी विरचितायथा ।

कटिसूत्रं तथान्यच जन्मादि द्वादशाब्दकात् ॥oc

[[४]]

मार्कण्डेयस्मृतिः

वस्त्रेण वेष्टनं प्रोक्तं प्रादक्षिण्यक्रमेण तु । द्वित्रिद्विर्वा वेष्टनं स्यात् विधिः स्यात्तदनन्तरम् पश्चात्कच्छपुरः कच्छदशाकच्छादिवर्जितम् । बिभृयाद्वसनं नित्यं यदि कच्छादिसंयुतम् ॥ बिभृयाद्वसनं वर्णी गृहीवद्गर्वमास्थितः ।

निन्द्यो दण्ड्यो वर्जनीयः स सभासु विचक्षणैः ॥ अवकीर्णी समः प्रोक्तः न भिक्षायोग्य उच्यते ।

गृही वस्त्रधरो वर्णी यदि भिक्षार्थमागतः ॥

संताड्य सद्य एवस्याद्यः कैश्विद्दष्टमात्रकः । नास्मै दद्यात्तथा भिक्षां यथाध्ययनवर्जिते त्यक्त्वैव वेदाध्ययनं भिक्षया यस्तु केवलम् । अटन् कुक्षिभरो वर्णी गृहिभिर्धर्मतत्परैः बोधनीयः श्वः प्रभृति भिक्षार्थं त्वं वृथैव रे ।

मुक्तत्वा तु वेदाध्ययनं न समागच्छ मद्म (गृ)हान् ॥ तथाप्ययं यदि पुनः समागच्छेज्जडाकृतिः ।

न संभाष्यः पिधायैव कवाटं निर्दयं भृशम् ॥

तत्पश्चात्तत्पुरस्ताद्वा वेदाध्यायी शुचिर्यदि । समागत्य बहिर्द्वारि भिक्षां देहीति सुस्वरम् समाक्रोशेत्तस्य शीघ्रं समागच्छेति तं स्वयम् । दद्याद्भिसां पूजयित्वा मधुरैर्वचनैरति ॥ तच्छीत्कार भीषयेश्च पुनः शाकादिकं र सम् । तस्मिन् पश्यति दद्याच्च वेदिनेऽस्मै विचक्षणः भुक्तिकाले ब्रह्मचारी मात्रे दत्तं तु साधकम् । अन्नस्य शाकं लवणं सूपभक्ष्यफलादिकम् अत्यल्पमणुमात्रं वा तदानन्त्याय कल्पते । विद्यार्थिने वर्णिने ये कायदा केवलम् तै (?) महौषधं वस्त्रं कौपीनं शयनाय वै । कटिं वा कंबलं वस्त्रं दास्यन्ति च नरोत्तमाः

बेदरूपी स भगवान् पुमान् नारायणो विभुः ।

अत्यन्ततृप्तो निखिलान् प्रददाति मनोरथान् ॥

न(ते) पोषणादन्यो धर्मो लोकत्रयेऽस्ति कः । वेदाध्याय्येव वर्णी स्यान्न शास्त्रादिकृतश्रमः वेदाध्ययनशीलस्य कण्ठान्नाभेरथोर्ध्वतः । यः प्रदेशः स तु किल शुष्कीभूता भवेत् क्षणात् तद्दुःखपरिहाराय यथायं स्यात् क्षुधार्थया । तृष्णया च परित्यक्तस्तथा प्रशमयेच्छतम् अन्नाज्यदधिसूपाद्यः तावन्मात्रेण केवलम् । अश्वमेधस्य यत्पुण्यमवशाल्लभते खलु

ब्रह्मचारिधर्मवर्णनम्

तत्पोषकस्तत्प्रदाता सत्यमेतन्मयोदितम् । वेदाध्यायी तु यो वर्णी सततं तत्परो वसेत् साचारः साग्निकार्यश्च सोऽग्निर्वै कव्यवाहनः । यदन्नं वर्णिकुंक्षिस्थं वेदाभ्यासेन जीर्यते कुलं तारयते तेषां दशपूर्वान् दशापरान् । भिक्षाश्येव भवेन्नित्यं वेदाध्ययनकालके ॥ एकत्रान्नं न भुञ्जीयादिच्छया केवलेन वै । पितृव्यपत्न्या मात्रा च मातुलान्या तथैव च पितृष्वस्रा भगिन्या च गुर्वाचार्यकलत्रकैः । महद्रत्विगुपाध्याय मातामहसती (खी) जनैः दत्तं तु यद्भवेदन्नफलभक्ष्यरसादिकम् । अतिप्रीतिस्नेहपूर्व सर्वं प्राह्यं न चान्यतः ॥ आपत्सु यत्र कुत्रापि येन केनाप्युपायतः । सज्जनेष्वेवोदरस्य पूर्तिमेकत्र शस्यते ॥ बहुस्परान्नागमस्य सिद्ध े सति कदाप्ययम् । नैकत्र प्राशनं कुर्याज्जामिता रहितश्चरत् ॥ दूषितान्नानि सर्वत्र त्याज्यान्येव विपश्चिता । श्रोत्रियान्नानि यत्नेन सेवेतैव सदाचरन् बहु ससु तिष्ठत्सु भक्तिमत्सु सतां तदा । सर्वत्र कालयोनित्यं गृह्णीयाद्भक्षमुत्तमम् ॥ मातृभिक्षातिशस्ता स्यात् गुरुदारविव (स) र्जिता । प्रजावतीकर कृता पितामह्यादिकल्पिता मातुलानी प्रीतिपूर्वप्रदत्ता भगिनीकृता । मातृष्वसृप्रदत्ता या सती साध्वी प्रकल्पिता

तत्सोमपीथि निहस्तविसृष्टा व्रतिनी कृता ।

[[1]]

सर्वा एव सदा ग्राह्या न संत्याज्याश्च सन्ततम् ॥ अतिप्रीत्यैव संप्रायाः पीडयित्वा कदाचन । आक्रोशयित्वा तूष्णीकं गत्वा वापि पुनःपुनः ॥

न संत्यजेत्प्रीतिदत्त दुःखदत्तां परित्यजेत् । बालानां वर्णिनां वेद चेतसामन्य देशिनाम् कृपया याः प्रयच्छन्ति सम्यग्भर्तुरनुज्ञया । पृथुकान् भक्षणार्थाय राजान्विष्टं करम्भकान् विविधानि च भक्ष्याणि गुडं धानापरिक्रकान् ।

चणकान् गुडसंयुक्तान् मुद्गरांस्तिलसुंदरान् ॥

शष्कुली कलिकान् नारान् मुणकान्मुड (र) वान्पुनान् !

गौडान् सात्ययुतान् रम्यान् तान्पुत्रान् दीर्घजीविनः ॥

लभन्ते तनयान्नूनं तेषां चेदवमानतः । विनैव करणं सद्यः चिरादुद्वंशक्षयो भवेत् ॥ प्रतिजन्मनि वन्ध्या स्याद्रण्डा नष्ट प्रजा तथा । वेदार्थी तुष्टिमात्रेण वर्धन्ते सर्वसंपदः ॥

चू

मार्कण्डेयस्मृतिः

अश्विनत्वं कार्पण्यं वन्ध्यात्वं पञ्चवृत्तिता । तथा प्रमादमालस्यं अपमृत्युश्च नश्यति ॥ विद्यार्थी बुद्धिरहितो बाल्येन यदि चेष्टया । कृत्याकृत्यपरिज्ञानवैकल्येन च मौढ्यतः ॥ अश्रुतं दुःश्रुतं वापि पारुष्यं दुष्टभाषणम् । अकार्यमनृतं फल्गु वाक्यं तुच्छप्रभाषणम् ॥ कुर्वन्नपि न निग्राह्यो ज्ञप्तिं यावद्भवेदसौ । स्वपुत्रवद्क्षणीयः षोडशाब्दात्परं तु चेत् ॥

निग्राह्य स्यान्न चेन्नूनं शक्तया पाल्यः सदैव हि ।

·

द्विदशाब्दात्परं वर्णी बुद्धिमान्यदि केवलम् ।

सर्वान् वृद्धान् गुरून् विप्रान् श्रोत्रियान् तत्कलत्रिकान् । afsaat दीक्षितान् पौण्डरीकप्राप्ताख्यकान् सतः ॥

नित्यामिहोत्रिणश्चापि ज्ञानिनो वेदिनश्शुचीन् । शास्त्रिणश्चापि (से) वेतदण्डहस्तश्चरेदपि ॥ नैकत्र प्राशनं कुर्यान्मौञ्जी कृष्णाजिनं धरन् । न लंघयेन्मातृवाक्यं पितृबन्धुसतामपि ॥ गुर्वाचार्यज्ञानिनां च श्रोत्रियाणां च शास्त्रिणाम् । पितृकर्तृकरव्येषु तदाहूतो भवेद्यपि

तािन्नं तु भुञ्जीयात्तद्वाक्यं नातिलंघयेत् ।

नान्यत्र पितृशिष्टान्नमश्नीयात्कामतः स्वयम् ॥

विप्राभावे श्रोत्रियाणां पैतृकेषु निमन्त्रितः । देवस्थानस्थितो हव्यं प्राश्नीयाद्विप्रकाम्यया

आचार्य वाक्यतस्त्वेव न स्वयं त्विच्छया पितुः । विप्राभावे कदाचित्तु श्राद्धकृत्येषु केवलम् ॥

[[1]]

वर्णी कर्तृकमात्रेषु स्थानस्थोऽपि भवेदपि । आपत्सु गृहकृत्येषु प्रार्थितस्तेन चेदपि ॥ स्थानस्थितो भवेन्नूनं न सर्वत्र कदाचन । इच्छया श्राद्धभुग्वण ब्रह्मचर्याच्च्युतो भवेत्

आपत्स्वपि कदाचिद्वा गर्वलोभादिना परम् ।

नक्षत्रजीवी न भवेत् गृही वस्त्रं न धारयेत् ॥

यदि स्यात्तादृशो मूढो रौरवं नरकं व्रजेत् । परेषां सर्वकृत्यानां नायं योग्यो भवेदपि ॥ तद्दोषस्य विनाशाय दिनत्रयमुपोष्य वै । गायत्रीदशसाहस्र’ जपेत्तेनशुचिर्भवेत् ॥ यदि वर्णी शूद्रगृहे आमं पैतृककर्मणि । गृह्णीयात्तावता सद्यः पुनः संस्कारमईति ॥ खादयेद्यदि ताम्बूलमवशादिच्छया सकृत् । त्रिरात्रयावकाहारः पञ्चगव्येन तत्परम् ॥

प्रायश्चित्तप्रकरणम्

चतुर्थेऽहनि शुध्येत धेनोर्दक्षिणया तथा । गन्धधारणतः पुष्पधारणाच्छिरसा सकृत् ॥ सद्यः शूद्रत्वमाप्नोति तस्य शुद्धिरियं स्मृता । समुद्रगानदीस्नानदशकं जप एव च ।

षट्सहस्रं च गायत्र्याः नैष्ठिकी ह्यत्र दक्षिणा ।

भुक्तिका वर्णिनां स्यादयं धर्म ( : ) पितुगृ है ॥

ललाटबाहु मूलस्थानेऽल्पेनैव केवलम् । स्याच्चन्दनेनानुलिप्तस्तद्वत्तेनैव नान्यथा ॥ माता पिता वा पुत्रैवात्सल्येन महेष्वपि । हिरण्यरत्नरजतभूषणालंकृति यदि ॥ कुर्यातां तस्य दोषो न तदन्ते च पुनस्त्यजेत् । पितृमातृकृतं यत्तद्वर्णिनामधिकोत्सवे ॥ स्वर्णालंकरणं रत्नरजतादिकृतं तथा । श्रेयस्कारकमित्येव प्रवदन्ति मनीषिणः ॥ सुगन्धपुष्पाञ्जनतः सद्यः पतति तत्क्षणात् । स्वधृतात्कामकारेण वर्णी त्वादर्शनादपि

आदर्शस्येक्षणादस्य चित्तं शास्त्रं विनिश्चितम् ।

त्रिषा (सा) हस कगायत्री जपं एव न चापरम् ॥

शरीरोद्वर्तनात्सद्यः वर्णी स्यात्किल्बिषी क्षणात् । तद्दोषपरिहाराय गायत्र्यष्टसहस्रकम् ॥ नदीनानात्परं शुद्धः जपेत्सूर्यमुखस्थितः । दन्तधावनतस्त्वेवं सकृत्काष्ठमुखेन चेत् ॥ गुरुद्रोहमवाप्नोति दुर्मा च भवेदपि । तस्य चित्तमिदं होयं ब्रह्मकूचं विधानतः ॥ एकरात्रोपवासश्च ब्राह्मणत्रयभोजनम् । वेदे श्रमं विनान्यत्र करोति यदि वाडवः ॥ सद्यः शूद्रत्वमाप्नोति विप्रत्वेन च हीयते । परिहारस्तु तस्याथ येन केनाप्युपायतः ॥ शाखामात्रं साधयेद्वा शिष्टं वामास्तु तावता । नष्टं तद्यत्तु विप्रत्वं विरोहत्यपि तावता उपनीतो ब्रह्मचारी वेदत्यागप्रपूर्वकम् । कुर्यात्तर्के श्रमं तेन वैणत्वं प्रतिपद्यते ॥ काव्यालापादि पठनात् सन्ध्यात्यागैकपूर्वतः । यवनत्वमवाप्नोति कालसूत्रं च गच्छति

नाट्यालंकार भरतज्योतिशिल्पिरसादितः ।

वणीं च्युतस्तु मुण्डित्वं रजकत्वं च विन्दति ॥

पुराणस्मृतिसु (मा) त्रार्थज्ञानयत्नेन केवलम् । लेख्यत्वगणकत्वाभ्यां सूतत्वं प्रतिपद्यते ॥ तस्माद्विजो जातमात्रः कृतोपनयनस्ततः । कृतवेदारम्भणोऽयं श्रावण्यां तु गुरोर्मुखात्

स्वाध्यायोsध्येतव्यः स्यादिति वेदानुशासनम् । काण्डोपाकरणे चापि काण्डानां च समापने ॥

[[८]]

मार्कण्डेयस्मृतिः

श्रावण्यामपि तेषां स्याद्वर्णिनां क्षुरकर्म तत् । क्षुरं यथाहिताग्नीनां प्रतिपर्व श्रुतीरितम् ॥ तथोपाकरणे चापि तत्समापनकर्मणि । क्षुरकर्म च संप्रोक्त’ सर्वेषां ब्रह्मचारिणाम् ॥

नान्यकालस्तस्य तेषां आकण्ठं तच्च कीर्तितम् ।

न नखानां कृन्तनं स्यात् न दतांधावनं तथा ॥

एकोच्छ्वासद्वादशावगाहनं तस्य पावकम् । स्थानमेतादृशं सर्ववर्णिनां सन्ततं स्मृतम् क्षुरमागे मृत्तिकायाः स्नानं पश्चात्पुनः स्मृतम् । मन्त्रस्नानं पुनः कार्यमघमर्षणपूर्वकम् ॥

यदि वर्णी गृही कर्म क्रियमाणं करोति चेत् ।

सुखमिच्छन् जडो दुष्टो प्रायश्चित्तीयते किल ॥

गोमयहृदसंलीनः याममात्रं दिनत्रयम् । पुनश्च यावकाहारः पक्षमात्रं हरिं स्मरन् ॥ पुण्डरीकाक्षमनुतः दशसाहस्रसंख्यया । मासमात्र द्विषा (सा) हस्र जपतः शुद्धिमाप्नुयात्

काण्डाः स्युर्नवसंख्याकाः प्राजापत्याः महत्तराः । सौम्यास्तद्वत्प्रकथिताः आग्नेयाः सप्तकीर्तिताः ॥ वैश्वदेवाः पोडश स्युः शिष्टाः कारकमध्यगाः । एवं चतुश्चत्वारिंशत्संख्याकाः वेदकाण्डकाः ॥

उपक्रमोत्सर्जनयोः तेषां तत्क्षुरकर्म वै । वर्णिनां कथितं सद्भिर्धर्मौ झवादिभिः ॥ संहिताध्ययनं पूर्वं पदाध्ययनमेव वा । पश्चात्क्रमस्याध्ययनं तत्र यं चार्थसिद्धये । संहिताध्ययनात्पूर्व पदानां संशयो भवेत् । पदाध्ययनमात्रेण क्रमस्याध्ययनं विना ॥

समीचीना संहिता स्यात् कथं तस्मात्तु तत्त्रयम् । सम्यगध्ययनं कुर्यान्न चेद्र कल्पता भवेत् ॥

संहिताऽध्ययनान्मन्त्रमात्रसिद्धिर्भविष्यति । तदर्थज्ञानसिध्यर्थं पदाध्ययनमुच्यते ॥ पदसन्धिस्वराणां च योगस्य पदवर्णयोः । सिद्धयर्थं तत्क्रमस्यास्याध्ययनं विधिपूर्वकम् चोदितं तद्रहस्य योस्तु पदयोः पुनः । वारत्रयोच्चारणैकरुपाया वेदकर्मणः ॥ अनुष्ठातुमशक्तानां वेदिनां केवलं तराम् । प्रधानयोगारम्भस्य हेतुभूतासु तासु वै ॥ सामिधेनीषु तद्द्दक्षु तासु पञ्चदशस्वपि । प्रथमोत्तमयोर्यागे त्रिवाहेति विधेर्बलात् ॥

अवकीर्णि ब्रह्मचारिप्रायश्चित्तवर्णनम्

ε

त्रिः प्रथमामन्वाहेति वाक्यतस्तु त्रिरुत्तमाम् । शंसनीयस्य कार्यस्य यत्फलं जायते तदा महानपूर्वः कलिहा तत्तुल्यफलसिद्धये । जटैषा श्रुतिवाक्येन वेदे वाजसनेयके ॥

प्रोक्ता सैषेत्युपक्रम्य तस्मात्कृत्स्नस्य तस्य वै । सम्यगध्ययनं प्रोक्तं तत्तत्त्वज्ञैर्महात्मभिः अवकीर्णिब्रह्मचारिप्रायश्चितम्

गर्दभालम्भनम्

ब्रह्मचारी यदि हठात् प्रमादाद्वाऽतिमोहितः । रमामुपेयात्पापी स्याद्ब्राह्मण्याच्च्यवते च सः ॥

प्रायश्चित्तमिदं तस्य गर्दभालम्भनं स्मृतम् । तदालम्भनकृत्यस्य वह्नीनां सिद्धयेऽस्य वै ॥ कुर्यान्नैमित्तिकाधानं सर्वसंभारवर्जितम् । अरण्याहरणादि स्यात्तथा ब्रह्मौदनं च वै तदग्निकार्यं वहौ स्वात्तदिष्ट्यन्तं समाचरेत् । तदग्नौ तं पशुं कुर्याद्य पस्तत्र तु वैणत्रः ॥ वैकंकता लोहितो वा पाशुकं कर्म तत्र तत् । भवेदेव विधिस्तस्य कृत्स्नः शिष्टोऽपि वेद्गः for (a) पिधानी सा कार्या दध्ना क्षीरेण वा तथा ।

मधुना वाम्भसा नैव विशेषोऽयं प्रकीर्तितः ॥

सर्वेषामवदानानां होमः कृत्स्नो भवेत्पुनः । स्रुचः सर्वाः पूरयित्वा विधिनैव पुनःपुनः

पुरोऽनुवाक्या याज्याभ्यां याजमानोक्तिपूर्वकम् ।

न विद्यवृष्टिरत्रास्ति सर्वमन्यत्समं भवेत् ॥ प्रत्येकं शतनिष्काणां दक्षिणा चात्र चोदिता ।

कर्मान्ते ऋत्विजां षण्णां क्षुरकर्मप्रपूर्वकम् ॥

अवगाहस्तु विहितः ब्रह्मकूचं च धर्मतः । प्रसर्पकाणां सर्वेषां दिनत्रयमुपोषणम् ॥ : तद्वह्निशमनात्पश्चात् ऋत्विजस्तत्र वाडवैः । दशभिस्तत्र तद्भूमेः शुद्धये शान्तिकर्म तत् आरभेयुर्विधानेन बौधायनविधानतः । क्रियामुकशान्ताख्यां तत्परं निखिला अपि ॥ स्नात्वा तन्मन्त्रसलिलैः धृतयज्ञोपवीतिनः । स्नानतच्छिष्ट सलिलैकदेशेन ततः पुनः ॥

आपः पुनन्तु पृथिवीमिति मन्त्रेण तद्भुवम् । प्रोक्षयित्वा विधानेन तद्भूमिं तदनन्तरम् ॥

[[१०]]

मार्कण्डेयस्मृतिः

आत्मानं पृथिवीं चापि पृथिवी पूता पुनातुमाम् । इत्यनेनैव यजुत्रा तज्जलोक्षणपूर्वकम् अभिमन्त्रयते चात्मानं पृथिवीमपि शुद्धये । दश ते ब्राह्मणान् पश्चात् पुनन्तु ब्रह्मणस्पतिः इत्यनेनैव मन्त्रेण ऋत्विजस्तान्विधानतः । षडपि प्रोक्षयेयुश्च पतिरत्र वदन्त्विदम् ॥ जात्येकवचनं कथितं शाखायाः पतयस्त्विमे । अनिर्वायुश्च सूर्यश्व ब्रह्मा चैव प्रजापतिः चन्द्रमाः स्यात्ततो भूयः नक्षत्राणि तपश्च वै । संवत्सरश्च वरुणश्च चरमोऽरुण एव च ॥ एकादशैते तद्ददेवाः पतयश्चापि ते स्मृताः । ते ब्रह्मणः पुनन्त्वेवं द्वितीया ब्रह्मणः पदम् ॥

ततो भूया ऋत्विजस्तु व्याहृत्युक्तिप्रपूर्वकम् ।

तद्यागनिखिलान्मन्त्रान् पुरोक्तान् तन्निमित्ततः ॥

आदितः क्रमतो जवा तद्विज्ञानात्तु संनिधौ । अनन्तर स्थितं मन्त्र ब्रह्मपूता पुनातु माम् जपेयुरविभक्तयैव पूतात्रत्यं पदं तथा । अव्ययं ब्रह्मणोऽत्रत्यपदस्यैव विशेषणम् ॥ एवं चतुर्णा मन्त्राणामत्रत्यानां विधानतः । विनियोगः प्रकथितः प्रसंगान्तदनन्तरम् ॥ यदुच्छिष्टेति मनुना प्राशयेयुश्च तज्जलम् । शिष्टं कुम्भ स्थितं पूतं तन्निष्कृतिरितीरिता एवमत्यन्तकृच्छ्रं स्याद्वर्णिनश्चित्तमुच्यते । एतावन्मात्रमेवं स्याच्चित्तं तु ब्रह्मचारिणाम् एतस्य भूयस्त्वधिकं चरितं यदि वै तदा । न शक्यते विधानाय प्रायश्चित्तासहस्वतः ॥, अथापि ते पुनर्ज्ञेया ब्रह्माण्डकटहादिभिः । महादानैः पवित्राः स्युरित्येवं ते महर्षयः ॥ दयावन्तो ब्रह्मविदो जगुः किल समासतः । अत्यन्तकठिनं तादृगंनुष्ठानं महाधनैः ॥ कर्तुं शक्यं प्रभवति यतिश्चेदेषु कर्मसु । पतितस्त्वेव कथितः निष्कृतिस्तस्य नैव च । आरूढ पतितो शेयः पुनरुद्धरणाक्षमः । आश्रमेषु तु सर्वेषु प्रवरस्सुलभोगृही ॥ प्रायश्चित्तमश्चापि चित्तं चास्यातिसुक्षमम् । अत्यन्तसुलभं चापि गृही तस्माद्वरः परः तरत्यसावुपायेन संसारं दुर्गतिं पराम् । अज्ञानं वृजिनं घोरं तरणस्यास्य भूरिशः ॥ उपायाः सुलभा रम्या ते चात्रापि समासतः ।

निरूप्यन्ते केचिदत्र कृच्छ दानादिरूपिणः ॥

क्रियातपोजपस्वाध्यायादिरूपाः परे पुनः । तेष्वत्र सुलभोपाया बहच पास्तिस्वरूपकः श्रुत्युक्ता ब्रह्मविज्ञानहेतुभूतोऽद्भुतः परः । स एक एव नितरां मुक्तयेऽलं नरस्य वै

[[11]]

एकविंशतियज्ञवर्णनम्

[[११]]

वह पास्तिर्बहुविधा श्रुत्युक्ताखिलशास्त्रगा । एकविंशतिभेदेन कीर्तिता यज्ञनामकाः ॥

एकविंशतियज्ञाः

ते यज्ञास्त्रिविधाः प्रोक्ताः पाकयज्ञादिनामकाः ।

हविर्यज्ञाख्यकाश्वेति सोमसंस्थाह्वयास्तथा ॥

एते नित्या इति प्रोक्ताः करणेऽभ्युदयावहाः । चित्तशुव्यैक करणास्तद्वारा ज्ञानसाधकाः अकरणेऽत्यन्तदोषाणामालया नरकप्रदाः । तस्मादेतानि कर्माणि नरः कृत्वा प्रमुच्यते ॥ क्रमेणैतानि विधिना कृतानि मनीषिभिः । यावज्जीवं च धर्मौः अन्यूनानतिरिक्ततः जन्मन्यस्मिन् महद्ज्ञानं चित्तशुद्धिमुखेन वै । जायते मननस्यापुनर्जन्मान्तरं ध्रुवम् ॥

पश्चान्निदिध्यासनस्य पुनर्जन्मान्तरं भवेत् ।

सायुज्यं च भवेत्तस्मिन्निदिध्यासनजन्मनि ॥

अत्यन्त सुलभोपायः मार्गोऽयं वेदबोधितः । औपासनोपक्रमदिवसमारभ्य तत्क्रमात्

कर्माणि यानि चोक्तानि नित्याख्यान्यधुना मया ।

कृतानिचेत्तत्क्रमेण ब्राह्मणस्य महात्मनः ॥ जननेभ्यश्चतुर्भ्यः स्यान्मुक्तिस्सायुज्य संज्ञिका ।

तत्तत्कर्मानुष्ठानस्य यकिंचिद्वाऽधिकं तु वा ॥

वैकल्यमन्तरायो वा यदि जायेत वै पुनः । जननेभ्यश्चतुर्भ्यो न भवेन्मुक्तिस्तु किं पुनः

जन्मानि कानिचिद् भूयो लब्ध्वा कर्मानुरूपतः । प्रतिपक्षकृताभ्यां वै यावज्जीवं समन्त्रतः ॥

मुक्तिसा जायते नूनं ब्राह्मणस्यैव धीमतः । श्रवणं मननं चापि निदिध्यासनमेव च ॥ श्रुतिवाक्यैगुरुमुखात् भवेयुः किल नान्यथा । अधिकारी श्रुतेर्यस्तु सहि मुल्यैकभाजनम् श्रुतिं विना न मुक्तः स्यादयमेव महान् परः । मार्गोऽयं कथितः सद्भिस्तया श्रुत्या च सर्वतः न कर्मणा न प्रजया न संन्यासेन दानतः । तपसो धनतो वापि नापि तीर्थादिचर्यया ॥ तान्येतानि च सर्वाणि साधकान्येव केवलम् । परंपरतया साक्षान्नैवेति श्रुतिराह हि

[[१२]]

मार्कण्डेयस्मृतिः

एतन्मार्ग विना मुक्तर्न तु मार्गान्तरं क्वचित् । ज्ञानमेव परो मार्गः श्रुतिवाक्यैकजं तु तत् ॥

[[1]]

औपासनाश्चित्तशुद्धिजन्मभिस्त्रिशतैर्भवेत् । कालद्वयकृतान्नित्यं प्रातस्सायं विधानतः दर्शेण पौर्णमासेन जन्मभिखिशतैस्तथा । चतुःशतैर्जन्मभिः स्यात् तदाप्रयणकर्मणा ॥ पञ्चाशदुत्तरशत जन्मभिः स्यान्मृता तया । मुक्तिरष्टकयादिव्या मासिश्राद्ध ेन तत्परम् तदेवेति मनुं प्राह सर्पबल्या ततः परम् । तस्त्रिंशदुत्तरशतजन्मभिः सेति चार्यमाः ॥ एतेषां कर्मणां प्रतिवर्ष चावृत्तिरिष्यते । कर्मणः सप्तमस्याथ नावृत्त प्रतिवत्सरम् ॥ एकवारं जन्ममध्ये करणं तस्य वैधतः । मासि श्राद्धस्य चेत्प्रतिमासं चेति पितामहः ॥ श्रुतिस्मृतिपुराणानि शास्त्राणि च तथा जगुः । प्रतिसंवत्सरं चैकवारं वालमितित्रयः ॥ कात्यायनः करुगया कण्वः कुत्सा वन् खलु । तस्य शूलिंगवस्यास्य करणादेकदैवहि ॥ सर्वक्रतुफलं सद्यः सर्वतीर्थावगाहनात् । सर्वत्रतानुष्ठानाच्च सर्वकृच्छ्र कचर्यया ॥ सर्वदानशताच्चापि यत्फलं तत्फलं क्षणात् । अवशादेव लभते पञ्चाशजन्मभिः शिवा चित्तशुद्धिर्भवेदेव संशयो नात्र वच्मि वः । अग्निहोत्रादिभिस्तैस्तु हविर्यज्ञः श्रुतीरितैः ॥ शताशीतिनवत्येक षष्टित्रिंशद्वयोरपि । पञ्चाशदेकपश्चाशत् संख्यया सेति निश्चयः ॥ त्रिंशदेकोनत्रिंशत्क सप्तविंशतिवाधकैः । लाघराघय धैरेवं (?) चित्तशुद्धिरिति श्रुतिः ॥ इत्येवं भगवानाह देवदेवः प्रजापतिः । कृतानि कर्माण्येतानि नित्यनैमित्तिकान्यपि ॥ महात्पापसंज्ञात विघ्नैर्नान्तरितानि चेत् । उक्तकालैकफलदानि स्युरत्र न संशयः ॥ न चेत्कर्मानुगुण्येन फलदानि भवन्ति हि । अतः सदा सत्कर्माणि कुर्वन्नित्यमतन्द्रितः

त्यक्त्वैव सन्ति कर्माणि जाम’ तिष्ठेदतन्द्रितः ।

अतरसत्कर्मणः स्याद्धि चित्तशुद्धिरनुत्तमा ॥

उक्त कालेनाचिरेण मुक्तिर्ह्य त्यन्तदुर्लभा । ब्रह्मादीनां निर्जराणां ते परंत्बधिकारिणः ॥ ते ज्ञानिनोऽपि नितरां महदैश्वर्यचेतसः । कर्माणि चक्रुः श्रुत्युक्तकाम्यनैमित्तिकान्यपि

तदिच्छयातस्ते सर्वे ज्ञानिनोऽप्यधिकारिणः ।

जीवन्मुक्ता इति ज्ञेयाः शुद्धचित्तेन ये विभुम् ॥

गृहस्थप्रशंसावर्णनम्

[[१३]]

भगवन्तं यजन्ते वै कामनारहिताः शिवाः । कृतकृत्यास्तु ते ज्ञया गुह्यमेतन्मयोदितम्

गृहस्थाश्रमप्रशंसा

सर्वार्था गृहिणो नित्यं सिध्यन्ति च फलन्ति च ।

अतस्तथाविधस्स सततं ब्रह्म चिन्तयेत् ॥

कलौ तु केवलं वच्मि गार्हस्थ्यं ह्य ुत्तमोत्तमम् । ततस्सन्नेव यत्नेन कृतकृत्यो भवेदिति श्रुतेस्तदूहृदयं नूनं चतुर्थाश्रमतस्तु चेत् । अवशादेव निपतेदारूढपतितस्स तु ॥ तस्माद्गृही सन् सततं कर्मत्रह्मपरो भवेत् । यद्यप्यस्मिन्नाश्रमे तु वैकल्ये सति केवलम्

निष्कृतिस्सुलभा दृष्टा सर्वशास्त्रत्रेषु नैकधा ।

आदाव विद्वान् गार्हस्थ्ये विद्यमानोऽप्ययं सदा ॥ अशुचि बुद्धिर्वा पित्रा बाल्येऽप्यशिक्षितः । तेनापि मौन्यान्मोहाद्वा वेदाध्ययनवर्जितः ॥ किंचित्किचित्तत्तत्सन्ध्यामुखकर्मादिकृत्तथा ।

शौचाचारादिहीनोऽपिपुनस्तन्मानसोऽप्यति ॥

पुनरसज्जनतद्वाक्य सदाचारादिभिर्युतः । पञ्चयज्ञापरित्यागी सदोपासनवर्जितः ॥ पितृमातृसुहृद् भ्रातृ गुरूनिन्दैकमानसः । पुनस्तद्भक्तियुक्तश्च दैवयोगात्तदा तदा ॥ नित्याशुचिः कामचारी नित्यं सज्जनबाधकः ।

शौचबुद्धिः सदाचारः मनोमात्रश्च केवलम् ॥

प्रीत्यप्रीतिस्सज्जनेषु कालभेदेन सन्ततम् । जनपीडापोषणैक मानस ( : ) काल भेदतः ॥ पुण्यपापपरिज्ञानवानस्पत्यन्तदोषकृत् । स्वकार्यैकपरत्वेन कृत्याकृत्यादिवर्जितः ॥ स्वकार्यसाधने प्राप्ते गुणदोषाद्यचित्तकः । स्वत्रन्धुवर्गसन्मित्रकुल स्त्रीगुह्यसंगकृत् ॥ स्वमित्रजनसद्द्रव्य कृतव्यामोहमाय्यति । बहिर्महानदीस्नानतत्परोऽपि प्रभुत्वतः ॥ यत्नावलोकन विनिर्गमनद्वयवानति । अपि वैदिककर्मोघमानसोऽप्यलसः पुनः ॥ जनवाक्यै कसं प्राप्त सत्कर्मस्वतिभक्तिमान् । अक्षम (:) कर्म कालेषु संप्राप्तेष्वतिलोभतः ॥ अत्यालत्या दिनात्यन्तनित्य चापल्यतस्तथा । कर्मोपयुक्ततन्मात्रसन्ध्यास्नानादिमात्रकः१४

मार्कण्डेयस्मृतिः

[[1]]

मन्त्रोच्चारण सामर्थ्य विकलचाखिलेष्वपि । कर्तव्यबुद्धिमात्रै कमानसस्सिद्ध(द्धि) वर्जितः सत्क्रियाकरणश्रद्धामात्रस्तत्करणालसः । अलब्धसत्क्रियादुःखपरितप्तमनाः पुनः ॥ दुष्ट निग्रह शिष्टैक पूजनज्ञानवानपि । तत्क्रियाकरणालस्यजामिता परहृत्तदा ॥ सदसज्जनसुज्ञानवानप्यत्यन्त दौष्ट्यतः । कार्यानुगुणदौर्जन्यतत्परो नितरां सदा ॥ सत्पक्षपातरहितः कदाचिद्द वयोगतः । तत्पक्षपाती भूयश्चाव्यवस्थितचरित्रकः ॥

भूयोऽप्यनेक दौर्जन्यसौजन्यद्वयशीलवान् ।

अप्यस्य गृहिणस्ततुमुपायाः शतशः किलः ॥ सन्त्यन्यस्य यतेश्चेत्तु कश्चित्कुत्रापि नास्ति हि । पूर्वोक्तस्यास्य कमपि चैकं वक्ष्यामि सुन्दरम् ॥

द्विमुखोदकपात्रप्रशंसा

उपायं तत्र शृणुत भवथाद्यक्षणेन वै । द्विमुखोदकपात्राम्भः स्थालीगोकर्णतो यदि ॥ सकृत्कृतं त्वाचमनं पावयेदिति पापिनम् । एतज्जन्मकृताकृत्य शतसाहस्रकोटिहम् ॥ पूर्वैतत्कृतसत्कर्म मध्यवैकल्यवारहम् । कृतापेयसहस्रौघमहाविलदवानलम् ॥ अनेक ब्रह्महत्यौध नियताबु दवृन्दहत् । भ्र ूणहत्यावीरहत्या संदोहशतपावनम् ॥ गुरुपत्नीकृतमनस्संगसंग तिवारकम् । सखिस्वामिकृतानेक महद्रोहातिभीतिहम् ॥ विश्वासपातकानेक समुद्रार्बुदतारकम् । विषामिदानशतक दूरीकरणसुक्षमम् ॥ अपात्रीकरणानेकमहागभ्य (?) तरक्षकम् । जातिभ्रंशाख्य सुमहदेनोवृन्दागसत्पविः ॥ यावज्जीवमहासप्त गंगास्नानफलप्रदम् । संकलीकरणानेककुलकोटिहलाकृति ॥ मलिनीकरणाख्यैकमहाविन्ध्यैककुम्भजः । प्रकीर्णकमहापापतमोवृन्ददिवाकरः ॥ आजन्मपुष्करमहासलिलस्नानसंमितम् । गंगाब्धिसंगकीलालसहस्रस्नानकारकम् ॥ चापाकोटिसहस्रावगाहनमहाफलम् । ज्योतिष्टोमातिरात्राप्तोर्यामयज्ञफलप्रदम् ॥ वाजपेयमहाराजसूयादिफलहेतुकम् । क्रतुराडश्वमेधाख्यशतस्तोमविभूषितम् ॥ सर्वकृच्छ्रफलं सद्यः सर्वत्रत फलप्रदम् । सर्वतीर्थक्षेत्र देवस्थाने क्षणफलादिकम् ॥. एवमादिगुणैर्युक्तं तदाचमनमुच्यते । अलप्रवेशास्ययुग्मपात्रे तीर्थानि भूतले ॥

के

द्विमुखोदकपात्रप्रशंसावर्णनम्

[[१५]]

षट्कोटिकोटिसंख्यानि पुष्करादीनि केवलम् । गंगायाः सरितः सप्त समुद्रा गिरयस्सुराः ऋषयः पितरोयक्षाः वेदामन्त्राः सवाशिवाः । स्वयमेव वसन्त्येते पातु तद्धारिणं नरम्

प्रजापतिः प्रजाः सर्वा पूर्व सृष्ट्वा ततो विभुः ।

ततुमासामुपायज्ञो द्विमुखं पात्रमुत्तमम् ॥

कल्पयित्वा सर्वतीर्थनिलयं देवतालयम् । वेदावासं शास्त्रमूलं यज्ञकृच्छ्रतपःक्षयम् ॥ तत्कृत्वानेन ताः पापाः प्रजास्सर्वा निरीक्ष्य वै । अनेन यूयं तरत पात्रेणेति जगद्गुरुः प्रोवाच किल तस्मात्तु तत्पात्रं तादृशं शिवम् । यत्र वा वर्तते तत्र नैव पावकथा खलुं तद्यमो भगवान् पश्चाच्चित्रगुप्तेन बोधितः । अत्यन्तसूक्ष्ममेतत्तु गुह्यमेव चकार हि ॥ तस्मात्तु सर्वे मनुजाः भूतलेऽस्मिंस्तदादि वै । न जानन्ति किलैतस्य महत्वमतिगोपितम् कालेन मृत्युना भूयो यमदूतैः पदेपदे । अतिगुप्तं प्रतियुगं प्रतिसंवत्सरं पुनः ॥

तस्माद्विमुखसंपातस्थाल्यास्वीकृत्य तत्पुनः ।

गोकर्णेन क्रियां कुर्युः तेषां नास्त्येव पातकम् ॥

तादृशं दिव्यमुदकं खड्गपात्रेण ये पितॄन् । समुद्दिश्य क्रियां कुर्युस्तेषां लोका महोदयाः पितरो नित्यतृप्ताः स्युः गयाश्राद्ध ेन चेद्यथा । शुद्धगोकर्णगजलं न प्राकृतसमं भवेत् ॥ नदीतटाकादिगतं यथा तेन समं भवेत् । न तूद्धृतसमं चेति प्रोचुः किल महर्षयः ॥

द्विमुखाम्भःपात्राभेद्गतं कृत्वाऽथ गोमुखात् ।

स्वीकृत्य सर्वं यत्कृत्यं कुर्याद्यदि विधानतः ॥

सर्व तरति दुष्कृत्यं यः कश्चिद्विजनामकः । ज्ञानाज्ञानैकनिरतः कर्मठाकर्मठः पुनः ॥

श्रद्धा श्रद्धाभक्तिभक्ति विद्याविद्यादिमध्यमः ।

अमन्त्रमन्त्र तत्तत्वातत्वाभ्यामपि मध्यमः ॥ श्रुताश्रुताभ्यां नितरां संशयासंशयात्मवान् । निश्चयानिश्चयात्मा च कृतार्थः स्यादनेन वै ॥

ज्ञातासुखेन तरति स्वयमेव महामनाः । अज्ञातापरबुध्यैव केवलं शुद्धचेतसा ॥ एकमार्गस्तरत्येव मध्यमस्तु महाजडः । स्वस्यापि निश्चयो नास्ति सर्वकार्येषु संततम् ॥

[[१६]]

मार्कण्डेयस्मृतिः

परप्रोक्ता तु न श्रद्धा दुर्वैदग्ध्येन जायते । तस्मात्तु तादृशस्यास्य मध्यमस्याचलात्मनः तरणं न कदाचित्स्यात्तादृक् तरणचोदना । अत्यन्तदुर्लभैव स्यात्तादृशी सेयमीरिता ॥ ताम्रण द्विमुखे पात्रे कृतेऽत्यन्तं तु वैदिकम् । कर्मजालं सद्य एव पुष्कलत्वं प्रपद्यते ॥

कांस्येन चेत् काम्यकर्म जातं साद्गुण्यमश्नुते ।

नैमित्तिकं दुर्वर्णेन सर्व हेम्नेति निश्चयः ॥

तादृक् पात्रस्य कृतितः कृत्यानि निखिलान्यपि । वैदिकानि प्रनृत्यन्ति प्रमदेन युतानि वै ।

ताकायेणोक्तरीत्या सर्वतोमुखतोऽस्य च । नित्यादिकर्मकरणे किंवा जानाम्यहं परम्

द्विमुखान्तर्निस्सृतस्य सलिलस्यास्य केवलम् ।

एकः साधारणो धर्मोः मुख्यतः प्रतिपादितः ॥

सर्व कमैककल्य प्रत्यवायस्य यद्भवेत् । राहित्यं तेन वशिष्ट्यकरणत्वं महर्षिभिः ॥ बहुना किं तत्तु सम्यवनिश्विनुताऽधुना । लोके सत्कर्ममात्रस्य द्विजमात्रकृतस्य वै ॥

वैकल्यशून्यकरणात्साद्गुण्यकरणादपि ।

किमस्त्यन्यन्महच्छ्रीमच्छ्र यो मर्त्यस्य भावुकम् ॥

मंगलं वा भगो वापि श्रीलक्ष्मीरनश्वरा । उपायो निरपायोऽयमत्यन्तसुलभः पुनः ॥ देहिमात्रस्यापि दिष्ट एवमन्येपि तान्पुनः । समासेन प्रवक्ष्यामि तत्रादौ प्रथमा परा ॥ व्याहृतिस्तारकापश्चात् गायत्री त्रिपदा शुभा । द्रुपदा सर्वमन्त्राणां शिवसंकल्प एव च

पापहरमन्त्राः

मधुत्रयं नाचिकेताः पुर्वसूक्त तथोत्तरम्। पश्चाक्षरोऽष्टाक्षरश्च द्वादशार्णः परात्परः ॥ वामनारायणौ शब्दौ पुण्डरीकाक्ष एव च । विष्णुकृष्णशिवाः शंभुमहादेवमद्देश्वराः ॥ नामत्रयं महामन्त्रं वासुदेवोहरिस्तथा । हर भर्ग मृडेशान गंगाधर भवेश्वराः ॥ चन्द्रशेखर भूतेश गिरीशवृषवाहनः । सर्वज्ञो धूर्जटिश्चैव ब्रह्मति भगवानपि ॥

ते सर्वे पृथक्स्वेन तारकाणि जगद हाम् । स्मृतिमात्रेण सर्वेषां यावज्जीवं यतात्मनाम्

वेदप्रशंसा

[[१७]]

अत्यन्त सुलभान्येव यन्नसंकल्पशून्यतः । उपदेशादिराहित्यात् कालदेशाद्यभावतः ॥ अशुचित्वाद्यभावाश्च सर्वसाधारणादपि । नामान्यन्यानि दिव्यानि पवित्राणि जगत्पतेः

असंख्यकानि पुण्यानि नित्यं शक्तानि पालने । अत्यन्तपापिनो घोरान् पातुं शक्तानि देहिनः ॥

स्मृतिमात्रा दुक्तिमात्रा (द) गानतः श्रवणादपि ।

एतेभ्योऽन्ये पुनस्सन्ति ये किंचिद्यत्नतोऽधिकाः ॥

नमकं चमकं पुण्यं पापमन्यः परात्पराः । कूश्माण्ड्यो वामदेव्यं च शाकरं च रथंतरम् ॥ बृहत्पवित्रं सुमहत् गायत्रं पावनं महत् । तिर ( : ) पवित्रं सर्वेड्यं क्ष्मापवित्रं गणास्तथा एतेभ्योऽयधिकं शाखामात्राध्ययनमेव हि । तेन चेदतिशीघ्रण नरस्तरति केवलम् ॥ वेदवत्तरणोपायो नान्योऽस्ति जगतीतले । विजानतो ब्राह्म गस् तस्मान्नित्यं द्विजोत्तमैः अध्येतव्यः प्रयत्नेन वेदो नारायणात्मकः । वेदाध्ययनराहित्ये शाखामागेऽपि वा द्विजः शनैः शनैश्च व्यवते ब्राह्मण्यान्नात्र संशयः । च्यवनं दोपयुक्तत्वं विच्छेद द्वेदिवेदयोः पुरुषत्रयमात्रस्य कथितं ब्रह्मवादिभिः । हरिनामानि यावन्ति कथितानि महात्मभिः ॥ ‘वेदशास्त्रपुराणादिप्रसिद्धान्यपि कृस्तशः । तावन्ति चैकवेदार्ण तुलितान्यखिलान्यपि वेदप्रशंसा

अतो हि ब्राह्मणानां सः स्वाध्यायो धनमुच्यते । प्रसिद्ध धनतस्यैतत् कथितं सुमहद्धनम् धनं तु विनियोगेन निधनं प्रतिपद्यते । वेदाख्यं परमं श्रीमद्धनं लोकोत्तरं यतः ॥ विनियोगेन नितरां अतिवृद्धिं प्रपद्यते । प्रतिक्षणं प्रतिदिनं प्रतिमासं तथैव च । सम्यक्प्रत्ययनं प्रतिवत्सरं दृश्यतेऽपि च । द्विजमात्रस्याधिकारो वेदेनान्यस्य कस्यचित्

तत्रापि संस्कृतस्यैव सम्यक् तज्जातकादिभिः । शुचिस्नातस्य नितरां कृतसन्ध्यादिकस्य वै ।

वेदाध्ययननिमित्तानि

विशेषदिवसेष्वेव न तु साधारणादिषु । तेषु चापि न साध्यादिसमयेषु कदाचन ॥

[[२]]

[[१८]]

मार्कण्डेयस्मृतिः

राष्ट्रक्षोभे जनक्षोभे शत्रुराजादिपीडने । शवारात्पापसंघाते बन्धूनां मरणे तथा ॥ विपत्तौ श्रोत्रियमृतौ संकटे समुपस्थिते । आगमे श्रोत्रियाणां च विदुषां श्रीमतामपि ॥ यतीनां योगिनां चापि गुरूणां च समागमे । द्वयोर्विषुवयोरेवं प्रहणे चन्द्रसूर्ययोः ॥ समग्रमा त्रिदिनं तस्मिन्नप्ययनद्वये । उपाकर्मणि चोत्सर्गे काण्डानामुत्सवादिषु ॥ दिव्येषु मानुषेषेनु निश्येवं मेघगर्जने । तथा वर्षति पर्जन्ये महागुरुनिपातने ॥ पुनरन्येषु कालेषु देशभेदेषु सर्वथा । श्मशानशूद्र चण्डालग्रामचण्डालवाटिषु ॥ तादृशस्यास्य वेदस्य साक्षान्नारायणात्मनः । तत्स्त्ररूपैकदीपस्य विप्रशेवधिरूपिणः ॥ वेदाध्ययनफरम्

[[1]]

ग्रहणं धारणं चापि यत्नेन महता स्मृते । स्वाधीने तादृशे वेदे सर्वप्राणकयत्नतः ॥ संलभ्य तेन लघुना श्रवणादिमुखेन वै । क्रियानान्तरिकेणैव ब्रह्मज्ञानं प्रपद्यते ॥ अत्यल्पेनैव कालेन तेन सायुज्यमुच्यते । मार्गोऽयमेव मुक्तेस्तु नान्यत्कश्चन दृश्यते

यद्यन्यो वक्ति मार्गोऽस्तीत्येवमस्या इति स्म यः ।

स वेद न तु वेदस्य तत्वं धर्मस्य वै ध्रुवम् ॥

स मूढ एव नितरां अस्मिन्नर्थे न संशयः । पुराणेश्वागमेश्वत्र कर्मणापि कचित्कचित् कैवल्यसिद्धिः स्यादेवेत्यस्य वाक्यस्य केवलम् । तात्पर्यं कर्मणस्तस्य ह्यत्यन्तातिशयार्पणे तत्वेव परमार्थस्य केवलं प्रतिपादने । पुनःपुनः प्रवक्ष्यामि निष्कर्षं श्रुतिमात्रयोः ॥

[[1]]

मुक्तौ वेदेतरश्रवणसाधनतानिषेधः

कैवल्यं ब्राह्मणस्यैव ज्ञानेनैव न चान्यतः । ज्ञानं च श्रवणादिभ्यः श्रवणं चापि केवलम् वेदानामेव वाक्यानां नियमेन गुरोर्मुखात् । कर्तव्यत्वेन विहितं न स्वमत्या कदाचन अर्थज्ञानान्न साध्यं च भक्त्या गुरुमुखं विना । एतेनैव पुराणादिवाक्यानां श्रवणात्तथा भाषाविशेषरचितशास्त्रार्थानां च सर्वथा । ज्ञानं नोदेति तस्मात्तु ब्रह्मशानस्य सिद्धये

न पुराणादि वाक्यानि भाषया रचितानि वा ।

शास्त्राणि नानवेक्ष्याणि यदि दृष्टानि मोहतः ।

[[1]]

संस्कृतभाषामौन विधिवर्णनम्

[[१६]]

अज्ञानकार काण्येव तस्मात्तानि परित्यजेत् । ब्रह्मज्ञानाय यतते यो वा लोके विचक्षणः अनृतात्सत्यवाक्येन मानुषाद्द ववाक्यतः । दै (द)त्रीं वाचमितिश्रुत्या तदर्थपरिवृद्धये ॥

क्रमेणानृतसंत्यागं कृत्वा सत्यं समाश्रयेत् ।

तथैव मानुषीं भाषां त्यक्त्वा दिव्यां समाश्रयेत् ॥

प्राकृतभाषोच्चारणनिषेधः

दिव्यां भाषां परित्यज्य प्राकृतां प्रवदेद्यदि । निपतेत्प्राकृतोमूढः महापक यथा जडः नितरां दिव्यभाषां हि प्राकृतोऽपि शनैः शनैः । यत्नं कृत्वा महान्तं तं तामभ्यस्य दिने दिने कृतकृत्यो भवेन्नो चेत्तया प्राकृतभाषया । पदे पदे प्राकृतः स्यात्तदा जन्मनि जन्मनि ॥ एवं सत्यपि यो मोहाई वाद्विद्वान् भवन्नपि । भाषा (सु) प्राकृतास्वेव निष्ठश्चेत्प्राकृतो भवेत्

संस्कृतभाषाविधिः

मौनकालेषु नितरां कर्मकालेषु दैविके । पैतृके वा पावकेषु दिव्यां भाषां वदेदतः ॥

दिव्यभाषापरिज्ञानविकलो यः स तु स्वयम् ।

स्त्रीयामेव वदेद्भाष न त्वन्यां मनसा पि च ॥

कर्मा पुग्येषु मौनातु वा तथा । दिव्यया भाषया नूनं संभाषेतैव धर्मतः ।

मौनविधिः

ब्रोसंगानन्तरं तस्मिंस्तत्प्रक्षालनपूर्वके । काले मूत्रपुरीषोत्सर्गयोवाचामपूर्वके ॥ पुनरेतादृशेत्रेषु कुर्यादभिनयेन वै । संज्ञया वेष्टया वापि स्वाभिप्रायं परस्य तु ॥ काठमौनेषु दीक्षासु वीक्षणेनैव नान्यथा । न कार्यमेव तच्चापि तत्र सन्ध्यासु केवलम् ॥ देवभाषादिका लोके वेदशास्त्रमयी च सा । तस्यामेव रतो नित्यं देवसायुज्यमाप्नुयान्

ज्ञानं दिव्यां शिवां भाषां भाषाविरचितेषु वै ।

शास्त्रेषु कुरुते श्रद्धां स द्विपाद्गर्दभः स्मृतः ॥

riter - रवि शास्त्र स्त्रीशूद्राणामचेतसाम् । मन्त्रमात्रानधिकृतां कर्मस्वनधिकारिणाम्

[[३०]]

मार्कण्डेयस्मृतिः

यत्किचिदर्थबोधाय कदाचित्परिकल्प्यते । स्त्रीशन्देनात्र विदुषां आहिताग्नेश्च यज्वनाम् ॥ कुलीनानां वेदिनां च न पत्त्यः स्युः कदाचनः । तेषां सदा कर्ममध्ये तत्तन्मन्त्रार्थ पूर्वकम् ॥ बोधनस्य विधानेन वाचनेनास्य शास्त्रतः ।

आहिताग्निपत्नीनां प्राकृतभाषानिषेधः

न युक्ता लौकिकी भाषा दिव्यायां यदि केवलम् । यत्नात्सामर्यवैकल्ये कराभिनय ईरितः ॥

न तु प्राकृत भाषा सा विहिता वा कदाचन । शूद्रशब्देनात्र परं ये सन्तो द्विजसंश्रयाः तेषामपि विशेषेण महनीयमपूर्वकम् । नित्यक्षुर विधानेन तत्कारस्नान चोदनात् ॥ सिद्धादिमन्त्रविधिना प्रत्युक्तिप्रतिपादने ।

तन्माक्षायीत्यस्य परं परिज्ञानस्य तस्य वै । अत्यन्तावश्यकत्वेन न गृह्यन्तेऽत्र तादृशाः

तद्भिन्ना अत्र संग्राह्यास्तादृशानां विशेषतः ।

भाषाकृतं तदाभासशास्त्रां तच्छिल्पिभिः कृतम् ॥

विनियुक्त नृत्तगीतपटुचाटुसमं यथा । तच्छास्त्रवाक्यमवशात्सत्कर्मणि परस्य वा ॥

स्वस्य वा गलितं चेत्तु मुखतो नाशमेति तत् ।

एवं सत्यस्य तु च्छायाः प्राकृतायास्तथाविधे ॥

भाषायाः सुमहज्ज्ञाने बोधकत्वं कथं भवेत् । एवमेव प्रकथितं पुराणागमयोरपि ॥ तद्ब्रह्मज्ञानहेतुत्वं कुत एवेति चेत्पुनः । एवमत्र प्रवक्ष्यामि त एते पौरुषा यतः ॥ सर्वपौरुषमात्रस्य देवस्य भक्तिबोधनात् । तन्मात्रस्यैव नितरां सिद्धिरित्येव सूरिभिः ॥ रचितो निश्चयः सर्वैस्तद्द्वारा तदनन्तरम् । कृते तद्द वभजने तत्प्रसादेन तत्परम् ॥ चित्त शुद्धिचिरात्स्याद्धि यथा तैर्नित्यकर्मभिः । अत्यन्त सत्वरादस्य चित्तशुद्धिर्भवेत्तदा तपःकृच्छ्रादिभिर्न्यूनं (भवे)देव वच्मि वः । सर्वाण्यपि च कर्माणि तपः कृच्छ्रादिकान्यपि कैवल्य काम्येव तदर्पर्णधिया यदि । कृतानि कामना त्यक्त्वा तानीमानि वदामि वः

वेदातिरिक्तमुक्तिसाधननिन्दावर्णनम्

[[२१]]

कालेन महताऽत्यन्तप्रयासेन परं त्वियान् । सुमहान् भव इत्युक्तः प्रयासेन विनैव हि ॥ वेदोक्तनित्यकृत्यैस्तु परा सिद्धिरितीयती । हृदा सा सूक्ष्मतो ग्राह्या एवं सत्यत्र यो नरः सायुज्यनामकां(मिकां मुक्ति कर्मणा येन केनचित् । स्त्रीशूद्राणां प्रवदति मूढो नात्र संशयः

शूद्रादीनां वेदानधिकारत्वनिरूपणम्

अपौरुषेयवेदस्य साक्षान्नारायणात्मनः । पौरुपाणां पुराणानां उभयोर्मुक्तिसाधने ॥

समाने सति सामर्थ्य को भेदः स्यात्परोऽत्र वै ।

यथा पौरुषशास्त्रेषु शूद्रा (योग्या) गुरोर्मुखात् ॥

श्रवणे योग्यता तद्वद् वेदश्रवणयोग्यता । सुखेनैव भवेन्नूनं एवं सत्यत्र केवलम् ॥ वेदाक्षरश्रवणतः कपिलाक्षीरपानतः । ब्राह्मणोगमनाच्चापि सद्यः शूद्रः पतेदधः ॥ एतादृशमिदं शालां कल्यन्ते सर्वसंकरे । दृढं सर्वत्र सुदृढा नाशमप्राप्य सुन्दरम् ॥

वेदप्रशंसा

सर्वग्राह्यं सर्वसमं प्रसिद्ध राजते किल । यो वा वेदाधिकारी स्यात्स मुक्तेरधिकार्यपि यो वेदानधिकारी स्वान्नयं मुक्तेस्तु भाजनम् । वेदाक्षरश्रवणतो निष्कृतिर्यस्य घोरतः

तस्य मुक्तौ तथात्वं स्यादेवं व्याप्तिस्सुनिश्चिता ॥

वेदातिरिक्तमुक्तिसाधननिन्दा

वेदोक्तमार्गभिन्नेन पथा यो मुक्तिमुत्तमाम् । कर्मादिनापि वदति सुमहापापकर्मणा संप्राप्य चित्ते मालिन्यं वदत्येवेति तत्रहृत् । वेदेन तुल्यं वदति पौरुषं ग्रन्थजालकम् ॥ उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता । ब्रह्मविद्यासमं विद्याभासं शास्त्रादिजालकम् यस्सदस्सु व्यवहरेत्स नूनं ब्रह्मघातकः । अवेदं यो वेदमिति प्रपेदल्पबुद्धिकः ॥ स शूद्रत्वमवाप्नोति सद्य एव न संशयः । ब्राह्मगेन समं शूद्रं प्रवदेन्नित्यचर्यया ॥ तथा शूद्र’ विप्रसमं वदेत्सञ्चर्ययापि वा । तावुभौ धार्मिको राजा छित्वा जिह्वां प्रमापयेत् यतस्तावन्यबी जैकजनितौ पापवित्रौ । यो वेद कर्मभिस्साम्य ज्योतिष्टोमादिभिः परः समत्वेन व्यवहरेद्गायमिजमखादि कान् । स पूर्वजन्मवृषलो निश्चेतव्यो मनीषिभिः ॥

[[२२]]

मार्कण्डेयस्मृति

ये वेद कर्मणां मध्ये पौरुषग्रन्थमध्यगान् ।

अवशाद्वाक्यखण्डांस्तान् प्रवदेत्कर्म तद्धवम् ॥

वैकल्य प्रतिपद्यत विषयुक्तमिवामृतम् । ते वेद्दा ब्राह्मणा गावः मन्त्रादर्भास्तिलास्तथा

तीर्थानि सरितोऽम्भसि स्वतः शुद्धानि सर्वदा ।

स्वतः सर्वोपकाराय स्वतन्त्राः सर्वदा सताम् ॥

हिताय हि प्रवर्तन्ते ब्राह्मणः सततं सदा । यथा वेदस्तथा वन्द्यः वेदो यस्य धनं स्मृतः ॥

स एव मुक्तये नित्यं यतते सास्य सिध्यति ।

शूद्रादयस्तु तद्भिन्ना मुक्तिकामा अपि स्वयम् ॥

चर्यया प्राप्य विप्रत्वं तेषां शुश्रूषयैव हि । यत्नाज्जन्मान्तरे तत्त्वं संप्राप्य तदनन्तरम् ॥

वेदानधीत्य कर्माणि तदुक्तानि विधानतः ।

कृत्वा सम्यक् तन्महिम्ना चित्तशुद्ध रेनुत्तरम् ॥ श्रवणादिमुखेनैव प्राप्नुवन्ति कृतार्थताम् ।

साक्षाच्छ्रद्रो मुक्त इति ब्राह्मणो वान्य एव वा ॥

वेदोक्तमार्गभिन्नेन यथा वै येन केनचित् । मुक्तोऽभूद् भवतीत्येतद्वाक्य’ हि मृगतृष्णिका वेदांगत्वेन कासांचिद्विद्यानां प्रतिपादनम् । तासामत्यन्तमाहात्म्यप्रतिपादनमात्रके ॥ तात्पर्यमितिविशेय’ न तु प्रामाणिकं हि तत् । अर्थवादैकमात्रस्य स्वतात्पर्ये सदातराम् हृदयाभावतः किंतु यत्यन्तातिशयार्पणे । तस्य तात्पर्यमेवेति शास्त्राणां तत्त्वमीरितम् ॥ तथाहि तच सम्यग्वो विशदाय निरूप्यते ॥

वेदाङ्गविस्तारः

पतञ्जलिकृतं तत्तुशास्त्रं व्याकरणं महत् । आपस्तम्बादिभिः कल्पाः सूत्रकारैर्विनिर्मिताः

इंडविड्यादिभिस्तैस्तच्छन्दश्शास्त्रां च कल्पितम् ।

ज्योतिश्शास्त्रं तु सुमहान् महामुनिसुरोत्तमैः ॥

दिवाकरमधुश्छन्दमुखैरन्यैश्च कारितम् । निरुक्तमीश्वरेणैव श्रृगर्थानां विशेषतः ॥

वेदाध्ययनवर्जितस्य पुनर्वेदाधिकार वर्णनम्

[[२३]]

विशदायाखिलानां च कारितं कृपया तदा । भरद्वाजादिभिः शिक्षावेदार्थविशदाय व ॥

तदा तत्पाठसामीचिन्यस्य पूर्व कृतं हि सा ।

तथा वेदेषु केषांचित्पदानां ग्मादिरूपिणाम् ॥

तथा जातीयकानां च कल्कशल्कादिपाथसाम् । हरो भर्गपररसर्वशस्त्रसंगो नृचक्षसाम् ओजस्तेजो यशोवर्णबलादीनां च केवलम् । श्रुत्यन्तलींनगूढार्थनिर्णयाय दयानिधिः ॥ स्कन्दश्चकार भगवान् पुरा कल्पान्तरं पुनः । एतेषां किल वेदाङ्गत्वेन सर्वे निरूपणम् ॥ वेदाङ्गप्रशंसा

अङ्गाङ्गिनोरभेदत्वादेतान्यपि महान्त्यलम् । साक्षाद्व ेद इति प्रोचुर्जगत्यस्मिन् हि केचन महोपकारकत्वेन चैतेषां प्रन्थमात्रके । वेदांगत्वेन नितरां संस्तुतिहिं स्मृताखिलैः ॥ वेदवाक्येषु वेदानां तत्र तत्र कचित्कचित् । संजाताज मिॠचेति श्रूयते किल यद्यपि ॥ अथापि तस्य वेदस्य नित्यस्य ब्रह्मरूपिणः । नितरामतिगूढस्य होयस्य तु तदा तदा ॥ कल्पादिषु तदाऽविर्भावो हि तत्तन्मुखेन तु । नैतेन जननं तेषां कर्तृत्वमपि तस्य न ॥

ताशस्यास्य नित्यस्य सर्वशास्त्राण्यपि स्वयम् ।

पुराणस्मृतिकल्पादित्थजालानि केवलम् ॥

तदर्थ निर्णायैव प्रवृत्तानीति सूरिभिः । कथितानि महाभागैः नान्यथैषां स्थितिः परा तस्मादिदानीं यः कश्चित् वेद तत्कर्म तत्परः । तदर्थज्ञानसंपन्नः शुद्धश्चाभ्वल्यवर्जितः

कृतार्थतामियादस्मिन्नथ वच्मि न संशयः ॥ वेदाध्ययनवर्जितस्य पुनर्वेदाधिकारः

पुनरन्यत्प्रवक्ष्यामि वेदाध्ययनवर्जितः । पित्राद्यशिक्षितोज्ञानाज्जातकर्मादिसंस्कृतः ॥ सन्ध्यामात्रप्रधानश्च पुनः कालेन केनचित् । संगत्या महतां पुंसां श्रीमतां दर्शनादपि ॥ श्रवणाएँ बयोगेन तत्र तत्रावशात्पुनः । वेदतत्कर्मतत्कर्मितदर्थसुमहामनाः ॥

सुशिक्षितक मैकमन्त्रमात्र क्रियापरः । पूर्वस्वाकृतवेदाध्ययनतप्तमहामनाः ॥ वेदकर्मस्वतिमनाः पराधेनश्च सन्ततम् । स्वशक्त्युत्साहानुकूल कर्मकृद्ब्रह्मचिन्तनात् ॥२४

मार्कण्डेयस्मृतिः

ब्रह्मभक्तः ब्राह्मणैकी(?)सपर्याभक्तिमानति । पुनर्जन्मान्तरं शुद्ध श्रीमतो महतस्ततः ॥ योगिनो यज्वनो गेहे प्राप्याल्पेनैव केवलम् । कालेन भूत्वा सुमनाः सर्ववेदान्ततत्त्ववित्

प्राप्नुयाद्ब्रह्मनिर्वाणं वेदमार्गानुसार्ययम् ॥

वेदेतरमुक्तिसाधन निषेधः

वेदोक्तमुक्तिमार्गोपायादन्यः कोऽपि सुन्दरः । अत्यन्त सुलभ. सूक्ष्मकुशास्त्रान्तरचोदितः उपायोऽस्तीति सुगतनीच हूणादिकत्थनम् । तथा यद्यस्ति तं सर्वसन्ध्याकर्मादिकं भृशम् वेदोक्तं निखिलं त्यक्त्वा कर्मजालं सुखेन वै । आश्रयेदेव किं भूयः एतैः सन्ध्यादिकै था

यो वक्ति मुक्तिसरणीं वेदोक्तान्यां जडाकृतिः । द्विजवंशप्रसूतस्सन् तांपुरामाश्रयन् सदा ॥

तथैव हि स्थितश्चेत्तु विना सन्ध्यादिकर्मणा । विचक्षणो द्विजेषु स्याद्यदि कुर्वन् पुनर्महत्-

सन्ध्यादिकं वेदलब्धं तिष्ठेच्चत्स तु केवलम् ।

उभयभ्रष्ट एव स्यान्न किं जानाति मूढधीः ॥

सन्ध्यादिकर्मभिर्मुक्तिः चत्वारिंशकरैरपि । इत्येव वेदसिद्धान्तो यदि तान्त्रिकदीक्षया लिंगादिवारणेनापि पुनर्निर्वाण दोक्षया । एतज्जन्मनि मुक्तिः स्यात् त्रिभिरेतैः सुकर्मभिः तन्निस्तत्परो भूत्वा जातकर्मादिकं विना । स्थितश्चेत्तेन मार्गेण त उपायाः परा इति । निश्चि (श्चे, लुं शक्यते सर्वैः तस्मात्तादृशकत्थनम् ।

न कार्य ( 1 ) कार्यवेदस्य सिद्धान्तश्चे (न्नि) रूप्यते ॥ . इतरापेक्षराहित्यात्तदुक्तरैव कर्मभिः । कैवल्यसिद्धि झटिति एतस्मात्पुनरप्यति ॥ उपायः कोऽपि चेद्भूयः स हि सर्वोत्तमोत्तमः । अत्यन्ताश्रयणीयः स्यात्किमेतैरिति वै पुनः ॥

एतदाश्रयणेनैव स हि दुर्बल उच्यते । तदाश्रयं विनैतेषां नित्यसंश्रयणात्परम् ॥ आधिक्यं सुमहत्प्राप्तमेतस्योपरि केवलम् । मीमांसाप्रचयो नूनं निष्प्रयोजनको धम्

तस्यां निर्वाणदीक्षायां सर्वेषां कर्मणां परम् । नित्यनैमित्तिकानां च वहो त्यागो विधीयते ॥

संस्काराणां वर्णनम्

सन्ध्याममौ त्यजामीति स्वाहाशब्देन मन्त्रतः । सर्वेषां पुनरन्येषां मलत्वेन च पाशतः

भावयित्वाखिलान्येव संस्कार्याण्यखिलान्यपि । चत्वारिंशत्कसंख्यानि शिखां वर्षाणि सूत्रतः ॥ यज्ञोपवीतं अन्यांश्च च ( चतुर्वर्णान् )श्च तथाश्रमान् । अग्नौ दग्ध्वा होमपूत्रं शैव संध्यादिकाः पराः ॥ तच्छास्त्रमार्गात्स्वीकृत्य मनुमेकं च तारकम् ।

पञ्चाक्षराख्यं लब्ध्वाऽथ तद्गुरोर्मुखतस्ततः ॥

पुनर्वर्णत्व सिध्यर्थं व्यवहाराय देहिनाम् । स्नानसंध्याक्रियादीनि वर्णाश्रममुखान्यपि ॥ दण्डेन सं (प्र) हीष्यामीत्येतद्व्यामोहकं परम् । ईशेन रचितं शास्त्रं अष्टाविंशतिसंख्यया तथैव वैष्णवं चापि व्यामोहाय पुरा कृतम् । सुगतानां राक्षसानां देवदेवेन विष्णुना ॥ तदेतदखिलं तस्माच्छास्त्रं तद्द्द्विविधं परम् । व्यामोहकं परित्यज्य तारकं परिगृह्य वै ॥ तदुक्तमार्गतो नित्यं सर्वकर्माणि यानि वा । प्रोक्तानि तेषु कुर्वीत कृतकृत्यो भवेदतः ॥ तानि चैतानि कर्माणि प्रोच्यन्ते क्रमतोऽधुना ॥

गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामान्नप्राशनं चौलं मौञ्जीव्रतचतुष्टयम् ॥ गोदानिक तथा स्नानं विवाहः पैतृमैधिकः । एकविंशतियज्ञास्तु नित्या ये वेदचोदिताः नित्यकर्माणि

पूर्वमेव समासेन मया सम्यनिरूपिताः । दैनंदिनानि कर्माणि सर्वेषामपि देहिनाम् ॥ स्नानं सन्ध्या जपो होमः स्वाध्यायो देवतार्चनम् । आतिथ्यं वैश्वदेवं च कर्माण्येतानि मन्त्रतः ॥

कर्तव्यत्वेन नितरां चोदितानि मनीषिभिः ।

कर्मारम्भ कर्तव्यानि

ant कर्मणामाद धर्माधर्मविचिन्तनम् । कृत्याकृत्यमवाच्यं यद्वाच्यं शतयनुरूपकम् ॥

निश्चित्य मनसा पश्चाह वानिष्टांश्च भावयेत् । कुलदेवान् ग्रामदेवान् देशदेवान् समीपगान् ॥

[[२६]]

मार्कण्डेयस्मृतिः

संस्मरेद्भक्तियुक्तस्तन् मनश्चाभ्ध्वल्यवर्जितः ।

दिक्पालान् लोकपालांस्त्रीन् ब्रह्मविष्णुमहेश्वरान् ॥

[[1]]

संप्रणम्यानुचितस्तन् गां कन्यां च सुवासिनीम् । गजमश्वं वृषं वेश्यां दर्पणं मर्कटं तथा अतिनीलं विचित्रं पश्येदपि च बाडव (ब) म् । कालीनं सुत्रतं शान्तं सुमुखं कोपवर्जितम् सदा हास्यमुखं (लो) कं पुत्रिणं जीवपुत्रिणम् । दर्पणं च क्रमेणैव (तं) पश्येन्नित्यमतन्द्रितः ॥

भानुवारे विशेषेण पूर्व तदुदयस्य चेत् ॥

सुवर्णदर्शनम्

सुवर्णदर्शनं कुर्यात् सुवर्णस्य न चेत्पुनः । सुवर्णदर्शनं नित्यं उदयानन्तरं स्मृतम् ॥ स्थिरवारेत्यस्तमयात्पूर्वं सायाह मध्यमे । कृत्वावलोकनं पूर्वदिवसे भास्करस्य च ॥ वारे तदुदयात्पूर्वं दर्शनं तस्य चेद्भवेत् । अपूर्वमंगलावाप्तिः तादृग्बन्धु निरीक्षणम् ॥ अमंगलानामप्राप्ति भवेश्च सुखमुत्तमम् ॥

मर्कटदर्शनम्

अत्यन्तराजसन्मानमारोग्यमतिशोभनम् । अत्यन्तधनलाभश्च लाभो नष्टधनस्य च ॥ भवेदेव न संदेहः नित्यं मर्कटदर्शनात् । आयुषस्त्वभिवृद्धिः स्यादारोग्यं कायदा ता ॥ प्रसन्नता च मनसः धैर्यं स्थैर्यं शमो दमः । सौमुख्यं सर्वकार्येषु तस्मान्मर्कटमुत्तमम् ॥ गृहीत्वा भाग्यवन्तो ये पोषयन्तश्च तं सदा । तद्दर्शनं प्रकुर्वन्तः प्रातःकालेषु मौनतः ॥ वर्धन्ते सर्वभागैश्च नित्यश्रीका महोन्नताः । नागान्तकप्रणतः महापीडा प्रजायते ॥ तस्य महानयनतः ग्रहपीडा भवेद्ध्रुवम् । तस्मात्तदवशात्तस्य दर्शनं चेच्छुभावहम् ॥

गरुत्मदर्शनम्

न चेत्तु मार्गणं कृत्वा कुर्यात्तस्यावलोकनम् । कुलायं यत्र कुत्रापि स्थितं दूरसमीपयोः ॥ प्रज्ञातमतियत्नेन कृत्वा पूर्वोक्तकालके । तदर्थमेव तं पश्येन्न कीलालतटे पुनः ॥

तटे जलस्य यदि वं अवशादागतं नरः । पश्येत्तस्मिन् दिने सायं भुक्तिर्भवति केवलम्

स्वकार्यानुकूल पक्षीगमन सम्पादन वर्णनम्

[[२७]]

तदशने यो नियमं कृत्वा तस्यावलोकने । अत्यन्तमदनं कुर्वन् तमदृष्ट्वैव केवलम् ॥ निनदं वा क्रोशनस्य शृण्वन् तस्यावलोकने । यच्छ्र यस्तदवाप्नोति विप्रं पश्येदथापि वा गरुत्मतो भानुवारे दर्शनाच्च स्वरो वरः । सचेष्टयोद्वयोस्तद्वदत्यन्ता क्रोशतोः मिथः ॥ परिक्रमणतो भूयः प्रादक्षिण्यविधानतः । दर्शनं वासुदेवस्य साक्षाल्लक्ष्मीपतेरपि ॥

अत्यन्तदुर्लभं प्रोक्तं ततः शतगुणं शिवम् ॥ चापादिदर्शनम्

चाषस्य दर्शनं श्रीमत्सर्वसंपत्प्रदायकम् । यदा कदा यत्र कुत्र गमनं वामतो यदि ॥

चाषस्य तस्य वान्यस्य भरद्वाजाख्यपक्षिणः ।

जीवं जीवस्य क्रौभ्वस्य कण्वराधकलापिनाम् ॥

सर्वसिद्धिकरं प्राहुः भाविकार्यं च हस्तगम् । जातमेवेति विड़ोयं तत्कालेन तु केवलम् ॥

निन्द्यो निनादो विज्ञेयः प्रयाणेष्वखिलेष्वपि ।

पक्षि (क्षीणां गमने काले निनादो निन्द्य उच्यते ॥ विवाहमैत्रकृत्यादिगमनेषु (पक्षिभिः कृतः । तत्कार्य मध्यपरमकलिकुन्नाद ईरितः ॥ उपविश्यैव तिष्ठन्तं तृष्णीकं पादपादिषु । पक्षिणं क्रिययास्वस्य मार्गमध्येषु बुद्धिमान् ॥

तत्कार्यस्यानुकूला (ल्या) य लोष्ठपाषाणदण्डकैः ॥

स्वकार्यानुकूल पक्षिगमन संपादनम्

( भी ) षयन् वा गतिं तस्य साधयेदनुकूलतः ।

बलाच्छत्रं च शकुनं स्वव्यापारेण सन्ततम् ॥

स्वानुकूलं साधयीत तेन श्रेयो महद्भवेत् । द्विजद्वयस्याभिमुखं एकशूद्रस्य वा तथा ॥ प्रयाणेषु प्रशस्तं स्यात्तच्छ्रीदस्यापि दुर्लभम् । दर्शनं पूर्णकुम्भस्य बहूनां वा द्वयोस्तु वा आभिमुख्यपुरंध्र कसमानीतस्य दुर्लभम् । साक्षाच्चतुर्मुखस्यापि देवदेवस्य वा तथा ॥ भेरीताल मृदंगौघवारीणां विशेषतः । आभिमुख्याभिगमनं दर्शनं च प्रशस्यते ॥

२८.

मार्कण्डेयस्मृतिः

सर्वप्रयाणकालेषु कुणपस्य च दर्शनम् । आभिमुख्याभिगमनं चतुर्भिर्वाह कैस्सहः ॥ साक्षात्पुरन्दरस्यापि दुर्लभस्तत्प्रकीर्तितम् । अत्यन्तस्वगृहस्याराद्वामाद्दक्षिणतो यदि ॥ बलिभुग्गमनं शस्तं सर्वकार्यैकसाधकम् । नारायणमहापक्षिगमनं चेत्तथा पुनः । सर्वप्रयाणकालेषु जातं तत्कार्यमित्यपि । विज्ञेयमेव सुव्यक्त’ चाञ्चल्यं तत्र वर्जयेत् ॥ कार्यार्थं भाषमाणेषु तदा यद्यवशात्पुनः । अश्वप्लुतं भवेद्रम्यं तत्कार्ये वृद्धिरुच्यते ॥

सद्यः सिद्धिश्व कथिता सुराणामपि तादृशम् ।

निमित्तं दुर्लभं शस्तं नराणां किं पुनः स्मृतम् ॥

तत्त कार्यैकवाक्येषु चलस्येकत्र चेत्तदा । लौकिकं वा वैदिकं वा वाक्यं तद्धृदयंगमम् ॥ तदानुकूल्यैकरूपसाधकं तच्छ्र ुतं यदि । तत्कार्यं च ततः पश्चात्का लेनाल्पेन सिध्यति ॥ संदिग्वशुभकार्याणां चिन्तनेष्वतिसंशयात् । कर्तव्यत्वा कर्तव्यत्वद्वयेनैवातिसंकटात् ॥ कुरु मास्त्वत्र संदेहः एवं वाक्य उदीरिते । तदा तं संशयं त्यक्त्वा तत्कार्यमतिशीघ्रा ॥ कुर्यादेवाविचारेण तत्कार्य तत्परं धवम् । वृद्धिं प्राप्नोति महतीं मस्मिन्नर्थे न संशयः ॥ सर्वत्र शुभकार्येषु समु क्तेषु सन्ततम् । कर्तुं तदा वशाज्जातं निमित्तं शुभसूचकम् ॥ शुभकार्यकरं स्याद्धि रोगोपद्रवचिन्तने । राजचोरारिचिन्तानु तदा सद्यः समुत्थितम् घण्टाशब्दः शंखशब्दः वेणुवीणादिसुस्वरः । तूर्यशब्दो गीतशब्दो तालस्वस्तिकवैणवाः भेरीमृदङ्गपणवढक्का डिण्डिमसंभवः । सर्वे शब्दाः किं बहुना शुभत्वेन निरूपिताः । ते सर्वे स्युः पृथक्त्वेन सद्यः प्राणहराः स्मृताः । रोगादिचिन्तने तर्हि चौषधादिपरिग्रहे क्षुतमास्यध्वतिर्मास्तु ध्वनिदुर्लक्षणादिकः । तच्छामकः प्रकथितः सद्य एव न चापरः ॥

एवमेवाशुभानां च कार्याणां संततं स्मृतम् ॥

दुष्टनिमित्तानि

प्रयाणादिषु सर्वेषु दुर्निमित्तानि केवलम् । प्रशस्यन्ते विशेषेण न स्युस्तत्र शुभानि वै ॥ यानि दुष्टनिमित्तानि रोगपीडादिकर्मसु । तानि सन्ति प्रशस्तानि सर्वदा नात्र संशयः ॥ काकवद्यदि माजलः (रः) प्रयाणेषु गतो भवेत् । स समीचीन इत्युक्तः विपरीतोऽन्यथा स्मृतः

गमने निषिद्धानामागमे यात्रानिषेध वर्णनम

२६.

दर्शनं सर्वकार्येषु मास्यातिगर्हितम् । अथाऽपि केचिन्मार्गस्य मध्ये गच्छन् प्रदृश्यते यद्ययं काकवद्भूयः समीचीनस्मृतस्त्विति । प्रोचुर्महर्षयो देवास्तादृक् तद्गमनं पुनः ॥ दुर्लभं वासवस्यापि तस्य साक्षाच्छचीपतेः । तिलधातुकवाय्वाशि शशिकाषायिणामपि यतीनां दर्शनं दुष्टं प्रयाणेषु निरन्तरम् । विधवानां देवतानां तत्पत्नीनां तथैव च ॥ उल्कावह्निकराणां च दर्शनं गमनेतराम् । निन्दितं सर्वशास्त्रेषु तस्मात्तत्परिवर्जयेत् ॥ सुमंगली हस्तगतः सज्वालो वह्निरागतः । यदि दृष्टो मार्गमध्ये कल्याणशतकारकः ॥ विवाहस्तगरसोऽयं तादृशोऽपि प्रदृष्यते । पतिपुत्रविहीना या विधवा सा प्रकीर्तिता

पतिमात्रविहीना या सपुत्रा चेन्न दूष्यति ।

सुवासिनीसमा सापि सा दृष्ट्वा यदि वर्त्मनि ॥

विधवा तादृशी घोरा चाभिमुख्येन चेत्कलिः । समागता संभवेद्धि पतिपुत्रैकवर्जिता ॥ सद्य एव भवेन्नूनं रक्तकाकनिरोधतः । महामृत्युर्मनुष्यस्य तस्मात्तत्परमेव वै ॥ गमनाय पदं त्वेकवदं (पदं) त्रास्मिन् क्षिपेन्न तु । पादप्रसर्पणाद्वोरो रक्तवर्णस्य पापिनः ॥

काकस्य मृत्युरूपस्य रोधे रोगोऽस्य जायते ।

निरुद्धः शत्रुणा वाक्यैः मागच्छेति ततः पुनः ॥

न गच्छेद् देवि सततं श्रेयस्कामी तु पद्धतिम् । पयः कुम्भं सुराकुम्भं मधुभाण्डं तथामिषम् मांसखण्डं दधिघटं घृतकुम्भं विशेषतः । यदि गच्छन्मार्गमध्ये संप्राप्तं देवकुम्भकम् ॥ वाद्यघोषैः परिवृतं परिवाराति सुन्दरम् । यदि पश्येत्सद्य एव कृतकार्यो भवेद्ध वम् ॥ पश्चादनन्तकल्याणमंगलायतनो भवेत् । मयूरपिच्छ ) नृत्यन्तं मार्गमध्ये विलोक्य वै ॥ कार्यमुद्दिश्य गच्छन् कृतकृत्यः प्रजायते । आमिषं भक्षयन्तं तं गरुडं सर्पवैरिणम् ॥

नीलकण्ठं सोरगं वा वा सर्पखण्डकम् ।

खादन्तं संहरन्तं वा यदि पश्येत्तु वर्त्मनि ॥

सुनिमित्तानि

तस्य सद्यः सर्वशत्रुविनाशो जायते ध्रुवम् । विप्राशिषः कृता वर्त्ममध्ये दैवात्सदीरिताः

[[३०]]

मार्कण्डेयस्मृतिः

पतिव्रतोदिताश्चापि महच्छ यो विधायकाः । पञ्जरस्यैः शुकैर्गेहे पालितैरवशोदितैः ॥

वचनैरपि कार्याणि विज्ञ यानि मनीषिभिः ।

समीचीनासमीचीना तदास्य मतिरीरितः (ता) ।

भवेयुरेव कार्याणि नात्र कार्या विचारणा । तस्मिन्मुहूर्ते ब्रह्माख्ये स्वोत्थानसमये यदि देवतावाचकरुतं श्रुतं मंगलवाचकम् । अत्यन्तं भावि कार्यस्य ज्ञापकं तद्भवेद्ध्वम् ॥ मतं तदीयं पुरतो अ(ह्य)वशादपि निर्गतम् । श्रात्र्यं चेदति भव्यानां ज्ञयं दुर्गतिवारकम् सुखश्राव्यरुताः राजभवनेषु निरन्तरम् । प्रवेश्याः पालनीयाश्च पक्षिणश्चित्रवर्णकाः ॥ गृध्रकब कोलूकता चेटकतुन्नकाः । जडकोटनटप्रोथप्राणिबिन्दुमरत्वराः ॥

वर्जनीयाः पालनार्थे न प्रवेश्याश्च वेश्मसु ॥

गृधादीनां गृहारोहणफलम्

कपोतगृधोलूकानां गृहसंबन्धतः परम् । गृहिणस्तत्कलत्राणां पीडा नु महती भवेत् । कूर्मागमनतो गेहे यजमानो निरन्तरम् । अनिवर्त्यमहारोगैराक्रान्तो दुःखभाग्भवेत् ॥

तद्दोषपरिहाराय शौनकोक्तां सुपावनीम् ।

शान्ति बोधायनोक्तां वा कुर्यादेवाविचारयन् ॥ शान्त्यां कृतायां सुमहत्सद्यः श्रेयो भवेन्न चेत् । प्रभवेत्तु महानर्थः तस्मान्नैमित्तिके वशात् ॥

सम्मगतेति चपलं बुद्धिमान् सुसमाहितः । यस्य प्रतिपदोक्तं यत्तदेव हि समाचरेत् ॥ तदलं बहुना तूष्णीं प्रसक्तानुप्रसक्तितः । बाडवः प्रातरुत्थाय देवानां ध्यानमाचरेत् ॥ तद्धेतुभूतमन्त्रांश्च पुराणोक्तान वदेदपि ॥

अपररात्रे कर्तव्यम्

स्वाध्यायनिरतश्चेत्तु तत्र निष्ठो भवेदति । नास्त्यस्त्य मन्त्रपठने चाश्यावश्यकता परा ॥

तस्य तत्रैव सर्वे स्युः मन्त्रा यज्ञास्तपांसि च ।

तीर्थानि सरितश्चैव दानानि विविधानि च ॥

वेदाध्ययने नियमोहनप्रायश्चित्त वर्णनम्

व्रतानि धर्मा निखिलाः कृच्छ्राणि विविधान्यपि । वर्तन्ते तेन तस्यास्य तद्वर्णोच्चारणेन वै ॥

सर्वसिद्धिर्भवेन्नूनं अवशात्प्रतिवर्णके ॥

अपररात्रे वेदाध्ययननियमाः

रात्रेऽपरस्मिन् यो मोहाच्छयानोऽध्ययनं चरेत् । व्यालो भवेदयं नूनं यद्यशुद्धः शुनि (चि) र्भवेत् ॥ अप्रक्षाल्यानाचम्य दुष्टसर्पो भवेत्किल ।

सताम्बूलास्यतश्चेत्तु द्वयास्यो व्यालो भवेदति ॥

[[३१]]

विकच्छा यदि दौर्गत्यं प्रणतः प्राप्नुयादति । अकच्छो महिषत्वं तु सूतकेन शृगालताम् अनध्यायेषु दाद्रिय कुष्ठरोगित्वमेव च । प्राप्नोत्येव न सन्देहः परमध्ययनात्पुनः ॥ निद्रया तत्फलं नव प्राप्नोति पुनरप्यति । उलूकत्वमवाप्नोति नष्टायुः प्रभवत्यपि ॥

। वर्त्म गच्छन्यदिपुनः पिशाचत्वमवाप्नुयात् । सन्ध्ययोर्मृत्युमाप्नोति शवे निपतने यदि क्रोष्टृत्वं समवाप्नोति वाहने संस्थितो यदि । बिडालत्वमवाप्नोति द्रुमपादस्थितो यदि अरण्ये निर्जले क्रूरे रक्षस्त्वं समवाप्नुयात् । खवायां संस्थितश्चेत्तु मत्कुणत्वमियादति रीक्षत्वं तल्पगश्चेत्तु कटस्थश्वेत्तु काकताम् । भवनोपरि चेन्नूनं कपोतत्वं तथा पुनः ॥ मण्टपोन्नतपृष्ठस्थः तार्क्ष्यत्वं प्रतिपद्यते । श्मशानादिप्रदेशेषु व्याधत्वं च पुलिन्दताम् ॥ श्राद्धभुग्यदि मृत्युत्वं प्रेतत्वं प्रेतभोजनात् । पत्नीसंयोगचपलचित्तो यदि तया पुनः ॥ समाश्लिष्टः स्वयं तां वा समाश्लिष्याथवापुनः । सूकरत्वं गार्दभत्वं श्वत्वं काकत्वमेव च संप्राप्य कौलज्ञानित्वं ज्योतिरिंगणतां ततः । शतजन्मसु संप्राप्य चक्रवाक त्वमृच्छति ॥ तस्मात्तु वेदाध्ययनं अत्यन्त नियमान्वितः । कुर्वीतैव विधानेन सुमहद्वाधकं न चेत् ॥ अकृताध्ययनश्चेत्तु सर्वकार्येषु सन्ततम् । तत्पुराणोक्तमन्त्रान्वा नान्तरीकेषु केवलम् ॥ प्रवदेदेव तूष्णीकं न तु मान्त्रिककर्मणि । तत्रादौ शयनादबाह्य संस्थितो भूतले पुमान्

इमं मन्त्रं जपेद्भक्त्या जपस्स च कृताकृतः ॥

[[३२]]

मार्कण्डेयस्मृतिः

पुण्यश्लोकाः

तमिमं वः प्रत्रक्ष्यामि पुण्यं मन्त्रं च तादृशम् । नान्तरीकेषु कालेषु यूयं जपत च द्विजाः

ब्रह्मा मुरादि (रि)स्त्रिपुरान्तकश्च भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥

इममन्त्रां समुच्चार्य पश्चात् खलु समाहितः । पुण्यश्लोकान् कीर्तयेच्च पुण्यश्लोकाश्च ते स्मृताः ॥

नलादय इतिख्याताः तत्कीर्तनमहामतुम् । सम्प्रनिरूपयिष्यामि हिताय जगतामहम्

पुण्यश्लोको नलोराजा पुण्यश्लोको युधिष्ठिरः ।

पुण्यश्लोका च वैदेही पुण्यश्लोकः पुरूरवाः ॥ ॥

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् तत्रादौ संप्रवक्ष्यामि कार्कोटकहरेः परम् । असाधारणतो ज्ञयं कीर्तनं कलिनाशनम् ॥ नलस्य दमयन्त्याश्च विशेषेण निरूप्यते । असाधारणतो ज्ञयं कीर्तनं पापनाशनम् ॥ ऋतुपर्णस्य राजर्षेः असाधारणतः परम् । विज्ञयं निखिलैरत्र कीर्तनं पुण्यवर्धनम् ॥ तत्र साधारणे ज्ञये सर्वेषामपि सन्ततः (म्) । कीर्तनात्कलिनाशत्वं पापनाशत्वमेव च ॥ तत्पुण्यवर्धनत्वं च तेष्वेतेषु च त्रिष्वपि । असाधारणधर्मोऽयं एक एव द्वयं (तु) तत् ॥ शिष्ट साधारणो धर्मः सर्वत्रैवं हि निर्णयः । एतेषां स्मरणात्पश्चादुत्थायोर्वी प्रणम्य वै इमं मन्त्रं समुच्चार्य गच्छेत्कार्येषु सन्ततम् । तं च मन्त्रं प्रवक्ष्यामि भवतां विशदाय वै

प्रातरुत्थाय गमनमन्त्रः

मे ॥

समुद्रवसने देवि पर्वतस्तनमण्डिते । अनेकरत्न लग्ने पादस्पर्शं क्षमस्व बहिरागत्य तत्वश्चान्मत्रेणानेन धर्मतः । जलपात्रं च संगृह्य मृद्धानीमपि भस्त्रिकाम् ॥ ग्राहयित्वा दृढां पूर्व यज्ञसंपादितां शुभाम् । नै नृत्यामिषुनिक्षेपमात्रं गत्वाऽथ तत्र वै ॥

मृत्तिका ग्रहणमन्त्रवर्णनम्

पुरीषोत्सर्जनम्

[[३३]]

भावयित्वा तृणैर्भूमिं तत्र मूत्रपुरीषयोः । मोचनं वै प्रकुर्वीत रात्रौ चेदक्षिणामुखः ॥ उदङ्मुखोदितो नित्यं विधिरेवं सदोदितः । मूर्धानमुत्तरीयेण वेष्टयित्वा पुनस्ततः ॥ कृत्वा निवीतं यज्ञाख्यसूत्रं कर्णे निधाय च । कुर्यान्मूत्रं पुरीषं च तत्पात्रस्थोदकेन वै ॥

तया मृत्तिकयासम्यक् क्षालयेद्गंधवर्जितम् ।

मृत्तिकाग्रहणं चापि भस्त्रिकायाः सकाशतः ॥

अन्येन कारयित्वैव तत्सकाशात्स्वयं ततः । संगृह्य शौचं विधिना कुर्यादेवान्वहं परम् ॥ मृत्तिकासंख्या

पञ्चवारं गुदे कुर्यादेकवारं च मेहने । करयोः पादयोः पूर्ववदेवेति विधिः परः ॥

एतस्य द्विगुणं प्रोक्तं वर्णिनः सन्ततं महत् ।

त्रिगुणं तु वनस्थस्य यतीनां तु चतुर्गुणम् ॥

एवं नृपस्य वैश्यस्य शूद्रस्य च विधानतः । तत्क्रमेण प्रकथितः मृत्तिकासंग्रहश्च सः ॥

अष्टम्यां भौमवारे च सर्वेषां शस्यते किल । प्रामात्प्राच्यामुदीच्यां वा मृत्तिकासंग्रहं चरेत् ॥ अपराह्न प्राङ्मुखेन स्थित्वा भूमिं समन्त्रतः ।

मृत्तिकाग्रहणमन्त्रः

प्रणम्य प्रार्थयित्वाऽथ उद्धृतासीति मन्त्रतः । तावकीं वसुधे मृत्स्नां शौचार्थमहमद्य वै ॥ संग्रहीष्यामि जननि क्षमस्वाशेषमातृके । मन्त्रेणानेन संगृह्य खनित्रपिटकायुतः ॥ प्रोथयित्वाथ तामन्ये नैव पुंसा विचक्षणः । गृहमागत्य पश्चात्तु वस्त्रसंशोधनादिना ॥

समीकृत्य समीचीनं सुखस्पर्शस्य चेद्यथा ।

सुसंस्कृता सा प्रभवेत्तथा कृत्वा विनिक्षिपेत् ॥३४

मार्कण्डेयस्मृतिः

यत्रकुत्रशुचौ देशे पश्चात्तां च दिनेदिने । तदा तदा मृद्धान्यैव संगृह्य च पुनः पुनः ॥ शौचं कुर्याद्विधानेन न चेच्छौचेन केवलम् । वैकल्यभाग्भवत्येव पुनः सर्वेषु कर्मसु ॥ तादृशेन न संदेहस्तन्मूला हि क्रिया पराः । यया कयाचित्कृतया मृदाशौचं वृथा भवेत् ॥ कृतमप्यकृतप्रायं तस्मात्तत्परिवर्जयेत् ।

गण्डूषविधिः

कुर्यात्तदन्ते गण्डूषं सम्यग्द्वादशसंख्यया । मूत्रमात्रस्य चेद्भूयो दशाष्टौ वा मृदासकृत् ॥ समुष्कं क्षालयेत्सम्यक् शुद्ध ेन पयसैव हि । अशुद्ध नातितुच्छेन नदुर्गन्धेन कदाचन ॥ - नक्षालयेत्तथा शौचं गुह्यं पादकरावपि । अशुद्धजलतोयस्तु शौचं मूत्रपुरीषयोः ॥ कुर्यात्पुनरसौ च स्यात्तद्दोषस्य निवृत्तये । शुद्ध ेन पयसा शौचं पुनः कृत्वा विधानतः ॥ पादौ प्रक्षाल्य चाचम्य स्नानं कुर्यात्समन्त्रतः । नचेदस्पृश्य पयसः स्पर्शनेनैव केवलम् ॥ प्राप्त ह्याशौचमधिकं निवृत्तिस्तस्य तेन हि । समन्त्रेण न चान्येन संगेनेति महर्षयः ॥ रहस्यमत्र वक्ष्यामि यदुक्तं तन्मया पुरा । द्विमुरूयुदकतोऽतीव कृतमाचमनं तु यत् ॥

तत्पुनात्यवशात्पापं तदा किमपि नास्ति हि ।

मन्त्रस्नानादिकं कृत्स्नं तत्सृष्ट्वैव क्षणालभेत् ॥

दन्तधावनम्

निर्वृत्य शौचं पश्चात्तु दन्तधावनमाचरेत् । तत्पुनस्तु मृताहेषु गुरूणां यस्य कस्यचित् ॥ भ्रात्रादेव कनिष्ठस्य दर्शादिष्वखिलेष्वपि । अन्नश्राद्धषु नितरां न कुर्याद्दन्तधावनम् । ? तेषु चेत्तु पुनस्सम्यक् श्राद्धकतु महात्मनः । अपां द्वादशगण्डूषैर्मुखशुद्धिर्भविष्यति ॥ तद्भिन्नदिनमात्रेषु निखिलेषु व्रतेष्वपि । नैमित्तिकेषु पुण्येषु कृच्छ्रादिष्वखिलेष्वपि ॥ तृणपर्णेः प्रकुर्वीत चामामेकादशीं विना । तयोरपि च कुर्वीत जम्बूप्लक्षरसालकैः ॥ ! रसालवर्णरचितदन्तधावनकर्म यत् । पितृश्राद्धदिनं मुक्त्वा तन्न (दुः) ष्यतिसन्ततम् ॥ तत्तत्काष्ठ विशेषाणां दन्तधावनकर्मणि । तत्तद्दिनविशेषेषु प्राशस्त्यं न तु सन्ततम् ॥ तद्विशेषेणसंकीर्त्य कृत्वा तद्ग्रन्थविस्तरम् । प्रयोजनं न किमपि प्रकृते दन्तधावनम् ॥

देवर्षिपितृतर्पणविधिवर्णनम्

[[३५]]

वर्णनीयं च सौलभ्यात्तत्तथैव निरूपितम् । पुनश्च संप्रवक्ष्यामि संग्रहेणैव तत्पुनः ॥ व्रतश्राद्धान्यदिवसमात्रेषु क्षीरिणां सदा । प्रशस्तान्येव काष्ठानि दन्तधावनकर्मणि ॥ दन्तधावनतः पश्चात् कुर्यादाचमनद्वयम् । ततः स्नानाय च पुनः कुर्यादाचमनद्वयम् ॥

प्राणायामत्रयं कृत्वा पश्चात्संकल्पमाचरेत् ।

देशं कालं च संकीर्त्य तिथिवारसमन्वितम् ॥

स्नानमन्त्राः

प्रणम्य तीर्थराजं च तस्मै दत्त्वामुत्तमम् । आपोहिष्ठा हिरण्यादिद्रुपदादिकमेव च ।

हिरण्यशृङ्गाद्यखिलं इन्द्वन्तं पावमानकम् । आपो वेति महामन्त्रं सितासितमृगादिकम् ॥ जप्त्वा निखिलमन्त्रान्तान्पावनान्श्रुतिशीर्षगान् ॥

स्नानान्तर कर्तव्यम्

प्रोक्षयित्वावगाह्याथ निश्शब्द चोरवज्जले ।

ऋषीन् देवान् पितृन् पश्चात्तर्पयित्वा च शास्त्रतः ॥

आचम्य च विधानेन मन्त्रेणैव ततः परम् । अनेन तर्पणं कुर्यात्तमिमं वर्णयाम्यहम् ॥ यन्मया दूषितं तोयं शारीरमलतोऽधिकम् । तस्य पापविशुद्धयर्थं यक्ष्माणं तर्पयाम्यहम्

वस्त्रोदकदानमन्त्रः

अथ वस्त्रं पीडयित्वा भूमौ सिञ्चेच्छिखाजलम् । सर्वाङ्गसलिलं चापि भूमौ तिष्ठन्मुहूर्तकम् ॥ तत्तज्जलार्थिनां नित्यं स्रावयित्वा विधानतः । यत्तत्स्वीयांगसंसक्तं तज्जलं वै तदर्थिनाम् ॥ दत्वा निकामं तत्पश्चाच्छुद्धं वां तु बिभृयात् । बहिर्विनिर्गतं स्नातु सर्वे देवा महर्षयः ॥

[[३६]]

मार्कण्डेयस्मृतिः

द्विजं दृष्ट्वातिसंतुष्टाः तत्पश्चात्सलिलार्थिनः । तिष्ठन्ति तत्तटे नित्यं तस्मात्तेभ्यो दिने दिने ॥

कालद्वयेऽतिभक्त्यैव स्नात्वाऽनन्तरमेव वै । सर्वाङ्गसलिलं वस्त्रजलमुक्तविधानतः ॥ दद्यादनेन मन्त्रेण न चंदेनं शपन्ति ते । मदङ्गवस्त्र के शाघ सलिलं यत्तदर्थिनाम् । अद्य दत्तं मया नूनमक्षय्यमुपतिष्ठतु । नित्यं कालद्वये स्नानं गृहस्थस्य विधीयते ॥ यतेः कालत्रये तत्स्याद्वर्णिनां तु यथारुचि ॥

स्नानभेदाः

एकवारं द्विवारं वा यथेच्छं तस्य तत्स्मृतम् । एवं स्नातुमशक्तानां पानीये शीतले परम् ॥ उष्णोदकेन विहितं तत्राशक्तस्य तत्परम् । कण्ठस्नानं कटिस्नानं पादस्नानं तथोक्षणात् ॥

मन्त्रस्नानमतिश्लाघ्यं न चेद्गोरजसापि तत् ।

सर्वेष्वेषु पुनः शक्तिविकलो यदि तत्परम् ॥

छायावगाहनं कुर्यात्तत्तु स्नानोत्तमोत्तमम् । तिष्ठन्मत्रजपं कुर्वस्तदाशक्तस्तु केवलम ॥

तच्छायायां जलं सिञ्चेत्तच्छायाश्नानमुच्यते ।

तस्मिन्यद्यप्यशक्तश्चेत् कापिलस्नानमाचरेत् ॥

दिव्यस्नानं विशेषेण स्नानानामुत्तमोत्तमम् । यदा वा लभ्यते तत्तु तदा नैमित्तिकं तु तत् सर्वपापहरं पुण्यं सर्वेषामपि सन्ततम् । दुर्लभं तद्विशेषेण लभ्यं सातपवर्षतः ॥ संकल्पाचमने तस्य न स्यातां नैव तर्पणम् । धारानिपातपर्यन्तं स्नानमन्त्रजपो भवेत् ॥ मनः पर्याप्तिपर्यन्तं स्थितिमात्रं तदा परम् । स्नानमाहुर्महात्मानः यथारुचि तथाचरेत् ॥

कायानुगुणतः स्नानं विहितं सन्ततं द्विजैः ।

आदौ निखिलधर्माणां निदानं वर्ष्म केवलम् ॥

सर्वं तदानुगुण्येन कर्मजालं समाचरेत् । शिरसः पादयोर्बाह्वोरङ्गानां यस्य कस्यचित् ॥

कायमात्रोपद्रवस्य यदा संभावना भवेत् ।

स्नानतस्त्विति तत्त्याज्यं मुख्यं त्यक्त्वैव केवलम् ॥

गौणमुख्यस्नानभेदवर्णनम्

गौणस्नानं तदां कुर्यान्मन्त्ररूपादिकं शिवम् । आर्तवान्ते सूतकान्ते कर्तुं स्नानं विधानतः ॥

[[३७]]

अशक्ये सति तद्भूयः कारयेद्विप्रवर्त्मना । तावता शुद्धिरेव स्यात्सद्यःस्नानं निवार्यते ॥

आरोग्यान्ते पुनः स्नानं कुर्यादेव विधानतः ।

सदा शुद्धजलस्नानात्परं शौचं प्रकीर्तितम् ॥

आपत्सु येनकेनापि गौणस्नानेन तद्भवेत् । आपत्सु सर्वदागौणस्नानं मुख्यमिति स्मृतम् ॥ स्मृतिसंभावनास्नानाज्जायते चेत्तदा नरः । सर्वथा तन्न कुर्वीत किंतु भौत्यादिकं चरेत्

नित्यस्नानाशक्य कायः शीतवातादिकाक्षमः ।

यथा कायानुगुण्येन कुर्यादेवाखिलां क्रियाम् ॥

सर्वाङ्गमाद्रवस्त्रेण शोधयेत्तेन केवलम् । अशक्तश्चेत्स्नानफलं लभेतैव न संशयः ॥ शरीरमाद्यं धर्मस्य कारणं केवलं स्मृतम् । ग्रहणे वा पितृश्राद्धदिवसे स्नानवर्जितः ॥ अपि चण्डालसंस्पृष्टः ऋणरोगैकदुर्धरः । सर्वाशौचैकमलिनः पित्रोरेकादशे दिने ॥ दशमे कर्मकालेषु दिवसे द्वादशेऽपि वा । बहूक्ता तादृशेषु (च) विपत्सु स्नानतो यदि ॥ मृतिसंभावना चेत्तु येनकेन प्रकारतः । साक्षात्स्नानं परित्यज्य शक्तौ विप्रमुखेन वा ॥ पुत्रादिमुखतोवापि तत्कृत्वा तत्समाचरेत् । शक्त्यभावे सर्वथापि सलिलस्पृष्टिमात्रतः ॥ भावना चेदुबाधकस्य भस्मस्नानादिनैव हि । संसाधयेत्प्रेतकर्म छायास्नानादिनापि वा ॥

कर्मणो करणे तस्य तादृक् कालेऽस्य केवलम् ।

स्मृतिर्यद्य भयोः पश्चात् बाधकं सुमहद्भवेत् ॥

प्रेतत्वमुभयोश्चापि भवेत्किल तदा पुनः । येन केन प्रकारेण कृते तस्मिन् सपिण्डने ॥ तद्गौणस्नानतो वापि तत्पितुः किल तद्भवेत् । पितृत्वं देवरूपत्वं तावता कृतकृत्यता ॥ मृतस्य पूर्वं भवति तस्मात्कायानुगुण्यतः । स्नाने कृते तावतैव कर्मसाद्गुण्यमश्नुते ॥

आपत्कालेषु सर्वेषां गौणं तत्तादृशं परम् ।

स्नानं मुख्यं भवेन्नूनं मुख्यं स्नानं तु बाधितम् ॥

प्रभवेदेव नितरां निखिलं चैवमेव हि । मुख्यं भवेदमुख्यं हि चैवं तदपि केवलम् ॥-

[[३८]]

मार्कण्डेयस्मृतिः

अमुख्यं मुख्यमेव स्यादिति शास्त्रं महर्षिभिः । उपदिष्ट’ सर्वलोकहिताय सुमहात्मभिः द्विमुख्युदकस्नानम्

नित्यस्नानात्परं नित्यं द्विमुख्युदकतो भवेत् । यत्कर्तव्यं कर्मजातं तदेतदखिलं परम् ॥ तत्पूर्वमृत्तिकाशौचकार्यादिषु पुनर्यदि । तज्जलं विनियुक्त वेद गंगादिषु हठात्परात् ॥ तद्बुद्धिपूर्वतस्त्वर्धोदयेऽपि च महोदये । सूर्योपरागादिकालविशेषेषु गुरूनपि ॥ न्यक्कृत्य निष्ठीवनतो गुदप्रक्षालनेन च । यत्पापं जायते क्रूरं तदवाप्नोति केवलम् ॥ चैलद्वयं समुद्धृत्य शुद्ध हस्तद्वयेन वै । उत्तरीयं प्रथमतः प्रादक्षिण्येन मूर्धनि ॥

वस्त्रधारणमन्त्रः

धृत्वाऽथ प्राङ्मुखस्तिष्ठन् वस्त्रं यद्धारणाय तत् । बिभृयात्कच्छया युक्त आवहन्तीति मन्त्रतः ॥ न चेत्सोमस्य तनूरित्येतेन यजुषा सदा । वाससो धारणे मन्त्रौ चोदितौ अथवा पुनः ॥

तूष्णीकं वा तद्धरेद्र पादप्रक्षालनं ततः । कृत्वाऽऽचम्य विधानेन प्राणायामादिपूर्वतः ॥ परमेश्वरतुष्टयथं प्रातस्सन्ध्यामहं शिवाम् । उपासि (ध्यइति संकल्प्य मन्त्रप्रोक्षणमाचरेत् सन्ध्याकर्माख्यत द्दिव्ययोग्यतायै तदुच्यते । आपोहिष्ठेति नवभिः यजुर्भिः प्रणवेन वै संयुक्त रतिशुद्ध स्तैः प्रोक्षणं तादृशं शिवम् । मुखे प्रकथितं सद्भिः सूर्यश्चेति ततः परम् । महामन्त्रा वेदमध्यः चतुर्विंशतिवर्णकः । रक्षन्तामिति लोडन्तः कर्तारस्तत्ररक्षणे ।

सूर्यश्च मन्युस्तत्पश्चात् मन्यूनां पतयस्तथा ।

तत्पापेभ्यः सकाशान्मां एको मन्त्रोऽयमुच्यते ॥

यद्वात्रेरित्ययं मन्त्रः द्वितीय इति चोदितः । अवलुंपत्वन्त इति द्वात्रिंशद्वर्णको मनुः ॥

यत्पापं कृतवानस्मि राज्याराज्यामितिस्मृतम् ।

ब्रह्मा चास्मीति संप्रोक्तं मनश्शब्दायश्च षट ॥

प्रसिद्धा एवं नितरां षष्ठः शब्देषु तेषु च । तृतीयंतइति होयः साहचर्येण संस्कृतः ॥

होमपदनिर्वचनवर्णनम्

छान्दसः स च विज्ञेयः सूक्ष्मदृष्ट्या ततः परम् । तदन्वयः प्रकर्तव्यः कर्तारात्रिरश्व हि ॥

परस्मैपदिलोडन्तः क्रियेयं समुदीरिता ।

यत्किञ्चेति तृतीयोऽयं मन्त्रस्वाहान्तकश्च सः ॥

[[३६]]

अष्टाविंशतिवर्णोऽयं जुहोमीति क्रियापदम् । अहं कर्तेति सुस्पष्टः मां कर्मेति तथैव हि ॥

स्वाहाशब्देन होमः स्यात् अत्र पानं स्मृतं किल ।

यथा कथंचिद्रव्यस्य त्यागो होम इतीरितः ॥

सूर्यः प्रसिद्धः सर्वत्र सत्यशब्दस्तदर्थकः । असावादित्यवाक्येन श्रौतेनैव तथोदितः ॥ तस्यैवामृतयोनित्वं केवलं तद्विशेषणम् । प्रथमः प्रार्थनारूपः द्वितीयोऽपि तथाविधः ॥

तृतीयो होमरूपः स्यात्रिभिः संमन्त्रितंजलम् ।

सर्वपापविनाशाय प्राशयेदिति सा श्रुतिः ॥

भिन्नक्रियात्वान्मन्त्राणां मन्त्रभेद उदाहृतः । यत्र भिन्नक्रिया तत्र सर्वत्र श्रौतकर्मणि ॥ प्रदृश्यते मन्त्रभेदः पूर्वार्थस्यानापेक्षणात् । सापेक्षत्वे तु पूर्वार्थस्य चेदेको भवेत्तु सः ॥ स्योनन्त इति वाक्ये सः तस्मिन्नित्यत्र निश्चितः । एतन्मन्त्रत्रयजलप्राशनं तस्य कर्मणः अत्यन्तयोग्यतासंपादनाथ सन्ततं स्मृतम् । पुनराचमनं कृत्वा दधिक्रावद्वयेन वै ॥ पूर्वोक्तर्नवभिभूयास्त्वापोहिष्ठादिभिः शिवैः । हिरण्यवर्णात्रितया शिवेनेति च मन्त्रतः चतुर्विंशतिसंख्याकैर्मार्जनं प्रतिवर्णके । गायत्रीयेप्रोक्तियोग्यतार्थ प्रोचुरितिस्म तत् ॥ द्रुपदानामगायत्री सर्वमन्त्रोत्तमोत्तमा । सर्वेन (ण) हंसमुत्सर्गहेतवे सा प्रतिष्ठिता ॥ तयाभिमन्त्रितं तोयं त्यक्तं चेत्तावताखिलम् ।

एनोवृन्दं सद्य एव त्यक्तं नष्टं गतं भवेत् ॥

अर्घ्यदानम्

अथाचम्य विधानेन गायत्र्यैवाभिमन्त्रितम् । मन्देहानां विनाशाय त्रिवारं अतियत्नतः ॥

[[४०]]

मार्कण्डेयस्मृतिः

गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् । तद्दोषपरिहाराय कुर्याद्भक्त्या प्रदक्षिणम् ॥

असावादित्यो ब्रह्म ेति ब्रह्म ध्यायेत्समाहितः । तद्ब्रह्मध्यानमेव स्यात्संध्येति ब्रह्मवादिभिः ॥

नित्यं सम्यक् कृतं ध्यानं वारत्रयमतीव च । ब्राह्मण्यकारकं तत्स्यात् यत्तत्सन्ध्यात्रयं शुभम् ॥ दिने दिने ब्राह्मणेन असावादित्यमन्त्रतः ।

सोऽहंभावनया दिव्यं कृतं ध्यानं महर्षयः (र्षिभिः) ॥

सन्ध्येति प्रवदन्त्येते श्रुत्युक्ताः परमर्षयः । ब्रह्मध्यानात्परं कर्म नान्यत्किमपि विद्यते ॥ तच्च ध्यानं मन्त्रवाक्यार्थतत्त्रज्ञं परं महत् । उत्तमोत्तममित्युक्तं तद्वाक्यार्थश्च केवलः ॥ न कार्यकारकः प्रोक्तः किंतु सोऽनुभवात्मकः । गुरुप्रसादैकलभ्यो गुरुरेवेश्वरः परः ॥ देवगुवर्न भेदो हि गुरुर्देवाद्विशिष्यते । गुरुः सम्यग्बोधयति तमः परिहरेदपि ॥ देवोऽपि गुरुरूपेण समागत्य कृपामयः । तद्बोधकः प्रभवति तेनासौ कृतकृत्यताम् ॥

सम्प्राप्नोत्येव सततं तस्माद्वन्द्यः सदा गुरुः ।

सन्ध्यान्ते तु प्रतिदिनं गुरुभ्यो नम इत्यपि ॥

सन्ध्यायै चापि सावित्र्यै गायत्र्यै नम इत्यपि ।

देवताभ्यश्च सर्वाभ्यो वेदेभ्यो वा विधानतः ॥

देवेभ्यो वाऽथर्षिभ्यश्च मुनिभ्यो नम इत्यपि । नमस्कारं प्रकुर्वन् वै प्रवदन्वा विशेषतः प्रदक्षिणं प्रकुर्वीत कामोऽकार्षीन्मनु जपेत् । तदा मन्युरकार्षीदित्येतद्यत्तन्मनुं जपेत् ॥

दिनमस्कारः

नमोनमश्च मन्त्रान्ते वक्तव्यं स्यात्त्रिकालके ।

कर्णौ पादौ तथा स्पृष्ट्वा कृताञ्जलिपुटस्ततः ॥

मन्त्रानशेषान् तत्तत्कुलप्राप्ताचारतश्च तान् । उपदिष्टांश्च संप्राप्तान् जपेदेव विधानतः ॥

अर्ध्यान्ते वा तथा गायत्र्युपस्थानान्तरं तु वा ।

नमः प्राच्यादिमन्त्रांश्च प्रवरादीन्विधानतः ॥

गायत्रीमन्त्रवर्णनम्

starred नित्यं नमस्कारादिकर्मपु । सर्वेयेवाविशेषेण वदेदध्वर्यु मार्गतः ॥

प्रवरस्सः ( ( स ) तत्र हि स्याद्दर्शादिष्वेव नान्यतः ॥

प्रायश्चित्तार्यः

I

[[४१]]

अर्घ्यत्रयात्परं कालद्वयस्यास्य व्यतिक्रमे । प्रायश्चित्तक्रियायै स्यादध्यमेकं पुनः स्मृतम् ॥ केचिचतुष्टयं चेति प्राहुरार्या मनीषिणः । अर्घ्यक्रियासु संत्यक्ता गायत्री या द्विजोत्तमैः ब्रस्याः प्रत्युपसंहारहेतवे प्रतिलोमतः । जपेदेव विधानेन तत्प्रकारश्च वर्ण्यते ॥

गायत्रीवर्णसंख्यानिश्चयः

(तू) यादचोप्रनः यो यो धि हिमधी स्वदे गौभ । यणिरेर्ववित्सत ॥ प्रतिलोमविधौ यणि वर्णभेदेन वर्णनम् । अनुलोमप्रकारे तु वर्णैक्येनैव चोचरेत् ॥ तस्मिन्नर्थे श्रुतिः सूत्रं प्रमाणं प्रतिपादितम् । सूत्रं तत्सवितुरिति पच्छोर्घवेश इत्यपि ॥ प्रतीकप्रहणात्सूत्रकारेणात्र ततस्तथा । संहितायामाद्यकाण्डपञ्चमप्रश्न के यथा । पाठस्तथेत्येकवर्णस्ययस्य वर्णस्य वाक्यतः । व्यमेकमेव वर्णस्तु संख्यायां तद्वयं भवेत्

णयोःस्वीकृत्य भेदं वै संख्या सा कथिता परा ।

चतुर्विंशतिका सर्वैः त्रीणि सूर्ये यथा तथा ॥

गायत्री मातृवाक्येषु पथि भादिषु केवलम् । तुरीयपादेन तथा तन्मत्रोद्धारणं भवेत् ॥

तान्मत्रानप्यद्य सम्यग्विशदाय निरूप्यते ।

चभितन्मुखतः प्रोक्तं रोयोगों सा द्वितीयकम् ॥

रयोदेति तृतीयं स्यः (तू) जनवत्तु तुरीयकम् । वक्ष्यप्रसे पश्वमं स्यादेधीचोसेतिषष्ठकम् समं तत्रयं हि यादो तथाष्टमम् । एतेषामपि सर्वेषां मूलभूता श्रुतिः शिवा ॥ वर्णक्रमेककार्याय नान्यकार्यायते न हि । मन्त्रोद्धारः प्रभवति मन्त्रोद्धारेण तेन च ॥ प्रतिलोमानुलोभाभ्यां वाक्यानां न्यसनात्खलु । सर्वसिद्धिः प्रभवति तदेतद्गुरुवाक्यतः विशेयो हि भवेन्नूनं मन्त्र (स्तदु) पदेशतः । विप्रत्व सिद्धिर्भवति तत्परं तदुपासनात् ॥ तज्जपेन च तन्नित्यं विप्रत्वमतिदुर्लभम् । अतितीक्ष्णतरं स्याद्धि प्रतिनित्यं शनैः शनैः

[[४२]]

मार्कण्डेयस्मृतिः

तादृशस्यास्य मन्त्रस्य त्यागमात्रेण तत्क्षणात् । तद्विप्रत्वस्वरूपस्य जायते हानिरीदृशी

सा गायत्री वेदमाता महद्ब्राह्मण्यमूलिका ॥

ओंकारन्याहृतीनां प्रशंसा

सादौ व्याहृतिसंभूता व्याहृतिस्तार मूलका । गायत्रीमूलका वेदा वेदा लोकाश्रयाः शिवाः ॥ यथा बीजे वटस्तद्वत्तारे सर्वेऽपि तेऽखिलाः ।

भूर्भुवः स्वरादयः प्रोक्ताः संलीनाः सन्ति तेन सः ॥

तारः सर्वाधिकः प्रोक्तः सर्वकारणकारणम् । सर्ववेद क्रियामन्त्रदेवलोकैकविग्रहः ॥ सर्ववन्द्यश्च नितरां स एव ब्रह्मबोधकः । तदभेदस्वरूपश्च तद्य पासनहेतवे ॥ तदुक्तिपूर्वकत्वेन गायत्र्या व्यक्तिरुच्यते । वेदाद्यश्चारणे तस्मात्तन्मुखे सउदीर्यते ॥ तारतो व्याहृतिरिति यदुक्तं तन्निरूप्यते । संग्रहेणाद्य भवतां विशदाय क्रमेण वै ॥ तालवर्णत्रयाद्वर्गो बिन्दुनास्यात्तदर्णकः । स्वरोनादविशिष्टाभ्यां वैशिष्ट्येतत्परो भवेत्

नादेवे तत्समोवर्णः वेदतारत्रयेण सुः ।

तत्त्रयेण च ताभ्यामुः स्वरोऽन्त्यो वाऽखिलैः पुनः ॥

भूशब्देनात्र भूलोकः ओंकारस्तत्स्वरूपकः । भुवर्लोकस्तथा शेयः सुवर्लोको भुवस्सुवः afiant प्रकथितौ अव्ययाविति केचन । महर्लोकस्स्सकारान्तः महर्लोकैकवाचकः ॥ जनः सत्ये त्वकारान्ते पुंनपुंसकरूपके । लोकैकवाचके तेऽपि त एते निखिला अपि ॥ लोकैकवाचका ज्ञेयाः तदुच्चारणपूर्वतः । ओंकारो विद्यते तेन त एते तत्स्वरूपिणः । भूलोकोऽप्यों भुवश्चाप्यकार एव न चापरः । एवं सर्वत्र विज्ञ यस्तदर्थस्तत्त्वदर्शिभिः ॥ एवं सप्त व्याहृतयस्त्रिव्याहृत्यथ चोदिताः । एतद्वयेन ते सव गायत्री मातृकास्ततः ॥ जातास्तेभ्यश्च वाक्येभ्यो गायत्री सा समुद्धृता । अखिलैर्मिलितैरेतैः आपोज्योतिरसाश्च ते । तदीया इति विज्ञ ेयाः ते ब्रह्मवैति च स्मृताः । व्याहृतीनां तिसृणां च मध्ये सर्वेऽपि ते पुनः ॥ ओंकारमध्ये ते स्युश्चेन्महामन्त्राख्यकास्स्मृताः ॥

प्राणायामविधिवर्णनम्

प्राणायामः

[[४३]]

दशप्रणवगायत्री तथा कार्याखिलेष्वपि । कृत्येषु नित्यादिषु च प्राणायामो दिने दिने । तत्क्रमं चापि वक्ष्यामि सर्वानुष्ठानकारणम् । दशप्रणवगायत्रीत्रितयेन विधानतः ॥ कर्तव्योरेचकः पूर्वं तदनन्तरमेव वै। तदैव पूरकः कार्यः पुनश्च तदनन्तरम् ॥

कुम्भकश्च प्रकर्तव्यः तद्विधानेन केवलम् । एवमेतत्त्रयं चेत्तु कृतं भवति तत्परम् ॥ प्राणायामस्त्वेक एव एवं सर्वेषु कर्मसु । प्राणायामत्रयं कार्यमर्थचिन्तनपूर्वकम् ॥ तावन्मत्रेण नितरां बहुजन्मकृतं तु यत् । आविलौघं तत्क्षणेन आगस्त्वेनश्च केवलम् ॥ अहोबिलयमायाति चित्तशुद्धिर्भवत्यपि । प्राणायामसमोधर्मो प्राणायामसमो जपः ॥ प्राणायामसमो यज्ञः प्राणायामसमो दमः । प्राणायामसमं तीर्थ प्राणायामसमं तपः ॥ प्रणायामसमं दानं प्राणायामसमं श्रुतम् । प्राणायामसमो नान्यः पावको जगतीतले ॥ एकबारकृतः सम्यक् प्राणायामोऽखिलप्रदः । सर्वसिद्धिकरः पुंसां बलिपुष्टिविवर्धनः ॥ आधिव्याधिप्रशमको पमृत्युनिवारकः । ह्यनुष्ठितः प्रतिदिनं कालमृत्युनिवारकः ॥ दीर्घायुष्यैकजनकः शतायुष्याधिकप्रदः । तस्माद्विचक्षणो नित्यं प्राणायामपरो भवेत् ॥ स तु वायोर्निरोधैकभवितव्यः सदाकिल । तथा तदर्थानुसन्धानपूर्वक विधेयः ( ? ) ॥

प्राणायामासमर्थस्य तन्मन्त्रमात्र पठनविधिः

तथा कर्तुमशक्तश्चेत् ब्राह्मणोऽसौ निरन्तरम् । नासां प्रगृह्य तूष्णीकं मन्त्रमात्रमुदीरयेत् ॥

द्विषष्टिवर्णकं वर्णस्वरमात्रेण वा यदि । कृत्यकृत्यस्तावता वा त्रिवारोच्चारणात्परम् ॥

तस्मिन् मन्त्रे मन्त्रराजे प्रणवा दश हि स्मृताः । चतुविंशतिसंख्याकाः गायत्रीयास्तु वर्णकाः ॥

शुद्धव्याहृतिषर्णाश्च पञ्च तेषां पुनस्तथा । उच्चारणेऽपि पञ्चैव व्याहृतीयास्ततो दश ॥ मापोज्यो दशकं चाथ महद्वयं जनः सत्यं तपश्चेत्यष्टकं स्मृतम् ॥४४

मार्कण्डेयस्मृतिः

एतावन्मात्रवर्णाना केवलोच्चारणात्परम् ।

प्राणायामाख्यकं कर्म कृतमित्येव चोदितम् ॥

एतस्य प्रातिलोम्ये तु कदाचिद्धटते यदि । सप्तकोटिमहामन्त्र जापकोऽसौ भवेद्ध वम् ॥ सर्वाण्यस्त्राणिवैष्वेव वर्णव्यत्यासभेदतः । उच्चारणविशेषेण भवेयुः किल तावता ॥ प्राकृतस्यास्य कृत्यस्य समुदीरणतः परम् । प्रयोजनं नैव चास्ति तस्मात्तदुपरम्यते ॥ यद्य क्तमपि तत्सर्वं विस्तरं वैदिकस्य तु । कर्ममात्रस्य सततं बाधकं प्रभवेद्ध् वम् ॥ इयान्विशेषः सर्वत्र मन्त्रमात्रस्य केवलम् । ( सर्वदेव) विशेषेण तदर्थस्यानुचिन्तनम् ॥ महातत्कर्मसाद्गुण्यकारकं वीर्यवत्तरम् । श्रेयस्करं विशेषेण चित्तशुद्धिप्रदायकम् ॥ एतावन्मात्रतत्कर्म यत्तत्सर्वं दिने दिने । नित्यत्वेनैकविहितं सम्यक् चलति तेन चेत् ॥

कवचमुद्रादीनाम वैदिक सन्ध्यापरता

न्यासबीजाक्षरादीनामखादीनां पुनः पुनः । आवृत्तितोध्यानयन्त्रनामतन्त्रादिसंघकैः ॥ एकांगमात्रे कृत्स्नानां अतिकालविलम्बतः । प्रधानं कर्म किमपि भवेन्न समनुष्ठितम् ॥ मन्त्रस्य कवचादीनामभावे निष्प्रयोजनम् । इत्युक्तशास्त्रं तत्सवं अवैदिकपरं तु तत् । कथं तदितिचेद्भूयस्तच्चापि समुदीर्यते । शुद्धवैदिकमात्रस्य वेदप्रोक्तस्य कर्मणः ॥ कर्तव्यत्वेन विहिते प्रकृते तादृशस्य चेत् । कवच न्यासबीजानां मुद्रापञ्जरवर्णने ॥ मालामन्त्रमहामन्त्रशक्तिकीलार्गलार्पणे । एवं सर्वत्र वेद्भूयस्तत्तन्नामसहस्रतः ॥

सन्ध्यामात्रस्य सायं च नालं केवलमेव वै ।

कालो जपस्य चेद्भूयः प्रधानस्य कदा किमु ॥

अनन्तरं पुनरपि पाश्चात्यानां तु कर्मणाम् । अग्न्युद्धरणमुख्यानां उत्सर्गो (वा?)रकोभवेत् कालो न लभ्यते तेषां तदेतदखिलं ततः । तान्त्रिके लौकिके वेदानधिकारिण्यवैदिके ॥ उपपद्य ेत वा सम्यक् भवेद्वा न भवेत्तु वा । ऋषिध्यानादिकं चापि मन्त्रार्थज्ञानशून्यके तावन्मात्रं तु वा भूयादिति निश्चित्य केचन । ऋषिश्छन्दोदेवतादिपरिज्ञानं महत्त्वतः ॥

प्रशंसां कृतवन्तस्ते तावन्मात्रेण केवलम् ॥

सन्ध्यादिनित्यकर्मस्वर्थज्ञानमेवप्रशस्तमितिवर्णनम्

अर्थज्ञानवता कृतसन्ध्यावन्दनप्रशंसा

[[४५]]

समन्त्रो वीर्यवान् किंस्यात्सुस्पष्टे तु तदर्थ के । स्वत एवाखिलं तस्य समीचीनं भवत्यलम् तत्तदर्थमात्रतो भूयः कर्मसिद्धिश्च जायते । य एतं चीयते यउचैनं वेदेति सा श्रुतिः ॥

कर्म कर्तुर्यादृशं स्यात्फलं तस्मात्ततोऽधिकम् ।

अर्थज्ञानवतां पुंसां तूष्णीकं स्वत एव हि ॥

फलं भवेदिति पुनः सा प्रोवाच श्रुतिः समा । अर्थज्ञानैकशून्यानां कर्मकृत्याफलं स्मृतम् ॥

तावन्मत्रं देवबुद्धिपूर्वं चेदुत्तमं भवेत् । वस्तुतो लोकरीतिस्तु सन्ध्यादिषु विशेषतः ॥ मन्त्र ज्ञानैकविकलाः सर्वदेशेषु मानवाः । मन्त्रमात्रपराः केचिदत्यल्पाश्च विशेषतः ॥ तथा क्रियामात्रपराः कर्माभिनयनाः परे । वस्तुतो यत्रकुत्रापि मन्त्रमात्रोऽपि दुर्लभः ॥ अथापि लोके ब्राह्मण्यं गोपनीयं विशेषतः । न प्रकाश्यं बहिर्नित्यं वन्दनीयं सुरैरपि ॥

सन्ध्यामूलमिदं ब्राह्मय’ मन्त्रमूला च सा परा । सन्ध्यामन्त्राश्च सर्वत्र सर्वेषामपि सन्ततम् ॥

समा एव परा दिव्याः महब्राह्मण्यमूलकाः । सर्वेषामपि सन्तोति निश्चयेन दृढेन वै प्रपालनीयं तत्तस्माद्विवादं तत्र केवलम् । न कुर्यादेव शास्त्रेण कृतोपनयनो यदि ॥

संपूर्ण ब्राह्मण्य इत्येषा वैदिकी श्रुति ) ।

ब्राह्मणप्रशंसा

शास्त्रमात्रेण निश्चित्य गौरवेणार्चयेश्वतम् । शिखायज्ञोपवीतैकमात्रेणापि स्वरूपततः ॥ मुखवर्णेन तत्वेन वाचा तद्भाषगेन च । ब्राह्मबीजैकमाहात्म्याद्व लक्षण्यमतीव च ॥ इतरेभ्यो भृशं तस्मिन्

एवमेकः पाठः

इतरेभ्यो (भृ) शंदेवात्प्रस्थुरेदेव पश्यतः । विप्रमन्त्र विप्रमात्रः कामतस्सततं महान् ॥ पक्षपातः प्रकर्तव्यो विशेषेण प्रवच्मि वः । सर्वेषामपि वर्णानां अप्ययं ब्राह्मणत्रुवः ॥

[[४६]]

मार्कण्डेयस्मृतिः

गुरुरित्येव विज्ञेयः नावज्ञ ेयः कदाचन । तन्तुमात्रप्रधानोऽपि ब्राह्मणो नामधारकः ॥ तथैव ब्रह्मबन्धुर्वा सर्ववन्द्यो न संशयः । ब्रह्मवीर्यसमुत्पन्नः सर्वकर्मैकसंश्रयः ॥

कर्मभिर्वर्जितो वापि नाममात्रप्रधानकः ।

सोऽयमब्राह्मणः प्रोक्तः पूजामर्हति सोऽप्ययम् ॥

ब्राह्मणत्र वो निन्दा

भ्रातिदुष्टसुस्पष्ट व्रात्य कर्मद्विजाख्यकात् । संजातो जातकर्मादि मन्त्रराहित्य संस्कृतः ॥ नाममात्रोपनयनो मन्त्रोच्चारणमात्रके । तत्पितुस्तस्य वैदग्ध्यस्पष्टराहित्यकर्मतः ॥

विप्राभिधानो विप्रागारारात्कृत निवासतः । अत्यन्ताब्राह्मणत्वेन प्रसिद्धोऽपि पुनस्तराम् ॥

तद्ब्राह्मण्यं गोपनीयं तत्क्रमं चापि वच्मि वः । तत्रत्यैरखिलैस्तस्य मृतिश्राद्धादिकर्मसु ॥

ब्राह्मणैर्मन्त्रकार्येषु पालनीयः प्रयत्नतः ।

न त्याज्यो न बहिष्कार्यों बोधनीयस्तदा तदा ॥ जातित्वेन स्थितो यस्मात् शि (च्छि ) खातन्तुसमन्वितः ।

यदा तदा स्नानसन्ध्याभासमात्र प्रधानकः ॥ सन्ध्यास्नानात्परं भुक्तिर्विना ताभ्यां न भुज्यते ।

इज्याचारक कृत्यश्चेत्सर्वैस्तैः कामचारतः ॥

सद्भिः संरक्षणीयः स्याद् ब्राह्मण्यं तादृशं महत् । यद्ययं भुक्तिकालेषु सर्वसाधारणेन वै ॥ अनप्रदानकार्येषु महेषु प्रयभूरिषु । समागतश्चेदन्नाय तदा स किल कुत्रचित् ॥

कोणभागे पुण्यपङ् क्तिदूरतस्तस्य कल्पयेत् । संस्थानं तादृशैरेव यैः कैश्चिद्दूरपङ्क्तिभिः ॥

दुराचारैदु विनीतैश्चर्वणं कारयेदपि । उत्सवेषु विवाहेषु मौज्ज्यादिषु सतां गृहे ॥

श्रीमतां भगिनां पुंसां शुचीनां ब्रह्मवादिनाम् ।

अत्यन्नदानकालेषु जातिमात्रोपजीविनाम् ॥

महोत्सवेषु समग्रधनधान्यदानप्रशंसावर्णनम्

[[४७]]

अन्नदानं प्रशंसन्ति नार्हन्त्येवासहिष्णुताम् । दूरीकृतं तिरस्कारं छत्कारं दुष्टभाषणम् ॥ नार्हन्तिदुर्जनाश्चापि दुराचारैश्च निन्दिताः । अन्नमात्रप्रदानेन महतां दक्षिणा च या ॥ दीयते तद्दशांशेन द्वादशांशेन वा पुनः । दत्वोद्वास्यादरिद्रा या विधवाश्वविशेषतः ॥

अपुत्रिण्यः सपुत्रिण्यः यथोत्साहेन वाक्यतः ।

संभावत्वा यत्किचिद्दत्वैव स्वानुरूपतः ॥

कालदेशानुगुण्येन दक्षिणा भोजनादिना । येनकेनाप्युपायेन दोषयित्वैव चोद्वसेत् ॥

नयक्कं ( कं ? ) चनतत्पीडाप्रलापैरतिपीडनैः

[[1]]

अत्यन्तभाग्यवान् तेषु न भग्नाशान् प्रकल्पयेत् ॥

यः कश्वनापि नितरां वैश्वदेवावसानके । भुक्तिकाले विशेषेण व्रतचर्यासु सर्वदा ॥

जातकादिषु पुत्राणां मौज्यादिषु तथाप्यति । विवाहे पुत्रिकायाश्च दक्षिणा भुक्तिकर्मणि ॥ समागतानबन्धून् वा पण्डितानखिलान् खलान् ॥ उत्सवादिध्वनाहूतागतानाम निराकरणम्

अनाहूयैव चापल्यादागतानतिदौष्ट्यतः । सुप्रसिद्धदुराचारान् दुर्मुखानतितुच्छकान् ॥ दुश्चरित्रान्विशेषेण पशूनन्धान् दुराकृतीन् । असतोऽतीव सर्वत्र सदा संग्रहकानपि ॥ कृपणान् दुर्गतान्नित्यकलहैकपरानपि । न पीडयेन्न चाक्रोशेन्नावमन्येन्न भीषयेत् ॥ न वदेच्चापि दुर्भाषा वैमुख्यं प्रापयेन्न तु । भग्नान्नैव प्रकुर्वीत कुर्यात्प्राप्तमनोरथान् ॥ . सुमुखानतियत्नेन दरिद्रोऽपि यतन्मति । कल्याण्या भाषया सम्यगभिपूज्यैव कर्मसु ॥ तादृशेषु विशिष्टैयव पूजयेद्वासयेदपि । एवं सत्यत्र सुमहान् भाग्यवान्मतिमानति ॥

श्रीमान् कृती पुण्यकर्मा कृत्याकृत्यविशेषवित् । दयार्द्र हृदयो योगी कल्याणाभिजनो महान् ॥ धनधान्यग्रामसीममहद्राज्यमहाघनी ।

अपि सन् किं पुनः स्वस्य संप्राप्त पुत्रपौत्रयोः ॥

विवाहे जन्ममौज्यादिमहाकर्मसु भूरिषु । ज्योतिष्टोमादिकृत्येषु महादानादि कर्मसु ॥

[[४८]]

मार्कण्डेयस्मृतिः

यमयज्ञ शुभागारे पुण्ये शूलगवेऽपि वा । अष्टकायां सर्पवल्या अपूर्वाधानकर्मणि ॥ प्रथमोपाकृतौ पुत्रपौत्रयोर्वा तथाविधे । अपूर्वपुत्रिकाताधेह (सु) त्सुमहोद्ध (त्स) त्रकर्मणि

कथं समागतान् पूर्वप्रोक्तान् लोकान् महाशयाः । समागतान्महादुःखाद् दारिद्रयणैव दुर्गतान् ॥ प्रकुर्याद्विमुखान् शक्तः स्वयमत्यन्तभाग्यवान् ।

यदि कुर्यादुत्सवेषु दरिद्रानागतान् गृही ॥ विमुखास्तस्य साथ (श्री) स्तु सद्यो नष्टा भवेद् ध्रुवम् । समागता ये सुमुखाः प्राप्तकामा मुदायुताः ॥ अभ्यागताश्चातिथयः यस्य गेहान्महात्मनः ।

अहो प्रतिनिवर्तन्ते तस्य श्रीः सातिवर्धते ॥ प्रतिनित्यं विशेषेण चन्द्रमा इव शुक्रके ।

तदेव जन्म तस्यास्य भव्यं भाग्यं च तादृशम् ॥ शाखाचंक्रमणेनालं प्रशस्तं प्रकृतं हि तत् ॥

ब्राह्मण्यप्रशंसा

T

बहूत्वा किं तादृशं हि ब्राह्मण्यं वेदसंमितम् । देववन्द्यमतिश्लाध्यं पावनं पावकं महत् ॥ संपन्निदानं कल्याणकारकं पापवारकम् । आपद्वृन्दादिशमनं चिन्तितार्थप्रदायकम् ॥ तस्य दशनमात्रेण नरः पापात्प्रमुच्यते । आधिव्याधिप्रशमनं कालमृत्युहरं परम् ॥ श्वाश्रयश्रीकारकं भव्यमूलकं चिन्तितार्थदम् । सर्वतीर्थेकरूपं तत्सर्वयज्ञफलप्रदम् ॥ तद्वाक्यजलमात्रेण सर्वपापानि देहिनः । प्रनष्टानि भवन्त्येव हीनवर्णोऽपि जायते ॥ महावर्णः सद्य एव यद्यनुग्राहका द्विजाः । तेऽनुग्रहैककर्तारः नश्शाखिनोऽपि वा ॥ सप्त पथ्य त्रयो वापि यदि स्युः श्रोत्रियाः शिवाः । वेदाध्ययनहीनाश्चेच्छाखाध्यायिन एव वा ॥ पूर्वोक्तसंख्याकाः स्युश्चेदपात्रोऽप्यत्र पात्रताम् । इयादेवाविलम्बेन नात्र कार्या विचारणा ॥

परिषदि श्रोत्रियस्यैवाधिकारवर्णनम्

यत्र त्रयो वा लब्धाः स्युः श्रोत्रियास्तत्र केवलम । परिषत्त्वं महत्प्राप्तं केवलं भवति ध्रुवम् ॥ ब्रह्मविष्णुमहेशानां इन्द्रादीनां दिवौकसाम् । त्रयस्त्रिंशत्कोटिसंख्याकानां सुमहतामपि ॥ सान्निध्यमपि तत्रैव भवेदेव न संशयः । गङ्गादीनां च सर्वासां नदीनां पुण्यपाथसाम् ॥ सप्तानां शतसंख्यानां सर्वपापविरोधिनाम् । षट्कोटिकोटितीर्थानां वेदानां चापि कृत्स्नशः ॥ समुद्राणां च सर्वेषां श्रोत्रिया यत्र वा त्रयः ।

सान्निध्यं तत्र भवति परिषत्त्वं च तत्र हि ॥

[[35]]

यत्राश्रोत्रियसाहस्रं दशसाहस्रमेव वा । परिषत्त्वं न तत्रास्ति तदानुग्रहकत्वकम् ॥

न प्राप्नोत्येव नितरां श्रोत्रियत्वं च केवलम् । शाखाध्ययनतः स्याद्धि तादृग्विप्रो महानति ॥ तदर्थज्ञो यदि पुनः साक्षादीश्वर एव नः ॥

शाखाध्ययनहीनानां निन्दा

बिना तु शाखाध्ययनं ये सभायां महाजडाः । परिषत्त्वं प्रकुर्वन्ति न तत्त्वं पतिपद्यते ॥ अनुग्रहो यत्कृतम्तै र्न स तत्फलदायकः । तूष्णीको कृतप्रायः व्यर्थ एव भवेच्च सः ॥ मन्त्रपूतं तत्क्रमे मन्त्रा वेदकवर्तिनः । तत्तत्क्रियासाधनाय ते मन्त्राः स्युरपेक्षिताः ॥

तस्मात्स्वाधीनमन्त्रा ये ब्राह्मणाः श्रोत्रिया इति ।

प्रसिद्धाः सर्वकृत्येषु प्रशस्ताः स्युरनुप्रहे ॥

वेदाध्ययनसंस्कारजन्यसंस्कृतभाषया । यथोच्यते तथैव स्यान्तेन ते स्युरनुग्रहे ॥ निरपेक्षककर्त्तारः कर्तु चाकतुमेव च । अन्यथाकर्तुमपि च शक्ताः स्युः सन्ततं हि ते ॥ यथा चित्रप्रलिखिताः मर्त्यदेवसुरद्विषः । गजगोवाजिभुजगमृगयृक्षवानराः ॥

[[४]]

[[५०]]

माकण्डेयस्मृतिः

स्वकार्यकरणाशक्ताः तथा वेदविवर्जिताः । अनुग्रहकराः प्रोक्ताः महद्भिर्ब्रह्मवादिभिः ॥

यदि मौयन ते तूष्णीं श्रोत्रियान्तर्गताः खलाः । परिषत्स्वपि तिष्ठन्तस्तथास्त्विति वदन्ति चेत् ॥ जिह्वायां तु तदीयायां प्रोतयित्वा खरं तु तत् । शूलं दूताः कालसूत्रे याम्यास्तं ताडयन्त्यति ॥ तत्कर्म च तथैव स्याद्यथाप्रोक्तं पुरा किल । तस्मात्तु कर्मसाद्गुण्यहेतवे वैदिकान् शुचीन्न ॥ ज्ञात्वा परिषदः कुर्यादन्यथा नाशमेति तत् । तत्कर्मापि प्रनष्टं स्यात् परिषत्त्वस्य तस्य च ॥

सभ्यलक्षणम्

विधायका महान्तः स्युर्वेदशास्त्रार्थवेदिनः । धर्माधर्मैकनिपुणाः कृत्याकृत्य विशेषगाः ॥ पुण्यपापातिभीताश्च दयादाक्षिण्यतत्पराः । पौर्वापर्यविशेषज्ञा देशकालानुगुण्यतः ॥ प्रवाचनैकनिपुणाः तथा प्रवचनेऽपि च । त्रय एव हि ते प्रोक्ताः होश्रीभीपुत्रसंयुताः ॥ निधयः सर्वविद्यानां सुमुखाः सुलभाः परम् । एतेभ्योऽप्यधिको ज्ञेयः सौजन्यश्रीनिकेतनः ॥ अत्यन्तदाक्षिण्यपरः कल्पनीयोऽनुवादकः ॥

अनुवादकलक्षणम् - अनुवादककृत्यम्

अनुवादककृत्यं तदत्यन्ताशक्यमुच्यते । आदौ शेया गृहपतेर्वयः कर्म धृतिर्मतिः ॥ कृतं च क्रियमाणं च चरित्रं चेष्टितं च तत् । बलाबले शक्तिभाग्यसामर्थ्यनियमादयः ॥ अनुवादकसंज्ञेन सम्यगेतेखिला अपि । विज्ञेयाः स्युः पुनरपि तेषां परिषदामपि ॥

मानसं तचरिsi च तद्वाक्यानि पृथक् पृथक् ।

तथाविधायकानां च कार्याकार्यादिकं पुनः ॥

उक्तिप्रत्युक्तिवाक्यानि सर्वेषामपिकृत्स्नशः । अनुवादपुरोवादपश्चाद्वावादिकानपि ॥

}

सर्वपापोत्तारणे ब्राह्मणानामेव वचनप्रामाण्यवर्णनम्

[[1]]

[[५१]]

कृत्स्नान् शास्त्रमहामार्गावितथेनैवतान् स्वयम् । अनूद्य वेदमार्गेण त्रिवारं सम्यगेव वै तथोर्ध्वबाहु निष्कर्षं तस्योद्धरणहेतवे । अन्यूनानतिरिक्तेन प्रकुर्यादिति सा श्रुतिः ॥ तत्रादौ शास्त्र (ह) ष्टानि यजमानस्य केवलम् । सभाभ्यनुज्ञा प्रथमोऽभ्यनुज्ञा स्वकृतिस्ततः परिषदक्षिणापश्चाद्दशस्नानानि तानि वै । मृदादीन्यदि शुद्ध कहेतूनि प्रवराण्यति ॥ पावनानि प्रशस्तानि महर्षिगदितान्यपि । संकल्पश्चापि वरणं त्रयाणां च पृथक् पृथक् ॥ सर्वेषामपि भूयश्च तत्तत्कृत्वानुरूपतः । अन्तरा ब्राह्मणं कृत्वा नान्दीं पुण्याहपूर्वतः ॥ कृत्वैव च विधानेन प्राच्याङ्ग च ततश्चरेत् । तथैव वैष्णवश्राद्धं शालाहोमश्च पूर्वकः ॥ विज्ञापनाप्रकारश्च वचनं वाचनं तथा । अनुवादकवाक्यैकप्राधान्येनैव केवलम् ॥ विधायकानां वाक्यानि पर्यालोचनयैव हि । शास्त्राणामपि सर्वेषां पश्चात्परिषदामपि परस्परैकवाक्यानि सर्वेषामेकवाक्यतः । निश्चयेन ततः पश्चादेकैकत्वेन तत्परम् ॥ यजमानमुखं दृष्ट्वा त्वं वदेति ततः पुनः । वाक्यं परिषदां श्रीमद्वचनं तेन तत्परम् ॥ अनुवादकवाक्यं च तत्तच्छत्त्यनुसारतः । कृच्छ्रानुष्ठानतस्तस्य परा सा कृतकृत्यता ॥ जाता तवेति य (तू) प्रोक्तिः शालाहोमस्ततः पुनः ।

उत्तराख्यश्च परमो गोदानं दक्षिणादिना ॥

उदीच्यनामकं दिव्यं तच्छ्राद्धं च ततः परम् । भोजनं ब्राह्मणानां च भूरिदानं विशेषतः दशदानानि पुण्यानि सर्वपापेभ्य एव च । मुक्त्यै भूयासमित्येव यजमानस्य चिन्तनम् ॥ सर्व तदेतत्तरणोपायाः मर्त्यस्य देहिनः । प्राणिमात्रस्योपदिष्टाः सर्वे विप्रमुखेन वै ॥ सर्वपापोत्तारणस्य ब्राह्मणा एव वेदिनः । उपायाः कथिता वेदशास्त्रकल्पादिभिर्ह ढम् ॥ बिना विप्रमुखं कर्म न किश्चिदपि विद्यते । कर्ममात्रे ब्राह्मणो वै साक्षी सर्वस्य वैधतः ॥ ब्राह्मण (स्य कृतं) पूर्व ब्रह्मणा वेधसा तथा । ब्रह्मणा रहितं कर्म तस्मात्कर्तुं न शक्यते ॥ ब्राह्मणानां तद्धनस्य निक्षिप्तस्य स्वशक्तितः । विभागः शास्त्ररचितः इत्येव श्रुतिसूत्रतः ॥

पादः परिषदं गच्छेत्पादो गच्छेद्विधायकान् ।

पादोऽनुवादकं गच्छेत्पादं कृच्छ्रषु विन्यसेत् ॥

एवं यो ब्रह्ममुखतः प्रायश्चित्तं करोति वै । तरत्येवाशु तस्मान्तु कृतकृत्यो भवेदपि ॥

[[५२]]

मार्कण्डेयस्मृतिः

सर्वेभ्यश्चापि पापेभ्यः सकाशाद् ब्राह्मणो महान् । तारयेदवशान्नूनं वेदविच्छास्त्रपारगः ब्राह्मणस्योत्तमत्वे मनुनारदाद्य क्तश्लोकोदाहरणम्

अत्रेदं मनुना गीतं वचनं श्रुतिरूपकम् ।

यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ॥

कव्यानि चैव पितरः किंभूतमधिकं ततः । नारदेनात्र कथितः श्लोककश्च न तारकः ॥ एक एवात्र निपुणः पाप्युद्धरणकर्मणि । उपायेनैव लघना वाक्यमात्रेण बाडबः ॥

पुरा प्रोवाच भगवान् नन्दिश्लोकं पुरोदितम् । शंभुना देवदेवेन गौर्यै स्कन्दाय तत्वतः ॥ अस्मिन्नर्थे सर्वदेवपुरतः कारणेन वै । तं वो निरूपयिष्यामि तज्ज्ञात्यै शृणुताधुना । देवतानि न तीर्थानि क्षेत्रकृच्छ्रतपांसि च । तुलितानि ब्राह्मणेन भवेयुर्वेदिना सता ॥

यथाकथंचित्पूज्यः स्यात्सर्वकर्मसु सन्ततम् ।

अब्राह्मणो ब्राह्मणोऽपि त्वपात्रं पात्रमेव वै ॥ नामधारकमात्र वा तथैव ब्राह्मणत्रुवः ॥

श्रोत्रियाश्रोत्रियादितारतम्यम्

श्रोत्रियो वेदतत्त्वज्ञो वेदपारग इत्यपि । ब्राह्मणानां तारतम्ये कथितं ब्रह्मवित्तमैः ॥ ब्रह्मवीर्यसमुत्पन्नो मंत्र संस्कारवर्जितः । जातिमात्रोपजीवी च सावब्राह्मणः स्मृतः ॥

विवाहितायां ब्राह्मण्यां ब्राह्मणाज्जनितो यदि ।

मन्त्राभासक्रियामात्रो ब्राह्मणः स्यात् क्रियाक्षमः ॥

सज्जन्मतः क्रि पालोपादपात्रमिति कथ्यते । सज्जन्मतस्सत्क्रियया पात्रमित्युच्यते बुधैः॥

सज्जन्मतोऽसत्क्रियया नित्यकर्मादिशून्यतः ।

जातिमात्रोपजीवी यः स प्रोक्तो ब्राह्मणत्रुवः ॥

सज्जन्मनासंस्कृतः सर्वैः नित्यकर्मादिकृत्स्वयम् ।

शाखामात्राध्यायी च श्रोत्रियः कथितोऽखिलैः ॥

वेदशास्त्रादितत्त्वज्ञः सर्वसंस्कारसंस्कृतः । ब्रह्मविद्ब्राह्मणो योगी वेदपारग उच्यते ॥

शूद्रान्नप्रतिग्रहीतृप्रायश्चित्तवर्णनम्

[[५३]]

प्रोक्तषु सर्वष्वेतेषु श्रोत्रियो वेदतत्त्ववित् । उत्तमात्युत्तमौ होयौ पावको पङ्क्तिपावनौ ॥ परदारपरान्नाभ्यां प्रतिमहविशेषतः । दुष्क्रियाभिर्ब्राह्मणत्वं दैन्यमेव प्रपद्यते ॥ परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहात् ।

परस्त्रीचिन्तया चित्तं ब्राह्मणस्य निरन्तरम् ॥

वेदप्रवचनादास्यं कार्ता

एतद्दुष्टस्य चेहवं भविष्यति हि केवलम् । महात्मनो वैपरीत्यं ब्राह्मणस्य विजानतः ॥ प्रतिपद्यते । नित्यकर्मवशौ हस्तौ मानसं ब्रह्मचिन्तनात् ॥ सर्ववेदधरो विप्रो यदि शूद्रान्नतत्परः ॥

शूद्रान्नप्रतिग्रहीतृनिन्दा

सद्यः पातित्यमाप्नोति तदन्नं तत्परित्यजेत् ।

आहिताग्मिः सदापात्रं सदापात्रं तु वेदवित् ॥

पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे । आमं शूद्रस्य पक्वान्नं पक्कमुच्छिष्टमेव तत् ॥ शूद्रावामं कदाचिद्वान गृह्णीयात् ततस्तराम् । विशिष्य तत्पितृश्राद्ध े तेन दत्तं सुचेतसा ॥ तदुद्द ेशेन महात्मा प्रतिगृह्य दुराशया । मलिनीकरणात्पापान्मालिन्यं प्रतिपद्य वै ॥

विप्रत्वस्य स्वनिष्ठस्य स्वीयजातिच्युतो भवेत् ॥

तत्प्रायश्चित्तम्

सदोष परिहाराय ब्रह्मकूर्चविधानतः । तपःकृच्छ्रं पुरा कृत्वा पक्षयावकभोजनः ॥ चतुर्विंशतिसाहस्र गायत्री जपतस्ततः । द्वादशब्राह्मणानां च भोजनेन ततः पुनः ॥

गां दद्यादिति सर्वाणि गर्जन्ति जगतीतले ।

विविधान्यपि शास्त्राणि सौ ( स ) कृदेव कृतस्य वै ॥

[[11]]

एवमाद्वादशादुक्तं तदूर्ध्वं परितो ध्रुवम् । शूद्रान्नजीवी न भवेत्प्राणैः कण्ठगतैरपि । शूद्रान्नशूद्रसंपर्कान्मासमात्रेण बाडबम् । शूद्रीकृत्यावशात्पश्चाश्चण्डालत्वं करिष्यतः ।

एकस्य शूद्रमात्रस्य पौरोहित्यं द्विजाधमः ॥५४

मार्कण्डेयस्मृतिः

रजकादिभ्यः प्रतिग्रहफलम्

एकस्य शूद्रमात्रस्य पौरोहित्यं द्विजाधमः । संपाद्य पक्षमात्रेण रजकत्वं प्रपद्यते ॥ रजकस्य तथा तवं संप्राप्यैव दिनत्रयम् । दाश ( स ) त्वं समवाप्नोति तस्य तन्मासतो यदि संप्राप्तश्चेद्विजो मूढः सूनत्वं प्रतिपद्यते । तस्य मासेन तत्कृत्यात्पौरोहित्या (रव्यकर्मणा) तिलघातकजातित्वं लभते ब्राह्मगाधमः । तिलघातकपौरोहित्येन मासे न हाद्विजः ॥

सुराकृत्वमवाप्नोति मासतानूनमत्र वः ॥ रजकदाशतिलधातुकादिभ्यः प्रतिग्रहप्रायश्चितम्

प्रवच्मि चैषां सौलभ्यान्निष्कृतिं शास्त्रचोदिताम् । चापायानं कृत्वादौ तत्सवं स्नान ततः ॥

कृत्वा यथावत्तत्रैव पुनः स मादितः (1) । लब्ध्वा विप्रमुखात्पश्चाद्दत्वागोत्रयमेव च ॥ यथाशक्ति ब्राह्मणानां भोजनं च सपर्यया । कृत्वा तदंहसामुक्तः पुनर्ब्राह्मण्यमश्नुते ॥ मिलनीच किरात पुलिन्दादिपौरोहित्याश्रयणप्रायश्चितम्

भिल्लानां चकिरातानां पुलिन्दानां प्रहारिणाम् । यवनानां च हूणानां पर्पराणां दुरात्मनाम् ॥ पौरोहित्याश्रयाभ्यां च गृहचर्यादिबोधनात् । नक्षत्रतिथिवाराणामुक्त्या तत्पापशान्तये ॥ मन्त्रतन्त्रजपादीनां करणे न च केवलम् । सद्यो वैक्लव्यमासाद्य न्यूनतां जातिहैन्यताम् ॥

सद्भ्यो महद्भ्यो ज्ञानिभ्यो न्यङ्गनैच्येतिनिन्दिते ।

पराभूर्ति च तुच्छत्वं सर्वाभाषणतामपि । सर्वेषामस्मृतित्वं च संप्राप्यैव च तत्पुनः ॥ चण्डालतुलित पश्चात्तेषु चापि निकृष्टतः । तुच्छजातिर्भवेदेव नात्र कार्या विचारणा ॥

तस्यैतस्यापि वक्ष्यामि दुष्कृत्यस्यातिपावनीम् ।

निष्कृति शास्त्रविहितां परिषत्पूर्वमेव वै ॥

स्वर्णकाररथकारादि पौरोहित्य निषेधवर्णनम्

सन्ततं यावकाहारी मार्गमध्येतितापतः । agratch विधानेन स्वास्यान्मासत्रयं शुचिः ॥

कालत्रयेऽपि नितरामघमर्षणमन्त्रकैः । जले निमग्नो नियतो द्रुपदामपि पावनीम् ॥ दशप्रणव गायत्री प्राणायामविधानतः । वायोर्निरोधनं कुर्वन् स्वकृत्यं चापि संस्मरन् ॥ कालं नयेद्यथाशास्त्रं पुनः संस्कारकर्मणा । गोपश्चकप्रदानेन शक्त्या ब्राह्मणभोजनात् ॥ शुद्धो भवेदन्यथाऽसौ पूर्वा गतिमवाप्नुयात् ॥ स्वर्णकाररथकारादि पौरोहित्यनिषेधः

स्वर्णकारस्य तुच्छस्य रथकारस्यास्य पापिनः । सूतस्यायस्करस्यापि पौरोहित्याच्छताधिकम् ॥

दिवाकीर्त्यस्या मूर्तेः पौरोहित्यं तु दुष्करम् । तन्मन्दिर प्रवेशेन तत्प्रतिग्रहकाम्यया ॥

कीर्तिर्यशोलक्ष्मीः श्रीः शोभा सौम्यता परा ।

भगो दाक्ष्यः सहश्चैव बलमोजो धृतिर्दमः ॥ तत्क्षणाद्विलयं यान्ति वैरूप्यमपि जायते ।

रात्रौ तमरणान्नूनं अश्रूयलक्ष्म्यामहेऽस्य सः ॥

स्यातां प्रविष्टौ सुतरां तस्मात्तत्कीर्तनं दिवा । कर्तव्यं हि प्रयत्नेन तत्कृत्यमपि केवलम् ॥ क्षुरकर्म च नोचार्य’ स्मरणीयं यतो नतु । तादृशस्यातिपापस्य पौरोहित्यं द्विजाधमः ॥

करोति यो वा मौढ्य ेन तस्यैते नरकास्थिताः ।

ये लोके कालसूत्रादिनामका यमलोकके ॥ नालं ते निखिलेनैव संग्रहेण वदामि वः ।

बहूवा (त्या) कि महाभागा ग्राह्यो वाच्योऽपि नैव सः ॥

किंतु नित्यं स पापी तु प्रेक्षणीयोऽपि नैव तु ।

यदि दृष्टः स मूढात्मा कदाचिदवशादपि ॥ सद्यः सूर्यविलोकः स्यात् पुण्डरीकाक्षमेव च । स्मृत्वा च द्रुपदां दुर्गा शची लक्ष्मीमुमां तथा ॥

[[५६]]

माकण्डेयस्मृतिः

दशप्रणवगायत्री जपेदपि सकुच्छिवाम् ।

नक्षत्रजीवी लोकेऽस्मिन् निन्द्यो भवति केवलम् ॥

न भवेदेव नितरां देशप्रामपुरोहितः । सर्वजातियुतप्रामपौरोहित्येन केवलम् ॥ संकरोऽयं भवेन्नूनं तस्मात्तत्संपरित्यजेत् । षोडशप्रामचण्डालपौरोहित्येन तत्क्षणम् ॥

तत्तज्जातीयपापानामालयोऽयं न संशयः ॥

वेश्याराजा दिपौरोहित्यनिषेधः

सर्वप्राणेन नितरां वेश्यावीथीपुरोहितः । न भवेदेव कामेन तस्य चित्तं तु दुस्तरम् ॥ अत्यन्तनिन्दितं राजपौरोहित्यं महात्मभिः । तदेकदिनमात्रेण धनाधोगतिदा सदा ॥

पौरोहित्येन नितरां करदीपिकजीविनाम् ।

ज्ञानजन्मस्वयं नूनं ज्वाला भास्वत्पिशाचताम् ॥

संप्राप्य पश्चादुःखेन खद्योतत्वं प्रपद्यते । गुरुवारेष्वसंभाष्यो गोपालानां पुरोहितः ॥ भौमवारे संभाष्यो मत्स्यघ । तिपुरोहितः । त्रियामासु न संभाष्यो ग्रामपालपुरोहितः भानुवारेष्वसंभाष्यो चित्रकारपुरोहितः । स्थिरवारेष्वसंभाव्यः शस्त्रधावपुरोहितः ॥ इन्दुवारात्प्रेक्षणीयः शत्रराणां पुरोहितः । सौम्यवारेष्वसंभाष्यो यवनानां पुरोहितः ॥ सर्वेषां रथकाराणामम्बष्ठानां च शिल्पिनाम् । सौचिकानां तुन्नवायरजकानां पुरोहितः बुधवारे न प्रशस्ता भाषणादिषु कर्मसु । पौर्णमासीष्वमास्त्रेवं चर्मकारपुरोहितः ॥ संलापादिष्वयोग्योऽयं किं वा संभावनादिषु । सूततक्षकमाहिष्यमण्डहारकजीविनः ॥ . पौरोहित्येन ये ते वै संक्रान्तिध्वेव केवलम् । न संभाष्यो विशेषेण न प्रष्टव्याश्च रात्रिषु शुक्रवारेषु सर्वेषु करदीपोपजीविनः । न दर्शनीया यत्नेन परं सायान्तु तेषु वै । प्रतिष्ठति श्रीयंत्नेन तस्मात्ते तदनन्तरम् । सदा भव्येषु पुण्येषु कल्याणेषु विशेषतः ॥

उ ( तमे ?) षु च सर्वेषु प्रेक्षणीया दिवा न तु ।

अहस्वलक्ष्मीस्तेषु स्यालक्ष्मीस्सायं स्थिरा भृशम् ॥

तस्मात्तु दर्शनं तेषां सायंकाले विशिष्यते । सर्वपैतृकवारेषु शिबिकावाहनक्षमाः ॥

प्रेतान्नभोक्तुर्निन्दावर्णनम्

[[५७]]

न द्रष्टव्या न संभाष्याः कल्याणेषु विशेषतः । दर्शनं प्रवरं तेषां बन्धूनामागमेषु च ॥ मौञ्जीविवाह सीमन्तपुण्यशूलगवादिपु । नितरां न प्रवेयः बुरूडानां पुरोहितः ॥ मृतक शौवकालेषु तन्तुवायपुरोहितः । न संभाष्यो विशेषेण प्रेक्षणीयोऽपि नैव तु ॥ स्वीकार कालेषु शुभकार्याय केवलम् । अत्यन्तावश्यकोऽयं स्यात् तन्तुवायपुरोहितः ॥ ते तीर्थजीविनो नित्यं तिष्ठन्तस्तत्र भूरिशः । सर्वजातीयसंघातधनग्रहणलोलुपाः ॥

वयवज्यैकराहित्यमानसा दुष्टचेतसः ॥

शूद्रार्थमानीतपवित्रपाणित्राह्मणस्यहव्यकव्यादिनिषेधः

शूद्रार्थानी तसद्दर्भपवित्रधृतमुष्टयः । अत्यन्तनिन्दिताः पापाः न योग्या हव्यकव्ययोः

वाङ्मात्रेणापि नार्च्या. स्युर्नवन्द्या करसंपुटात् ।

वेदशास्त्ररतास्तेऽपि न पतयः कदाचन ॥

पुण्यक्षेत्रकृतावासाः तादृनिन्दितकर्मणाम् ।

करणादूषिता एव भवेयुर्ब्राह्मणा अपि ॥

पुण्यक्षेत्रकृतावासान् स्वकर्मनिरतानपि । तत्क्षुद्रशूद्रतत्तीर्थप्रतिग्रहमहाविलम् ॥

[[1]]

“युतित्वं विप्रतस्सद्यः कारयत्यतिसत्वरम् । प्रतिग्रहरता विप्रा पुण्यतीर्थतटेष्वति ॥

वयमेवात्र कृत्स्नानां दानानां प्राहका इति ।

वदन्तः सततं क्रौर्यप्रोक्तिपूर्वचवि च विकाः ( वचांसि च ) ॥

त एव कीर्तिता ( नित्यं ?) पापिनो ब्रह्मराक्षसाः ॥

प्रेतान्न भोक्तृनिन्दा

एतत्समाः प्रेतभुक्तिपरा अपि न संशयः । त्रिभुक्तितष्षोडशस्य नग्नप्रच्छादनस्य च ॥ नवश्राद्ध कुटुम्बस्य श्राद्ध भुक्त्यष्टतस्तथा । एकाहनामकश्राद्ध सकृत्तत्प्राशनस्य च ॥ तथास्थिपायसस्यापि ब्राह्मण्यं नष्टमेव हि । पुनरुद्धरणं नास्य तन्नष्टं नष्टमेव हि ॥ दुष्कर्मनब्राह्मण्यः ख्यातोऽयं नित्यसूतकी । न संदृश्यो विवाहादिशुभकर्मसु सन्ततम्

[[५८]]

मार्कण्डेयस्मृतिः

न प्रवेश्यो न पूज्यश्च न संस्पृश्यश्च सर्वथा ।

तद्भक्षितान्नपुलक संख्याजन्म स्वयं पुनः ॥

बालरण्डा भवेन्नूनं तस्मादेनं निरन्तरम् । चित्यग्निदग्धोल्कातुल्यं न पश्येच्छुभकर्मसु ॥ यद्ययं देहसंस्पृष्टः कदाचिदवशादपि । स्पृष्टस्थालं जलेनैव संप्रक्षाल्य करेण वै ।

स्वकर्ण’ दक्षिणं दृष्ट्वा नासिकान्तं च तारतः । त्रिवारं व्याहृतिश्चापि जपित्वैवं पुनस्ततः ॥

इदं विष्णुं जपेचापि नासौ नोचेद्भवेद (दि) ति । दौर्भाग्यप्रथमं पात्रं शरणं निखिलागसाम्

त एते ये ( ? ) प्रोक्ताः निखिलेनासतोद्य वै ।

न योग्यास्सर्वकार्याणामित्येवेति सुनिश्चयात् ॥

न हव्येषु न कन्येषु शान्तिपौष्टिककर्मसु । लौकिकाधविशेषेषु पुण्यवैदिककर्मसु ॥ स्वबुध्या नाह्वयेन्नित्यं नापि संभावयेदपि । यद्यागताः स्वयं ते तु पुरस्कार्या न चैव हि ॥ न गौरवं प्रकुर्वीत ताटस्थ्यं तत्र चाश्रयेत् । तत्कृतं चोपकारं वा नाङ्गीकुर्याद्विशेषतः ॥ कथञ्चन विशेषेण परिषत्सु न योजयेत् । विधायकेषु वा नूनं मृत्येक्ष्वपि विचक्षणः ॥

परित्याज्याश्च ते ये स्युः सन्ततं ग्रामयाजकाः ।

तत्प्राधान्यपराः पापाः वृत्त्यन्तरविहीनतः ॥

एतावदेतत्कार्याय समष्टिजनकल्पितः ।

वृत्तिविशेषोऽयं ये वा तज्जीविनो द्विजः ॥

प्रशस्ता वापि ते सर्वे तानेतान् सर्वकर्मसु ॥

परित्याज्याब्राह्मणलक्षणम्

परित्यजेद्विशेषेण वेदिनोडा (दा) म्भिकानपि । काकवृत्तीन् व्याघ्रवृत्तीन् बकवृत्तीन् दुराशयान् ॥ सुतरां वर्जयित्वैव समीचीनान् सुचेतसः । येनकेनापि सन्तुष्टान् सद्वृत्तीन् पुण्यपापयोः ॥ कृतचित्तान् विचारेषु सदाचारपरानपि ।

न यज्ञान् बुद्धिसंपन्नान् सदा दाक्षिण्यसुन्दराम् ॥

वैश्वदेवसमये समागतार्थमनिराकरणवर्णनम्

सौजन्यनिलयान्शान्तान्स्थाप्यपक्षविवर्जितान् ।

परद्रव्यपरक्षेत्रपरदारपराङमुखान् ॥ गृह्णीयात्सर्वकृत्येषु ब्राह्मणान् ब्रह्मवादिनः ॥ वैश्वदेवकालागतानामनिराकरणम्

यादृशो यः कश्चिदपि वैश्वदेवावसानके ।

क्षुत्तृष्णाभ्यां समायुक्त आगतश्चेत्तदा गृही ॥

[[५६]]

शक्तौ सत्यामन्नदानमात्रेण सुतरामयम् । संतश्च विशेषेण प्रपालयः तिन्मवाक्यतः ॥

तिरस्कार्यो न वाच्यश्च तस्मिन् काले विशेषतः । सर्वेऽपि पात्रतां यान्ति भक्तदानाय गेहिनः ॥

विप्रवेषेण सततं तन्तुमात्र प्रधानकः । संप्राप्तपूर्णब्राह्मण्य इत्येव सततं मतिम् ॥ कुर्वन् सुमहदाप्नोति सौभाग्यं ब्राह्मगोत्तमः । अन्नप्रदानकालेषु परेषां विद्विषां द्विषाम् ॥ तेषां चापि समानां तामर्चा कुर्यान्न चान्यथा । शाकसूपप्रदानादिविषये पक्षपाततः ॥ एक पङ्क्तयुपविष्टानां न्यूनाधिक्यं न कारयेत् ॥

सद्ब्राह्मणानां भिन्नपङ्क्च्युपवेश ननिषेधः

करणात्तस्य नितरां पात्रकं सुमहद्भवेत् ।

सदाचारपरान् शान्तान् श्रोत्रियान् ब्राह्मणान् सतः ॥

ज्ञात त्रिपूर्वकान् साधून तादृशोऽपि स्वयं सदा ।

भुक्तिकाले भिन्न पङ्क्तौ बुद्धया नैवोपवेशयेत् ॥

तादृशान् यदि मोहेन ब्राह्मणान् पङ्क्तिपावनान् । परित्यज्यान्यतो भुक्तिमात्रेणासौ पतत्यधः ॥

अश(1) खीयतमहा नियमाभासहेतुना । सद्यो विप्रतिरस्कार किल्बिषात्पतितोऽभवत् ॥

सत्कर्मविकलस्त्वज्ञः विद्याशौचे पराङ्मुखः ।

दुराचारो ( ? ) तान् तादृशान् ब्रह्मणोत्तमान् ॥

[[६०]]

मार्कण्डेयस्मृतिः

दुराचारकुवर्त्मभ्यां भिन्नपङ्क्त्त्युपवेशनात् । सद्यो भ्रष्टश्च म ( प ) तितः ब्राह्मण्यात्किल्विषो भवेत् ॥ मन्त्रार्थो ब्राह्मणमुखाद्विशेयो नान्यवर्त्मना । मन्त्राश्च वेदाः सर्वेऽपि विप्रोच्चारणपूर्वकात् ॥

अनूच्चारणतश्चापि स्वस्याधीनाः स्युरेव वै ।

तादृशान् ब्राह्मणान्नूनं त्यजन् भुक्तौ तु पङ्क्तिषु ॥

कथं तरेदयं मूढो गुरून् गुरुसमानपि । वेदमन्त्रैः क्रियाः सर्वाः वेदमन्त्रस्तपः क्रियाः ॥ सर्वक्रिया वेदमन्त्रैस्तस्माद्वेदपरो द्विजः । वेदस्य वेदिनश्चापि न भेद इति गोभिलः ॥ वेदमेव जपेन्नित्यं यथाकालमतन्द्रितः । जपान्तरेण किं तस्य नित्यं वेदजपः परः ॥

गायत्र्या वेदमातुस्तु जपमात्रेण केवलम् ।

ब्राह्मण्यं सुस्थिरं सम्यग्गायत्री तादृशी शिवा ॥ गायन्तं त्रायते यस्मात् गायत्रीत्युच्यते बुधैः ।

न गायत्र्याः परो मन्त्रः सा सर्वश्रुतिमभ्यगा । यज्जपेनाखिलजपः सिद्धो भवति सन्ततम् ॥

यज्जपेन विना सर्वः साक्षादीशसमोऽपि वै । द्विजमात्रो निपतति तत्तुल्योऽन्यो मनुर्न हि

तस्मिन्नस्त्राणि सर्वाणि धन्म (धान्या) नि निखिलान्यपि । तदर्थचिन्तनं नृणां निदिध्यासनमेव हि ॥

नान्यन्निदिध्यासनं स्यात्तत्स्पष्टीक्रियतेऽद्य वः ।

यो नो धियो बोधयति कुर्विदं कुर्विदं त्विति ॥ तस्मिन्नेतस्मिन् समये उदयास्तमयादिना ।

तातयीकपदस्यार्थस्तत्र स्यात्तु धियः पदम् ॥

द्वितीयावचनं भूरि तद्बहुस्यान्न चेतरत् । न षष्टि बहु तत्प्रोक्तं वचनं चेति सूरिभिः ॥ प्रचोदयाद् बोधयति तस्य देवस्य तादृशः । सवितुस्तद्वरेण्यं वै वरणीयं विशेषतः ॥ नित्योपास्यमिति ज्ञेयं भर्गो धीमहि कः परः ।

अर्थश्चेदिवि संप्रोक्त सवितुश्चापि तादृशः ॥

वेदत्यागनिन्दावर्णनम्

[[६१]]

नित्योपास्यं तद्भर्गस्तु तेजोध्यायी तु इत्यसौ । अर्थप्रकथितः सर्वैर्महद्भिर्ब्रह्मवादिभिः ॥ कथं नपुंसकं भर्ग इत्युक्त े तु प्रवच्मि तत् । यशो भर्गः सहश्चेति साहचर्येण तत्तथा ॥ भर्गइत्याह सा साध्वी तेज एवेति चोदनात् । सर्वलिंगैः सर्ववाक्यैः सर्वशब्दैरयं विभुः ॥ प्रोच्यते खलु तेनात्र गायत्रीति हि फण्यते । तेन स्त्रीलिंगसंप्रोक्ति ब्रह्मणो नैव दूषणम् ॥

दैवतं देवतादेवः इति लिंगैर्यतः स्मृतः ।

गायत्र्याख्यं तु तत्तेजोध्यायाम ( ध्यायेम ) इति वै मनोः ॥

‘तस्यार्थ इति कृत्स्नार्थी निश्चितः सर्ववेदिभिः । एतन्महामन्त्रमात्रोपदेशेनैव बाडबः ॥ सर्वाचार्यः सर्वगुरुः कृतार्थश्चापि जायते । तज्जपो विप्रमात्रस्य त्रिसन्ध्यासु दिने दिने ॥ दशकान्यूनतत्कार्यः तन्न्यूने स जपो ध्रुवम् । ब्राह्मणत्वस्थापनार्थ जागरूपो भवेन्नतु ॥ सहस्रपरमां देवीं शतमध्यां दशावराम् । सन्ध्यां नोपासते ये तु कथं ते ब्राह्मणाः स्मृताः ॥ ये सहस्र जपत्येनां गायत्री ब्राह्मणोत्तमाः । त तेषां श्राद्धभोक्तुत्वहैन्यं तत्स्यात्कदाचन यथोपदिष्टा गायत्री त्यक्तुं विप्रैर्न शक्यते । कदाचित्सर्वथा तद्वदुपरिष्टास्तदुद्भवाः ॥ वेदाद्या निखिला विद्यात्तदुक्तश्च क्रिया अपि ॥

वेदत्याग निन्दा

त्यक्तुं तदुल्लङ्घयितुं ब्राह्मणेन न शक्यते । वेदस्वीकरणे त्यागे प्रतिसंवत्सरेऽपि च ॥ होम पूर्व गुरुमुखादुपदेशात्परं श्रुतेः । उपसर्जनतस्तस्या ये वाङ्गत्वेन (मात्रेण) शब्दिताः ॥ तेषामप्युपदिष्टत्वान्न संध्यो हि सर्वथा । यत एते चोपदिष्टाः गुरुणा वह्निसन्निधौ ॥ दहोमात्परं प्रत्ययने तैष्यां तथा पुनः । श्रावण्यापि चोत्सर्गोपाकृत्योः प्रतिवत्सरे ॥ त्यागश्च ग्रहणं नित्यत्वेनैव प्रतिपादिते । उपदेशःस येषां तेऽन्नुल्लंध्या महत्तराः ॥ तदुक्तान्यपि कर्माणि कर्तव्यान्येव सन्ततम् । उपदिष्टमहामन्त्रत्यागे तु सुमहान् परः ॥ प्रत्यवायो दृढतरो द्विजमात्रस्य पेशलः । अत्यन्तपीडाकरणे परं ( १ ) दिने दिने । धारणाध्ययनं कार्य अपूर्वाध्ययनं न तु । तदानीं कर्मकालत्वाद्ब्राह्मणानां महात्मनाम् ॥

अपूर्वाध्ययनस्यात्र नित्यं कालो न लभ्यते । तस्माद्वेदादिसंत्यागस्तदा कार्यो महात्मभिः ॥

[[६२]]

मार्कण्डेयस्मृतिः

संत्यागमपि तेषां वै वेदप्रोक्तेन वर्त्मना । प्रकुर्यान्नान्यमार्गेण स मार्गश्च निरूप्यते ॥

स्नात्वाऽऽचार्यो दर्भपाणिः रचितक्षुरकर्मभिः ।

वर्णिभिनिखिलैः शिष्यैः ब्राह्मणैः कर्मतत्परैः ॥

समन्वितस्तु संकल्प्य प्रतिष्ठाप्य विधानतः ॥

उत्सर्जनविधिः

पावकं चेध्मतन्त्रेण वर्धयित्वा प्रपूजितान् ।

स्थापितान् पूजितान् पूर्वमीशान्यां दिशि तत्क्रमात् ॥ जुहुयाच्चक्षुषोरन्ते काण्डर्षीन् काण्डदेवताः ।

सदसस्पतिकान् सर्वान् वेदान् वेदादिनैव हि ।

ऋग्वेदादौ च गायत्रीं ऋचमाज्येन तत्परम् । हावयित्वा यजुर्वेदे छन्दोबद्ध स्तथाविधैः वाक्यबद्ध वर्णमात्रप्रधानैः पादरूपकैः । होमं कृत्वाथ सामाख्यं तत्परं तं चतुर्थकम् ॥ हावयेदेव विधिना यजुर्वेदे तु तत्र वै । वर्णत्रयात्मकं मन्त्रद्वयमादौ ततः पुनः ॥ चतुर्वर्णात्मकं वर्णद्वयं वै तदनन्तरम् । देवो व इति मन्त्रः स्यादित्येवं सति केवलम् ॥ मन्त्रमात्रेण होमो हि प्रकृते कर्मणेत्यथ । होमः कथं भवेदत्र विषये सति वेति वै ॥ तस्यैवं हि समाधानं छन्दोबद्ध तु तादृशम् । एकमेव भवेद्वाक्यं द्वात्रिंशद्वर्णकल्पितम् ॥ अत्र वाक्ये श्रेष्ठ इतिस्थाने शर इति स्म वै । वर्णभेदेन सा संख्या पूरणीयेति छन्दतः ॥ मार्मतो होय इत्येव छन्दोविद्भिरुदाहृतः । प्रधानञ्ज (जु) हु (हो) त्यथ गुरुः वेदारम्भणमञ्जसा उत्सर्जनागभूतं वै करिष्येत्यखिलानपि । कुशस्थितः कुशशयः तादृशान्वाचयेच्च ताम् ॥ स्वेदादिक्रमेणैव सर्वान् वेदान् प्रवाचयेत् । कल्पान् व्याकरणं चापि वेदलक्षणजालकम् ज्योतिस्सूत्रं वेदलक्ष्म छन्दःशास्त्रं ततः पुनः । मीमांसाद्वितयं चापि चेतिहासमहं ततः ॥ सत्यं तपश्चेति ततस्तपोवाक्यं च वाचयेत् ।

एवं सर्वान् वाचयित्वा स्ववाक्योक्तिप्रपूर्वतः ॥

उत्सृष्टा वै वेदाश्वेति परिधानीयवाक्यतः । प्रवाचनात्परं सम्यग् उत्सगं तं समाचरेत् ॥

सर्वधर्मशास्त्रप्रणार्थनकट नामेकवाक्यतालक्ष्यवर्णनम्

उपाकर्माप्येवमेव श्रावण्यां तत्समाचरेत् ।

वेदादयः स्त्रीकृताश्चेदियान् वेदोऽखिलः समः ॥

[[६३]]

स्वीकारोत्सर्गयोरेवं वेदानां प्रतिवत्सरम् । उपदेशमुखेनैव कर्तव्यत्वं श्रुतीरितम् ॥

तस्मात्तएते निखिला वेदविद्यादयः सतः । ब्राह्मणस्यानुल्लध्याः स्युस्तैरुक्तानि तु यानि वा ॥ कर्माणि कर्तव्यत्वेन विहितानि समासतः ।

तान्येवेति न चान्येन यदि तानि पराश्च याः ॥

विद्या अनुपदिष्टा हि तास्तस्मान्निखिलाः पराः ।

अत्यन्तावश्यकत्वेन न संग्राह्याः कदाचन । यद्य तदविरोधेन स्युश्चैतानि हि वैदिकैः ॥

व्यतिरिक्त विद्या

स्वीकर्तुं शक्यते नो चेत् तानि सर्वाणि ताश्च वै । स्वीकर्तुं नैव शक्यन्ते एतद्भिन्नास्ततः पराः ॥ शिल्पविद्यादिवत्प्रोक्तास्तदुक्ता अपि तत्क्रियाः । अविरोधे परिग्राह्या विरोधे सति ताः पुनः ॥ अत्यन्तदूरतस्त्याज्याः मानवं तत्र केवलम् ।

य किचेतिवाक्येन भेषजत्वेन चोदितम् ॥

छात्र तेन संप्रायं मनुनैव प्रकीर्तितम् । यद्यप्यनुपदिष्टं तत्तथा गौतमनिर्मितम् ॥ सूत्रकारकृतं सर्व कश्यपादिप्रकल्पितम् । तदाज्ञया विरचितं शास्त्रं पाराशराख्यकम् ॥ वेदव्यासेन रचितं शंखेन लिखितेन च । रचितं धर्मसिध्यर्थं कृतं कात्यायनेन च ॥ यदेतदखिलं शास्त्र वेदसूत्राविरोधतः । सर्वसाधारणेनैव यदेतत्प्रतिपादितम् ॥ तदेतत्सकलं प्राह्यं तद्भिन्नं यत्परित्यजेत् । सर्वस्यामपदित्वादत्यन्तावश्यकं स तु ॥ अविरुद्ध धर्मशास्त्रमात्रं सर्वर्षिसम्मतम् । अत्यन्तानुपदिष्टत्वेऽप्येतत् कैश्चिन्महर्षिभिः ॥ वेदसूत्राविरुद्धत्वादर्शनीयं च तेन वै । संप्राह्यत्वेन तद्धर्मकार्याणां नित्यकर्मणाम् ॥

[[1]]

[[1६४]]

मार्कण्डेयस्मृतिः

बोधकत्वेन सुतरां तत्प्रयोगक्रमोक्तितः । विधायकत्वेन केषांचित्सम्मतं तन्निरूपणम् ॥ तारव्याहृतिगायत्री साक्षात्प्रस्तारवर्त्मना । यथा प्रस्तार विस्तार विभूतिर्वेदमात्रके ॥ तथा शेष चतुर्वेद दिव्यप्रस्तार जन्यतः । ऋजीषतस्समुत्पत्तिस्तदङ्गानां तयोरपि ॥

मीमांसासूत्रयोः सत्यतपोवाक्येतिहासयोः ।

नान्येषामिति निष्कर्षस्तस्मादेषां च सूरभिः ॥

पुराणानां स्मृतीनां च वैषम्यभियदित्यलम् । वेदप्रस्तारतच्छिष्टसृजीषजगतेस्तराम् ॥ अभावेन पुराणादिग्रन्थानां तादृशां तथा । स्मृतिनामपि तन्मध्यकुतप्रक्षेपणादितः ॥ अप्रामाण्येऽत्र संजाने तत्कृत्प्यै महतामपि । आर्षानार्षविभागकतत्प्रमाणस्य कस्यचित् ॥ विशेषदर्शनादेस्तु जनकस्य दृढस्य वै । राहित्येनैव नितरां तत्साम्यं तन्महत्वकम् ॥ वक्तुं न घटतेऽतीव तेन चैतेषु केवलम् । विवादार्थेष्वागतेषु वादिनां भिन्नभिन्नतः ॥ परिहारकृते तेषां एतद्ग्रन्थगतं वचः । तत्तत्कल्पितशङ्काक्रान्तत्वेनैव क्षमं न तु ॥

विश्वासार्हस्य तेषां चेद्वेदादीनां तु सर्वथा ।

तस्याः कल्पितशंकायाश्चरणत्र्यूह वाक्यतः ॥

प्रस्तारलक्षणाद्यश्च राहित्येनैव सन्ततम् । प्रामाण्यं स्वत एतेषां औत्पत्तिक इतीरितः । पदस्य वर्णमात्रस्य वा वाक्यस्य स्वरस्य वा । व्यत्यासो यत्र कुत्रापि भेदः प्रक्षेप एव वा ॥ घटते नैव सुतरां वेदमात्रे शिवात्मके । तत्रात्यन्तं जागरूका स्तत्तद्विशदकर्मणि ॥

प्रस्तावचरणव्यूहलक्षणान्यखिलान्यपि ।

किञ्च वेदाश्च सूत्राणि कल्पाः शाखाः समन्ततः ॥

अध्यासनाध्ययनतः पदक्रममुखेन वै । अतिस्पष्टाः सुप्रसिद्धाः प्राजापत्यादिसंज्ञया ॥

काण्डत्वेनेयंतीति चात्र छन्दांसि संख्यया ।

मन्त्रा इयंत कर्माणि याज्याश्चापि पुरोरुचः ॥ पुरोनुवाक्याः सामिधेन्यः प्रैषाः न्यूंखाः प्रपाठकाः ॥

अनुवाकाश्च काण्डाश्च सूक्तान्यध्यायसंख्यया ॥

पदानीयन्ति वर्णानि प्रेष्यनामादिनामतः । अत्यन्तमिति लृप्ताभ्यां मर्यादावरिघट्टिताः

वेदान बहुमार्गत्यवर्णनम्

शक्यार्था एव तेनैते वेदांश्छदांसिकल्पकाः ।

शक्यार्था एव नितरां प्रमाणत्वेन चोतिताः ( चेरिताः ) ।

[[६५]]

ये शक्ास्ते परं प्रोक्ता अप्रामाण्ये प्रतिष्ठिताः । यद्यप्यत्र पुनर्वेदवाक्यमेकं तु वर्तते ॥ वेदा वा इति वाक्यान्तर्गतानन्तस्य मानसम् ।

इदमेव प्रकथितं साम्नः शाखास्तथाविधः ॥ प्रोक्ताः सहस्रसंख्याकाः यजुःशाखाः स्वतन्त्रकाः । एकं शतं संख्यया ताः गादीनां विधायकाः । आयुर्वेदधनुर्वेदगान्धर्वादिधुरंधराः । तस्मात्तत्रत्यानन्तस्य पदस्य न तु तादृशे ॥

अध्यापनाद्यशत्र्यार्थे ग्रन्थबाहुल्य कारणात् ।

ऋक्सामादिकशास्त्रानां बहूनामपि केवलम् ॥

तदनुग्राहकत्वेन शिक्षकत्वेन राजवत् । शतानामपि शाखानां सैकानां तन्नियोजने ॥ विनियोगः सर्वदृष्टः पृथक्त्वेन परस्परम् । मन्त्रतन्त्र क्रियाभेदशतकेऽप्यत्र केवलम् ॥ औद्गात्रहोत्रयोस्तद्वत्तत्तद्भेदेन कर्मसु । शस्त्रस्तोमस्तोभपृष्ठगीतिसंभिन्न भिन्नतः ॥ fafe मार्गभेदाः सहस्रादिप्रभेदतः । नैतावता ते विज्ञेयाः अशक्यार्थ इति ध्रुवम् ॥ शाखाबाहुल्यतश्चापि कियाबाहुल्यतस्तथा । मन्त्रबाहुल्य तस्तन्त्र प्रयोगक्रमबिस्तरैः ॥ मन्त्रोचारणभेदैश्च तदाचारादिकीर्तनैः । अनन्तास्त इतिप्रोक्तास्तत्तच्छाखास्तु वमि वः ॥ तैस्तैस्तु शाखिभिः सम्यगध्येतुं तत्क्रियास्तथा ।

ज्ञातु कर्तुं सम्यगेव शक्यन्ते किल सूक्ष्मतः ॥ अनायासेन निखिलैरास्तिकैर्वै दिकोत्तमैः ।

बहुत्वा किं पुनर्वच्मि वैशद्या याति सौख्यतः ॥

यवैश्च तण्डुलैराज्यपयस्सोम दधि ( … १) । यवाग्वादिदशद्रव्यैरग्निहोत्रं तु तादृशम् ॥ एकं दशविधं प्रोक्तं मन्त्र तन्त्र क्रियादिभिः । एतदत्यन्तं गहनमशक्यं किमु पश्यत ॥ कर्तव्य निश्चितधियां एतदत्यन्तसुन्दरम् । सुलभं सुखदं श्रीमत्यक्तकाठिन्यरञ्जितम् ॥ एवमाचमनं त्वेकं मन्त्रतन्त्रविभेदतः । तैस्तैः शतगुणं प्रोक्तं किमशक्यं तथाविधम् ॥

[[५]]

L

[[६६]]

मार्कण्डेयस्मृतिः

ज्योतिष्टोमादयस्त्वेवं बहुरूपाः श्रुतीरिताः । नाशक्या एव सुतरां सुलभा देशकालतः ॥ एकोऽप्ययं क्रतुः श्रीमान् साध्या वत्सरतस्तथा । मासतश्च चतुर्विंशदिनतो द्वादशादितः ॥

एतादृगुक्तया सोऽयं किमसाध्यः शक्य एव वा ।

अनन्तमार्गभेदैस्तैरनन्तत्वात्प्रपश्यत ॥

अपरे ज्ञेय एवेति किं वा चैतद्य ईदृशः ।

अभ्यासात्सुलभः सूक्ष्मः अनभ्यासे तु केवलम् ॥

हालाहलाधिकश्चेति भयव्यामोहकार्यति । बहुना कि स्नानमेकमादौ शतविधं स्मृतम् ॥ मन्त्र तन्त्रक्रियाभेदैः तैस्तैरुक्तं महात्मभिः । तदसाध्यमतश्चेति तद्गतिर्गहना परा ॥ इति त्यक्तुं तु तद्य क्तं सर्वमेवं शतोत्तरम् । अनन्तत्वेन च प्रोक्त प्रस्ताराल्लौकिकादपि ॥ कृत्यादिछन्दसां वृत्तसंख्यासु महतीति वै । स्पष्टत्वेनैव सर्वत्र ज्ञाता यद्यपि तावता ॥ नास्त्येव हि महाभीतिर्नष्टोद्दिष्टप्रमाणतः । अतिसौलभ्यतो ज्ञातु वृतानां तादृशामपि ॥

तत्त्वं स्वरूपं लगयोः (लग्नस्य) संख्यानं च ततः परम् । अध्ययोगश्वरमपि यथा सौलभ्यभागयम् ॥

तद्वद्वेदाश्च सूत्राणि तान्यङ्गानि विनैव हि । ज्ञानेन बहुलायासं तत्स्वरूपं तथाविधम् ॥ मात्राबलं वर्णवर्त्मसन्तानातानतत्वगाः । ज्ञातु सुखेन शक्यन्ते तस्माद्वेदेषु तेष्वपि ॥ यत्र कुत्र प्रन्थराशौ शङ्काप्रामाण्यसंशयाः । न भवेयुर्हि महतां ज्ञानिनां तत्ववर्त्मनः ॥ विशेषदर्शनं तस्य वेदप्रस्तार एकशः । विशेषदर्शने तस्मिन् अप्रामाण्यैकवारकौ ॥ नष्टोद्दिष्टौ तत्र चापि सर्वसंशयवारकः । लग्नक्रियाप्रकारोऽयं तत्र संख्यानमुच्यते ॥ अध्वयोगपुनस्तत्र प्रतिवर्णं पृथक् पृथक् । तस्मादेतेषु सर्वेषु विद्याभेदेषु कृत्स्नशः ॥ उपदिष्टेषु विशयो नास्त्येव सुतरां खलु । नैवं स्मृतिषु सर्वासु पुराणेष्वखिलेषु वा ॥ तस्मात्तन्मध्यसंप्राप्तप्रक्षिप्तप्रन्थविस्तरैः । तानि सर्वाण्यप्रामाण्यकलङ्कितशरीरतः ॥ आचारसंशयेष्वत्र सम्यक् स्युर्न विधायकाः । सर्वसाधारणेष्वेषां कार्येष्वपि च कर्मसु ॥

परस्परविरुद्धषु सत्सु शास्त्रान्तरेष्वपि ॥

नानासूत्रप्रन्थस्मृतीनामवतरणम्

सूत्रादीनां विधायकत्वम्

विधायकाः स्युर्नितरां न स्वातन्त्र्येण सर्वथा । विधायकत्वं स्वातन्त्र्यात् तेषामेवोचितं परम् ॥ विद्यानामुपदिष्टानां सूत्रादीनां कथं पुनः । इत्युक्त े तु प्रवक्ष्यामि सूत्राणि किल षट्स्वपि ॥ बेदपाठानुसारेण प्रवृत्तानि किलान्यथा ।

न स्वातन्त्र्येण तस्मात्तु छन्दोवन्निखिलान्यपि ।

[[६७]]

भवन्ति सूत्राण्येवेति जगदुर्ब्रह्मवादिनः । तत्रादावौद्भवं पाठमनुसृत्य महान् पुरा ॥

चक्र बौधायनं सूत्रं सोऽयं श्रीमान् विचक्षणः । तत्पाठस्तु यदा तारो व्याहृत्यादिक्रमेण वै ॥

स्वमेव रूपं विस्तारं स्वस्मिन् लीनं स्थितं महत् ।

विध्यर्थवादमन्त्रौघब्राह्मणाद्याकृतिः स्वयम् । शक्तयात्म्य विस्तारयामास जातस्तु यः क्रमः सउवाख्यः कथितो वेदप्रस्तारवर्त्मना । स उवे (१) द्यानचान्येन तत्प्रस्तारश्च छन्दसाम् ॥

अलौकिकानामेव स्यात्सोऽप्यलौकिक एव हि । भवितव्यो हि विदुषां छन्दोविचितिगामिनाम् ॥ गणाश्च वैदिका एव भवेयुस्तत्र केवलाः ।

न लौकिकाः क्वचिद्भूयो लौकिकाः स्युश्च वर्त्मनाम् ॥

छन्नविच्छिन्न सच्छन्नप्रच्छन्नेषु न चान्यतः । पश्चादापस्तम्बसूत्रं ब्रह्मपाठानुसार्यभूत् ॥ स पाठो ब्राह्मणः सर्वकर्त्ता साक्षात्स्वयंभुवा । सच्चिदानन्दरूपेण नित्येनानुपमेन वै ॥ स्वाकारप्रणवाविर्भावाकारं येन केनचित् । अविशेयं तत्प्रस्तारमुखेनैव समब्जसम् ॥ विशदीकृत्य लोकेशमुखांनां विधिजालकम् । बोधयित्वाखिलं पश्चादर्थवादौषमेव तम् ॥ राशितो दर्शयित्वाथ मन्त्रजालं ततोऽखिलम् । प्रदर्शयित्वा संघेन तत्संघीकृत्य सर्वशः ॥ ब्राह्मणं तदनु ब्राह्मणेनैव निखिलं शिवम् । बोधयामास जगतां हितायाखिलमञ्जसा ॥

[[६८]]

मार्कण्डेयस्मृतिः

यः सोऽयं ब्रह्मपाठाख्यस्तं ज्ञात्वासौ महान् पुरा । सूत्रं तदनुसारेण सर्वशाखार्थरञ्जितम् ।

आपस्तम्बसूत्रम्

आपस्तम्बश्वकारासौ स्वनाम्ना वेदरूपकम् । सर्ववेदार्थेकन्यूनाधिकशून्यं जगद्गुरुः ॥ तदापस्तम्बसूत्रं स्यादखिलं ब्रह्म विद्धि तम् ।

सं पाठं भगवान् व्यासः साक्षान्नारायणात्मकः ॥ हिताय सर्वलोकानां शाखाभेदान् प्रकल्प्य च । काण्डप्रश्नान् स्पष्टयित्वा ऋग्यजुस्सामनामतः ॥ अथर्वणादिनासम्यक् पृथक्खेन च तान् क्रमात् । कल्पयित्वा तिसौन्दर्य सौलभ्याभ्यां समन्वितम् ॥ बोधयामास तान् सर्वान् ऋषीणां भावितात्मनाम् । सोऽयं पाठो व्याससंज्ञ पाठं तमनुसृत्य वे ॥

सत्याषाढसूत्रम्

सत्याषाढमुनिश्वक सूत्रं तत्किल तादृशम् । सत्याषाढाख्यकं सम्यक् तार्तीयीकं तदुच्यते ॥ पुरा कदाचित्कोऽप्यस्मिन् दण्डकारूयो महासुर । दुःखाय किल देवानां वेदान् सर्वान् स्वयं महान् ॥ संगृह्य सर्वलोकानां विनाशाय तु कोणपात् । सिन्धौ तिरोहितस्त्वासीत् चिरं दत्तवरोऽसुरः ।

तदा देवगुरुः श्रीमान् सर्वदेवहिताय वै। तेषां प्रार्थनयातीव तुष्टः सर्वेश्वरो विभुः ॥

मत्स्यरूपेण तं हत्वा तान् वेदान् तद्वशे स्थितान् ।

समादाय जगत्यस्मिन् देवकार्यचिकीर्षया ॥

चतुर्मुखमुखेनैव विशदीकृतवान् किल । भरद्वाजस्तदा श्रीमान् शुनासीरमुखेन वै ॥

भारद्वाज सूत्रनानावेदशाखानावर्णनम्

[[६६]]

तान् वेदांस्तपसा लब्ध्वा शनकै शनकैरति । कालेन महता पश्चात्तदर्थानखिलान् परान् ॥ ज्ञात्वा स्वनाम्ना चकमे सूत्र परमपावनम् । विशदार्थं लोकहितं तदेतत्सूत्रमुत्तमम् ।

भारद्वाजमूत्रम्

भारद्वाजमिति प्रोक्तं सर्वसारं सनातनम् । तत्तकालेन महता केनचित्कारणेन वै ॥ वैशंपायन शिष्योऽसौ कात्यायनमुनिः किलः ।

परं गुरोर्विवादेन स्वाधीता निखिलाः पराः ॥

समुत्ससर्ज ताः शाखाः तदस सत्वरोज्झिताः । संकीर्णस्त्वथवन्नूनं त्यक्तरूपाः प्रकीर्णकाः अत्यन्तयत्नसाध्याश्च व्यत्यस्तस्वरवर्णकाः । अस्पष्टा एकरूपाश्च तदा श्रीमान् महामनाः

सरस्वान्नामको योगी वेदतत्व विशेषवित् ।

वेदान् शाखान् पाठकांश्च कल्पयित्वा विभागशः ॥ बुध्या संगृह्य संगृह्य स्थापयित्वा पृथक् पृथक् । एतानवयवान् सर्वान् वेदीयान् छिन्नभिन्नतः ॥

एकरूपस्थितान् यत्नाद ( ? ) वेक्ष्या यवीति वै । अयमेोऽयमेको वै चेतिरीतिं शनैः शनैः ॥

चकार किल मेधावी सरस्वान् तत्र केवलम् ॥

[[1]]

अत्यन्तैक्येन कस्मिश्चित्प्रदेशेऽत्यन्तदुर्घटे । दुर्विज्ञेये दुर्विगाह्य वर्णराशिः स्वरादिना ॥

संक्षिप्ते छन्दतो श्लिष्टे किं करोमीति चेतसा ।

तित्तिरिः शत्रुनिर्भूत्वा क्षणमात्रेण तादृशम् ॥

राशि सर्वं यथावत्तं चकमे किल सर्ववित् । समीकरणशक्तिस्सा पक्षिणस्तस्य केवला ॥ औत्पत्तिको परा ज्ञया तेन रूपेण वै ततः । तत्कालं साधयामास तद्र पेण स सर्ववित् ॥

तदा सारस्वतः पाठः परः कोऽपि बभूव हि । तं पाठं तादृशं दिव्यं राहुमुक्त न्दुवन्तराम् ॥

अत्यन्तनिर्मलं शुद्ध’ पावकं स्वत एव

वै

समुद्वीक्ष्यानुसृत्यैवं अग्निवैश्यो ( वेशो ) महानृषिः ॥

[[७०]]

मार्कण्डेयस्मृतिः

औखेयसूत्रम्

औखेयनामकं सूत्रं चकार विदितात्मवान् । तदेतदपरं सूत्रं सर्वसारं समुन्नतम् ॥ सर्वेषां समतं सर्ववेदवेदिविभूषणम् । वैधानसाख्यस्तु मुनिः वेदे वाजसनेयके । यजुः प्रभेदे कस्मिंश्चित्पञ्चविंशत्कशाख के । षडशीति महाशाखाराजमाने च सन्ततम् ॥ सर्वाधिके सर्ववन्य मुख्ये यजुषि पावने ।

अपि कान्कान्महानर्थान् स्वमत्यालोच्य केवलम् ॥

समादाय समादाय पाठं वासिष्ठनामकम् । अनुसृत्य विधानेन कल्पे कल्पे शनैः शनैः ॥ सूत्रं तत्कल्पयामास शिवं वैखानसाख्यकम् ।

सर्वाण्येतानि सूत्राणि याजुषाण्येव केवलम् ॥

तदाध्वर्यवकृत्याय जागरूकाणि सन्ततम् । वेदिनामपि सर्वेषां सम्यक् साधारणानि हि ॥ बह्न, चाः केचिदस्मिन् वै महार्थे त्वध्वरीयके ।

आध्वर्यवाय तत्सूत्रं प्रथमत्वादिति स्वयम् ॥

बौधायनं प्रशंसन्ति संगृह्णन्ति तथा परे । सर्वे विवेदिनश्चेत्तु ऋग्वेदिषु तथा पुनः ॥ बहवः सुमहात्मानः सर्ववेदविदां वराः । आध्वर्यवाय नितरां आपस्तम्बीयमेककम् ॥ सूत्रं तत्प्रवरं मुख्यं सर्वसूत्रोत्तमोत्तमम् । यजुस्सूत्रं तदेव स्यान्मुख्यतोऽन्यत्तु गौणतः ॥ एतत्तुल्यप्रसिद्ध रप्यभावेनैव तत्परम् । तत्तन्मात्रोपयुक्त हि न सर्वेषां च वेदिनाम् ॥ उपयुक्त’ भूतलेऽत्र सूत्रं तस्मात्तदेव वै । सर्वसंशयहं सर्वप्रयोगविशदं पुनः ॥ सर्वैरंगीकृतं सर्वलोकश्रुतिमनोहरम् । कल्पाख्यं च तदेवैकमार्ष भगवता कृतम् ॥ सर्वेषां यजने मुख्यत्वेनैव स्वीकृतं महत् । नैतत्समन्ततोऽन्यत्तु सूत्रं पतितपावकम् ॥ न विद्यते सर्वथैव हौत्रार्थं तु यथा तथा । आश्वलायनसूत्रं वै सर्वस्मादुत्तरोत्तरम् ॥ stantsपि भगवान् स्वतन्त्रः पारतन्त्र्यहा । सूत्रयामास वैशद्यमनुसृत्य महामतिः ॥ यजुर्वेदगतैर्मन्त्रैरापस्तम्बः स सर्ववित् । तस्मात्तु तादृशं सूत्रं नास्त्येवेति सुनिश्वयः ॥ परमाध्वर्यवं तच्च सूत्रं वाजसनेयकम् । यजुर्वेदार्थघटितं तथाप्येतत्पुनः परम् ॥

नानासूत्राणां शाखाभेदवर्णनम्

[[७१]]

ससार्वत्रिकमित्येव प्रसिद्ध तत्तु केवलम् । तन्मात्रकं ततस्त्वेकं मया प्रोक्तं विशेषतः ॥ यथैव याजुषं हौत्र आपस्तम्बेन सूत्रितम् । येन केन तथान्येन यत्र कुत्र न कीर्तितम् ॥

सूत्रकारैश्च निखिलैः गाह्य कर्मणि कृत्स्नशः । पृथक्त्वेनैव सर्वाणि चोपदिष्टानि सूत्रतः ॥ अग्निहोत्रं पितृयज्ञः शिष्टं श्रौतं यदस्ति तत् । आध्वर्यवं तु यजुषा ऋचा हौत्रं तथैव च ॥ साम्नोद्गात्रं च सर्वेषां सममेव न संशयः ।

यथा वा यजुषा हौत्रमिष्टिकाण्डस्य कृत्स्नशः ॥

ऋचा तथाध्वर्यवं न साम्ना वा न निरूपितम् । यजुर्वेदस्तादृशोऽयं ऋचां साम्नां समाश्रयः

नित्यस्वतन्त्रः सुमहान् सदा सर्वनियामकः । तदाध्वर्यवसूत्राणि षट्संख्याकानि केवलम् ॥ तदप्येकं प्रकथितं सूत्रं वाजसनेयकम् ।

यजनं खलु सर्वत्र बह्र, चानां निरन्तरम् । छन्दोगानां च तत्सूत्रद्वयं दृष्टं न चेतरत् ॥ आपस्तम्बेन रचितं तथा बौधायनं च तत् । सप्तानामपि सूत्राणां याजुषाणां पुनस्तदा ॥ छन्दोगानां बहु चानां ऋग्वेदादेव हौत्रकम् । औद्गात्रं च तथा प्रोक्तं सामतस्तु नचान्यतः ॥ हौत्रमृग्वेदरचितं औद्गात्रं च तथाविधम् । sarai बाष्कलानां च तथा काठकिनामपि ॥ कौषीतकानां जैमिनिसूत्रिणामपि चोदितम् । शाट्यायनिमुखानां तु यजनं न कलौ मतम् । उत्सन्नास्ते हि तच्छाखास्तच्च सूत्रं तथाविधम् । अनुत्सन्नदशायां तु हौत्रमौद्गातृकं तथा ॥

तेषामेतदृग्विधानवर्त्मनैव न चान्यतः । हौत्रं तु याजुषं यत्तु याजुषाणां तदुच्यते ॥

न चान्येषां कदाचित्स्यात् यदि स्यात्कर्म तद्वृथा ।

याजुषाणां च तद्धौत्रं यावत्तावत्प्रकीर्तितम् ॥

[[७२]]

मार्कण्डेयस्मृतिः

तदन्यत्र धर्मादिधनकर्मसु चेत्पुनः । तदेव हौत्रं विहितमाश्वलायनवर्त्मना ॥ हौत्रं तद् याजुषं वेदचोदितं ब्राह्मणात्परम् । प्रश्नत्रयमितात्सम्यक् सर्वेष्टीनां समञ्जसम् याज्यापुरोऽनुवाक्याभ्यां प्रधानहविषः पुनः । तद्विशेषस्य तत्रत्यप्रयोगस्याखिलस्य च ॥ सामिधेनीभिरेवं वै पुरोॠग्भिश्च तादृशैः । तथा पत्नीसंयाजान्त निरूपणमुखादितः ॥

तस्मात्तदेतत्सूत्रीयाणामेव नितरां मतम् ॥

सूत्रान्तरेण संस्कारेदोषः

यदा स्मार्तं तथैव स्यादन्येन कदाचन । सूत्रेण संस्कृतो मोहात् पुनः संस्कारमर्हति ॥ स्वसूत्रोक्तेन विधिना न चेत्पातित्यमर्हति । शाखां शिखां च सूत्रं च समयाचारमेव च ॥ पूर्वैराचरितं कुर्यादन्यथा पतितो भवेत् । पूर्वोक्तानां तु सर्वेषां षण्णामपि च सूत्रिणाम् ॥ शाखेयं तैत्तिरी ज्ञेया शिखा तेषां पुरो भवेत् । बौधायनीयसूत्राणां तत्र केचन बाडबाः ॥

पश्चाच्छिखा दुर्लभाः स्युस्तेऽत्यन्तं प्रतिपादिताः ।

अत्यन्तात्युत्तमत्वेन तद्भिन्नाश्च तथा पुनः ॥ जघन्यातिजघन्यत्वेनैवेति निखिला जगुः ॥

शिखाधारणप्रकारः

पुरः शिखा यदि पुनः याजुषा बहू चास्तथा । छन्दोगा वा न तैस्तुल्या बौधायनिभिरञ्जसा ॥ पुरशिखैः किंपुनश्चेदधिका एव केवलाः ।

वैदिकाश्च महात्मानः पङ्क्तियोग्या इति स्मृताः ॥

[[८]]

प्रायेण भूतले सर्वे याजुषा बहू चास्तथा । न्यङ्गवैकल्यरहिताः सर्वत्राप्युत्तमोत्तमाः ॥ छन्दोगेषु तु सर्वत्र जघन्याः स्युः कचित्कचित् । ते त्यक्तवेदसूत्रत्वादन्यवेदपरिग्रहात् ॥ संगृहीतान्यसुत्रत्वात् द्वाभ्यां तेषां जघन्यता । तेषां सदाप्येतदेव दूषणं नान्यदुच्यते ॥

कदाचित्त े तु निखिलाः छन्दोगाः कालभेदतः ।

संत्यक्त वेदसूत्राः स्युः प्रायेणैवेति तत्त्वतः ॥

}

अहिताग्निविषयवर्णनम्

ते जैमिनीयाः सूत्रा ये सर्वे पूर्वः शिखाः स्मृतः । तथा वैखानसाः केचिदौखेयाश्च तथा मतः (ताः) । भारद्वाजीयाः सूत्रे तु यदि स्युश्चेत्तथाविधाः । त एव तेषां विहिताः नान्येषामिति तद्ध् वम् ॥ यो वा को वा पुनर्वच्मि स्ववेदं वा स्वसूत्रकम् । त्यक्त्वा समाश्रयेदन्यं सद्यः पातित्यमर्हति । वेदत्यागेनास्य वेदस्वीकारात्सद्य एव वै ॥ शाखारण्डो भवेन्नूनं न योग्यो हव्यकव्ययोः ।

न पक्तियोग्यश्च तथा स तु स्यान्नित्यकिल्विषी ॥

तद्दोषपरिहाराय पुनवेदं समभ्यसेत् । पश्चात्पुनः संस्कारेण धेनुदक्षिणया च सः ॥ शुद्धो भवेन्न चेन्नैव त्यक्तसूत्रश्च चोदितः । एतेनैव प्रकारेण स्वसूत्रात्संस्कृतः शिवः ॥ न वेष्टो न संदेहोऽप्यप्रवेश्यश्च पङ्क्तिषु । न समत्वेनोपवेश्य ः सभासु स तु गर्हितः ॥ कदाचिद्दवतोमार्गमध्ये यदि मृतस्य चेत् । श्रोत्रियासन्निधौ विप्रदुर्घटे गहनेऽथवा । तलब्धसूत्रतः कृत्वा येन केन प्रकारतः । पश्चात्सम्यक् स्वसूत्रोक्तविधिना चित्तपूर्वकम् ॥ सर्वं तत्पैतृकं कर्म धर्मज्ञसमयस्तथा । यदि कीकटदेशेषु विप्रशून्येष्ववर्त्मसु ॥

संप्राप्त’ प्रेतकृत्यं तद्मन्त्रापेक्षया परम् । येन केनापि विधिना संस्कारं तन्निवर्तयेत् ॥

आहिताग्निविषयः

यद्याहिताग्निदू राग्निर्नाग्निर्वा तथाविधः । मृतश्चेत्तस्य तूष्णीकं दहनं चेत्समञ्जसम् ॥ न चेत्तस्य पुनः कर्तुं कर्म यत्पतृमैधिकम् । येन केन प्रकारेण यद्वा तद्वा कृतं यदि ॥ तत्परं तस्य विधिना कर्मणः करणे बहु । बाधकं प्रभवेन्नूनं तथा तत्तु समाचरेत् ॥ शिखानिधानं सर्वेषां चौलकर्मणि शास्त्रतः ।

छन्दोगानां तु गोदानत्रते तत्कथितं पुनः ॥

चौलाभावेऽपि तूष्णीकं तृतीये वत्सरे तु तत् ॥७४

मार्कण्डेयस्मृतिः

उपनयने शिखाधारणम् जातकर्मादीनां सर्वेषामुपनयनकाले कतन्यता

शिखानिधानं कार्यं स्यादित्येवं मनुरब्रवीत् ।

मौज्यां कृत्स्नस्य जातादिकर्मणः करणं स्मृतम् ॥

तस्मिन्नेव दिने तेन कर्मणा तत्समाचरेत् । कर्मणामपि सर्वेषामकृतानां स्वकालके ॥ स्वकालविहितेनैव कर्मणा करणं विधिः । प्रधानकर्मणः पूर्वं गतस्य करणं स्मृतम् ॥

न तु पश्चादिति विधिः नापि पूर्वदिनेऽपि वा ।

गतानि यानि कर्माणि कृत्वा तानि क्रमेण वै ॥

पश्चात्प्राधानिकं कर्म कुर्यादित्येव सा श्रुतिः । समयाचारशब्देन कर्म स्मार्तं तदुच्यते ॥ प्रकृते तस्य यत्प्रोक्तं प्रतिपादकमञ्जसा । सूत्रं तदेव नान्यत्तु तदेतद्यश्चतुष्टयम् ॥ पूर्वैराचरितं कार्य पूर्वे पितृपितामहाः । प्रपितामहाद्याः स्युस्ते तैरशास्त्रकृतं (विहितं) तु चेत् तस्याज्यमेव सुतरां शाखीयं यत्तदाचरेत् । स्वसूत्रोक्तप्रकारेण स्मार्त कर्म श्रुतीरितम् ॥ तत्र ब्राह्मण्यकरणं मौञ्जीकर्मोत्तमं स्मृतम् । तद्योग्यतापादकानि जातकादीनि मुख्यतः ॥ कर्तव्यत्वेन चोक्तानि तत्पश्चात्तत्समाचरेत् । जाते पुत्रे जातकर्म विहितं शास्त्रत्रर्त्मना ॥ तत्क्रियायोग्यतासंपादनाय स्नानमुच्यते । तच्च स्नानं विशेषेण जातमात्रे विधीयते ॥

बहिर्जले कुर्यात्कुर्वन् स्थापनमञ्जसा ।

यावत्प्राणं सत्वरेण चैलं कट्यां दृढं स्वयम् ॥

[[1]]

त्रिर्वेष्टयित्वातिमुदा बन्धयित्वा च पर्वणि । सघोषं निपतेदप्सु चोर्ध्वं तत्सलिलं यथा ॥ • प्रोद्गच्छेत्सर्वतो दूरं चंक्रमन्निपतेत्तथा । तदुत्क्षिप्तेनोदकेन पितरोऽस्य तदुन्मुखाः ॥ अत्यन्ततृप्ताः सुखिताः क्षुत्पिपासाविवर्जिताः ।

आनन्दसागरे मग्नाः भवेयुर्हत कश्मलाः ॥

तथा स्नात्वा तटं प्राप्य स्नानतर्पणतः परम् । वस्त्रद्वयं पीडयित्वा भूतलेऽत्यन्तभक्तितः ॥ एतज्जलं ‘च केषांचित्पितॄणामिति चेतसा । दृढवस्त्रः सुपुण्ड्रा जातकर्म समाचरेत् ॥ नान्दीश्राद्ध विधानेन हिरण्येनात्म केवलम् । कर्तव्यमविलम्बेन शुचिना दर्भपाणिना ॥

[[1]]

नानासंस्काराणाम्वर्णनम्

कर्मणस्तस्य पूर्व वा पश्चाद्वा तत्समाचरेत् । संकल्पपूर्वकं मन्त्रैः दिवस्पर्यादिभिः शिवैः ॥

[[७५]]

अभिमर्शनकर्मादि कृत्वा माधवकर्म च । व्याहृतीभिः प्रकुर्वीत मेघां तेति च मन्त्रतः ॥

त्वयि मेधामिति प्रोक्त्वा नैष्ट

कर्म चाचरेत् ।

अथाग्नि च प्रतिष्ठाप्य फलीकरणवस्तुतः ॥

हावयित्वा सर्षपैश्च प्रैषं कुर्याच्च शास्त्रतः ।

aataafia विधिना धारयीतैव तच्छिशोः ॥

रक्षार्थी होममात्रं तत्कुर्यादन्वहमेव वै । प्रथमे दिवसे होमात्परं सत्वरमेव वै ॥

अर्चयेद्ब्राह्मणान् भक्त्या गन्धाक्षतसुमादिभिः ।

ताम्बूलदक्षिणाभिश्च धान्यदानैरनेकशः ॥

भिर्धनै रत्नैः शक्त्या लोभविवर्जितः ।

सर्वमङ्गलवाद्यानि कारयीतैव शक्तितः । सुमङ्गल्यर्चनं नित्यं तद्गानैकप्रपूर्वकम् ॥ नीराजनं मन्त्रपूर्वामाशिषश्च क्रमात्स्मृताः । नित्यमेवं प्रकर्तव्यं सत्यां शक्तधामतत्परः ॥ उत्सवो नास्ति सर्वेषां तस्मादेवं समाचरेत् । पुत्रजन्मनि यद्दत्तं ग्रहणे चन्द्रसूर्ययोः ॥ पित्रोः क्षयाद्देऽयनयोः दत्तं भवति चाक्षयम् ।

तस्मात्सवप्रयत्नेन शक्तथा दानानि चाचरेत् ॥ महत्युत्सवे तादृशेऽस्मिन् लोभशाठ्यविवर्जितः ॥

नामकरणम् अन्नप्राशनम् चूडाकर्म

एकादशे द्वादशे वा नामकर्म च शास्त्रतः । व्यवहाराय नाम्नस्तु पिता कुर्यात्कलत्रवान् ॥ बलवीर्यादिसिद्धर्थं षष्ठेऽन्नप्राशनं चरेत् । भूरपामिति मन्त्रैस्तैः रक्षाबन्धनपूर्वतः ॥

ब्राह्मणान् भोजयेच्चात्र शक्तया दक्षिणया तथा ।

ततस्त्रैतीयके वर्षे चूडाकम विधानतः ॥

कुर्यादरपूर्व वै संकल्पानन्तरं शुचेः । कृत्वा प्रतिष्ठां विधिना कुमारं वर्णिभिः सह ॥

[[७६]]

मार्कण्डेयस्मृतिः

जनन्या भोजयित्वाऽथ कृत्वा दिग्वपनं शुचेः । पश्चाद्भागे प्राङ्मुखस्य कृत्वा कर्मक्षुरं तथा ॥ निक्षिपेच्च शिखां मन्त्रैर्वाद्यघोषप्रपूर्वकैः । ततः स्नातं कुमारं तं मात्रा साकं स्वयं शुचिः ॥ निकटे स्वस्योपवेशयित्वा कर्म ( कुर्यात् ) तदादिकम् । पवित्रपाणिरखिलं कुर्याद्ब्राह्मणसाक्षिकम् ॥ तदन्ते ब्रह्मणे दत्वा परं शक्त्या द्विजान् ततः । पूजयित्वा दक्षिणादिप्रदानैर्लोभवर्जितः ॥ नीराजनाशीर्वादादि गृहीत्वा ब्राह्मणानथ ।

भोजयित्वा विधानेन स्वयं भुञ्जीत बन्धुभिः ॥

एवं निर्वर्त्य तदनु तां मौजीमष्टमेऽपि वा । गर्भाष्टमे ब्राह्मणानां कर्तव्यत्वेन शास्त्रतः ॥ चोदितत्वात्प्रकुर्वीत गर्भेकादशवत्सरे । राजन्यानां विशां चेत्तु गर्भद्वादशवत्सरे ॥

मुख्यकालाः प्रकथिताः गौणकालान् परे जगुः । ब्रह्मवर्चसकामश्चेत् पञ्चमाब्दे समाचरेत् ॥

नवमो दशमश्चाब्दः षष्ठो वत्सर एव च ।

काम्यकाला ब्राह्मणस्य राजन्यस्य तथाष्टमः ॥

नवम दशमश्चापि वत्सरात्कामनापराः । वैश्यस्य नवमः प्रोक्तः दशमस्तदनन्तरम् ॥ संवत्सराः काम्यकाला इति वेदविदो विदुः । सुमहानुपपत्तौ चदाषोडशकवत्सरात् ॥ बाडवं चोपनीतैवमाद्वाविंशात्तु भूसुरा । वैश्यं चेदाचतुर्विंशादिति वेदानुशासनम् ॥

तदूर्ध्व पतिता ज्ञेयाः सर्वकर्मबहिष्कृताः ।

जातकादीनि कर्माणि स्वस्वकालाकृतानि चेत् ॥ उपनीत्यैव कार्याणि तदा तेषां प्रधानतः । विद्यमानाखिला धर्माः समुख्याः प्रभवन्ति वै ॥

प्रकृतस्यैव तस्यास्य धर्मा ये शास्त्रचोदिताः । तेषामेव प्रधानत्वेनैव स्याद्गणना परा ॥

उपनयनकालकृतानां पृथक् क्षुरकर्माभाववर्णनम्

तेषां तत. पुरोक्तानां जातादीनां तु कर्मणाम् । मौकाले मन्त्रमात्रक्रिया कार्या न चापरा ।

नाथकुरप्रतिसरक्षुरादीनां पृथक् पृथक् । करणं शास्त्रविहितं न भवत्येव सर्वथा ॥

तस्मान्मौन्ज्या कदाचित्तु चूडाकर्मकृतौ तथा ॥

उपनयनकालकृतानां पृथक् क्षुरकर्माभावः

and

नान्यादिवत्क्षुरस्यापि न पृथक्करणं मतम् । तन्मात्रस्य पृथक्त्त्वेन करणे किल केवलम् ॥ कुमार मातृमुक्त्यादि प्रसक्तथा प्राकृतं महत् । कर्मोपनयनं सद्यो व्यर्थ नष्टं भवेदतः ॥

उपनीत्या सदैव स्यान्मातृमाणवक क्रिया ।

भुक्तयाख्या वर्णिनां चापि तत्पश्चादखिलक्रिया ॥ मौज्ज्यास्तस्या इति परं तत्त्वं ज्ञेयं महात्मभिः । सर्वं तदोपनयनात्तस्य बालस्य केवलम् ॥

इच्छाभक्षणसञ्चारभाषणानीति धर्मतः । विहितान्येव तेषां तु शुचिश्चाशुचिरेव च ॥ तथा विधिनिषेधो वा पित्रोराशौचमेव यत् । तन्मात्रमेत्र तच्चापि मातुस्तद्रजसोद्भवम् ॥ यन्मालिन्यं स्तन्यपानजं वा नैषां परं तु तत् ।

अहमत्रस्य कृत्स्नस्य रात्रिमात्रस्य वा तथा ॥ निद्रया स्नानसंप्राप्तिः तच्च स्नानं समन्त्रतः ।

उष्णोदकेन कृत्स्नस्य गात्रस्य क्षालनं परम् ॥ सम्यक् सर्वत्र नान्यत्स्यातच्चतुर्थाब्दिकात्परम् । तत्पूर्ववन्न भवति ज्ञानाभावे तु केवलम् ॥

त्यतस्तन्यस्य घटिकामात्र संवासतस्तथा । स्नानं स्यादेव संत्यक्तस्तन्यपानस्य पूर्ववत् ॥ सर्वमेव भवेन्नूनं परं त्वेकं पुनर्मतम् । तन्मालिन्यं नास्य भवेत्तदोपनयनात्किल ॥

nter: परं सर्व एव नियमाः सर्ववर्णिनाम् ।

क्षत्रियाणां च वैश्यानां नवमाब्दात्परं पुनः ॥

[[७८]]

मार्कण्डेयस्मृतिः

कामभक्षः कामचारः कामवादश्च निन्दिताः । पितृभ्यां शिक्षिणीयाश्च भोसंदर्शनमात्रतः ॥

न संताड्या बाधनीया लालनीयाश्च सन्ततम् ।

भग्नकामा न कार्याश्च प्राप्तकामाः प्रतोषिताः ॥

पुष्टाङ्गाश्वापि कर्तव्याः तत्क्रीडनकदानतः । हसन्मुखाः प्रकर्तव्याः न कार्याः प्ररुदन्मुखाः ॥

अज्ञानिनो ये पृथुकान् मनोभङ्ग प्रकुर्वते ।

तेषां लक्ष्मीर्यशोभाग्यं ओजस्तेजोद्य तिर्मतिः ॥ क्षणान्निर्मूलतां याति क्षयं वंशः समश्नुते ।

या नारी स्वार्भकं ज्ञानविकलं वा स्तनंधयम् ॥

पुत्रपौत्रमथान्यं वा स्वपोष्यापोष्यपात्रकम् । अभाव नष्टासंलब्धवस्तुसंप्रार्थनादिभिः । रुदन्तं देहि मे वेति ताडयन्तं पुनः पुनः । शपन्तं बहुधा मूढं ताडयत्यतिमौढयतः ॥ सा दुर्भगा नष्टभाग्या नष्टभर्ता विनटधीः । नष्टश्रीकामधान्यादिसंपत्का तत्क्षणाद्भवेत् ॥ तत्ताडनादिदुःखार्तरुदितध्वनिरुत्थितः । आब्रह्मलोकं व्याप्नोति तच्छ्र ुत्वा पितरस्तु ते ॥ स्वताडनावमानातिलाघवात्यन्तदुःखिताः । अत्यन्तासह्य तद्दुःखसहस्रगुणशालिनः ॥ शपन्त्येनामियंनित्यं वन्ध्यानष्टप्रजाथवा । नष्टायुष्या नष्टकामा गतश्रीर्गतमन्दिरा ॥

अलब्धाशरणापापा भवेत्येति (वत्वि ) महा धा । तस्मात्तु सुतरां बालाः न प्रदार्या यतस्तु ते ॥

ज्ञानशून्याः परेषां तत्सुखःदुखाविवेकिनः । ते भाषया चाटुवाक्यशतकैः प्रतिकारकैः ॥ सुखश्रोत्रकरै रम्यैस्तोषणीयाः पदे पदे । तदुद्धरणसभ्वार गतागतविडम्बनैः ॥

डो(दो) लालोडनतद् गीतितच्चित्ताकर्षणादिभिः । अत्यन्तोपायशतकैः यैः कश्चित्प्रीतिवर्धनैः ॥ जातहर्षा : प्रकर्तव्याः न भग्नाशाः कदाचन । ये तूष्णीं दुर्भगा बालान् ज्ञानहीनान्तुषान्विताः ॥ न्यक्कुर्वन्तः छत्कुर्वन्तः वचोभिः श्रुतिदुःखदैः । तिरस्कुर्वन्ति तूष्णीकं तिरस्कारस्य तादृशः ॥

ते सर्वे

बालानां सद व्यवहारवर्णनम्

एतदिष्टसुराचार्यपैतृको जायते ध्रुवम् ।

तस्माद्बालान् वरान् स्वीयान् ज्ञानशून्यान् कदाचन ॥

न क्रुध्यन्नपि चाक्रोशेत्प्रहरन्नपि भीषयेत् । तश्चित्ततोषणं ये वै प्रकुर्वन्ति तदा तदा ॥

देवमुनिराड्योगिदेवद्विजन्मनाम् । तदनुग्रहपात्रं स्यादन्यथा न भवेत्तथा ॥

बालानां तुष्टये ये वे चिपिटादीन् भलादिभिः । तदा तदा प्रदास्यन्ति कृते तेषां सुरेश्वराः ॥ त्रयस्त्रिंशत्कोटिसंख्याः लोकपाला जगद्धिताः । वसवोऽ द्वादशापि सरुद्राः साप्सरोगणाः ॥ पितृभिः सहसुप्रीताः पूजिताः प्रभवन्त्यति ।

कन्यका पूजिताः स्युश्चेत्तत्रापि ज्ञानवर्जिताः ॥

वर्षादूत्रं विवाहस्य प्राक्तु किंकिणिकादिभिः । तत्तत्कीडनकापात्रैः मृद्दारुपरिकल्पितैः ॥ तद्भूषणैचैस्तत्सालभञ्जिका पुञ्जपुञ्जकैः । तेषां ततः पुरोक्तानां जातादीनां तु कर्मणाम् ॥ मौञ्जीकाले मन्त्रमात्रक्रिया कार्या न चापरा । नाद्यङ्कुरप्रतिसरक्षुरादीनां पृथक् पृथक् ॥ करणं शास्त्रविहितं न भवत्येव सर्वथा । तस्मान्मौञ्ज्या कदाचित्तु चूडाकर्मकृतो तथा ॥ उपनयनकालकृतानां पृथकक्षुरकर्माभावः

नान्यादिवत्रस्यापि न पृथक्करणं मतम् । तन्मात्रस्य पृथक्त्वेन करणे किल केवलम् ॥ कुमार मातृमुक्तयादिप्रसक्तथा प्राकृतं महत् । कर्मोपनयनं सद्यो व्यथ नष्टं भवेदतः ॥

उपनीत्या सहैव स्यान्मामाणवकक्रिया ।

भुक्तयाख्या वर्णिनां चापि तत्पश्चादखिलक्रिया ।

[[1]]

मज्ज्यास्तस्या इति परं तत्त्वं ज्ञेयं महात्मभिः । सर्वं तदो पनयनात्तस्य बालस्य केवलम् ॥ इच्छाभक्षण सञ्चार भाषणानीति धर्मतः । विहितान्येतेषां तु शुचिश्वाशुचिरेव च ॥ तथाविधिर्निषेधो वा पित्रोराशौचमेत्र यत् । तत्मात्रमेत्र तच्चापि मातुस्तद्रज सोद्भवम् ॥

यन्मालिन्यं स्तन्यपानजं वा नैषा परं तु तत् ।

अहर्मात्रस्य कृत्स्नस्य रात्रिमात्रस्य वा तथा ॥

[[८०]]

मार्कण्डेयस्मृतिः

निद्रया स्नानसंप्राप्तिः तच्च स्नानं समन्त्रतः । उष्णोदकेन कृत्स्नस्य गात्रस्य क्षालनं परम् ॥

सम्यक् सर्वत्र नान्यत्स्यात्तच्चतुर्थान्दिकात्परम् ।

तत्पूर्ववन्न भवति ज्ञानाभावे तु केवलम् ॥

त्यक्तस्तन्यस्य घटिकामात्र संवासतस्तथा । स्नानं स्यादेव संयुक्तस्तन्यपानस्य पूर्ववत् ॥ सर्वत्रेव भवेन्नूनं परं त्वेकं पुनर्मतम् । तन्मालिन्यं नास्य भवेत्तदोपनयनात्किल ॥ मौञ्ज्याः परं सर्व एव नियमार सर्ववर्णिनाम् ।

क्षत्रियाणां च वैश्यानां नवमाव्दापरं पुनः ॥ कामभक्षः कामचारः कामवादश्च निन्दिताः । पितृभ्यां शिक्षणीयाश्च भीसंदर्शनमात्रतः ॥ न संताड्याः बाधनीया लालनीयाश्च सन्ततम् । भग्नकामा न कार्याश्व प्राप्तकामाः प्रतोषिताः ॥ पुष्टाङ्गाश्चापि कर्तव्या तत्क्रीडनकदानतः । हसन्मुखाः प्रकर्तव्याः न कार्याः प्ररुदन्मुखाः ॥ अज्ञानिनो ये पृथुकान् लनो (लग्न) भङ्गः प्रकुर्वते ।

तेषां लक्ष्मीर्यशोभाग्यं ओजस्तेजो द्य तिर्मतिः ।

क्षणान्निर्मूलतां याति क्षयं वंशः समश्नुते । या नारी स्वर्भकं ज्ञानविकलं वा स्तनं घयम् ॥ पुत्रपौत्रमथान्यं वा स्वपोष्यापोष्यपात्रकम् । अभावनष्ट्रसंलब्ध वस्तुसंप्रार्थनादिभिः ॥ . रुदन्तां देहि मे चेति ताडयन्तं पुनः पुनः । शपन्तं बहुधा मूढं ताडयत्यतिमौढयतः ॥ सा दुर्भगा नष्टभाग्यां नप्रभर्ताविनष्टधीः । नटश्रीकामधान्यादिसंपत्का तत्क्षणाद्भवेत् ॥

तत्ताडनादिदुःखार्तरुदितध्वनिरुत्थितः ।

आब्रह्मलोकं व्याप्नोति तच्छ्र ुत्वा पितरस्तु ते ॥

स्वताडनावमानातिलाघवात्यन्तदुःखिताः । अत्यन्तासह्य तद्दुःखसहस्रगुणशालिनः ॥ शपन्त्येनामियं नित्यं वन्ध्या नटप्रजाथवा । नष्टायुष्या नष्टकामा गतश्रीर्गतमन्दिरा ॥

बालताड़न निषेधवर्णनम्

अलब्धाशरणापापा भवेत्येति (वलि) महाक्रुधाः । तस्मात्तु सुतरां बालाः न प्रहार्या यतस्तु ते ॥

[[८१]]

ज्ञानशून्याः परेषां तत्सुखदुःखा विवेकिनः । ते भाषया चाटुवाक्यशतकैः प्रीतिकारकैः ॥ सुखश्रोत्रकरै रम्यैस्तोषणीयाः पदे पदे । तदुद्धरणसञ्चार गतागतविडम्बनैः ॥

डोलालोडनतद्गीतितच्चित्ताकर्षणादिभिः । अत्यन्तोपायशतकैः यः कश्चित्प्रीतिवर्धनैः ॥ जातहर्षाः प्रकर्तव्याः न भग्नाशाः कदाचन । ये तूष्णीं दुभगा बालान् ज्ञानहीनान्तुपान्विताः ॥ न्यकुर्वन्तः छत्कुर्वन्तो वचोभिः श्रुतिदुःखदैः । तिरस्कुर्वन्ति तूष्णीकं तिरस्कारस्य तादृशः ॥ एतदिष्टसुराचार्यपैतृको जायते ध्रुवम 1

तस्माद्बालान् वरान् स्वीयान् ज्ञानशून्यान् कदाचन ॥

न क्रुध्यन्नापि चाक्रोशेत्प्रहरेन्नापि भीषयेत् । तच्चित्ततोषणं ये वै प्रकुर्वन्ति तदा तदा ॥ ते सर्व देवमुनिराड्योगिदेवद्विजन्मनाम् । तदनुग्रहपात्रं स्यादन्यथा न भवेत्तथा ॥

बालानां तुये ये वै चिपिटादीन् फलादिभिः ।

तदा तदा प्रदास्यन्ति कृते तेपां सुरेश्वराः ॥ त्रयस्त्रिंशत्कोटिसंख्याः लोकपाला जगद्धिताः । वसवोऽष्टौ द्वादशापि सरुद्राः साप्सरोगणाः ॥ पितृभिः सहः सुप्रीताः पूजिताः प्रभवन्त्यति ।

कन्यकां पूजिताः स्युश्चेत्तत्रापि ज्ञानवर्जिताः ॥

वर्षावं विवाहस्य प्राक्तु किंकिणिकादिभिः । तत्तत्क्रीडनकापात्रै मृद्दारुपरिकल्पितैः ॥ तभूषणौचैस्तत्सालभञ्जिकापुञ्जपुञ्जः । श्रीधर्लक्ष्मीर्महागौरी वाणी चैन्द्रीं दया. रमा ॥

क्षमा शान्तिश्च पुष्टिश्च देवपत्न्योऽखिलास्तथा ।

मंगलानि च सर्वाणि हृदास्तीर्थानि च द्रमाः ॥

an

શ્

मार्कण्डेयस्मृतिः

सरितः सागराः सप्त लोकास्ते पवतास्तथा । ऋषयश्च सपत्नीकाः सर्वे दीर्घायुषस्तथा ॥

पूजिताः परिपूर्णार्थाः कृतार्थाश्च पदे पदे ।

पुष्टाङ्गास्तुन्दिलाश्च स्युः सत्यमेतन्मयोदितम् ॥

कन्यकामनसं सर्वेऽनुसृत्य सुतरां यतः । निवसन्त्येव तस्मात्तु प्रीणयेदतिहर्षयेत् ॥ तावतातेऽतिष्टाश्च प्रीता एनं क्षणेन वै । प्राप्तश्रियं प्रकुर्वन्ति नष्टदौर्भाग्यवत्तमम् ॥ दीर्घायुषं सुप्रजसं नित्यारोग्यसुपुष्टिकम् । तस्मात्तु कन्यकादानं सर्वदानोत्तमोत्तमम् ॥ महादान सहस्ररेण तुलितं तत्पुनर्मया । निरूप्यते विविच्यैव महादाननिरूपणे ॥

उपनीतधर्माः ओमित्येकाक्षरमित्यादिमन्त्रस्वरूपम्

उपनीतस्तु पित्रा यो द्विजोत्तनियमस्सदा । न भवेदेव तस्मात्तु द्विजत्वं प्राप्तवान् यतः ॥ कृतकालत्रय महामन्त्रसन्ध्यो महाशुचिः । कृताग्निकार्यः सुमनाः दण्डाजिनधरो भवेत् ॥

सन्ध्यामन्त्राश्च ये ते स्युरापोहिष्ठादिकाः पुरा ।

मया निरूपिताः सर्वे गायत्रीप्रमुखाः शिवाः ॥ तदर्थम्तत्क्रियाश्चापि तदुत्पत्यस्य वर्त्म च । अतोऽत्र सर्वं तद्भूयो न वाच्यं हि ततः परम् ॥ यत्तदेव प्रवक्तव्यं शिष्टं मन्त्रगणादिकम् ।

ओमित्येकाक्षरादि स्यात् सप्तत्रिंशात्मको मनुः ॥

आद्यपादे त्वष्टवर्णाः द्वितीये दशवर्णकाः । तृतीये द्वादशार्णाः स्युः तुरीयः सप्तवर्णकः ॥ ओंकारब्रह्मणोरैक्यप्रतिपादन हेतवे । मन्त्रोऽयं प्रथमः श्रीमान् जयादौ विनियोजितः ॥ तद्ब्रह्मशब्द निर्वाच्यगायत्र्यागमसिद्धये । द्वितीयमन्त्रः कथितः आयात्विति ततः परम् ॥ द्वात्रिंशद्वर्णगणकस्तुर्यपादे तु तस्य वै । सवयोर्भेदतो ज्ञेयः सप्तमार्णस्य तादृशः ॥

गायत्रीमिति यः शब्दः तृतीयान्तश्च केवलः ।

प्रथमार्थे विनिर्दिष्टः गायत्री तादृशी शिवा ॥

मे ब्रह्मदें जुषस्वेति जुषतामिति चार्थकः । यदहादिति मन्त्रोऽयं तादृगृध्यानफलार्थकः ॥ द्वात्रिंशद्वर्णघटितः सर्वपापापनोदकः । सर्ववर्णेति मन्त्रोऽयं सर्वेषां तदनन्तरम् ॥

गायत्रीस्वरूपवर्णनम्

[[८३]]

संस्थितानामोजोऽसीति ह्यनुषङ्ग इति स्मृतः । सप्तानामपि मन्त्राणां यजुषां पूर्वतोऽपि वा ॥

परतो वानुषङ्गः स्यात् सोऽयं मास्त्वस्तु वा पुनः । विकल्पानामत्र पुनः समः प्राधान्यतो मतः ॥

अतो यस्य यथेच्चं वै तदङ्गीकरणं भवेत् । अभिभूरों महामन्त्रः सर्वाकर्षणसुक्षमः ॥

गायत्रीमुखदेवीनां छन्दर्षीणां च सश्रियाम् ।

एभिश्च पञ्चभिर्मन्त्रैः स्वात्मन्यावाहनं चरेत् ॥

‘गायत्री मावाहयामीत्यादिकैः पञ्चभिः शिवैः । महात्मनो ब्राह्मणस्य सर्वदेवस्वरूपता ॥ अभिवृद्धिस्तेजसः स्यात्प्रतिनित्यं त्रिवारतः । छन्दर्षिदेवतानां च तथाङ्गानां च बोधकाः ॥

यजुर्विशोषागायत्राः शिखान्ताः सप्त कीर्तिताः ।

अथ पत्रात्पृथिव्योनिः प्राणापानादिकं यजुः ॥ विनियोगान्तकं त्वेकं गायत्री रूपबोधनात् ।

आरभ्य तस्या देव्या वै गायत्र्या स्वीकृतौ मतम् ॥

समीपवाचकः सोऽयमुपशब्दः प्रकीर्तितः । नयनं स्यादानयनं आकर्षणमिति स्मृतम् ॥

गायत्रीस्वरूपम्

ॐ भूर्भुवस्सुत्रश्चेति प्रथमं शीर्षमुच्यते । ओमित्येतद् द्वितीयं स्याच्छीषं तस्यास्ततः पुनः ॥ तत्सेति तु तृतीयं च शीर्ष वेदमयं परम् । यजुर्वेदं भर्ग इति पादस्तुर्यमिहोच्यते ॥ धियो योनः पञ्चमं स्याच्छीर्षकं सामरूपकम् ।

त्रिपात्त्वं स्पष्टमेव स्यात्तत्स भर्गो धियादिकैः ॥ तत्सवितुर्हि प्रथमा कुक्षिर्वेदाश्रया शिवा । वरेण्यं तु द्वितीया स्यात्कुक्षिः शास्त्रमयोऽपि वा ॥ भर्गो देवस्य शक्त्याख्या तृतीया तु प्रकीर्तिता । धीमहीति तुरीया स्यात्कुक्षीलकमयी तथा ॥

धियो योनस्सुरमयी कुक्षिः सा पञ्चमी परा । प्रचोदयाद् ब्रह्ममयी षष्ठी सा सर्वरूपिणी ॥८४

मार्कण्डेयस्मृतिः

अत्र यः सप्तमो वर्णः स तु वर्णद्वयात्मकः । णकारश्च यकारश्च द्वावित्येव मनीषिभिः ॥ ज्ञात्वा तु वैदिकैः सर्वै जप्यो वेदे यथैव सा । गायत्री सर्ववेदानां जननी ब्रह्मनामिका ॥ शिष्टा मन्त्रा यथावच्च पूर्वमेव निरूपिताः । अस्य मन्त्रस्य महतो देवत्वात्सवितुस्ततः

प्रातरुपस्थान मन्त्राः

जपान्ते तदुपस्थानं यजुभिस्तत्समाचरेत् । ऋम पैरेव गायत्री प्रमुखैर्वेदमध्यगैः ॥ मित्रस्येति त्रिभिर्दिव्यैः प्रातःकालेषु सन्ततम् ।

प्रथमं तत्र मित्रस्य पश्चान्मित्रो जनानिति ॥

प्रसमित्रेति पश्चात्तु तत्क्रमो वेदमध्यगः । शाखिनां निखिलानां च मित्रस्येति त्रयं तदा ॥ यजुर्वेदोक्तरीत्यैव वक्तव्यं नान्यमार्गतः । एवमग्निश्च सूर्यश्च जलप्राशनचोदितौ ॥ आपः पुनन्तु च तथा ओमित्येकाक्षरं तथा । दशप्रणव गायत्री प्राणायामाख्यकर्मणि ॥ या चोदिता पुरा सापि आयातु वरदा तथा ।

यदह्नादिति मन्त्रश्च सर्ववर्णादिकं तथा ॥

अभिभूरों पथ्वकं च तथा गायत्रिया ततः । प्राणापानेत्यादिकं च उत्तमे शिखरे ततः ॥

आवाहिताया गायत्र्याः स्वस्मिन्नेव विधानतः । यथेच्छाप्रेपणे तस्याः उपस्थानमुखेन वै ॥

विनियुक्तो वेदविद्भिस्तदेतच्च तथापरम् । स्तुतो मयेति चरमं यजूंध्येव ततोऽखिलैः ॥ नान्यत्र यत्र कुत्रापि तथा तस्माद्वदेत्सदा । अभिवादनकालेषु सततं प्रवरं शिवम् ॥ हो (x) प्रवरमार्गेण प्रवदन्नान्यवर्त्मना । आध्वर्यवप्रवरतो ह्यभिवादनकादिषु ॥

यदि क्रियाविशेषेषु कृतं चेन्नाशमाप्नुयात् ॥

मार्जन मन्त्रसंख्या

तथा सन्ध्यात्रये नित्यं चतुर्विंशतिमार्जने । आपोहिष्ठेति नवकं वारद्वयकृतं यतः ॥ मन्त्रा अष्टादश स्युर्हि तदा ते याजुवाः पराः । मन्त्रा जातानर्चतस्ते वक्तव्यास्तद्वयं परम् ॥

मध्यान्हकालकर्मवर्णनम्

[[८५]]

दधिक्राव्णेति परमं यथारुचि तु चोदितम् । तथा हिरण्यवर्णाश्च चत्वारो मनवोऽपि वै ॥ यथारुचि परं तेषां षण्णामपि हि पादने । पठने चापि नियमः तेषु कर्मसु वच्मि वः ॥ याजुषाणां ऋकूपकारकरणं त्वत्र निन्दितम् । बहुचानां तथा चोभयं बाधकाय न ॥ तथा किमर्थमित्युक्त सान्ध्यं कर्माखिलं महत् ।

यजुर्वेदान्तर्गतं स्यान्न तदन्यत्र कुत्रचित् ॥

तस्मादशेषविप्राणां यजुर्मन्त्रविधानतः । सान्ध्यस्य करणे प्रोक्तं कर्मणो नेति बाधकम् ॥ यदि शुद्धयजूंष्यत्र सान्ध्ये कर्मणि मोहतः । शाखान्तरप्रकारेण तानि प्रचरितानि चेत् ॥ भवेत्तु कर्मवैकल्यं विशयो नात्र वच्मि वः ।

त एते खलु षण्मन्त्राः ऋचः स्युश्च यजूंष्यपि ॥ वेदद्वयेऽपि चोक्तत्वात्स्वरभेदादिना तथा । महामन्त्रस्य तस्यास्या गात्र्याख्यस्य चेत्पुनः ॥ तत्तच्छाखोक्तरीत्यैव जपादिक उदाहृतः ॥

माध्याह्निकार्घ्यम्

माध्याह्निकक्रियायां तु गायत्रीं सकृदेव हि । अर्घ्यमेकं समुच्यार्थ देयं स्यात्तदनन्तरम् ॥ सौर्यास्त्रेण द्वितीयं तं हंसश्शुचिपदित्युचा । तत्तच्छाखोक्तरीत्यैव तं मन्त्रं समुदीरयेत् ॥ तचक्षुरिति सर्वेषां समुच्चारणकर्मणि । यजुर्वेदविधानेन प्रोक्तिस्साभिहिता परा ॥ पश्चाद्य उदमन्त्रोऽति यजुरेव हि केवलम् । तदुपस्थानकृत्येऽस्मि (न्) बढ, चानां विशेषतः

बहुवृचानां मन्त्रोच्चारणप्रकारः

उदुत्यवर्गों वक्तव्यः नित्योऽयं नान्यथा मतः । याजुषाणामत्र परं आसत्येनेत्यगात्मकः मनुः स्याद्यजुषः पश्चादुद्वयं तमसस्परि । उदुत्यं च ततो भूयो मनुस्तदनुतादृशः ॥

चित्रं देवानामित्येकश्चत्वारः खलु तेऽखिलाः ।

सोऽयं चेत्तदुपस्थाने इमं मे वरुणो मनुः ॥

[[८६]]

मार्कण्डेयस्मृतिः

तत्त्वा यामि ततः पश्चात् यच्छिद्धीति पुनः परः । यत्किं चेदं मनुभूयः कितवासः ततः परः ॥ पञ्चमं ता ( ? ) मध्यगताः पातकशत्रवः । विनियुक्ता विशेषज्ञैः प्रवाच्याः स्युस्ततोऽखिलैः ॥ तस्मिन् कर्मणि सायाह्न दिगादीनां ततः पुनः ॥

दिङ्नमस्कारः

तत्रत्यानामशेषाणां नमस्कार क्रियापरः । नमोऽनुवाकः सुमहान् वक्तव्यः कर्मसिद्धये ॥

दिलिङ्गास्तत्र संख्याताः नमो गंगादिकैस्त्रिभिः ।

यजूंषि दशसंख्याकानि स्युः सर्वेऽत्र पावकाः ॥

तदेवमखिलं प्रोक्तं साध्यं कर्मत्रयं महत् । एवं कृतोपनयनो द्विजमात्रोऽन्वहं तराम् ॥ कुर्यात्तु सन्ध्यां नियतो न चेद्विप्रो भवेदयम् । सन्ध्यामूलमिदं सर्वं ब्राह्मण्यं सर्वदेहिनाम् ॥

वन्दनीयं प्रार्थनीयं पूजनीयं प्रयत्नतः । सेव्यं च दर्शनीयं च सन्ध्ययैतत्तु संपदः ॥ ब्राह्मणस्य महत्त्वं तद्दीयतीति ( ? ) न कैरपि । सुरेन्द्रः सर्ववेदैत्वा र्वा) ब्रह्मविष्णुशिवादिभिः ॥ सुरोत्तमैर्महद्भिर्वा परिच्छेत्तुं हि शक्यते ।

ब्राह्मण्यं खलु देवानामप्यत्यन्तं हि दुर्लभम् ॥

ब्राह्मणे सर्ववेदाश्च ब्राह्मणे सर्वदेवताः । ब्राह्मणे सर्वतीर्थानि तत्पादे दक्षिणे शिवे ॥ सर्वे समुद्राः सरितः सदा कूपाः सरांसि च ।

पुष्करिण्यः पुष्कराद्याः सर्वे यागास्तपांसि च ॥ विविधान्यपि कृच्छ्राणि व्रतानि विविधान्यपि । गावो

द्रुमाश्च नियमाः दीक्षा यागाः सदक्षिणाः ॥ शास्त्राणि च पुराणानि स्मृतयो विविधाः पराः । आदित्या वसवो रुद्राः लोकपाला महौजसः ॥

ब्राह्मण महत्त्ववर्णनम

पतिव्रतानां प्रवराः कामधेन्वादिकाः शिवाः ।

चिन्तामणिमहात्राताः कल्पवृक्षा धराधराः ॥

[[८७]]

सप्तर्षयो महात्मानः विप्रमात्रेऽनिशं पुनः । स्वभागधेयकार्याय वसन्ति किल सन्ततम् ॥ न ब्राह्मण्यात्परं वस्तु समं वा यत्रकुत्रचित् । भुवनेष्वस्ति सर्वेषु कलौ केचन पामराः ॥ ब्राह्मण्यादधिकत्वेन शैवं वैष्णवमेव च । गाणपत्यं च शाक्तं च तत्तदेकं पुनश्च हा ॥ वदन्तस्तेन नाम्ना च वयं युक्ताः सुभूषिताः ।

तन्नामधेयमस्माकं ब्राह्मचा साधारणं यथा ॥

अधिकं सोमयाजित्वं वाजपेयत्वमेव वा । तत्पौण्डरीकयाजित्वं तथेदमपि चैककम् ॥

शैवादिकमिति प्रोचुर्ब्राह्मचा व्याप्यत्वमुज्वलम् । तदेतदत्यन्तमहामोहगाढ विजृम्भितम् ॥

तद्व्याप्य धर्मो न भवेद् ब्राह्मण्यस्य कदाचन । अत्यन्तव्यभिचरितं शिवत्वादिकमल्पकम् ॥

तत्तु दर्शादियाजित्वं द्विजमात्रगतं यतः । तदसाधारणो धर्मः तच्छिवत्वाधिकं तथा ॥ सर्वथा न भवेदेव तस्माद् ब्राह्मण्यमेककम् ।

सर्वोत्तममिति प्रोक्तं आतीक्षिष्टेति सा श्रुतिः ॥

अयं ब्राह्मण्य इत्येव प्रोवाच किल तादृशी । यावतीरिति तद्वाक्यं ब्राह्मणेनैव सन्ति हि

ब्राह्मणेभ्यो वेदविद्भ्यो नमस्कुर्यादिति स्म च ।

उदाहृत्य जगादैव तस्मात्तु ब्राह्मणोऽधिकः ॥

नित्यं ब्राह्मणशब्दोऽयं ब्राह्मणानां सुभूषणम् । शब्दान्तरं तु सततं शैवादि खलु तत्परम् प्रभवेद्दूषणायैव नात्र कार्या विचारणा । एवं सत्यत्र केचित्तु कलिधर्मेण केवलम् ॥ दूषणं भूषणत्वेन स्वीकृत्य प्रत्युताथहा । तेनदूषणशब्देन भूषितान् दूषयन्त्यहो ॥

एतत्किमिति चोक्त े तु कलिधर्मस्तु तादृशः ।

कलौ नीचा महान्तः स्युः महान्तो नैच्यभागिनः ॥

प्रायेण भूतले शिष्याः वहवो गुरूदूषकाः । गुरुभक्ता अतिस्वल्पाः पुत्रा जनकदूषकाः ॥

[[८८]]

मार्कण्डेयस्मृतिः

भर्तृवैराः स्त्रियः सर्वाः प्रायेण जगतीतले ।

पतित्रता अतिस्वल्पाः ता न सन्तीति नास्त्यपि ॥

सन्त्येव तत्रतत्रापि साध्या भर्तृ परापराः । धरणी चापि निर्वीर्या निरौषधरसातराम् ॥ पापलोकसंकीर्ण सदा सज्जनदुर्लभा । तुच्छ देवगणाकर्ण महादेवातिदुस्तरा ॥

शनैः शनैरल्पितश्रीः वेदमार्गाकुशास्त्रवृ(वि) त् । भापारचितशास्त्रौघा महाशास्त्रातिदुर्लभा ॥

नटनर्तकसंप्राप्तपूजादूपितसज्जना । अत्यन्तार्थपरा भूपाः दयादाक्षिण्यदूरिताः ॥

तादृशेऽत्र कलौ किं किं नभवेदतिनिन्दितम् ।

सर्व निन्दितमेव स्यात्प्रशस्तं यदनिन्दितम् ॥

प्राधान्यमनृतस्यैवाप्राधान्यं सन्ततं परम् । सत्यस्य खलु सर्वत्र तथापि विजोऽनिशम् ॥ सत्यस्यैव भवेन्नूनं नानृतस्य कदाचन । सत्यस्यानृतवद्भानं दुष्टजल्पनकत्थनैः ॥ पश्चाच्चिरेणसत्यस्याधानं च प्रभवत्यपि । अस्मिन्नर्थे प्रवक्ष्यामि पुनःपुनरतीव च ॥ चोरश्चोरो भवेदेव तथैव च मृषामृषा । पापं पापं भवेत्तद्वत् सत्यंसत्यं न चानृतम् ॥ धर्मस्य विजय नित्यं नाधर्मस्य कदाचन । परं त्विदमधर्मस्य तत्वभानां कलौ ततः ॥ कालेन यत्नाद्यश्चातत्वेनैव नचान्यथा । तत्क्षणप्रतिसंहारः न्यायधर्मसतां तथा ॥ सत्यस्य च भवेत्पश्चादभ्युत्थानं यथा पुरा । कदाचिदनृतं सत्यं यदिस्यादपि केवलम् ॥ तत्सद्यस्तत्कुलं तस्य विलयं प्रापयिष्यति । अत्यन्यायमतिद्रोहमति क्रौर्य कलावपि ॥ अत्यक्रमं चात्यशास्त्रं न कुर्यान्न च कारयेत् । कुर्वतां सर्वपापानि वर्णानां तत्क्रमेण वै ॥ वर्णानामाश्रमाणामुत्तरोत्तरं प्रायश्चित्तद्व गुण्यम् संन्यासभेदाः

प्रायश्चित्तं द्विगुणतः सूतकं च तथा मतम् । यद्ब्राह्मणस्यैकगुणं तद्राजन्यस्य धर्मतः ॥ द्विगुणं शास्त्रगदितं वैश्यस्य त्रिगुणं स्मृतम् । चतुर्गुणं तस्य ततः शूद्रस्येति मनीषिभिः । कथितं शास्त्रतast: तदेव गृहिणो मतम् । यत्तस्य द्विगुणं कृत्स्नं धर्मतो ब्रह्मचारिणः ॥

वर्णेन स्त्रि (त्रिगुणंप्रोक्तं यतेस्तस्य चतुर्गुणम् ।

कुटीचकः स्यात्प्रथमः द्वितीयस्तु बहूदकः ॥

प्रायश्चित्तवर्णनम्

८६.

हंसस्तृतीयइत्युक्तः चतुर्थेस्तु तथापरः । यतिः परमहंसाख्यः कुटीचकबहूदकौ ॥ षट्तीरयुक्त गायत्री जापको शिखिनौ तथा । एकोपवीतिनौ स्यातां दण्डत्रयसमन्वितौ ॥ भिक्षान्नप्राशनौ नित्यं ब्रह्मचिन्तापरायणौ । त्यक्तपुत्रकलत्रादिजनौ वैराद्यभागिनौ ॥ एतद्भिन्नौ तावप्यन्यौ एकदण्डौ गताश्रयौ । त्यक्तोपवीतिनौ त्यक्तगायत्रकौ गिराश्रयौ ॥ मन्त्रत्यक्तशिखौ सम्यक् जितरोषौ सपुण्ड्रकौ । गृहीतप्रणवौ सन्तौ ब्रह्मनिर्वाणमृच्छतः चतुर्विधानमेतेषां वैकल्ये किल कर्मसु । प्रायश्चित्तं तारतम्यात्प्राणायामविशेषतः ॥ नान्येन येन केनापि तस्मात्तेषां जपं विना । प्रणवस्योत्तारणाया वर्तते जगतीतले ।

होमो दानं तपः कर्तुं नाधिकारोयतः स्मृतः ।

चित्तं दानादिभिः कृच्छ्रः ब्रह्मचर्यादिकस्य चेत् ॥

आश्रमत्रितयस्याप्यधिकारः शास्त्रसंमतः । संप्राप्तानां तु चित्तानां करणाय महात्मभिः ॥ मुख्यात्कृच्मुखेनैव सरणिः सा निरूपिता ।

तानि कृच्छ्राणि साक्षाद्व प्राजापत्यादिकानि हि ॥

तु न सत्वरं सर्वैः साक्षादीशमुखैरपि । न शक्यते हि सुतरां किंतु तानिप्रवच्मि वः ॥

प्रायश्चित्तप्रतिनिधिः

प्रत्यम्नाय मुखेनैव न चेत्प्रतिनिधित्वतः । करणं सर्वदा प्रोक्त’ ते स्युर्बहुविधाः पराः ॥ विधितः प्रतिनिधयः सम्यग्ब्राह्मणभोजनम् ।

गोदानं वा नदीस्नानं गोमूल्यं वा तथा परम् ॥

निष्कदानं च गायत्री दशसाहस्रसंख्यया । जपो वा संहितामात्रपारायणमथापि वा ॥ शिष्टान्न भोजनं चापि समान्याहुर्मनीषिणः । सप्तगङ्गावगाहश्चेदष्टकृच्छ्रफलप्रदः ॥ यत्रकुत्रापि वैकत्र तासु नित्यं न संशयः । पारावारस्नानमेकं कृच्छ्रद्वादशदायकम् ॥ चापाग्रस्नानमेकं वेदब्दकृच्छ्रफलप्रदम् । भागीरथी महास्नानं सर्वपापापनोदकम् ॥ अष्टोत्तरप्राजापत्यशतकृच्छ फलप्रदम् । गंगासागरसंगस्य स्नानमेकं तु तत्परम् ॥

अष्टोत्तरसहस्राणां कृच्छ्राणां फलदायकम् । तदेतज्जाह्नवीसिन्धुसङ्गस्नानं विशेषतः ॥

[[६०]]

मार्कण्डेयस्मृतिः

यतीनां प्रायश्चित्तानधिकारः

यत्यशक्यं हि सनतं कृच्छ्रप्रतिनिधित्वतः । उक्तानामपि सर्वेषां भिक्षणां त्यक्तसंगिनाम् ॥ गोदानप्रमुखानां च करणं त्वर्थमूलतः । न युज्यते हि सततं धातूनां तु परिग्रहात् ॥ सद्यो भ्रष्टः प्रपतति मस्करी नात्र संशयः ।

तस्माद्यस्तु चित्तं तत् तारब्रह्म विना न किम् ॥

कृच्छ्राणां समनुष्ठानं त्यक्तसंगस्य तस्य वै। विधायकादिवरणं शालहोमादिकर्म च । प्रदानं दक्षिणायाश्च सभानुज्ञानमेव च । प्राच्याङ्गगोदानाख्यं च निन्दितं तद्यतेरति ॥

तस्मात्परिव्राट् मोहेन पापभाक् चेत्ततस्स तु ।

आरूढपतितो ज्ञेयः चित्तं तस्य न विद्यते ॥

वर्णाद्याश्रमिणां चेत्तु धनग्रहणयोग्यता । अस्ति यन्मानतो नूनं प्रायश्चित्तस्य कारणात् ॥

नित्याधिकारिणः प्रोक्ता करणान्तस्य केवलम् ।

अल्पायासेन ते सम्यक् तरन्त्येव त्रयश्च वै ॥

वर्णी गृही वनी नित्यं तत्रापि प्रवरो गृही । सर्वस्य चित्तमात्रस्य नितरां धनमूलतः ॥ कर्तव्यत्वेन तत्रास्मिन् प्रवरो हि गृही धनी ।

तस्माद्गृहाश्रमः सम्यक् मर्त्यानां प्रवरः परम् ॥

यस्मिंस्थितस्तु तरति निर्धू याखिलकिल्बिषम् । धनदानमुखेनैव तत्रायं प्रवरो यतः ॥ अधिकारी महाभागः गृहस्थ : शास्त्रसंमत. । गार्हस्थ्यमेकं शिष्टानां शरणं कारकं परम् ॥ आश्रयं सर्वधर्माणां स्थितस्तत्र कृती भवेत् । प्रत्यक्षकृच्छ्रकरणसामथ्र्यं चित्तहेतवे ॥

न कस्यापि कदाचित्स्यात् किन्तु तेषां क्षणेन वै ।

तु प्रतिनिधित्वेन शक्यतेऽर्थस्य दानतः ॥

दानप्रशंसा

तस्मिन् दानेऽधिकारी स्याद् गृहस्थो धर्मतः स्मृतः ।

अखिलाः कृच्छ्रचर्याश्च व्रतचर्याश्च केवलाः ॥

दानप्रशंसावर्णनम्

[[६१]]

दीक्षाचर्या यज्ञचर्याः सर्वचर्या क्षणान्नृणाम् । दानतः संभवन्त्येव तस्माद्दानपरो गृही ॥ भवेदेव विशेषेण तु कामो विचक्षणः । दानं परं प्रशंसन्ति दानमेव परायणम् ॥ दानं बन्धुर्मनुष्याणां दानं कोशो ह्यनुत्तमः ।

[[1]]

दानं कावफला वृक्षाः दानं चिन्तामणिनृणाम् ॥

दानं पुत्रः परं द्रव्यं दानं मातापिता तथा । न दानेन विनाकिश्चित्प्रार्थितं भलमाप्यते ॥ न दानशीलिनामापत्तस्माद्दानं समाश्रयेत् । हारनूपुरकेयूरपूरितोत्तममन्दिरम् ॥ लावण्यगुणसंपत्तिदनादेव हि लभ्यते । दानेन प्राप्यते स्वर्गश्रीदर्शनेन हि लभ्यते ॥ दानेन शत्रून् जयति व्याधिदानेन नश्यति । दानेन लभ्यते विद्या दानेन युवतीजनः ॥ दानेन मोदते स्वर्गे स्वकैः सह चिरं नरः । धर्मार्थकाममोक्षाणां साधनं परमंस्मृतम् ॥ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुः दानमेव कलौ युगे ॥ युगेषु निखिलेष्वेषु दानं साधारणान्मतम् । उत्तमत्वेत विबुधैः तस्माद्दानपरो भवेत् ॥ दानादृते नोपकाकारः दृश्यते धनिनः परः । दीयमानं हि तत्तस्य भूय एवाभिवर्धते ॥

यद्ददाति विशिष्टेभ्यो यच्चाश्नाति दिने दिने ।

तद्वत्तं स्वमहं मन्ये शेषं कस्याभिरक्षति ॥

यद्ददाति यदश्नाति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दानेरपि धनैरपि ॥ किमेतस्य प्रभवति तावतातस्तदुत्सृजेत् । प्रात्रभूतेषु विप्रेषु देशेकाले च सन्ततम् ॥ दानेन भोगी भवतिमेधावी वृद्धसेवया । अहिंसया च दीर्घायुरिति प्राहुर्महर्षयः ॥ पापकर्मसमायुक्तं पतनं नरके नरम् । त्रायते दानमेवैकं पात्रभूते द्विजे कृतम् ॥ उक्तदोषगुणोपेतमुक्तदोषविवर्जितम् । कामधुग्धेनुवद्दानं फलत्यात्सोप्सितं फलम् ॥ न्यायेनार्जनमर्थानां वर्धनं चाभिरक्षणम् । सत्पात्रे प्रतिपत्तिश्च सर्वशास्त्रेषु पठ्यते ॥

यस्य वित्तं न दानाय नोपभोगाय कल्प्यते । नापि कीर्त्यै न धर्माय तस्य वित्तं निरर्थकम् ॥ तस्माद्वित्तानि संपाद्य दद्याद्विप्राय भक्तितः । न्यायमार्गेण विबुधः कदाप्यन्याय वर्त्मना ॥

हर

मार्कण्डेयस्मृतिः

देवालयं नो विदधाति वा कुण्डं तटाकं न करोति रूपम् । पुण्यं विवाहं स्वजनोपकारं तथा प्रपां वा द्विजमन्दिरं वा ॥ धनं सदा भूमिगतं प्रकुर्यात् यदृच्छया लब्धमनन्यचित्तः । स्वयं न भुञ्जीत तथाविधं चेत्परोपकाराय भवेत्तु तद्धि ॥ अहन्यहनि याचन्तमहं मन्ये गुरुं यथा । अदत्वाहं दरिद्रोऽस्मि त्वं दत्वा भूर्धनी महान् ॥ मार्जनं दर्पणस्यैव यः करोति दिने दिने । दानप्रबोधकस्तस्मादरिद्रोऽयं नृणां सदा ॥ किं धनेन करिष्यन्ति देहिनो भंगुराश्रयाः । यदर्थं धनमिच्छन्ति तच्छरीरमशाश्वतम् ॥ प्रासादर्धमपि ग्रासमर्थिभ्यः किन दीयते । इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति । दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुध्वति ॥ अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा । तदिदं देहि देहीति विपरीतमुपस्थितम् । बोधयन्ते न याचन्ते देहीति कृपणा जनाः । यैर्नभुक्तं न च हुतं तीर्थे न (१) ॥

१) मरणं कृताः । हिरण्यमन्नमुदकं ब्राह्मणेभ्यो न चार्पितम् ॥ दीना विवसना रुक्षाः कपालाङ्कितपाणयः । दृश्यन्ते किल सर्वत्र ते यैः पूर्व जनैः किल ॥ सदाचाराः कुलीनाश्च रूपवन्तः प्रियंवदाः । बहुश्रुताश्च धर्मज्ञाः दातारः स्युः श्रियान्विताः ॥ अलब्धमुष्टिमात्रश्च याचमानाः परानति । दृश्यन्ते दुःखिनः सर्वे प्राणिनः सर्वदा भुवि ॥ अदत्तथा न जायन्ते परभाग्योपजीविनः ।

(

मा ददास्येति यो ब्रयाद् गव्यग्नौ ब्राह्मणेषु च ॥

तिर्यग्योनिशतं गत्वा चाण्डालेष्वभिजायते । एकेन तिष्ठताधस्तात् अन्येनोपरितिष्ठता ॥ दातृयाचकयोर्भेदः कदाभ्यामेव सूचितः । प्राप्तानामनुरूपाणां पात्राणां दानकर्मणः ॥ देशे कृत्स्नेपि काले वा नादेयं ह्यस्ति किंचन । उच्चैश्रवसमश्वं प्रापणीयं सतां विदुः ॥ अनुनीय यथाकामं सत्यसन्धो महाव्रतः । स्वैः प्राणै ब्राह्मणः प्राणान् परित्राय दिवंगतः रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने । अपः प्रदाय शीतोष्णाः नाकपृष्ठमितगतः ॥

}

दानप्रशंसावर्णनम्

आत्रेयः खण्डवमयोरर्हतो द्विविधं धनम् ।

दत्वा लोकान्ययौ धोमान् अनन्तास्स महीपतिः ॥

[[६३]]

शिविकाशी नरोऽङ्गानि पुत्रं च प्रियमौरसम् । ब्राह्मणार्थ (१) नाकपृष्ठमुपागतः ॥

। प्रतर्दनः काशिपतिः प्रदाय नयने स्वके । ब्राह्मणायातुलां कीर्ति इह चामुत्र चाश्नुते ॥ दोर्घमृष्टशलाकं तु सौवणं परमृद्धिमत् । छत्रं स्वर्णमयं दत्वा सराष्ट्रोऽप्यव ( प ) तद्दिवम् ॥ संकृतिश्च तथात्रेयः शिष्ये (…?) गुणम्। उपदिश्य महातेजाः गतो लोकाननुत्तमान् ॥ । अम्बरीषोङ्गदे दत्वा ब्राह्मणेभ्यः प्रतापवान् । अर्बुदानि शतैकं च सराष्ट्रोऽभ्यपतद्दिवम् सावित्रः कुण्डले दिव्ये शरीरं जनमेजयः । ब्रह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् ॥ सर्वरत्नं वृषादविः यवनाश्वः प्रियां स्त्रियम् । रम्यमावसथं चैव दत्वा स्वर्लोक्रमाश्रितः ॥ निमिराष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् ।

ब्राह्मणेभ्यो ददौ चापि गयश्चोवीं सपट्टणाम् ॥

राजा मित्रसहश्चैव वसिष्ठाय महात्मने । मदयन्तीं प्रियां दत्वा तया सह दिवंगतः ॥

सहस्रजिच्च राजर्षिः प्राणानिष्टान् महायशाः ।

ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥ सर्वकामैश्च संपूर्ण दत्वा वेश्म हिरण्मयम् । मुद्गलाय गतः स्वर्गं शतद्य म्नो महायशाः ॥ नाम्ना च द्युतिमान्नाम साहबराजप्रतापवान् । दत्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥ मद्रराजश्च राजर्षिः दत्वा कन्यां सुमध्यमाम् । सुवर्णहस्ताय गतो लोकान् देवैरभिष्टुतान् ॥ रोमपादश्च राजर्षिः शान्तां दत्वा सुतां प्रभुः । ऋष्यशृङ्गाय विपुलैः सर्वकामैरयुज्यतः ॥ दवा शतसहस्र तु गवां राजा प्रसेनजित् । सवत्सानां महातेजा गतो लोकाननुत्तमान् ॥६४

मार्कण्डेयस्मृतिः

एते चान्ये च बहवो दानेन तपसा सह । महात्मनो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥ तेषां प्रतिष्ठिता कीर्तिः यावत्स्थास्यति मेदिनी ।

दानैर्यज्ञैः प्रजासर्गः एते हि दिवमाप्नुयुः ॥

अर्थानामुत्तमे पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिदिष्टं सर्वशास्त्रयैकनिश्चितम् ॥ द्विहेतुषडधिष्ठानं षडङ्ग षविपाकयुक् । चतुष्प्रकारं त्रिविधं त्रिनाशं दानमुच्यते ॥ नाल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् ।

श्रद्धा भक्तिश्च दानानां वृद्धिक्षयकरे स्मृते ॥

धर्ममर्थ च कामं च व्रीडाहर्ष भयानि च । अधिष्ठानानिदानानां षडेतानि विदुर्बुधाः ॥

दानभेदाः

पात्रेभ्यदीयते नित्यं अमपेक्षप्रयोजनम् । केवलं धर्मबुध्या यद्धर्मदानं तदुच्यते ॥ प्रयोजनमपेक्ष्यैव प्रसंगाद्यत्प्रदीयते । तदर्थदानमित्याहुः ऐहिकं फलहेतुकम् ॥ स्त्रीपानमृगयाक्षाणां प्रसंगाद्यत्प्रदीयते । अनर्हेषु च रागेण कामदानं तदुच्यते ॥ संसदि क्रीडा स्तुत्याचार्थार्थिभ्यः प्रयच्छतः । प्रदीयते च यद्दानं क्रीडादानं तदुज्यते ॥ दृष्ट्वा प्रियाणि श्रुत्वा वा हर्षाद्यद्यत्प्रदीयते । हर्षदानमिति प्राहुर्दानं तद्धर्मचिन्तकाः ॥ आक्रोशादर्थहिंसानां प्रतिकाराय तद्भवेत् । प्रतिबन्धकराहित्यहेतवे तत्प्रशस्यते ॥ भयदानमिति प्रोक्त फलदं नैव तद्भवेत् । अपापोरोगिधर्मैक दित्सुरप्यसनश्शुचिः ॥ अनिन्द्यशिवकर्मा च षड्भिर्दाता प्रशस्यते ।

पात्रं श्रद्धा च भक्तिश्च देयमित्यभिचिन्तनम् ॥ देशकालश्च दानानां अङ्गान्येतानि षड्विदुः ।

त्रिशुक्लकृशवृत्तिश्च घृणालुः सकलेन्द्रियः ॥

विमुक्तो योनिदोषेभ्यः ब्राह्मणः पात्रमुच्यते । सौमुख्याद्यभिसंपत्ति रथिनां दर्शने सदा ॥ सत्कृतिश्चानसूया च तथा श्रद्ध ेति कीर्त्यते । अत्यावश्यककर्तव्यचिन्तनं भक्तिरुच्यते ॥

दानस्यापात्राणि

[[६५]]

एतद्धनं मया देयं तदा तस्मै च तत्र वै । अभिचिन्तनमित्युक्त मित्येव यत्तदु स्मृतम् ॥ गंगाप्रतीर्रादिदेशः दानकृत्याय चोदितः । देश इत्येवविद्वद्भिः कालोऽपि ग्रहणादिकः ॥ केचित्वत्र पुनः प्रोचुः प्राकारान्तरमाश्रिताः ।

तमप्यत्र प्रवक्ष्यामि महात्मानो जितेन्द्रियाः ॥

अपराबाधमक्लेशं स्वयत्नेननार्जितं धनम् । स्वल्पं वा विपुलं वापि देयमित्यभिधीयते

यत्र यद् दुर्लभं द्रव्यं यस्मिन् कालेऽपि वा पुनः ।

दाना देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा ॥

दुष्फलं निष्फलं हा (दा)नं तुल्यं विपुलमक्षयम् । षविपाकयुगादिष्टं षडेतानिविपाकतः

दानस्यापात्राणि

नास्तिकस्ते न हिस्तेभ्यः जाराय पतिताय च । मिथुन णहर्तृभ्यः परक्षेत्रापहारिणे ॥ सदूषकाय च ग्रामद्रोहिणे ग्रामवाहिने । न्यायसंप्रा ( ? ) कपरा जयानन्तमप्यति ॥ अजितोऽहमनिर्लज्जमिति वक्त्रेऽतिपापिने । संजातस्पष्टदुष्कृत्य सत्यनष्ट नृशालिने ॥ सत्यसंप्राप्त दौर्गत्यपराजयपराय च । तत्पराजयनिर्लज्ज भयराहित्यवाक्कुलैः ॥ प्रतिवादिद्रव्यहर्त्रे प्रदत्तं दुष्फलं भवेत् । अयं पापः क्रकर्मा पापभीतिविवर्जितः ॥ निर्लज्जः कर्कशस्तीक्षणः परस्वागतमानसः ।

व्यवहार जितोऽत्यन्तं अजितोऽस्मीति वाद्यपि ॥

देवसन्निधितत्सत्य नष्टस्व नरशाल्ययम् । इति ज्ञात्वापि यस्तेभ्यः दानकर्म समाचरेत् । तन्निष्फलं भवेन्नूनं तस्मात्तन्न तथा चरेत् ।

अन्यद्रव्यं तस्य भोग्यमन्यप्राप्यं च कालतः ॥

तत्कालै कनिरुद्ध च विवादास्यददुस्तरम् । परबाधाकरं लुप पुनः साधारणं तथा ॥ महदध्यफलं दानं श्रद्धया परिवर्जितम् । तद्वीनं दानमित्युक्त’ न कार्यं तच्च निन्दितम् ॥ यथोक्तमपि यद्दतं चित्तेन कलुषेण वा । तत्तु संकल्पदोषेण दानं तुल्यफलं फवेत् ॥ युक्ताः सकलैः षड्भिः दानं स्याद्विपुञ्चोच्यम् । अनुक्रोशववादत्तं दानमक्षय्यतां व्रजेत्

[[६६]]

मार्कण्डेयस्मृतिः

ध्रुवमाखिकं काम्यं नैमित्तिकमिति क्रमात् । वैरिको दानमार्गोऽयं चतुर्धा वर्ण्यते बुधैः ॥

प्रपारामतटाकादि सर्वकामप्रदायके । धौत्रमित्येव विख्यातं धर्मविद्भिर्महात्मभिः ॥ तदाजस्त्रिकमित्याहुः दीयते यद्दिनेदिने । अपत्यविजयैश्वर्यस्त्रीलाभार्थं यदिष्यते ॥ इच्छासंस्थं तु तद्दानं काम्यमित्यभिधीयते । कालापेक्षं कियापेक्षं अनापेक्षमिति स्मृतम् ॥ त्रिधा नैमित्तिकं प्रोक्त’ पुनः सर्व द्विधा स्मृतम् । सहोमं होमरहितं समन्त्रकमन्त्रकम् ॥ सद्धर्माधर्मकाभ्यां द्विविधं तत्त्रिधा मतम् ।

स चोत्तमानि चत्वारि मध्यमानि विधानतः ॥ अधमानि च सर्वाणि त्रिविधत्वमिदं विदुः ।

अन्नं दधि घृतं क्षीरं गोभूरुक्माश्रहस्तिनः ॥

दानान्युत्तमसंज्ञानि सुमहद्द्रव्यदानतः । पुस्तकाच्छादनावासपरिभोगौषधानि च ॥ दानानि मध्यमानीह मध्यमद्रव्यदानतः । उपानट्खयानानि छत्रपात्रासनानि च ॥ दीपकाष्ठफलादीनि चरमं बहुधोच्यते । दत्तमिष्टंमधीतं च विनश्यत्यनुकीर्तनात् ॥ तस्माद्दत्तादिकं खेन कीर्तयेन कदाचन । श्लाधानुक्रोशनाभ्यां च भग्नतेजा विपद्यते ॥ तस्मादात्मकृतं पुण्यं यत्नेनपरिपालयेत् पुनरन्ये तु विबुधाः दानं प्रोचुश्चतुर्विधम् ॥ नित्यं नैमित्तिकं काम्यं विमलं चेति नामतः । अहन्यहनि यत्किंचिद्दीयतेऽनुपकारिणे ॥ अनुद्दिश्य फलं यत्तद्ब्राह्मणाय तु नित्कम् । यत्तु पापोपशान्त्यर्थं दीयते विदुषां करे ॥ नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् । असत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते ॥ दानं तत्कामिकं प्रोक्तं मुनिभिर्धर्मचिन्तकैः । यदीश्वर प्रीणनार्थ ब्रह्मविद्भयः प्रदीयते ॥ चेतसा भक्तियुक्त न दानं तद्विमलं स्मृतम् । येन येन हि भावेन यद्यद्दानं प्रयच्छति ॥

ते नतेन हि भावेन तत्तत्प्राप्नोति निश्चितम् ॥

सेष्टपूर्त वर्णने दानक्रियाद्यधिकारिवर्णनम्

सात्विकादिदानानि

[[६७]]

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥

सात्विकानां फलं भुङ्क्त देवत्वेनात्र संशयः ।

बाल्ये वा दासभावे वा राजसानां फलं भवेत् ॥ तामसानां फलं भुङ्क्त तिर्यक्त्वे मानवस्सदा ।

कायिकं वाचिकं दानं मानसं च त्रिधा मतम् ॥

अर्हते यत्सुवर्णादि दानं तत्कायिकं स्मृतम् । आर्तानामभयं यत्तदेतद् वाचिकं स्मृतम् ॥ विद्यया स्याद्यथायोग्यं तद्दानं मानसं स्मृतम् । पुण्यमिष्टमधीतं च दानं तद्विविधं पुनः वर्णितं सुमहाभागैरन्यैः कैश्चिदपि त्विदम् । अग्निहोत्रं तपस्सत्यं वेदानां परिपालनम् ॥ आतिथ्यं वैश्वदेवं च तदिष्टमिति कथ्यते । पुष्करिण्यस्तथा वाप्यः देवतायतनानि च ॥

अन्नदानमथारामाः पूर्तमित्यभिधीयते ॥

दानक्रियाद्यधिकारिणः

एतादृशमहादानक्रियादिषु तु मुख्यतः । गृहस्थ एक एव स्यादधिकारी न चापरः ॥

द्रव्याणामार्जने चापि मुरूयो न तु हि मस्करी ।

वनी वर्णी तु संप्राप्ते निमित्ते तु कदाचन ॥ तन्मात्रे त्वधिकारी स्यान्नाधिके सुतरां यतिः ।

पतत्येवाशु हा कापि कदा धातुपरिग्रहात् ॥

बस्साधुः सर्वेषां कर्मणां प्रवरः परः । सवकर्मैकलोपेऽपि तस्य चित्तेन तत्तराम् ॥

पश्चात्समीचीनतया शृतं भवति तत्क्षणात् ।

तस्यास्य साधकानि स्युः सुबहूनि महान्त्यपि ॥

[[६८]]

मार्कण्डेयस्मृतिः

तैरयं कृतकृत्यः स्याच्चेतसा समनुष्ठितैः ।

निखिलस्यापि चित्तस्य कृच्छ्राणां चर्यया कृतिः ॥

कृच्छ्राणामपि तेषां तु धनदानमुखेन चेत् । मुहूर्तमात्रात्सिद्धिः स्यात्तद्दानं बहुरूपकम् ॥

ब्राह्मणस्य धनार्जनसाधनानि

कर्मणां करणं चापि धनसाध्यं हि मुख्यतः । धनं हिरण्यादिरूपंस्यात्तत्संग्रहणदानयोः ॥ अधिकारी गृहस्थोऽयं तत्र चेद्ब्राह्मणः पुनः । तदार्जनं च नान्येन वर्त्मनैव न चान्यथा ॥ कुर्यादिति मनुः प्राह स मार्गो ब्राह्मणस्य तु । याजनं प्रथमं त्वेकं पश्चादध्यापनं पुनः ॥ प्रतिग्रहो विशिष्टात्तु धनार्जनसुपद्धतिः । संपादितेन तेनैवं कुर्यात्कर्माणि बाडबः ॥ सफलं कर्म यत्तत्स्यात्सर्वं दक्षिणया युतम् ॥

अदक्षिण कर्मनिन्दा

अदत्तदक्षिणं कर्म यद्यन्मन्त्रकृतं तु वा । कृतं वा नियमैस्सर्वैर्भक्त्या च श्रद्धयापि वा ॥ विफलं तद्विजानीयाद्भस्मनीव हुतं हविः । श्रद्धायुक्तः शुचिर्दान्तः सर्वकर्म समाचरेत् ॥ अदक्षिणं चेत्तत्कर्म निखिलं निष्फलं भवेत् । कमणामपि सर्वेषां सुवर्ण दक्षिणेष्यते ॥ सुवर्ण’ दीयते देवैः रजतं पैतृकेष्यते । सुवर्ण रजतं ताम्र तण्डुलाधान्यमेव च ॥

रत्नानि गावो हस्त्यश्वाः रथा वासांसि वस्तुवत् ।

काष्ठादिकं जलं पात्रं शय्या खट्वा कटं कुटम् ॥ अजाविकं बहुविधं दक्षिणार्थं प्रकल्पितम् ।

औपासनं त्वग्निहोत्रं नित्यं सन्ध्यात्रयं तथा ॥

नित्यश्राद्ध वैश्वदेवं देवपूजा विशेषतः । भुक्तिकालै संप्राप्ततदातिथ्यं च केवलम् ॥ नित्यसूर्यनमस्कारस्सद्योऽयं स्याददक्षिणः । सर्वत्र शक्तितो भक्त्या दक्षिणां परिकल्पयेत् अनुक्तदक्षिणे दाने दशांशं परिकल्पयेत् । महत्पूर्वेषु दानेषु दद्यान्निष्कशतं सुधीः ॥ मध्यमस्तु तदर्थेन तदर्धेनाधमः स्मृतः । मेषी पुरुषधान्येषु वृक्षाश्वजनधेनुषु ॥

दानफलवर्णनम्

अशक्तस्यापि क्ऌमोऽयं पञ्चसौवर्णिको विधिः ।

अष्टषष्टिपलोन्मानां दद्याद्वै दक्षिणां गुरोः ॥

[[६६]]

होतॄणां चैव सर्वेषां त्रिंशत्पलमुदाहृतम् । अध्येतॄणां तदर्थं स्याद्द्वारपानां तदर्धतः ॥ अतो न्यूनं न कर्तव्यं अधिके फलमूर्जितम् । दानकाले तु देवत्वं प्रतिमानां प्रकीर्तितम् ॥ घेनूनामपि घेनुत्वं श्रुत्युक्तं दानयोगतः । दातुर्वै दानकाले तु धेनवः परिकीर्तिताः ॥ विप्रस्य व्ययकाले तु द्रव्यं तदिति चोच्यते । सर्वेषामपि दानानां हिरण्यमुदकं तथा ॥ दानेष्वावश्यकानि

पवित्रमुत्तरीयं च साक्षित्वं ब्राह्मणस्य च । अल्पदानेषु चेन्नैवं यथेच्छ ं तत्र चैककम् ॥ शौचमावश्यकं नित्यं मुष्टिं वा नाशुचिश्चरेत् । अत्राशुचित्वं संप्रोक्तं मुष्टिदानादिकर्मसु ॥ मूत्राद्य त्सर्जनपरे तत्प्रक्षालनपूर्वके । योऽयं कालविशेषः स्यात्स आशौचमिति स्मृतः ॥ स आचान्त इति प्राहुः केचिदत्र महर्षयः । अप्रक्षाल्य करौ पादौ गुह्यप्रक्षालनात्परम्

अप्यकृत्वा च गण्डूषं कृत्वा तत्क्रयमेव वा ।

अनाचान्तो न दद्यात्कि ब्राह्मणेभ्यो विशेषतः ॥

दत्वा तादृगवस्थायां नरो रौरवमाप्नुयात् । शुचिर्भूत्यैव सर्वाणि दानानि सुमुखश्चरेत्

दानानामपि सर्वेषां तत्तत्फलमिहोच्यते ॥

}

दानफलानि

वारिदस्तुष्टिमाप्नोति सुखमक्षय्यमन्नदः । तिलप्रदः प्रजादिष्टां दीपदश्चक्षुरुत्तमम् ॥

भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदोर्याणि ( रम्याणि) वेश्मानि रूप्यदोरुप्यमुत्तमम् ॥ वासोदश्चन्द्रसालोक्यं अश्विसालोक्यमश्वदः । अनडुग्दः श्रियं पुष्टिं गोदो ब्रध्नस्य विष्टपम् ॥ यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।

  • धान्यदः शाश्वतं सौख्यं भोगमाप्नोति भोगदः ॥

हारनूपुरयोर्दाता रूपमाप्नोत्यनुत्तमम् । त्रपुसीसकयोता वह्निवृद्धिमवाप्नुयात् ॥

[[१००]]

मार्कण्डेयस्मृतिः

पात्रं भवति कामानां तैजसानां प्रदानतः । धर्मदाता नरो नित्यं संरक्षामधिगच्छति ॥ आयुधानां प्रदानेन शत्रुनाशमवाप्नुयात् । राजचिह्नप्रदानेन राजा भवति भूतले ॥ रत्नानां च प्रदानेन राजा चैव भविष्यति । नगरं च तथा दत्वा राजा भवति भूतले वस्त्रदाता सुवेषस्य दीर्घमायुर्हिरण्यदः । धन्यो धनप्रदाता तु सर्पिदस्सुखमश्नुते ॥ पादुकानां प्रदानेन शय्यायाश्वासनस्य च । फलानां चैव मूलानां दानाद्रव्यपतिर्भवेत् अन्नदस्तु भवेच्छ्रीमान् पादाभ्यङ्गप्रदस्सुखी । मुखावास्यं नरो दत्वा दन्तधावनमेव च ॥ शुचिः स्यात्सुभगो वाग्मी सुखी चैव प्रजायते ।

पादशौचं तथा यानं शौचं तु गुदलिङ्गयोः ॥ यः प्रयच्छति विप्राय शुचिः शुद्धः सदा भवेत् । दुर्भिक्षे चान्नदाता च सुभिक्षे च हिरण्यदः ॥

पानीयदस्त्वरण्ये च ब्रह्मलोके महीयते । श्रान्तायान्नप्रदः स्वर्गं विमानेनाधिरोहति ॥ प्राप्नोति दशगोदानफलं रोगप्रतिक्रिया । प्रक्षाल्य पादौ विप्रस्य लभेद्गोदानजं फलम् देवमाल्यापनयनं देवागारसमूहनम् । मार्जनं सर्वदेवानां गोप्रदानसमं स्मृतम् ॥ अर्चनं चैव विप्राणां द्विजाभीष्टापकर्षणम् । पादशौचप्रदानं च आकल्पपरिचारणम् ॥ पादाभ्यङ्गप्रदानं च श्रान्तसंवाहनं तथा । गवां कण्डूयनं चैव प्रासदानाभिवादने ॥ भिक्षादीनां प्रदानं च तथैवातिथिपूजनम् । एकैकस्य फलं ाह गोप्रदानसमं यमः ॥ श्रान्तसंवाहनं रोगी परिचर्यासुरार्चनम् । पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानकम् ॥ छत्रदो गृहमाप्नोति गृहदो नगरं तथा । तथा पानप्रदानेन रथमाप्नोत्यनुत्तमम् ॥ इन्धनानां प्रदानेन दीप्ताग्निर्भुवि जायते । गवां प्रासप्रदानेन सर्वपापैः प्रमुच्यते ॥ चन्दनं तालवृन्तं च फलानि विविधानि च । तान्बूलमासनं शय्यां दत्वाऽत्यन्तसुखी भवेत् ॥ पादाभ्यङ्गः शिरोऽभ्यङ्ग दोनमानार्चनादिभिः ।

मृष्टवाक्यैर्विशेषेण पूजनीया द्विजोत्तमाः ॥

दासीदासमलंकारं क्षेत्राणि च गृहाणि च । ब्राह्मणायासनं दत्वा स्वर्गमाप्नोत्यसंशयः ॥

दाने देयद्रव्यवर्णनम् फलभ्व

[[१०१]]

लभते च शिवं स्थानं बलिपुष्पप्रदानतः । प्रेक्षणीयप्रदानेन स्मृति मेधां च विन्दति ॥ सुरसंघ सभादीनि वापीकूपसरांसि वै । जीर्णान्युद्धरते यस्तु स संपूर्णफलं लभेत् ॥

पक्कान् ददाति केदारान् सकलान्येव पादपान् ।

षष्टिकोटिसहस्राणि बुदानां च वै त्रयम् ॥

क्रीडन्तीति स्वर्गफले एतदुक्तं न संशयः । अश्वं वा यदि वा युग्यं यो ददाती पादुके ॥ तस्य दिव्यानि यानानि दुष्टपन्था नचैव हि । गृहागतं ब्राह्मणं च मधुपर्केण च क्रमात ॥ भोजयित्वा यथान्याय्यं सूर्यलोके महीयते । दारिद्यार्णवममानां अतिक्लेशातिदुःखिनाम् । तदुद्धृत्य यथाशक्ति सर्वान् कामानवाप्नुयात् । बस्त्रं जलं पवित्रं च दत्वाऽथ शिवयोगिने ॥ स महाभागमाप्नोति अन्ते योगं च शाश्वतम् । यो गां च महिषीं दद्यात् सालंकारां पयस्विनीम् ॥ कांस्य वस्त्रादिभिर्युक्तां स कामान् लभतेऽखिलान् । अन्नं वस्त्रं फलं तोयं तक शाकं घृतं मधु ॥

पत्रं पुष्पं धनं धान्यं यानं यष्टिं कमण्डलुम् । व्रतत्रयं छत्रपात्रं व्रतविद्या सुरार्चनम् ॥ कन्याकुशोपनीतानि तिलौषधगृहाणि च । धूपक्षेत्रं यज्ञपात्रं योगपट्टे च पादुके ॥ कृष्णाजिनं बुद्धिदानं धर्मदेशकथात्मजम् । अर्थिने सततं देयं येन श्रेयो महद्भवेत् ॥ गोपीचन्दनखण्डं तु यो ददातीह वैष्णवे । कुलमेकोत्तरं तेन भवेदुत्तरितं शतम् ॥ तृषितस्य च पानीयं क्षुधितस्य च भोजनम् । निवेशनं दरिद्रस्य निद्रायाः शयनं तथा ॥ तथा भिक्षाप्रदानं च वेदानामर्थनिश्चयः । एतत्संहारवृक्षस्य फलमाहुर्महर्षयः ॥ चामरस्य प्रदानेन सर्वदुःखै विमुच्यते । तालवृन्तप्रदानेन सर्वपापैः प्रमुच्यते ॥

पादपीठप्रदानेन स्थानं सर्वत्र विन्दति ।

स्थानमेव प्रदानेन तदाप्नोति दण्डं दत्वा द्विजातये ॥

यज्ञोपवीतदानेन वस्त्रदानफलं लभेत् । वस्त्रदानफलं तुच्छमौपवीतमनन्तकम् ॥

[[१०२]]

मार्कण्डेयस्मृतिः

उष्णीषस्य प्रदानेन तदेव फलमुच्यते । दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात् ॥ मृत्तिकायाः प्रदानेन शुचिः सर्वत्र जायते । तथैवौषधदानेन रोगनाशमवाप्नुयात् ॥ स्नानीयानि सुगन्धीनि दत्वासौभाग्यमाप्नुयात् । अनुलेपनदानेन रूपवानभिजायते ॥ भाण्डादीनां प्रदानेन शंखादीनां प्रदानतः । पात्रं भवति कामानां यशसश्च न संशयः ॥ शिविकायाः प्रदानेन अग्निष्टोमफलं लभेत् । दासं कर्मकरं योधं दत्वा यादिन्द्रमन्दिरम् तरुणी रूपसम्पन्ना दासों यस्तु प्रयच्छति । सोऽप्सरोभिर्मुदा युक्तः क्रीडते नन्दने वने उष्ट्रं वा गर्दभं वापि यः प्रयच्छति मानवः ।

[[1]]

अलकांसनमा (समवा) साद्य यक्षेन्द्रः सह मोदते ॥

दानानामुत्तमं प्रोक्तं प्रदानं तुरगस्य तु । बाडबायाः प्रदानं च तथा बहुफलप्रदम् ॥ शुक्लं तुरङ्गमं दत्वा फलं दशगुणं भवेत् । तुरङ्गमं सपल्याकं सालंकारं प्रयच्छतः ॥ पौण्डरीकफलं प्रोक्त’ नात्र कार्या विचारणा । चतुर्भिः कुञ्जरैयुक्तं सर्वोपस्करशोभितम् रथं द्विजातये दत्वा राजसूयफलं लभेत् । सुपर्णकक्ष्यं मातङ्ग दत्वा विप्राय भक्तितः ॥ राजसूयाश्वमेधाभ्यां फलमाप्नोत्यसंशयः । प्रदाय करणि सम्यगेतदेव फलं लभेत् ॥ यथोक्तविधिना दत्वा कपिलां कनकप्रभाम् । सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ वारुणं लोकमाप्नोति दत्वा च महिषीं तथा । महिषस्य प्रदानेन वायुलोके महीयते ॥

वायुलोकमवाप्नोति प्रदानेन च पक्षिणाम् ।

मयूराणां शुकानां च शारिकाणां च वाग्मिनाम् ॥

अनाथं ब्राह्मणं प्रेतं येन हन्ति द्विजातयः । पदे पदेऽश्वमेधस्य फलं विन्दन्ति तत्क्षणात् गुण (ड) दानफलं चापि प्राप्नुवन्ति पदे पदे । संस्कारार्थमनाथस्य यस्तु काष्ठं प्रदास्यति. कायाग्निदीप्तिं प्राकाम्यं संग्रामे लभते जयम् । अन्नदानफलं भूयः वरतन्तुमहर्षिणा ॥ पुराप्रोक्तं सुभद्राय पृथग्भङ्ग्यन्तरेण वै । जाम्बूनदमयं दिव्यं विमानं सूर्यसंनिभम् ॥ दिव्याप्सरोभिः संपूर्णमन्नदो लभते ध्रुवम्। आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि आयुः प्रकाशमैश्वर्य रूपं च लभते शुभम् । यज्ञोपवीत यायं च व्यजनं तालवृन्तकम् ॥ । शय्यां च शयनीयं च उपानद्युगलं तथा । छत्रभाजनरत्नानि लवणेक्षुगुडानि च ॥ तेजसानि तु पात्राणि घेनु गृष्टिं तथासनम्। श्राद्ध ष्वेतानि योदद्यात्सोऽश्वमेधफलं लभेत्

स्वर्गसुखाधिकारिणां जनानां लक्षणवर्णनम्

[[१०३]]

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः । त्रातारश्चसहस्राणां ते नराः स्वर्गगामिनः ॥ सुवर्णस्य च दातारो गवां ये रजतस्य च । धेनूनां च प्रदातारस्ते नराः स्वर्गगामिनः ॥

विहारावसथोद्यानकूपारामसरः करा. ( प्रदा) ।

प्रपाणां ये प्रकर्तारः ते नराः स्वर्गगामिनः ॥

सर्वहिंसानिवृत्त ये नराः सर्वसहाश्च ये । सर्वस्याश्रयभूता ये ते नराः स्वर्गगामिनः ॥ आठ्याश्च बलवन्तश्च यौवनस्थाच सत्क्रियाः ।

ये निर्जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥

देवकार्येषु सस्नेहा मृदवः स्नेहवत्सलाः । उदाराः प्रश्नदा ये हि ते नराः स्वर्गगामिनः ॥ आश्रमेषु यथोक्तषु वर्तन्ते ये द्विजोत्तमाः । स्वधर्मसक्तास्सततं ते नराः स्वर्ग गामिनः ॥ वर्तन्ते ये महीपाला राजधर्मेषु नित्यशः । पुरोहितमने युक्ताः ते नराः स्वर्गगामिनः ॥ प्रजासुखे सुखं येषां तदुःखे ये च दुःखिताः । तपसा कर्शिता ये वा ते नराः स्वर्गगामिनः ॥ स्वाम्यर्थे ब्राह्मणार्थे च मित्रकार्ये च ये हिताः । गोभूद्विजहिता ये तु ते नराः स्वर्गगामिनः ॥

गोभूहेतुहता ये च देवद्विजकृते हताः ॥

महानास्तिक दुर्व्याधितथागतनिवारकाः । विप्रनिन्दाद्धन्तारः स्ते नराः स्वर्गगामिनः ॥ देहधातून् परित्यज्य सलिलारण्यवह्निषु । अनशनेन मृता ये वा ते नराः स्वर्गगामिनः ॥ तीर्थयात्राप्रसक्ताश्च नित्यमध्वनि कर्शिताः । तपसा कर्शिता ये च ते नराः स्वर्गगामिनः मातापितृपरा ये च गुरुभक्ताः प्रियंवदाः । सत्यार्जवरता ये च ते नराः स्वर्गगामिनः ॥ परोपकारसक्ताश्च परदारविवर्जिताः । पूज्यापूजयितारश्च ते नराः स्वर्गगामिनः ॥

सभानां ये च कर्तारः ये च प्रज्ञाप्रदायका । भक्ता गोदेवविप्राणां ते नराः स्वर्गगामिनः ज्यानारामकर्तारः तथा गोप्रासादायिनः । उपासकाश्च देवानां ते नराः स्वर्गगामिनः ॥ क्लेशाननुभवन्तीह शास्त्राध्ययनतत्पराः । शास्त्राणां च हिते युक्तास्ते नराः स्वर्गगामिनः

कन्यकानामनाथानां ये चैवोद्वाहकारिणः ॥१०४

मार्कण्डेयस्मृतिः

ग्रन्थानपरा ये च प्रहाणां पूजकास्तथा । कादेनापि मृता ये च ते नराः खर्गगामिनः ॥

अग्निहोत्री च सत्री च कूपकर्ता तटाककृत् ।

लिंगप्रतिष्ठाकर्ता च भक्तः शास्त्रवशे स्थितः ॥

विष्णुश्चाराधितो यैस्तु ज्ञाननिष्ठाश्च ये द्विजाः । प्रणवव्याहृतियुक्त गायत्रीनिरताः सदा मनसा कर्मणा वाचा कर्मण्येवानुचिन्तकाः ।

न पापमतिमिच्छन्ति तेऽपि यान्त्यमरावतीम् ॥

निराहारा महाशीलाः ब्रह्मचर्यादिलोलुपाः । त्यजन्ति देहधर्मज्ञाः विषयेन्द्रियनिर्जिताः एकाग्रमनसः शान्ताः तेऽपि यान्त्यमरावतीम् । गंगानदीं महापुण्यां श्रयन्ति च धियैकया ॥ जपन्ति तत्र ये मन्त्रान् परदारविवर्जिताः ।

ब्राह्मणाय तु ये कन्यां प्रयच्छन्ति विधानतः ॥

तु दीपं प्रयच्छन्ति तेऽपि यान्त्यमरावतीम् । गङ्गाजले प्रयागे वा केदारे पुष्करे तथा महापथे प्रभासे च मृता यान्त्यमरावतीम् । द्वारवत्यां कुरुक्षेत्रे योगाभ्यासेन ये मृताः हरीती ( ? ) रं येषां मरणे समुपस्थिते । पूजयित्वा हरिं ये तु भूमौ दर्भास्तिलैस्सह ।

तिलान् विकीर्य लोहे तु दत्वा धेनुं पयस्विनीम् ।

ये मृताः कृतिनः सन्तस्तेऽपि यान्त्यमरावतीम् ॥

उत्पाद्य पुत्राः संस्थाय पितृपैतामहापथे । निर्मला निष्कलङ्का ये मृता यान्त्यमरावतीम् सर्वभूतदयावन्तः विश्वास्याः सर्वजन्तुषु । त्यक्तहिंसाः सदाचाराः सन्तुष्टाः स्वधनेन च धर्मलघार्थ भोक्तारस्तेऽपि यान्त्यमरावतीम् ॥

मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये । परदारेषु वर्तन्ते तेऽपि यान्त्यमरावतीम् ॥ अनृतं ये न भाषन्ते कटुकं निष्ठुरं तथा । स्वागतेनाभिभाषन्ते तेऽपि यान्त्यमरावतींम्

अरण्ये विजने नष्टं परस्वं दृश्यते यदा ।

मनसापि न लिप्यन्ते तेऽपि यान्त्यमरावतीम् ॥

तथैव परदारान् वै कामवृत्तं रहोगताः । मनसापि न हिंसन्ति तेऽपि यान्त्यमरावतीम् ॥

गयाश्राद्धफलवर्णनम्

शत्रु मित्रं च ये नित्यं तुल्येन मनसा नराः । भजन्ति मैत्र संगम्य तेऽपि यान्त्यमरावतीम् ॥ श्रद्धावन्तो दयावन्तः शिष्टाः शिष्टजनप्रियाः ।

धर्माधर्मविदो नित्यं तेऽपि यान्त्यमरावतीम् ॥

[[१०५]]

मातृवत्परदारांश्च परद्रव्याणि लोष्टवत्। यः पश्यत्यात्मवज्जन्तुं न प्रेतो जायते नरः ॥ अन्नदानरतो नित्यं विशेषेण तिलप्रदः । स्वाध्यायत्रतशीलो वा न प्रेतो जायते नरः ॥ सदा यज्ञपरः शान्तः सदा तीर्थपरायणः । वापीकूपतटाकानामाश्रमाणा विशेषतः ॥

आरोपकः पुराणां च देवतार्चापरायणः ।

नित्यं शृणोति शास्त्राणि नित्यं सेवेत्तु पण्डितान् ।

वृद्धांस्तु पृच्छते नित्यं न प्रेतो जायते नरः । दर्भारोपणपूर्वेण दशप्रामहिताय वै ॥ भूमिं संवर्धयन्नित्यं नदीकुल्या प्रपूरणात् । तास्त्वत्यन्तदूरेषु प्रापयन्वै दिने दिने ॥ तत्पूरदूरीकरणहेतवे जामितां विना । तदर्भारण्यसंवृद्धिचित्तवृत्तिपरोऽनिशम् ॥

वर्तते यो जगत्यस्मिन् तमेनं ते नरोत्तमम् । सर्वे दर्भाः सुरा भूत्वा समागत्यातिहर्षिताः ॥ पृथकपृथग्विमानानि हंसयुक्तानि सत्वराः । वयसोऽन्तेऽस्य चाहृत्य हुंकृत्य यमकिंकरान् ॥

सस्मृतिन्नि ( १ ) दमारोह मामकं मामकंत्विति ।

प्रार्थयन्तीऽतिभक्त्यैव घोषयन्तः स्वलंकृताः ॥

सुरूपाः सुमुखाः शान्ताः त्रह्मलोकं सनातनम् । प्रेतत्वं वारयित्वैव कामिते शैववैष्णवे ॥ ऐन्द्रवारुणवायव्यान् वस्त्रादित्याग्निरौद्रकान् । कामितानस्य सुभगानपुनर्भवसंज्ञितान्

गयाश्राद्धफलम्

प्रापयन्त्येव सुतरां सद्धर्मस्तादृशो महान् । तत्कर्तर्न हि तत्करं प्रेतत्वं सर्वथैव वै ॥ गत्वा गयाशिरः पुण्यं यच्छ्राद्धं कुरुते द्विजः । तस्यान्ववाये महति न प्रेतो जायते नरः आयने चोत्तरे प्राप्ते यमयां करिष्यति । तस्य वंशे तु सततं न प्रेतो जायते नरः ॥

[[१०६]]

मार्कण्डेयस्मृतिः

अग्न्यतिथिदेवतादिपूजा

त्रीनग्नीन् पञ्च चैकं वा ह्यहन्यहनि सेवते । सर्वभूतदयायुक्तो न प्रेतो जायते नरः ॥ देवतातिथिपूजासु गुरुपूजासु नित्यशः । रतो वै पितृपीतासु न प्रेतो जायते नरः ॥ तीर्थयात्रापरो नित्यं देवतातिथिपूजकः । ब्रह्मण्यश्च शरण्यश्व न याति नरकं नरः ॥ हेमन्ते वह्निदो यश्च तथा ग्रीष्मे जलप्रदः । वर्षास्वाश्रयदो यश्च न याति नरकं नरः ॥ ब्रह्मचारी सदाध्यायी शुभकर्मपरः पुमान् । धर्माख्यानपरो नित्यं न याति नरकं पुनः ॥

कपिलादानादिप्रशंसा

कपिलानां च यो दाता वृषभस्य तथैव च । अन्नदाता च नियतं गंगास्नानरतश्च यः ॥ अग्निहोत्रे च निरतो न स दुर्गतिमाप्नुयात् ॥

विष्णुपूजा

अर्चयन्ति हरं नित्यं विष्णुं जिष्णुं सनातनम् ।

प्राप्नुवन्ति महत्स्थानं पुण्ये श्वेतपुरे शुभम् ॥

सर्वे चतुर्भुजास्तत्र सर्वे गरुडवाहनाः । सर्वे चक्रायुधाश्चैव सर्वे विष्णुपराक्रमाः ॥

शिवपूजा

स्थापयन्ति च ये लिङ्ग नष्टं वा साधयन्ति ये ।

अचयन्ति सदा रुद्र माल्यलेपनार्जनैः (गन्धानुलेपनैः ) ॥

मुध्यन्ति वृषभान् ये तु ते गत्वा शिवमन्दिरम् ।

तत्र सर्वे शिवभुजाः सर्वे ते शूलपाणयः ॥

यान्ति सर्वे वृषैश्चैव सर्वे रुद्रपराक्रमाः । शंभु स्वयंभू देवेशं त्र्यक्षं त्रिदशवन्दितम् ॥ येऽर्चयन्ति सदा शुद्धा न ते दुर्गतिमाप्नुयुः ॥

प्रायश्चित्तप्रतिनिधिवर्णनम्

सूर्यपूजा

तेजोराशि भानुमन्तं भास्करं लोकचक्षुषम् । येऽर्चयन्ति महात्मानः सूर्यलोकं व्रजन्ति ते ॥

जटाधरा भस्मधराः विष्णुनामधराः पराः ।

विष्णुगाथारता नित्यं न ते दुर्गतिमाप्नुयुः ॥

[[१०७]]

गायत्री मात्र संतुष्टाः सन्ध्योपासनतत्पराः । स्वाचारेण च संयुक्ताः न ते दुर्गतिमाप्नुयुः ॥ मन्त्रतन्त्र क्रियाधर्म न नशौचविवर्जिताः । द्विमुख्युदकतत्कर्ममात्राभिनयमात्रतः ॥ सर्वभ्रष्टाश्व विकलाः तदन्त्ये वसतो यथा । कृतार्थाः कृतकृत्याश्च तावन्मात्रेण केवलम् ॥

आभासकर्मणोऽत्यन्तं भवेयुर्नात्र संशयः ॥

प्रायश्चित्तप्रतिनिधिः

प्रायश्चित्ते तु संप्राप्ते साक्षात्कृच्छ्राणि कैरपि । नानुष्ठाय च शक्यन्ते तेषां प्रतिनिधित्वतः ॥ गोगोमूल्यादिभिस्तानि तस्मात्कार्याणि चाखिलैः । सेतुगंगास्नानमुखैः दरिद्रस्तानि चाचरेत् । अपि तानि कदाचित्तु स्नानान्यपि विधानतः ॥ द्रव्येण विप्रमुखतः कर्तव्यानि भवन्त्यपि । द्रव्यदानेन सर्वाणि प्राप्यन्ते निखिलाः क्रियाः ॥ तस्माद्रव्यं सर्वकार्यमात्रे ह्यावश्यकं परम् । तस्मिन् सत्येव सततं सिध्यन्त्यखिलसत्क्रियाः ॥ महादानादिकाश्चापि यैः कृतैर्वृषलादिकाः ।

प्राप्नुवन्त्यपि विप्रत्वं तानि चाद्य प्रवच्मि वः ॥

[[१०८]]

मार्कण्डेयस्मृतिः

दानभेदाः

क्रमेणैव प्रशृणुत प्रसङ्गात्पावकान्वति । आद्यं तु सर्वदानानां तुलापुरुषसंज्ञकम् ॥ हिरण्यगर्भदानाच्च ब्रह्माण्डं तदनन्तरम् । कल्पपादपदानं च गोसहस्रं तु पश्चमम् ॥ हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव च । हिरण्याश्व (स्तत) स्तद्वद्ध महस्तिरथस्तथा ॥ पञ्चलाङ्गलकं स्वर्ण धारा दानं तथैव च । द्वादशं विश्वचक्रं च ततः कल्पलतात्मकः ॥ सप्तसागर दानं च रत्न धेनुस्तथैव च । तथा महाभूतखण्डः षोडशः परिकीर्तितः ॥ सर्वाण्येतानि कृतवान् पुरा शंबरसूदनः । वासुदेवश्च भगवानम्बरीषश्च पार्थिवः ॥ कार्तवीर्यार्जुनो रामः प्रह्लादः पृथुरेव च । चक्रुरन्ये महीपालाः केचिश्च भरतादयः ॥ यस्माद्विष्णुसहस्रेण महादानानि सवदा । रक्षन्ति देवतास्सर्वा एकैकमपि भूतले ॥ एषामन्यतमं लभ्यं वासुदेवप्रसादतः । न कर्तुमन्यथा शक्यं अपि शक्रेण भूतले ॥ तस्मादाराध्य गोविन्दं उमापति विनायकौ ॥

दानकालाः

महादानमिदं कुर्याद्विमैश्चैवानुमोदितः । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥ युगादिषूपरागेषु तथा मन्वतरादिषु । संक्रान्तौ वैधृतिदिने चतुर्दश्यष्टमीषु च ॥ सितपञ्चदशीपर्वद्वादशीष्वष्टकासु च । यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ॥ द्रव्यब्राह्मणलाभे वा श्राद्धा (द्धो?) वा यत्र जायते । तीर्थे वायने गोष्ठे कूपारामसरित्सु च ॥ गृहे वा भवने वापि तटाके रुचिरे तथा । महादानं प्रशंसन्ति प्राप्ते वा पितृसंक्षये ॥

तुलादानभेदाः

तुलापुरुषदानस्य प्रसङ्गेन विशेषतः । प्रवक्ष्यामि रहस्यानि तुलादानानि कानिचित् ॥ अनेनैव विधानेन केचिद्भूप्यमयं पुनः । कर्पूरेण तथेच्छन्ति केचिद्ब्रह्मविदः शिवाः ॥ तुलापुरुषदानं तन्महादेवोदितं परम् । अष्टलोहैस्तु कार्य स्यात्तत्तद्रोगोपशान्तये ॥

कांस्यं यक्ष्मणि देयं स्यात् त्रपु चार्थे प्रचोदितम् ।

अपस्मारे तु सासं (?) स्यात् ताम्रं कुष्ठेति वारुणे ॥

महादानानावर्णनम्

[[१०६]]

पैतलं रक्तपित्त’ तु रूप्यं प्रदरमेहयोः । सुवणं सर्वरोगेषु प्रदद्यान्मृत्युनाशनम् ॥ फलोद्भवं तथा देयं प्रहण्यां दीर्घसंभवे । गौडं भास्म दावं च पौरं तद्गण्डमूलके ॥ लाङ्गलं त्वग्निमान्य च रोगोत्पत्तौ तु पौष्टिकम् । मधूद्भवं तथा देयं कासश्वासजलोदरे घृतोद्भवं तथा देयं छर्दिरोगोपशान्तये । क्षीरं पित्तविनाशाय दाधिकं भगदारुणे ॥ दारुणं लेपनाशाय पैष्टं धृतिविनाशने । अन्नं सर्वरोगस्य नाशने तु प्रशस्यते ॥ घृतादिद्रव्यदाने तु तुलादिषु विधिस्त्वयम् । प्रथमा तु घृतस्योक्ता तेजोवृद्धिकरी तुला ॥ पाक्षिकेण च सौभाग्यं तैलेन बहुलाः प्रजाः । वस्त्रैस्तु बहुवस्त्राणि प्राप्नोति तुलया तथा ॥ लावण्यस्य तु लावण्यं अरोगित्वं गुडस्य च । असापत्त्यं शर्करया सुरूपं चन्दनेन च ॥ अवियुक्तो भवेद्भर्ता तुलया कुंकुमस्य च । न सन्तापो हृदि भवेत् क्षीरस्य तुलया सदा सर्वकामप्रदा ह्य ेताः पापहार्यः प्रकीर्तिताः । महादानानि चैतानि पुनर्भङ्ग्यन्तरेण वै ॥

निरूपितानि देवेश्यो ता (भ्यस्त ) नि वाद्य प्रवच्मिवः ॥

षोडश महादानानि

गावः सुवर्णरजते रत्नानि च सरस्वति ।

तिलाः कन्या गजाश्वाश्च शय्या वस्त्रं तथा मही ॥ धान्यं पयश्च छत्रं च प्र(गु) हं चोपस्करान्वितम् ।

एतान्येव तु चोक्तानि महादानानि षोडश ॥

षोडशैतानि यः कुर्यान्महादानानि मानवः । न तस्य पुनरावृत्तिर्विष्णुलोकात्सनातनात् ॥ (पभ्वलाङ्गलदानस्य प्रसंगात्कथयाम्यहम् । हलपक्तिरिति ख्यातं महादानमनुत्तमम् ॥ दानमेतत्पुरा चीणं दिलीपेन ययातिना । शिबिना निमिना चैव भरतेन च धीमता ॥ ते यथा दिवि मोदन्ते दानस्यास्य प्रदानतः । धरादानप्रसङ्ग ेन दानान्युक्तानि कानिचित् जम्बूद्वीपायं सप्त द्विपाह्वयमतः परम् । पृथिवीपद्मदानं च सर्वपापविनाशनम् ॥ पाण्डुरोगहरं प्रोक्तं पृथ्वीपद्ममथापरम् । क्रमात्तुलादिदानानि रहस्यानि यथामति ॥ कथितानि मया सम्यगुद्देशस्य विधानतः ॥

[[११०]]

मार्कण्डेयस्मृतिः

मेरुदानभेदाः

मेरोः प्रदानं दशधा कथितं मुनिसत्तमैः । यत्प्रदाता नरो लोकानाप्नोति सुरपूजितान् ॥ पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च । न तत्फलमधीतेषु कृतेष्विह यदश्नुते ॥ प्रथमो धान्यशैलः स्याद्वितीयो लवणाचलः । गुड़ाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः ॥ पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः । सप्तमो धृतशैलः स्याद्रत्नशैलस्तथाष्टमः ॥ राजतो नवगस्तद्वद् दशमः शर्कराचलः । अयने विषुवे चैव व्यतीपाते दिनक्षये ॥ शुक्लपक्षे द्वितीयायां उपरागे शशिक्षये । विवाहोत्सवयशेषु द्वादश्यामथवा पुनः ॥

शुक्लायां पञ्चदश्यां वा जन्मर्क्षे वा विशेषतः ।

तीर्थे वायतने वापि गोष्ठे वा भवनाङ्गणे ॥ धान्यशैलादयो देयाः दश चैव विधानतः ॥

द्वादशमेरवः

अथ द्वादश मेरुणां दानानि कथयामि वै । आद्यो रत्नमयो मेरुः हेममेरुरनन्तरः ॥ रूप्यमेरुस्तीयः स्यात् भूमेरुत्तु तुरीयकः ।

पञ्चमो हस्तिमेरुः स्यात् षष्ठश्चाश्ममयो गिरिः ॥

गोमेरुः सप्तमः प्रोक्तः वस्त्रमेरुस्थाष्टमः । नवमो घृतमेरुः स्याद्दशमः खण्डनिर्मितः ॥ एकादशो धान्यमेरुः द्वादशस्तिलनिर्मितः । द्वादशैते शिवप्रीत्यै मेरवः परिकीर्तिताः ॥

कुलपर्वतदाना (नामा) नि

सप्तानां कुलजातानां वक्ष्ये नामान्यनुक्रमात् । देयो हेममयो मेरुः कैलासों राजतोद्भवः कार्यासेन तु हेमाद्रि गुडजो गन्धमादनः । सुचेलस्तु तिलैर्देयः विन्ध्यः शर्करमा कृतः लवणेन तथा शृङ्गी यथोक्तविधिना ततः । चतुर्दशानां मेरूणां दानान्यद्यानुकीर्तये ॥ यानि दत्वा तु पुरुषो न भूमौ जायते पुनः ॥

शिखरदानवर्णनम्

देयद्रव्यप्रमाणम्

[[१११]]

फलत्रयेण सौवर्णो विंशत्याराजतः पलैः । ताम्रः पञ्चशतैः प्रोक्तः पलानां कांस्यकस्तथा लौहस्तु भारमात्रेण सैसकश्च तथास्मृतः । लावणोऽप्येवमेव स्याद्व्रीहिमेरुस्तथा भवेत् ॥ भारद्वयेन काण्डस्तु गौडः स्यात्पञ्च भारतः । कौस्तूरिकः पञ्चपलः कार्पूरः पञ्चविंशकः ॥ ककुमः स्याच्छतपलः कार्पासोविंशभारकः । एवं द्रव्यविशेषैस्तु मेरुः कार्यो विपश्चिता ॥

मेरुमेवंविधं कृत्वा दत्वा विप्राय भक्तितः । वसतिः स्वर्गलोके तु यावदिन्द्राश्चतुर्दश ॥

पञ्चपर्वतदानानि

पञ्चानामपि शैवा (ला) नां पूर्व नामानि कीर्तये ।

यानि दत्वा तु दौर्भाग्यं दौर्गत्यं नाप्नुयात्कचित् ॥

तिलपर्वतदानं तत्तथा लवणपर्वतम् । कार्पासगुडयोः शैलो तथा सर्पपपर्वतः ॥ आषाढे कार्तिके मासे माघे वैशाखयोरपि ।

पौर्णमास्यां तु दातव्याः मनुजैः पर्वतास्त्वमी ।

शिखरदानानि

अतः परं प्रवक्ष्यामि शिखराणि त्रयोदश । येषां प्रदानतो मत्यों जायते पृथिवीपतिः ॥ गुडेक्षुवखलवणधान्यकार्पासकः क्रमात् । शिखाखर्जूरवितुषधान्यद्राक्षाभिरेव च ॥ क्षौद्रैर्मराजेनापि पलैः शृङ्गाणि कल्पयेत् । एषामन्यतमं वापि दद्याच्छ्रद्धासमन्वितः ॥ आत्मप्रमाणं कुर्वीत प्रादेयाभ्यधिकं शुभम् । विधिवच्छिखरं दत्वा गौरीलोकं वसेन्नरः अथ दत्वा विशेषेण प्रतिदानानि कानिचित् ।

येन दत्वा नरः पापैः मुच्यते नात्र संशयः ॥

[[११२]]

मार्कण्डेयस्मृतिः

अतिदान धेनुदानानि

त्रीण्याहुरतिदानानि धेनुः पृथ्वी सरस्वतीः । नरकादुद्धरन्त्येताः जपजापनदोहनैः ॥ यास्तु पापविनाशिन्यः कथ्यन्ते दश धेनवः ।

तासां स्वरूपं वक्ष्यामि नामानि च विशेषतः ॥

दशधेनुदानानि

कुम्भाः स्युद्र व्यगन्धानां इतरासां तु राशयः ।

प्रथमा गुडधेनुः स्याद्वितीया मधुसंज्ञिका ॥

तमी शर्करा धेनुः दधिधेनुस्तथाष्टमी । रसधेनुस्तु नवमी दशमी स्यात्स्वरूपतः ॥ अयने विषुवे पुण्ये व्यतीपातेऽथ वैधृतौ । गुडधेन्वादयो देया उपरागादिपर्वसु ॥ सप्तमी लाण धेनुः स्यादष्टमीदाधिका मता । नवमीतेन नवमी गन्धतैलेन चापरा ॥ गन्धैव दशमां धेनुं रत्नैर्वा परिकल्पयेत् । एवं केचिन्महाभागाः वदन्ति परमर्षयः ॥ सुवर्णधेनुमप्यत्र केचिदिच्छन्ति मानवाः । तिलवेनुप्रसंगेन सर्वपापहराः शुभाः ॥ सप्तत्रीहिधेनवः

सतत्रीहिमयासत धेनवः परिकीर्तिताः । व्रीहिभिश्च यवैश्चैव गोधूमैश्च तिलैस्तथा ॥ मामुद्गैश्च कर्तव्याः सप्तमी च प्रियङ्गुभिः । एतासामेव दानानां विधानं तिलधेनुवत् ॥ सप्तत्रीहिमयाप्त गा ददातीह मानवः । स याति परमं स्थानं वायुभूतः खमूर्तिमान् ॥ उपधेनुदानानि

अथोपधेनुदानानि वक्ष्ये पुंस्यान्यनुक्रमात् । यासां वै दानमात्रेण सर्वदानफलं लभेत् ॥ तास्वादौ लावणी धेनुः परा कापासकी मता । तथा फलमयी धेनुः स्तत्तत्कर्पूर निर्मिता ॥ कस्तूरिका स्मृता तद्वद्धेनुर्दिव्या त्वनन्तरा । केचिदत्र महाभागाः विधानान्तरमूचिरे । मेहनी स्वर्णधेनुर्वै ह्यर्शोघ्नः स्वर्णशृङ्गिणी । तथैव वन्ध्यात्वहरास्वर्णधेनुः परा स्मृता ॥ प्रस्विन्नपाणित्वहरस्वर्णधेनुस्तथा स्मृता । सुवर्णशृङ्गिणी चापि तत्परं परिकीर्तिता ॥ तद्वत्कनकशृङ्गाख्या धेनुर्देया सुलक्षणा । एतासामुपधेनूनां कथितो दानसंग्रहः ॥

[[1]]

गोवृषभादिदानफलानि

दानफलानि

फलं त्रवीमि सर्वासामिह धेनोः परत्र च ।

कृष्णां गां ददते ये तु ते (न) पश्यन्ति यमं विभुम् ॥ श्वेतां वै ददते धेनुं स पुमान् दिवि मोदते । नीलवर्णा तु गां दद्यात् पितृन् प्रीणयते सदा ॥ श्वेतवर्णां तु गां दत्वा वंशवृद्धिमवाप्नुयात् ।

श्यामां पीतां तथा दत्वा दुःखनाशं प्रपद्यते ॥

[[११३]]

कपिला सर्वपापनी नानावर्णा च मोहदा । समानवत्सां कपिलां दत्वा स्वर्गे महीयते रोहिणीं तुल्यवत्सां तु सूर्यलोके महीयते । समानवत्सां श्वेतां चेदिन्द्रलोके महीयते ॥

तुल्यवत्सां तु शबलां विष्णुलोके महीयते ।

इन्द्रलोकमवाप्नोति दत्वा कृष्णां तथाविधाम् ॥

वातरेणुवर्णा तु तुल्यवत्सां प्रदाय च । वायुलोकमवाप्नोति नात्र कार्या विचारणा ॥ दत्वा धूम्रां तथाभूतां यमलोके महीयते । अघ्नां (हन्यां) हेमसवर्णा तु तुल्यवत्सां प्रदाय च वारुणं लोकमाप्नोति पूज्यमानो सरोगणैः । धेनु’ प्रदाय शृङ्गाक्षी साध्यलोके महीयते ॥ दत्वा पलाशवर्णा गां पितृलोके महीयते । प्रदाय शितिकण्ठीं गां स्थानंश्रेष्ठं प्रपद्यते ॥ एतासामपि धेनूनां प्रदाता समवाप्नुयात् । विमानेनार्कवर्णेन दिवं देव इवापरः ॥

तं चारुवेपाः शुश्रोण्यः शतशोऽथ सहस्रशः ।

दमयन्ती विमानस्थं गोप्रदानरतं नरम् ॥

अथ नानाप्रकारोक्तगोदानानि ब्रवीमि वै । समानवत्सगोदानं सर्वपापहरं शुभम् ॥ कपिलायाः प्रदानं तु सर्वपापहरं शुभम् । सर्वार्थदायकं श्रीकं सप्तजन्माघनाशनम् ॥

तु वृषभैकादशीदानं गोशतं च वृषोत्तरम् । तथा वृषोत्तरशतगोदानं देवसात्कृतम् ॥ त्रिरात्रगोप्रदानं च महापातकनाशनम् । गृहणीहर गोदानमसग्धरहरं (?) परम् ॥

दानं वैतरणीधेनोः यमलोकसुखावहम् । वृषैकगोसहस्रस्य दानं सर्वाघनाशनम् ॥

[[८११४]]

मार्कण्डेयस्मृतिः

ततोभयमुखीदानं सर्वदानफलप्रदम् । द्विमुखी कपिलादानं विष्णुसायुज्यकारकम् ॥ तथा चैवोभयमुखीदानं सर्वाघनाशनम् । वृपदानं ततः प्रोक्तं सर्वसौख्यविवर्धनम् ॥ बलीवर्दप्रदानं च गोविन्दप्रीतिकारकम् । तथानुडुत्प्रदानाख्यं चक्राद्यङ्कवृषार्पणम् ॥ द्रव्यैवृषप्रदानं च दानं स्वर्णवृषस्य च । तथा होमवृपाख्यं च सर्वदानफलप्रदम् ॥ दानं रूप्यवृषस्यापि पितृप्रीतिविधायकम् । तथैव कुष्ठरोगघ्न रौप्यर्षभसमर्पणम् ॥ एवमेतानि दानानि प्रशस्तफलवन्ति च । कीर्तितानि मया सम्यक् संग्रहेण यथामति ॥

अतः परं धराभिख्यमतिदानं महोन्नतम् ।

यः प्रयच्छति विप्राय पृथिवीं सस्यशालिनीम् ॥

षष्टिवर्षसहस्राणि स स्वर्गे निवसेन्नरः । अतिदानेषु सर्वेषु पृथिवीदानमुत्तमम् ॥

अचला पक्ष्याभूश्चेद्दोग्ध्री कामाननुत्तमान् ।

दोग्ध्री वासांसि रत्नानि पशुत्रीहियवान् सदा ॥

भूमिदः पुण्यलोकेषु शाश्वतीर्मोदते समाः । यावद्भूमेरायुरिति तावद्भूमिद एधते ॥ अपि पापसमाचारं ब्रह्मघ्नं वा तथानृतम् । पुनाति दत्ता पृथिवी दातारमपि शुश्रुमः ॥ अग्निष्टोमप्रभृतिभिरिष्ट्वा क्रतुभिरूर्जितैः । न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥ यथा जनित्री क्षीरेण पुत्रं पुष्णाति सर्वदा । अनुगृह्णाति दातारं तथा सर्वरसैर्मही ॥ प्रासादा यत्र सौवर्णवसोर्धाराश्च कामदाः । गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति भूमिदाः यथा चन्द्रमसो वृद्धिरहन्यहनि जायते । भूमिदानफलं तद्वत्सवसस्यैर्विवर्धते ॥

सागराः सरितः शैलास्तीर्थानि विविधानि च ।

सर्वाणि भूमिदानस्य कलां नार्हन्ति षोडशीम् ॥ यो ददाति महीं सम्यक् सोऽश्नुते परमां गतिम् । हस्तमात्रां भुवं दत्वा स्वर्गलोके महीयते ॥ गोचर्ममात्रां क्ष्मां दत्वा वसूनां लोकमाप्नुयात् ।

उद्यानभूमिं दत्वा तु गन्धर्वैः सह मोदते ॥

रत्नाकरभुवं दत्वा शक्रलोकं प्रपद्यते । धान्याकरां भुवं दत्वा नाकपृष्ठे महीयते ॥

भूमिदान प्रशंसावर्णनम्

[[११५]]

अञ्जनाकरभूदानादश्विलोके महीयते । लवणाकरभूदानात्सोमलोके महीयते ॥ औषधाकरभूदानात्पितृलोके महीयते । शिखिसस्यप्ररोहां तु भुवं दत्वा नरोत्तमः ॥ साध्यलोकमवाप्नोति नात्र कार्या विचारणा । नानाधान्याकरभुवं दत्वा रौद्र े महीयते केदारभूमिदानेन ब्रह्मलोकं समश्नुते । इक्षुभूमिं नरो दत्वा सोमलोके महीयते ॥ गुल्मपुष्पलताकीर्णा’ यो भूमिं संप्रयच्छति । विमाने नन्दने सोऽयं क्रीडतेऽप्सरसां गणैः भूमि संपाद्य यः कुर्याद्द वब्राह्मणसात्कृताम् । स्वर्गलोकमवाप्नोति पश्चादभूपपरो भवेत् पक्कस्यां भुवं दत्वा ब्रह्मलोकमवाप्नुयात् । निवर्तनसहस्राढ्यां भुवं दत्वा नरोत्तमः ॥ भूमिमासाद्य कर्मान्ते चक्रवर्ती भवेद्धि सः । गोचर्ममात्रामचलां दत्वा शिवपुरं जेत् ॥ भूमिं सर्वगुणोपेतां दत्वा पापात्प्रमुच्यते । क्षेत्रमात्रां भुवं दत्वा महापापैः प्रमुच्यते ॥ दमामेकपुरुषाहारपर्याप्त संप्रदाय वै । दशकल्पान्निवसति स्वर्गे विगतपातकः ॥ क्ष्मां दत्वा गृहपर्याप्तां यमलोकं न पश्यति ।

प्रादेशमात्रां क्ष्मां दत्वा मोदते नन्दने वने ॥

ग्रामं वा नगरं वापि निवर्तनशतं तु वा । यः प्रयच्छति विप्राय स सुरैः परिपूज्यते ॥ देवताभ्यो महीं दत्वा तत्तल्लोके महीयते । ग्रामं खेटं पुरं क्षेत्रं देवताभ्यः प्रयच्छति ॥

देयभूमिप्रशंसा

सप्तजन्मसु धर्मात्मा स भूमेरधिपो भवेत् । शिवाय विष्णवे भूमिं सूर्याय च विशेषतः दत्वा त्रिसप्तकुलजैः पितृभिः सह मोदते । ग्रामदानाच्चक्रवर्ती पुरदानात्तथामरः ॥ खेटदानाच्च भूभर्ता भवेदत्र न संशयः । भुवः प्रमाणं ज्ञानाय सुस्पष्टं वक्ष्यतेऽधुना ॥ दशहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् । गवां शतवृषश्चैको यत्र तिष्ठेदयन्त्रितः ॥ तद्धि गोचर्ममात्रं तु प्राहुर्वेदविदो जनाः । गृहमात्रां भुवं प्राहुर्द्वात्रिंशत्पदसंमिताम् ॥ यदुत्पन्नामथाश्नाति नरः संवत्सरं समम् । एतदाहारमात्राख्यं भुवो मानं प्रचक्षते ॥ सोत्सेधवप्रप्राकारं सर्वतः खातमावृतम् । योजनार्घार्धविष्कम्भं अष्टभागायतं पुरम् ॥ तदर्धे तु तदा खेटं तदर्थश्चापि खर्पटम् । तथा शूद्रजनप्रायाः सुसमृद्धकृषीवलाः ॥

[[११६]]

मार्कण्डेयस्मृतिः

क्षिप्रोपभोगभूमध्ये वसतिर्ग्रामसंज्ञिता । एवं भूमानमाख्यातं शास्त्रविद्भिः पुरातनैः ॥

दत्तभूपरिपालनप्रशंसा

स्वदत्ताद्विगुणं पुण्यं परदत्तानुपालनम्। परदत्तापहारेण स्वदत्तं निष्फलं भवेत् ॥ स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । पष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ राज्याधिकारनिरतः वेतनेन नृपेण वै । परिक्लृप्तः स्वकृत्येषु स्वाधिकारे समुद्यते ॥ द्विजभूवृत्तिविषये वाक्सहायेन केवलम् । अश्वमेधफलं सद्यो लभते नात्र संशयः ॥ गोब्राह्मणहितार्थाय तद्वृत्तिषु विशेषतः । अनृतोत्त्याऽपि लभते राजसूयफलादिकम् ॥ तद्वृत्तिविषये नूनमपकारं स्वचेतसा । चिन्तयन् सद्य एवायं कुलकोटिसमन्वितः ॥ इक्षुयन्त्रे कालसूत्रे रौरवे कण्टकालये । पच्यते हन्त तावत्तु यावदाभूतसंप्लवम् ॥ विद्यादानप्रशंसा

विद्यादानं महीदानं कन्यादानमिदं त्रयम् । सर्वदानोत्तमं ज्ञेयं तद्धि चोभयतारकम् ॥ दानानामुत्तमं दानं विद्यादानं विदुर्बुधाः । विद्या कामदुधा धेनुः विद्या चक्षुरनुत्तमम् ॥ विद्यावान् सर्वकामानां भाजनं पुरुषो भवेत् । सहस्रधेनुदानानां शतं चानुडुहां समम् ॥ शतानुडुत्समं यानं दशयानसमो हि यः । दशवाजिसमो नागो दशनागसमा धरा ॥ धरादानसमं नास्ति विद्यादानं ततोऽधिकम् । तस्माद्विद्याप्रदो लोके सर्वदः प्रोच्यते बुधैः

कन्यादानम्

तस्मात्सहस्रगुणितः कन्यादाता महान् परः । कन्यादानं ततो लोके सर्वदानोत्तमोत्तमम् तेनैव दानेन भुवि प्रवृत्तिर्निखिला स्मृता । वर्णित्ववारकं तत्तु गार्हस्थस्यापि संपदाम् ॥ कारकं सर्वकल्याणहेतुकं भावुकं महत् । प्रजानां जनकं सर्ववेदशास्त्रसवश्रियाम् ॥ ताः प्रजाः किल सर्वत्र शरणं शर्मकारकाः । तस्मात्तद्दानतुलितं नान्यद्दानं भुवि स्मृतम् ॥ सर्वदानफलं वक्तुं शक्यते किल केवलम् । न तु कन्यादानफलं वक्तुं युगशतेन वा ॥

ब्रह्मणा विष्णुना वापि पावेक्षेणापि ? ( महेशेनापि ) वा तथा ।

शक्यते तत्कथं वक्तुमियत्तारहितं यतः ॥

कन्यादानफलवर्णनम्

[[११७]]

पूर्वेषामपरेषां च दशानां वंशजन्मनाम् । पितॄणामतिपापानामपि नारकिणां स्वतः ॥ एकविंशतिसंख्यानां नरकोत्तारणेन वै । दानोत्तरक्षणेनैव ब्रह्मलोकाप्तिरीरिता ॥ तावदत्र न संदेहो विद्वत्पामरयोरति । सर्वलोकैकविदिता प्रसिद्धिर्महती परा ॥

किं चात्र कन्यकादाने महादानानि यानि वा ।

निरूपितान्यद्य मया तानि सर्वाण्यभीक्ष्णशः ॥

अवशादेव लभ्यन्ते ब्राह्मणानां विशेषतः । ब्राह्मादिषु विवाहेषु तत्प्रसङ्गान्निरूप्यते ॥ यस्मै कस्मैचिद्विप्राय व्रतिने कन्यकामिमाम् । सत्कृत्य संप्रदास्यामीति चिन्तामात्रतस्तथा ॥

तुलापुरुषदानाख्यफलं यत्तन्महत्परम् । अवशादेव लभते नात्र कार्या विचारणा ॥

स्वयं पत्न्या भ्रातृभिर्वा बन्धुभिः सखिभिः परैः । आप्तैर्विप्रैश्च गुरुभिराचार्यैः शिष्यकिंकरैः ॥ उदासीनजडैर्वापि समेतः कन्यकामिमाम् ।

अस्मै सत्कृत्य शक्त्याहं दास्यामीति कथं पुनः ॥

कुत्र केन कुतश्चेति वाकप्रचारक्षणात्तदा । हिरण्यगर्भदानाख्य कर्ताऽयं प्रभवेद्ध वम् ॥ न संदेहः प्रकर्तव्यः संदेहः स्यादयं क्षणात् । कन्यादूष्येव नितरां एवमाहापुरादिभिः ॥ एवमस्मै दीयतेति प्रोक्तिमात्रेण केवलम् । स्वीयबन्ध्विष्टगोष्ठेषु ब्रह्माण्डाख्यस्य तस्य तु ॥ नातीकस्य दानस्य फलमाप्नोत्यनुत्तमम् । परबन्धुज्ञातजनपरिज्ञानाय केवलम् ॥ दास्याम्येनां ध्रुवं तस्मै अमुष्मा अहमित्यथ ।

प्रोक्वाशु कल्पवृक्षस्य दानं यत्सुमहच्छिवम् ॥

तदेव लभते दिव्यं फलं नास्त्यत्र संशयः । कन्यादानमुहूर्तस्य निरीक्षणत एव वै ॥

गोसहस्रफलं सद्यस्तत्कर्ता लभते वशात् । तन्मुहूर्ते निश्चिते तु सुलग्ने सुदिने शिवे ॥ तिथौ वारे च नक्षत्रे होरायां तदनन्तरम् । द्राणेऽस्मिन्नवांशेऽपि द्वादशांशे ततः पुनः ॥

[[१९८]]

मार्कण्डेयस्मृतिः

त्रिंशांशात्तत्परं दिव्ये पुष्करे चेति सूरिभिः । ज्योतिपिकैनिश्चितेऽथ तद्दाताऽसौ विचक्षणः ॥

हिरण्यकामधेन्वाख्यदानस्य लभते फलम् । नान्दीपूर्वदिने यत्तु वराह्नानाख्यकर्मणः ॥ करदीपौघशतकमहामंगलशोभिनः । विचित्रनृत्तवाद्यौघवेदघोषानुरञ्जनैः ॥

पतिव्रतामहागान सुन्दरस्य विशेषतः । कृतिमात्रेण लभते हिरण्याश्वस्य यत्फलम् ॥ तदवाप्नोति विबुव तस्मिन्नेव क्षणे पुनः । वरपूजा बन्धुनूजा विप्रपूजादिसत्क्रियाः ॥ याः काश्चित्सुमहादिव्यताम्बूलादिसमर्पणैः । तासां करणमात्रेण हिरणयाश्वरथस्य वै ॥

दानस्य लभते श्रेयस्तस्मिन् काले विशेषतः ।

विप्राणां दक्षिणादानैः फलदानादिना तथा ॥

तद्वाक्यनिश्चयाच्चापि हेमहस्तिरथस्य वै । यत्फलं कथितं सद्भिस्तदवाप्नोति पुष्कलम् ॥ ततो वरस्य शरण निर्देशनसुदानतः । पञ्चलाङ्गलकस्यास्य सुमहत्फलमश्नुते ॥ ततः परेऽह्नि नान्याख्यकर्मणः करणात्परम् । महत्त्वर्गधरादानफलं नूनं स विन्दति ॥ स्नानात्परं वरस्यायं राति संभाषणादथ । यथार्थगमने काले वरसंभावनादिना ॥ तदीयाह्वानमात्रेण तत्फलादि विशेषतः । विश्वचक्राख्यदानस्य फलं विन्दति तत्क्षणात् कन्यादानं करिष्येति पत्न्या साकं विचक्षणः । ब्राह्मणानां महात्राते करणादेव तत्फलम्

दिव्यकल्पलताख्यस्य लभते कन्यकापिता ॥

वरालंकारादिफलानि

ततो वरालंकरणात् कन्यालंकरणादपि । हिरण्योदकदानैश्च सप्तसागरदानतः ॥ यदुच्यते फलं तत्तु समवाप्नोत्यनश्वरम् । मधुपर्कप्रदानेन वरस्यादौ महानयम् ॥ रत्नधेनोः परं नूनं फलं तत्प्रतिपद्यते । तदुपाध्यायबन्धूनां मधुपकक्रियादिभिः ॥ कन्याप्रदानतत्पाणिग्रहतद्धोमकर्मभिः । तन्महाभूतखण्डस्य फलं सायं समश्नुते ॥ तस्मात्कन्यादानसमं नन्यादानं हि विद्यते । तदुपर्यपि भूयश्च बन्धूनां पूजया तदा ॥ कर्पूराख्यतु लायास्तत्फलं प्राहुर्मनीषिणः । तदङ्गविप्रपूजाभिस्ताम्बूलादिप्रदापनैः ॥

कन्यापितुर्दानमुदिश्यतमामहिमहभवर्णनम्

[[११६]]

क्रियाभिर्दक्षिणादीनां अटलोहतुलाफलम् । तदङ्गविप्रबन्ध्वौघभोजनादिककर्मणः ॥ महाकांस्यतुलाजन्यं फलं श्रीमत्प्रपद्यते । तदीयदक्षिणा दानैः महत्रपुतुलाफलम् ॥ जायते किल तत्कर्तुः क्षणेनैवाल्पयत्नतः । रथोत्तम्भनकार्यादिजालके कन्यकाकृते ॥ कृते वरेण तत्कन्याप्रदातुस्तत्क्षणेन वै । सद्यः (?) सतुलायाश्च ताम्रायाः स्वर्णरौप्ययोः ॥ तुलयोस्सुमहद्भव्य मन्त्रयन्त्रादिलब्धयोः । पैत्तल्याच तुलायास्तत्पलमत्यन्तदुर्लभम् ॥ अश्नुते कन्यकातातो मन्दिरादिक्रियादिषु । प्रधान होममात्रेण कृतेन तदनन्तरम् ॥

पुत्रोपवेशनफलदापनेन च मन्त्रतः । फलं फलतुलायास्तत् आग्नेयाख्यस्य कर्मणः ॥ वरकृत्या गृहपतिस्तुलयोर्गुडभस्मनोः । तथा पूगतुलायाश्च फलं पौप्याः प्रपद्यते ॥ तथर्षिदर्शनात्पश्चादरुन्धत्याः समनात् । घृतक्षीराख्यतुलयोर्दधिपैष्टिकयोरपि ॥ तथोदनतुलायाश्च यत्फलं शास्त्रचोदितम् । तत्फलं तत्क्षणादेव लभते कन्यकापिता ॥ पश्चादोपासनाख्यस्य कर्मणः करणेन वै । तैलमाक्षिकवस्त्राणां लवणस्य तथा पुनः ॥ शार्करायाश्चन्दनस्य तुलायाः कुंकुमस्य च । गोरत्नतिलवस्त्राणां तुलानां यत्फलं पुनः ॥ तत्सव समवाप्नोति तद्गन्धर्वप्रतिष्ठया । छत्रपत्रककार्पासरजश्शाककटाद्धसाम् ॥ तुलानां फलमाप्नोति गौरीन्द्राणीप्रपूजया । वधूवराभ्यां कृतया यजमानोऽयमाशु तत् एवं तुलाप्रभेदानां सर्वेषां महतामपि । मुहूर्तानन्तरं तस्य वरस्य क्रियया तया ॥ गौरी पूजां तथा सर्वं यत्फलं वेदसंमितम् । अमोघमप्राप्यमतियत्नद्रव्य क्रियादिभिः ॥ सम्प्राप्यं परमं दिव्यं प्राप्नोत्येवाविलम्बितम् । लघुतः कन्यकादाता पुनश्च तदनन्तरम् औपासनारम्भदिनपरेऽह्नयपि तथैव वै। पराह्नानार्हणमह बन्धु (मित्र) ब्राह्मणपूजया ॥

स्वशक्त्यनुगुणश्रद्धाभक्तिभ्यां कृतया तया । पञ्चलाङ्गलदानाख्यफलं यत्तच्च केवलम् ॥

हलपक्तिश्च सुमहद्य यः कथितं तराम् ।

धाराख्यस्यास्य यद्भूयः फलमत्यन्तदुस्तरम् ॥

जम्बूद्वीप फलं चापि सप्तद्वीपफलं तथा । पृथिवीपद्मदानस्य यदत्यन्तं सुपावनम् ॥

मह यः प्रकथितं तदवाप्नोत्यसंशयम् ॥

[[१२०]]

मार्कण्डेयस्मृतिः

महदाशीर्वादादिफलानि

एवमेव तृतीयेऽथ दिवसे सुमहान्महः । महादाशीर्लाभकाख्यः सदीक्षामध्यकालके ॥ संप्राप्ताखिलवैकल्य परिहारप्रपूर्वतः । वरयोरुभयोश्चापि दीक्षा वैकल्यहेतुना ॥ समागतमहामृत्युपरिहाराय वेधसा । कल्पितः सुमहद्दीर्घायुष्यश्रीकारकः परः ॥ तत्रादौ सर्वविघ्नानां परिहाराय मन्त्रतः । संपूज्यो गणनाथः स्यात्पश्चाद् ब्रह्मासरस्वती विघ्नेशपूर्वभागे तु तन्मन्त्राभ्यां विधानतः । प्रपूज्यौ विप्रसदसि दिव्यपीताम्बरे शुभे ॥ तेषां तु परितः पूर्वा हरित्प्रभृति तत्कमात् । इन्द्रादयः प्रपूज्याः स्युस्तयोर्नक्षत्र देवते ॥ सर्वानेतान् तचन्मन्त्रैः पोडशैरुपचारकैः ।

सम्यक् समानतन्त्रेण पूजयेदिति सा श्रुतिः ॥ एवं संपूज्य विधिना सभ्यान्नत्वाखिला द्विजान् । संप्रार्थ्य वेदमन्त्रेण नमः पञ्चककेन वै ॥ पृथग्वेदमहामन्त्राशिषः कुरुत चेति तान् । प्रार्थयित्वा तत्सदसि कृत्वा पूजां पृथक् पृथक् ॥ तस्मिन् समुपविश्यैव तदुक्तान्वेदमन्त्रकान् ।

शृण्वन् शुभेन मनसा पत्न्या सह यतत्रतः ॥

स वाग्यतस्तप्यमान आस्ते तामहोन्नते । सर्वापद्वार के सर्वदुरितोन्मूलके शिवे ॥ दृष्टिमात्रेण सर्वेषामश्वमेधफलप्रदे । निष्कामनादर्शनतः अयत्नेनापवर्गदे ॥

महापातकतूलानां वातूले भव्यकारके । महाभाग्याब्धिशुभ्रांशौ पापाख्य तिमिरार्कके ॥ रोगक्ष्माभृत्कदंभोशौ (?) मृत्यु सर्पखगेश्वरे । सर्वलभ्येति सुलभे सर्वदेवसमूह के ॥

सर्ववेदनिधौ सर्वतीर्थ कोटिमहा ( फले… ? ) ।

कन्यादाता स्वयं श्रीमान् तस्मिंस्तादृशि तत्क्षणे ॥

। दशानामपि दानानां महतां तत्फलं लभेत् । कनकाश्वतिला नागाः दासीरथ महाग्रहाः कन्या च कपिला धेनुं महादानानि वै दश । एतेषां फलमाप्नोति तृतीये दिवसे किल

सुवर्णादिनानादानानां फलवर्णनम्

कन्याप्रदाता तेषां च षोडशानां पुनः क्षणात् । तादृशे चलति श्रीके तस्मिन् चलति भव्यके ॥ अवान्तरमहादानप्रभेदानां च केवलम् ।

फलानि सर्वाण्याप्नोति नात्रकार्या विचारणां ॥

[[१२१]]

तेषां क्रमेण वक्ष्यामि दानक्रममघापहम् । सुवर्णदानं प्रथमं प्रवरं कथित बुधैः ॥ षोडशदानैस्तैस्तुल्यं स्वर्णप्रदानकम् । ततः सुवणं स्वर्णस्य दानं पापहरं स्मृतम् ॥ ‘तथा सुवर्णद्वितयदानमक्ष्यदानकम् । दानं शतसुवर्णस्य फलादिप्रतिपादनम् ॥

तत्तु

त्रिकालसौवर्णदानं तदनन्तरमीरितम् । दानं नित्यसुवर्णस्य हेमाख्यप्रतिपादनम् ॥ दानं शिवसुवर्णस्य लिंगस्वर्णसमर्पणम् । शतमान सुवर्णस्य दानं हत्याहरं स्मृतम् ॥ पापरोगहरं तद्वद्दानं शतसुवर्णकम् । दानं भद्रनिधेश्चैव तथानन्दनिधेः स्मृतम् ॥ रूप्यदानं तु कल्पोक्तमश्वदानमनुत्तमम् । श्वेताश्वदानं सूर्याश्वदानं चापि निरूपितम् ॥ बडबा (वा) याः प्रदानं च तिलदानमतः परम् । तिलकृष्णाजिनस्यापि दानं तिलमृगस्य च तिलपात्रप्रदानं च महातिलसमाह्वयम् । तिलराशिप्रदानं च दानं त्रैपद्ममीरितम् ॥ तिलालिंगनदानं च पापघ्नं परिकीर्तितम् । तिलपीठं तिलादश तिलकुम्भसमर्पणम् ॥ तिलालंकारदानं च पापघ्नं परिकीर्तितम् । तथा रुद्र कादशक तिलदानमुदीरितम् ॥ तथैव तिलगर्भस्य तिलपद्मस्य कीर्तितम् । दानं तु क्षयरोगघ्नं तिलपद्मस्य चोत्तमम् ॥ शूलरोगहरं तद्वत्तिलपद्मं प्रकीर्तितम् । मूकत्वनाशकं चान्यत्तिलपद्मप्रकीर्तितम् ॥ । गजदानं च रोगघ्नं गजदानं तथापरम् । तिलपिष्टं गजस्यापि दानं तद्वत्प्रकीर्तितम् ॥ शिवाय विष्णवेsar गजस्य प्रतिपादनम् । मुखरोगहरं चान्यद्गजदानं प्रकीर्तितम् व्रणन्नगजदानं च दासीदानमनुत्तमम् । दासदानं रथस्यापि प्रदानं शकटस्य च ॥

मंत्रीदानं यानदानं शिबिकादानमेव च ।

महीदानं तथा प्रोक्त गृहदानं तथा स्मृतम् ॥

सूर्याय गृहदानं च चत्वरप्रतिपादनम् । गवां गृहप्रदानं च आश्रयप्रतिपादनम् ॥ मठमण्ट (ण्ड) पयोर्दानं दानं शिवमठस्य च । प्रतिश्रयप्रदानं च कन्यामूल्यप्रदापनम् ॥

[[१२२]]

माकण्डेयस्मृतिः

द्विजस्थापनमेवं स्याद्राजस्थापनमेव च । कपिलायाः प्रदानं च दानान्येतानि कृत्स्नशः तस्मिन्कृते तनुकृते कन्यादाने ततः पुनः । लभन्ते निखिलान्येव तृतीये दिवसे क्षणे ॥ विप्रपूजा विशेषाख्ये तत्ताम्बूलप्रदापनात् । पूर्वमेव भवेन्नूनं कन्यादातुर्न संशयः ॥ तत्फलं च तथा प्रोक्तं’ अनश्वरमभोधकम् । दानतत्क्षणजं पुण्यं यावच्चन्द्रार्कभूस्थिरम् ॥

तस्मात्तस्मिन् क्षणे भक्तथा तृतीये दिवसे शुभे ।

विवाहे चापि मौज्यां वा ब्राह्मणेभ्यो विशेषतः ॥ श्रोत्रियेभ्यो वेदविद्भ्यः सोमयाजिभ्य एव च । महद्भ्यो ह्यग्निहोत्रभ्यः सत्कुलीनेभ्य एव वा ॥

अन्तेऽशिषां (?) दक्षिणायाः प्रदानं वाससामपि ।

पुष्पाणां च सुगन्धानां मालिकानां सुगन्धिनाम् ॥

वस्तूनां पुनरन्येषां तस्मिन् काले विधीयते । अत्र साक्षाद्द ेवदेव लक्ष्मीनारायणस्य तु ॥ सान्निध्यं स्वयमेव स्याद्यतो वेदस्वरूप्ययम् । सर्वेषां मार्गदानानां फलानि च बहून्यति ॥ तद्दक्षिणादानमात्रात् लभते कन्यकापिता ।

तयासौ वरतातोऽपि तया दक्षिणया तथा ॥

विप्राणां कृतया सद्यो लभत्येवाविलम्बितम् । तत्राद्यं सुमहत्तच्च गोभूस्वर्णयुतं परम् ॥ मार्गे दुष्कृतवारनं रत्नस्वर्णसमन्वितम् । अपरं सुमहद्दानं वस्त्रभूषणसंयुतम् ॥ धान्यत्रातयुतं चान्यद् ग्रामेण नगरेण च । संयुक्त े तु तथा ज्ञेये मार्गे सर्वाविलनके ॥ तत्स्वरूपं ब्रह्मणोक्तं कृष्णसारविनिर्मितम् ।

संसिद्धये च यागानां श्राद्धानां तपसां श्रियाम् ॥

समृद्धये वृद्धये च कल्पितं हरिणा तथा । शिवेन देववृन्देश्च तदेतश्च निरूप्यते ॥ अहोरूपंसितं तस्य कृष्णं रात्रिमयं वपुः । बहुरूपं तु सुमहद्विशेयं तन्महोन्नतम् ॥

[[1]]

स्वेच्छया चरते यत्र स देशा याज्ञिकः स्मृतः ।

कृष्णसारो महापुण्यस्तथा दर्भाश्व कीर्तिताः ॥

विशेषदानवर्णनम्

[[१२३]]

तिलकृष्णाजिनस्यैतद्दानमेकं प्रकीर्तितम् । सहोमतिलसर्पिष्काजिनदानमनन्तरम् ॥ तद्वच्चम्पकशाखाख्याजिनदानमनन्तरम् । रुक्मादिपात्रसंयुक्ताजिनमन्यत्प्रकीर्तितम् ॥ सुमन्तुप्रोक्तमपरं कौशिकोक्तमथाजिनम् । पितृकृष्णाजिनं तद्वन्मार्त्यमाजिननामकम् ॥ गृष्टिकृष्णाजिनं तद्वन्महाकृष्णाजिनं तथा । आर्द्र कृष्णाजिनं प्रोक्तं मृगदानं ततः परम् ॥ वातव्याधिहरं श्रीकं महाविलहरं परम् । पुनः स्वतन्त्रमपरं मृगदानं पवित्रकम् ॥ एतद्रपमहादानविशेषा निखिलाः पराः । महोत्सवे तार्तियीकदिवसे तादृशे क्षणे ॥ भक्तयाप्रदानाद्विप्रेभ्यो लभत्येवाविलम्बितम् ।

गन्धलेपनतस्तस्मिन्विप्राणां वेदिनां सताम् ॥

महामहिषीदानफलं शतगुणान्वितम् । तत्क्षणालभते नूनं कन्यावरपितृद्वयम् ॥

तद्दानादान्तरमहादानभेदोऽपि कथ्यते ॥

महिषीदा नावान्तरदानावान्तरदानानि गर्दभप्रतिगृहीता

मेषीदानं मेषदानं महिषस्यातिगात्रिणः । अजादानं गर्दभोष्ट्रदानं पापहरं पुनः ॥ तहानं गार्दभं कस्मै प्रदेयमिति चेत्तु तत् । प्रवक्ष्यामि च यो वर्णी मोहादवकिरेज्जडः ॥ तस्यस्याद्गर्दभस्त्वेकः पश्वर्थे चित्तहेतवे । शास्त्रैकविहितः सर्वलोकैकविदितस्त्वति ॥ तन्निमित्तं क्रयक्रीतो रजकात्त न संभवेत् । गर्दभः पशुकार्यार्थे निन्द्यजातिसमुद्भवात् ॥ न चण्डालात्पशुर्ब्राह्यः रजकः सुमहान् परः ।

ग्रामचण्डालइत्युक्तः सर्वनिन्द्योऽतिकिल्विषी ॥

तस्मात्तु पशुर्मायः तत्पापविनिवृत्तये । कर्तव्ये गर्दभालम्भे पशु विप्रमुखाद्यतम् ॥ चिरात्संपादनं कुर्यात्स विप्रस्य कथं भवेत् । गर्दभोऽयं महानिन्धः सर्वलोकजुगुप्सितः ॥ इति चेत्तत्र वक्ष्यामि कारणं तन्मुखस्य चेत् । रजकश्चेत्पित्तवातसंकलीकरणादिना ॥ महानिमान्ध रोगैकपीडितो यदि केवलम् । नायं वै तन्निवृत्त्यर्थं गार्दभं दानमाचरेत् ॥ इति शास्त्रेण वेद्यो वा रजको रोगपीडितः । तद्दानमाचरेच्चेत्तु ब्राह्मणाय कदाचन ॥ तत्सकाशादमुं वीक्ष्य तादृशं गार्दभं त्वयम् । प्रसमीक्ष्येव गृह्णीयादिति वेदानुशासनम्॥१२४

मार्कण्डेयस्मृतिः

ततस्तं योजयेत्स्वस्य कार्याय पशुहेतवे । अवकीर्णीस्वकृतस्य दुष्कृतस्य निवृत्तये ॥ कथं विप्रसकाशात्तु स्वीकार्यो गार्दभः पशुः । क्रयेणेति महत्यर्थे संशये तन्निरूपणम् ॥

प्रसंगेन प्रकथितं तस्मिन् काले तु तान् शुभान् ॥

मन्त्राक्षतधारणफलम् विवाहचतुर्थदिनकर्तव्यम् देवतादानानि

मन्त्राभिमन्त्रितान् दिव्यान् तत्रत्यैर खिलैर्द्विजैः ।

मन्त्रान्तदत्तासत्यन्तपावनान् (?) शुभहेतकान् ॥

अक्षतानतिसर्वस्वदायकानतिदुर्लभान् । ये वा गृह्णन्ति शिरसा ते भावुक निकेतनाः ॥ ततश्चतुर्थदिवसदीक्षावस्त्रपरिप्लवात् । निमित्ताद्रजकाद्भूताद् यद्दानं वस्त्रभक्ष्ययोः ॥ कन्यकाभूषण कृतिसमये दीपशोभिते । वधूवराभ्यां रचितत्तद्दानैरयं तदा ॥ कन्यापिता वै प्राप्नोति देवतादानजालकम् । निखिलं तन्मुहूर्तेन नात्रकार्या विचारणा तद्ददेवतादानकल्पस्वरूपं तत्प्रयोजनम् । निखिलेनैव नितरां सम्यग् वक्ष्ये प्रसङ्गतः ॥ आदौ वैनायकं दानं गुल्मरोगघ्नमेककम् । तथापस्माररोगघ्नं अन्यद्वैनायकं पुनः ॥ प्लीहरोगहरं चान्यद्व नायकमनुत्तमम् । वाग्जाड्यत्वहरं चान्यत्सारस्वतमथापरम् ॥ मूकत्वनाशकं तद्वद्दानं सारस्वतं तथा । आन्त्रवृद्धिप्रशमनं नारायणमथापरम् ॥ प्रदानं वातरोगघ्नं लक्ष्मीनारायणस्य च । ततो गारुडदानं च कामलारोगनाशनम् ॥ गारुडं दानमपरमक्षिरोगनिवर्तकम् । अन्यद्गारुडमाख्यातं वाराहं दानमुत्तमम् ॥ देवतामूर्तिदानम्

नारसिंहं दडुरोगहरमौमामहेश्वरम् । प्रदानं क्षयरोगघ्नं रुद्रमूर्तेरनन्तरम् ॥ दक्षिणामूर्तिदानं च प्रदानं परशोः स्मृतम् । शूलदानं तु पापघ्नं शूलरोगनशूलकम् ॥ दानं भ्रमणरोगघ्नं सूर्यमूर्तेरनन्तरम् । अन्यत्कुष्ठन्नमार्तण्डप्रतिमादानमेव च ॥ अथातिसार रोगन वहिदानमनुत्तमम् । अश्वि ( श्व) दानं तु दारिद्य हरं कौवेरमीरितम्

तोरन्याधिहरं मकरप्रतिपादनम् । स्मृतं विसर्पिरोगघ्नं नागदानमनुत्तमम् ॥ ववस्तु वाग्बान्यहरं घण्टादानमनुत्तरम् । श्वासकासहरं चोक्त प्रदानं द्विजपाशयोः ॥

सम्पूर्णदानेषु कन्यादानस्य प्राशस्त्यवर्णनम्

[[१२५]]

कालपुरुषदानं च दानं प्रतिकृतेस्तथा । पाद्यपुरुपदानं च कालचक्रप्रदानकम् ॥ यमदानं त्रिपुरुपदानं तद्वत्प्रकीर्तितम् । उदकुम्भप्रदानं च चन्द्रादित्यप्रदापनम् ॥ ब्रह्मविष्ण्वीशदानं च तथायुष्करनामकम् । दानं त्रैमूर्तमाख्यातं चातुर्मूर्तमतः परम् ॥ पाभ्वमूर्तमतः प्रोक्तं दानं सर्वाघनाशनम् । दिग्दानं पञ्चदेवत्यं लोकपालाष्टकं तथा । रुद्राष्टकमितिख्यातं गृहदानमनुत्तमम् । प्रोक्तं सांपत्करं दानं सर्वदेवाभिपूजितम् ॥ पिशाचतारदानं तु दानं वैश्वानरं तथा । साध्यदानं ततो द्वादशादित्यप्रतिपादनम् ॥ दानं देवगणेशस्य निप्राभप्रतिपादनम् । महागणेशदानं च लक्ष्मीदानमनुत्तमम् ॥ तथैव च मरुद्दानं महापापप्रणाशनम् । तत्परं भुवनानां तु प्रतिष्ठा महती परा ॥ कल्पदानं पिष्ठरूपप्रदानं सुमहत्फलम् । इत्येवं देवतादानक्रमस्य सुमहत्फलम् ॥ कन्याप्रदाता लभते सुमहाभूषणोत्सवे । तद्रात्रौ सुमहाभव्यविशेषे मंगलाकरे ॥

गौरी समुद्दिश्येन्द्राणी कृतनाख्य (ट्य) मुहूर्तके ।

देवता मूर्तिदानानि तत्क्षणालभतेऽखिलम् ॥

तस्मात्कन्यादानसमं दानमन्यन्न विद्यते । तस्मिन्नेव महादाने तत्कर्ता सर्वदानजम् ॥

फलं विन्दति तत्कालविशेषेषु ततः पुनः ॥

गन्धर्वपूजासमयलब्धफलकदानानि प्रतिपदादितिथिदानानि

गन्धर्वपूजासमये यस्य यस्य फलं महत् ।

प्राप्नोति कन्यकातातस्तानि दानान्यपि क्रमात् ॥

निरूप्यन्ते प्रसङ्ग ेन यूयं शृणुत वै पुनः । तत्तत्कालविशेषेषु कर्तव्यान्येव पेशलैः ॥ नित्यकाम्यनिमित्तार्थकारणेनेशतुष्टये । तानि तानि तु दानानि श्रीमद्भिः शक्तिसंभवे ॥

कार्याणि किल तिथिषु प्रतिपन्मुखतः क्रमात् ।

प्रथमायां तु पुष्पाणि द्वितीयायां घृतं तथा ॥ तृतीयायां हरिद्रायाश्चतुर्थ्यां रजतस्य च ।

पञ्चम्यां तु पलान्येव षष्ठ्यां पानीयपात्रके ॥

[[१२६]]

मार्कण्डेयस्मृतिः

सप्तम्यामप्यपूपानामष्टम्यां तु गुडस्य च ।

कुल्माषस्य नवम्यां तु दशम्यां भोजनस्य च ॥ एकादश्यां सुवर्णस्य द्वादश्यां व (रजतस्य) नस्य च । त्रयोदश्यां चन्दनं च शर्करायास्ततः परम् ॥

दानं तत्कथितं पुण्यं चतुर्दश्यां विशेषतः । दानं च परमान्नस्य पौर्णमास्यां स्मृतं तराम् तिलदानममावास्यादिने खड्गाख्यपात्रकम् । पितॄणां प्रीतये प्रोक्त’ ब्रह्मविद्भिः पुरातनैः एतानि सर्वदानानि कन्यकापितृवेश्मनि । तदा गन्धर्वपूजायां कृतायां तेन चेदति ॥ वरेण लभते तस्याः कन्यकायाः पितामहान् ।

स्कन्दोक्तानि च दानानि तिथिष्वेतेषु कृत्स्नशः ॥ क्रमेणोक्तानि च तथा लभते नात्र संशयः ।

तानि चापि प्रवक्ष्यामि दानानि निखिलान्यपि ॥

प्रतिपद्यरविन्दाख्यं कर्तव्यत्वेन चोदितम् । सौवर्ण रजतं वापि ताम्रकं वा विधीयते ॥ वैश्वानरं द्वितीयायां तृतीयायां च पार्वतम् । वैशाखस्य तृतीयायां संप्रदद्यादुपानहौ ॥ माघशुक्लद्वितीयायां गुडदानं महोदयम् । लवणस्य प्रदानं च वारिदानं महत्फलम् ॥ वैशाखस्य तृतीयायां चन्दनस्य स्रुजां तथा ।

फलानां पानकस्यापि व्यजनानां विशेषतः ॥

छत्राणामपि रम्याणां वस्त्राणां जलतकयोः । संप्रदानं प्रशंसन्ति येन केनाप्युपायतः ॥ मोदकानां तथान्नस्य कृतस्याप्रकृतस्य च । घृतस्य करकस्यापि भक्ष्याणामपि केवलम् ॥ चित्रान्नानां विशेषेण पितॄणां प्रीतिहेतवे । माधवस्य च तत्प्रीत्यै तानि दानानि सर्वशः चतुर्थ्यां वारणं हैमं पञ्चम्यां पन्नगं तथा ।

षष्ठ्यां शक्तिसमीपे तं कुमारं शिखिवाहनम् ॥

सप्तम्यां भास्करप्रीत्यै सालंकारं तुरंगमम् । अष्टम्यां वृषभं श्वेतं देवदेवप्रियं शिवम् ॥ नवम्यां काभ्वनं सिंहं दशम्यां दशधेनुकम् ।

दिक्प्रीत्यै किल देयं तत् धेन्वादीनि क्रमेण वै ॥

तिथिक्रमेणदानफलं देवतापूजनफलश्च

एकादश्यां गरुत्मन्तं संप्रदद्याद्धिरण्मयम् । धेनुं हिरण्यां महिषीं सप्तधान्यान्यजाविकम् ॥ बडवाश्वं गुडरसान् पुष्पाणि च फलानि च ।

द्वादश्यां द्वादशैतानि दद्याद् गन्धाननुक्रमात् ॥

[[१२७]]

चैत्रादिमास शुक्ला द्वादशीषु विशेषतः । क्रमेण दद्यादेतानि वस्त्रं रुक्ममुपानहौ ॥ शयनं वसनं चैव धेनुमश्वं च कम्बलम् । लवणं चैव धान्यानि दारखं चन्दनं तथा ॥

स्नापयित्वा ब्राह्मणान् वै प्रातःकाले विधानतः ।

त्रयोदश्यां विशेषेण संख्यया च त्रयोदश ॥

माहेयं सुशुभं कुम्भं चतुर्दश्यां पयोघृतम् । चैत्रादिमासपूर्णासु कृष्णवस्त्रं तथाजिनम् ॥ उपानहौ च छत्रं च मृष्टान्नं जलगां शुभाम् । घृतपूर्ण कांस्यपात्रं सालंकारं च गोवृषम् ॥ लोहाजिनं सचन्द्र’ च हेमाज्यं शयनं तथा । एतानि देयानि किल पौर्णमासीष्वनुक्रमात् अमायां किल पात्राणि ससुवर्णानि दापयेत् । एतानि तिथिदानानि कर्तव्यत्वेन केवलम् सर्वशास्त्रप्रसिद्धानि तान्येतानि तु कृत्स्नशः । शेषहोमे कृते तेन तपने चैव केवलम् ॥ वरेण तत्क्षणादेव लभते कन्यकापिता । ततः परं पुनरपि क्रियमाणे तु तादृशे ॥

त्रयस्त्रिंशत्कोटिदेवतापूजाफलम् धेनुदानानि

त्रयस्त्रिंशत्कोटिसंख्यापूजने देवताकृते । तद्धनुतुर्यदानानां फलमाप्नोति केवलम् ॥ तत्क्रमं चापि वक्ष्यामि भवतां विशदाय वै । लोणधेनुस्तु (?) वैशाखतृतीयायां महाफला बैनुस्तिलमयी सा तु नवम्यां कार्तिकस्य वै । प्रदातव्या विशेषेण तितॄणामतितृप्तये ॥ गौः प्रदेया नभस्यस्य त्रयोदश्यां द्विजातये । राजती वा ताम्रमयी शतनिष्कैरलंकृता ॥ नवनीतमयी धेनुर्माघमासे तथाविधे । पौर्णमास्यां विशेषेण तान्येतानि महान्त्यति ॥ दानानि लभते तानि तत्पिता तत्क्षणेन वै । तत्प्रदक्षिणमात्रेण पुरन्ध्रीभिः सदीपतः ॥

गौर्याः शच्याश्च विधिना गजयोरपि तत्परम् ॥

[[१२८]]

मार्कण्डेयस्मृतिः

वधूवरयोर्वस्त्र प्रदानफलम्

लभते वारदानानां फलं कृत्स्नं च तत्पिता । वारदानक्रमं चात्र विशदाय निरूप्यते ॥ दद्यादादित्यमूर्ति तां भानुवारे हिरण्मयीम् । रत्नैरलंकृतां दिव्यां आसत्येनेति मन्त्रतः संपूज्य परमान्नं तत्कृत्वा नैवेद्यमञ्जसा । दक्षिणाशतनिष्कं स्यादेवमेव ततः परम् ॥ क्रमेण कुर्याद्दानानि सोमं सोमे कुजं कुजे । एवं बुधादिवारे तु दानकुर्याद्यथाविधि ॥ एवं बुधादीन् स्कान्दे तु राहुकेतुशनैश्चरान् । दद्यात्तत्तद्ग्रहप्रीत्यै तत्तद्द्वारेषु भक्तितः ॥ सहिरण्यमपूपं तु सघृतं भानुवासरे । पिष्टापूपंसोमदिने काष्ठानि कुजवासरे ॥

बुधे क्रीडनकं शस्तं जीवे वस्त्रं तु शोभनम् । शुक्रे रतिं तु सर्वत्र तैलाभ्यङ्गः शनैश्वरे ॥ दत्तेष्वेतेषु दानेषु प्रतुष्यन्ति ग्रहास्सदा । तानीमानि च दानानि वारप्रोक्तानि यानि वैं तानि सर्वाण्यवाप्नोति वरयोर्वस्त्रदानतः । तदा तु तादृशे काले क्षणमात्रेण तत्पिता ॥ वारसप्तक कर्तव्यत्वेन द्रव्याधिकादपि । एकोनपञ्चाशद्दिनलभ्यानि किल तानि हि ॥ तत्कथं चेति चेदत्र तत्क्रमस्त्वेवमेव हि । आदौ प्रथमतः वारसप्तकादौ खेर्दिने ॥

भानुमूर्तिः प्रदेया हि पुनरेवं ततः परम् । द्वितीयवारपुजे तु सोममूर्तेर्विधानतः ॥ प्रदानकालो भवति तातयीके ततः परम् । तद्द्वारसप्तके धात्री सूनोर्दानं तृतीयके ॥ भौमवारे हि भवति तुर्य के सप्तके ततः । बुधदानं स्मृतं श्रीमत्सर्वसंपत्प्रदायकम् ॥ एवं सर्वत्र विज्ञेयं तत्क्रमस्य तु लक्षणम् । सर्वेषामपि दानानां सप्तानां कृत्यहेतवे ॥ संकल्य्यादौ विधानेन ततः कुर्यात्तु तानि हि । क्रियमाणेषु तेष्वेवं तत्क्रमेणैव केवलम् ॥ भवेयुरेव प्रायेण प्रत्यूहा बहुरूपतः । तस्मात्तत्कर्मसिद्धिर्नो तलघूपायतो भवेत् ॥

अतस्तेषां तु दानानां तादृक्संख्यादिनानि तु ।

सापेक्षाणि हि तान्येवं दानानि खलु देहिनाम् ॥

गुरुयत्नैकसाध्यानि तादृशान्यत्र भावुके । क्षणेनालंकारवस्त्रदानमात्रेण केवलम् ॥ प्राप्नोत्यवशतश्चित्रं तत्परं चापि केवलम् । सर्वनक्षत्रदानानां फलं यबन्धुवृन्दके ॥

नानावस्त्रादिदानप्रकरणम्

बन्धुभ्यो वस्त्रदानप्रकरणम् नक्षत्रदानानि

[[१२६]]

पूजाप्रपूववस्त्राणां दानमात्रेण वै लभेत् । तच दानक्रमं सव नैपुण्येन निरूप्यते ॥

कृत्तिकासु ससर्पिष्कं प्रदेयं पायसं शुभम् ।

रोहिण्यां क्षीरसंयुक्तं माषान्नं स्यात्प्रशस्तकम् । दोग्ध्री सवत्सां विप्राय नक्षत्रे सोमदेवते ।

दद्यादेवेति शास्त्राणि वदन्ति निखिलान्यपि ॥

आर्द्रायां कसरं देयं तैलमिश्रं समाहितैः । पूपं पुनर्वसौ देयं पुष्ये दद्यात्तु कावनम् ॥ आश्लेषासु तथा रौप्यवृषभं प्रतिपादयेत् । मखासु तिलपूर्णानि वर्धमानानि शक्तितः ॥

भक्ष्यान्वानीय संयुक्तान् फल्गुनीपूर्वके शुभान् ।

उत्तराविषये दद्यात्सगव्यं षाष्टिकोदनम् ॥

हस्ते हस्तिरथं दद्यात् चित्रायां वृषभं च गाम् । स्वातीष्वनडुहं दद्याद्यदिष्टतममात्मनः ॥ विशाखायामनड्वाहं धेनुं दद्यात्सुदुग्धदाम् । सप्रासंगं च शकटं सधान्यं वस्त्रसंयुतम् ॥ अनुराधासु प्रावारं वस्त्रोत्तममनुत्तमम् । ज्येष्ठायां कालशाकं तु संप्रदद्याच्च मूलकम् ॥ मूले मूलफलं दद्यात्पूर्वाषाढासु वै दधि । उदमन्यं ससर्पिष्कं प्रभूतमथ ( का ?) णितम् ॥ दद्याचैवोत्तराषाढावा वृद्ध द्विजातये ।

दुग्धं त्वभिजितो योगे दद्यान्मधुघृताप्लुतम् ॥

श्रवणे कम्बलं दद्याद्वस्त्रान्तरितमेव च । धनिष्ठासु तथा यानं ब्राह्मणाय चतुर्गवम् ॥ गन्धान् शतभिषग्योगे पूर्वभाद्रपदे फलम् । और भ्रमुत्तरायोगे मासं वै पितृतृप्तये ॥ कहियोपदे (दो)हनां धेनु’ रेवत्यां प्रतिपादयेत् । रथमश्वसमायुक्तं अश्विनीषु निवेदयेत् ॥ भरणीषु द्विजातिभ्यस्तिलगोप्रतिपादनम् । अष्टाविंशतिदानानां क्रम एवमनूदितः ॥ नक्षत्राणां प्रकथितः राजभिश्चक्रवर्तिभिः । कर्तव्यत्वेन धनिभिर्यद्वा लक्षाधिकारिभिः ॥

यैर्वा महाभागः श्रीमद्भिरनिशं मुदा । श्रियः प्रीत्यै विशेषेण धनधान्यादिसंपदाम् शयर्थं विद्यमानानां साक्षानारायणस्य च । देवदेवेश्वरस्यापि महादेवस्य शूलिनः ॥

[[६]]

[[१३०]]

मार्कण्डेयस्मृतिः

उमापतेर्जगत्कर्तः प्रीतये च यथाक्रमात् । दानान्येतानि सततं कार्याण्येव न चेत्तु सा ॥

लक्ष्मीः स्थिरतरा गेहे न तिष्ठत्येव वच्मि वः ।

यः श्रीमान् स तु मेधावी देवभक्त्या विपन्नया ॥ देवान्तरं नासूयेत यद्यसूयेत मूढधीः ।

लक्ष्मीस्सा नाशमायाति तस्य वंशोऽपि कालतः ॥

शनैरशनैर्लयं नूनं संप्राप्नोत्येव वच्मि वः । लोके हरिहरौ देवौ श्रुत्युक्तौ देववल्लभौ ॥ दातारौ संपदां नित्यं विशेयौ शास्त्रजालकैः । तदन्यतरभक्त्यैव तदन्यो देव ईश्वरः ॥ न द्व ेष्यो नापि दूष्यश्च यदि मोहेन वै तथा । स्याच्चेदयं नरो मूढो निःश्रेयः प्रतिपद्यते ॥

सर्वदानानि तत्प्रीत्यै चोदितान्येव वेदिभिः । शास्त्रिभिर्ब्रह्मविद्भिश्च वेदशास्त्रपुराणकैः ॥

अखिलैर्धर्मशास्त्रैश्च तयोरेकस्य कस्यचित् ।

प्रीतये किल कार्याणि सर्वकृत्यानि सन्ततम् ॥ एतान्युक्तानि दानानि नित्यनैमित्तिकान्यपि ।

काम्यानि बहुरूपाणि नित्यत्वेनैव केवलम् ॥

तत्प्रीतये तद्विधिना कार्याण्येव नृपादिभिः । विवाहपश्चमदिने शचीपूजापरं किल ॥ बन्धूनां पूजया नूनं तानीमानि तु तत्पिता । अवशाल्लभते नूनं कन्यातातो वरस्य च ॥

अधुनोक्तानि दानानि नाक्षत्राणि महान् स तु ।

जगाद शौनकः श्रीमान् प्रकारान्तरमाश्रितः ॥

तच्चापि संप्रवक्ष्यामि भवतामद्य सिद्धये । कृत्तिकासु सुवर्णस्य रोहिण्यां रक्तवाससाम्

सौम्यभे लवणस्यापि ह्यार्द्रायां कृसरस्य च ।

आदित्यर्क्षे तु रूपस्य पुष्ये चैव घृतस्य च ॥

सार्पभे चैव गन्धानां तिलानां पितृदैवते । प्रियङ्गोर्भगदेवत्ये पूपानामुत्तरे तथा ॥ साबित्रे पायसस्यापि चित्रायां चित्रवाससः । सक्तूनां वायुदेवत्ये लोहस्येन्द्राग्निदेवते मैत्रे मूलफलानां तु ह्यातपत्रस्य शात्रभे । मधुयुक्तस्य हेम्नस्तु दानमाप्ये विधीयते ॥

नानादानफलानि

[[१३१]]

वैश्वदेवेऽन्नपानस्य श्रवणे वसनस्य च । धान्यस्य वासवे दानं वारुणे चौषधस्य च ॥ अजे पुराणबीजानां सस्यानां तदनन्तरम् । गोरसानां तथा पौष्णे स्नानानामथचाश्विभे तिलानां च महादानं भरणीपु प्रशस्यते । एतादृशानां दानानां शौनकेन महात्मना ॥ प्रोक्तानां क्षणमात्रेण लभते बन्धुपूजया । कन्यकायाः पिता नूनं स्वद्रव्यत्यागमूलतः ॥ कृतया चेन्मुदा नूनं विशेषेण फलं लभेत् । चेतसा दूयमानेन कृतया चापि केवलम् ॥ फलं तु लब्धं दुःखात्तु यथा स्यात्तु मुदा तदा ।

दुःखितो न भवेदेव तस्मिन् काले ततः परम् ॥ द्रव्याधिक्यभिया चिन्तां न कुर्यादेव सर्वथा ।

सुमुख्येव भवेन्नूनं तेनासौ सुमहत्फलम् ॥

प्राप्नोति कन्यकातातो वरस्यापि पिता तथा । वसूनामवशाद्वन्धुदानमानादिनातराम् दुर्मना न भवेदेव वसूनामधिकव्ययात् । अवशादागतात्काले तस्मिन् भव्ये तथाविधे ॥ डो (दो) लोत्सब ताम्बूलदानफलम् योगदानानि

डो(दो) लोत्सवे दम्पतीनां ताम्बूलानां प्रदानतः । महाविष्कम्भयोगादिसर्वदानफलं लभेत् ॥ तहानशास्त्रं वक्ष्यामि भवतां विशदाय हि । विष्कम्भे धान्यदानं तु प्रशस्तं श्रीमतां सदा ॥

कर्तव्यत्वेन विहितं प्रीतौ दानं तथान्धसः ।

घृतमायुष्मतिप्रोक्तं सौभाग्ये कौकुमं स्मृतम् ॥

शोभने यवदानं तु प्रतिगण्डे तथाम्बरम् । सुकर्मणि गुडान्नं तु रूप्यदानं धृतौ स्मृतम् ॥ सुवर्णशूलं शूले तु गण्डे मण्डनकं तथा । वृद्धियोगे धेनुदानं रत्नदानं घ्र वे तथा ॥ व्याघाते पाणितं प्रोक्त’ गुडदानं तु हर्षणे । वज्रयोगे वज्रदानं सिद्ध सैद्धार्थमेव च ॥ काभ्वनं तु व्यतीपाते तिलदानं वरीयसि । परिघे चातपात्रं तु जलदानं शिवाह्नये ॥

सिद्ध सिद्धान्नदानं तु साध्ये चाभरणं स्मृतम् ।

शुभे छ प्रदेयं स्याच्छुक्ले दानमुपानहाम् ॥

[[१३२]]

मार्कण्डेयस्मृतिः

सर्पिर्दानं ब्रह्मयोगे दीपदानमथैन्द्रके । वैधृतौ स्वर्णदानं तु योगदानं प्रशस्यते ॥

तदा फलप्रदानस्य करणेनास्य वस्तुभिः । कन्यापितुः श्रीमतो वै करणीयैकदानजम् ॥ यत्फलं तदवाप्नोति नात्र कार्या विचारणा ।

तद्यो निरूपयिष्यामि क्रमं शास्त्रगतं त्वहम् ॥

सर्वलोकोपकाराय नारदेन पुरोदितम् । बवे तु पायसं देयं सक्तदानं च बालवे ॥ कौलवे गव्यदानं तिलदानं तु तैतिले। गरज्यां(जे) लवणं देयं बणिज्या (?) मम्बरं शुचि ॥ विष्टौ च पौष्टिकान्नानि सर्पिर्दानं तु शाकुने । मधुदानं चतुष्पदि वस्त्रदानं तु नागवे ॥ दानं प्रियंगोः किंस्तुघ्ने श्रेष्ठमुक्त महात्मभिः ।

दानान्येतानि सर्वाणि तावन्मात्रेण तत्पिता ॥ लभते तत्क्षणेनासौ तस्मिन् काले वशादहो ।

तदा वरे खद्वगस्थे पश्चाद्विप्राशिषां तराम् ॥

वधूवरयोस्ताम्बूलचर्वणफलम् संक्रान्तिदानानि

ताम्बूलचर्वणपरे पत्न्या साकं सभागते । पयःपानात्परं तस्मिन् यजमानस्तु केवलम् ॥ सर्वसंक्रान्तिदानानां फलं यत्समुदीरितम् । तदवाप्नोति नूनं वै निखिलं नात्र संशयः ॥ तत्क्रमं चापि वक्ष्यामि विशदायाधुना हि वः । मेषसंक्रमणे भानोर्मेषदानं प्रशस्यते ॥ वृषसंक्रमणे दानं गवां प्रोक्तं शिवप्रियम् । विष्णोरपि प्रियं भूयो वृषभो विष्णुवल्लभः ॥ यतः प्रकथितः सद्भिस्तद्दानं तस्य चक्रिणः । अतिप्रीतिकरं शस्तं मोदते वृषभे पुनः ॥ तद्दानं सर्वदानानां उत्तमोत्तममुच्यते । सर्वदेवप्रीतिहेतु तद्दानं तादृशं परम् ॥ वस्त्रान्नपानदानानि मिथुने विहितानि हि । घृतधेनुप्रदानं तु कर्कटेति प्रशस्यते ॥ ससुवर्ण छत्रदानं सिंहेऽपि विहितं शिवम् । कन्याप्रवेशे वस्त्राणां संप्रदानं गवामपि ॥

तिलानामपि खड्गानां कम्बलानां सुवर्चसाम् ।

नैपालानां विचित्राणां प्रदानं पितृवल्लभम् ॥

तुलाप्रवेशे बीजानां धान्यानां दानमिष्यते । कीटप्रवेशे वस्त्राणां वेश्मनां दानमुत्तमम् ॥

भासदानानि

पात्राणां च फलानां च पुष्पाणां च तथा पुनः ।

धनुःप्रवेशे चित्राणां दृढानां वाससामपि ॥

[[१३३]]

कम्बलानां च मुख्यानां भूषणानां च वेश्मनाम् । प्रदानमुत्तमं प्रोक्तमन्नस्य च विशेषतः प्रवेशे दारूणां दानमग्नेस्तथैव च । काष्ठानां च तृणानां च दीपस्यापि विशेषतः ॥ प्रदानं प्रवरं प्राहुः कटिशय्यासनाश्मनाम् । कुम्भप्रवेशे दानं तु गवां च तृणवारिणोः ॥ मीनप्रवेशे भाषाणां मुद्गानां सर्षपादितः । तिलानामपि तैलानामाज्यानां मधुवारिणाम् ॥

सुगन्धप्रदानादिफलम्

चन्दनानां खजां तद्वत्पात्राणां श्रौतकर्मणाम् ।

मृण्मयाना विशेषेण काष्ठानां च स चामपि ॥

वादीनां प्रशंसन्ति प्रदानं ब्रह्मवादिनः । तावन्मात्रेण यज्ञस्य फलं कृत्स्नं न विन्दति ॥ ताम्बूल चर्वणात्पश्चादेलादीनां प्रदानतः । लवङ्गमिश्रतद्दिव्यमहौषधसुगन्धिनाम् ॥ सुगन्धानां प्रदानादिचित्र हेलामहोत्सवात् । बन्धुहर्षेण महता विप्राणां स्वस्तिवाक्यतः सुमङ्गली दिव्य गानप्रपूर्वक महारवैः । सुगन्धद्रव्यविक्षेपैस्तदा जातैरनेकशः ॥

महोत्सवशतैश्वित्रैरयं कन्यापिता क्षणात् ॥

मासदानानि

शिष्टमासादिदानानां फलान्याप्नोति तादृशम् । कन्यादानं महत्तस्मात् तस्मिन् दानानि यानि वा ॥ महाद्रव्यैककालैक साध्यान्याश्वेव विन्दति ।

तानि भूयश्च दानानि मासादीनामिहोच्यते ॥

प्रसंगेन तु शिष्टानि चैत्रादीनि क्रमेण वै ।

माघमासे तिलान् दद्यात् प्रियहणून फाल्गुने तथा ॥

est वामपूपस्तु वैशाखे छत्रकं शुचौ । आषाढे पादुकां वस्त्रं श्रावणे परिकीर्तितम् ॥१३४ः

माकण्डेयस्मृतिः

नभस्ये फाणितं दद्यादुद्धृतमाश्वयुजे तथा । दीपं तु कार्तिके. मार्गशीर्षे लवणमीरितम् ॥ पौषे सुवर्णमेतानि देयान्येवं महात्मभिः । उत्तरे त्वयने देयं तिलधेनुद्वयं परम् ॥ वस्त्रदानं विशेषेण तिलानड्वाहमेव च । सर्पिर्दानं प्रशंसन्ति दक्षिणे त्वयने तथा ॥ पुष्पदानं सिते पक्षे कृष्णपक्षे जलं शिवम् । देयमेवेति सततं पुनर्नित्यं च तत्स्मृतम् ॥ स्नानानुलेपनादीनां वसन्ते दानमिष्यते । पानकानां तथा ग्रीष्मे वर्षासु छत्रमुत्तमम् ॥ शरथन्नप्रदानं च वस्त्राणामपि मके । बर्हिर्दानं तु शिशिरे कृत्वा शत्रुजयं लभेत् ॥

संवत्सरे तिलान् दद्याद्यवस्तु परिवत्सरे ।

इडापूर्वे च वस्त्राणि धान्यं चाप्यनुवत्सरे ॥

इद्वत्सरे तु रजतं क्रमाद्देयानि शक्तितः । कौले दानानि तान्येतानिति शास्त्रेषु नैकधा ॥ गीयन्ते धर्मसारः श्रीमतां संपदेऽनिशम् ।

सर्वाण्यपि च दानानि भागिनामेव केवलम् ॥ नृपतीनां विशेषेण नित्यत्वेनैव सन्ततम् ।

चोदितानि किलान्येषां दरिद्राणां न किश्चन ॥

एतत्कन्यामहादानं न तथा किल चोदितम् । स्वकीयविभवैकानुसारेणैव सुचेतसा ॥ कर्तव्यत्वेन विहितं पितॄणां स्वस्य केवलम् । उत्तारणाय सर्वेषां अवशालघुवर्त्मना ॥

एकोत्तरशतानां च ब्रह्मलोकाप्तये हि तत् ।

तस्मिन् कन्यामहादाने पुरोक्तान्यखिलान्यपि ॥ पुनस्तथाप्यनुक्तानि वक्ष्यमाणानि यानि वा ।

तानि सर्वाणि कन्याया दानाङ्गत्वेन यो महः ॥

तत्पश्वदिनसाध्यो वै विहितक्लम उत्तमः । तत्कोणावयवानेहविहितानां तदा तदा ॥ तत्तत्क्रियाविशेषाणां प्रचालनमहत्वतः । अवशात्समवाप्नोति कन्यादाता क्षणाद्ध वम्

;

कन्यापितृधर्मवर्णनम्

मण्टपोद्वासनादिफलम्

[[१३५]]

मण्टपोद्वासनात्पश्चाद्देवतोद्वासनात्तथा । ब्रह्माद्यु द्वासनात्तस्य वसन्तस्योत्सवेन च ॥ स्तम्भानां पूजया चापि पुण्यकंकणमोचनात् ।

आपन्निस्तृतभीतार्ता गर्भिणीप्रसवाय वै ॥ स्थाली भीतिद्रव्यवस्तुदानतत्पालनादिभिः । यच्छ यो जायते वाचा वण्यं ब्रह्मादिनाकिभिः ॥ कन्याप्रदाता प्राप्नोति स्वद्रव्येणैव तत्कृते ।

तस्मात्तु कन्यकादानं परापूजादिकाच्छिवात् ॥

समारभ्यैव विधिना कृते कंकणमोचनात् । तद्द्रव्यमनपेक्ष्यैव स्वीयद्रव्येण चेद्वरम् ॥ उपमारहितं तत्स्यात् पुण्यकर्मसु पावनम् । एवं तु क्रियमाणेऽस्मिन् तन्मध्ये वै तदा तदा गतागताह्वानकृत्ये सर्वसाधारणेन वै । तत्प्रदत्तसुमादीनि चन्दनं त्वनुलेपनम् ॥ स्वीकुर्यात्केवलं नित्यं न ताम्बूलं तथाम्बरम् । फलदाने कृते तेन तत्स्वीकृत्य स्वहस्ततः ॥ उभयोराशिषं सम्यक् प्रयुज्यात्तत्फलादिकम् ।

यस्मैकस्मैचित्तद्दद्यात् न स्वीकुर्यात्स्वयं परम् ॥ कन्यापितुर्धर्माः

कन्यांप्रसूतिपर्यन्तं तद्गृहेऽसौ कदाचन । भुक्तिं नैव प्रकुर्वीत कूकुदायो महामनाः ॥

स्वशक्त्यनुगुणं यस्तु स्वबन्धुषु वरं शिवम् ।

समलंकृत्य विधिना कन्यकां भूषणादिभिः ॥

बन्धुब्राह्मणपूजादिकर्मभिलोभवर्जितः । लक्ष्मीनारायणप्रीत्यै प्रददाति स कूकुदः ॥ तेनारोग्यादिदानानि तदानीमेव केवलम् । कृतानि स्युर्विशेषेण निरूप्यन्ते च तानि वः ॥

[[१३६]]

मार्कण्डेयस्मृतिः

आरोग्यादिदानानि

आरोग्यदानं प्रथमं रत्नदानमनन्तरम् । परं भगंधरहरं रत्नदानमनुत्तमम् ॥ व्रणरोगहरं रत्नवचसंप्रतिपादनम् । गलगण्डहरं रत्नदानं तदनुकीर्तितम् ॥ ततोऽलंकारदानं तु वस्त्रदानमनन्तरम् । पुष्पदानं धूपदानं दीपदानं समन्त्रतः ॥ देवतादीपदानं च दिगुदीपप्रतिपादनम् । गोदीपदानमपरं कार्तिक्यां दीपदानकम् ॥ दद्याद्दीपप्रदानं च पिष्टदीपार्पणं ततः । गीतिदानं छत्रदानमुपानद्दानमेव च ॥ रत्नपूरितहेमादिपात्रदानमनुत्तमम् । ताम्रपात्रप्रदानं च रुक्मपात्रार्पणं ततः ॥

वस्त्रदानं देवताभ्यो वस्त्रदानमथापरम् । शोभन्नवस्त्रदानं च ह्युष्णीषप्रतिपादनम् ॥ तथोर्णापट्टदानं च शय्यादानं ततः परम् । शिवशय्याप्रदानं च विष्णुशय्याप्रदापनम् ॥ गौरीशय्याप्रदानं च दुर्गाशय्यासमर्पणम् ! सूर्यशय्याप्रदानं च ह्यासनप्रतिपादनम् ॥ तथास्तरणदानं च कटदानमनुत्तमम् । उपधानप्रदानं तु चर्मादिप्रतिपादनम् ॥ ततो दर्पणदानं च शिवविष्ण्वोस्तथापरम् । लीलानिदानं कथितं दानं तु व्यजनस्य च तथा चामरदानं च गन्धदानं महोत्तमम् । ताम्बूलदानं स्वर्णादिपात्रदानं महाफलम् ॥ भाण्डवर्धनिकादानं स्थालीदानमनुत्तमम् । प्रोक्तमन्विष्टकादानं अभयप्रतिपादनम् ॥ विमोचनं विरुद्धानां पक्षिणां तदनन्तरम् । सर्पमोक्षणमाख्यातं पान्तशुश्रूषणं परम् ॥ अभ्यङ्गदानं पातानां अभ्यङ्गप्रतिपादनम् । अभ्यङ्गकरणं चापि तस्मै तैलसर्पणम् ॥ यज्ञोपवीतदानं च शिरोरोगहरं तथा । यज्ञोपवीतमपरं गर्भस्रावहरं स्मृतम् ॥ दानं यज्ञोपवीतस्यष्टिकादीपमर्पणम् । यत्यादीनां तु वपनं सपर्याकरणं गवाम् ॥ अन्नदानं भक्ष्यदानं धान्यदानं महाफलम् । अथोदकप्रदानं च करकादिप्रदापनम् ॥ तदा धर्मघटस्यापि यतीनां घटदानकम् । गृहिभ्यः कुम्भदानं च दानमुत्तममुच्यते ॥ अश्वत्थजलदानं तु सेचनं पिप्पलस्य च । मधूकतुलसीबिल्वधात्रीवसनभूरुहाम् ॥ सेचनं पालनं चापि स्थापनं दर्भकाशयोः । परोपकृतिकार्याय चेतसैव समर्पणम् ॥ तथा गलन्तिकादानं मणिकादानमेव च । प्रपादानं जलाशयनिर्माणं कूपपाथसाम् ॥

इष्टापूर्त वर्णनम्

समीचीनैककरणं तटाककरणं तथा । देवमातृकदेशानां नदीमातृककल्पनम् ॥

निबर्हणं च दुष्टानां मृगाणां पापिनां नृणाम् ।

चोराणां तस्कराणां च ब्रह्मघ्नानां निबर्हणम् ॥

[[१३७]]

वापीसरः प्रकुल्यानां करणं फलदायकम् । वारिबन्धस्तदा प्रोक्तो वारुणेष्टिस्तथोदिता ॥ प्रतिष्ठा च तटाकस्य पुण्यारामादिरोपणम् । फलवृक्षारोपणं च तुलस्यादिप्रकल्पनम् ॥ गदितं तु निषिद्धानां वृक्षाणामवरोपणम् । कण्टकोत्सारणं मार्गे चोरग्रहणपूर्वकात् ॥ तरुशूलारोहणं च तेषां कालेषु निर्दयम् । नष्टप्रामोद्धारणं च विप्रप्रामैकबोधकान् ॥ शूद्रादिदुष्टसंघातान् समुन्मूलकृतिः परा । वृक्षादिसेचनविधिवृक्षदोहदमेव च ॥ आरामादिप्रदानं च वृक्षाणां प्रतिपादनम् । कदलीदानमाख्यातं माकन्दद्रुमदापनम् ॥ पनसारूयमहागस्य प्रदानं दर्भपालनम् । विषशान्त्यौषध महादानंभित (?) प्रपालनम् ॥ फलवृक्षप्रदानं च फलभूमिसमर्पणम् । क्षयन कदली दानं दानं न्यग्रोधशाखिनाम् । तथा प्रस्फुटपादत्वहराश्वत्थसमर्पणम् । नाडीव्रणहराश्वत्थप्रदानं सुमहत्परम् ॥

विद्रधित्वहराम्रह ( … ) प्रदानमपि तत्तथा । एतान्यनन्तफलदान्यघ रोगहराण्यति ॥ नानामतानुपूर्वेण मयोक्तानि समासतः । तानीमान्यपि दानानि परं कंकणमोचनात् ॥ बन्धुब्राह्मणभुक्तया च तदङ्कुर विसर्जनात् । लभते कन्यकातातः स्वद्रव्यकरणादहो ॥ तत्कृत्यमिथुनस्यैव कन्यादानं तु तादृशम् । साङ्गोपाङ्ग करचितं मन्त्रतन्त्रधनादिभिः ॥ सम्यक् समग्रमन्यूनं लोभशाठ्यविवर्जितम् । चेदेव पूर्वफलदं शुद्धचित्तेन केवलम् ॥ अश्रद्धया कृतमपि कन्यादानं दरिद्रतः । यैः कैश्चिदङ्ग लोपैर्वा सर्वतारकमेव तत् ॥ ‘पुत्रपौत्रप्रपौत्राणां तादृशीनां यदा तदा । कृत्वोपनयनं पाणिग्रहणं तदनन्तरम् ॥ दर्शादिकेषु नित्येषु पैतृकेष्वखिलेष्वपि । नैमित्तिकादिषु तथा पितृपूजां विधानतः ॥ दूर्वाक्षतैः प्रकुर्वीत तिलदर्भैर्न सर्वथा । पितृव्यादिककारुण्यमृताहा श्राद्धकर्मणाम् ॥ एवमेव प्रकथितं करणं नान्यथा मतम् । यदि पित्रोर्मृ’ ताहश्चेत्कदाचिदपि मौढयतः ॥

दर्भैस्तिलाक्षतैश्वापि पितृपूजा प्रकीर्तिता ।

न तु शुद्धतिलैस्सा वै दर्भास्साधारणा पराः ॥

[[१३८]]

मार्कण्डेयस्मृतिः

चौलसीमन्तयोः पश्चान्मासमात्रं तथा स्मृतम् । स्वपुत्रपौत्रादिकेऽपि नियमोऽयं सनातनः ॥

एवमेव प्रकथितः तस्माद्राद्धं प्रयत्नतः । समागतमनुष्ठाय शुभकर्म ततः परम् ॥ आरभेदेव मतिमान् तत्पूर्वं तन्न चाचरेत् । पूर्वं मृताहमालोक्य पित्रोरेव पुरः स्थितम् ॥

न कुर्यात् पुत्रयोः कर्म भावुकं तत्कथंचन

भ्रातॄणां भिन्नभिन्नानां विभक्तानां तथा पुनः ॥ तथैव वा विभक्तानां मध्ये कश्चन कुत्रचित् । विद्यमानः स्वपुत्रस्य मौजी वा पाणिपीडने ॥ कर्तुं समुद्यतोऽतीव पित्रोः श्राद्धमुपस्थितम् । मोहात्प्राथमिकं चेत्तु तन्मध्ये तु तथा पुनः ॥

तच्छ्राद्धानन्तरं भूयः तद्भद्र पुनराचरेत् । अतो न भावुकं कर्म श्राद्धात्पूर्व समाचरेत् ॥ निर्वर्त्य पैतृकं श्राद्धं पुत्रयोस्तदनन्तरम् । स्वश्रेयसं प्रकुर्वीत न चेत्पीडाशिवादयः ॥

भवेयुरेव नितरां तथा तस्मान्न चाचरेत् ।

विवाहमौज्ज्योः पश्चात्तु पुत्र्याः पुत्रस्य वान्ययोः ॥

गेहे प्रतिदिनं भव्यकर्माण्येव क्रमेण वै । शक्त्या प्रकुर्याद्विधिना तत्क्रमश्चापि वर्ण्यते ॥ हारिद्रशम्बर महामह आदौ दिनत्रयम् । बुधवारोत्सवश्रीकः स्थिरवारोत्सवः परः ॥ नीराजनोत्सवश्चात्र चित्रान्नोत्सवनामकः ।

भानुवारे ततः पश्चाच्चान्द्र मोदकसंज्ञिकः ॥ क्षीरोत्सवे भौमवारे भक्ष्याख्यो गुरुवारके ॥

विवाहानन्तरोत्सव विशेषाः

कल्याणस्याष्टमदिने श्रीमान् लग्नोत्सवारूयकः ।

नवमे दिवसे पश्चात् भव्यताम्बूलनामकः ॥

गन्धचूर्णोत्सव श्रीकः पश्चात्पुष्पाभिधानकः । द्वादशे दिवसे गाननामाख्यः सुमहोद्भवः ॥

नानामहोत्सववर्णनम्

[[१३६]]

त्रयोदशदिने रम्यः गौरीलक्ष्मीमहोत्सवः । चतुर्दशदिने पश्चाद्भव्यो नीराजनाख्यकः

आशीर्वादोत्सवः पञ्चदशे चित्रोत्सवाख्यकः ।

षोडशे दिवसे वाद्यनामकोऽयं महोत्सवः ॥

वेणुतन्त्रीलयास्वादमृदङ्गमणिनामकाः । षडुत्सवविशेषाः स्युः सायंप्रातस्ततः परम् ॥ नीराजनं तत्सायाह्न प्रकुर्यादादिनाष्टकात् । सुमंगलीगानपूर्वं वरयोरिति तत्क्रमः ॥ तृतीये मासि षष्ठे च वराह्नानोत्सवो महान् । द्वितीये च चतुर्थे च वराम्बागमनामकः महोत्सवः प्रकथितः पञ्चमे तु परस्परम् । संबन्धिनोरागमाख्यः सुमहामंगलोत्सवः ॥ एवमामासषट्कं तु कल्याणानन्तरं पुनः । तदीयभवने तत्र कल्याणानां परंपरा ॥ प्रभवेन्महती नित्यमत्यल्पस्यापि देहिनः । अतः कन्यादानसमं त्रिषु लोकेषु विद्यते ॥ दानान्तरं सत्यमुक्तं नार्थवादोऽयमीरितः । सर्वत्र कर्ममात्रे तद्ब्राह्मणानां सदा परा ॥ अत्यावश्यकता शेया तेषां वै यद्यसंभवे । तत्कृत्यमतिवैगुण्यं प्राप्नोत्येव न संशयः ॥ विशेषेणातिदानानां पैतृकाणां क्रियावताम् । यज्ञानां प्रेतकृत्यानां सतां फलवतामपि ॥ अत्यन्तावश्यकत्वेन विप्रसान्निध्यमुच्यते । अपेक्षितं ब्रह्मणोऽपि विप्रसान्निध्यमात्रतः ॥

कर्मवैगुण्यसंत्यक्त’ फलवच्चापि तद्भवेत् ॥

प्रतिनिधिः

सर्वेषामस्ति सर्वत्राभावे प्रतिनिधिः परः । विप्राभावे लोप एव नतु प्रतिनिधिःक्क वा ॥

सोमाभावे पूतिकः स्याद्द्रव्याभावे यवाः स्मृताः ।

कुशाभावे तु दर्भाः स्युर्दर्भाभावे तथापरे ॥

कुशादयो बहुविधा मौज्यन्ताः परिकीर्तिताः । तासां तासां तु समिधामभावे पैप्पलाः स्मृताः ॥ तेषामभावे तत्स्थाने कुशाद्यास्तृणराशयः ।

चूर्णानां तण्डुलानां वा दुर्लभे लौभ्यतोऽथवा ॥

मृत्तिका हि प्रतिनिधिः कृछ्राणां दुर्घटे तथा । तेषां प्रतिनिधिर्गावस्तासां प्रतिनिधिर्वसु

[[१४०]]

मार्कण्डेयस्मृतिः

हिरण्यं कथितं सद्भिः तथा धान्यादिकं परम् । विप्रभुक्तिर्न चेद्भूयो गायत्रीजप एव वा ॥

दशसाहस्र मित्याह संहितापठनं तु वा । तिलहोमोऽथवा पूर्व संख्यायाब्धिगता ( ? ) । अवगाहः शिष्टगेह भोजनं चेति केवलम् । उक्ता हि प्रतिनिधयः अध्वर्योद्गातृहोतृषु ॥ दुर्लभेषु तथान्येषु ब्रह्मादिषु महर्द्विषु । न चलत्येव कर्मैतद्वदिकं स्मार्तमेव वा ॥

तस्मात्तु ब्राह्मणो मुख्यः कर्ममात्रस्य सन्ततम् ।

अग्निसाध्यं मन्त्रसाध्यं क्रियासाध्यं तु यत्कृतम् ॥

तु

सन्मात्रस्य ब्राह्मणोऽयं मुखमावश्यकं स्मृतः । श्रुतीनामाकरा ते रत्नानामिव सागराः

ब्राह्मणप्रशंसा

विप्रा विप्रमुखेनैव पूजनीयाः प्रयत्नतः । यत्र वेदविदो विप्राः न प्राश्नन्स्यमृतं हविः ॥ न तत्र देवतास्तस्य हविरश्नन्ति कर्हिचित् । विप्रोच्यते स्वर्गो नूनं प्रायं प्रापक उच्यते स्वर्गप्रापक इत्येतद्दातॄन् विप्रोऽयमीरितः । अपि नारायणोऽनन्तो भगवान् वृषभध्वजः

पितामहो लोककर्ता साक्षात्स्कन्दोऽनिलः शिखी ।

तद्दानं नाभिनन्दन्ति यत्र विप्रा न पूजिताः ॥

वसन्त ब्राह्मणे नित्यं वेदाक्षरनिकेतने । देवाः सर्वे हरिः श्रीमान् वेदविद्यो जगद्गुरुः वेदबन्धो वेदरूपो भूतेशो भगवान् भवः । इन्द्रादयो लोकपाला बसवोऽष्टाश्विनावपि रुद्रा एकादश तथा आदित्या निखिला अपि ।

असोमपाः सोमपाश्च पितरचापि तेऽखिलाः ॥

विप्ररूपेण सततं तिष्ठन्त्येव महेच्छया । तस्मात्तस्मिन् पूजिते तु पूजिताः सर्व एव ते ॥ भवन्त्येव न सन्देहस्तस्माद्व दविदुत्तमः । सर्वदेवालयप्रोक्तः सर्वतीर्थालयस्तथा ॥

तस्य प्रसादात्सुलभ ह्यायुर्धर्मस्सुखण्डनम् ।

भगोभाग्यं धृतिनितिः हीः श्रीपुष्टिधृ तिर्मतिः ॥

वृतिर्तया शुचिर्लजा तुष्टिः श्रद्धारमा परा । श्रीर्यशः स्वर्गमुक्ती च तादृशं को न पूजयेत् ॥

पात्रापात्रनिरूपणम्

[[१४१]]

दानपात्रं विप्र एव सर्वेषामपि सन्ततम् । पठनात् त्रायते यस्मात्पात्रमित्युच्यतेऽखिलैः ॥

ब्राह्मणेष्वचितेष्वेषु सर्वे वेदाः सुरादयः ।

अर्चिताः प्रभवन्त्येव भत्सिता निन्दिता अपि ॥ धिक्कृताश्चा कृताश्चापि तथैव स्युश्च तेऽखिलाः ।

काणाः कुब्जाश्च मन्दाश्च दरिद्रा व्याधितास्तथा ॥

एवंरूपा बहुविधा अपि पूज्या निरन्तरम् । ब्रह्मवीर्यसमुत्पन्नाः वन्द्या एव भवन्ति वै ॥ नितरां क्षत्रियादीनां मौञ्जीविरहिता अपि । तावत्कालं ततो भूयः केवलं यद्यसंस्कृताः पतिता इति विशेयास्तेन वन्द्याः कदाचन । ब्राह्मण्यदूषकं नित्यं मद्यमेकं तु तत्क्षणात् ॥ तत्पानदुष्टा यदि वै पुनश्चित्तविवर्जिताः । भवन्त्येव न सन्देहः सन्देही पापभाग्भवेत् तपस्तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये । तृप्तये पितृदेवानां यज्ञधर्मतपः श्रियाम् ॥ निदानाय च गुर्वर्थमाचार्यत्वाय केवलम् । ऋत्विक्त्वहेतवे चापि शिवविष्णुप्रचोदितः नास्ति विप्रसमो देवो नास्तिविप्रसमो गुरुः ।

नास्ति विप्रसमो बन्धुर्नास्ति विप्रसमं तपः ॥ नास्ति विप्रसमो मन्त्रो नास्ति विप्रसमो जपः । नास्ति विप्रसमं तीर्थं पावकं तारकं तराम् ॥ न विप्रसममस्तीह वर्णिनां सन्ततं महत् ।

न जातिर्न कुलं शौचं न स्वाध्यायः श्रुतं शमः ॥

कारणानि द्विजत्वस्य जननं ब्रह्मवीर्यतः । विवाहितायां धर्मेण परमेकं सनातनम् ॥ पश्चाद्वृत्तं प्रशंसन्ति ब्राह्मणस्य सुपूर्तये । वृत्तमेव ब्राह्मणस्य तन्महत्त्वैककारकम् ॥ वृतिहीने तु तद्भूयः सति सवं निरर्थकम् । किं कुलं वृत्तिहीनस्य करिष्यति दुरात्मनः क्रिमयः किं न जायन्ते कुसुमेषु सुगन्धिषु । बहुना किमधीतेन कुशास्त्रेण दुरात्मनः ॥

तेनाधीतं श्रुतं चापि यः क्रियामधितिष्ठति ।

I

[[१४२]]

मार्कण्डेयस्मृतिः

त्यक्तकर्मब्राह्मणनिन्दा

अधीत सर्वशास्त्रोऽपि कालसन्ध्यापराङ्मुखः । त्यक्तवेदा जडमतिः शूद्रादल्पतरः स्मृतः ॥

त्यक्त्वा देवं ब्रह्मनामा बुद्धवच्छास्त्रपाठकः ।

सन्ध्याकालकृतानेक वाङ्मुखो मन्त्रवर्जितः ॥ शूद्रादप्यतितुच्छोऽयं तन्मुखं नावलोकयेत् ।

दूष्यः स्याद्वृत्तदोषेण न पूज्योऽयं तु पामरः ॥

सत्यं त (१) मस्तपोदानं अहिंसेन्द्रियनिग्रहः । वेदोदितानि कर्माणि दृश्यन्ते यत्र बाडबः श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव शुभानुगा । असंभिन्नात्ममर्यादस्स उ ब्राह्मण उच्यते ॥ यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स तु द्विजः ॥ सत्यं दानं दमश्शीलं आनृशंस्यं दया घृणा ।

दृश्यन्ते यत्र लोकेऽस्मिन् प्रोचुर्ब्राह्मणमुत्तमम् ॥

विद्या तपश्च योगश्च ब्राह्मणस्यैव लक्षणम् । विद्यातपोविरहितो नाम ब्राह्मण उच्यते ॥ ।

त्रिशुक्रकृशवृत्तिश्च घृणालुः सकलेन्द्रियः ।

विमुक्तो योनिदुष्टे (दोषे )भ्यः पात्रत्वं प्रतिपद्यते ॥

स्वाध्यायवन्तो ये विप्राः विद्यावन्तो जितेन्द्रियाः ।

सत्यसंयमसंयुक्ताः सर्वकर्मसु कीर्तिताः ॥

श्रोत्रियाय कुलीनाय विनीताय तपस्विने । व्रतस्थाय दरिद्राय प्रदेयं शक्तिपूर्वतः ॥ श्रोत्रियस्त्वयमेवोक्तो मुख्यतः शास्त्रजालकैः । वेदैकशाखाध्यायी यः सर्वकर्मसु पावनः ॥ ओंकार पूर्वि कास्तिस्रः सावित्रीं यश्च विन्दति । चरितब्रह्मचर्यश्च सवै श्रोत्रिय उच्यते ॥ शीलं संवसता ज्ञात्वा शौचं सव्यवहारतः ।

प्रज्ञानं कथनाज्ज्ञात्वा त्रिभिः पात्रपरीक्षणम् ॥

कुर्यादेवान्यथा विद्यात्प्रश्नतो न कदाचन । न ब्राह्मणं परीक्षेत कदाचिदपि विद्यया ॥ वेदेन सर्वथा नैव महादानेषु केवलम् । विद्यामात्रां विद्यमानां तत्स्वरूपं च तत्परम् ॥

दानपात्र विशेषवर्णनम्

ज्ञात्वैव सम्यक् पश्चात्तु दद्यात्तद्दानमुत्तमम् ।

क्षान्तिः स्पृहा तपस्सत्यं दानं शीलं दद्या क्षमः ॥ एतदष्टाङ्गमुद्दिष्टं परमं पात्रमुच्यते ।

स्वाध्यायाढ्य योनिमन्तं प्रशान्तं वानप्रस्थं पापभीरुं बहुतम् ॥ स्त्रीषु क्षान्तं ( ? ) कं गोशरण्यं त्रतैः क्लान्तं तादृशं पात्रमाहुः ॥

पात्रभूतत्राह्मणः

साङ्गास्त्रिचतुरो वेदान् योऽधीते स द्विजर्षभः ।

षड्भ्यो नियुक्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥

[[१४३]]

किञ्चिद्ध दमयं पात्रं किञ्चित्पात्रं तपोमयं । पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥ किश्विद्व दमयं पात्रं किंचित्पात्रं तपोमयम् । असंकीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति नैष्ठिकोपकुर्वाणः सर्वशिष्यश्च सर्वथा । सर्वविद्यालयः श्रीमान् चत्वारो ब्रह्मचारिणः “अधीतवेदविद्येभ्यो ह्यधीयानेभ्य एव च । प्रजामात्रैककार्याय भार्यासंयोगकारिणे ॥

दानानि दद्यातिने तपोनिष्ठाय वेदिने । अधीतायावधीताय विधुराय च पुत्रिणे ॥ परोपकारिणे नित्यं क्रोधहीनाय सर्वथा । सदा पदार्थवेदाय सदा शास्त्रप्रपाठिने ॥ हस्तस्थवस्तुमात्रै प्रदात्रे प्रश्नमात्रतः । यद्दत्तं तदनन्तं स्यात् स हि पात्रोत्तमोत्तमः ॥

[[1]]

दानपात्र विशेषाः

अध्वरी श्रोत्रियो विद्वान् ब्रह्मविद् ब्रह्मवाद्यपि । ब्रह्मनिष्ठः ब्रह्मपरं ब्रह्मण्यो ब्रह्मवर्धनः ॥

एते मुख्यतमाः प्रोक्ताः सर्वदानेषु सन्ततम् ।

न विद्यया केवलया तपसा वापि पात्रता ॥

त्रिवृत्ती इमे चोभे तद्धि पात्रं प्रचक्षते । कर्ममात्रे ब्राह्मणो वै मुखं दाने तथा पुनः ॥

/

मन्त्रज्ञः श्रोत्रियः पश्चादनूचानस्ततः पुनः ।

भ्रणः शास्त्रविशेषज्ञः ऋषितुल्यो ऋषिर्मुनिः ॥१४४

मार्कण्डेयस्मृतिः

ब्रह्मवादी ब्रह्मविश्च स्युरेते चोत्तरोत्तराः । ब्राह्मणाः प्रथमं वेदे चरित्रे तदनन्तरम् ॥ सद्गुणे सत्यवचने त्यक्तकोपे दयाश्रये । समालोच्या विशेषेण न वेदादिपु केवलम् ॥ तेषां परः परश्रेष्ठो विद्यावेत्तादिभिर्गुणैः । ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत् अनुपेतः श्रियाहीनः मात्रज्ञोः भिधीयते । एकदेशमतिक्रम्य वेदस्याचारवानृजुः ॥ न च ब्राह्मण इत्युक्तो निभृतः सत्यवाग्घृणी ।

एकां शाखां सकल्पां च षड्भिरंगैरधीतवान् ॥

षट्कर्मनिरतो विप्रः वा को नाम महानयम् । वेदवेदाङ्गतत्त्वज्ञः शुद्धात्मा पापवर्जितः ॥ शेषं श्रोत्रियवत्प्राप्तः सोऽनूचान इति स्मृतः । अनूचानगुणोपेतो यज्ञः स्वाध्याययन्त्रितः नित्याग्निहोत्री दर्शादिकरो वर्षपशोस्तथा । अनुष्ठाता नित्यशुचिः भ्रण इत्युच्यते बुधैः एवं प्रतिवसन्तेऽपि ज्योतिष्टोमकरो महान् ।

वीर इत्युच्यते सद्भिरविच्छिन्नोऽग्निहोत्र्ययम् ॥

नित्यान्नदानपरतः शेषभोजी जितेन्द्रियः । लौकिकं वैदिकं चैव सर्वज्ञानमवाप्य यः ॥ आश्रमस्थ ऋषी नित्यमृषिकल्प इतीरितः । ऊर्ध्वरेतास्तपस्यम्रो नियताशी महामनाः ॥ शापानुग्रहयोः शक्तः सत्यसन्धो मुनिस्मृतः । निवृत्त सर्वतत्त्वज्ञो कामक्रोधविवर्जितः ॥

ध्यानस्थो निष्क्रियो दान्तः तुल्यमृत्काञ्चनोऽपरः ।

महामुनिरिति प्रोक्तो दुर्लभो ब्राह्मणोत्तमः ॥

प्रतिमहासमर्थोऽपि कृत्वा विप्रः प्रतिग्रहम् । रत्वा परोपकाराय तद्धनं निस्पृहः स्वयम् ॥

तारयिष्यति दातारमात्मानं च स्वतेजसा ।

असतस्तु समादाय साधुभ्यो यः प्रयच्छति ॥ धनस्वामिनमात्मानं सन्तारयति दुष्कृतात् ।

पात्रस्य हि विशेषेण दानस्यापि फलोत्तरम् ॥

समद्विगुणसाहस्रमनन्तं च यथाक्रमम् । दाने फलविशेषः स्याद्धिंसायामेवमेव हि ॥ सममब्राह्मणे दानं द्विगुणं ब्राह्मणत्र वे । श्रोत्रिये शतसाहस्रमनन्तं वेदपारगे ॥ सहस्रगुणमाचार्येणे शतसहस्रकम् । वीरे तच्छतकं प्रोक्तं यद्दत्तं तन्नसंशयः ॥

षड्विधब्राह्मणवर्णनम्

[[१४५]]

विवाहमौञ्जीयज्ञार्थे सत्रार्थे वा विशेषतः । तत्कोटिगुणितं यत्तु दत्तं सवं न संशयः ॥ एतद्दत्तसमं तत्स्यात् ग्रहणे चन्द्रसूययोः । प्रदत्तं विप्रमात्रे तु कृतोपनयने पुनः ॥ अनुपेते प्रदत्तं यत् न तद्दानं प्रचक्षते । तथैव कन्यकादत्ते मूकान्धवधिरेषु च ॥ विप्रवीर्यसमुत्पन्नमात्रेभ्यो दत्तमप्युत । प्रत्तं तद्वसुपुण्याय भवेदेव न संशयः ॥

तथैव प्राणिमात्रेभ्यो देहिभ्यो वा विशेषतः ।

यद्दत्तं कृपया तुभ्यं पारलोक्याय केवलम् ॥ अब्राह्मणास्तु प्रोक्ताः तान् वक्ष्यामि क्रमेण वः । आद्यो राजभृतस्तेपां द्वितीयः क्रयविक्रयात् ॥

यो जीवति स दासोऽयं द्वितीय इति चोदितः । तृतीयस्तु सदासर्वयाजनेनैव केवलम् ॥

वर्जावर्जादिराहित्यायो जीवति दुराशयः ।

[[1]]

अपङ्क्तियोग्योभोज्यान्नवैद्यदेवलयाजनात् ॥

स एव कथितः सोऽयंमकर्माहश्च (?) सन्ततम् । सर्ववर्णसमायुक्तप्रामयाजी तुरीयकः ॥

• अब्राह्मणः प्रकथितः दुष्टबुद्धिदु राशयः । ग्रामस्य नगरस्यापि सर्ववर्णसमत्वतः ॥

पौरोहित्यकरस्तेन जीवन्नब्राह्मणः परः ।

अनादित्यां तु यः पूत्र सादित्यां पश्चिमां तथा ॥ नोपासीत द्विजः सन्ध्यां सपष्ठोऽब्राह्मणः स्मृतः ।

अपुत्रो हानधीयानः परप्रेष्यो जितेन्द्रियः ॥

परपिण्डाशनो नित्यं यो वा स्याद् ब्राह्मणत्रुवः । विप्राप्रियो विप्रद्रोही विप्रदूषणकृत्सदा

विप्रनिन्द्यो विप्रवस्तुद्रव्यगेहादिहृत्सदा ।

विप्रब्रुव इति ख्यातो निन्योऽसौ वेदकर्मणाम् ॥

[[१०]]

[[१४६]]

मार्कण्डेयस्मृतिः

आचार्यलक्षणम्

अध्यापयेत्तु यः शिष्यान् कृतोपनयनान् स्वयम् ।

निरपेक्षकृपावासः सरहस्यान् सकल्पकान् ॥

वेदान् वेदौ तथा वेदं तदथ शास्त्रजालकम् । प्रवदन्ति तमाचार्य महात्मानं मनीषिणः ॥

उपाध्याय गुरुऋत्विगादिलक्षणम्

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति भृत्यर्थं उपाध्यायः स उच्यते ॥ निषेकादीनि कर्माणि यः करोति घृणायुतः ।

कारयत्यपि वा प्रीत्या निरपेक्षोऽनसूयकः ॥

दरिद्रकालेऽप्यत्यन्तशून्ये ब्राह्मणदुर्घटे । संभावयति चान्येन तारयन्नेन मिच्छया ॥

कृपणोऽयमिति ज्ञात्वा स विप्रो गुरुरुच्यते ।

अग्न्याधानं पाकयज्ञान् अमिष्टोमादिकानपि ।

कारयेद्यदि नूनं स ऋत्विग्भवति केवलम् । अग्न्याधाने य अध्वर्युर्भवेदस्य स उच्यते दीक्षागुरुर्महान् नित्यं गुर्वाचार्यसमश्च सः । गुरूणां प्रथमं दानं दद्या ष्ठमनुक्रमात् ॥ ततोऽन्येषां तु विप्राणां दद्यात्पात्रानुरूपतः । गुरोरभावे तत्पुत्रं तत्पुत्रं तत्सुतं तथा ॥ तत्कलत्रं तद्दौहित्रं अन्यं वा तत्कुलोद्भवम् । संभावयित्वा दानेषु फलकर्मसु सन्ततम् ॥ शक्त्या प्रमेयमेवस्यादृत्विगाचार्ययोस्ततः । पञ्च योजनमध्ये वा श्रूयते वा गुरुर्यदि । तदा नातिक्रमेदानंदद्यात्पात्रेषु तत्परम् । सममब्राह्मणे दानं द्विगुणं ब्राह्मण वे । श्रोत्रिये शतसाहस्रमनन्तं वेदपाठगे । तत्सहस्रगुणं प्रोक्तं गुरौ दत्तं तु यत्पुनः ॥ दीक्षागुरौ तथा ज्ञेयं उपाध्याचार्ययोरपि । आर्यशब्दोगुरूणां तु वाचकोऽयं भवेत्किल ॥ जातकादि क्रियाजालकारको योऽस्य केवलम् ।

सन्ध्याग्निकार्यमन्त्राणां तत्स्वाधीनैककारकः ॥

मधुपर्क योग्यानां वर्णनम्

[[१४७]]

वैश्वदेवब्रह्मयज्ञो तदौपासनकर्मणाम् । देवपूजास्थालीपाक श्राद्धमन्त्रप्रवाचकः ॥ त एव गुरवस्त्वाद्याः पश्चाद्वेदादिबोधकः । महामन्त्रोपदेष्टा च काममन्त्रौघबोधकः ॥ ब्रह्मविद्याबोधकोऽपि गुरवः कीर्तिताः सतः । चेतसा दत्तमेतेभ्यो ह्यनन्तफलदायकम् ॥ एतेभ्यः प्रथमं देयं सर्वकर्मसु सन्ततम् । तिष्ठत्वेतेषु नान्येभ्यो दद्यादेव तु धर्मतः ॥

दत्वैतेभ्यः प्रथमतः पश्चाद्धर्मक्रमेण वै ।

अन्येभ्योऽपि महद्भ्यः स्यात् प्रदेयं यं च कंचन ॥

विमुखं नैव कुर्वीत सुमुखान्नैव कारयेत् । तिष्ठत्येतेषु सर्वेषु महत्सु किल तत्पुरः ॥ श्रोत्रियाचार्य त्विग्बन्धुश्वशुराणां सपर्पणम् । अब्दात्पुरादागतानां मधुपर्केण चोदितम् ॥

तथैव सर्वपुरतो यज्ञादिष्वित्विजामपि ॥

मधुपर्कयोग्याः

वैधोऽयं मधुपर्कः स्यात्तथैव हि महोत्सवे । सीमन्तोन्नयने पुंसवने स्वश्रेयसागमे ॥ गर्भाधाने विवाहान्ते फलदाने तथाविधे । श्वशुरस्याग्रपूजा हि प्रकर्तव्या विशेषतः ॥

तदभावे भ्रातरोऽस्य तत्पुत्रा वा तदीयकाः ।

अग्रगण्याः शास्त्रक्लृप्तास्तादृशेष्वपि केवलम् ॥

विद्यमानेषु सर्वेषु महागुरुपु तत्पुरः । तदा विवाहमध्येऽपि राजहोमे कृतेऽथ च ॥

पत्नी सोदर्यस्य तस्य बालस्यापि विशेषतः ।

पूजा बहुमतिः कार्या गुरुस्त्यवत्त्वैव सन्निधौ ॥

तेषामेव विशेषेण परा संभावना शिवा । बहुना कि तथा पित्रोः पूजाकर्मणि वागते ॥ शुभकर्मसु सर्वेषु दिव्ये पुण्याहवाचने । मातृपूजा प्रथमतः ताते पश्यति चोदिता ॥ पश्चात्तातस्य संप्रोक्ता श्रुतिमार्गानुसारिणी । तयोर्गुरुषु तिष्ठत्सु पश्यत्स्वपि विशेषतः ॥ तयोर्हि पूजा कर्तव्या तत्पश्चाच्छास्त्रवर्त्मना । तद्गुरूणां प्रकथिता स (1) पूजा महती तदा क्रमश्लोकोऽत्र पूजायाः

भार्गवेण पुराकृतः । तमहं संप्रवक्ष्यामि तज्ज्ञप्त्यै शुभकर्मसु ॥ ताव तचाततत्तात मातामहपितृव्यकाः । तद्भ्रातरः क्रमादेषां श्वशुराः मातुलाः परे ॥

[[१४८]]

मार्कण्डेयस्मृतिः

तद्भ्रातरो मातृगोत्राः पितृगोत्राश्च बान्धवाः ।

पश्चादाचार्यवृन्दाः स्युः पूर्वोक्ता निखिला अपि ॥

गुरुपूजाक्रमः

पादपूजाकियास्वेवं संग्राह्याः क्रमशः सदा । तेषु तेषु च कार्येषु तेषां तेषां तथा तथा ॥ सम्यक्पूजा प्रकर्तव्या तत्पात्रं ते तथा स्मृताः । सभापूजादिकार्येषु गुरुपूजामिमा मता विवाहादिषु सर्वेषु शुभकर्मसु केवलम् । वैदिकेष्वखिलेष्येषु लौकिकेष्वपि केवलम् ॥ गुरुपूजा प्रथमतः धिषणोऽत्र गुरुर्मतः । ग्रामदेशस्थया पूर्व धिषणस्यापि देवयोः ॥ तयोरीश्वरयोः पश्चादाचार्यादि क्रमेण वै । महोद्योगिज्ञानियज्ववेदी श्रोत्रियसूरिणाम् पूजासभाया य ( १ ) क्रमेणैवं महात्मनाम् । दीक्षा बीजेन कुर्याद्धि विशेषेषु तथा पुनः

सोमप्रवाकादीनां वरणक्रमेण पूजाक्रमः

सोमप्राकपूर्वेण मधुपर्कवदीरिता । सोमप्रवाकः प्रथमो द्वितीयोऽध्वर्युरुच्यते ॥ ब्रह्मा तृतीयः संप्रोक्तः सदस्यस्तु कृताकृतः । सर्वज्ञोऽयं दरिद्रश्चेद्यजमानस्तदा पुनः ॥ सोमप्रवाकश्च तथा न मुख्य इति केचन । अग्निष्टोमे प्राथमिके विभवे सति केवलम् ॥ सति चित्ते यथोत्साह ( ? ) पूर्वचोदितः । तथा सोमप्रवाकोऽपि मुख्यत्वेनैव सर्वदा ॥ स एव feat तत्र कर्मणि केवलम् । यदि प्रयोगबाहुल्ये संज्ञा ते यजमानतः ॥ / यूपैकादशिनी पश्वेकादि (द) शिन्यादिमार्गतः । तदा ते वै विशेषेण संग्राह्यावेव केवलम् ॥

बहवो यदि तज्ज्ञाः स्युस्तादृक्कर्मणि चेन्मनः ।

सोमप्रवाकबाहुल्य सदस्यानन्त्यमेव च ॥ अंगीकार्य’ विशेषेण तेन श्रेयो महद्भवेत् ।

होता चतुर्थः संप्रोक्तः तथोद्गाता च पञ्चमः ॥

अन्ये स्पष्टाः ( १ ) द्वितीयाश्च तृतीयकाः । तुरीयकाः स्पष्ट एव तत्क्रमेणैव सन्ततम् ॥

नान्दीश्राद्धादिषु मर्यादावर्णनम्

तेषां पूजा तथा ज्ञेया श्राद्धकृत्येषु चेत्तदा ।

तद्भोक्तृणां तत्र चापि पूजाक्लप्तिरियं स्मृता ॥ विश्वेषां किल देवानां आदौ सा शास्त्रचोदिता । पितुः पितामहस्याथ तत्पितुश्चेति तत्क्रमः ॥ मातुः श्राद्ध मातृवर्गः पैतृको नात्र वै भवेत् । पितुः श्राद्ध तथैव स्यान्मातृवर्गश्च धर्मतः ॥

यस्य यस्य भवेच्छ्राद्धं वर्गस्या ( ? ) स्य च ।

अन्यश्राद्ध ऽन्यवर्गस्य संप्राप्तिर्यायशास्त्रगाः ॥

कथं भवेदेवमेव होमब्राह्मणभोजने । पिण्डदानं च तस्यैव वर्गस्य नियमाद्भवेत् ॥ तदसाधारणं श्राद्धं मृताहारूयं प्रचोदितम् । पितॄणामपि सर्वेषामेकमेव न चेतरत् ॥

दर्शाधि (दि) कं तु यच्छ्राद्धं सर्वसाधारणं परम् ।

पित्रादीनां त्रयाणां च यतः साधारणं स्मृतम् ॥

[[१४६]]

तथा मातामहानां च दर्शादिर्न तथापरः । मृताहोऽयं यस्य वा स्यात् तद्वर्गस्येति निश्चयः अष्टका नवदैवत्या मातृवर्गोऽत्र विद्यते । नान्दीश्राद्ध गयाश्राद्ध मातृश्राद्ध तथैव च ॥ एवं किलैव मर्यादा श्राद्धानां समुदीरिता । अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि मातुः श्राद्ध पृथक् कुर्यादन्यत्र पतिनासह । तस्माद्दर्शादिकृत्येषु पित्रा सह किल क्रिया निखिलापि प्रकर्तव्या यतो दर्शस्तु सर्वदा । पड्दैवत्यः प्रकथितः तादृशेषु तु मौढचतः ॥

मातुः क्रियां पृथक् कुर्याच्छ्राद्धषु पतिना विना ।

स पित्रोस्तनयो मूढ एतत्संयोगविभागकृत् ॥

सह क्रियामात्रतस्तु तयोः संयोगसौख्यदः । प्रतिश्राद्धषु कथितस्तथातस्तत्समाचरेत् ॥ तदेतदास्तां तत्सर्वं प्रसक्तानुत्रसक्तितः । तासु तासु क्रियाह्नासु ते ते स्युः पूर्वगा मता ॥ दावपि तथा ज्ञेयाः केषुचित्पूर्वगास्तराम् । किंचित्प्रत्युपकारे कशून्यानामेव केवलम् ॥ ब्राह्मणानां सुपात्राणां सर्वदानानि चोचिरे ।

कर्तव्यत्वेन विद्वांसः पुनरप्यत्र कानिचित् ॥

.१५०

मार्कण्डेयस्मृतिः

कन्यादानवरलक्षणम्

दानानि सुमहान्त्यत्र बन्धुध्वेव न चान्यतः । तत्रादौ कन्यकादने बन्धुत्वं रूपमेव च ॥ मनश्चक्षुर्निश्च स्व ( .) । आत्मतुष्टिर्विशेषेण निमित्तानि परस्परम् ॥ प्रेक्षणीयानि पश्चात्तु सुविद्या च कुलीनता । सौमुख्यं धर्मसंपत्तिः धनसंपत्तिरेव च ॥ प्रेक्षणीयाश्च तस्मात्तु बन्धुत्वं सर्वतोऽधिकम् ।

गुणानां प्रमुखं प्रोक्तं कन्यादाने हि सन्ततम् ॥

अशेषाणां च वर्णानां अशेषेष्वपि वच्मि वः । देशेषु सत्कुलीनत्वं प्रवरं चोभयं ततः ॥ तदन्वीक्ष्व विशेषेण किंचिन्न्यूनाय जातितः ।

गुणतो धर्मतो वापि क्रियात वाथवा तथा ॥

पौरुषानतो वापि विद्यातः संपदादिभिः ।

अवरायैव ( ) नाधिकाय स्वयत्नतः ॥

अधिकाय कृते दाने कन्यायास्तत्परं परम् । सर्वलौकिककृत्येषु सामीचीन्यं न संभवेत् न वैदिकेषु कृत्येष प्रभवेद्वाधकं न तु । समीक्ष्यैवं चिरात्पश्चात् समीपेष्वेव बन्धुषु ॥ निर्दोषेषूत्तमेष्वेव तादृशेष्वेव यत्नतः । प्रकर्तव्यो मानिनः स्यात् संबन्धः शास्त्रसंमतः ॥ विशेषोन कर्तव्यः पित्रोः श्राद्ध तु केवलम् । यो निगोत्रादिसंबन्ध रहिते ज्ञातसत्कुले ॥ . सर्वप्रत्युपकारैकविहिने वेदसन्ततौ । अनूचाने शुद्धकच्छे संपूर्णाङ्गऽपि सद्गुणे ॥

प्रदेयं शास्त्रमार्गेण पात्रमेतादृशं यदि । असंभवे भिन्नजातौ स्वजातौ वा तथाविधम् ॥ पात्रमुद्वीक्ष्य यत्नेन पश्चाद्दातव्यमेव वै। जातिशब्देनात्रपरं समभाषैव सा पुनः ॥ एकभाषैव विशेया नान्यभाषा निगद्यते । एकस्यामेव भाषायां जातयो देशसंभवाः ॥ भिन्नभिन्नारसंभवन्ति संबन्धस्तादृशासु चेत् ।

न कर्तव्यो भवेदेव श्राद्धमात्राय चेदलम् ॥ नाभिन्ना तु पराप्रोक्ता भाषे का शास्त्रसंमता । भाषैक्येसति तद्भिन्नजातिराचारमात्रतः ॥

आपोशनजलप्रदातारः

[[1]]

[[१५१]]

पुनस्समानापरमा श्राद्धयोग्येति सा श्रुतिः । कन्यादानेनैव भवेत् किंतु तादृग्विधः परः एकभाषाजातिस्तु संग्राह्यः संभवेद्धि वै । जायापत्योः कन्यादाने कर्तृत्वमुभयोरपि ॥ एकासनस्थयोर्द महस्तयोः स्नातयोस्सतोः । श्राद्ध े तु सर्वपुत्राणां तादृशानां तदुच्यते ॥ नात्रासनं तु पत्नीनां पैतृकेषु कदाचन । एकत्र सन्निवासश्च तच्छुचित्वं च वैधतः ॥ तस्मिन्काले सुविहिते न कदाप्येकमासनम् ।

भ्रातृणामपि भक्तानां श्राद्धकालेषु सन्ततम् ॥ ज्येष्ठेन सह भावः स्यान्नान्यो धर्मोऽस्ति धर्मतः । प्रदक्षिणनमस्कारौ श्राद्धान्ते संप्रकीर्तितौ ॥ पित्र्युद्द शेन विप्राणां तत्पत्नीनां जनस्य च । शिष्टस्य निखिलस्यापि सर्वशास्त्रेषु चोदितः ॥ अत्यल्पमपि तद्वच्म ज्ञेयं तल्लौकिकेष्विति । भ्रातृणामिति सर्वेषां शुचिनां दर्भपाणिनाम् ॥

वै ॥

तदङ्गतर्पणं कुर्यान्न कुर्याद्व ( … ) यः । पादप्रक्षालनं तस्मिन् मधुपर्के वरस्य पत्त्यर्पित जलेनैव कार्य भवति शास्त्रतः । नैवं श्राद्ध प्रकुर्वीत पादप्रक्षालनं परम् ॥ द्विजानामिति तस्मात्तु स्वार्पितेनैव पाथसा ॥

आपोशनजलंप्रदातारः

आपोशनद्वयजलं मधुपर्के विशेषतः । पल्या प्रदेयमेव स्यात् तद्द्द्रव्यं च तथैव हि ॥ देयमथवा कर्त्रा यथाचारं तदिष्यते । श्राद्ध त्वापोशनजलद्वयं कत्रैव केवलम् ॥ प्रदेयं शास्त्रतो धर्मान्न तु पत्न्या कदाचन । तदापोशन की लालतत्पुत्रत्वैकनिष्क्रयम् ॥ प्रतिवर्षं भवत्येव तस्माद्देयं स्वहस्ततः । तदापोसनकीलालं तादृशं पितरोऽस्य वै ॥ पुत्रदत्तं प्रकाङ्क्षन्ते पातुं विप्रमुखेन वै । ये तस्मात्पितृकामार्थ प्रत्यब्दादिषु भक्तितः ॥ आपोशनद्वयजलं विप्रहस्ते स्वहस्ततः । मुञ्चन्ति भुक्ता तनयाः त एव स्युर्न चेत्तु ते ॥

तज्जाता न भवन्त्येव नास्येते तनयाः स्मृताः । परा वृथा ॥

नैषां पिता सो न भवेत् माता

[[१५२]]

मार्कण्डेयस्मृतिः

ये के वा तान्न जानीमः तत्पिता कोऽपि कीर्तितः । नानयोः पितृपुत्रत्वधर्मोऽयं वा कथं भवेत् ।

श्राद्धीयापोशनयुगजलदाता कथं पितुः । सुतो भवेदयं मूढस्तस्मादेतस्य केवलम् ॥ तस्मिन् कर्मणि कर्तृत्वं सर्वश्राद्ध ेषु सन्ततम् । आपोशनद्वयजलदानतो नान्यतो मतम् ॥ अग्नौ कृतेषु श्राद्धेषु विप्राभावप्रयुक्तितः । अर्ध्या च मारकीलादे भूमावेव विनिक्षिपेत् ॥ आपोशनद्वयजलमात्रं केवलमुच्यते । अग्नावेव प्रदेयं स्यादिति वेदानुशासनम् ॥

एवं स्थिते प्राकृतेऽस्मिन् श्राद्ध प्रत्यादिकादिके ।

विप्रहस्ते तयोश्चापोशनद्वयशम्बरम् ॥

प्रदेयमस्मिन्नित्यर्थे को वा स्याद्विशयोऽधुना । पुत्रहस्तजलंयत्तत्प्रोक्षितं विक्षितं तथा ॥ वस्तुजातं स्नुषापकं पितॄणाममृतं भवेत् । अपिपुत्रशतैर्जातैः तर्पणं पैतृकं तु यत् ॥ न नष्टं प्रभवत्येव यथापोशनपाथसा । जातस्य पुत्रमात्रस्य तदेव फलमुच्यते ॥ आपोशनद्वयजलप्रदानं श्राद्धकर्मणि । विप्रहस्ते भुक्तिकाले नान्यद्यत्तु तथा स्मृतम् ॥ पित्र्येषु वा दैविकेषु सन्ततं भुक्तिकर्मसु । विप्रहस्ते स्वहस्तेकदत्तं कं विश्वकृत्यकृत् ॥ कर्तृ हस्तप्रत्तजलं स्वीकुर्यान्न तु योऽपि वा ।

सनस्य वन्द्यः स्वीकार्यो वामदेवो गदाधरः ॥ व्यासः पराशरो वापि स साक्षात्कव्यवाहनः । दैवत्वेन ह्ययं भाव्यो विप्रो विप्रस्य सन्ततम् ॥ स एवापोशनजलगाहकः प्राश्य एव हि । यस्यान्नं यः समश्नाति तस्य न स्यात्पितेव वै ॥ वन्द्यः पूज्य उपास्यश्च ग्राहकोन्यो न चापरः । भावदुष्टो न भोज्यः स्या ( ) रोङ्गरिक्तकः ॥

A

दुर्मुखः पिशुनोरूक्षः पङ्क्तिहा पङ्क्तिदूषकः । भुक्तिकाले विप्रपङ्क्ति पात्रान्नगाप्रदूषकः मृदुच्छिष्टादिना पापिपङ्क्तिहेति प्रकीर्त्यते । पितृश्राद्धत्रयं यो वा विप्राभावे न केवलम् आमे व प्रकुर्याच्चेत्पुनरसंस्कारमर्हति । सर्वयत्नेन महता प्राणैः कण्ठगतैरपि ॥

विवाहे पाकक’ णां योग्यतावर्णनम्

[[१५३]]

पित्रोः प्रत्याब्दिकश्राद्धमनेनैव समन्त्रकम् । स्वपनी बन्धुहस्तै ककृतान्नेन समाचरेत् ॥ न्यायार्जितेने क्षितेन प्रोक्षितेनातिभूतिना । सम्यक् स्पर्शयते नापि पृथिवी तेतिमन्त्रतः । ब्राह्मणाभावे अनुकल्पः

कदाचिद्दर्लभे विप्रे भोक्तुं कीकटदुर्गमे । कृत्वा सव विधानेन समन्त्रं तदनन्तरम् ॥

अन्नत्यागं क्षितौ कृत्वा परिषिच्या ( ? ) नं ततः । प्राणापानादिभिमन्यैः याबद्वात्रिंशदाहुतीः ॥

जुहुयादनले सम्यङ्मधुवातादिपूर्वकम् । सव कर्म समाप्याथ पिण्डदानं समाचरेत् ॥ परेऽह्नि तर्पणं कुर्यादथवा शम्बरेऽखिलम् । तदन्नं निक्षिपेद्वापि सर्वमूय ततः परम् ॥ उत्तराङ्ग च निखिलं विप्राभावे त्वयं विधिः ।

अलाभे श्राद्धभोक्तृणां तस्मिन्नहनि केवलम् ॥ येन केन प्रकारेण श्राद्धं कृत्वा ततः पुनः । विप्रसंलब्धितः पश्चात् अन्नश्राद्धं समन्त्रकम् ॥ प्रत्यादिकाख्यं कुर्वीत न चेचण्डालतामियात् ।

नष्टतातो विप्रमात्रः प्रत्यब्दाख्यं विधानतः ॥

स्वान्नेनैव स्वहस्तेन स्वगृहे तत्समाचरेत् । कदाचित्स्वगृहे देवाद्दुर्लभे सति तद्दिने ॥ यस्य कस्य गृहं वापि तदा विक्रयणादिना । श्वयत्वेनैव संपाद्य कृत्वा तत्स्वामिवाक्यतः ॥ तस्मिन् ततस्तत्कुर्यात्तु न कदाचित्पराश्रये विवाहेऽन्नस्य पाकाय सर्वे बन्धुजनाः पराः ॥१५४

माकण्डेयस्मृतिः

विवाहे पाककर्तारः

संभोज्यान्नाः पराश्चापि सगोत्राश्चासगोत्रिणः । श्रोत्रियस्वीयभाषाश्च संग्राह्या एव केबलम् ॥

कल्याणपङ्क्तावेकत्र गायत्र्या प्रोक्षणं भवेत् । देवसवितः प्रसुवेति पृथ्वीतेपात्रमित्यपि सर्वत्र चैतस्त्वन्नमित्युक्त्या च ततः पुनः । नानाविधेभ्यो गोत्रेभ्यो नानानामभ्यइत्यपि ॥ प्रतिपात्रस्थितान्नानि तस्मै तस्मै पृथक् पृथक् ।

दास्यामि सममेत्येव श्रीरधारां क्षितौ न्यसेत् ॥

ब्रह्मभोजन कृत्येषु सर्वेष्येवाविशेषतः । तदिष्टदेवतारूपब्राह्मणा इति चेतसा ॥

संध्या बोधयित्वैव भावयित्वा स्वचेतसा ।

प्राजापत्यामृचं जप्त्वा ध्यात्वा तां देवतामपि ॥

तथाच यं तु नदयो यजुस्तच्च जपेत्तथा । अयं साधारणो धर्मो विप्रभोजनकर्मणि ॥ पतितान् वर्जयेत्पङ्क्तौ पचपातकिनस्तथा ।

जातिभ्रष्टान् दुष्कृतांश्च परिविन्नादिकानपि ॥

कुण्डांश्च गोलकान् व्रात्यान् आरूढपतितानपि ।

यत्नेन वर्जयेद्दूरात् तथा माहिपकानपि । संन्याससंदेहनष्टाश्रमिणः शापदूषितान् ॥

चर्यया निन्दितांस्तुच्छान् भ्रष्टान् देवलकानपि । विशेषदीक्षितान् शैवान् तथासमय दीक्षितान् ॥

निर्वाणदीक्षितान्खर्व चक्रमण्डलदीक्षितान् । चक्रराजगदाखड्गशाङ्ग सौपर्णदीक्षितान् ॥ पक्तिभ्रष्टान् भोजयेन्न देवत्राह्मणपक्तिषु ।

ये ब्राह्मणविशेषाः स्युर्जात्याचारादिसद्गुणैः ॥

विलक्षणा वेदशास्त्रसंपन्नाः सच्चरित्रकाः । व्रतसंकल्पनियमस्वानङ्गीकृतभुक्तयः ॥ त आमेनैव तत्काले संभोज्या एव केवलम् । स्वीकृतस्वकरप्रत्त सर्वतोमुखपायिनः ॥

एकपक्तिदूषितानावर्णनम्

एकपक्तय इत्युक्ताः न तदीयान्नभक्षकाः ।

विप्रमात्राः सर्व एव वाला वृद्धाः प्रवीयसः ॥

[[१५५]]

शिखोपवीतिनः शुद्धवर्णा ब्राह्मण्यकेतनाः । संग्राह्याः स्युरमाप्रोक्ताः समाराधनकर्मसु ॥ उद्यतामाहृतो भिक्षां पुरस्तादप्रवेदिताम्। भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः ॥ विप्रपङक्तिप्रविष्टोऽयं शूद्रो ब्राह्मणवेपतः । भुक्तिकाले ज्ञातदेशे ज्ञातश्चेद्य ेन केनचित् ॥ कारणेन ततः सद्यः संताड्य पृथिवीक्षिता ।

तिन्त्रिणी ( तिन्तिड़ी) तुच्छ शाखाभिः निष्पत्राभिर्विशेषतः ॥

दग्धाभिर्निर्दयं सम्यक् आमासत्रयमप्यहो । निगलेन प्रबाध्योऽयं सति स्वे सर्वमाहरेत् पूर्ववन्निखिलं गात्रं रक्तश्चुताभिरेव वै । कृत्वा प्रहारैः सकरैः एवं मा कुरु तत्पुनः ॥ इत्येवं बोधयित्वैव गोमयेनाभिषिच्य च । तस्य दर्प तथोत्सेकं नाशयित्वा विसर्जयेत् ॥ तत्पक्तिदूषिता विप्राः दिनत्रयमुपोषिताः । पञ्चगव्यप्राशनेन यावकेन च केवलम् ॥ एकाहा शुद्धिमायान्ति नदीस्नानादिना तथा ।

अपात्सहस्र गायत्र्याः कूष्माण्डानां जपेन च ॥ चतुर्विंशतिविप्राणां भा ( भो ) जनेन च केवलम् । पुण्डरीकाक्षमन्त्रस्य जपेन च विशेषतः ॥

यथाशक्त्या कृतार्थाः स्युः शूद्रपक्तिप्रदूषिताः । सकृन्मात्रस्य चैतत्स्यादावृत्तौ चेत्तथा तथा ॥

सत्कृत्यस्यानुमेयं हि चैवं चेत्तु दिनाष्टके । चापाप्रस्नानदशकं कूष्माण्डजपपूर्वकम् ॥ । कृत्वोपनयनाख्यस्य कर्मणः करणं तथा । गायत्रीदशसाहस्रजपोब्राह्मणभोजनम् ॥

शक्तया कृत्वा ब्राह्मणाय गां दद्यादिति निष्कृतः । प्रचोदिता हि विद्वद्भिरन्यथा पतितस्स तु ॥ सर्वेषामपि विप्राणां समाराधनकर्मणि ॥

[[१५६]]

मार्कण्डेयस्मृतिः

ब्राह्मणभोजने आपोशनप्रदाता

बिप्रभोजनमाऽपि तदापोशनपाथसः । स्वयमेव प्रदाता स्यान्मुख्योऽयं कल्प उच्यते जामितायां स्वस्य वेत्तु तद्दात्री सहधर्मिणी ।

पुत्रपौत्रश्च तत्पल्या शिष्यत्विग्बन्धुरातयः ॥

तत्प्रदातार उच्यन्ते यथाश्राद्धं तदा तदा । श्राद्धकर्तरि दाढर्थेन विद्यमानो तदातराम् तत्पत्नीपैतृकेविप्रहस्त आपोशनशंबरम् । न दद्यादेव नितरां यदि दद्यात्तु सा पुनः ॥ अपुत्रिण्यथवा नित्यदरिद्रा दुर्भगा भवेत् । तस्माच्छ्राद्ध ेषु सर्वेषु स्वयमापोशनाम्बु तत् ॥ विप्रहस्ते प्रक्षिपेत्तु श्राद्धकर्तेव पात्रगम् । पात्रान्तरस्थितं तोयं चण्डालत्वं गतस्य तत् ॥ मद्यपत्वैकदुष्टस्य जनस्य पापिनः । सर्वसंकीर्णदुष्टम्य जनप्रामैकविद्विषः ॥ अतिदुष्टस्य तुच्छस्य गुरुतल्पगतस्य च । स्तेयिनो चौर्यजनक मातुलघ्नस्य केवलम् ॥

पितृव्यस्य पितुर्वापि तादृश्या मातुरेव वा ।

द्वादशाब्दात्परं मृत्योः कृतकार्यस्य शास्त्रतः ॥

एकोद्दिष्टत्वेनतरां विहितस्य सदैव हि । पैतृकस्य प्रत्यब्दत्वेनैव प्राप्तस्य तस्य हि ॥ द्वयोरपि ब्राह्मणयोः दैवे पित्र्ये च संस्थयोः । हस्तयोरन्यपात्रस्थं जलमापोशनाय वै ॥ प्रदेयमन्यहस्तेन न स्वहस्तेन कर्म तत्। तादृशं कथितं सद्भिरिति वेदानुशासनम् ॥ अयं भावः प्रकथितः पुराविद्भिर्महात्मभिः । पुत्रस्य जननात्पश्चात्पिता दुर्बुद्धितो यदि चण्डालो यवनो भिल्लो जायते स्वयमेव वा ॥

यस्व पिता चण्डालत्वादिकं प्राप्तस्तद्धर्माः

परपीडादिना वापि बलाद्वा कामकारतः । पूर्वजातस्तत्तनयो निर्दुष्टस्सच्चरित्रकः ॥ तेन सद्भिर्वोपनीतो न संकीर्णश्च कैरपि । कृतनित्यक्रियः सम्यक् कृताध्ययन सत्क्रियः जातः परं मृतस्तातस्तादृशो भवनात्मकः । मृतौतस्यास्य पुत्रस्य नाशौचं नोदकक्रिया । यदा प्रभृति स भ्रष्टस्तदा द्वेषः स्वयं परम् ॥

तत्कर्तव्यानि सर्वाणि पैतृकाणि विशेषतः । कुर्यादेव विधानेन न चेद्धर्मादयं तराम् ॥

पतितस्य पुत्रेण कतव्यश्राद्धविधिवर्णनम्

[[१५७]]

भवेत्तु पतितः सद्यः श्राद्धत्यागात्तथा भवेत् । तादृशे पतिते ताते तनयस्यास्य वै सतः ॥ मृतेऽपि नैव चाशौचं सपिण्डो नोदकक्रिया ।

नावगाहः प्रकथितः मातुश्चाप्येवमेव हि ॥ चण्डालादिगतायाश्च सुरापायी विशेषतः । ब्रह्मघ्न्या अपि भर्तृहन्याः भ्रूणादिघ्न्याश्च सर्वतः ॥ चोदितं स्वर्णहारिण्याः मर्यादा द्वादशाब्दिकम् । अत्यन्तकरकृत्येषु द्विगुणं तस्य तत्स्मृतम् ॥

ततः परं पितृत्वादि धर्मोद शेन केवलम् । तदुद्द शक्रियां कुर्यात् तादृग्गुणविमुक्तये ॥ गंगातीरे सेतुपृष्ठे पुण्यक्षेत्रेषु कुत्रचित् । तत्क्रिया विहिता ( ? ) सर्वथा यत्रकुत्रचित् ॥ न कुर्यादेव नितरां तस्मात्तत्रैव तच्चरेत् । तदशीत्युत्तरशतसहस्रपरिमाणतः ॥ तानि कृच्छ्राणि कृत्वैव तृणसंस्कारतश्चरेत् । चतुर्विंशतिवर्षाणां परं वा द्वादशाब्दकात् ॥ सर्वं तत्प्रेतकृत्यं च धर्मशास्त्रोक्तवर्त्मना । कुर्यादेव स्वयं पुत्रः कृपादानस्य एव वा ॥ ज्ञातिर्यः कश्चन कृपायुक्तो मुक्त्यैव तस्य हि ।

तादृशस्यास्य पापस्य प्रत्यब्दे तस्य पुत्रकः ॥

पतितस्य पुत्रेण कर्तव्यश्राद्ध विधिः

एकोद्दिष्टविधानेन कृत्यं कुर्याद्विधानतः । सपिण्डीकरणे तस्य वस्वादीनां समष्टितः ॥ एकमेव क्षिपेत्पिण्डं एतस्याप्येकमेव हि । निक्षिप्य पिण्डं तेनैतद्योजयेदेव केवलम् ॥ विमेव ततो ज्ञेयं प्रतिसंवत्सरं ततः । एकोद्दिष्टविधानं स्यात्तौ देवौ कालकामकौ ॥

तादृशस्यास्य तच्छ्राद्ध जलपात्रं स्थितं तु यत् ।

अर्चनार्थ प्रथमतः स्वीकृतं मन्त्रपूजितम् ॥

तस्मादुद्धृत्य तन्नीरं तत्स्थानापन्नयोस्तयोः । द्विजयोर्हस्तयोः पूतं तदापोशनकर्मणे स्वहस्ततः स्वयंकर्ता कृत्येऽस्मिन्न नियोजयेत् । किन्तुपात्रान्तरगतं जलं प्राकृतमेव वै ॥ समानीतं येन केन तदापोशनकर्मणः । प्रदेयमन्यहस्तेन न स्वहस्तेन सर्वथा ॥

[[१५८]]

मार्कण्डेयस्मृतिः

तस्य शाकत्रयं श्राद्ध माषसूपो विधीयते । तदभावे तौवरिकः समौद्गः सर्वथा मतः ॥

क्रीताज्यमेव तस्यास्य न शरण्यं विधीयते ।

दक्षिणाभिमुखाद्भुक्तिः विश्वेषां वरणं परम् ॥

पितुः स्याद्वरणं पूर्व पूर्वमेवाङ्गतर्पणम् । न पश्चान्न परेद्य ुर्वा श्राद्धकालस्तु संगवः ॥

सायं वा विहितस्तस्मात्कुतपो न तु सर्वथा ।

न खड्गपात्रं स्वीकार्य तथा नेपालकम्बलः ॥

विश्वेषामपि देवानां पितुस्तस्मिंस्तु कर्मणि । पादप्रक्षालनार्थाय मण्डलं पञ्चकोणकम् ॥ एकमेव भवेन्नूनं स्वागतं नैव केवलम् । नाज्यपादाभ्यञ्जनं च पवित्रं च द्विदर्भकम् ॥ देवार्थ’ कथितं सर्वैर्यत्तदेवात्र पैतृके । सदर्भत्रयतः कुर्याद्विकिरं नैव कारयेत् ॥

प्राणादिपञ्चकमनून् केवलानेव भोजने । क्रियमाणे जपेद्भूयात् श्रद्धायामितिपञ्चकान् ॥ वाक्यत्रयैकसुभगान् पवित्रानतिभावुकान् ।

न वदेदेव विधिना ते मन्त्राः किल पञ्च वै ॥

सप्तविंशतिवर्णत्वात्सवच्छन्दोतिगो भवेत् । अनन्तरो महामन्त्रा एकोनत्रिंशवर्णकः ॥ तेनैतत्कथितसद्भिः विर्राजात्किचिदूनकः । प्रराडिति समाख्यातः पितॄणामतिवल्लभः ॥ यथा वा प्रथमः प्रोक्तस्तृतीयोऽपि तथाविधः । चतुर्थपञ्चमौ चापि द्वितीयतुलितौ हितौ ॥ तथाविधानां मन्त्राणां नायं योग्यो यतो मतः । एतेनोत्तरमन्त्राश्च पश्च तेऽयतिपावकाः ॥

अत्यन्त भावुकाः शर्मदायकाः कृतिवल्लभाः ।

उत्तरापोशनात्पश्चान्न वक्तव्या महत्तराः ॥

न हविः प्रोक्षणं कुर्यादग्नौ करणकर्मणि । कुर्याद्धस्तेन होमं तं मेक्षणेन न सर्वथा ॥ देवपूजाद्वैश्वदेव ब्रह्मयज्ञात्परं तराम् । तादृशस्य क्रिया कार्या नान्नसूक्तजपस्तथा ॥ तस्याभिश्रवणं सर्व राक्षोघ्नं केवलं स्मृतम् । कृणुष्वपाज इत्येव नान्ये ते वैष्णवाः पराः

पतितस्य पौत्रेण कर्तव्यवर्णनम्

वाचनीया न वाच्याश्च पावमान्यास्तथैव वै ।

भोजनान्ते च गायत्रीं नोचरेदेव सर्वदा ॥

[[१५६]]

मधुत्रयं जपेन्नूनं नाक्षन्नमी महामनाः । पृथिवी ते मनुं नैव वदेत्तूष्णीममन्त्रकम् ॥

अन्नाभिमर्शनं कुर्यादेतत्ते लौकिकेन वै ॥

पतितस्य पौत्रेण कर्तव्यम्

शिष्टं सर्व समं ज्ञेयं तादृश्या मातुरप्युत ।

श्राद्धमेवं विधं कुर्यात् अन्यथा किल्बिषी भवेत् ॥

पितुः कुर्वन्नपि श्राद्धमेकोद्दिष्टविधानतः । प्रत्यब्दमेवंविधिना पुरा यत्तु यथाकृतम् ॥ पितामहस्य तच्छ्राद्धं सांगोपाङ्ग कसंयुतम् । यावज्जीवं तथा कुर्यात् न त्यजेद्यदि तत्त्यजेत् ॥ अधिकप्रत्ययवायी स्यात् तेन स्वकृतपुण्यतः । च्युतो भवति तस्मात्तु तद्यथोक्त’ समाचरेत् ॥ तत्पुत्रास्तु ततो भूयः स्वपितुर्मरणात्परम् ।

त्यक्त्वा पितामहं पापं तादृशं रूपमास्थितम् ॥

I

प्रपितामहमुख्येषु पिण्डेषु त्रिषु तेष्वपि । त्रिधाकृतं पितुः पिण्डं योजयेरन्निति स्थितिः सपिण्डीकरणश्राद्ध द्वादशेऽहनि धर्मतः । तत्पुत्राश्च तथैव स्युस्तत्पुत्रा अपि तत्तथा ॥ मातुरप्येवमेव स्यात्तादृङ्मातामहस्य च । एवमेव विजानीयात्सर्वत्रापि पुनश्च तत् ॥

पाककर्यः

तस्मात्पाकक्रियामात्रे श्राद्धकर्मणि सन्ततम् । प्रकत्र कथिता पत्नी मुख्यत्वेनैव शास्त्रतः ॥ मातापितृव्यपत्नी च पितामह्यादिकास्तथा ।

ज्ञातिपत्न्यः संनिकृष्टाः न तत्तुल्याः प्रकीर्तिताः ॥

[[१६०]]

माकण्डेयस्मृतिः

पत्नीशब्देनैव सर्वाः भ्रातृपत्न्यः प्रकीर्तिताः । स्नुषास्तत्तुलिताः सर्वाः स्वगोत्रा उत्तमा मताः ॥ पितृष्वसा मातृष्वसा भगिनी मातुलान्यपि । श्वश्रूमुख्यास्तथा चान्याः मध्यमाः परिकीर्तिताः ॥ यद्यप्यासामन्तरङ्गत्वमस्त्येव तथापि हा । एता यतो भिन्नगोत्रास्ततः स्युर्मध्यमा तथा । । सत्यो बान्धवा नूनं विज्ञातास्स चरित्रकाः । समान भाषा धर्मादिगुणिनो ज्ञातपौरुषाः ॥ स्वचेतसोऽधिका श्रेष्ठा अनूचानकुलोद्भवाः ।

संभोज्यान्ना निर्विवादात् बन्धुतुल्या अबान्धवाः ॥

अधमाः कथिताः सर्वाः श्राद्धपाकाय शास्त्रतः । स्नुषापाकः पितॄणां हि परमो मधुमत्तरः तदुदुर्लभेनाप्यपाकः तुलितस्तेन धर्मतः । पुत्रपाकः पौत्रपाकः नप्तृपाकस्तथाविधः ॥ भ्रातृपाकादिकास्सर्वे तुलिता एव केवलम् । उत्तमत्वेन निर्दिष्टाः पितॄणां प्रीतिवर्धनाः ॥ असंभवेस्नुषादीनां संभवे तान्परास्त्वति । सुमङ्गल्याश्च पुत्रिण्यः अनिवृत्तरज़कस्ककाः

अत्युत्तमा इति ज्ञेयाः पाककर्मणि पैतृके ॥

श्राद्धपाक्यनर्हाः

भिन्न भाषाकृतः पाकः रण्डापाकश्च गर्हितः ।

श्वित्रिणीकृतपाकस्तु सर्वेषां मादको भवेत् ॥

शिवत्रिणीदर्शनात्सर्वे निखिलाः पितरस्तु ते ।

एतत्कव्यं न गृह्णन्ति हव्यं देवाः जगुः पिताः ॥

श्राद्धकर्मणि विशेयं भिन्नभाषाकृतं तु यत् । हालाहलनिभं तत्स्यात् पकान्नं तेन तत्त्यजेत् ये भिन्नभाषास्तैः सर्वैः श्राद्धकर्मणि केवलम् । लेपनं मार्जनं धूली ( १ ) जनमेव च ॥

श्राद्ध विधानवर्णनम्

श्राद्धं पाकानर्ह कृत्यम्

[[१६१]]

पात्रादीनां क्षालनं च शलाटूनां विशेषतः । खण्डनादिक्रियाणां च समीकरणमञ्जसा ॥ जलेध्मानयनं सर्वसूपतण्डुलधावनम् । तथा तत्क्षालनं चापि जलसंबन्धपूर्वतः ॥ (त)दभियोगकार्य तद्वर्जयित्वाखिलं मनुम् । सिक्तधान्यादिपिष्टानां करणं केचिदू चिरे ॥ फलादीनां तथा भूयः समीकरणखण्डने । प्रशस्तेति यमः प्राह गुडताडनमेव च ॥ अपकानामतप्तानां वस्तूनां स्पर्शनं तथा । तत्तद्वस्तुविशेषैश्च योजनं केचिदृचिरे ॥ गन्धाक्षतादिकरणं सगोत्रैककृतं परम् । धान्यान्यन्यानि वस्तूनि संगृह्णाति पितॄन् प्रति यदातदादिपितरः सुस्वस्था दृष्टचेतसः । तिछ्रुन्त एव नितरां इव ते कृतभोजनाः ॥ तस्माच्छ्राद्धदिनात्पूर्व अच्दार्थत्वादिकालतः । पूर्वमेव प्रयत्नेन संगृह्णीयात्स्वशक्तितः ॥ तत्संभारान् यथाकामं तत्तृप्त्यर्थं महामनाः ।

शक्तभावे तु नितरां तच्छ्राद्धीयकथाः शुभाः ॥ तच्चरित्राणिचित्राणि स्वकृतास्तन्निमित्ततः । क्रियास्तास्तास्तत्र तत्र कथयन् स्वाप्तबन्धुभिः ॥

नयेद्दिनानि शनकैस्तावन्मात्रेण ते परम् । तत्तत्स्वोयकथामात्रमुदिताः शान्तमानसाः ॥

अस्मासु कुरुते भक्तिमिति निश्चित्य मत्सुतः ।

अस्मच्छ्राद्धं च विधिवत्करोत्येवेत्यतस्त्विति ॥

निस्संशयेन वर्तन्ते ततो नित्यमतन्द्रितः । वस्तुसंपादनाशक्तः प्रभवेत्तत्कथापरः ॥ मासद्वयात्पूर्वमेव धान्यावहनसंशुचौ । स्थले सम्यक् कारयीत संगृह्णीयाश्च तण्डुलान् ॥ शुद्रकुम्भकुलेषु गोपयेच्च स्वशक्तितः । मासमात्रात्पक्ष मात्रादथवात्वादिनाटकात् ॥ धान्या वहननं सम्यक् कारयीतैव पूर्वतः । दिनत्रयाच्छक्त्यभावे पूर्वस्मिन् दिवसेऽपि वा संपादनं तण्डुलानां कुर्यादेव विधानतः । सर्वाभावे तु सुतरां येनकेनाप्युपायतः ॥

सद्यो वा तण्डुलान् सम्यक् दारिद्र्यापत्सु संकटे ।

राष्ट्रक्षोभे जनक्षोभे नियमो नेति वेदिनः ॥

[[११]]

[[१६२]]

मार्कण्डेयस्मृतिः

महात्मानः प्रोचुरिति तण्डुलक्षालनोदकम् । श्राद्धात्पूर्व गवां पानकार्यार्थं न नियोजयेत् ॥ काकास्पृष्टं यथा तत्स्यात् गोपयेत्तावदेव हि ।

अपि मार्जाल (र) संस्पृष्टं यावद्द्ब्राह्मणभोजनम् ॥

विप्रभुक्तिश्चात्र परा तदनुप्रजनात्मिका । सर्वकार्येष्वेवमेव मर्यादाशास्त्रसंमता ॥

धान्यावहनने तस्मिन् चूर्णिता येऽपि तण्डुलाः । फलीकरणकाश्चापि पालनीयाः प्रयत्नतः ॥ गवाद्यर्थेन योज्याश्च युक्ता यद्यभवन् तदा ।

न पैतृकार्थे ते योज्याः अपि धान्येषु तेष्वपि ॥

पित्र्यर्थत्वेन क्षिप्तेषु समुद्धृत्यान्यकार्यतः । नियोजयेन्नधान्यं तद् विनियुक्त’ भवेद्यदि

कुप्यन्ति पितरः सद्यस्तस्मिन् शिष्टं तु तत्परम् । स्वेनैव भुक्तं यदि ते स्वशिष्टं स्वसुतादयः ॥ अश्नन्ति किल तेनास्म तृप्तिरेवेति सादरम् ।

स्वभोजनसमं सम्यक् मन्यन्ते प्राप्तकामकाः ॥

एवमन्यत्र भूयश्च विनियुक्तं तदीयकम् । स्वभुक्तशेषं स्वीयं हीति मन्यन्तेऽतिहर्षतः

स्वभुक्त्यनन्तरं ते वै पितरः क्षुद्विवर्जिताः ।

स्वपुत्रं च तदीयांश्च क्षुधार्तान् संस्थितान् तदा ॥ विलोक्य कृपया युक्ता अद्यास्माभिर्यथा बहु ।

चर्वितं सुखमाकण्ठं तद्वदेतैरपि स्फुटम् ॥

कर्तव्यं चर्वणं त्वय हीति वात्सल्यसंयुताः । दूयमानेन मनसा तिष्ठन्त्येव ततः किल ॥ तत्प्रीत्यै स्वजनैः सर्वैर्भक्ष्यभोज्यैर्धृ तान्वितैः । भुञ्जीयाद्यावदातृप्तिर्न चेत्ते दुःखितास्त्वति ॥ भवेयुरेव तस्मात्तु श्राद्धान्ते श्राद्धकृच्छुचिः । तच्छिष्टानखिलान्द्यात्स्वबालानां च कांक्षितम् ॥

पुत्रत्वयोग्यतावर्णनम्

तच्छिष्टानखिलानद्यात्स्वबालानां च कांक्षितम् ।

यद्यत्फलं वा भक्ष्यं वा खाद्य वा पेयमेव वा ॥

[[१६३]]

पत्रं पुष्पं चन्दनं वा ताम्बूलं पात्रमेव वा । कांक्षितं तत्प्रदेयं स्यादन्यथा तेन पूजिताः ॥

भवन्त्येव न सन्देहस्तथा तत्प्रीतये ततः ॥

भूरिभोजनम्

भूरिभोजनकर्मापि तदन्ते सम्यगाचरेत् ।

भूरिभोजन कर्मैतत् श्राद्धान्ते स्यात्स्वभक्तितः ॥

पूर्वमेवेति जगदुः केचित्तत्र पुनः परम् । परेद्य स्तर्पणान्ते वै कर्तव्यत्वेन भक्तितः ॥ विहितं कर्म तत्प्रोचु र्यतेराराधनं तथा । महात्मानो वसिष्ठाद्याः मतमेतन्महर्षयः ॥

सूत्रकाराः शौनकाद्याः धर्मज्ञा न्यायचिन्तकाः । नाङ्गीचक्रुश्च नितरां कुत एवमिति वचे (दे ) त् ॥ तत्र युक्तिपरामाहुः श्रुतिसिद्धां सनातनीम् । सिद्ध यहं समतिक्रम्य मृताहूं वा गुरोः पितुः ॥

सहस्रकोट्यद्भवेषु चण्डालः कोटिज ( ? ) । (

) वत्येव तत्सिध्यहमृताहकौ ॥ अलंघनीयौ तनयशिष्याभ्यां तु ततो यतः । इति काठकवाक्येन तथैव च पुनः खलु ॥ जीवतोर्वाक्यकरणात् मृताहे भूरिभोजनात् । गयायां पिण्डदानाच त्रिभिः पुत्रस्य पुत्रता शास्याय निब्राह्मणस्येत्येवं वैश्रवणेन च । मृतसिद्धि तिथी प्रोक्त े तयोः कालौ सुपावकौ ततः कुर्यात्सिद्धिमृतितिथ्योरेव क्रिये तु ते । श्राद्धमाराधनां पुण्यां न परेऽह्नीति निश्चयः

यो वा लोके ततो वच्मि ( ? ) स एव ब्राह्मणोत्तमः ।

आस्तिकः पितृभक्तश्च मातृभक्तोऽपि तत्त्ववित् ।

विहिततत्पितृकार्याय प्रतिवर्ष प्रयत्नतः । सर्वाण्यपि च वस्तूनि धान्यादीनि च कृत्स्नशः दधिक्षीरघृतादीनि मधुतैलगुडादिकम् । फलादीनि च रम्याणि दृष्ट (?) णितान्यपि ॥ हिरण्यं रजतं वस्त्रं पत्रं पात्रं सुमादिकम् । प्रभूतान्येव सर्वाणि संपाद्यानि स्वशक्तितः ॥१६४

मार्कण्डेयस्मृतिः

पर्याप्तान्यखिलानां च लोभशाठ्यविवर्जितः ।

सर्वेषामपि बालानां ज्ञातीनां स्वस्य केवलम् ॥

वनिताना मागतानां स्वच्छ ( ? ) शतस्य वै । यथावात्यन्तपर्याप्तानि भवेयुस्तथातराम संपादयेच्छुद्वमनाः ततः कुर्याच्च पैतृकम् । तेन ते पितरस्सर्वे तद्बालाद्यतिभक्षणात् ॥ स्वपुत्रयजमानस्य तृप्तिभुक्तिविशेषतः । अतितृप्ता क्षुन्निवृत्ताः प्रयु॑जन्त्याशिष एव च ॥

तमेनं तनयं दृष्ट्वा लोकान् तानुत्तमान् शुभान् । गच्छन्ति तस्माद्भूयिष्ठवस्तुभिस्तत्समाचरेत् ॥ शुद्ध ेन मनसा भक्त्या शुद्धद्रव्येण सन्ततम् । कर्तव्यानि ब्राह्मणेन श्राद्धानि सुबहून्यति ॥

षण्णवतिश्राद्धसंख्यानिर्णयः

दर्शा द्वादशसंख्याकाः पाताः स्युस्ते त्रयोदश । धृतयश्च तथा ज्ञेयाः मनवश्च चतुर्दश

युगादयश्च चत्वारः क्रान्तयश्चापि कीर्तिताः ।

आदित्यसंख्यया ताश्च विज्ञेयाः स्युर्विचक्षणैः ॥

महालयाः पञ्चदश अष्टकान्वष्टकाः पुनः । संख्यया द्वादशैव ( स्युः) गजच्छाया च काचन

मासि श्राद्धानि ज्ञेयानि द्वादशैवेति केवलम् ।

पित्रोः श्राद्धद्वयं चापि श्राद्धानि स्युः स्वभावतः ॥ अष्टोत्तरशतान्येवं चोदितानि मनीषिभिः । श्राद्धेष्वेतेषु सर्वेषु क्रान्तयो धृतयस्तथा ॥ ते पाताश्चापि ( ? ) गजच्छायापि सर्वशः ।

न नित्याः कथिताः सद्भिरक्लृप्तास्ते यतस्ततः ॥ तद्भिन्नान्यखिला ज्ञेयाः क्लृप्ता इति विशेषतः ।

त्वं चापि कथितमनिशा व्यभिचारतः ॥

एककालागमत्वं हि दर्शानां तत्र वच्मि वः । सर्वेषामपि चैत्रादिमा (?) वहि ॥ क्लृप्तत्वं कथितं सद्भिस्तेनैषां नित्यता स्मृता । मन्वादीनां तथैव स्यात्सर्वेषां क्रमतस्तथा

महालय श्राद्धप्रशंसावर्णनम्

[[१६५]]

चैत्रमासतृतीयादौ पौर्णमासी च तद्वयम् । तन्मासेऽत्र प्रकथितं न वैशाखे ततस्तदा ॥ ज्येष्ठमासामी ज्ञेया दशम्यापाढकी तथा । पूर्णिमा च तथा होया श्रावणस्याष्टमी परा कृष्णपक्षस्य विज्ञेया ततो भाद्रपदस्य च । तृतीयेति प्रकथिता प्रशस्ता पितृकर्मणि ॥ आवयुक्शुक्ल नवमी द्वादशी कार्तिके सिता । पूर्णिमा शुक्लपक्षस्य मार्गशीर्षे तु नैव हि ॥

पुण्यस्यैकादशी ज्ञेया माघमासस्य सप्तमी ।

पूर्णिमा चाप्यमावास्या फाल्गुने च प्रकीर्तिते ॥

जुगादयस्तु विज्ञेयाश्चत्वारः शास्त्रवर्त्मना । नभस्यापरपक्षोऽथ महालय इतीरितः ॥ पक्षसंख्यैव निर्दिष्टाः ते हि पञ्चदशैव हि । केचित्कृष्णप्रतिपदं क्षीणसोमत्व साम्यतः ॥ मासस्याश्वयुगाख्यस्य संगृह्य किल केवलम् ।

महालयास्ते कथिताः सम्यक् षोडशसंख्यया ॥

इत्यूचुः किल केचित्तु परे ते दशसंख्यया । जगदुः केचन पुनः पञ्चैवेत्यपरे तथा ॥ त्रयस्त इति भूयश्चाप्येकमेवेति केचन । प्रापणच्छिन्नत्वेनैव केचित्परं स हि ॥

महालय श्राद्धप्रशंसा

महालयाख्योऽसौ पितृणामतिवल्लभः । अत्र दत्तं हुतं जप्तं तप्तं चोपकृतं कृतम् ॥ एकैकं कोटिगुणितं अक्षय्यफलदायकम् । तस्मात्सर्वेण नितरां देहि मात्रेण भक्तितः ॥ कार्य महालय श्राद्धमन्यदा तेऽखिलास्तराम् ।

शपन्त्येनं दुःखततास्तस्मात्तच्छ्राद्धमेककम् ॥

कुर्यादेव विधानेन न चेद्दोषो महान् भवेत् । सद्यः कुलं नश्यति च श्रीरप्येषा परा भवेत् दिने दिने गयातुल्यं भरण्यां गयपस्तथा । दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः ॥ द्वादश्यां शतमित्याहुरमायां तु सहस्रकम् । एतन्महालयश्राद्धं षड्दैवत्यं प्रकीर्तितम् ॥ पक्षो महालयस्त्वेकः स मुख्य इति कीर्तितः । सकृदेव च गौणः स्यात् (तत्) पक्षोऽपि केवलम्

तथैव कथितः सद्भि द्विविधश्चेति सूरिभिः ।

षड्दैवत्यस्तत्र पूर्वः नित्यश्चापि तथा मतः ॥

[[१६६]]

मार्कण्डेयस्मृतिः ।

नानादैवतकः प्रोक्तः नाना कारुण्यसंयुतः । सोऽयं द्वयं प्रयत्नेन प्रकर्तव्यं विशेषतः ॥ पितृणामपि सर्वेषां तृप्तये तादृशो न तु । नित्योऽयं किल षड्देवः स तु चेत्सर्वदैवतः ॥ सर्वाश्च देवता एताः विज्ञेया नित्यतर्पणे ॥

महालय नित्य तर्पणदेवताः

आदौ पिता तथा माता सापत्नी जननी तथा ।

मातामहारसपत्नीकाः आत्मपत्नी त्वनन्तरम् ॥

सुतभ्रातृपितृव्याश्च मातुलारसह भार्यकाः । दुहिता भगिनी चैव दौहित्रो भागिनेयकः पितृष्वसा मातृष्वसा श्वशुरो गुरुरर्थिनः । स्वामी सखा तथाचार्यस्तथैव स्यालकः परः पितृतीर्थैस्तर्पणीया देवताः पितृरूपकाः । कारुण्या इति विज्ञेयाः एतेषां प्रतिवत्सरम् ॥ महालयाख्यं तच्छ्राद्धं कर्तव्यं श्रेय इच्छता ।

एतेषां तादृशे श्राद्धे अर्ध्य पिण्डं पृथक् पृथक् ॥

प्रदेयमेव विधिना न चेद्दोषो महान् भवेत् । आदौ संकल्पकाले तु सर्वानेव समुचरेत् वसुरूपत एव स्यात्तदुच्चारणमप्युत । तदा तदा कर्ममध्ये समुच्चारणके परे ॥

संप्राप्ते तु तदातीव कारुण्यानिति तान् वदेत् ।

अर्ध्यकाले पिण्डकाले नामगोत्रादिभिस्तराम् ॥

समुच्चरणमेव स्यात् तयोर्भिन्नस्थलेषु चेत् । यथारुच्येव तु परं कारुण्यानित्युदीरणम् तदा किमर्थमित्युक्त तत्प्रयोगस्य वै तदा । सौलभ्यायेति कथितं पुनस्तेषां तथैव हि ॥

आवाहनप्रकारः

सौलभ्यायैव वरणं विप्रसंग्रह एव च । शक्तौ सत्यां एकैकस्य चैको ब्राह्मण एव हि ॥ अशक्यविषये सर्वविप्राणामेकविग्रहे । आवाहनं सौकर्याय तस्मिन्महालये पुनः ॥ पाक्षिके प्रथमे ये स्युः दिवसे ब्राह्मणाः स्मृताः । त एव सर्वपक्षस्य विनैव वरणं पुनः ॥ आवाहनं च निखिलं कार्यमेवेति सा श्रुतिः । अयमेकप्रकारः स्यादक्षिणा च तथा स्मृता ॥

सकृन्महालय श्राद्ध कालनिर्णयवर्णनम्

[[१६७]]

पक्षान्ते किल देयेति प्रतिनित्यं पृथक् पृथक् । प्रदेयैवेति च पुनः प्रकारः कथितः परः ॥ पक्षोऽयं यमलोकस्य शून्यकारक उच्यते । पितॄणां स वरो दत्तो देवदेवेन विष्णुना ॥ नभस्यापरपक्षादि यावद्वृश्चिकदर्शनम् । पितॄणां भूतलावासः पुत्रदत्तैकभुक्तये ॥ अतो मनुष्यमात्रो यः पितृणामतितुष्टये । श्राद्धं महालयाख्यं तत्कुर्यादेव विधानतः

यस्तस्मिन् तादृशे काले पितृनुद्दिश्य धर्मतः ।

न करोति नरः श्राद्धं तं शपन्त्यस्य तेऽखिलाः ॥

नित्याश्च पितरो ये तु कारुण्याश्चापि केवलाः ।

तु

विश्वैर्देवैश्च सहिताः विष्णुना कुपिता ध्रुवम् ॥

अस्मिन पक्षे गजच्छाया नामकं श्राद्धमेककम् । यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ॥

याम्या तिथिर्भवेत्सा तु गजच्छाया प्रकीर्तिता । सकृन्महालय श्राद्ध करणं सकृदेव हि यदा भवति चेत्तस्मिन् गौणपक्षे दिनादिकम् । सम्यगालोक्य कार्य स्यादन्यथा बाधकं भवेत् ॥ पतिपत्नीभाग्यसंपद्मवृत्तिविनाशनम् । भवेदेव न सन्देहस्तस्मादुक्तप्रकारतः ॥

कुर्यान्महालय श्राद्धं तादृशं पितृ तृप्तये ॥

सकृन्महालय श्राद्धकालनिर्णयः

सकृन्महालयश्राद्धममावास्याकृतं यदि । अनालोक्यैव शास्त्राणि ज्येष्ठपुत्रो विनश्यति ॥ पत्नी वा पशवो यद्वा सौभाग्यं वस्तुवाहनम् । वृत्तिक्षेत्राणि वा गेहाः लयं विन्दन्ति तत्क्षणात् ॥

तस्मादमायां यत्नेन न कर्तव्यं विपश्चिता । सकृन्महालय श्राद्ध सत्यमेव मयोदितम् ॥ चतुर्दशी तु सा ज्ञेया ये वा शस्त्रहता नराः । विषोद्बन्धनघाताद्यर्जलसर्पाभिपातनैः ॥ दुर्मृता ये पापकर्मविशेषैस्त्यक्तजीविनः । तेषामेव प्रशस्तानां न तस्मात्तु तदाचरेत् ॥

[[१६८]]

मार्कण्डेयस्मृतिः

द्वादशी तु यतीनां स्यात् प्रशस्ता पितृकर्मणि । तस्मात्तस्यां तु तत्कर्म तेषामेव परा स्मृता ॥

सुमङ्गलीनां नवमी प्रशस्ता परलोकदा । तस्यामेव ततः कार्य सकृन्महालयाख्यकम् ॥

अत्यन्तासाधारणेन पूर्वोक्तानां तु ताः स्मृताः । तिम्रोऽपि तिथयः सद्भिश्चतुर्थी चापि केवला ॥ रिकानां प्रथमा यम्मान तादृशे कर्मणि त्वियम । न मुख्यैवेति विज्ञेया तम्यां कर्ता तु केवलम् ॥ रिक्तत्वमेव प्राप्नोति तस्मात्तां संपरित्यजेत् । शेषाः म्युस्तिथयः सर्वाः दश ख्याताः सुपावनाः ॥ सकृन्महालयाख्येऽस्मिन् सर्वेषामपि सन्ततम् । पितुर्मृ’ ततिथिः पुण्या तम्मिन् कर्मणि केवलम् ॥ विना चतुर्दशी दर्श द्वादशीमपि वच्मि वः ।

तास्तिथयः स्युर्व गृहिणोऽस्य तथाविधाः ॥

चतुर्दशी द्वादशी च दर्शस्तेषु न चाचरेत् । सकृन्महालयश्राद्ध पितृश्राद्धतिथिः परः ॥ अत्युत्तम इति ख्यातः आचारश्च तथाविधः । सर्वदेशेषु पुण्येषु क्षेत्रेषु विविधेष्वपि ॥ सर्वाभ्यर्हितकर्मेतत् पितॄणामतितृप्तिदम् । अतिप्रशस्तं विज्ञेयं पितॄणामतितृप्तिदम् ॥ वृपोत्सर्जनमत्यन्तं परलोकैकहेतुकम् । गयाश्राद्धं तथा ज्ञेयं गौरीदानं च तादृशम् ॥ सकृन्महालय श्राद्धं यमयज्ञः सुपावनः । ततोभयमुखीदानं पनसागप्रपालनम् ॥ तत्प्रतिष्ठापूर्वकेण तज्जन्यफलदानकम् । तत्प्रीत्यै शुद्धचित्तेन समानानीति चोचिरे ॥

महालय श्राद्धफलम्

यः पञ्चवारं मतिमान् कुर्यात् पक्षमहालयम् ।

तस्य नन्दन्ति पितरः सर्वान् कामांस्तु पुष्कलान् ॥

प्रयच्छन्त्येव भूयश्च कृतार्थास्ते मुदा युताः । संघीभूयास्य तु स्वप्ने समागत्यैनमीदृशम्

एकाष्टका विधिवर्णनम्

इमां वाचं वदन्त्येव रे रे पुत्र वयं त्वया ।

कृताः कृतार्थाः संतृप्राः सुखनित्या कृतास्तराम् ॥

[[१६६]]

प्रापितास्तत्पदं विष्णोः सुमहच्चक्रपाणिनः । तस्मादितः परं भूयः कमैतत्पावनं शिवम् अतिप्रयत्नसाध्यं हि मा कुरुष्व महानपि । अस्मदर्थं कृतं साधो महत्तत्कृतवानसि ॥ महालयं तं पक्षाख्यं वदन्त्येवं सुनिर्वृताः । न संशयोऽत्र कर्तव्यः कर्मेतत्तादृशं महत् ॥

पुनः पुनः प्रवक्ष्यामि तत्परं तादृशः पुनः ॥

एकाष्टका विधिः

अष्टकाख्या द्वादश स्युः पैतृकानित्यनामकाः । माघकृष्णामी पुण्या ज्येष्ठया या युता भवेत् ॥

सैकाष्टका प्रकथिता महती श्रुतिचोदिता । तस्यां सायमपूपं चतुश्शराबैक संमतम् ॥

अष्टाकपालसंयुक्त’ कृत्वा होमं विधाय च ।

शिष्टः स ब्राह्मणेभ्यो वै प्रदेयो भक्षणाय 11 ते स्युः श्राद्धस्य भोक्तारः परेद्यस्तत्परं पुनः । कृत्यं सर्वं विधायैव परे स्तान्निमन्त्र्य वै ॥

ब्राह्मणान् विधिना शिष्टान् उत्तरानखिलान्मनून् ।

मुखान्ते जुहुयादेव प्रतिष्ठाप्य हुताशनम् ॥

आज्याहुतीश्च सर्वेषां वपादीनां विधानतः । जुहुयादेव विधिना होमशेपं च तत्समम् निर्वर्त्य पश्चान्मध्याह्न मासि श्राद्धविधानतः ।

श्राद्धं कुर्याद्विधानेन न चेद्भूयो विधानतः ॥ दध्यञ्जलाख्यकं कृत्वा रात्रौ भक्तया ततः पुनः । यथापूर्व श्राद्धमानं कुर्यादेव विधानतः ॥

एवं कृते तु सर्वेषामष्टकानां तु यत्फलम् । तत्फलं समवाप्नोति सत्यमेतन्मयोदितम् ॥ लघूपायोऽथ भवतां मयायं प्रतिपादितः । गवालम्भो निषिद्धोऽत्र योऽयं सूत्रप्रचोदितः

[[१७०]]

मार्कण्डेयस्मृतिः

कलौ तु नितरां तस्मात् (च्छा) श्राद्यमात्रं तु तत्पुनः । यथोदितं तथा कुर्यात् एवं द्वादशवारतः ॥

अब्देषु तादृशेवेषु कुर्याच्चेत्तु विचक्षणः । पितरोऽस्य भवन्त्येव नित्यतृप्ता मुदायुताः पूर्ववत्प्रवदन्त्येह कर्मैतदतिपावनम् । तादृशं सर्वकामानां पूरकं तारकं महत् ॥ मार्गशीर्षादिमासेषु कृष्णपक्षेषु ताः स्मृताः । सप्तमी नवमी चापि ते तेऽन्वष्टकनामके ॥ तिथी पुण्ये सुप्रशस्ते तन्मध्ये त्वष्टमी शिवा । अष्टमीतिप्रकथिता मासेष्वेषु चतुर्ष्वपि ॥ विज्ञेया द्वादश पुनः तच्छ्राद्धतिथयः क्रमात् । सर्वश्राद्धेषु गृहिणो वह्निरोपासनो भवेत् - सपिण्डकेषु श्राद्वेषु नापिण्डेषु कदाचन । एवं षण्णवतिश्राद्धक्रमोऽयं वै निरूपितः ॥ श्राद्धभेदाः नान्दीश्राद्धस्वरूप विचारः

पुनः श्राद्धानि कानि स्युघृतश्राद्धं च दाधिकम् । तीर्थश्राद्धं भौक्तिकं च जीवश्राद्धं च नामतः ॥ विलक्षणं तच्छ्राद्धानां चत्वारिंशत्तत्कदैवितम् ।

नित्याख्यं श्राद्धमेकं स्यान्नान्द्याख्यमपरं तराम् ॥

विलक्षण हि सर्वेषां श्राद्धशब्दस्तु तत्र वै । अत्यन्तपार्थक पितृसंबन्धादेव ते तु वै ॥

[[1]]

देवत्वेनैव नितरां वन्द्याः सिद्धाः शिवाङ्गिनः ।

स्वश्रेय सैकशरणाः सुप्रसिद्धाश्च शास्त्रतः ॥

[[11]]

यदा यदा यत्र यत्र प्रवेशः स्यात्तु मन्त्रतः । अमी च किल देवानां तत्र तत्र तदा तदा ॥-

धर्मास्सर्वे विरुद्धा स्ता (स्ते) लक्षणं च पृथक् पृथक् ।

दर्भाः सुमनसचित्राश्चन्दनं तनुलेपनम् ॥

महासुगन्धतैलादि हारिद्राकुंकुमादयः । मालिकाश्चूतपत्रौघमहालंकरणादिकम् ॥

वितानानि च शुभ्राणि रम्भापूगफलान्यपि ।

काण्डानि कदलीनां च कर्णिकारध्वजाश्रमाः ॥

महारग्वधपालाशपूगखादिरगोमुखाः । वाद्यालम्भनपूर्वाश्च दिव्यनीराजनक्रियाः ॥

नान्दीश्राद्धमहत्ववर्णनम्

[[१७१]]

गृहालंकरणादीनि गतप्रत्यागतानि च । मुसलोलूखलक्षिप्त हरिद्रातण्डुलौघकैः ॥ पुरन्ध्रीगानविक्षिप्तैः पर्यायोद्धरणोज्झितैः । सताम्बूलाभ्यञ्जनैश्च निशाचूर्णाभिरञ्जनैः तश्चित्ररङ्गवल्यौघतादृग्भवनमण्डनैः । चिरंटगानसुमुखसमागतजनाकुलैः ॥

नृत्यन्तस्ते समायान्ति शोभनाख्या हि देवताः ।

तेषां तद्ध्वनिमात्रेण प्राचीनावीतिहर्षिणः ॥

सिक्तालितशुद्धाङ्गा स्त्यक्तसर्वानुलेपनाः । मुक्तपुण्डललाटाश्च सुस्पष्टात्यन्तदुर्मुखाः ॥ नित्यास्पष्टप्रसादाश्च स्पष्टकोपा निरन्तरम् । त्यक्तालंकारशरणप्रवेशस्थितिचेतसः ॥

स्वविरुद्ध क्रियाभीतिसंयुक्ताः सत्वराः क्षणात् । पलायनपरास्ते स्युस्तेषामेषां यतोऽन्वहम् ॥

स तेजस्तिमिरन्याय औत्पत्तिक इतीरितः । तस्मादेषामागमने शोभायै पितरस्त्विति देवानां शोभनाख्यानां सुमुखानां सुचेतसाम् ।

मन्त्रेण जाते विधिना तदाह्वाने कृते किल ॥

महामंगलवाद्येन सुशब्देन त्रिवारतः । निःशब्दपरमास्ते तु तस्मादूरीकृताः पुनः ॥ यावत्स्वधर्मकाह्वानं तावन्नायान्ति तद्गृहम् ।

तस्मान्नान्दी प्रकुर्वन्वै प्रातः स्नात्वा विधानतः ॥

नित्यकर्म समाप्याथ ब्रह्मयज्ञ च तर्पणम् । तदङ्गभूतं निर्वर्त्य धृतालंकरणः शुचिः ॥ सुरम्यवाद्यशब्दौधै मंगलाख्यैर्मनोहरैः । सर्वान् बन्धून् समाहूय मित्राणि निखिलान्यपि

स्वग्रामिणः स्ववीथीस्थानन्यान् ग्रामान्तर स्थितान् ।

दूरदेशस्थितान् स्वीयान् सर्वानेवाविशेषतः ॥ आप्तान् जात्यन्तरजनान् तैरयं निखिलैरपि ।

कृताभ्यनुज्ञो गुरुभिः संवृतः सुमुखः शुचिः ॥

देवान्नत्वा प्रापयित्वा गणेशादिमुखानपि । कृतनीराजनविधिः समनुष्ठितमंगलः ॥ स्वीकृताने हारिद्राचूर्णाक्षतमुखक्रियः । पत्न्या साकं कृताभ्यङ्गस्तैलेनैव सुगन्धिना ॥ हरिद्राचूर्ण तैलाभ्यामभ्यक्ताङ्गस्वष (?) विग्रहः । पुरन्ध्यानीत सुसुखः स्वच्छोष्ण जलपूरतः

[[१७२]]

मार्कण्डेयस्मृतिः

I

स्नात्वा तेन विधानेन स्नानांगं तर्पणं च तन् । प्रकुर्यादुपवीतेन तत्र यत्तर्पणं तदा ॥ कर्तव्यमेव सततं अभ्यङ्गस्नानकर्मणि । तत आचम्य शुष्केण वस्त्रेणांगानि कृस्स्तशः ॥ निर्मृज्य पश्चान्मस्तिष्कं निर्मृ जेदिति तत्क्रमः । नित्यम्नानादिकृत्येषु शिरसः प्रथमं तु तत् प्रोक्तं निर्मृ’ जनं नित्यं पीडितेनैव वाससा । तदाद्र णैव स्वीयानि (प्रक्ष्यालय) तु कदाचन यद्यन्यवाससा गात्रं निर्मृ जेत्स्नानजं फलम् । तद्वस्त्रदातुरेव स्यात् पुत्रमित्रादृते तु तत् ॥ नापत्सु दुर्गतेष्वेवं कदाचिद्रोगिणी क्वचित् । मर्यादैवं विजानीयाद् रोगिणः शुष्कवस्त्रतः गात्रनिर्मृ’ जनं शस्तं न दोषाय भवत्यपि । शुभ्र वस्त्रे स्वीये धृत्वा चन्दनेन स्वलंकृतः धृत्वा पुष्पाक्षतादीनि स्वर्णभूषणभूषितः । पुण्यानां वाचयित्वादौ ब्राह्मणैर्वेदपारगैः ॥

पुण्याहवाचनविधिः

पुण्याहस्वस्त्यृद्धिशब्देर्दक्षिणादानपूर्वकम् । शान्तिरस्तु तथा पुष्टिस्तुष्टिरस्त्विति तत्परम् ॥ वृद्धिरस्त्विति संप्राप्य चाविनोऽस्त्विति तत्परम् । आयुष्यमस्तु भूयश्चारोग्यमस्तु ततः पुनः ॥ स्वस्त्यस्तु च शिवं कर्मावित्यनन्तरमेव वै 1 अस्तु कर्मसमृद्धिश्च पुत्रपौत्रादिसंपदाम् ॥

तथा वेदसमृद्धिश्च समृद्धिः शास्त्रसंपदाम् ।

इति संप्रार्थ्य तत्पश्चात् तदुत्तरगतः पुनः ॥

अस्तु मेदिनिरससंचयः पापसञ्चयः । सोऽयं प्रतिहतश्चाम्तु ययश्च तदस्तु मे ॥ तथादित्यपुरोगा ये प्रीयन्तां ते ग्रहा इति । तिथिवातादिदिग्देवाः करणादिमुहूर्तगाः ॥ प्रि (प्री) यन्तामद्य मत्कर्महेतवे सुकृदाय च । सर्वघोराणि शाम्यन्तु पापान्यपि विशेषतः

प्रशान्त्विति नैऋत्यां दिशि वै संस्थितो वदेत् । कलशाम्भो निक्षिपेद्वा सर्वेष्वेतेषु कर्मसु ॥

पुनः शुभानि वर्धन्तामिति तत्र स्थितो जपेत् । प्राङ्मुखेनैव नोचेत्तु पूर्ववद्वा जले जलम्

पुण्याहवाचनविधिवर्णनम्

[[१७३]]

कलशस्थे निक्षिपेद्वापि तत्परं पुनरेव वै। शिवाश्च मासाऋतवः पक्षा षय एव च ॥ ते वनस्पतयस्सर्वे सन्त्वोषधय एव च । सर्वे शिवाः संभवन्तु अहोरात्रे शिवे तथा ॥ उत्तरे कर्मणि पुनः अविघ्नोऽस्तु सदा मम । सर्वा क्रियाः शिवा भूय उत्तरोत्तरतः पराः तथा क्रिया संपद्यन्तामभिवृद्धिः पुनः पुनः । उत्तरोत्तरमस्त्वेव मंगलानि शिवानि च ॥

माहेश्वरी पु ( ? ) स्तासर्वाः मातरः सपुरस्सराः ।

मरुद्गणा इन्द्रमुख्या प्रीयन्तामिति तत्परम् ।

सर्वदेवाः प्रीयन्तां वै तथा विष्णुपुरोगमाः । ये वसिष्ठपुरोगास्ते तथर्षीणां गणाः पराः

प्रीयन्तामृपयः सर्वे छन्दांस्याचार्यवेदकाः ।

यज्ञाः प्रीयन्तां निखिलाः प्रीयन्तां दक्षिणास्तथा ॥ श्रद्धा मेधे प्रिये तां च श्रीमान्नारायणो विभुः ।

प्रीयतां भगवान् सोऽयं पर्जन्यो जगतां हितः ॥

विभुः स्वामी महासेनः सत्या एतास्तथाशिषः । भवन्तु सततं श्रीकाः उत्तरोत्तरशर्मदाः

पुण्याहनामकाः कालाः वाच्यन्तां ते क्रमोदिताः ।

प्रीयन्तामित्युक्तिकाले कलशोदकमेव तत् ॥

पृथक् पृथक् च कलशे निनयेत्तदुदस्थिते ।

कलशे प्राङ्मुखः स्थित्वा ब्राह्मणान् प्रार्थयेत्तदा ॥

ओं पुण्याहं भवन्तोऽद्य कर्मणोऽस्य ब्रुवन्त्विति ।

त्रिर्वाचयित्वा संप्रार्थ्य ब्राह्मणान् पूर्वमेव वै ॥

पूजितान् गन्धपुष्पाद्य : ओं पुण्याहमिति स्म वै । तदुक्त्यनन्तरं भूयस्त्रिवारमथ पूर्ववत्

कर्मणे कियमाणाय प्रणवोच्चारणेन वै ।

aarish वा निखिलाः भवन्तः स्वस्ति कर्म च ॥ वत्विति प्रार्थयित्वा वाचयित्वाऽथ पूर्ववत् ।

कर्मणः क्रियमाणस्य चधिं तां परमां सतीम् ॥

ब्रुवन्तु सर्वे कृपया चैकमत्यैव सांप्रतम् । भवन्तः सुमहात्मानः इत्येवं पूर्ववद्वदेत् ॥१७४

मार्कण्डेयस्मृतिः

प्रत्युक्त ऽथ ततस्तैश्चेति पूर्वच्छान्तिमाचरेत् । शान्तिरस्त्वित्यादिवाक्यजालैरेव यथाविधि ॥

पश्चान्मन्त्रास्तलिङ्गाश्च वाचयेदुश्चरेदपि । दधिक्रावादिनिखिलान् हिरण्यादिस्तथापरान् पवमानस्सुवर्जनप्रमुखान् महदादिकान् । जप्त्वा तच्छंयोरित्येतेन मन्त्रेण तत्परम् ॥

शान्तिः शान्तिः शान्तिरिति त्रिवारेण समापयेत् ।

ततः परं समुत्थाय प्राञ्जलिः सन् द्विजान् समान् ॥

अष्टौ वा चतुरो वापि प्रार्थयेद्विनयान्वितः । मह्यं सह कुटुम्बाय शुद्धिकार्याय सांप्रतम्

युष्मान् सतत्प्रार्थयते त्वाशिषः परमाः शिवाः । सर्वदापेक्षमाणायाऽऽयुष्मते स्वस्तिसन्ततम् ॥

भवन्तोऽपि ब्रुवन्त्वेवं इत्युक्तास्तेऽपि तत्परम् । तथा व युम्सुचित्तेन वृतास्ते तेन ये पुरा तुभ्यं सहकुटुम्बाय सांप्रतं शुद्धिकर्मणे । महाजनान्नमस्कुर्वाणाय चायुष्मतेऽनिशम् ॥ स्वस्ति श्रीशिवसंघाताः भवन्त्वित्युत्तरं पुनः ।

ओं तत् स्वस्ति भवन्तोऽद्य ब्रुवन्त्विति तदुक्तितः ॥ अस्वस्त्विति प्रत्युक्तिः स्यादथ भूयश्च पूर्ववत् । पर्यायेऽथ द्वितीयेऽपि प्रार्थयेत्तान् द्विजर्षभान् ॥ तादृग्गुणविशिष्टाय मह्यं तद्वृद्धिकर्मणे ।

इति शिष्टं समानं स्यात् तृतीये चापि तत्परम् ॥

पर्यायेऽभ्युदयायेति कर्मणेऽन्यत्समानकम् । पश्चाद्विप्रावृतास्सर्वे बुध्यास्मेति च मन्त्रतः अभिमन्त्रयाक्षतान् दद्यः ( १ ) पुनस्स तु । यजमानः प्रार्थयेच्च बुद्धिमस्याद्य कर्मणः ॥ भवन्तो वै ब्रुवन्त्वद्य पश्चात्ते ब्राह्मणास्तथा । ऋद्ध्यतामृ द्धिस्समृद्धिरित्येवं युरेव वै वर्षाणां च शतं सम्यक् संपूर्ण च तथास्त्विति । गोत्राभिवृद्धिरस्त्वेवं शान्तिः पुष्टिश्च केवला ॥ तुष्ठिरस्तु तथा पश्चाद् गोद्विजेभ्यः शिवं शुभम् । भवत्वित्यपि ते ब्रूयुः सर्वसंपत्तथास्त्विति ॥

पुण्याहवाचनोत्तरकायविधिवर्णनम्

अथ सर्वे प्रोक्षयेयुर्यजमानं कलत्रिणाम् । सर्वप्रोक्षणकालेषु वधूः स्यादुत्तरैव हि ॥

तस्मात्तु प्रोक्षणं तस्याः प्रथमं स्यात्ततः पुनः ।

यजमानस्य तु भवेत्तद्व्यत्यासेन चेत्कृतम् ॥

[[१७५]]

सद्यो गृहपतेर श्री भवत्येषां ततः पुनः । कालेन जायते नूनं तस्मात्तन्न तथाचरेत् ॥ स्वश्रेयसानि सर्वाणि चिरंटीपूर्वकाणि हि । भवेयुरेव सततं शुची वो मन्त्रजालकैः ॥ संरेतैर्विहितं तत्तु स्नानं वोभययोर्भवेत् । मंगलेषु प्रोक्षणेन द्विजहस्तकृतेन वै ॥ समन्त्रकेण कथितं पौष्करं त्वभिषेचनम् । प्राच्यां दिशीति मन्त्रेण यजमानं कल त्रिणम् प्राग्भागे मार्जनं कुर्युः दक्षिणायां च मन्त्रतः ।

दक्षिणे मार्जनं कुर्युः प्रतीच्यामिति मन्त्रतः ॥ पश्चिमे मार्जनं कुर्युः उदीच्यामिति मन्त्रतः

उत्तरे मार्जनं कुर्युः ऊर्ध्वायामिति मन्त्रतः ॥

मस्तके मार्जनं कुर्युः कृते त्वेवं हि मार्जने । सर्वतीर्थेष्वापगासु गंगादिषु चतसृष्वपि ॥ सागरेषु कृतस्नानः सद्यो नूनं भवेदयम् । प्रोक्षणान्ते ब्राह्मणेभ्यस्तत्कर्तृभ्यो यथामति

प्रदद्यात्तत्फलावाप्त्यै कर्मसाद्गुण्यहेतवे ।

ताम्बूलं दक्षिणां चापि मानसोत्साहमात्रकाम् ॥

पूर्वादिक्प्रोक्षणकृतिसमये ब्राह्मणास्तु ते । प्रत्यङ्कुखा भवेयुर्हि दक्षिणायां दिशि स्मृताः

उदङ्मुखाः खलु प्रोक्ताः पश्चिमायां तु ते पुनः ।

प्राङ्मुखाः स्युर्विशेषेण चोदीच्यां तु ततः पुनः ॥

दक्षिणाभिमुखा कुर्युरेवं तत्प्रोक्षणे पुनः । विधिः प्रकथितः सद्भिः प्रथमे यो वृतः पुरा ॥ स एव पूर्व भागक प्रोक्षणस्याधिपो भवेत् । विधिन्येव तथान्येऽपि सम्यगेव निरूपिताः तत्प्रोक्षणैककर्तारः क्रमादेव समानतः । सर्वे समेत्योर्ध्वभागप्रोक्षणस्याधिपा मताः ॥

तत्तद्दिग्भागभूमिस्थास्तन्मुखा एव पूर्ववत् ।

संगृह्य दक्षिणां तस्मात्तां विप्राश्च तत्परम् ॥

वास्तोष्पतेति मन्त्राभ्यां तज्जलं कलशत्रये । विद्यमानं शिवं पुण्यं सकूर्चेन सपल्लवैः ॥

[[१७६]]

माकण्डेयस्मृतिः

अमीवहेति यजुषा शिवं शिवमिति द्विजाः ।

सर्वस्थलविशेषान् तान् गृहभूभागनिष्कुटान् ॥

परिषिञ्च प्रोक्षयेयुः शिवं शिवमिति क्रमात् । परिषिक्त प्रोक्षितं तदेवं तत्स्थलजालकम् कलाईमेव भवति न चेत्तन्न भवत्यति । एवं पुण्याहं निर्वर्त्य कर्मादौ मंगलाख्यके ॥ पुनः संकल्प्य विधिना नान्दीं कुर्याद्विधानतः ।

संकल्पानन्तरं तत्र चेडाया वाचनं स्मृतम् ॥

ततः शिवं शिवं चेति शोभनं शोभनं तु वा । मंगलं मंगलं वेति कुशलं उदाहरेच्छ्राद्धकर्ता पुनरेव ततस्तथा । शोभनाख्या देवतायाः तथैव

(… ) ज्ञाश्च सर्व एव मुदायुताः ।

सम्यक् समुच्चया भूत्वा समागत्यात्र संघशः ॥ वेदिकायां शिवाख्यायां मम पूजां कृतां पराम् । स्वीकृत्य मां वै रक्षन्तु धर्मपत्नीं च बालकौ ॥

प्रा ( …

) वन्तु प्रार्थयित्वैव तत्परम् ।

कुर्यात्तदेवताध्यानं देवताश्चापि कीर्तयेत् ॥

कुशलं तु वा ॥ ग्रामवासिनः ॥

अत्राद्यदेवता प्रोक्ता सा वृद्वप्रपितामहा । तदानन्तर्यका प्रोक्ता सद्भिर्वृद्घपितामहा वृद्धमाताऽथ संप्रोक्ता पर्याये प्रथमे स्मृताः । नान्दीमुख्या देवतास्ताः तिस्रस्सप्तमपूर्वतः विज्ञेया एव सर्वत्र न तु प्रथमपूर्वतः । पश्चाद्वितीयपर्याये सवृद्धप्रपितामहः ॥

तत्पश्चादेव संप्रोक्तस्तज्जो वृद्धपितामहः । अथ वृद्घपिता ज्ञेयस्त्रय एते मनीषिभिः ॥

ज्ञया नान्दीमुखस्तस्मिन् कर्मण्यस्मिन् महोत्सवे ।

एवं मातामहाश्चापि ततो मातुः पितामहाः ॥

वृद्धशब्दकसंयुक्ता मातुस्तत्प्रपितामहाः । मिलित्वा नवसंख्याकाः सपर्यायास्तु देवताः त्रय एव समाख्याताः न ते पटूचोदिताः कदा ।

एतेषां स्मरणं कृत्वा नवानां तद्द्वयोरपि ॥

नान्दीमुखश्राद्धकर्मवर्णनम्

प्राधान्येनाप्राधान्येन ज्ञात्वा भक्त्या विधानतः ।

पौर्वापर्य विनिश्चित्य मातृवर्गादितो जपन् ॥

[[१७७]]

इ ( ? ) ति यजुषां त्रितयं वेडया वरेत् । सर्वत्राप्येवमेव स्युः गणनायां तु सन्ततम् ॥

नान्दीनामात्मकं कर्म नव तद्देवतात्मकम् ।

देवतास्ताः सपत्नीकाः प्रोक्ता नान्दीमुखाः शिवः ॥ पर्यायेऽत्र तृतीयेऽस्मिन् ( १ ) या एव वच्मि वः ।

विश्वेदेवाश्च ते ज्ञेयाः अस्मिन् कर्मणि सर्वतः ॥

सत्यो वसुश्च परमौ महात्मानौ शुभाकरौ । एकैकस्यात्र विज्ञेयौ द्वौ विप्रौ अथवा पुनः वर्गस्य वा तथा शेयt यथोत्साहं यथाबलम् । एतदागमनं नित्यं शुभकर्मसु नान्यथा ॥ त एते नव्यदेवाः स्युमंगलध्वनिवेशिनः । धृतपुण्ड्रसमाराध्याः सुमुखाः स्वार्चनप्रियाः कृततद्रङ्गवल्याढ्यागारनित्यप्रवेशकाः । तोरणश्रीराजमानाः कुंकुमाक्षतभासुराः ॥ चन्दनालंकृतजनाः सुगन्धालिप्तदिङ्मुखाः । एतादृशान्महाभागान् नित्यमंगलकामुकान् पूजयेदेव विधिना वेददर्भपवित्रतः । वरणानन्तरं तेषां यथा स्थानं प्रकल्पयेत् । हरिद्राचूर्णसंस्तीर्णभूतले हस्तमात्रके । चतुष्कोणे मण्डलेऽत्र देवानामिदमित्यपि ॥ पाद्यं दद्यात्पादयोर्ते तथा वर्गत्रयस्य च । मातृणां शोभनाख्यानां देवानां पाद्यमित्यपि पितॄणां शोभनाख्यानां देवानां पाद्यमित्यपि । एवं मातामहानां च पाद्यं दद्याद्विधानतः पादप्रक्षालनं कृत्वा ब्राह्मणानां ततः स्वयम् । पादाव ( ? ) प्रक्षालयित्वा तेषामाचनक्रियाम् . कारयीतैव विधिना तस्याचमनमात्रकम् । वि ( ) मेव पवित्रकम् ॥

आन्तं कर्मासनं तेषां दद्यादेव पृथक् पृथक् । नात्र दर्भासनं दद्या(त) किन्तु पीलानि तत्पुरः प्रयत्नेनैव संपाद्य दीपस्तम्भान् पृथक् पृथक् । प्रतिपूषपीठमेकं सदीप्तस्तम्भमासनम् ॥ दत्वा वद्वयं रम्यं हरिद्राकुंकुमाक्तकम् । सपत्नीकः कुंकुमेन संस्कार्येण च संयुतः ॥ दत्वा यज्ञोपवीते च गन्धाक्षतसुमादिकैः । समलंकृत्य पुष्पाद्यः प्राङ्मुखानां यथेच्छतः तत्क्रमेणोपविष्टानां यथा वा स्थलसंकटे । सुखोपविष्टाः स्युः सर्वे तथैव विनिवेशयेत् ॥ दिशां तु नियमो नात्र यथारुच्यत एव वै । तदा कुर्यात्तश्च सव नान्धाख्यं कर्म तादृशम्

[[१२]]

[[१७८]]

मार्कण्डेयस्मृतिः

चतुरस्रषु सर्वेषु मण्डलेषु समन्ततः । रङ्गवल्लीचित्रितेषु पात्राणि निखिलान्यपि ॥

असंबाधान्येव कुर्यात् क्षिप्त्वा क्षितितले शुचौ ।

पात्राणां नासनं दर्भैः किन्तु पुष्पैः शुभाक्षतैः ॥

[[1]]

कुर्यादेव न चेत्तूष्णीं पात्रमात्राणि वा क्षिपेत् । पात्राभिधारणं पत्नी कुर्यादेवात्र केवलम् संस्कार्यो वा विशेषेण न स्वयं तत्समाचरेत् । तच्चाभिधारणं तूष्णीं पात्रेण न समाचरेत् नापि दर्भादिना किंतु भक्षेणैव समाचरेत् । अपूपेन गुडेनाथ पुष्पेण च फलेन वा ॥ येन केन च नोचेत्तु हिरण्यरजतादिभिः । नान्दीशोभनदेवानां भुक्तौ पात्राभिधारणम

कुर्यादेवं विधानेन न चेत्तत्पैतृकं भवेत् ।

परिवेषणप्रकारः

परमान्नं प्रथमतः पश्चात्सार्षपयुग्मकम् । चतुष्टयं च शाकानामन्नं सूपं फलादिकम् ॥

विविधानि च भक्ष्याणि लेह्यानि विविधान्यपि ।

मधुमात्र प्रदद्यात्तु तिलभक्ष्याणि यानि वा ॥

वर्जयेत्तानि सर्वाणि लावणानेव सुन्दरान् । चूतामलकनारङ्गलिकुचादिकखण्डकान् ॥

चिरक्षिप्तान् भाण्डगतान् यत्नगन्धादिवासितान् । अग्निसंयोगविधुरान् निहितान् चर्वणद्रुमान् ॥

संस्कृतान् विधिना यत्नात् तानत्र परिवेषयेत् । प्रभूताज्येन सर्वत्र पूर्णयित्वा क्रमेण वै ॥ अन्नं समभिधार्याथ गायत्र्या प्रोक्ष्य सर्वतः । समाराधनतन्त्रेण सर्वं कुर्यादतन्द्रितः ॥ सर्वत्रापोशनं हस्ते दत्वायं प्राङ्मुखः स्थित । पत्नीदत्तजलेनैव स्वकरं साक्षतं शुचिः ॥ पूरयित्वा वदेन्मन्त्रं महाभारतमध्यगम् । एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ॥

त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ।

एतं मन्त्रं समुच्चार्य क्रियमाणेन केवलम् ॥

ब्राह्मणानां भोजनेन भगवत्यो महत्तराः । सर्वात्मकाः सर्वधराः नान्दीशोभनदेवताः ॥ सुप्रीताः सुप्रसन्नाश्च वरदाश्च भवन्तुनः । इत्युक्त्वा तज्जलं पात्रे भूतले वा विनिक्षिपेत् ॥

नान्दी श्राद्धवर्णनम्

अत्र तद्ब्राह्मणं ब्रूयात् ओदनं वाक्यवेदकम् । ततस्तान् ब्राह्मणान् परिषेचनं शास्त्रतः क्रमात् ॥ कारयित्वा विधानेन चापोशनजलं शुचि । दत्वा सम्यग् भोजयित्वा चित्रान्नैर्दधिरञ्जितैः ॥ दध्ना च तृप्तान् विज्ञाय कारयित्वा स्व (?) स्थितः । उत्तरापोशनं दत्वा हस्तप्रक्षालनात्परम् ॥ आचान्तानासनेष्वेतान् सूपविष्टान् गतश्रमान् ।

अलंकृतान् पुनः कृत्वा ताम्बूलैर्दक्षिणादिभिः ॥

[[१७६]]

समभ्यर्च्य नमस्कृत्य ह्याशिषामक्षतांश्च तान् । मन्त्रदत्तानुत्तरीयानम्बरेणैवतः स्वयम् संगृह्योरसि क्षिप्त्वा (?) मपि तान् क्रमात् । प्रदाय स्वजनानां च नमस्कृत्वा (त्य) विसर्जयेत् अत्र केचित्पिण्डविधिमिच्छन्त्यपि समन्मतम् ।

अस्यान्नायां परं विप्र भोजनं परमं मतम् ॥

अनेन भोजनेनात्र नान्दीशोभनदेवताः । अतितृप्राः समाहूताः यावत्कर्म समाप्यते ॥ तावत्तिष्ठति सुप्रीताः यावत्तेषां स्थितिर्भवेत् । तावत्पितॄणां प्राचीनावीतपूजारतात्मनाम् प्रवेष्टुं नावकाशः स्यात् कुत एवं भवेदिति । कृते प्रश्ने प्रवक्ष्यामि तद्रहस्यमहं हि वः ॥ त एते खलु विज्ञेयाः नान्दीशोभनदेवताः । अतितृप्ताः समाहूताः यावत्कर्म समाप्यते तावत्तिष्ठति सुप्रीताः यावत्तेषां स्थितिर्भवेत् । तावत्पितॄणां प्राचीनावीतपूजारतात्मनाम् प्रवेष्टुं नावकाशः स्यात् कुत एवं भवेदिति । कृते प्रश्ने प्रवक्ष्यामि तद्रहस्यमहं हि वः ॥ त एते खलु विज्ञेयाः नान्दीशोभनदेवताः । पितरोऽमीधनात्यन्त विरुद्धाचारतत्पराः ॥ निश्शब्दागमिनस्ते हि सशब्दागमिनस्त्वमी । निरलंकृतगे हैक समागमसुचेतसः ॥ पितरस्तेऽखिला ज्ञेयाः नान्दीशोभनदेवताः । यत्नालंकृत है कसमागमन सुस्थिराः ॥ शब्दमात्रैक भीतास्ते शब्दमाधुर्यतत्पराः । मृताहदृष्टिमात्रास्ते शुभमात्रैकमानसाः ॥

अमी सवं समाख्याताः अत एषां च तादृशाम् । एकत्रापिसमावेशः तेजस्तिमिरयोरिव ॥

[[१८०]]

मार्कण्डेयस्मृतिः

एतादृशानां नान्याख्यकर्मण्यस्मिन् शुभागमे । श्राद्ध सम्यङ् नचेत्कुर्यात्स्वपूर्वेषां महात्मनाम् ॥

पशुतुल्यः स विज्ञेयो यद्यन्नेन कदाचन । कतु कार्यविशेषैश्चेत्तादृशं श्राद्धमुत्तमम् ॥

न शक्यते तदा भक्त्या तदा मे न समाचरेत् ।

यदि तत्रापि तत्कतु’ लौकिकैः कायवृन्दकैः ॥

तदाविधेन वामेन शक्तिहीनस्तदा पुनः । समग्र ेण हिरण्येन सम्यगेव समाचरेत् ॥ दातृप्रतिगृहीतारौ कल्याणेषु समुद्यतौ । धनं नानाप्रकारेण संपाद्यवातिचर्यया ॥ यावत्परिमितं सर्व लौकिकेष्वेव केवलम् । विनियुज्य यथेच्छं तदेतत्कार्ये समुद्यते ॥ अकृत्यैa fraft त्यक्त्वा शोभनदेवताः ।

अत्यन्तपामरा मूढाः कार्य विस्मृत्य मोहतः ॥ कार्यमात्रकृतोत्साहाः प्रायेण बहवो जनाः ।

विद्वांसोऽपि जडा भूत्वा कर्मेतत्सुमहच्छवम् ॥

व्यर्थं कुर्वन्ति मनुजास्तेन दोषेण भूतले । मानुषा बहवोऽतीव दरिद्रा नष्टतेजसः ॥ नष्टप्रजा नष्टकामास्तथा नष्टायुषः परम् । संप्रन ( 1 ) ष्टकुलश्चापि दृश्यन्ते भग्नमानसाः ॥ सम्यक् सर्वाणि कार्याणि बन्धुमित्रादिहेतवे । समीचीनानि वैगुण्यरहितान्येव कुर्वते ॥ भार्या पुत्रादि लोकानां भुक्तिश्रीभूषणस्रजाम् । वस्तुवाहन चेलानां विषये कोऽपि भूतले ॥ वैगुण्यं न करोत्येव किंतु सर्व तु तादृशम् । अत्यन्तानुपपत्तीनां सहस्रमपि केवलम् ॥

नान्द्यादिदेवताविप्रस्वश्रेयसकृते भवेत् ।

यो वा विद्वान महाभागो दरिद्रोऽपि स्वयं शिवम् ॥ कर्मेद्र दिकं सम्यक् करोत्यन्यो नरो न तु ।

सम्यक् पात्रं समुद्वीक्ष्य तद्योग्यं परमं स्वयम् ॥

स्वचेत (?) तत्कुर्यात् स्ववृद्ध्यै स्वश्रिये चिदे । चिरादिप्रापकं ज्ञेयं अग्निहोत्र्यपि वैद्यपि अथैकभविकं ज्ञानं कर्मयोगरतात्मनाम् । शतजन्मभवं दानं तपोनिष्ठे प्रतिष्ठितम् ॥ जपयज्ञप्रयुक्तषु सहस्रफलिकं स्मृतम् । अभूतसंप्लवस्थाय प्रदानं ब्रह्मवादिनाम् ॥

मन्त्रवेदिने दानप्रशंसावर्णनम्

[[१८१]]

मन्त्रपूतं तु यद्दानममन्त्रायाशु दीयते । दातुर्निकृत्य हस्तं तद्भोक्त जिह्वां निकृन्तति ॥ उपरुन्धन्ति दातारं गौरश्वः काञ्चनं क्षितिः ।

अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृताः ॥

नान्दीकार्ये दीयते यद् धनं धान्यादिकं वसु । व्यसनापहणार्थं च कुटुम्बार्थं च याचते दत्तं चेत्कोटिगुणितं भवेदेव न संशयः । एवमन्विष्य सर्वत्र सर्वदानेष्वयं विधिः ॥ सान्तानिकं यक्षमाणमध्वगं सर्ववेदसम् । गुर्वर्थपितृमात्रर्थस्वाध्यायाद्य पतापिनः ॥ नवैतान् स्नातकान् विप्रान् ब्राह्मणान् पूजयेत्सदा । तादृशेषु ब्राह्मणेषु पूजितेषु महात्मसु पूजिताः सद्य एव स्यु नन्दीशोभनदेवताः । वेदेन्धनसमिद्धेषु हुतं विप्रमुखाग्निषु ॥ सन्तारयति दातारं महतः किल्विषादपि । एकं वेदान्तिनं विप्रं पूजयेद्धयान्वितः ॥ तस्य भुक्तौ भवेत्कोटिर्विप्राणां नात्र संशयः । वेदपूर्णमुखं विप्रं सुभुक्तमपि भोजयेत् ॥ न तु मूर्ख निराहारं दशरात्रोपवासिनम् । नान्दीकर्मणि कल्याणे वेदपूर्णद्विजोत्तमः ॥ अत्यन्तावश्यको ज्ञेयः अपि वा कृतभोजनः । कृतभोजनसंप्रह्मवर्णनं नान्नकार्यके ॥ हिरण्यादिककार्ये स्यान्न चाप्यामादिकेऽपि च । वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते ।

क्रीडन्त्योषधयः सर्वाः यास्यामः परमां गतिम् ।

भयार्ता रोगिणो बालाः वृद्धाः संन्यासिनस्तथा ॥ अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महत्फलम् । हृतस्वहृतदाराश्च ये विप्रा देशसंप्लवे ॥ afrat नियमस्थाश्च तत्समाप्तिमभीप्सवः । तपस्विनस्तपोनिष्ठास्तथा भैक्षचराश्च ये ॥ अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महत्फलम् । जनयत्येव नितरां तादृशेषु ततस्त्यजेत् ॥ यत्किचिदपि वा लब्धं तत्सद्यो वै विचक्षणः । संनिकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत भाजने चैव दाने च दहत्यासप्तमं कुलम् । यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते ॥ दूरस्थं भोजयेन्मूढो गुणाढ्य नरकं व्रजेत् । तस्मान्नातिक्रमेदाने भोजने प्रातिदेशिकान् संबन्धिनस्तथा सर्वान् दौहित्रं विट्पतिं तथा ।

भागिनेयं विशेषेण तथा बन्धून् सुचेतसः ॥

अतिक्रम्य महारौद्र रौरवं नरकं व्रजेत् । यदि स्यादधिको विप्रो दूरे वृत्तादिभिर्युतः ॥

[[१८२]]

मार्कण्डेयस्मृतिः

तस्मै यत्नेन दातव्यमतिक्रम्यापि संनिधिम् । स्वबन्धुदानकरणपक्षे तेषां दरिद्रता ॥ बहुप्रजादिकाक्षामकालः सद्गुणपूर्णता । दुष्प्रतिग्रहशूद्रादिप्रतिग्रहतिरस्कृतिः ॥

विद्याभावेऽपि सन्ध्यादिसत्क्रियाकरणादिना ।

विद्यादत्प्रीतिमत्ता च गर्वाभावः कृतज्ञता ॥

यदि स्युरेते बन्धूनां श्राद्धषु ग्रहणं भवेत् । यद्यते न गुणास्ते वै सद्गुणिन्यन्यजातिषु लब्धे स एव संग्राह्याः न बन्धुरिति शासनम् ।

श्राद्धभिन्नेषु कार्येषु बान्धवा मनसो यदि ॥

स्वीकार्याः स्युरिति ग्राह्याः सम्मताश्चेन्न ते न तुः ( ? ) ।

आत्मतुष्टिस्तु परमा दया चापि परा तथा ॥

बन्धुमात्रेषु विहिता सा हि धर्मस्सनातनः । न बान्धव पुरस्काराद्गर्विष्टं दुष्टचेष्टितम् ॥ दुष्प्रतिग्राहकं तीर्थशूद्रश्राद्धप्रतिग्रहम् । मत्तं त्रात्यं तथा जाड्यशालिनं कुत्सितं शठम् ॥ वेश्यापतिं च कितवं गायकं नटगोलकौ । कुनखं सज्जनमहादूषकं ब्रह्मनिन्दकम् ॥ पुरस्कुर्याद्दानमात्रे दूरतः श्राद्धकर्मसु । एतादृशं जनप्रीत्या कलत्रादिप्रपीडनात् ॥

पैतृकेषु प्रयुञ्जानः पितॄणां मारको भवेत् । अपि स्वयं कालसूत्ररौरवाद्यालयो भवेत् ॥ दोषाभावे तु वक्ष्यामि निष्कृष्टार्थ परं त्वहम् । मातापितृषु यद्दत्तं भ्रातृषु स्वसुतासु च जायात्मजेषु यद्दत्तं तन्नित्यं स्वर्गसंक्रमः । पितुः शतगुणं दानं सहस्रं मातुरुच्यते ॥ अनन्तं दुहितुर्दानं सोदरे दत्तमक्षयम् । भगिनीभागिनेयानां मातुलानां पितृष्वसुः ॥ दरिद्राणां च बन्धूनां दत्त कोटिगुणं भवेत् ॥

पुरोहितप्रशंसा

पुरोहितेषु यद्दत्तं तदक्षय्यफलं लभेत् । आत्मनस्तु भवेत्पात्रं नान्यस्य स्यात्पुरोहितः ॥ सदा पुरोहितमतौ स्थेयं धर्मपरेण वै । पुरोहितो ह्यमुष्मै सः श्रेयस्कृत्त, सदा स्मृतः ॥ सन्ततं कोटिबन्धूनां मित्राणां तादृशं तथा । मातुलश्वशुरादीनां पित्रादीनां च किं पुनः पुरोहितैकतुलितो श्रेयस्कामी न विद्यते । सद्यः पुरोहितत्यागात् तदसंमतिकृत्यतः ॥

पुरोहितप्रशंसावर्णनम्

[[१९८३]]

नष्टप्रजाकलत्रादिसन्ततिः स्याच्छनैरयम् । सदा पुरोहितं तस्मात्सर्वकर्मसु चेतसा ॥ संप्रधार्यैव मतिमान् तानि कुर्यात्ततः परम् । पुरोहितमतिक्रम्य यत्कार्यं तदसंमतम् ॥ करोति तत्परां वृद्धिं लभते नैव केवलम् । पुरोहितमतेनैव कल्याणेषु विशेषतः ॥ बन्धुपूजादिकं सर्वबन्ध्वाह्नानं यदा तदा । तद्धस्ताननतन्मन्त्रैः प्रकुर्यात्तत्समन्वितः ॥ तेन श्रेयो विशेषेण लभते संपदां श्रियम् । नान्दीमिमां च तस्मात्तु तन्मुखेन समाचरेत्

गुरुर्माता पिताचार्यः उपाध्यायश्च बान्धवः ।

सर्व पुरोहितो ज्ञ ेयः पुत्रो मित्रं सुतस्सुहृत् ॥ महात्मना तेन विना न किमप्यस्ति देहिनः । गोप्यं गुह्यं रक्षणीयमपेक्ष्यं प्रार्थितं तथा ॥ सर्वकार्येषु मन्त्रोक्तौ शक्त्यभावे तथा परम् ।

तदुक्तमेव स्वप्रोक्तं प्रोक्तवान् भगवान् गुरुः ॥

सं विना नैव कुर्वीत सर्वकर्माणि सन्ततम् । तदुक्तरीत्या कुर्वीत तदुक्तं नातिलंघयेत् ॥ तदुक्तलंघनकरः चण्डालत्वमवाप्नुयात् । तथाविधस्त्वेक एव त्रिशंकुर्लोकविश्रुतः ॥

नान्यः कश्चन विज्ञेयः गुरुद्विलोकनिन्दितः ।

तेन कर्मविपाकेन विश्वामित्रप्रपालितः ॥ अद्याप्यवाक्शिरा एव वर्ततेऽसौ विलक्षणः ।

कदाचित्तस्य विरहे श्राद्ध ेऽस्मिन् समुपस्थिते ॥

स्वस्यापि मन्त्रसामर्थ्यशून्ये प्रत्याब्दिके तदा ।

तिसृभिर्व्याहृति (ती)भिः स्यात् कर्म सर्व विनाहुति (ती) ॥ तन्मात्रमन्नसंस्पर्श पिण्डदानं च कृत्स्नशः । तन्मन्त्रैरेव कर्तव्यं अन्यथा तद्भवेन्न तु ॥

एतत्सामर्थ्य विकलः पितुः प्रत्यादिकं तु तत् ।

सर्व व्याहृतिभिः कृत्वा मन्त्रविदुर्लभे ततः ॥ पुनःर्यान्मन्त्रविदः संभवे मन्त्रविच्च तम् । न चेत्पातित्यमाप्नोति सत्यमेतदुदाहृतम् ॥१८४

मार्कण्डेयस्मृतिः

सन्ध्या प्रत्याब्दिकाभ्यां तद्ब्राह्मण्यं लोकविश्रुतम् । येन केन प्रकारेण कृताभ्यां तत्र केवलम् ॥

अत्यन्तगुह्यं प्रथमं सर्वाङ्गीकृतमुत्तमम् । द्वितीयं तच सर्वत्र प्रकाश्यत्वेन सन्ततम् ॥ विकसाक्षिकं सर्वक्रियावित्साध्यमेव तत् । अत्यन्तापदि च प्रोक्तं तन्मत्रैकक्रियापरम् पित्रोरेव तथा ज्ञेयं पितृव्यस्यानुतस्य च । भ्रातुर्मातामहस्यापि तपत्नीनां तथा स्मृतम् पित्रोः श्राद्धपरित्यागाच्चण्डालत्वमवाप्नुयात् ।

सद्य एव न सन्देहः तस्मात्कुर्यात्तु तद्यथा ॥

आपत्कल्पे मन्त्रविदो राहित्ये केवलं तदा । व्याहृतीभिस्तत्करणं तदद्मौ करणं विना ॥ पिण्डदानं च तत्सर्व’ कदाचित्संभवेत्सदा । न भवेदेव किं त्वेतत् सर्वदाऽपि समन्त्रतः ॥ कर्तव्यत्वेनोपदिष्टं ब्राह्मणैर्ब्रह्मवादिभिः । अतस्तत्संप्रवक्ष्यामि तद्विधानं समन्त्रकम् ॥

श्राद्धे प्रधानमन्त्राः

प्रधानमन्त्रा एते स्युः श्राद्धे प्रत्यादिके पराः । अग्नौ करणहोमस्य सोमायेति द्वयं परम् ॥

पृथिवीतेति मन्त्रोऽयं ज्ञ यमन्नाभिमर्शने ।

अपां मेध्यादिकं मन्त्रजालं पिण्डविधौ स्मृतम् ॥

प्राधान्येनैव स्यात्कथितं सर्वसून्त्रिभिः । एतत्सर्वात्मना त्यक्तुं शक्यते किल सर्वथा ॥ त्यक्त’ चेन्मोहतः किंचिदेतेषु किल लघ्वणु । नष्टमेव भवेच्छ्राद्धं तस्मात्सर्व समाचरेत्

श्राद्धकर्ता पूर्वदिनरात्रौ विप्रान्निमन्त्रयेत् ।

ब्राह्मण निमन्त्रणम्

कृतभुक्तिक्रियानेव तत्पूर्वं न निमन्त्रयेत् । निमन्त्रणात्परं तेषां भुक्तिकर्म विशेषतः ॥ निन्दितं शास्त्रजालेन तस्मात्तन्न तथाचरेत् ।

ततः स्नातः परेद्यं च कृतसंध्याक्रियान्छुचीन् ॥

अग्नौकरणवर्णनम्

[[१८५]]

श्राद्धमद्य ति विधिना स्वयमेव निमन्त्रयेत् । औपासनात्परं पूर्व यथारुचि निमन्त्रणम् सप्तानामपि पञ्चानामेकैकस्य निमन्त्रणम् । न सार्वत्रिकमेव स्यात् ब्राह्मणानां तु पैतृके ॥

ब्राह्मणसंख्या

विप्रत्रयं चैकैकस्य वरणं जुहुयात्ततः । भाव्यमेवेति निखिलैः परं नांगीकृतं च तत् ॥ किं त्वेकस्यैकैकमिति निश्चितं तु मनीषिभिः । सार्वसाधारणेनाथ सौलभ्येन सुनिश्चितम् द्वौ द्वौ देवेऽपि च स्थाने त्येतच्चापि न सुन्दरम् । इत्येवमेतत्सर्वं वै निश्चित्यैव ततः पुनः हिताय सर्वजगतां कृत्स्नस्यैवा विशेषतः । देवस्थानेऽप्येक एव पितृस्थानेऽपि केवलम् ॥ एक एवेत्यंगीचक्र : स विष्णुस्तु कृताकृतः । अग्नौ करणमन्येषां प्रत्यब्दे लौकिकानले ॥

अग्नीकरणम्

पित्रोरेवोपासने स्यात्पत्न्या मातामहस्य च । मातामहस्य तत्पत्न्याः सपत्नीमातुरेव य पित्रोरपि तथा पत्न्याः श्राद्धमौपासनानले । पितृव्यस्य च तत्पत्न्याः ज्येष्ठभ्रातुस्तथैव च प्रत्यब्दं श्राद्धमुद्दिष्ट लौकिकानाविति स्थितिः । पत्नीनाशादमिनाशे कदाचिज्जायते यदि पितुः श्राद्धाय यत्नेन ताद्वात्पर्वमेव वै । दारक्रियां प्रकुर्वीत ज्येष्ठो यदि सुतस्तथा ॥ न तद्भिन्नास्तथा कुर्युः श्राद्धात्पूर्वं तु तादृशम् । श्राद्धानन्तरमेव स्यादन्येषां दारसंग्रहः ॥ वर्णी यद्यप्रजः सोऽयं पित्रोस्तु मरणात्परम् । प्रथमादादिकात्पूर्व विवहेदमिहेतवे ॥ ज्येष्ठपुत्रो विधानेन वर्णी वेत्तन्मृते परम् । तस्मिन्नेवाद्यके चाब्दे विवाहाद्वह्निहेतवे ॥

पित्रोस्तु मरणात्पश्चात् तस्मिन्नेवाब्दिके पुनः ।

विवाहो ज्येष्ठपुत्रस्य विहितो वह्निहेतवे ॥

औपासनाग्नौ विधिवत् कृतं तच्छ्राद्धमेककम् ।

लौकिकाग्निकृताच्छ्राद्धात्परं कोटिगुणाधिकम् ॥

यद्योपासनवहिः स दूरसंस्थो भवेत्तदा । प्रत्यादिके समायाते तदा स्याल्लोकोऽनिलः ॥ तदा कनिष्ठेऽग्निमति संनिकृष्टेऽस्य पावके । औपासनाग्नौ तत्कुर्यादनौ करणमञ्जसा ॥

[[१८६]]

मार्कण्डेयस्मृतिः

तेनैव कारयेद्वाऽपि विकल्पोऽयं समो मतः । दिनाष्टकात्पूर्वमेव श्राद्धार्थं पुनरेव वै ॥

..

स्थिताग्निरपि तं भूयः संध्यादेव मन्त्रतः ।

असन्निहितभार्यश्चेत्तत्कार्याय तदा शुचिः ॥

संघाय तस्मिन् विधिना त्वमौ करणमाचरेत् । अग्न्यभावे पाणिहोम (?) सन्त्यत्र केचन तदाश्वलायनपरं याजुषाणां न तद्भवेत् । एषामपि विशेषेण ह्यग्निहोत्रे कदाचन ॥ होमकाले त्वनुगते ह्यन्येषामप्यसंभवे । पाणिहोमस्तु कर्तव्यो नात्र ( ? ) कदाचन ॥ ( .. ) होमोऽपि चौखेयानां विधीयते । अजास्य होमः कथितः वैद्यानपरस्स तु अप्सु होमस्तु नितरां काण्वानामेव चोदितः । यदि श्राद्ध होमकाले दैवादनुगतो यदि ॥ वहिरौपासनो नूनं तदा संकल्पपूर्वकम् । सर्वप्रायश्चित्तहोमो व्याहृतीभिर्भवेत्तु वै ॥ अनाज्ञातत्रयं चापि इदं विष्णुश्च तत्परः । एतावतैव तत्कालतद्वह रिस द्धिरुत्तमा । भवत्येवात्र तत्सर्वं तस्मिन् पश्चात्समाचरेत् ॥

श्राद्धकर्ता धर्माः

कर्तृधर्माः पूर्वदिनप्रभृत्येव भवन्त्यमी । निमन्त्रिणप्रभृत्येव (?) भोक्त धर्माः प्रचक्षते ॥ दानाध्ययनदेवेज्या जपहोमत्रतादिकान् । न कुर्याच्छ्राद्धदिवसे प्राग्विप्राणां विसर्जनात् तस्मिन् दिने विप्रभुङ्क्तः पूर्व कस्मै किमप्युत । न दद्यादेव तत्कार्यहेतवे चेत्समागतम्

वस्त्वपूर्वं तु गृह्णीयाद् यद्यद्ग्राह्य

ं तु तत्तराम् ।

पूर्वस्मिन्नेव नितरां गृह्णीयात् दिवसेऽखिलम् ॥ मनस्वी शक्तिमान् दक्षो भक्तिमान् यः समाहितः ।

शुचिर्दक्षः प्रगल्भश्च बहुमित्रः सुपुत्रवान् ।

अतत्त्वज्ञो किश्वनश्च बन्धुमित्रादिवर्जितः । स्वशक्त्यनुगुणात्सर्वसमीकरणमाचरेत् ॥ यदा तदा तहिने वा येन केनाप्युपायतः ॥

श्राद्ध भोजनाचमनकालवर्णनम्

दरिद्रादेर्नियमाभावः

सर्वप्राणेन पित्रोस्तच्छ्राद्धमन्नेन यच्चरेत् ।

दरिद्रस्य न दोपोऽस्ति श्राद्धधर्मादिलोपतः ॥

[[१८७]]

रोगिणो ज्ञानिनस्तद्वति बालस्य चैव हि । प्राशयित्वा श्राद्धकर्म पीत्वा वा तद्दिने ततः न कुर्यादेव तच्छ्राद्धं न ताम्बूलं च खादयेत् । औषधप्राशने दोपो नास्त्येवेत्यखिला जगुः ॥

श्रादधर्मरहस्यज्ञा प्राणनिर्गमनादिपु । निमित्तेषु प्रसक्ता नु धावनादिषु दैवतः ॥ राजचोरादिशार्दूलश्वशृगालमहापदि । पिवन्नपि जलं तूष्णीं सकृच्छ्राद्धं समाचरेत् ॥ अतिव्याध्यतिदाहादौ तापविस्मरणादिषु । अवशाज्जलपानेन श्राद्ध ()षो न जायते वर्णिनो गृहिणो वापि वनिनो वा विशेषतः । पित्रो ताहकं नाम श्राद्धं यत्तत्समन्त्रकम् सपिण्डकं सहोमं च सब्राह्मण मुजिक्रियम् । कार्यमेव प्रशंसन्ति न त्याज्यं तत्कथञ्चन ॥

त्यक्तमात्रेण पतितः स्यादेवात्र न संशयः ।

aat श्रस्य संकल्पः विप्राणां स्नानतः परम् ॥

स्वस्य स्नानं तु विहितं न तत्पूर्वं कदाचन । स्नातैर्विप्रैः समेतो वै मध्याह गृहमाविशेत्

भोजनाचमनकालः

पादप्रक्षालनात्पश्चात् तेषां स्वस्य च तत्परम् ।

आचामो विहितः स्वस्य तेषामपि विशेषतः ॥

कर्तुराचमनात्पूर्व भोक्तु राचमनं यदि । शुनो मूत्रसमं तोयं तस्मात्तत्परिवर्जयेत् ॥ पादप्रक्षालनात्पश्चात् यजमानः स्वयं यतन् । पाकरसर्वस्समीचीनो जातः किमिति पाचकीम् ॥ पत्नी पृष्ट्वा कोपहीनः सुमुखेनैव तत्परम् ।

तया सिद्ध इति प्रोक्त स्वयं दृष्ट्वा सभां कृताम् ॥

[[१८८]]

(…

मार्कण्डेयस्मृतिः

शक्तया द्विजानां महतां प्रणम्यादौ विधानतः ।

धृत्वापवित्रं शक्तया तां दक्षिणां शक्ति कल्पिताम् ॥

)।(

) परिक्रम्य प्रणम्य च तथा पुनः ॥

न प्रथेत्येतेन वाथ नमस्कारो विधीयते । तदन्ते दक्षिणां तां च तत्पुरो निक्षिपेत्ततः ॥

(

अस्मात् पितुः प्रतिश्राद्धं सर्वे शृणुत मद्वचः । अधिकाराख्यसंपत्सा कर्तमस्त्विति मद्गृ ( है ) हम् ॥

) (…

तां दक्षिणां भूतलेऽत्र निक्षिप्तां तेऽपि मन्त्रतः । स्वीकृत्य धिकाराख्यसंपदस्त्विति ते द्विजाः ॥

) जोत्तमान् ॥

वदेयुरेव निखिलास्तत्परं तदनुज्ञया । प्राणानायम्य विधिना सुखासीनः पवित्रधृत् ॥ देशं कालं च संकीर्त्य यथावद्वत्सरादिभिः । संयुक्तमेव प्रवदेदन्यथा बाधकं भवेत् ॥ प्रातिसंवत्सिरिकाख्याश्राद्धमस्य पितुर्मम । अन्नेन हविषा मन्त्रैः पार्वणाख्यविधानतः

सदैवमभ्यनुज्ञानात् करिष्येऽद्य ेति तत्परम् । विप्राणां वरणं कुर्यात् तत्तत्स्थाने यथाक्रमम् ॥ तिथिभेदोच्चारणेन मासे पक्षे विवत्सके । ऋतावप्ययने वाथ पुनः श्राद्धं भवेद्ध्रुवम् ॥ एकस्मिन्नेव दिवसे पित्रोः श्राद्ध उपस्थिते । मृतिक्रमाच्छ्राकार्य कर्तव्यं नान्यथा चरेत् ॥ पितुर्माततिथौ माता मृता यदि तदा पितुः ।

श्राद्धं कृत्वा ततो मातुः श्राद्धं कुर्यादिति क्रमः ॥

मातु तिथौ तातः मृतो यदि तदा किल । पितुः श्राद्धं प्रथमतः कर्तव्यमिति केचन मृतिक्रमेणेति केचित् न पितुः प्रथमं त्विति । अत्र शास्त्रीय वाक्यानां बहूनां भिन्नभिन्नतः यथेच्छया विकल्पः स्यात् तत्राचारः परो मतः । एकस्मिन्नेव दिवसे तिथिद्वयसमागमे ॥ पूर्वानुष्ठेयकृत्यं यत् परतश्वेत्कृतं यदि । तद्द्व्यर्थमेव प्रभवेदतस्तत्पुनराचरेत् ॥

मातापितृश्राद्धव्यवस्थावर्णनम्

भर्तारमनुगच्छन्त्या मातुयदि तिथिः पृथक् ।

तत्ततिथ्योः स्तुते श्राद्धे कर्तव्यत्वेन चोदिते ॥

अयं हि प्रथमः कल्पः पितुः श्राद्धेन तेन वै । सहैव करणं नूनं केषांचित्संमतं तदु ॥ दक्षश्चेत्पृथगेवासौ तयोः श्राद्धं तदा तदा । स्वकाल एव कुर्याद्वै सह पित्रा तु दुर्बलः

पतिं समनुगच्छन्त्याः सह भयैव तत्परम् । अपि भिन्नतिथौ तस्याः मृतायाः करणं परम् ॥ श्राद्धस्य मुख्यकल्पो न किं त्वयं गौणसंज्ञिकः । एकचित्यां समारूढौ दम्पती निधनं गतौ ॥

[[1]]

एकस्मिन्नेव दिवसे तयोः श्राद्ध सहैव वै । प्रतिसंवत्सरं कुर्यात् अनुमृत्या तथा भवेत्

भिन्नतिथौ पृथग्वेति सहैव वा ।

अनुमृत्या

संशयः स्यात् तयोः श्राद्धविषये नेति चेन्नतु ॥

तयोः सहैव करणे तस्मिम् श्राद्ध तथाविधे । संकल्पादिषु सर्वत्र सम्यग् विवचनं भवेत् उभयोः श्राद्धयोरत्र वैश्वदेविक एककः । वर्गद्वयस्य द्वौ विप्रौ पितुर्मातुश्व कीर्तितौ ॥

पुरूरवाद्र संज्ञाना विश्वेषां नाकिनां मुदा ।

स्थाने त्वाहवनीयार्थे क्षणं धृत्वा द्विजोत्तमाः ॥ कर्तव्यो वै भवद्भिस्तु प्रसाद इति तान् कुशैः ।

सातै याद भक्त्या चतुर्णां वरणे तथा ॥

तत्तदुष्करम् ॥

रणं घटते सम्यक् एकस्यावरणे कथम् । तादृशं वचनं चेति प्रश्ने एकस्मिन्नपि पाके ( ) हि वर्णनम् । तथैवात्रेति विज्ञेयं शास्त्रक्षेत्र झवादिभिः एवमेव भवेत्तत्र पितॄणामपि कर्मणि । वरणं शास्त्रविहितं विशेषोऽयं परः स्मृतः ॥ शर्मणामपि गोत्राणां रूपाणामपि केवलम् । वसुरुद्रादि (१) कानां चेति स्मृतोऽधिकम्

शिष्टः समः प्रकथितः ( … ) ॥

[[१६०]]

माकण्डेयस्मृतिः

पादप्रक्षालन मण्डलार्चनम्

अनन्तरं श्राद्धकर्ता वदेदेवं द्विजान् प्रति । स्वागतं पितृभिर्देवैरिति प्रश्ने कृते ततः ॥

सुस्वागतमिति ब्रूयुः ब्राह्मणास्तेऽपि तस्य वै

यजमानस्ततस्तेषां वाक्यं श्रुत्वा त्वरान्वितः ॥

अंकणे मण्डले कुर्यात् पादप्रक्षालनाय वै । चतुरश्रं तु देवानां पितॄणां वर्तुलं तथा ॥ गोमयेनैव विधिना प्रातः संपादितेन वै । देवस्थानस्यैतदासनमित्येवं कुशद्वयम् ॥ निक्षिपेत्तस्य निकटे उदग्भागेऽथवा पुनः । पुरोभागेऽपि वा पश्चादर्चत प्रार्चतेति वै ॥ मन्त्रेणानेन भूयश्च इमे गन्धा इति स्म वै । चन्दनं निक्षिपेत्तस्मिन् मण्डले स्वकरेण वै ॥ पश्चादमी अक्षताश्च वदेदेवममी कुशाः । अष्टाध्यरचनं पूर्ण अस्त्वित्येव जलं क्षिपेत् ॥ सदर्भ भूतले पश्चात् प्राचीनावीतिनार्चयेत् । पितॄणां मण्डलं तद्वत्तत्रामी शब्दतोऽर्चनम् गन्धस्य कथितं सद्भिः इमे शब्देन चाक्षताः ।

अमीशब्देन च कुशान् अष्टायैरर्चनं च तत् ॥

समानमेव स्थलयोरिति शास्त्रविदो विदुः । इमे शब्दममी शब्द एवं येन वदन्ति ते ॥ पैतृकस्यास्य हन्तारो भवेयुस्तत्क्षणेन वै । एतान्यष्ट्रार्घ्यवस्तूनि तान्यत्र प्रक्षिपेत्तदा ॥ पूजाकाले प्रयत्नेन मत्पितॄणां तु तैर्भवेत् । तानि द्रव्याण्यमून्येव कथितानि मनीषिभिः आपः क्षीरं कुशाग्राणि दध्यक्षततिलांस्तथा ।

aar: सिद्धार्थ काश्चैव झर्योऽष्टाङ्गः प्रकीर्तितः ॥ क्रमेणैतानि वस्तूनि प्राचीदिक्क्रमतः क्षिपेत् ।

अथवा मण्डले यत्र कुत्र वा निक्षिपेत्स्वयम् ॥

तेषां निक्षेपणं येन केनचिद्वा कृतं यदि । कृत्स्नश्राद्धफलं तेन गृहीतं प्रभवेद्ध्रुवम् ॥ अष्टार्घ्यद्रव्यसंपूर्ण करणं पैतृकस्य तत् । दोहनं कथितं सद्भिस्तस्मात्तन्नान्यवर्त्मना ॥ अष्टानामपि वस्तूनां यदि संपादनाक्षमः । भवेदयं तदातीव तान् दर्भान् वा तिलाक्षतैः तूष्णीं हस्तेन संगृह्य पयसा तत्र विन्यसेत् । अष्टायैरय संपूर्णार्चनमस्त्विति वा सकृत् ॥

श्राद्धभोजने कृत्यवर्णनम्

न चेत्तूष्णीं तथा ब्रूयात्तत्कृत्स्नस्य फलं लभेत् ।

अनुक्त्वैवं वचोवापि यदि तूष्णीमशेषकम् ॥

[[१६१]]

सर्वमन्त्रद्रव्यजाल कृतं तद्विफलं भवेत् । मण्डलात्पश्चिमे भागे ब्राह्मणे स्वागते कृते ॥ तत्रैव विसृजेत्पाद्यं क्षालयेन्मण्डलोपरि । पादप्रक्षालनं श्राद्ध वरं स्याद्गुल्फयोरधः ॥ पितॄणां नरकं घोरं रोमसंसक्तवारिणा । पितॄणामपि देवानां पादप्रक्षालने तदा ॥ स्वागतं किं भवद्भिर्वैते ( ) तः । सुखागतमिति प्रोक्त े ब्राह्मणेन ततः पुनः ॥ पादप्रक्षालनं कुर्यादन्यथा व्यर्थमेति तत् । काले तस्मिन् स्वागतेति पादौ दर्भद्वयेन वा ॥ संगृह्य स्वागतमिति प्रश्नं कुर्यादतन्द्रितः । यद्यन्यथा ( … ) पितृ ( . ) किनामपि ॥ आह्वानं तत्क्षणेनैव श्राद्धं नष्टं भवेद् वम् । तच्च दर्भद्वयं नोचेत्तत्पादोपरि हस्ततः ॥

स्वस्यैव संस्पर्शयित्वा सोमदिश्यां विनिक्षिपेत् ।

पितॄणां दक्षिणदिशि कृत्वैवं पादयोः परम् ॥

क्षालना (

) च्छंनोदेवीॠचं जपेत् ।

यां कामपि तथा भूयः शिवेनेति हिरण्यकाः ॥ यासां राजेति वा नूनं तदापो वेति वा जपेत् ।

यदि मन्त्रानाधिकारिपुराणोक्तमनुं तु वा ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

इमं वा पुनरन्यान् वा श्लोकान् स्मृतिषु संस्थितान् । वदेद्वा मन्त्ररहितो व्याहृतीवा विशेषतः ॥

इमे सर्वकालेषु श्राद्धादौ श्राद्धमध्यमे । श्राद्धान्तेऽपि विशेषेण वक्तत्र्या स्युः पुनः पुनः ॥ मन्त्रज्ञस्य तु नायं स्याद्विधिक्को (ज्ञो ?) ऽपि महात्मनः । तानत्युदाहरियामि मन्त्रान् काश्चित्पुराणगान् ॥ समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः । अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥

[[१६२]]

माकण्डेयस्मृतिः

आपद्धनध्वान्तसहस्रभानवः समीहितार्थार्पणकामधेनवः ॥ समस्ततीर्थाम्बुपवित्रमूर्तयो रक्षन्तु मां ब्राह्मणपादपांसवः ॥

आधिव्याधिहरं नृणां मृत्युदारिद्य नाशनम् । श्रीपुष्टिकीर्तितं वन्दे विप्रश्रीपादपङ्कजम्॥ विप्रौधदर्शनात्सद्यः क्षीयन्ते पापराशयः । वन्दनान्मङ्गलावाप्तिरच नादच्युतं पदम् ॥ पुनर्नानाविधापाय परिहाराय सांप्रतम् । पादप्रक्षालने तेषां कर्तव्ये समुपस्थिते ॥ तदा कृताज्यसंसर्गात्तत्पादस्याखिलान्यपि । प्रनष्टानि भवन्त्येव वैगुण्यमपि (सम्भवेत् )

एतस्मान् मन्त्रत्रितयाच्छुक्रादीनां शिवात्मनाम् ।

पादप्रक्षालनं तेषां पितॄणां त्रिदिवौकसाम् ॥

कृत्वा स्वयं तत्स्थलस्य पूर्वभागेऽश्रुशोधनम् । पश्चिमाभिमुखेनैव कुर्यादाचमनं सदा ॥ ( ) मनायाथ जलं दत्वा स्वयं शुचि । ब्राह्मणानां स्थलं तत्तु ( प्रोक्षयेद्विधिवद्भक्तया शुध्यर्थं भूर्भुवादिभिः । अपेतत्रीतमनुतः यदि मन्त्राक्षमस्तदा ।

पुराणोक्तं (

) विधानतः ।

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ मन्त्रेणानेन वा सम्यक् प्रोक्षणं तत्स्थले चरेत् ।

स्थलस्य प्रोक्षणे जाते ह्यासनान्प्रान्तरे क्षिपेत् ॥

..) 11

ब्राह्मणानासनेष्वेव सम्यक् तानुपवेशयेत् । पुनः पवित्रपाणिः सन् व्याहृतीभिर्विधानतः

प्रथमान्तानेव भक्तया संबुध्या विष्टरान् क्षिपेत् । प्रारम्भेषु च ये दर्भाः पादाशौचे विसर्जयेत् ॥ पादा शौचान्ते च ये दर्भा विष्टरान्ते विसर्जयेत् । विष्टरान्तेषु ये दर्भा विकिरान्ते विसर्जयेत् ॥ विकिरान्ते च ये दर्भाः विरामान्ते विसर्जयेत् । विरामान्ते च ये दर्भाः आसीमान्ते विसर्जयेत् ॥ आसीमान्ते च ये दर्भाः तर्पणान्ते विसर्जयेत् ॥

श्राद्धविधिवर्णनम्

दर्भाहरणप्रकारः

[[१६३]]

दर्भ संग्रहणं कुर्यादादौ पोढेव तेन वै। पृथक् पृथक् कर्ममात्रे तस्मिन् सर्वत्र पेशलः ॥ दर्भसंग्रहणं कुर्यात् श्रोत्रियः स्वयमेव हि । कालेऽस्मिन् संगवे शुद्धो नाशुद्धस्तु कदाचन

कदाचित्पुत्रशिष्याभ्यां मित्राप्ताभ्यां च सन्ततम् ।

पुरोहितेन चानीताः स्वानि ता इति कीर्तिताः ॥ ऋत्विक्पुरोहिताभ्यां ते यथानीताः समित्कुशाः ।

निश्रे निःश्रेयसकलाः प्रोक्ताः स्वानीतेभ्योऽधिकाः पुनः ॥

कुतस्तथेति चेत्ते वै सदा स्वस्य सुचेतसः । हितकामा सदाशीस्सु संप्रार्थितमनोरथाः ॥ तदर्भवने काले मामकोऽयं गृहे सुखे । भवत्येवेतीष्टदेवस्मृति सत्प्रार्थनापरः ॥

तस्मात्तदानी तदर्भाः सर्वकर्मसु देहिनाम् ।

प्रशस्ता एव नितरां स्वानीतास्तत्समा न तु ॥

तद्विष्टरप्रदानं त बहु चानां न संभवेत् । प्रदानानन्तरं तस्य विष्टरस्य तु याजुषाः ॥ सम्बुद्ध्यन्तेनासनस्य नं कुर्वन्ति वाग्यताः । षष्ठयन्तेनैव सर्वत्र देवानां त्रिदिवौकसाम् रूपनाम्नां च निर्देशः षष्ठ्यन्ते संभवेत्तदा । चतुर्थ्यन्ते तथैव स्यात् प्रथमान्तेन विष्टरे ॥ रूपनिर्देशतो गोत्रप्रोक्ति तश्चेत्तु विष्टरे । समागतास्ते तिष्ठन्तः उपवेशनचेतसः ॥ पाददुःखेन नितरां तावन्तं कालदीर्घकम् । न सहन्ते ततः शीघ्रं रूपगोत्रादिकं न तु ॥ तस्मिन् कर्मणि तदयं एवमाह पितामहः । सर्वत्र पैतृके नित्यं कार्यमात्रे श्रुतीरितम् ॥ ..चीनावीतमेव स्यात् दैविके तूपवीतकम् । आसनानन्तरं त्वत्र क्षणश्च क्रियतामिति ॥ ओं तथेति च तत्प्रोक्तः पश्चादेव पुनस्तथा ।

सनस्

प्राप्नुवन्तु भवन्तोति वै चेकवाक्यं वदेदयम् ॥ श्राद्धकर्ता भुक्ता (क्त्वा स्य वदेत्प्रत्युत्तरं पुनः । प्राप्नुमश्चेति तत्पश्चात् दर्भानास्तीर्य भूतले ॥

Paurngare related प्रोक्षितस्थले । पात्रद्वयं समासाद्य दर्भैराच्छाद्य तत्परम् ॥ मुत्य विधानेन प्रोक्ष्याक्षतसुपूजिते । शंनोदेवीतिमन्त्रेण कुर्यात्तज्जलपूरितम् ॥

[[१३१६४]]

मार्कण्डेयस्मृतिः

यवोऽसीति च मन्त्रेण यवांस्तत्र विनिक्षिपेत् । अर्चत प्रार्चतेत्येव चन्दनं तत्र निक्षिपेत् तुलसीदर्भपत्राणि तत्र निक्षिप्य तत्परम् । ओं स्वाहानमः (१) प्रोक्ता तत्परमेव वै ॥ विश्वेभ्यो देवेभ्यो जुडं गृह्णामि मन्त्रतः । देवपात्रे संपन्नेति वदेत् कर्ता द्विजाग्रतः ॥ सुसंपन्नेति तत्प्रोको स्वाहार्थ्याविति तत्परम् । द्विवारमुच्चरेत्तस्य स्वर्ध्यादित्युत्तरं ततः

[[1]]

आवाहनम्

भोक्ता वदेदयं कर्ता विश्वान् देवान् भवत्स्वहम् । आवाहयिष्येत्युक्त्त्वैवं आवाहय वचः परम् ॥

विप्र आवाहयेद्विश्व (वे ? ) देवान् तस्मिन् यवैः कुशैः । विश्वेदेवासमन्त्रेण विश्वेदेवासनेन च ॥

स प्राञ्जलिस्ततो भूत्वा मन्त्रमेतदुदीरयेत् । आगच्छन्तु महाभागा विश्वेदेवा महाबलाः

ये वाऽत्र विहिताः श्राद्धं सावधाना भवन्तु ते ।

जप्त्वैवं तमुपस्थाय सावधानोऽस्मि वाक्यतः ॥

परं तत्पुरतः सम्यगुपविश्य स्वयं ततः । हस्तोदकं तत्कूर्चेन प्रदद्याद्विधिनैव वै ॥

प्रोक्षणात्परतो वापि तन्मध्ये वाऽद्य वा स्वयम् ।

यजमानः प्रार्थयेश्च ब्राह्मणान् तान् पुरः स्थितान् ॥ श्राद्धा ये मया संपादिता भक्त्या हि देशतः ।

कालतस्ते पदार्थ वै श्राद्धयोग्या भवन्त्विति ॥

भवन्तोऽद्य प्रब्रुवन्तु तानेवं प्रार्थये ततः । श्राद्धयोग्या भवन्त्येवमुक्ते तैर्वचने ततः ॥

श्राद्धकाले गयां विश्वान् देवान् देवं जनार्दनम् ।

स्वादीन् तान् पितृन् ध्यात्वा ततः श्राद्ध प्रवर्तये ॥

मन्त्रमेनं (तत्) समुच्चार्य तिष्ठेत्तत्पुरतो ह्ययम् । प्रवर्तयेति तैरुक्तः कर्म तच प्रवर्तयेत् ॥

पितॄणामर्घ्यदानवर्णनम्

अर्घ्यदानम्

या दिव्या इति मन्त्रेण विश्वेदेवा इदं शिवम् । वो अर्ध्यामिति लौकिक्या वाचाऽर्घ्यं समुपाहरेत् ॥ अस्त्वर्घ ( र्घ्य ) इति तेनोक्तो हस्ते शुद्धोदकं पुनः । दत्वा भक्ताऽर्चत प्रार्चतेति पश्चाच्छिवाक्षतैः ॥

[[१६५]]

अर्चयित्वाऽथ गन्धश्च व्याहृतीभिरथाऽक्षतान् । धूपदीपौ चोपवीतद्वयं वस्त्रद्वयं पुनः ॥ कुशद्वयं भूषणानि पात्र शक्त्या सुचेतसा । प्रदत्तमिति सुस्थेन भावयेदेव सन्ततम् ॥

शक्त्या चेदेयमेव स्यात् शक्त्यभावे तु भावना ।

सर्वत्र व्याहृतिर्ज्ञेया दानमात्रेण सर्वतः ॥

संपूर्ण मर्चनं चेति वाक्यमुक्त्वा ततः परम् । संकल्पसिद्धिरस्त्वेवं भवन्तः प्रत्र वन्त्विति ॥ तस्योत्तरं तथैव स्यादस्तु संकल्पसिद्धिरुत्तमा । यथाविध्यचितं चेति वाक्यं प्रत्युत्तरं ततः अस्त्वित्येव च संप्रोक्तं ततो भवदनुज्ञया । पित्र्येऽचनं करिष्येति समनुज्ञाप्य तं ततः ॥ कुरुध्वेति तथाऽऽज्ञप्तः पितॄणामर्चनं चरेत् । पूर्ववन्निखिलं चात्र कथितं शास्त्रवेदिभिः ॥ परं त्वियान विशेषोऽत्र कथितः शास्त्रवर्त्मना । अग्नेर्दक्षिणतो वापि द्विजानां पुरतोऽपि वा । पात्रासादनकर्म स्यात् त्रीणि पात्राणि चात्र वै 1

स श्राद्धार्थे (?) प्रयोज्यानि पवित्रेषु कृतेषु हि ॥

उपरिष्टादधस्ताच्च प्रोक्ष्योद्धृत्य च पूर्ववत् । तिलान् विकीर्य तूष्णीकं तेषु पात्रेषु तत्परम् पूर्ववज्जलमापूर्य तिलोऽसीति च मन्त्रतः । पितरं नामगोत्राभ्यां समुच्चार्य ततः पुनः ॥ इमान् लोकान् प्रीणया हि नः । स्वधा नम इत्येव तिलांस्तत्र विनिक्षिपेत् ।

तत्पात्रयोः शिष्टयोश्च पूर्ववत्तेन तांस्तरान् ॥

मन्त्रेण विन्यसेदेव तदूहेनैव वाक्यतः । भृंगराजसमुत्थानि पत्राण्यत्र विशेषतः ॥ दुर्भपत्रैः पूरयेच स्वधा नम इतिस्म च । प्रतिपात्रजपः कार्यः पित्रे ते जुटमित्यथ ॥

[[१६६]]

मार्कण्डेयस्मृतिः

गृहामीति वदेत्पश्चाद्वयोरप्येवमुच्यते । तदुद्देनैव विधिना दर्भैस्तं शोधनं भवेत् ॥ पितृपात्राणि संपन्नानित्येवं प्रवदेदपि । सुसंपन्नानीति पश्चात्तदुक्तोऽयं स्वयं पुनः ॥ स्वधाऽर्घ्य इति चोक्त्वाथ त्रिवारं तदनन्तरम् । स्वर्या इत्युत्तरे जाते तदावाहनमाचरेत् उशन्तस्त्वेति मन्त्रेण ह्यायन्तु न ऋचा तथा ।

सावधाना भवन्तु त इत्युक्त े तदनन्तरम् ॥

समानमन्यन्निखिलं पूर्ववत्कथितं तु वै । मण्डलानामर्चनं च तैरुक्तस्तु समाचरेत् ॥ पूर्ववन्मण्डलस्यापि करणं त्वत्र चोदितम् । पात्राणि मण्डलेवेषु प्रक्षिपेत्कानि तानि यदि पात्रं पानसं चेत्पितॄणाममृतं भवेत् । पालाशं पय इत्युक्तं यद्यौदुम्बरनिर्मितम् ॥ गुडेन तुलितं तत्स्यात् पौन्नागं दाधिकं भवेत् ।

रम्भाऽऽज्येन समाः प्रोक्ताः पनसस्तूत्तमोत्तमः ॥

शलाटुफलपत्रैश्च छायाकाष्ठमृदादिभिः । अत्यन्तपल्लभाशस्ता निरन्तरसुतृप्तिदा ॥ वस्तुभिः सकलैर्दिव्यै गोधूमतिलखड्गकः । मधुमापमहाद्रव्यैः पनसोऽयं विशिष्यते ॥ सर्वथा पनद्रव्यदुर्लभे तु यदा भवेत् । यं कंचन पदार्थ वा पनसं भावयेत्तदा ॥ भावयित्वा वच्चापि पनसोऽयं प्रकल्पितः । मयाद्या लभमानेन पदार्थोऽयमिति स्म वै

तावता पितरस्सर्वे नित्यतृप्ताः स्युरेव ते ॥

स्वधाकारः

अम करणशिष्टान्नमादायाथाज्यमेव च । हस्तोदकं स्थानविप्रादीनां तेषां यथाविधि संप्रदाय तदाज्यं वै तेषु पात्रेषु तत्क्रमान् । अभिधार्यान्नमादाय स्वधेयमिति निक्षिपेत् तत्पुनस्त्वभिधार्याथ दत्वा हस्तोदकं पुनः । मेक्षणं प्रहरेदनौ तूष्णीमेत्र समन्त्रतः ॥ यद्य ेको ब्राह्मणश्चेत्तु त्रयाणामपि केवलम् । तस्मिन्नेवाखिला धर्माः प्रयोज्या इति वै मनुः ॥ एवमेव पुनः पात्रे दैविके केवलाऽऽज्यतः ।

अभिधारणमेवस्यात् तथा सोदकमेव च ॥

स्नुषापाकवर्णनम्

[[१६७]]

यथाम करणं प्रोक्तं स्वधेयमिति मन्त्रतः । तच्छिष्टदानं कथितं तत्पात्रे तेन कर्मणा ॥ श्राद्धकर्मण्येतदेव प्रधानं स्यात्तथा पुनः । तच्छिष्टं पिण्डकार्याय प्रधानं स्यादतो यदि तन्नष्टं चेत्तदा श्राद्धं नष्टमेव भवेद्धवम् । पुनः श्राद्धं च विहितं परेऽह्नि विधिनैव हि अग्नौ करणलोपे वा स्वधेयमिति यत्पुनः । हविः शेपप्रधानं तत् तस्य लोपेऽपि चेद्यथा तच्छ्रिपिण्डसंयोगलोपे वा श्राद्धनामकम् । कर्मेतन्नाशमायाति तस्मादेतत् त्रयस्य च यथैव स्याच्च संपूर्तिस्तथा कुर्यात्तु पैतृकम् । पत्नीहस्तसमानीत भक्तनैव विचक्षणः ॥

अग्नौ करणकर्माख्यं कुर्यात्कर्म विधानतः ॥

स्नुपापाकः

स्वाहस्ते करचितः पाकोऽमृतसमो मतः । स्वेवा स्नुषा कर्तृस्नुषा तुलिने पाककर्मणि ॥ यद्यते देवयोगेन तत्कार्ये शक्तिशून्य के । तत्पाकयोग्यकार्येषु स्यातां भक्ति समन्विते शक्त ते यदि तत्कर्मकरणे जामितापरे । स्यातां तज्जन्म वैश्यश्यं श्वगर्दभसमं भवेत् ॥ तस्मात्प्रीतः श्वशुरयोः श्राद्ध यत्नेन भक्तितः । यथाप्राणं पाककर्मनिरताः स्युः पतित्रताः श्वशुरश्राद्धकार्येषु पाकप्राधान्यकेषु वै । या श्रमं कुरुते भक्तचा साऽग्निष्टोमफलं लभेत् ॥ या स्वस्थैव वृथा गर्वात् तत्पाकविमुखा भवेत् । भ्रूणहत्यामवाप्नोति प्रतिजन्मनि दुर्भगा ॥

वन्ध्या दरिद्राऽऽथवा क्रूररूपिणी च प्रजायते । पाकाशयेऽपि वा तूष्णीं स्नात्वा वा नियता शुचिः ॥

परिवेषणमात्रं वा कुर्यादित्येव सा श्रुतिः । स्नुषाहस्तैकपूतं तं पूतं पुत्रकरेण च ॥ मन्त्रप्रोक्षणपूतं च तदग्नौ करणेन च । अतिपूतमतिश्लाघ्यं स्वधेयमिति मन्त्रतः ॥ निक्षेपणेन च पुनः पूतं तत्प्रोक्षणेन च । अभिधारणतोऽतीव पूतं गायत्रिया ततः ॥ प्रदानकालतद्गायत्रिया पूतं पुनस्तथा । परिषेचनपूतं च यजमानस्य तत्परम् ॥ तदन्नममृतं ज्ञेयं दशपूतं तदा तदा । मन्त्रितं कुशपूतं च यजमानस्य हस्ततः ॥ तदन्नं पितॄणां तृप्तिहेतवे वै प्रकल्पते । दशक्रियाप्तमिदं श्राद्ध कर्म न चेतरत् ॥ एतद्दशक्रियालोपे तन्न श्राद्धं प्रचक्षते । स्वधेयमिति निक्षिप्ते त्वग्नौ करणशिष्टके ॥

[[१६८]]

मार्कण्डेयस्मृतिः

परिवेषणक्रमः

परिवेषणमेव स्यान्न तदन्यत्र तच्चरेत् । अन्नमादौ ततः प्रोक्तं पायसं तदनन्तरम् ॥ भक्ष्याणि च फलान्येवं शर्करामधुमाक्षिकम् ।

शाकानि सार्षपाख्यानि शाकानि तदनन्तरम् ॥

पचालवणशाकानि घृतस्नेहै कजान्यपि । अपक्करचितान्येवं रसायनमुखान्यपि ॥ नानाविधानि चित्राणि लवणं न न एव च । घृतं दधि जलं पश्चाच्चरमे सूप ईरितः ॥ परिवेषणतः पश्चात् सूपस्य न किमप्युत । गायत्रीप्रोक्षणात्पश्चात् भक्ष्याणां पातनात्परम्

दर्भानुपरि संस्थाप्य तस्य शुध्यर्थमेव वै ॥

अन्नमूक्तपठनम्

अन्नसूक्ताख्यमन्त्राणां पठनं सांप्रतं शिवम् ।

करिष्य इति संकल्प्य नमो ब्रह्मण आदितः ॥

राक्षोघ्नादिमहामन्त्रान् पावनांश्चापि वैष्णवान् । प्रसरेदन विधिना ब्राह्मणैर्बहुभिः सह अहमस्मीति सूक्तं तद्न्नाख्यं पाठनाच्छिवम् । पितृप्रीतिकरं श्रीमद्राक्षोघ्नं तज्जपेच्छुचि ॥

सह वा इति तद्वाक्यं राक्षोघ्न कथितं बुधैः ।

किं स्विदासीदथैव स्यादाब्रह्मन् श्रीप्रदायकम् ॥

पठनीयं विशेषेण यजमानश्रिये परम् । सामाराधनकल्पेन पृथग्दानं निगद्यते ॥ पृथक् च प्रोक्षणं कार्य पृथक् च परिषेचनम् । यजमानः स्वयं कृत्वा तदन्नस्य ततः परम् प्रदानं कार्यमेव स्यात् सर्वं तेनैव मन्त्रतः । पृथिवी तेन विधिना भक्तमादौ स्वहस्ततः तद्धस्तस्य स्पर्शयित्वा भक्ष्याणां तदनन्तरम् ।

फलानामपि शाकानां सर्वेषां च यथाक्रमम् ॥

घृतस्य परमान्नस्य जलपात्रस्य चैव हि । स्पर्शयित्वैव तत्पश्चाद्द वान् संबुध्य तत्परम् ।

पितृनिमित्तस्य पक्वान्नस्य प्रशंसावर्णनम्

एतद्वो हव्यमित्युक्त्त्वा गयेयं भूरिति स्म च ।

साक्षाद्गदाधरा एते ब्राह्मणाश्चेति भावनाम् ॥

[[१६६]]

कृत्वा तुष्टेर्दास्यमानं दत्तं चाक्षयतुष्टये । यथाभागं स्वाहा हव्यं तत्सन्न म मेति 11 द्विर्वदन् साक्षतान् दर्भान् संगृह्य जलपूरितान् ।

जलप्राधान्यतो भूमावुदकूपार्श्वे विनिक्षिपेत् ॥

गयायां रुद्रपादादिदत्तमस्त्विति भक्तितः । ब्रुवन्तु च भवन्तोऽद्य गयायां दत्तमस्त्विति वाक्यद्वये च संजाते ये देवा इति वै मनुम् । प्रजपेत्तु विशेषेण आगच्छन्त्विति तत्पुनः पितृस्थाने तथा सर्व पूर्ववच्च समाचरेत् । विशेषोऽत्र पुनस्सोऽयं स्वधा विष्णो ततः पुनः कव्यं रक्षेति तत्प्रोक्त्वा पितृसंबोधनं परम् । एतद्वः कन्यमित्येव देवताः पितरोऽत्र हि इदमन्नं कव्यमेव ब्राह्मणो हवनीयके । दत्तं च दास्यमानं चातृप्तेस्तत्सर्वमित्यपि ॥ गयेयंभूरिति समं अन्नं ब्रह्माहमित्यथ । भोक्ता ब्रह्म ेति वै ध्यात्वा रजतं पात्रमित्यपि ॥ वटच्छायेयमित्येव भावनापूर्वकेण वै । पितृभ्यो नामगोत्रादियुक्तभ्य इति पूर्ववत् ॥ उक्त्वाखिलं वाक्यजालमिदमन्नं ततः पुनः । साक्षादमृतरूपं तदातृप्तेरिति तत्परम् ॥ अक्षय्यतृप्तये चेति शिष्ट सर्व यथा पुरा । स्वधाकरमिति ज्ञेयं कांश्चिदत्र विशेषकान् ॥

भस्ममर्यादादिकान् चापि कुर्यादेव विधानतः ।

ये चेह पितरश्चेति मन्त्रं सम्यक् समुच्चरेत् ॥

सर्वेषामपि पात्राणां स्वयं भूयो विधानतः । कूर्चेन प्रोक्षणं कृत्वा परिषिच्य च तेन वै ॥ भोक्त्राऽप्येवं कारयित्वा तदापोशनशंबरम् । अर्चनापात्रगं यत्तत् कुर्याद्विप्रकरस्थितम् ॥ एतत्कर्मैव नितरां सुपुत्रत्वप्रकारकम् । तत्कर्तुः कृतिनोऽतीव पितृनिष्क्रियदायकम् ॥ एतदर्थ पुरा सर्वे पितरस्त्वस्य जन्मनि । सर्वस्वदानकर्तारो ह्यभवन्नतिहर्षिताः ॥

[[૨૦૦]]

मार्कण्डेयस्मृतिः

आपोशनम्

तागापोशनजलप्रदानं सांप्रतं स्मृतम् । तत्प्रदानानन्तरं वै अमृतोपेति मन्त्रतः ॥ तत्प्राशनं प्रकथितं यद्दत्तं तेन पाथसः । यद्यन्यत्प्राशनं कुर्युः तद्दत्ताच्छंबरं तु ते ॥ स्वयं तत्पितरः सोऽपि सर्वे स्वपितरः क्षणात् । कालसूत्रैकशरणाः प्रभवन्ति न संशयः ततस्तु सर्वे भोक्तारः कदाचित्तादृशं खरम् । न कुर्युरेव सततं कर्म क्रूरं द्विजोत्तमाः ॥ श्रद्धायामिति मन्त्राणां प्राणाहुतिकृतौ तदा ।

यजमानो जपं कुर्यात् प्रतिस्वाहाकृतौ द्विजाः ॥

तदाहुतिक्रमेणैव प्रकुर्युर्विधिना द्विजाः । भस्मनो यदि मर्यादा न कृता चेद्यदा तदा ॥ पात्रग्रहणमेतेषां वामहस्तेन चोदितम् । आभुक्त्यन्तं ततो वाच्यं यथासुखमिति स्म च जुषध्वमिति तत्पश्चात् श्रावयिष्येति वैष्णवान् ।

पावनानपि रक्षोघ्नान् भुञ्जीयानिति च क्रमात् ॥

स्वाश्रावयेति चाप्युक्तस्तथा कुर्याद्यथामति ।

यथाशक्ति यथोत्साहं ब्राह्मणान् तत्र निक्षिपेत् ॥

अभिश्रवणम्

अभिश्रवणकार्याय यावद्वेदत्रये तथा । केचिदत्र पुनर्दत्ते जाते तत्परमेव वै ॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव नमोनमः इति मन्त्रं समुच्चार्य पुनरन्यान् पुराणगान् ।

मन्त्रान् वदेयुस्तद्भक्त्या ते सर्वत्र कृताकृताः ॥

अथाप्युदाहरिष्यामि तानेतानपि वै क्रमात् । सप्त व्याधा दशार्णेषु मृगाः काराञ्जने गिरौ चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे । ये स्म जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः प्रस्थिता दीर्घमध्वानं यूयं तेभ्योऽवसीदथ । अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् । चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ॥

श्राद्धकार्याङ्गक्रमवर्णनम्

[[२०१]]

हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु । ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ॥

ब्रह्मव तेन गन्तव्यं ब्रह्मकर्म समाधिना ।

यज्ञेश्वरो हव्यसमस्तकव्यभोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र ॥ तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेपाण्यसुराश्च सर्वे ।

त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च यज्वनः ।

हव्यकव्यभुगेकरसन पितृदेवस्वरूपधृक् ॥

कर्ता क्रियाणां स स इज्यते क्रतुः स एव तत्कर्मफलं च तस्य । मृगादियत्साधनमप्यशेषं हरेर्नकिञ्चिद्व्यतिरिक्तमस्ति ॥

देशात्कालात्तथा मन्त्रतन्त्रेभ्यो हविषस्तथा ।

कर्तृभ्यश्चापि भोक्तृभ्यः द्रव्याद्वा न्यूनतस्तथा ॥

अतिरिक्तादिदं कर्म ह्यच्छिद्रमविकलं तथा । साग्रं च सगुणं भूयादित्येवं यूयमद्य वै ॥ वदतेति नमस्कुर्यात् तेऽप्यनन्तरमेव वै । तथास्त्वित्येव च महत्प्रीत्यैव निखिला अपि ॥ - प्रवदेयुः सदस्यास्ते भोक्तारश्च समप्रितः । पुनश्च यजमानोऽथ युष्मद्वाक्यमहत्वतः ॥ सर्वकल्यशून्येन श्राद्ध नानेन केवलम् । गयान्नश्राद्ध तुल्येन अक्षय्यप्रीतितृप्तितः ॥ पुनरावृत्तिरहित ब्रह्मलोकाप्तिरस्त्विति । भवन्तो वै ब्रुवन्त्वद्य तद्वाक्यसमनन्तरम् ॥ तथास्त्वित्येव सर्वे ते प्रवदेयुर्द्विजा अपि । तद्वाक्यश्रवणात्पश्चान्नमो देवेभ्यो इत्यपि ॥ स्वधा पितृभ्य इत्येवं बृहते विष्णवे नमः । ओं तद्ब्रह्म ेति नवकं यजुषां (वृ ) वृन्दमप्यथ

यजमानो वदेत्सर्वं श्रद्धायामिति पञ्चकम् ।

जपेत्तु प्राञ्जलिर्भूत्वा ब्रह्मणि मात्मेति तं जपेत् ॥

परिषेचनतः पश्चात् भूय एव तदेव हि । धृतापोशनपाथस्सु तेषु भोक्तृषु सत्वरम् ॥

इमं पुराणवाक्यं च प्रवदेत्तच वम्यहम् । ईशानविष्णुकमलासनकार्तिकेय वह्नित्रयार्करजनीशगणेश्वराणाम् । कौचामरेन्द्रकलशोद्भव काश्यपानां पादान्नमामि सततं पितृमुक्तिहेतून् ॥ इत्युवश्वाथ नमस्कृत्य चेयं भूमिर्गयेति वै । एते गदाधरा विप्रा वटच्छायेत्यमीत्यपि ॥

[[२०२]]

मार्कण्डेयस्मृतिः

भावयेदेव मनसा पुनरेकं वदेत्तदा । वचनं तत्पुराणस्थं मन्त्ररूपमतीव च ॥ गयायां धर्मपृष्ठेषु सदसि ब्रह्मणस्पतेः । गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम् ॥

एवमुक्त्वा गयगयेत्येवं सम्यक् समुच्चरेत् ।

गयागयेति वा ब्रूयात् काशीकाशीति वाऽथवा ॥

वटं तं वाथवा बिन्दुमाधवं संस्मरेत्यपि । एतत्सर्वं श्राद्धमात्रे कर्तव्यत्वेन केचन ॥ जगदुः क्षत्रियादीनां स विप्राणामिति स्म वै 1

अतः कृताकृतं प्रोक्तं भोजने श्राद्धकर्मणि ॥

वृत्ते वयाच्छ्राद्धकर्ता गायत्रीं वेदमातरम् । अहमस्मीति सूक्तं च भोजनादौ क्रमेण तत् वेदाक्षर कर हितश्राद्धकर्ता तु केवलम् । नामत्रयजपं कुर्वन् ईशानं तं हरिं स्मरन् ॥ आतृप्त्युपविशेत्ते तदनन्तरमप्युत ॥

ब्राह्मणभोजनानन्तरकृत्यम्

मधुत्रयं जपित्वाथ क्षन्नमीमदन्त्वथ । मधुमध्विति संपन्नं कर्ता ब्रूयादतन्द्रितः ॥ - सुसंपन्नमिति प्रोक्ते एतच्छ्राद्ध विशेषतः । संपादितेषु पक्वेषु पदार्थेष्वपि वस्तुषु ॥

य इष्टः सोऽद्य प्रयः इति संप्रार्थयेत् द्विजान् ।

सर्व संपूर्णमित्येव प्रोक्त्त भोक्तृभिरष्यति ॥

तृप्ताः स्थेति द्विवारं वै संबुद्धयन्तेन तान् वदेत् ।

विश्वान् देवान् पितृ श्चापि सति विष्णुं तमप्युत ॥

तृप्ताः स्म इति तैरुक्ते तन्मंत्रं समुदीरयेत् । असोमपाश्च ये देवा यज्ञभागविवर्जिताः

विकिरम्

तेषामन्नं प्रदास्यामि विकिरं वैश्वदैविकम् । ततः परं पैतृकेऽपि स्थाने मन्त्रमिदं स्मृतम्

तदुच्चरेच्च विधिना तत्कर्मणि तदा स्वयम् ।

असंस्कृत प्रमीता ये त्यागिन्यो याः कुलस्त्रियः ॥

विकिरान्नदानवर्णनम्

दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम् । विष्णुस्थाने तथाप्येकं मन्त्रं तत्समुदीरयेत् ॥

[[२०३]]

वैष्णवं परमं भव्यं श्राद्धकर्मणि संस्थिते । असंशयो भवेद्विष्णुर्मोजसाधनमव्ययम् ॥ पितॄणां च वरं श्रेष्ठं विकिरान्नं च वैष्णवम् । एभिर्मन्त्रैर्वै किरान्नं दत्वा तत्पुरमेव वै उच्छिष्टपिण्डं दद्याच तन्मन्त्रेण यथाविधि । तिलान् दर्भान्समास्तीर्य भूतले पत्रसन्निधौ

तन्मन्त्रं संप्रवक्ष्यामि कर्मणस्तस्य संप्रति ।

ये अग्निदग्धा येऽनग्निदग्धाः ये वा जाताः कुले मम ॥ भूमौ दत्तेन पिण्डेन तृप्ता यांतु परां गतिम् । अग्निदग्धानग्निदग्धेभ्योऽस्मत्कुल (प्रसूत ) मृतेभ्यः ॥ अयं पिण्डः स्वधा नम इत्येवं तत्र निक्षिपेत् ।

अग्निदग्धानग्निदग्धाः मार्जयन्तां तिलोदकम् ॥

एत इति तद्दत्वा तिलसंमिश्रितोदकम् । पादौ प्रक्षाल्य चाचम्य सपवित्रकरः पुनः ॥ Blogभाग्भ्योऽन्नं दीयतामित्येव वदेश्च तान् ।

तद्वाक्यं तु तथा प्रोक्तं यजमानेन ते द्विजाः ॥ भोक्तारश्च तदा कुर्यु रेतेनैव (?) स्व मन्त्रतः । यजमानकुले जाता दासा दास्योऽन्न कांक्षिणः ॥ सर्वे ते तृप्तिमायान्तु मयादत्तेन भूतले ॥

उत्तरापोशनम्

अमृतेतेति च मन्त्रेणोत्तरापोशनं परम् । यजमानः स्वयं दद्याद्विप्रहस्तेषु सादरम् ॥ तत्पीत्वा तेऽपि मन्त्रेण तेनैवान्तं समाप्नुयुः । श्रद्धायामित्युत्तराणि यजूंषि स्वयमेव वै यजमानो जपेदेव वांगुष्ठेनेति तज्जपेत् । यजमानोऽथ भूयश्च संकल्पं सम्यगाचरेत् ॥२०४

मार्कण्डेयस्मृतिः

पिण्डदानं

पिण्डदानं करिष्येति श्राद्धीयं स पितुरित्यपि । तिलोदक (

इति संकल्प्य विधिना पिण्डदानं समाचरेत् ॥

"

पितुयज्ञविधानेन सर्वमेव यथा तथा । उच्छिष्टसंनिधावेव पिण्डदानं नचान्यतः ॥ पिण्डपूजां विधानेन यथाशास्त्र’ समाचरेत् । नैवेद्यमत्र भक्ष्याणि फलान्यपि विशेषतः " ताम्बूलानि प्रकल्प्यानि पुष्पगन्धादिकानि च ।

चिरन्तिकायाः श्राद्ध े तु सिन्दूरं कुंकुमादिकम् ॥

तथा सुगन्धद्रव्याणि देयान्येव विशेषतः । वस्त्राभरणजातानि पिण्डानां तु पृथक पृथक्

देयानि शास्त्रविधिना पितरः पिण्डरूपिणा । कर्तव्याश्च नमस्काराः ये कामा अत्र केवलम् ॥ वक्तव्याः प्रार्थनीयाश्च वरदाः पितरस्तथा ।

स च श्लोकोऽत्र वक्तव्यः गयगीतः पुराणगाः ॥

शमीपत्रप्रमाणेन पिण्डं दद्यात् गयाशिरे । उद्धरेत्सप्तगोत्राणि कुलमेकोत्तरं शतम् ॥ अस्य श्लोकस्य पठनात् श्राद्धमेतत्सुपावनम् । गयाश्राद्धसमं भूयादित्याह भगवान् गयः यजमानोऽपि तत्काले इमे पिण्डा मयार्पिताः ।

गयापिण्डसमा भव्याः भयासुरिति बाडवाः ॥ ब्रुवन्त्वद्य भवन्तश्चेति वाक्यान्तेऽपि बाडबाः । गयापिण्डैकतुलितः भवन्त्विति वितीर्य तम् ॥ वदेयुः कृपया सर्वे भोक्तारः परया मुदा । ततः कर्ता युष्मदनुज्ञया पिण्डानहं द्विजाः ॥

भोजनमनु निमन्त्रित ब्राह्मणानां पूजनं तेभ्यश्चाशीर्वादवर्णनम्

पिण्डेाद्वासनम्

उद्वासयिष्ये शास्त्रीयवत्मना मन्त्रपूर्वतः ।

अयोध्या मथुरा माया काशी काची यवन्तिका ॥ पुरी द्वारावती चैव सप्तैता मुक्तिदायिकाः । पिण्डोद्वासनमन्त्रोऽयं ये तत्प्रोक्तयपरागतिः ॥ सद्यः पितृणां प्रभवेत् क्रमान्मुक्तेश्च दायकः । ततः स्वस्थिति कत्रोत शोभनं हविरित्यथ ॥

[[२०५]]

वदेयुरपि भोक्तारः पश्चात्पिण्डस्थलस्य वै । उत्तरत्र पुनश्चापि शुभस्थानात्तु सिद्धये ॥

। ॥

कूर्चेन प्रोक्षणं कुर्यात् तां भुवं दर्भतण्डुलैः ।

सम्यक् च पूरितां कृत्वा शान्तिरस्त्वादिकैः शतैः ॥

तानि सर्वाणि पुण्याहवाचने गदितानि हि । भोजनानन्तरं विप्रकरशुध्यर्थकारणात् ॥ निलस्पर्शान्तरं कूर्च्यपाथसा पात्रगेन वै । षड्वारं क्षालयेत्कर्ता तावता श्राद्धभुक्तितः ॥ अप्रायत्यं तु यज्जातं तत्करस्य विनश्यति । करशुद्धो च जातायां तत्करेण ततः पदम् ॥ भविष्यमाणकार्याणां योग्यता महती भवेत् ।

कर्ता संप्रार्थयेत्पश्चात् भोक्तः सर्वान् सुखम्थितान् ॥

विश्वे देवा हि पितरः परं युष्मदनुग्रहात् । अस्मद्गोत्रं सम्यगेव वर्धतामिति तान् वदेत् ते वस्ति वर्धता गोत्रं इति न युरशेपकाः । देवतानां प्रसादोऽस्तु पितॄणामपि सन्ततम्

इत्यक्षतान् प्रदद्य स्ते स्वस्ति व्रतेति तान् वदेत् ।

श्राद्ध अन्नं तु मया दत्तं अक्षय्यं तद्भवत्विति ॥ व्रतेति प्रबदेत्कर्ता पितॄन् देवान् पृथक् पृथक् । सम्बुध्यन्तेन निर्दिश्य स्वधा स्वाहां विधानतः ॥ वाचरिष्येति कर्ताऽसौ वाध्यतामिति ते द्विजाः । ऋचे त्वेत्यादितो मन्त्रत्रयमुच्चार्य तत्परम् ॥

[[२०६]]

मार्कण्डेयस्मृतिः

स्वधोच्यतां पित्रादिभ्यः भोक्तारश्च तथा पुनः f

ओं स्वधेति तत कर्ता स्वधा चास्त्विति बाडबाः ॥

ततः स्वधा संपद्यन्त इति कर्तावदी वदेत् । संपद्यन्तां स्वधा चेति प्रत्युक्तिस्तस्य केवलाः

देवाः प्रीयन्तां विश्वे ते प्रि (प्री) यन्तां त इति द्विजाः ।

एवं पितॄणां स्यादेव चेति वाक्यद्वयेन च ॥

जलानि विप्रकरयोः तानुद्दिश्य तिलाक्षतैः । प्रदेयानि श्राद्धकर्ता सत्वरं तदनन्तरम् ॥

दक्षिणादानम्

हिरण्यं रजतं चापि दद्यात्तां दक्षिणां पराम् । पितुस्तु दक्षिणा देया द्विगुणा श्राद्धकर्मणि

दक्षिणाः पान्तु वाक्येन पान्तु त्वां दक्षिणा इति ।

प्रत्युक्तिरिति विज्ञेया तद्वाक्यस्येति सूरिभिः ॥

वाजेवाजेति मन्त्रेण उत्तिष्ठत पितर इति । अनुगच्छन्तु मन्त्रेण तदुद्वासनमुच्यते ॥ दर्भैरुद्वासनं कुर्यात्स्पृशन्नेतान् पितृन् सुरान ।

एवं पूर्वोक्तमन्त्राभ्यां अमीवाजस्य तो जपेत् ॥ अनन्तरं प्रार्थनाख्यां ऋचं शाट्यायनीस्थिताम् । प्राञ्जलिः प्रपठेत्प्रह्वः तत्पुरस्तात्स्थितः स्वयम् ॥

ते अप्युदाहरिष्यामि सर्वेषां विशदाय वै । दातारो नोऽभिवर्धन्तां वेदाःसन्ततिरेव नः

श्रद्धा च नो मा व्यगमात् बहुदेयं च नोऽस्त्विति ।

अन्नं च नो बहु भवेदतिथींश्च लभेध्महि ॥

याचितारश्च नः सन्तु मा च याचिष्म कंचन । ऊहेन चैतयोरुक्तिरेवं वाच्या विशेषतः दातारो वोऽभिवर्धन्तां वेदाः सन्ततिरेव वः ।

श्रद्धा च वो मा व्यगमाद् बहु देयं च वोऽस्तु ॥ अन्नं च वो बहु भवेदतिथींश्च लभध्वम् । याचितारश्च वः सन्तु मा च याचध्वं कंचन ॥

ब्राह्मणभोजनोत्तरं स्वकुटुम्बसहित, श्राद्धसामग्री गृह्णीयादितिवर्णनम् २०७

अथ कर्ताऽन्नशेषः किं क्रियतामिति वै वदेत् ।

ते विप्रास्तस्य च प्रोचु र्वाक्यस्योत्तरमञ्जसा ॥

इष्टैः सहैव भुञ्जन्तां इति वाक्यात्ततः परम् । ब्राह्मणानां स्वयं कर्ता स्वादुषंसद इत्यृचः

दक्षिणाभिमुखस्तिष्ठन्नुपतिष्ठेत्तु वै पितृन्

[[1]]

प्राचीनावीतिना भक्तया तत्पश्चाद्ब्राह्मणांस्तु ते ॥ मन्त्राक्षतान् प्रदद्य श्च वेदमन्त्रैः शिवप्रदैः ।

तान स्वीकृत्य स्वयं भक्तथा चाञ्जल्या भूय एव

पुराणोक्तानि मन्त्राणि प्रवदन् भक्तिपूर्वतः । विप्रपादौ संस्पृशन वै पीडयेच्च पुनः पुनः

ala श्लोकानपि वक्ष्यामि पावनानघवारकान् ।

अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् ॥

अद्य मे वंशजाः सर्वे याता वोऽनुग्रहाद्दिवम् । पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः तत्क्लेशजातं चित्ते तु विस्मृत्य क्षन्तुमर्हथ । वसिष्ठवामदेवादितुलितास्तु समागताः ॥

परागसदृशं पितृश्राद्धमभून्मम । आसनैभजनद्रव्यरूपकैर्दक्षिणादिभिः ॥ ‘मयापराधिनाऽडोन किमप्यद्य न सत्कृतम् । अग्नौ करणरूपाख्यं विप्रभोजनरूपकम् ॥ पिण्डदानरूपं यत् कर्मत्रयमिदं तु तत् । यथोक्तं च यथाशाखं गया श्राद्धफलप्रदम्

अस्त्वित्यद्य भवन्तो वै ब्रुवन्त्वित्येव तान् वदेत् ।

तथैव ते प्रत्र युश्च तदनन्तरमेव वै ॥

तिलाक्षलेगृहपतिः श्रीकृष्णार्पणमस्त्विति । तदर्पणं जलैः कुर्यात्ततो नामत्रयं जपेत् ॥ गन्धपुष्पादिभिः पूजामलंकारादिभिः पराम् ।

कृत्वाथ भोक्तृणां तेषां ताम्बूलादिप्रदापनैः ॥

नितरां हर्षितां कृत्वा वेश्मसीमान्तमात्रजेत् । अनुब्रज्ञेयमित्युक्त्वानुव्रजेति पुनश्च तैः अनुज्ञातोऽनुव्रजेत्तु कयान इति तज्जपेत् । सर्वसाद्गुण्यसिध्यर्थं कर्मलोपनिवृत्तये ॥ स्वपितृणामूर्ध्वलोकस्यासिद्धये तथजुर्जपेत् । रुद्रसंख्यानमः शब्दकायकं वेदशीर्षगम् ॥ वामदेवायेति मनुं प्रजपेद्भक्तिसंयुतः । पश्चात्तु ताननुव्रज्य कृत्वा चापि प्रदक्षिणम् ॥

[[२०८]]

मार्कण्डेयस्मृतिः

नमस्कृत्य च साष्टाङ्ग कृतार्थोऽस्मीति भावयेत् ।

पादौ प्रक्षाल्य चाचम्य विप्रपूजां समाचरेत् ॥

ताम्बूल दक्षिणाभिश्च सर्वानेव प्रहर्षयेत् । यथाशक्त्या ब्राह्मणांश्च भोजयेदपि भक्तितः पितृशेष भोजनम्

पुत्रान् पौत्रांश्च बन्धूंश्च मित्राण्याप्तान् परानपि । शिष्टानिष्टानाप्तलोकान् भृत्यवगीनशेषतः ॥

तत्प्रीतये स्वयं चापि तच्छेषं प्राशयेच्छुचिः ।

मातृदीरान ज्ञातिदारान् भिक्षुता (का) नपि केवलान् ॥

मृष्टान्नैरेव नितरां समृद्धः शक्तिसंभवे । स्वमुक्त्यभावे तेषां वै पितॄणां तृप्तिरुत्तमा ॥ न भवेदेव तस्मात्तु सम्यक् सर्वैश्च वस्तुभिः । तद्भुक्तशेषैर्न परैः कुर्याद्भुक्ति स्वबालकः

तत्प्रार्थितप्रदानैकपूर्वकं सुमुखः सुहृत् ।

न तस्मिन दिवसे कुर्याद्विमुखान बालकान् स्वकान् ॥

उच्चैःस्वरेण नाक्रोशेत्ताडयेन्न तु भीपयेत् । बालाव मानतोऽतीव पितरस्तेऽति दुःखिताः भवेयुर्भग्नमनसस्तदुपर्येव तन्मनः । कालान्तरे स्वक्रियायाः एते कतार इत्यपि ॥

तदुपर्यति तत्प्रीतिर्महती सर्वदा स्थिरा ।

तिष्ठत्येव हि तस्मात्तु तद्दिनेऽस्मिन विशेषतः ॥

स्वभुक्तशेषवस्तूनि तदतिप्रार्थितानि वै । प्रदद्यादेव सर्वाणि यानि तान्यधिकाशया ॥ तत्प्रदानैकमात्रेण तत्क्षणेन प्रवच्मि वः । गया श्राद्धशतं तेन कृतमेव भविष्यति ॥

पाककालेऽपि बालानां रोदनस्योत्तरक्षणे ।

पाकक्रियां तां निक्षिप्य मातरस्तान् प्रगृह्य च ॥

स्नानक्रियापूर्वशुद्धान् शुद्धवस्त्रप्रतिष्ठितान् । स्तन्येन पाययेदेव तावन्मात्रेण तेऽखिलाः ॥ क्षुत्तृष्णारहिता भूत्वा परमानन्दनिर्भराः । पूर्णकामा नित्यतृप्रास्तच्चित्तास्तत्परायणाः प्रभवन्त्येव नितरां नप्रक्षुत्कं तथाविधम् । दृष्ट्वा स्तनंधयं सर्वे तदुपयतिहर्षितः ॥ Fवश्राद्धकारक कालात् निश्चित्यैव तथाविधाः । स्तन्यदानक्रियातुष्टा बालग्रहणसंभवम्

परेह्नितर्पणवर्णनम्

[[२०६]]

तद्वैगुण्यं नैव किचित्पितरोऽस्य तन्दुमुखाः । अङ्गीकुर्वन्ति तस्मात्तु तदा स्तन्यं विधानतः पाककाले प्ररुदतः पाकान् जातस्तथाविधान् । पाययेदेव तत्प्रीत्यै तेन वैगुण्यनामकः ॥ प्रत्यवायो नैव भवेदिति व्यासोऽब्रवीत्पुरा । श्राद्धान्ते किल बालानां तदपेक्षितवस्तुनाम् प्रदानमात्रतो नूनं गयाश्राद्धफलं लभेत् । स्वपत्नी वा स्वयं वापि भ्रातरो मातरोऽपि वा

तच्छिष्टभक्ष्य सर्वाघ भक्षणाभावतस्तदा ।

मान्या यदि स्थिताश्चेत्तु स्वस्थास्सन्तस्तदास्यते ॥ पितरो नैव तृप्यन्ते प्राप्तकामाश्च नैव ते । तस्मात्सव तद्दिनेऽस्मिन् सम्यग्भुक्ति सुतृप्तिकाम् ॥ कुवरन् पितृतृप्त्यर्थं न चेत्ते स्युहि दुःखिताः । तस्मिन् दिने तु वत्सानां पानायाखिलमेव वै ॥ क्षीरं तूष्णीं पितृतृप्त्यैत्र पाययेत्तैर्विचक्षणः ।

तेन मात्रेण ते प्रीतास्तां प्रीतिं वार्षिकीं पराम् ॥

तृप्तौ तुष्टिं च पुष्टिं च प्राप्नुवन्त्येव तादृशम् । तत्कर्म कथितं सद्भिर्मह्यमेतत्सुपावनम् ॥ भोक्तृपात्राणि सर्वाणि खनित्वैव विनिक्षिपेत् । परेद्यः पुनरुद्धृत्य दूरतस्तु विसर्जयेत् स्वगोचरं यदि भवेत् तत्पात्रं तद्दिने परम् । व्यर्थमेव भवेच्छ्राद्धं तस्माद्गोप्यं परं हि तत्

परेऽह्नितर्पणम्

तत्परेऽहि पुनः कर्ता श्राद्धाङ्गतिलतर्पणम् । तद्विधानेनैव कुर्यादन्यथा व्यर्थमेति तत् ॥ दर्शे तिलोदकं पूर्वं पश्चाद्दद्यान्महालये । आब्दिकेन परं पूर्व परेऽहनि तिलोदकम् ॥ श्राद्ध यावन्त उद्दिष्टा प्रातस्तानेव तर्पयेत् । श्राद्धप्रधानदेवानां तर्पणं स्यात्परेऽहनि ॥ परेद्युरुषसि प्रातस्तर्पणं यत्कृतं नरैः । अमृतं तद्भवत्येव द्वितीये प्रहरे पयः ॥ तृतीये जलमेत्र स्याच्चतुर्थे रुधिरं भवेत् । परेद्युरुषसि प्रातः तच्छेषैस्तिलदर्भकैः ॥ तदा कृतपवित्रेण तर्पणं तद्विधीयते । यः परेऽहनि मूढात्मा पितॄणां तर्पणं यतन् ॥ न करोति विमूढात्मा पितृभिः सह मज्जति । रौरवे कालसूत्रे च यावदाभूतसंप्लवम् ॥

[[१५]]

[[1]]

[[२१०]]

मार्कण्डेयस्मृतिः

श्राद्धकर्ता न ताम्बूलं तावदेव न खादयेत् ।

खादयेद्यदि मूढात्मा श्राद्धहन्ता भवेत् क्षणात् ॥

मोहादकृत्वा यः श्राद्ध ताम्बूलं यदि खादयेत । श्राद्धहन्ता भवेत्कर्ता रौरवं नरकं व्रजेत्

समाप्यनन्तरं तस्य ताम्बूलं न तु दुष्यति ।

श्राद्धं तत्तर्पणान्तं स्यात् तन्निवृ से तु तच्चरेत् ॥

दर्शादिकेषु श्राद्धषु कृतेषु तदनन्तरम् । ताम्बूलचर्वणं शस्तं वृत्तत्वात्कर्मणः परम् ॥ द्वितीयवरभुक्तिस्तु तद्दिनेषु निषिध्यते । अभ्यञ्जनरतिश्चैव वर्त्मनो गमनं तथा ॥

श्राद्ध’ कृत्वा तु यो मौन्यात् भुक्त परान्नमतिमूढधीः ।

पितरस्तस्य ते क्रुद्धाः शापं दास्यन्ति दुस्तरम् ॥

अन्नश्राद्ध तु मुख्यं स्यादितरन्निखिलं परम् । अमुख्यमेव सर्वत्र ह्यतोऽन्नेनैव तच्चरेत् पात्रेष्वेव प्रदातव्यं मुख्येषु सततं सुधीः । वेदार्थज्ञानचर्याभिः सर्वश्रोत्रियसन्ततौ ॥ तत्पात्रं लभ्यते श्रीमत् नान्यत्र तु कथंचन । आदौ चर्याsत्र कथिता सन्ध्यामन्त्रैककारिता ॥ सन्ध्यामात्रैकशून्ये तु ब्राह्मण्यं तत्र वै भवेत् ।

कुतः कथं केन कस्मात् इत्युवाच श्रुतिः परा ॥

तद्ब्राह्मणरसमीचीनः सर्वकर्मसु सन्ततम् । अत्यन्तावश्यको ज्ञेयस्तदभावेन किञ्चन ॥ ब्राह्मणा जंगमं तीर्थं ब्राह्मणा जंगमं तपः । ब्राह्मणा जंगमा देवाः ब्राह्मणे विद्यतेऽखिलम् तस्मात्तु ब्राह्मणाः पूज्याः सर्वेषामपि सन्ततम् । देवताचार्यगुरवः शिक्षकाश्च पुरोहिताः याजकाः सर्वलोकानां कारका भव्यसंपदाम् । तस्मात्सर्वात्मना ते वै नाधिक्षेपस्य देहिनाम् ॥ ते पात्रभूता विज्ञेयाः पुनर्वन्धा यथासुराः । अब्राह्मणेभ्यस्त्वधिकाः विशेया ब्राह्मण ब्रुवाः ॥ तेभ्योऽधिका ब्राह्मणाः स्युस्तेभ्यश्च श्रोत्रियाः पराः । तेभ्योऽधिका वेदविदस्तेभ्यश्च ब्रह्मवादिनः ॥

ब्राह्मणमहिमा ब्राह्मणानां समागमने शूद्रस्य स्थितौ

दण्डः

[[२११]]

न ब्रह्मवादितुलितः कोऽप्यस्ति जगतीतले । महात्मसु ब्राह्मणेषु विद्यमानेषु तत्पुरः ॥ नागच्छेत् कोऽपि यानेन चतुरन्तेन वा तथा ।

रथेन वा शिविकया शकटेनापि वाजिना । गजादिना वा किं भूयो नातुरस्य विधिर्मतः । यद्यागतश्चेत् किं तस्य श्रेयः स्वश्रेयसं महत् ॥

ह्रीः श्रीः कीर्तिश्च पुष्टिश्च लयं यान्त्यखिला अपि ।

यदि गर्वसमायुक्तो जपत्सु सुमहात्मसु । विद्यमानेषु शुद्धषु तन्मध्यमशुचिर्जडः ॥ समानतः सद्य एव दण्ड्यः सर्वेश्च वाग्भिरुः । छीछन्दैर्गच्छ मातिष्ठ दुरात्मन्निति वाक्खरैः ॥

भाषणैः परुषैः क्रूरैः यद्ययं द्विजनामकः । शूद्रश्चेत्पांसुनीराभ्यां प्रदूष्यः सहसा भवेत् ॥

शुद्धानां ब्राह्मणानां मध्ये शूद्रागमने तस्य दण्डः

स्नानं कृत्वोपविष्टानां ब्राह्मणानां सरितटे । यदि मध्यगतः शूद्रो निर्भयेन कदाचन ॥ एवं कुर्वन् वस्त्रधरः सोष्णीषो गच्छ दूरतः । इत्युक्त डेपि पुनारावं कुर्वन्निर्भयमास्थितः ॥ त्वं शब्देनैन हुंकुर्वन् गच्छेद्यदि स पाप्ययम् ।

ताडनीयो विशेषेण दाप्यश्च त्रिपणान्पुनः ॥

यदि स्पृशेन्निर्भयेन पुनर्गच्छन् जलेन तान् । दूषयन्नपि सिञ्चन् वै शपन् धावन्निरन्तरम्

तदा तदा निर्दयेन नास्त्वेवमिति कैरति ।

बोध्यमानोऽपि तयक्त्वा तृणीकृत्य च सज्जनान् ॥

जपन्नानादिकालेषु समागच्छन् पुनः पुनः । हुंकारवादिदुष्कृत्यैः संस्पृशन्नपि निर्घृणः ॥

स्ववस्त्रधूननाद्यश्च पीडयन् क्रूरभाषणैः ।

मया त्वेनं कृते तूष्णीं युष्माकं किमिति ब्रुवन् ॥ तन्मध्ये प्रलपन् गाढं ब्राह्मणान्योऽवमन्यते । स सद्यः सर्व यत्नेन राजन्यावेद्य चाखिलैः ॥

[[२१२]]

मार्कण्डेयस्मृतिः

ताडनीयः प्रबाध्यश्च चतुर्विंशतिकान् पणान् । प्रदाप्यश्च विशेषेण दूरप्रेषणकर्मणा ॥ शिक्षणीयो विशेषेण सद्भिः सर्वैश्च केवलम् । विद्यागर्वेण शूद्रस्तु ब्राह्मणाम् दूषयेद्यदि स राज्ञा निर्दयं बाढं सद्य आनीय सत्वरम् ।

चपेटिकाप्रदानाद्यः शिक्षयित्वा विशेषतः ॥

अटोत्तरशतान् दाप्यपणान्मासत्रयं पुनः । निगले योजनीयश्च धर्मज्ञेन महात्मना ॥ विद्यागर्वेण शूद्रश्चेद्विप्रं न्यक्कृत्य साहसात् ।

ताडयेद्यदि तं राजा सद्यः श्रुत्वा भुजिष्यतः ॥

ग्राहयित्वा ताडयित्वा सर्वयत्नेन भीतितः । पलायनपरं वापि कशाघातैरनेकशः ॥ कारयित्वा महापीडां महानिगल (ड़) बन्धनैः । मासषट्कं पातयित्वा तद्गर्वमखिलं यथा संप्रणश्येत्तथा कृत्वा सर्वस्वहरणाम्बिना । प्राणेन प्रेषयेदेनं न चेद्राष्ट्रं विनश्यति ॥ यदि शूद्रास्तु बहवो धनिनो गर्वनिर्भराः । अन्तद्वेषा ब्राह्मणेषु विप्रभक्त्यानुमोदिनः ॥ बहिर्वेषेण नितरां ब्राह्मण्या इव केवलम् । आसमानाश्चोरकृत्याः पश्यतामनुमोदनात् अन्तरं समुपाश्रित्य कल्याणेषूत्सवेषु वा । निमित्तान्तरमाश्रित्य प्रहारैरतिदारुणैः ॥ ताडिताः प्रहृताश्चेत्तु वेदवादेषु निर्दयम् । रक्तप्रवाहपर्यन्तं करपादादिघट्टनैः ॥

शिरस्फोटनमूर्द्धादिपर्यन्तः कारिताः खरैः ।

तान् सर्वान् धार्मिको राजा विप्रताडनदिग्जयान् ॥

श्रुत्वैव सत्वरं सम्यक् प्राहयित्वा कुचेतसः । यथा तैः प्रहृता विप्रास्तस्माद्दशगुणाधिकम् उपानद्भिः कशाघातै स्ताडयित्वातिनिर्दयम् । निगलैर्बन्धयित्वा च वर्षाधं वर्षमेव वा ॥ सर्वस्वहरणं कृत्वा सर्वोपायेन निर्दयम् । दयामकृत्वा सुतरां तदुपर्यतिपौरुषम् ॥ समाश्रित्यैव धर्मार्थं विरूपकरणादिभिः । उपवासकृशान् कृत्वा जलमूत्रनिरोधनैः ॥

अत्यन्तं दुःखितान् कृत्वा पश्चाद्राष्ट्राद्विवासयेत् । भवनान्यपि सर्वाणि कुब्याङ्कणमुखान्यपि ।

निर्मूलयित्वा नितरां तत्स्थले तत्परं पुनः । दैरण्डान्य तिशीघ्रण बीजान्यपि निरन्तरम् तदङ्कुरप्ररोहाथं पातयेत्तत्पुरः स्थितः । एवं विप्रप्रहारस्य फलं त्विति निदर्शयन् ॥

ब्राह्मणस्यैवभूदानम्

[[२१३]]

तद्वृद्धिं कारयित्वैव तन्मुखादतिगह्वरम् । यवा वनं भवेद्घोरं तदा कुर्याद् दुरात्मनाम् । तदूवेश्मभूमिसंस्थानं न चेद्राज्ञो महद्भयम् । भवत्येव पुनस्तस्मिन् राज्ये दुर्भिक्षमप्यत्ति अनावृष्टिः सुमहती कलहः सुमहान् भवेत् । शिवदीक्षापराः शूद्राः कलौ प्रायेण सन्ततम् ब्रह्मद्विषः शूद्रदीक्षा वर्धन्ते तत्र तत्र वै । तेषां तु बकवृत्तीनां ब्रह्मण्यो राष्ट्रवर्धनः ॥ दीक्षा तदा तदा कुर्यात् न चेद्राष्ट्रं विनश्यति ।

राज्ञो ह्ययं सदा धर्मः प्रजानां परिपालनम् ॥

तच्च हि प्रकथितं दुष्टनिग्रहपूर्वकम् । शिष्टानां पालनं सद्भिः धर्मौत्र ह्मवादिभिः ॥ शिष्टाः सर्वेऽपि कथिताः ब्राह्मणा एव मुख्यतः । शिष्टशब्दो ब्राह्मणेषु मुख्यत्वेनैव नान्यतः तेषामेव सदादानपात्रता सा प्रचोदिता । तस्मात्ते सर्वदानानां मुख्यपात्राणि सन्ततम् सर्वेषामपि वर्णानां एवं सत्यत्र कश्चन । विशेषो ह्यत्र विज्ञेयः कन्यादानस्य चेत्पुनः ॥ तत्तज्जातिसमुत्पन्नः प्रवरः शास्त्रवाक्यतः । तत्तजातिषु भूयश्च तदवान्तरजातिजः ॥ तद्दानेषु प्रशस्ता वै तत्रापि च पुनर्महत् । बन्धुत्वमेव शस्तं हि श्रुतवत्वं च शीलता ॥

ब्राह्मणस्यैव भूदानम् तत्रापि सपिण्डादेः

भूदानेऽप्येवमेव स्याद्ब्राह्मणानां विशेषतः । ज्ञातित्वं वा सगोत्रत्व मादौ स्यादुत्तमोत्तमम् ॥ तस्माज् ज्ञातौ सगोत्रे वा विद्यमाने विहाय तम् ।

भूमिं न दद्यादन्यस्मै दत्ता साऽपि न सिध्यति ॥

एवं सत्यत्र यो मोहाद्विमानेषु भूरिषु । सगोत्रेषुत्र ज्ञातिषु च श्रोत्रियेषु महात्मसु ॥ आहिताग्निषु विद्वत्सु मूढधीः सोमयाजिषु । अग्निचित्स्वतिरात्राप्तोर्यामयाजिषु सत्स्वपि ॥

अग्निहोत्रषु पुण्येषु वाजपेयादियाजिषु । कथं कुर्याद्भूमिदानं सर्वशास्त्रैकनिन्दितम् ॥

सगोत्री पुरतस्तिष्ठन् दानकाले समाहितः ।

न कुर्यात्तं निरोधं सः न निरुद्धः क्रियाश्चरेत् ॥२१४

मार्कण्डेयस्मृतिः

अपि तूष्णीं स्थितो ज्ञातिर्दानकाले विचक्षणः । दानं पश्यन् क्रियमाणं ममैतं न मतं परम् ॥ इति वा तृप्तिमात्रेण न दानं तस्य सिध्यति । भूदाने हि ज्ञातिमतिः सामन्तस्य मतिस्तथा ॥ ग्रामस्थानां मतिश्चापि सगोत्राणां मतिस्ततः ।

दायादानां मतिश्वापि समीपप्रामिणां मतिः ॥

हिरण्योदकधारा च सर्वेषां पुरतस्तु चेत् । तद्दानं सिध्य ( ? ) न चेत्तेनैव सिध्यति !! तस्कराचरितं तत्र लिखितं च तदा तदा । प्रधानज्ञात्यलिखितं लिखितं दूरगोत्रिभिः ॥ चोरमार्गैकलिखितं लेख्यं दूषितमेव तत् । भूमिदानस्य पात्राणि पुत्राः पौत्राः पितामहाः पितरो भ्रातरः स्त्रीणां श्वशुरास्तत्सुताः परे । भवन्ति दानपात्राणि विद्यमानेषु तेषु चेत अन्तरङ्ग ेषु सर्वेषु नान्यगोत्राय तच्चरेत् । अत्यन्तदुर्गुणी रुष्टो दीर्घवैरोऽपि केवलम् ॥ सगोत्रश्चेत् प्रार्थयित्वा तस्मै दद्याद्धरां कृती ।

आहिताग्निषु तिष्ठत्सु तानतिक्रम्य मौढयतः ॥

दद्यादनाहिताग्निभ्यो न कदाचन मानवः । सगोत्रगैव सततं सदा भूमिः सरिद्यथा ॥ समुद्रगा तथेयं च तस्माद्दद्यात्सगोत्रिणे । तिष्ठत्सु ज्ञातिवर्गेषु त्यक्त्वेनानन्यगां धराम् ॥ करोत्ययं द्विजानहित्वा श्वदत्त श्राद्धकृद्यथा ।

अनाहिताग्न्याहिताग्न्योर्विवादे समुपस्थिते ॥

आहिताग्नेर्वदेत्पक्षमत्यन्तमपराधिनः । अपि तस्मिन् वदेन्नैव मन्तुं कमपि सर्वथा ॥ स एव धर्मः कथितः सतः श्रेष्ठ्यं प्रकल्पयेत् । एवमेव तथान्यश्च विज्ञेयं पुरुषर्षभैः ॥

ब्राह्मणस्याब्राह्मणस्य विवादे समुपस्थिते ।

ब्राह्मणस्यैव धर्मेण जयो वात्स्यो(च्यो) नराधिपैः ॥

अयोग्यायोग्ययोरेवं श्रोत्रियेऽश्रोत्रिये तथा । असत्सतोश्च सर्वत्र विज्ञेयं धर्मवादिभिः ॥ सर्वत्र भूमिं सततं ज्ञातीनामेव चाचरेत् । ते विशेषेण चेत्सन्तः श्रोत्रिया आहिताग्नयः संनिकृष्टज्ञातयश्च किमुतेति महात्मभिः । विज्ञेयः सर्वदा तस्मिन् दाने महति भौमिके ॥

पति सयोगविकला विधवाया वृत्तिष्वनधिकारवर्णनम्

जीवनांशप्राप्तभूमिं प्रविभागसमागताम् ।

क्रमागत वा सामान्यविद्यमानां विना मतिम् ॥

न दानमाचरेद्भूमिं निखिलानां सगोत्रिणाम् ।

कस्मैचिद्याचमानाय भिन्नागोत्राय छन्दतः ॥

२.१५

पतिसंयोगविकलविधवानां तु सन्ततम् । न वृत्तित्वधिकारोऽस्ति न ग्रहेषु धरासु वा ॥ जाते तु पतिसंयोगे तद्ध्वं वर्षपश्वकात् । अप्रजा विधवा सा चेत्तस्यै दद्य स्तदीयकैः ॥

अन्नं वस्त्रं च यदि सा सुवृत्ता जनसम्मता ।

न तादृशो भवेत्सा च तस्यै नित्यं च तण्डुलान् ॥

[[11]]

वसनं त्रिपणक्रीनं मध्याह्न सेन्धनं स्मृतम् । तादृश्या दैवयोगेन जीवनांशो धरात्मकः ॥ यदि लब्धस्स तु परं न देयकायकश्चन । विधवामात्रसंप्राप्त भूमिर्या साथ तज्जनान् ॥

यथाकथञ्चित्प्राप्नोति नान्या स्नानादिना कचित् । बहुज्ञातिषु तिष्ठत्सु शास्त्रज्ञेषु महात्मसु ।

विभक्त ध्वविभक्तेषु सुप्रसिद्ध षु भूतले । सर्वाचार्येषु नितरां तेषु यः प्रवरः परः ॥

तदाज्ञयैव सर्वेऽपि वर्तेरन्निति भूतले ।

मर्यादा कथिता सद्भिः गोत्रिणामप्यगोत्रिणाम् ॥ बन्धूनामपि सर्वेषां मर्यादा सा तु केवला । परैः प्रकथिता नूनं नातिलध्याऽखिलैस्तु सा । यस्मिन् देशेऽपि वा ग्रामे प्रसिद्धः सर्वदिक्ष्वपि ॥

विद्यमानो विद्यया वा श्रिया वा तस्य संमतिः ॥

स्थिता चेत्तत्तु सम्यग्वै शक्यते नात्र संशयः । देशप्रसिद्धविदुषो यत्कार्ये संगतिः परा ॥ तत्कायं क्षमते कर्तु तद्दानं च धरादिकम् । यदि तस्वासंमतिः स्यात्तद्देशग्रामयोः परम् ॥

विद्यमानस्य तत्कार्यं न सिध्यत्येव सर्वथा ।

तत्प्राभट्यै कसिद्धयर्थं तुच्छैस्तद्ग्रामवासिभिः ॥

यद्यत्कृतं तन्निखिलं मृषैवेति सुनिश्चयः । तद्धस्तलेखनं यस्य कार्यस्यात्र प्रहृश्यते ॥ :

[[२१६]]

मार्कण्डेयस्मृतिः

प्रामाणिकं तदेव स्यात् विना तल्लेखनं तराम् ।

तुच्छानां लेखनं चेत्तु तत्रत्यानां दुरात्मनाम् ॥

बहूनामपि किं तेन तन्न प्रामाण्यसाधकम् । यत्र यत्र महान्तो ये विद्याचारादिसद्गुणैः प्रसिद्धाः शिष्यवृन्दैश्व तत्र तत्र परास्तु ते । तल्लेखनं विना सर्वं तुच्छानां लेखनं वृथा ॥ प्रसिद्धानां लेखनं चेदादौ तत्परतः पुनः । (लि) तिपिस्तदप्रसिद्धानां कार्याय प्रभविष्यति यजमानलिपिर्यस्मिन् पत्रे पूर्व प्रवर्तते । प्रसिद्धानां लेखनं च तत्पत्रं पत्रमुच्यते ॥ लिप्यभावे ग्रामकर्तु स्तत्समानां महात्मनाम् ।

प्रसिद्धानां तु विदुषां तत्तुच्छ लिपिमात्रतः ॥

तत्पत्रमनृतं नूनं कार्यकृन्न भविष्यति । पश्चात्तलिपिकर्तारः राजदण्ड्या भवन्त्यपि ॥

अत्यन्तानुभवो नूनं न तु प्रामाण्यमृच्छति ।

आगमेन विशुद्ध न भोगो याति प्रमाणताम् ॥ कलाप भोगशस्तो न भोगो मायासमुद्भवः । व्यामोहभोगो दाक्षिण्यभोगः पीडासमुद्भवः ॥ पीडाभोगो भृतेर्भीगो दयाभोगस्तथा परः । उपाधिभोगश्चरमो न भोगा इति कीर्तिताः ॥ अनागमं तु यो भुङ्क्त बहून्यब्दशतान्यपि । चोरवद्राजदण्डेन दण्ड्यो भवति किल्बिषी ॥ स्वामिद्रोहं जनद्रोहं विना वैरं शुचं तथा । सारं कलहं चापि विनैव प्रबलाश्रयम् ॥

स्याच्चेदनुभवः सोऽयं सम्यक् प्रामाणिको भवेत् ।

(….

) वच ॥

सखिक्षोभं गुरुक्षोभं तत्तद्रन्धनिरीक्षणम् । दुष्टाश्रयणमत्यन्तं तस्करानुभवस्स तु ॥ विनैव न भवेन्नूनं तादृशानुभवः स तु । प्रभवेत् बाघकायैव न कीर्त्यै श्रेयसे श्रियै ॥ … ) । ( ) व कथिता सद्भिः स्वामिब्धप्रतिग्रहाः

सुखाय वात्मनो ( ..

रन्ध्रप्रविष्टक्रियाप्रविष्टयोर्भेदवर्णनम्

[[२१७]]

) ताः ॥

ग्रामिणो ग्रामकर्तारो धर्मतो ग्रामभागिनः । अत्र स्वामी ग्रामकर्ता य आदावकरोत्परम् प्रामं द्विजानां दानेन तत्सकाशप्रतिग्रहाः । ग्रामभाग ( प्रतिग्रहिकरालब्धप्रतिग्रहपरश्व यः । तद्भागी सोऽपि भवति न तैः साम्यं स विन्दति ॥ तादृशस्यास्य मध्याप्त क्षेत्रकस्य विशेषतः । पूर्वाः सर्वे पूजनीयाः ये स्युः कर्तृ प्रतिप्रहाः ॥ प्रामाधिकारिण ( ……. ..) त्तमोत्तमाः । रन्ध्रक्रियाक्रयस्वैरप्रविष्टा ये दुराशयाः दुर्मार्गा दुश्चरित्राश्च नित्यदुष्टाश्रयाखिलाः । अकार्यकारिणोऽन्यैक कार्यप्राधान्यश्वेतसः अन्यथा कारिणश्चापि राज्ञः स्युर्दण्डभागिनः ।

तत्रापि सद्यो यत्नेन विज्ञाताश्चेत्क्रियामुखात् ॥

…..

रन्ध्रप्रविष्टाः सन्ताड्याः संशयो नात्र वच्मि वः । कालं प्रतीक्ष्य यत्नेन प्रामभागैकचेतसा प्रामापदि प्रामिभिस्तैर्दत्तभागस्तु संकटे । रन्ध्रप्रविष्ट इत्युक्तः (

. ) तः ॥ क्रियाप्रविष्टः सर्वेषां संगत्या ग्रामकार्यकृत् । तद्दत्तभागस्तद्द्यामेः क्रियाविष्टः स उच्यते ॥ तद्विरोधे दण्डनीयस्तदभावे परं त्वयम् । स्थाप्य एव सदा राज्ञा क्रियाविष्टस्तु सर्वतः ॥

) तिर्यः क्रियाविष्टः स उच्यते ।

(

सोऽपि क्रियाविष्टतुल्यः तत्र भाग्येव सन्ततम् ।

तद्मामकार्यातिषु चेदयं नालं हि धर्मतः । गृहीतभोग्यवृत्याघसमाक्रान्तदिगन्तरः ॥

) त एते सीम्नि वेत्स्वके ।

स्वैरप्र (

यदि स्थिताः साधवः स्युर्ज्ञात्वा धर्मं स्वकं सतः ॥ कृपया पालनीयाः स्युरुद्वास्यास्तेन चेत्खलाः । ये रन्ध्रादिप्रविष्टाः स्युस्तेषां प्रायेण सन्ततम् ॥

दुष्कृत्यं सहजं नात्र () थापि यश्चकः ॥

[[२१८]]

मार्कण्डेयस्मृतिः

ब्राह्मवृत्तिकहारकदण्डः

ज्ञात्वा स्वधर्मे संतिष्ठेत्स उ देवोऽन्यथा न सः । समीचीनब्राह्मणस्य स्थितां वृत्तिं धराकृतिम् ॥

दानव्याजापहर्तारो दण्ड्या राज्ञा विशेषतः । असमीचीनदानाख्य ( ) परस्वका ज्ञात्वा राजा सद्य एव शिक्षयेन्न तु मोचयेत् । दाक्षिण्यं समुपाश्रित्य तदाश्रयविशेषतः

उपेक्षिता यदि खलाः राज्ञः पापं महद्भवेत् ।

) पु भुञ्जते ॥

अन्यभो ( तान्यनावृष्टिमिच्छन्ति महद्वा जायते भयम् । अयं हि राजधर्मः स्यात् सतः संपूजयेत्सदा ॥

असतो दण्डयेदेव चासन्तश्चाप्यमी मताः । (

कुशीलवास्तदा ( ) राः नाट्यविद्याविशारदाः ।

प्रेष्या वार्धुषिकाश्चैव व्यपेताः स्वस्वधर्मतः ॥

परदिण्डाशना नित्यं शूद्रप्रेष्यास्तदुन्मुखाः । अत्रताश्चाप्यदी (

संस्थिताः ॥

) 11

परवृत्त्यपहर्तारः व्यवहारपराजिताः । निर्लज्जा निर्भया भूयो नाहं निर्जितवानिति ॥

वदन्तः संचरन्तश्च धर्मवक्तृनसदा सतः । दूष (

) 11

असत्यवाद (.. 1 राः चार (

) परास्तया ।

कुक्षिंभरणकमैकप्रधानाः पापचेतसः ॥

पुनरन्ये दुश्चरित्राः विज्ञेयाः स्युरमी खलाः । असन्त इति तान् राजा ज्ञात्वा तत्कृत्यमप्यति ॥ अनुरू ( … ) तान् भूमिह न विशेषतः । अग्निदान् विषदांश्चापि शस्त्रपाणीन् धनापहान् ॥ क्षेत्रदारापहतश्च व्रात्यान् सर्वान् क्षतत्रतान् । भुजङ्गान् दुष्टचित्तांश्च सत्यज (

..

. ) दपि ॥

(

उत्तमर्णाधमणदण्डवर्णनम्,

यदि तृप्तास्तु ते तूष्णीं परलोकाननश्वरान् । क्रियासंपादितान् सर्वान् नाशयेयुश्च तत्क्षणात् ॥ राजधानी यथा शून्या यथा कूपश्च निर्जलः ।

यथा हुतमनग्नौ च कृ (

) कृतम् ॥

.२१६

तादृशेषु तथा दत्तं भवेदेव न संशयः । न सुतस्य पितृद्रव्यमेवं वादी प्रसूर्मनाः ॥ पात्रान्नभुक्तिहा क्रूरः पोताऽस्य क्षीररोधकः ।

विश्वास (घा) पातको राजमित्रस्वामीगुरुद्विषः ॥

. ) विषदा भूमिहारकाः । एकादशैते कथिताः प्रोक्ता निष्कृतिवर्जिताः कदाप्येषां नोपकारः कार्य एव महात्मभिः । एकादशसु चैतेषु विप्रवेदविवर्जिते ॥ नष्टशौचे व्रतभ्रष्टे मल्ले च कितवे तथा । रोदत्यु (

) तं कृतम् ॥ नावेद्यपि प्रयच्छेत हेतुके नास्तिकेऽपि च । न पाषण्डेषु सर्वेषु वेदशास्त्रविदूषिके ॥ न बकत्रतिके पापे न वैडालव्रते तथा । न स्वाध्यायान्नरहिते तथैव च निराकृते ॥ धूर्ते ( .

) देवलके दत्तं भृतकाध्यापके तथा ॥

)” (

दत्तमेतेषु सर्वेषु वृथा दानं प्रकीर्तितम् । व्यर्थमब्राह्मणे दानं

विप्रजातौ सूत्रदा (

) । (

पतिते तस्करे तथा ॥

) न े ग्रामयाजके ॥

वेदविक्रयिके चैव व्यालमाहे तथैव च । ब्रह्मबन्धौ च यद्दत्तं तथैव वृषलीपतौ ॥ परिचारकलोकेषु आरूढपतिते तथा । भू ( …

) !

दत्ततुल्यधनं वृद्धया गृहीतं चेत्सबन्धके । प्रश्यति ततो वृद्धिस्तत्कृन्तति पुनर्हृतम् ॥ नजीकृते पुनः पत्रे तद्भिया तूत्तमर्णकः । गुमचौर इति ज्ञेयः (

उत्तमर्णाधमर्णदण्डः

) ति ॥

पत्रे त्रिवारे यदि तु वृद्धिग्रहण भीतितः । नवीकृते तदा दण्ड्यो ऋणदाता भवेद्ध्रुवम् ॥

यदि मध्यस्थमुखतः गृहीतो मासमास्यत ।

गृहीत (

….

) तमर्ण (

) स्तु तदाखिलम् 1:

[[२२०]]

मार्कण्डेयस्मृतिः

अधमर्णेन तत्सर्वं देयमेवेति तज्जगुः । ऋणतुल्यग्रहणतः परं वृद्धिर्न धर्मतः ॥

भवेदेव ततः पश्चात् गृहीतो न्यायदूषितः ।

( .. ) नं ( … ) शक्तादेव मत्यापतेश्शिशुम् ॥

माता दद्यात्सभार्याया चेदयं तूभयोः सुतः । पुत्रप्रदाता पुत्री चेदयं द्वमातृकोऽप्यति ॥

प्रदत्तसूनुर्नितरां दातृ (

)।

) स्तदा पालकः ॥

स्वयं ( …… ) र्मेण कु ( ) र्माणि जनकः पुत्रवानपि ॥ प्रदत्तसूनुर्जनकस्य नूनं कृत्यानि सर्वाणि पृथग्विधानात् । कुर्वीत नो चेत्पितृघातकः स्यात् ( ( ……………. ) पालकस्यैव सन्ततम् । सर्वाणि कुर्याद्विधिना जनकस्य तु नैव हि ॥ उभयोरपि चाशौचं पित्रोः कार्य विधानतः ।

बन्धूनां भिन्नगोत्राणां समीपे त्रिदि (

( ) पक्षिणी स्यात्तदेतत्तादृशं पुनः । दशाहमध्ये संप्राप्त स्वकालप्राप्तमेव चेत् ॥

) 11

अनुष्ठेयमतिकान्तं नैवेत्येवेति केचन । केचित्तु पुनरत्यूचुः अहर्मा (

( ….

….

) 11

) र्थकम् । दशाहमध्ये विहितं तदूर्ध्व स्नानमात्रकम् ॥ ज्ञात्याशौचं तु कथितं तस्मादेतद्यतोऽधिकम् । तत्तस्त्वेवं व्यवस्था हि महती परिकल्पिता

मासत्रये त्रिरात्रं स्यात् षण्मासात्पक्षिणी भवेत् ।

अहस्तु नवमादर्वार्ध्व स्नानेन शुध्यति ॥

बहूवा (त्या) किं महाभागाः ब्राह्मण्यं तु कलौ परम् । तिष्ठति श्राद्धसन्ध्याभ्यां तद्वयं तस्मात्तद्वयं चरेत् ॥

सन्ध्यां समन्त्रको कुर्यात् तान् मन्त्रान्विस्वरादिभि । : रहितानेव महतां यत्नेनैवाभ्यसेत्सुधी ॥

समीचीनोधारणेन सन्ध्या ब्राह्मणकारिणी । मन्त्राणां तु पु ( …

) ॥

श्राद्धप्रकरणवर्णनम्

) तद्ब्राह्मण्यं च तादृशम् ।

दोषयुक्त’ गुणैर्हीनं तस्मात्सन्ध्यां यथाविधि ॥

सम्यगध्ययनं कृत्वा ब्राह्मण्यं तत्प्रसादये ।

तेन तद्वैष्णवं धाम (

) ॥

[[२२१]]

मृताहं समतिक्रम्य चण्डालः कोटिजन्मसु । भवत्येवेति सा प्राह श्रुतिस्तस्मात्तु तं चरेत् ॥

सगुणं शास्त्रविहितं तेन मुक्ति प्रपद्यते ।

अनन्तास्तद्गुणाः सन्तु ते त्वसाध्याः स्मृताः सदा ॥

अनुष्ठातुर्मतश्चेमे मुख्याः केचन तान् ब्रुवे । स्वस्वपत्नीज्ञातिबन्धुकृतान्नेन कृतं यदि ।

पित्रोः श्राद्ध’ समीचीनकृतं साद्गुण्यमृच्छति ।

अकृतं चेत्तथा तत्तु (

) पुरोक्तवत् ॥

तदन्यथा चेत्पतितः सद्य एव भवेद्ध्रुवम् ।

स्वशब्देनाखिलाः प्रोक्ताः कर्तारो भ्रातरः स्वयम् ॥

पत्नीशब्देन तत्पत्न्यो निखिलाः प्रतिपादिताः । ज्ञातिशब्देन जननी पित (

(

) का ॥

) का स्मृताः ।

पितृव्यपत्नी तद्धर्मभागिन्यश्चापि कीर्तिताः ॥

बन्धुशब्देन भगिनी पितृष्वसृसुतादिकाः । कन्या सं पितृश्राद्ध भिन्नभावेषु सर्वथा ॥

न कुर्यादेव धर्मेण यथा तथा ह [ ? ] । [

] प्रदानं तत्र कीर्तितम् ॥

द्वितीयमप’ तेन तुल्यं ब्राह्मण भोजनम् । तृतीयं च तथा कर्म पिण्डदानं ततः परम् ॥

तृतीयं च तथा कर्म पिण्डदानं ततः परम् ।

एतत्त्रयं श्राद्धशब्दशब्दितं पुनरेककम् ॥

तादृशे कर्मणि पुनः [

[

] तत्पात्रे हुतशेषान्नपातनम् ॥

[[२२२]]

मार्कण्डेयस्मृतिः

तत्तुल्यं तत्प्रोक्षणं च तथा तत् स्पार्शनी कृतिः । संप्रदानं भोक्तृहस्ते तदापोशनपा (

) ।

[

] भोक्तहस्ते त [

] 1

[

] "

[

] श्राद्धं परेऽहनि ।

कर्तृ हस्ताकृते तस्मिन् आपोशनजले यदि ॥

इति श्रीमार्कण्डेयस्मृतौ श्राद्धाख्यं प्रकरणं समाप्तम् ।

॥ शुभम्भूयात् ॥

॥ श्रीगणेशायनमः ॥