विश्वामित्रस्मृतिः

अथ प्रथमोऽध्याय

नित्यनैमित्तिककर्मणांवर्णनम्

सहस्रदलपङ्कजे सकलंशीतरश्मिप्रभे । वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ॥ प्रसन्नवदनेक्षणं सकलदेवतारूपिणं । स्मरेच्छिरसिपावनं तदविधानपूर्वं गुरुम् ॥ १ ॥

आह्निकम्

चतुःपञ्चघटीमानं मुहूर्तं ब्रह्मसंज्ञितम् । " पञ्चपञ्चघटी ज्ञेया उषःकाल इतीष्यते ॥ २ ॥

ऋतुबाणघटीमानमरुणोदयसंज्ञितम् ।

उषः पश्वघटीमानं प्रातःकाल इति स्मृतः ॥ ३ ॥ एवं ज्ञात्वां प्रभाते तु नित्यकर्म समाचरेत् । ‘नित्यनैमित्तिके काम्ये कृते काले तु सत्फलम् ॥ ४ ॥ ब्राह्म े मुहूर्त उत्थाय कृत्वा शौचं समाहितः । स्नानं कुर्यादुषःकाले आत्मार्थमरुणोदये ॥ ५ ॥ प्रातःकाल जपं कुर्यान्नित्यनैमित्तिकं विदुः ।’ रश्मिमन्तं समालोक्य उपस्थानं समाचरेत् ॥ ६ ॥

[[२६४६]]

विश्वामित्रस्मृतिः

॥ सन्ध्यायां मुख्यकालातिक्रमे दोषः ॥ कालातीतं न कर्तव्यं कर्तव्यं कालसंयुतम् । तस्मात्सर्वप्रयत्नेन काले कर्म समाचरेत् ॥ ७॥ उक्तकाले तु यत्कर्म प्रमादादकृतं यदि ॥ ८ ॥ त्रिसहस्रजपं कुर्यात्प्रायश्चित्तं विधोयते । तथा प्रोक्तं प्राणायामद्वयत्रिकम् ॥ ६ ॥ अथवा जपमात्रेण कालातीतेन दोषभाक् । त्रिसहस्रं सहस्रं वा त्रिशतं शतमेव वा ॥१०॥ अनुलोमविलोमाभ्यां जप्त्वादपाप क्षयो भवेत् । उक्तकाले व्यतीते तु उपाधिश्च प्रमाणकम् ॥११॥ अनुलोमविलोमाभ्यां सहस्रजपमाचरेत् । देहस्वस्थवता (स्त्यवता येन स्वस्थचित्तवताऽपि च ॥१२ कालोऽतिक्रम्यते नित्यं तस्य पापो न गण्यते । स सर्वमार्गविभ्रष्टस्तिर्यक्त्वं समवाप्नुयात् ॥१३॥ तस्य दर्शनमात्रेण सचैलः स्नानमाचरेत् । असम्बद्धप्रलापेन दुःसङ्गेनापि निद्रया ॥१४॥ अतिक्रामन्ति ये कालं ते नरा ब्रह्मघातिनः । नित्यकर्माखिलं यस्तु उक्तकाले समाचरेत् ॥१॥ जित्वा स सकलांल्लोकान् अन्ते विष्णुपुरं व्रजेत् ।

प्रत्यहं प्रातरुत्थाय स्नानं सन्ध्यां समाप्य (विधाय) च ॥११

यथाशक्ति जपेद्विद्वान् स मुक्तो नात्र संशयः । यामे चान्त्ये च सर्व नाडीनां पञ्चकं ।द्विजः ॥ १७

अकालसम्पादितकर्मणोनिष्फलत्वम्

प्रातःकाल इति ज्ञात्वा नित्यकर्म समाचरेत् । कर्मकालो दिनान्ते तु पादन्यूनंघटीत्रयम् ॥१८॥ बिम्वं दृष्ट्वा त्यजेदव्यं जपेदातारकोदये । षण्मतेषु समाप्तेषु तत्तन्मन्त्रानुसारतः ॥१६॥ नित्यकर्माणि यः कुर्यात्कर्मसिद्धिं लभेन्नरः (त सः) ।

अनुक्काले कृतकर्म निष्फलं

अकालवृष्टिः पतिता यथा भुवि ॥ उतानि बीजानि विनिष्फलानि वा-

करोत्यकालः कृतकर्मनिष्फलः ॥२०॥

नियुक्तकर्माणि नियुक्तकाले

कृतानि सद्यस्सुखसिद्धिदानि । यथोप्तबीजानि यथा फलानि

काले हि वृष्टिर्भुवि जीवनानि ॥२१॥

सन्ध्यात्रितयलक्षणम्

[[२६४७]]

उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातस्सन्ध्या त्रिधा मता ॥२२॥ उत्तमा पूर्वसूर्या च मध्यमा मध्यसूर्यका । अघमा पश्चिमादित्या मध्यसन्ध्या त्रिधा मता ॥२३॥ उत्तमा सूर्यसहिता मध्यमा लुप्रभास्करा । अधमा तारकोपेता सायंसन्ध्या त्रिधा मता ॥२४॥ शुचिर्वाप्यशुचिर्वापि नित्यं कर्म न सन्त्यजेत् । तत्रापि कालनियमादर्घ्यदानं विशिष्यते ॥२५॥

[[२६४८]]

विश्वामित्रस्मृतिः

सन्ध्यात्रये पूर्वमुखो द्विजन्मा

त्रिधैवशुद्धाचमनं प्रकुर्यात् । उदङ्मुखोवापि समाचरेन्न

तद्दक्षिणापश्चिमयोः कदापि ॥२६॥

सन्ध्यास्नानं परित्यज्य विद्याभ्यासं करोति यः ।

तस्य विद्याविनाशःस्यादधर्मोभवति ध्रुवम् ॥२७॥ गुरूपदेशविधिना स्नानं सन्ध्यां समाचरेत् । वेदादिसर्वविद्यार्थज्ञानसंपत्तिसाधनम् ॥२८॥ इत्येषाद्विजवर्णानां विद्याभ्यासविधिः क्रमात् । अन्यथा योऽभ्यसेद्विद्यां तस्य विद्या न सिध्यति ॥२॥ यस्सन्ध्यां कालतः प्राप्तां अतिक्रमति दुर्मतिः । भ्रूणहत्यामवाप्नोति काकयोनौ प्रजायते ॥३०।l यथाशक्त्त्याचरेत्सन्ध्यां कालेऽह्ना (द्वय, फलमाप्नुयात् । काले तस्मात्प्रयत्नेन नित्यकर्म समाचरेत् ॥३१॥ आचारो द्विविधः प्रोक्तः सोपाधिनुपाधिकः ।

सोपाधिर्गुणमात्रः स्यान्मुख्यः स्यादनुपाधिकः ॥३२॥

उपाधौ समनुप्राप्ते गौणाचारं समाचरेत् । अनुपाधौ च दुर्बुद्धया गौणाचारं करोति यः ॥३३॥ स दारिद्रमवाप्नोति महारोगः प्रजायते । अपवादो महान् दोषो सम्भवेज्जन्मजन्मनि ॥३४॥ मुख्याचारं परित्यज्य गौणाचारं करोति यः ।

‘तस्य कर्मणि धर्माश्च निर्जिताः स्युर्न संशयः ॥३५॥दन्तधावनविधानवर्णनम्

[[२६४६]]

मुख्याचारो महानश्रेष्ठो मुमुक्षोरुपपादकः (कारकः) । यथाकालं द्विजः कुर्यान्मुख्याचारं विधीयते ॥३६॥ स्वगुरु पूजयत्येवमुपचारैश्च पञ्चभिः । सद्भक्त्या संहितामेतां विश्वामित्रस्स (प्र) कल्पयेत् ॥३७॥ प्रातरुत्थाय यो विप्रः स्वात्ममूलस्थकुण्डलीम् । प्रबोध्यो सुप्रभाताया गायत्री तन्त्र चिन्तयेत् ॥३८॥ कुण्डलिन्यां समुद्भूतां गायत्रीं प्राणधारिणीम् । प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित् ॥३६॥ अष्टधा कुण्डलीज्ञेया द्वात्रिंशद् वर्णसंख्यया । एवं ज्ञात्वा प्रभातायां षडाधारे तथा न्यसेत् ॥४०॥ षडाधारेषु षट्कुक्षि विन्यसेच्चतुरक्षरम् । आदिप्रणवसंयुक्तं षट्कुक्षि विन्यसेत्क्रमात् ॥४१॥ सहस्रदलमध्यस्था सफला स चतुर्यका । सोऽहं हंसेति विज्ञेया संकल्पज्ञानपूर्वकम् ॥४२॥ अस्य संकल्पमात्रेण सर्व पापैः प्रमुच्यते । अनया सदृशी विद्या अनया सदृशोजपः ॥४३॥ अनया सदृशं ज्ञानं न भूतो न भविष्यति । समुद्रवसने देवि पर्वतस्तनमण्डले ॥४४ ॥ विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे । अतितीक्ष्णमहाकाय कल्पान्तदहनोपमः ॥४५॥ भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ।

I

‘अथोत्थाय बहिर्गत्वा विण्मूत्रादि त्यजेद्विजः ॥४६॥

[[२६५०]]

विश्वामित्रस्मृतिः

ग्रामाद्दक्षिणदिग्भागे शतधन्वन्तरावधि ।

देवाश्च ऋषयश्चैव गणनाथाश्च योगिनः ॥४॥ गच्छन्तु देवताः सर्वा अत्र शौचं करोम्यहम् । प्रथमं च शिरोवेष्ट निवीतं च द्वितीयकम् ॥४८॥ दिग्दर्शनं तृतीयं स्यात् अन्तर्धानं चतुर्थकम् । मौनन्तु पञ्चकं ज्ञेयं पुरीषं षष्ठमेव च । सप्तमं मृत्तिकाधानं उदकं चाष्टमं स्मृतम् ॥४६॥ मुष्टिमात्रतृणं दत्त्वा रात्रौ चेद्दक्षिणामुखः । दिवाचोदङ्मुखः कुर्याच्छौचं कर्म समाहितः ॥५०॥ वामदक्षिणकर्णस्थ उपवीतं च धारयेत् ।

क्रमान्मूत्र पुरीषे च कुर्याच्छौचं द्विजोत्तमः ॥ ५१॥ यथाविध्युक्तमार्गेण कुर्यादुद्धृतवारिणा ।

कूपकुल्या तटाकादिजलैः शौचं करोति यः ॥५२॥ कल्पकोटिशतैर्वापि नरकान्न निवर्तते ।

एकालिङ्गे करे तिस्रः पश्चापाने तथैव च ॥५३॥ पादद्वये चतुः संख्या एतच्छौचं विधीयते । एतद्धर्मो गृहस्थस्य इतरेषां पृथक्पृथक् ॥१४॥ स्मार्तानां द्विगुणं कुर्यात् वनस्थस्त्रिगुणं तथा । चतुर्गुणं यतीनां च त्रयाणां भेद ईरतिः ॥५५॥ दुर्गन्धत्यागपर्यन्तं कृत्वा शौचं समाहितः ॥५६॥

॥ दन्तधावनम् ॥

क्षीरकाष्ठेन कुर्वीत दन्तधावनमग्रजः । तृणपर्णैस्सदा कुर्यादमा (मे) एकादशीं विना !!!!५७

स्नानाचरणस्यफलम्

तयोरपि च कुर्वीत जम्बूप्लक्षाम्लपणकैः ।

आयुर्बलं यशो वचः प्रजाः पशुवसूनि च ॥५८॥ ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते । निष्ठीवनं च गण्डूषं वायव्याभिमुखो नरः ॥५६॥ ईशानाभिमुखो भूत्वा वायव्यान्ते समुत्सृजेत् । अङ्गारवालुकाभिश्च भस्मांगुलिनखैरपि ॥६०॥ इष्टकालोष्टपाषाणैर्न कुर्याद्दन्तधावनम् ।

खदिरश्च करञ्जश्च कदम्बश्च वटस्तथा ॥६१॥ वेणुश्चतिन्तिडीप्लक्षा वाम्म्रनिम्बे तथैव च । अपामार्गश्च बिल्वश्च अर्कश्चौदुम्बरस्तथा ॥६२॥ एते प्रशस्ताः कथिता दन्तधावनकर्मणि । यथाशक्त्यनुसारेण दन्तधावनमाचरेत्. ॥६३॥ ततो नदीं समागम्य गङ्गाध्यानपुरस्सरम् ।

॥ आचमनम् ॥

स्वसूत्रोक्तविधानेन कुर्यादाचमनत्रयम् ।

[[२६५१]]

वामहस्ते जलं नीत्वा त्रिर्व्याहृत्याभिमन्त्रितम् ॥६४ ॥ आकृष्य दक्षिणे भागे रेचयेद्वाममार्गतः । स्ववामभागमालोक्य वज्रपाषाणतस्त्यजेत् ॥६५॥ पुनः शुद्धाम्बुनाचम्य ततः स्नानं समाचरेत् । नाभिमात्रे जलेस्थित्वा त्रिवारं स्नानमाचरेत् ॥ ६६॥

॥ स्नानभेदाः ॥

प्राणायामत्रयं कुर्यात् दशप्रणवसंयुतम् ।

उल्लिखेन्मार्जनं यन्त्रं स्नानयन्त्रं समुल्लिखेत् ॥६७॥

[[३६५३]]

विश्वामित्रस्मृतिः

गङ्गामंत्रेण चावाह्य सलिलोपरि (द्भव) मुद्रया । !! वह्निमण्डलमालिख्य जलमध्येस विन्दुकम् ॥६८॥ मायाबीजं समुल्लिख्य दण्डेषु व्याहृतित्रयम् । ततश्शुद्धाम्बुनाचम्य प्राणायामन्त्रयं तथा ॥६६॥ देशकालौ च सङ्कीर्त्य गायत्रीध्यानपूर्वकम् । सूक्तन मार्जनं कुर्याद्यथाशास्त्रोक्तमार्गतः ॥७०॥ अघमर्षणमन्त्रेण स्नायात्पञ्चाङ्गपूर्वकम् ।

सङ्कल्पं सूक्तपाठं च मार्जनं चाघमर्पणम् ॥७१॥ !! देवादितर्पणं चैव स्नानं पञ्चाङ्गलक्षणम् ।

शिरःस्नानं गलस्नानं कटिस्नानं तथैव च ॥७२॥ आजानुपादपर्यन्तं मन्त्रस्नानं चतुर्विधम् ॥ तकाराद्यष्टभिर्वर्णैः शिरसि प्रोक्ष्यमान सैः

( शिरः स्नानं समारेत् ) ॥७३॥

भकाराद्यष्टभिर्वर्णैः कण्ठस्नानं समाचरेत् । सकाराद्यष्टभिर्वर्णैः कटिस्नानं समाचरेत् ॥७४॥ पकाराद्यष्टभिर्वर्णैः जानुपादे समाचरेत् । एवं विज्ञानमात्रेण गङ्गास्नानशतं फलम् ॥७५॥ मन्त्रस्नानं विना विप्रो जलस्नानं करोति यः । मनोनिर्मलता तस्य नास्ति हि श्रुतिचोदितम् ॥७६॥

श्रोत्रे नासाक्षिणी बद्ध्वा सहसान्तर्जले प्लुतः । ।’ ‘मग्नं कृत्वा पठन्मन्त्रं याबद्वायुनिरोधनम् ॥७७॥

प्राणायामविधिवर्णनम्

ततः स्नानत्रयं कुर्याच्टि रोव्याहृतिपूर्वकम् । त्रिकालं त्रिविधं स्नायाद्वारुणं मृत्तिकायुतम् ॥७८॥ पश्चार्द्रकमिति प्रोक्तं क्रमात्स्थानत्रयं बुधैः । शिरस्तनुर्द्वादशधा प्रोक्षयेच्छङ्खमुद्रया ॥ ७६ ॥ व्याहृत्यादिशिरोऽन्त्येन मनुना द्विजसत्तमः । पट्संख्यं ब्रह्मरन्ध्रे तु त्रित्रिसंख्यं भुजइये ॥८०॥ मूलमन्त्रं च मनसा पूजयेत्पञ्चपजनैः । ब्रह्म (देव) पिंपितृतुष्ट्यर्थं त्रिश्चतुधैव तर्पयेन ॥८१॥ व्याहृत्यैककया युक्तः प्रणवादिनमोऽन्तकैः । तत्तस्तर्पयेत्त सुर्यैस्त्रैलोक्यसंयुतैः ॥ ८२॥ यस्तर्पणं विना स्नायात्सलिले मत्स्यवद्भवेत् । तस्मात्सर्वप्रयत्नेन यथोक्तं स्नानमाचरेत् ॥८३॥ यन्मया दूषितं तोयं शारीरं मलनाशनात् । तम्य पापविशुद्धयर्थं यक्ष्माणं तर्पयाम्यहम् ॥८४॥ इति त्रिरञ्जलिं दत्वा यक्ष्मप्रियकरं बहिः । “ततस्तीरं समागम्य गायत्रीकवचं पठेत् ॥८५॥

  1. गुणा दशस्नानकृतो हि पुंसो

रूपं च.. तेजश्च बलं च शौचम् । :

आयुष्यमारोग्यमलोलुपत्वं

दुस्वप्ननाशं च तपश्च मेघा ॥८६॥ …

स्नानार्थं प्रस्थितं विप्रं देवाः पितृगणैः सह । .

[[२६५३]]

तृष्णार्ताश्च (वार्ता) समायान्ति न स्नायान्नरकं व्रजेत् ॥८७॥

[[२६५४]]

विश्वामित्रस्मृतिः

मध्याह्न े मृत्तिकास्नानं कुर्यान्नित्यमतन्द्रितः । प्रातस्सायाह्नसमये न कुर्यान्मृत्तिकाक्रियाम् ॥८८॥

॥ वस्त्रधारणम् ॥

सूत्रेण प्रथितं सूच्या खण्डं चित्रं तथैव च । विचित्रपुत्तलीवस्त्रमन्यवस्त्रं न धारयेत् ॥८६॥ एतत्समस्तमित्युक्तः पट्टवस्त्रं न दोषभाक् । और्णवस्त्राणि सर्वाणि न दोषो धारयेद्बुधः ॥६०॥ प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः । यतेस्त्रिषवणं स्नानमसकृत्तु ब्रह्मचारिणाम् ॥११॥ प्रोक्ष्य वासोपसंयोज्य प्रणवादिषडक्षरैः ।

.

शुद्धधौतं परिग्राह्यं षट्कच्छविधिधर्मकम् ॥१२॥ कच्छद्वयं वस्त्रमध्ये तच्छृङ्गेषु (च) चतुष्टयम् । एवं क्रमेण बध्नीयालक्षणं श्रुतिचोदितम् ॥१३॥ भोजनोत्तरनिर्माल्यं प्रक्षाल्य द्विजसत्तमः । सायंसन्ध्यां प्रकुर्वीत अन्यथा ब्रह्मघातकः ॥६४॥ प्रातर्मध्याह्वयोः स्नात्वा पृथक्सन्ध्यां समाचरेत् । एष धर्मो गृहस्थस्यं योगिनां प्रांतरेव हि ॥६५॥

॥ प्राणायामः ॥

उषःकाले प्रशस्तं स्याद्योगिनां वायुधारणम् । गङ्गाद्वारे ततः स्नात्वा स्थित्वा ब्रह्मदिनत्रयम् ।

तत्फलं समवाप्नोति द्विजो वायुनिरोधकः (तः) ॥६६॥

प्रणवोपासनाकेसन्ध्याविधि

तन्नापि कुम्भकं कृत्वा प्राणायामं समाचरेत् । सूर्योदयं समारभ्य घटिकाद्वादशोपरि ॥६७ ब्रह्मयज्ञाङ्गकस्नानं अपराह्न तु तर्पयेत् ।

·

सङ्कल्प्य ब्रह्मयज्ञं च यथाशक्ति समाचरेत् ॥६८॥ माध्याह्निकं प्रकुर्वीत जपान्ते तर्पयेत्तथा ।

[[२६५५]]

यन्त्रहीनं जलस्नानं बीजहीनं तु यन्त्रकम् ॥६६॥ बिन्दुहीनं तु यद्बीजं वृथा स्नानं न संशयः । मन्त्रहीनो जले स्नात्वा सन्ध्यावन्दनमाचरेत् ॥१००!! अशुचेस्तस्यमनसो. मलिनं नैव गच्छति । मन्त्रयन्त्रविहीनो यः स्नानं सन्ध्यां करोति चेत् ॥१०१॥ विफलं मन्त्रतेजस्स्यात्सत्यं सत्यं न संशयः । पञ्चस्नानं विना येन सायं सन्ध्या कृता यदि ॥ १०२॥ तस्य पापं न गच्छेत यथा सूर्येऽस्तगे तमः । परिधाय शुभं वस्त्रं तिलकं धारयेत्ततः ॥ १०३ ॥

॥ पुण्डधारणम् ॥

गुरूपदेशमार्गेण अन्यथा धर्मघातकः ।

मृद्वारिचन्दनं भस्म वामहस्ते निधापयेत् ॥१०४ ॥ त्रिकोणयन्त्रसंलेख्य मध्ये मायां स बिन्दुकाम् । कोणा प्रणवं लेख्यं दण्डेषु व्याहृतित्रयम् ॥१०५॥ अभिमन्त्र्य तु गायत्रं मन्त्रराजं दशावधि ।

ललाटे तिलकं कुर्याद्गुरु पूजापुरम्सरम् ॥१०७॥

[[२६५६]]

…. विश्वामित्रम्मृतिः

मन्त्रयन्त्रविहीनं यत्तिवकं यदि धारयेत् । तन्मुखं शववद्भाति ब्रह्मतेजो न विद्यते ॥ १०८ तिलकं यत्र संयुक्त मन्त्रसंयुक्तमेव च । ललाटे यत्र दृश्येत तत्तंजो ब्रह्मनामकम् ॥१०॥ प्रणवं चोर्ध्वपुण्ड’ च त्रिपदा च त्रिपुण्डकम् । ललाटे यस्य दृश्यन्ते ( वर्तन्ते, तेजस्वि (स्वी) ब्रह्मदो भवेत् ११० ओमापोज्योतिमन्त्रेण शिखाबन्धनमाचरेत् ।

स्वसूत्रोक्तविधानेन सन्ध्यावन्दनमाचरेत् ।

अन्यथा यस्तु कुरुते आसुरीं तनुमाप्नुयात् ॥ १११॥

मयाकृते मूत्रपुरीषशौच-

प्रक्षाल्यगण्डूषणमेहने

वस्त्रस्यसंक्षालनके च दुष्कृतं

च ।

क्षमस्व गङ्गे मम सुप्रसन्ना ॥ ११२ ॥ त्रिकोणमध्ये ह्रींकारं कोणा प्रणवं लिखेत् । " दण्डेषु व्याहृतिश्चैव उहिखेदुदके तथा ॥ ११३॥

प्रणवेनबहिर्वेष्ट्य जलं पीत्वाऽथ मार्जयेत् । तथैवविन्यसेत्संन्ध्यां अन्यथा शूद्रवद्भवेत् ॥११४॥

इति श्रीविश्वामित्रसंहितायां आन्हिकविधियोगोनाम

प्रथमोऽध्यायः ।

अथ द्वितीयोऽध्याय

आचमनविधिवर्णनम्

जलमध्ये वामकरे दक्षिणे कर्णवत्कृती । आदौ गुरु नमस्कृत्य पश्चादाचमनं चरेत् ॥ १ ॥ प्रागाचामेदमृतंस्यात् सोम्यायां सोमपाभवेत् । पश्चान्मुखोरक्तपास्यात् सुरापो(पी, दक्षिणामुखः ॥ २ ॥ चतुर्विंशतिनामानि तत्तदंगानि संस्पृशेत् । विन्यसेत्केशवादीनि पौराणाचमनं भवेत् ॥ ३ ॥ तकारादियकारान्तैः चतुर्विंशति वर्णकैः । संस्पृशेत्तत्तदंगानि स्मार्तमाचमनं चरेत् ॥४॥ देव्यापादैस्त्रिराचम्य अब्लिंगैर्नवभिः स्पृशेत् । सप्तव्याहृतिगायत्री शिरस्तुर्यस्तदागमम् (१) ॥ ५॥ त्रिधाचाचमनं प्रोक्तं पौराणं स्मार्तमागमं । श्रौतं च मानसं चेति पंचधा प्रोच्यते पुनः ॥ ६ ॥ संध्याप्रारम्भकालेषु कुर्यादाचमनत्रयं । संहृताङ्गुलिहस्तेन ब्रह्मतीर्थे पिवेज्जलं ॥ ७ ॥ मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं भवेत् । गोकर्णाकृतिहस्तेन माषमात्रं जलं पिवेत् ॥ ८ ॥ न्यूनातिरिक्तमात्रेण तज्जलं सुरयासमं ।

आदौचान्ते च मंत्रैश्च क्रमादाचमनं चरेत् ॥ ६ ॥ श्रुतिस्मृतिपुराणानि पर्यायेणविलोमतः ।

अङ्गुलित्रयसंयुक्तं मुक्ताङ्गुष्ठकनिष्ठकं ॥१०॥

[[१६७]]

[[२६५८]]

विश्वामित्रस्मृतिः

गोकर्णाकृतिरित्याहुः ब्राह्मकर्म प्रकीर्तितं । हस्तमध्यस्थ सलिलं पीतशेषं न संत्यजेत् ॥११॥ क्वचित्त्यागं क्वचित्पानं कुर्यादुर्ब्राह्मणं विदुः केशवादित्रयेणापो मापदध्नं पिबेत्क्रमात् ॥१२॥ गोविन्दमग्रतोन्यस्य सौषुम्ने विष्णुमेव च । मधुसूदनमादित्ये सुधांशौ च त्रिविक्रमं ॥१३॥ अग्रतो . वामनं चैव श्रीधरं हस्तयोस्तथा । हृषीकेशं पद्मनाभं उभयोः पादयोर्न्यसेत् ॥१४॥ दामोदरं ब्रह्मरन्ध्र नामसंकर्षणस्य च । न्यसेद्वा नासिकामध्ये चास्यान्ते वा विनिर्दिशेत् ॥१५॥ विन्यसेद्दक्षनासायां वासुदेवं तथैव च । प्रद्युम्नं विन्न्यसेद्वामे अनिरुद्ध तु दक्षिणे ॥१६॥ पुरुषोत्तमं वामनेत्रे दक्ष कर्णे ह्य) अधोक्षजम् । नारसिहं वामकर्णे नाभावच्युतमेव वा ॥१७॥ जनार्दनं हृदि न्यस्य ब्रह्मरंध्र त्युपेन्द्रकं । विन्न्यसेच हरिं कृष्णं भुजे दक्षे च वामके ॥१८॥ पौराणं स्मार्तमित्येतत् क्षत्रियाणां विधीयते ॥१६॥ परित्वागिर्वणोगिर इमा भवन्तु विश्वतो । वृद्धायुमनुवृद्धयो तुष्टाभवन्तु जुष्टयः ॥२०ll पुण्यस्त्रीणां तथा ज्ञेयं शूद्राणां नाममात्रकं ।

शुद्धाचमानां त्रिविधं प्रकारं

कुर्यात्त्रिसंध्यापि(सु) समस्तकर्मसु ।विधिवदाचमनस्यैव फलवर्णनम्

आरम्भणं केशवनाम युक्त

श्रुति स्मृतिभ्यां द्विविधं तथोच्यते ॥ २१ ॥

[[२६५६]]

देवतीर्थेन संगृह्य ब्रह्मतीर्थे जलं पिबेत् । मुक्ताङ्गुष्टकनिष्टाभ्यां गोकर्णाकृति रुच्यते ॥२२॥ वर्तमादौ विधिपूर्वकर्मनित्य त्रिकालं प्रयतैश्च नित्यं । श्रुतिस्मृतिप्रोक्त पुराणमागं तस्माद्विशुद्धाचमनं विशिष्ट ।२३ नानामादौ च वर्णानां पादादौ ॐ समुच्चरेत् । नमोऽतं विन्यसेन्मंत्र कुर्याच्छुद्धो भवेत्त्रिधा ॥२४॥ चतुर्विंशति पादानि चतुर्विंशतिवर्णकं । चतुर्विंशति नामानि प्रणवादिनमोन्तकं ॥२५॥ वैश्यानां तु नमोन्तस्य अन्येषां वर्णमात्रकं । पुण्यस्त्रीणां नमोऽन्तंस्यात विशेषात्केशवादिषु ॥२६॥ शूद्राणां विधवानां च नाममात्रं जलक्रिया । सुवासिन्यां नमोन्तं च द्विराचम्य विशुद्धयति ॥२७॥ नमतं त्रिविधं ज्ञेयं प्रणवं त्रिविधं तथा । एवमेव त्रिराचम्य कर्मादौ तत्समाचरेत् ॥२८८ अन्यथा हि कृतं यत्तु आचमनं तु निष्फलं । कराग्रपंचांगुलि पूर्ण मुद्रा सकेशवाद्य नुवर्तनीया । निष्ठीवने (तथा) प्रसुप्ते च परिधानेऽश्रुपातने । पञ्चश्रोत्रेषुचाचामेच्छ्रोत्रं वा दक्षिणं स्पृशेत् ॥२६॥ भोजनादौ च भुक्त्यन्ते गोकर्णाकृतिपाणिना । आपोऽशनं पिबेन्नित्यमन्यथा (१) चेन्नदर्भकम् ॥३०॥

[[२६६०]]

विश्वामित्रस्मृतिः

नासापुटे (ह्य) अक्षकर्णं प्रजपद्व्याहृतित्रयम् । विस्पृशेच्छ्रोत्रमानं च इत्येवं श्रुतिचोदितम् ॥३१॥ ह्रस्वदीर्घप्लुतैर्युक्ता प्रणवं मनसा स्मरेत् । मानसाचमनं कुर्यान्मनोद्द शविधिक्रमात् ॥३२ । त्रिभिः पादैरपः पीत्वा आपोहिष्ठाग्रतो न्यसेत् ।

॥ मार्जनम् ॥

ता न ऊर्जे च सौषुम्ने रदन्महेरणाय च । यो वः शिवतमस्सोमे तस्य भाजयतोऽग्रतः ॥३३॥ उशतीर्हस्तयोश्चैव वक्षे तस्माअरंन्यसेत् । . यस्यक्षयाय वामे वा ह्यापो जनयथा शिरः ॥३४॥ नासान्ते भूपदं न्यस्य भुवः पादं तु दक्षिणे । सुवः पादं वामभागे महः पादं तु दक्षिणे ॥३५॥ जनः पादं वामनेत्रे तपः पादं तु दक्षिणे । सत्यं पादं वामकरे नाभौ देव्यादिपादकम् ॥३६॥ न्यसेद्वितीयं हृदये ब्रह्मरन्ध्र तृतीयकम् । विन्यसेद्दक्षिणभुजे खमापो ज्योतिरेव च ॥३७॥ तुर्यपादं न्यसेद्वामे भुजे श्रुत्युक्ततः क्रमात् । श्रुत्याचमनमेभिर्यो हरेः कुर्याद्द्द्विजोत्तमः ॥३८॥ स सर्वपापमुक्तःस्यात्स्पृष्टास्पृष्टिर्न विद्यते । पादत्रयं नवपदं सप्तलोकास्तथैव च ॥३६॥ पुनः पादत्रयं शीषं तुयं श्रौतमितीरितम् ।

तुर्यपादं शिरः पादं गायत्री त्रिपदा सह ४०

पञ्चाचमनविधिवर्णनम्

[[२६६१]]

सप्तव्याहृतयश्चैव नवपादं त्रिपादकम् । चतुर्विंशतिपादानि न तत्स्थानेपु विन्यसेत् ॥४१॥ त्रीण्यादौ नव सप्तधा त्रीणिद्व े च श्रुतीरितम् ।

गायत्री (मुञ्चरन्) ऋद्ध्वापोहिष्ठा नवभिः स्पृशेत् ॥४२॥ सप्तव्याहृतिभिश्चैव गायत्रीत्रिपदैः स्पृशेत् । शिरः पढ़ा तु व्यपदा चतुर्विंशतिभिः स्पृशेत् ॥४३॥ श्रुत्याचमनमेतद्धि विश्वामित्रादिभिः स्मृतम् । नाम वर्णं च पादं च भूर्भुवः (स्व) रोमिति ॥४४॥ पञ्चाचमनं चैतानि प्रोक्तं स्वच्छन्दसां गणैः । तिसृभिश्च व्याहृतिभिः शिरश्चक्षूंषि नासिके ॥ ४५ ॥ श्रोत्रद्वयं च हृदये संस्पृशेच्चाथ वारिणा ।

॥ आचमनम् ॥

त्रिराचामेदिति त्रेधा परिमृद्व ेति च त्रिधा । एकः सकृदुपस्पृशेदित्येवं श्रुतिचोदितम् ॥४६॥ ब्रह्मयज्ञे त्रिधाचामेच्छ्र ुतिस्मृतिपुराणकैः । द्विर्ज्ञेया परिमृज्यात्र ताल्वोर्हस्तेन मार्जयेत् ॥४७॥ सकृज्जलं तु प्रणवेनांगुष्ठ नोपस्पृशेत् । अन्याः कुल्योपसंस्पृष्टाः निष्फलं कर्म तद्भवेत् ॥४८॥ चतुर्विंशति पादानि चतुर्विंशति वर्णकम् । चतुर्विंशतिनामानि त्रिधाचामेद्यथाविधि तथा द्विः परिमृज्येति चन्द्रसूर्यौ स्वरौ स्पृशेत् । उपस्पृशेत्सुषुम्ना च ब्रह्मयज्ञे सकृज्जनैः ॥५०॥

॥४६॥

[[२६६२]]

विश्वामित्रस्मृतिः

ब्रह्मयज्ञे त्रिराचामेच्छ्रौतं स्मार्त पुराणकम् । परिमृज्य त्रिधाताल्वोर्हस्तेन परिमार्जने ॥३१॥ उपस्पृशेत्प्रधानाङ्गं प्रणवेन सकृज्जपेत् । भोजने भवने दाने स्नाने दाने प्रतिग्रहे ॥५२॥ सन्ध्यात्रये च निद्रायां तथा वस्त्रस्य धारणे । पूर्वः (म् ) पञ्चभिराचामेत् तथा रथ्योपसर्पणे ॥५३॥ आदौ श्रौतं तथाचामे ततः स्मार्ताचमानकम् । ततः पौराणमाचामे नित्यं श्राद्ध विधीयते ॥५४॥ पुराणं श्राद्धकाले च श्राद्धान्ते स्मार्तमुच्यते । पार्वणि श्रौतमाचामे न्यासः श्राद्ध े विलोमतः ॥१५॥ पुरश्चर्यां च दीक्षायां मूलमन्त्रेण केवलम् । दुर्दानं दुष्प्रतिग्राहं दुरन्नं दुष्टभाषणम् ॥१६॥ दुरालापादिकथनं दुष्टस्त्रीभिश्च सङ्गमम् । चाण्डालजातिसंस्पर्शं मलिनीकरणादिकम् ॥१७। सद्यो हरति सर्वं च विधानाचान्तमात्रतः ।

इति विश्वामित्र स्मृतौ शुद्धाचमनयोगोनाम द्वितीयोऽध्यायः ।

अथ तृतीयोऽध्यायः

प्राणायामविधिवर्णनम्

॥ प्राणायामः ॥

देहिनां चैव सर्वेषां देहे ध्यानं समंन्यसेत् । तत्रापि द्विजवर्णानां प्राणायामं समं न्यसेत् ॥ १ ॥ प्राणायामत्रयं प्रातः सन्ध्याकाले समाचरेत् । प्राणापानसमायुक्तं प्राणायाम इति स्मृतम् ॥ २ ॥ उत्तमं नवधा चैव षोढा मध्यममुच्यते । अभिमन्त्रीयमित्याहुः प्राणायामस्य लक्षणम् ॥ ३ ॥ सप्तव्याहृतिभिश्चापि प्रणवादिरनुक्रमात् । गायत्र्या शिरसा चैव प्राणायामो विधीयते ॥ ४ ॥ विन्दुप्राणविसर्गेक्यं गायत्रं बिन्दुसंहितम् । शिरोव्याहृतिसंयुक्तं प्राणायामे स्पृशेत्तथा (त्रिशस्त्रिधा ) ॥५॥ आदौ कुम्भकमाश्रित्य रेचपूरकवर्जितम् । व्याहृत्यादिशिरोऽन्तं च प्राणायामं समाचरेत् ॥ ६ ॥ नित्ये नैमित्तिके काम्ये सर्वदा सर्वकर्मसु । आदौ कुम्भकमाश्रित्य रेचपूरे विसर्जयेत् ॥ ७॥ सन्ध्याकाले होमकाले ब्रह्मयज्ञे तथैव च । आदौ कुम्भकविज्ञेयं (माश्रित्य)प्राणायामं समाचरेत् ॥८॥ प्राणापानसमानबिन्दुसहितं बन्धत्रये संयुतं । सप्तव्याहृतिबिन्दु संपुटपरं देवादिपादत्रयम् ॥ ६॥

[[२६६४]]

विश्वामित्रस्मृतिः

गायत्रीं शिरसा त्रिनाडिसहितामूढाद्वय परं ।

शुद्ध केवल (ने चल) कुम्भकं प्रतिदिनं ध्यायामि तत्त्वं

दश

(

परम् ( पदम् ) ॥१०॥

प्रणवगायत्र्या इडा पिङ्गलवर्जितम् । कुम्भं सुषुम्नया कुर्यान्मन्त्रस्मरणपूर्वकम् ॥११॥ अधमे द्वादशी मात्रा मध्यमे द्विगुणा मता । उत्तमे त्रिगुणा प्रोक्ता प्राणायामविधिः स्मृतः ॥१२॥ आयासो रेचकः पूरो ह्यनायासस्तु कुम्भकः । अनभ्यासे विषं शास्त्रं अभ्यासे त्वमृतं भवेत् ॥१३॥

उत्तमं त्रिगुणं प्रोक्तं मध्यमं द्विगुणं तथा । अधमं न वदेत्यायैः (?) प्राणायाम इतीरितः ॥१४॥ प्रणवादि नमोऽन्तं च मात्रा चेत्यभिधीयते । पञ्चद्वादशसंयुक्तां मात्रां मात्राविदो विदुः ॥१५॥ अंगुष्ठानामिकाभ्यां तु प्राणायामं यतिश्चरेत् । नासिकं वननं चैव वानस्थस्य तथैव हि ॥१६॥ वकार इति पञ्चैते वर्णाः पञ्च च नोदिता । लं पृथिव्यात्मने गन्धान् हमाकाशात्मने सुमम् ॥१७॥ यं वाय्वात्मने धूपं दीप मग्न्यात्मने नमः । निवेदयेच्च नैवेद्य वकारममृतात्मने ॥१८॥ पञ्चभूतात्मिकामेतां पूजां मानसिकीं यजेत् । सिद्धासनसमं नास्ति न कुम्भकेवलात्परम् ॥१६॥

पञ्चपूजाविधिवर्णनन्

२६ ६५

नन्द दृष्टि समानास्ति प्राणवायुनिरोधने । अन्तश्चक्षुर्बहिस्तेजो अधस्थाप्य सुखासनं । कृत्वा (शा) साम्यं शरीरस्य प्राणायामं समाचरेत् ॥२०॥ सर्वेषामेव जन्तूनां कर्तव्यं सुखमासनम् । तत्रापि मानसः श्रेष्ठ स्तत्रापि द्विज उच्यते ॥२१॥ सन्ध्या प्राचैव ध्येया च वनस्थस्य तथैव हि । सम्यक्पञ्चांगुलीभिश्च वद्ध्वा नासापुटं गृही । शनैरशनैश्च निश्शब्दं प्राणायामं समाचरेत् ॥२२॥ पञ्चांगुलीभिर्नासां च बद्ध्वा वायुं निरुध्य च । आकृष्यधारयेदग्निं प्राणायामं समभ्यसेत् ॥२३॥ प्राणायामं तथा ज्ञात्वा स्नापयेच्चिन्मयं शिवम् । तदादौ मानसं कुर्यात्सम्यक्केवलकुम्भकम् ॥२४॥ पञ्चभूतात्मिकां चैव पूजांमानसिकीं स्मरेत् । पूजामानससंयुक्तः प्राणायामफलं लभेत् ॥२५॥ पञ्चपूजां विना यस्तु प्राणायामं करोति चेत् । तस्य निष्फलितं कर्म विश्वामित्रेण भाषितम् ॥२६॥ लकारश्चभकारश्च(हकारश्च ) यकारो रेफ एव च । वकार (चकार) इति पञ्चैते वर्णाः पश्चार्चनोदिताः ॥२७॥ लं पृथिव्यात्मने गन्धान् हमाकाशात्मने सुमम् । यौं वाय्वात्मने धूपं दीपमग्न्यात्मने चरम् ॥२८॥

निवेदयेच्च नैवेद्य वकारममृतात्मने । पञ्चभूतात्मिकामेतां पूजां मानसिकीं यजेत्॥२६॥

[[२६६६]]

विश्वामित्रस्मृतिः

सिद्धासनसमं नास्ति न कुम्भात्केवलात्परम् (केवलं) । नन्ददृष्टिसमा नास्ति प्राणवायुनिरोधने ॥३०॥ अन्तस्तेजो बहिश्चक्षुरधः स्थाप्य सुखासनम् । कृत्वा साम्यं शरीरस्य प्राणायामं समभ्यसेत्

( समाचरेत् ) ॥३१॥

सर्वेषामेव जन्तूनां कर्तव्यं सुखमासनम् । तत्रापि मानसः श्रेष्ठस्तत्रापि द्विज उच्यते ॥३२॥ सन्ध्याप्रारम्भसमये कुक्कुटासनमुच्यते ।

जानुमध्यस्थबाहुस्सन् प्राणायामं समाचरेत् ॥३३॥ चन्द्रासने समासीनः चन्द्रविम्बसमप्रभे । पूर्णदृष्टिस्तु कुर्वीत प्राणायामं हृदम्बुजे ॥३४॥ त्रिकोणमध्ये बिन्दुश्च प्रणवस्त्रिपदान्वितः । स्त्रीपुमान्मार्जयेन्नित्यं पञ्चपूजाविधानतः ॥३५॥ पञ्चपूजानुसारेण प्राणायामफलं लभेत् । पक्षपूजां न कुर्वीत निष्फलं श्रुतिघातकम् ॥३६॥ प्राणायामे च संप्राप्ते पूजां मानसिकीं यजेत् । विशेषां सिद्धिमाप्नोति न कुर्यान्निष्फलं भवेत् ॥३७॥ अस्त्रप्रयोगकाण्डे (काले) तु प्राणायामबलं बलम् । प्राणायामं बलं कुर्यादुपसंहारकर्मणि ॥३८॥ प्रयोगे चोपसंहारे प्राणायामं तु कुम्भकम् । तस्मात्सर्वप्रयत्नेन प्राणायामं समाचरेत् ॥३६॥

विलोमगायन्त्रीमन्त्रवर्णनम्

२६६७.

प्राणायामं विना यस्तु सन्ध्यावन्दनमाचरेत् । सर्वधर्मपरित्यागी स महापातकी भवेत् ॥४०॥ निगमागममन्त्राणां प्राणायामस्तु साधकम् । निगमागममन्त्रेषु मूलमन्त्रैश्च केवलम् ॥४१॥ मनसा गणनापूर्व प्राणायामविदो विदुः । स्थूलस्थूलादिवर्णं च युक्तायुक्तादिवर्णकम् ॥४२॥ प्राणापानादिसंयुक्तं प्राणायामं समभ्यसेत् । ब्रह्मविद्या महाविद्या सप्तकोट्यमृता भुवि ॥४३॥ तज्जपेन्मूलमनुभिः प्राणायामो विधीयते । भूरादिव्याहृतिस्सप्त (प्रजल्पं सर्व) प्रजल्पस्सार्ववर्त्मना ॥४४॥ तथा विलोममार्गेण प्राणायामं समाचरेत् । व्याहृतिःस्सप्तगायत्रीं शिरसा शिखयायुताम् ॥४५॥ अनुलोमविलोमाभ्यां प्राणायामं जपेद्विजः । ओं सुव र्भुव र्भू ह्मन’ तं मृ सो र ती ज्यो पो मां ओं त्यादचोप्र नः यो यो धि । हिम धी स्य व देगभयं णी रेर्व तु वि सत् त (?) । त्यं स ओं पः त ओं नः ज ओं हः म ओं हं म ओं वः सु ओं वः भूः ओं भूः ओंम् ।

मन्त्रराजं

महातत्त्वमनुलोमविलोमतः ।

प्राणायामं प्रकुर्वीत महापातकनाशनम् ॥४६॥

महापातकनाशाय महारोगहराय (क्षयाय) च ।

दुःखदारिद्र्यनाशाय प्राणायामफलं विदुः ॥४७॥

[[२६६८]]

विश्वामित्रस्मृतिः

दशप्रणवगायत्रीमनुलोमविलोमतः ।

स्मरन् शतद्वयं सम्यक्प्राणायामं समाचरेत् ॥४८॥

अविहित कृतदोषं राजसेवातिदोषं

करकृतमपिदोषं क्रूरकर्मादिदोषम् । हृदिकृतपरदोषं पापसंसर्गदोषं

हरति सकलदोषं मन्त्रराजं (जो )विलोमम् (मः)॥४६ ब्रह्महत्यादिपापानि अगम्यागमनादिकम् । अभोज्यभोजनादीनि अग्राह्यग्रहणादिकम् ॥५०॥ तत्सर्वं नाशमाप्नोति पूर्वोक्तर्वायुरोधनैः । किमत्र बहुनोक्त ेन मन्त्रराजोऽमितप्रदः ॥५॥ दशप्रणवगायत्र्या विनियोगरतो (हतो ) द्विजः । प्राणायाममक्कुर्वाणो अवकीर्णी भवेत्तु सः ॥१२॥ सर्वाण्यसंभावितानि विपरीतान्यनेकशः । नियमेन कृतैः काले प्राणायामैर्व्यपोहति ॥५३॥ मन्त्रराजं चतुष्षष्टिं द्वात्रिंशश्ञ्चतदर्धकम् । तदर्धमधमं ज्ञेयं प्राणायामं समाचरेत् ॥५४॥ मन्त्रराजं पराधं च प्राणायामं करोति यः । तस्य निष्फलितं मन्त्रं पुनस्संस्कारमर्हति ॥५५॥ षष्टिवर्णात्मकं मन्त्रं पराधं यो निरोधयेत् । इह जन्मनि शूद्रत्वं जन्मन्यग्रे वियोनिजः ॥५६॥ अनुक्तविधिनामन्त्रं प्राणायामं करोति यः ।

तस्यायुष्य विनाशाय जन्मनीह दरिद्रता ॥५७॥नानामन्त्राणांजपेततन्मन्त्रैवप्राणायामः

तत्तन्मूलं विनामन्त्रं प्राणायामं चरेद्यदि । सङ्कल्पा निष्फलं यान्ति विघ्नं कुर्वन्ति देवताः ॥५८॥ उपक्रमोपसंहारकारिपादो द्विधाकृतः ।

नित्यं नैमित्तिकं काम्यं त्रिविधं निष्फलं भवेत् ॥५६॥ प्राणायामं स्मरेदन्यं जपमन्यद्वृथा क्रिया । यः करोति समूढात्मा द्विविधे निष्फलो मनुः ॥६०॥ पादार्थ पादमात्रं च द्विपादं च त्रिपादकम् ।

[[२६६६]]

चतुः पादं (ष्पदं) पञ्चपादं (पदं) षट्पादं (पदं) सप्तपादकम् ॥६१ अष्टपाद (अष्टापदं) नवपदमशीतिं च शतं तथा ।

तत्तन्मूलं समाश्रित्य प्राणायामो विधीयते ॥ ६२॥ निगमादिषु सर्वेषु आगमादौ तथैव च । तत्तन्मूलं प्रतिग्राह्यं प्राणायामं प्रकल्पयेत् ॥ ६३॥ एकाक्षरं द्वयक्षरं च त्र्यक्षरं चाधिकं च वा । सर्वथा मूलमन्त्रेण प्राणायामं समाचरेत् ॥६४ ॥ चार्वाकशैवगाणेश (सौर ) वैष्णवशाक्तिकाः । तेषां जपे तन्मूलैश्च प्राणायामान् समाचरेत्॥६५॥ श्रौतहोमे दशावृत्तिः सायं प्रातस्तथैव च । पक्ष होमे पञ्चदश पशुबन्धे च विंशतिः ॥६६॥ प्रायश्चित्ते चतुविंशदृत्विजश्चैकविंशतिः । यत्र कुत्र प्रमादश्च प्राणायामास्त्रयोदशः ॥६७॥ औपासनद्वये चैव प्राणायामाश्चतुर्दश ।

सायं प्रातश्च मध्याह्न प्राणायामांस्तु षोडश ॥६८॥

[[२६७०]]

विश्वामित्रस्मृतिः

वैश्वदेवं प्रकुर्वीत दशपूर्वान् दशापरान् । यत्र यत्रैव सङ्कल्पः तत्र तत्र द्वयान्वितम् ॥६६॥ प्राणायामं प्रकुर्वीत दशपूर्वान् दशापरान् । गर्भाधानं समारभ्य आधानान्तं विधीयते ॥७०॥ विक्रीणीते परार्थं यो जपं वै दैवतार्चनम् । परार्थं प्रतिघातं च कुर्याद्दुर्ब्राह्मणं विदुः ॥७१॥৷ प्रमादेनाप्रयत्नेन कदाचित्क्रियते यदि । अनुलोम विलोमाभ्यां मन्त्रराजं शतावधि ॥७२॥ दशप्रणवगायत्री द्विषट्कं प्राणरोधनम् ।

वर्णमालां जपेन्मत्रं शान्तिपाठं समाचरेत् ॥७३॥

अनृतवचनदोषं दुष्टसंसर्गदोषं

अविहितकृतदोषं दुदु रान्नादिदोषम् । अहमिति दुरहं चास द्विजानामयूयं (थं)

हरति सकलदोषं मन्त्रराजो विलोमः ॥७४॥ स्नानं सन्ध्या मुक्तकाले द्विजो यः

कुर्यान्नित्यं सर्वदोषं निहन्यात् । त्रयस्त्रिंशत्कोटिदेव प्रभावः

तेनावश्यं प्राप्यते सद्विवेकः ॥७५॥

शतं त्रिलोकं त्रिशतं त्रिलोकं

पादं त्रिलोकं त्रिपदं त्रिलोकम् ।

मार्जनविधिवर्णनम्

तारं त्रिलोकं त्रिशतं तुरीयं

सव्यापसव्यावदनस्य रोधम् ॥ ७६ ॥

इति विश्वामित्रस्मृतौ प्राणायामविधानं (विधियोगे) नाम तृतीयोऽध्यायः ।

[[२६७१]]

अथ चतुर्थोऽध्यायः मार्जनम्

पादं पादं क्षिपेन्मूर्ध्ना प्रीतिप्रणवसंयुताम् । निक्षिपेदष्टपादं तु अधो यस्य क्षयाय च ॥ १ ॥ अष्टाक्षरं नवपदं पादादौ ब्रह्महा भवेत् । पादान्तं मार्जनं कुर्यादश्वमेधफलं लभेत् ॥२॥

यस्य क्षयाय पादं तु आपश्शुन्धन्तु यत्पदम् । भूमौ पदो विनिक्षिप्य इतरं मूर्ध्निचाचरेत् ॥ ३ ॥ पादादौ प्रणवं चोक्त्वा पादान्ते मार्जनं भवेत् । ऋगादौ प्रणवं चोक्त्वा ऋगन्तं (न्ते) मार्जनं भवेत् ॥४॥ आपोहीति द्विनवकं दधिमात्रे द्विमार्जनम् । अङ्गुष्ठेनोदकं स्पृष्ट्वा पादमात्रेण मार्जयेत् ॥ ५ ॥ अर्धमन्त्रं पूर्णमन्त्रं मार्जनं द्विविधं विदुः । रजस्सत्त्वतमोजातान् मनोवाक्कायजांस्तथा ॥ ६ ॥

[[२६७२]]

विश्वामित्रस्मृतिः

जाग्रत्स्वप्नसुषुप्त्याथ नवैतान्नवभिर्दहेत् ।

दधि द्विमार्जनं मन्त्रं हिरण्यादिचतुष्टयम् ॥ ७ ॥ कामक्रोधादिषड्वगं यद्यत्सर्वं विनाशनम् । पादमन्त्रं चार्घ्यमन्त्रं पूर्णमन्त्रं विशेषतः ॥ ८ ॥ सर्वेषामेव वर्णानां त्रिविधं मार्जनं यजेत् । चतुर्विंशति गायत्री वर्णसंख्यानुसारतः ॥६॥ ऋशाखोक्त ेन मार्गेण मार्जनानि समाचरेत् । ऋग्यजुस्सामशाखानामेवं मार्जनलक्षणम् ॥१०॥ आश्वलायनशाखानां मार्जनक्रम उच्यते । आपो हिष्ठादिनवकं शंनोदेवी द्विमार्जनम् ॥११॥ अप्सुमे त्रीणि चोक्तानि ऋतं चेत्येवमेव हि । त्र्यचस्य च नवर्चस्य अब्लिङ्गं द्विविधं भवेत् ॥१२॥ पादादौ प्रणवं चोक्त्वा पादान्ते मार्जयेद्विजः । ऋतं च मन्त्रस्यादौ च मार्जनानि समाचरेत् ॥१३॥ शन्नो देवी समारभ्य गायत्री शिरसः क्रमात् । ऋगादौ प्रणव चोक्त्वा मार्जनम्परिकल्पयेत् ॥१४॥ अप्सुमे च समारभ्य भुवैन्तं मार्जनत्रयम् । तत्रापि प्रणवं चोक्त्वा मार्जनानि समाचरेत् ॥१६। सुरान्तं मार्जयेद्भूमौ चतुर्विंशतिमार्जनम् । पादशोऽष्टादशोक्तानि त्रिपदाभ्यां द्विमार्जने ॥१७ षड्विधे क्रमशस्त्रीणि ऋक्त्रयेणैव मार्जनम् । यस्य क्षयाय च पदोअधोऽध्वं भुवि निक्षिपेत् ॥१८॥

मार्जनविधानवर्णनम्

एकविंशति मूर्ध्नित्यात् त्रि (पादो) भुवि मार्जयेत् । अङ्गुष्ठाज्जलमादाय मन्त्रान्ते मार्जनं यजेत् ॥ १८॥

पादौ भूमौ त्रिवारं स्यान्मूर्ध्नि स्यादेकविंशतिः । अष्टाक्षरं नवपदं पादादौ ब्रह्महा भवेत् ॥१६॥

पादान्ते मार्जनं कुर्यादश्वमेधफलं लभेत् ।

[[२६७३]]

रजस्सत्त्वं तमोजातं

मनोवाक्कायजं तथा ॥२०॥

जाग्रत्स्वप्नसुषुप्त्यर्थं नवैतान्नवभिर्दहेत् ।

नवप्रणव युक्तेन आपोहीतित्यृचेन च ॥२१॥ संवत्सरकृतं पापं पुनर्मार्जनतो दहेत् । शन्नोदेवी समारभ्य षड्भिचाथोसुवोऽन्तकैः ॥२२॥ अरिषड्वर्गपापानि नाशयेन्मार्जनानि च । अप्सुमे च समारभ्य ज्योक्चसूर्यान्तमार्जनम् ॥२३॥ इदमापस्समारभ्य ऋषभं मेान्तमार्जनम् । पयस्वानग्न आरभ्य(भुवे) हुवेऽन्तं मार्जनं तथा ॥२४॥ ऋतं च सत्यमारभ्य अन्तरिक्षमथो सुवः । पर्यन्तं मार्जयेद्भूमौ गृह्येोक्तविधिना द्विजः ॥२५॥ इत्येवं मार्जनं कृत्वा सन्ध्यावन्दनमाचरेत् । मन्त्रलिङ्गं विना प्रोक्त ं (पूर्व)मार्जनं यः करोति हि ॥२६॥

तस्य पापमगण्यं स्यान्मार्जनं निष्फलं भवेत् । मन्त्रलिङ्गं यथाशास्त्रं मार्जनं परिकल्पयेत् ॥२७॥ १६८

[[२६७४]]

विश्वामित्रस्मृतिः

सर्वपापविनिर्मुक्तः स्पृष्ट्वा (स्पृष्टा ) स्पृष्टिर्न विद्यते ।

इति विश्वामित्रस्मृतौ मार्जनयोगोनाम चतुर्थोऽध्यायः ।

अथ पञ्चमोऽध्यायः सार्घ्यदानगायत्री माहात्म्यवर्णनम्

॥ अर्घ्यदानम् ॥

सन्ध्यावन्दनवेलायां दद्यादर्घ्यत्रयं

द्विजः ।

सायंप्रातः समानंस्यान्मध्याह्न े तु पृथविक्रया ॥१॥ एकं मध्याह्नकाले च सायंप्रातस्त्रयस्त्रयः । एवं ज्ञात्वा त्यजेदद्ध्य लुप्तनक्षत्रपूर्वकम् ॥२॥ एकं शस्त्रास्त्रनाशाय चिरं वाहननाशने । असुराणां वधायैकं दद्यादर्यत्रयं क्रमात् 11311 असुराणां वधादूध्वं प्रायश्चित्तार्घ्यकं परम् । पृथ्वीप्रदक्षिणं कृत्वा सर्वपापैः प्रमुच्यते ॥४॥ सन्ध्यावन्दनवेलायां प्रायश्चित्तार्घ्यमीरितम् ।

दद्यात्केवलगायत्र्या मूढो ह्यध्यं तु यो द्विजः ॥५॥

स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः । ब्रह्मास्त्रं यो न जानाति स ‘विप्रश्शूद्र एव हि ॥६॥

गायत्री माहात्म्यवर्णनम्

तस्य कर्मादिकं ज्ञानं तत्सर्वं निष्फलं भवेत् । वीजमन्त्रं तु गायत्र्याः प्राण इयभिधीयते ॥७॥ देहस्तु पिण्ड इत्युक्तो संज्ञाकवच एव हि । सर्वाङ्गानि पढ़ो मन्त्रः सर्वमन्त्रेष्वयं विधिः ॥८॥ अस्त्रं दृष्टिरिति प्रोक्तं गायत्रीन्याप्तिरुच्यते । एतत्षण्मन्त्रकं ज्ञात्वा दद्यादध्यं विधानतः ॥६॥ प्रणवो वीजमन्त्रः स्याद् गायत्र्यास्सर्वदा मतः । पिण्डमन्त्रं तुरीयं स्याद्गायत्रीसंज्ञितं परम् ॥१०॥ नारायणं मूलमन्त्रं संज्ञामन्त्रं भवेत्सदा । ओमापो ज्योतिरित्येतत्पदमन्त्रमितीरितम् ॥११॥ ओं तत्सवितुरित्येषा गायत्रीहृन्महामुने । एतदेव हि गायत्री विप्राणां मुक्तिदायिनी ॥१२॥ ब्रह्मास्त्रं वीजमित्याहुः शर्म स्याद्ब्रह्मदण्डकम् । . कीलकं ब्रह्मशीषं स्यादृष्यादिन्यासपूर्वकम् ॥१३॥

भान्तं वह्निसमायुक्तं व्योमनलसमन्वितम् । मेषद्वयं दन्तयुक्त हालाहलमतः परम् ॥१४॥ खनाद्य वायुपूर्वं स्याद्दत्तयुग्ममथापरम् । सरसामक्षपर्यायहान्तं भूर्भु (वस्त मतः परम् ॥१५॥ अम्बरं वायुसंयुक्त अरिं मर्दय

मर्दय ।

प्रज्वलेति द्विरुच्चार्य परमेतत्परं ततः ॥१६॥ तत्त्रिपादं प्रयोक्तव्यं गायत्रीमध्यमन्त्रतः । पदत्रयं प्रयोक्तव्यमेतद्ब्रह्मस्मृतीरितम् ॥१७॥

[[२६७५]]

[[२६७६]]

विश्वामित्रस्मृतिः

असुराणां वधार्थाय अर्घ्यकाले द्विजन्मनाम् । प्रोक्तं ब्रह्मास्त्रमेतद्वै सन्ध्यावन्दन कर्मसु ॥१८

कर्मार्थं काममोक्षादि ब्रह्मास्त्रेणैव लभ्यते ।

ब्रह्मदण्डं तथा वक्ष्ये

सर्वशस्त्रास्त्रनाशनम् ॥१६

गायत्रीं सम्यगुच्चार्य

परोरजसि संयुतम् ।

एतद्व ै ब्रह्मदण्डं स्यात्सर्वशस्त्रास्त्रभक्षणम् ॥२०॥ सर्ववाहननाशार्थं वच्म्यस्त्रं ब्रह्मशीर्षकम् । गायत्रीं पूर्णमुच्चार्य मूलमन्त्रं ततो वदेत् ॥२१॥ ब्रह्मशीर्षकमेतद्धि सर्ववाहननाशनम् । आधारादि समुद्धृत्य सुषुम्नामार्गनिर्गमे ॥२२॥ सम्यगाचम्य तां देवं ब्रह्मब्रह्माण्डभेदिनीम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥२३॥ परमात्मेति गायत्रीमनुलोमक्रमान्न्यसेत् । अघोरास्त्राय शार्ङ्गय नाराचाय सुदर्शन ॥२४॥

प्रतिलोमक्रमान्यसेत् ।

॥ प्रायश्चित्तार्घ्यम् ॥

॥२४॥

एकं मध्याह्नकाले च प्रायश्चित्तार्घ्यमुच्यते । अर्घ्यद्वयं तु मध्याह्न े तथ्यमेतन्महामुने ॥२५॥ अर्घ्यत्रयप्रयोगार्थं प्रायश्चित्तं चतुष्टयम् । सायंप्रातर्द्विजातीनामेवमेष विधिः क्रमात् ॥२६॥

ब्रह्मास्त्रं ब्रह्मदण्डं च ब्रह्मशीषं तथैव च । अर्घ्यत्रयप्रयोगार्थमेवमेतदुदाहृतम् ॥२७॥

प्रायश्चित्तार्घ्यविधिवर्णनम्

शीर्षचेति मनुत्रयम् ।

पर्यायेण समुच्चार्य पिवेदञ्जलिना जलम् । विलोमेन च गायत्रीं बीजयुक्तां सतुर्यकाम् ॥२८॥ शिरसा शिरसा युक्तं चतुर्घाघ्यं विनिक्षिपेत् । अस्त्रदण्डशिरोयुक्त हंसमन्त्रं समुच्चरेत् ॥२६॥ शस्त्रवाहनरक्षोघ्नं एकाञ्जलिजलं क्षिपेत् । प्रायश्चित्तद्वितीयार्घ्यमसुराणां वधाय च ॥३०॥ प्रदक्षिणं चरेत्पृथ्व्याः सर्वपापैः प्रमुच्यते । हंसस्येति मनुं विप्रो ब्रह्मदत्तं समाचरेत् ॥३१॥ शिरोदण्डास्त्र (सं)युक्तं निक्षिपेद्रविसंमुखे ।

॥३२॥

उपमन्त्रं वदन् पूर्वमस्त्रदण्डं शिरस्तथा चतुर्मन्त्रं सम्यगुच्चार्य अर्घ्यमेकं विनिक्षिपेत् । उपमन्त्रं समुच्चार्य शिरोऽन्तं श्रेयसंयुतम् ॥३३॥ अर्घ्यमेकं तु मध्याह्न े सत्यमुक्तं महामुने । तर्जन्यङ्गुष्ठसंयोगो राक्षसी मुद्रिका भवेत् ॥३४॥ राक्षसीमुद्रिकादत्तं तत्तोयं रुधिरं भवेत् । निक्षिपेद्यदि मूढात्मा रौरवं नरकं व्रजेत् ॥३५॥ अङ्गुष्ठच्छायया तोयं देवतामुद्रिका भवेत् । ( इत्थं करणेन लोकस्य ) सर्वपापक्षयो भवेत् । एवं विज्ञाय यो दद्यादव्यं सम्यक्सुधीरितम् ॥३६॥ अन्तरिक्षमथो स्वाहा आपश्शुन्धन्तु मैनसः । इति मन्त्रेण यो भागे मार्जयित्वाचमेत् ॥३७॥

[[२६७७]]

[[२६७८]]

विश्वामित्रस्मृतिः

वायव्यास्त्रेण नववारं प्राणायामं कुर्यात् । उत्तमं नववारं स्यान्मध्यमं ऋतुसंख्यकम् ॥३८॥ अधमं त्रयमित्याहुः प्राणायामस्य लक्षणम् । प्राणायामबलोपेतमुपसंहारमाचरेत् ॥३६॥ ततस्सर्वप्रयत्नेन प्राणायामं समाचरेत् । अस्य श्रीवायव्यास्त्रमन्त्रस्य, ब्रह्मा ऋषिः, गायत्री छन्दः महाभूतवायुर्देवता । यं बीजं, स्वाहा शक्तिः जगत्सृष्टिरिति कीलकम् । ब्रह्मास्त्रप्रयोगार्थं वाय- व्यास्त्रप्रयोगे विनियोगः । यामङ्गुष्ठाभ्यां नमः यीं तर्जनीभ्यां स्वाहा । यूं मध्यमाभ्यां वषट् । येँ अनामिकाभ्यां हुम् । यः ( यों ) ओं कनिष्ठि- काभ्यां वौषट् । यः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । लोकत्रयेण दिग्बन्धः ॥ ध्यानम्

चञ्चत्करं कृष्णमृगाधिरूढं

बाणेषुधी चापगढ़ें दधानम् । भुजैश्चतुर्भिर्जगदादिकारणं

आवायव्यया वायव्योर्वा वायया वा हन हन हुँ

चैतन्यरूपं प्रणमामि वायुम् ॥४०॥ ।

फट् स्वाहा इति त्रिवारं जपेत् । पुनर्मन्त्रंवादि नक वा प्राणानायम्य पथ्चोपचारैरभ्यर्च्य श्री सूर्यनारा- प्रीत्यर्थ अर्घ्यप्रदानं करिष्ये इति सङ्कल्प्य अर्घ्य -नानामन्त्रविनियोगध्यानवर्णनम्

प्रदानमन्त्रस्य सवितृ भगवानृषिः अनुष्टुपछन्दः, श्रीसूर्यनारायणो देवता ब्रह्मास्त्रं बीजं, ब्रह्मदण्डं शक्तिः । ब्रह्मशीर्षं कीलकं, श्रीसूर्यनारायणप्रीत्यर्थे अर्घ्यप्रदाने विनियोगः । तत्सवितुः ब्रह्मात्मनेऽ- ङगुष्ठाभ्यां नमः । वरेण्यं विष्ण्वात्मने तर्जनी- भ्यां स्वाहा भर्गोदेवस्यरुद्रात्मनेमध्यमाभ्यां वषट् । धीमहि ईश्वरात्मने अनामिकाभ्यां हुम् । धियो योनस्सदाशिवात्मने कनिष्ठिकाभ्यां वौषट् । प्रचो- दयात् परमात्मने करतलकरपृष्ठाभ्यां फट् । लोक- त्रयेणेति दिग्बन्धः । ध्यानम्—

सर्वतोरणमध्यस्थं

मण्डलान्तर्व्यवस्थितम् ।

ब्रह्मायुतसहस्रस्य सत्सन्तानकारणम् ॥४१॥ चिन्तयेत्परमात्मानमिव(वो) ऊर्ध्वं न च निक्षिपेत् ।

उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च ॥४२॥ अञ्जलिना जलमादाय गायत्रीं मालादारभ्य नासा- पुढे वा उत्तीर्याञ्जलौ निक्षिप्यार्घ्यप्रयोगं कुर्यात् । धाम्नो धाम्नो राजन्नितो—च हरोऽसि पाप्मानं मे विद्धि आश्वलायनं यदद्य कच्च वृत्रहन्नुदगा अभि- सूर्य सर्वन्तदिन्द्र ते वशेइति प्रातः । आपस्तम्बस्य हिरण्यगर्भस्स-म इति प्रातः । गर्भोऽसि पाप्मानं मे विद्धि । आश्वलायनस्य प्रातः देवीमदिर्ति जोह- वीमि मध्यंदिन “उदिता सूर्यस्य राये वित्रवारुणा

[[२६७६]]

[[२६८०]]

विश्वामित्रस्मृतिः

सर्वताते शं तोकाय तनयाय शंयोः । आपस्त- म्बस्य यः प्राणतो - मेति मध्याह्न । उत्के तदभ- श्रुत् । मघं वृषभं न सूर्यापनं अस्तारमेषि सूर्य । आपस्तम्बस्य य आत्मदामेति । सायाह्न े । पुन- र्नववारं प्राणानायम्य पञ्चोपचारैरभ्यर्च्य असुख- धप्रायश्चित्तार्थं चतुर्थार्घ्यप्रदानं करिष्ये इति सङ्कल्प्य वाग्भवकामराजशक्तिबीजसहितं विलोमगायत्री- सहितं शिरःशिखासहितं सतुरीयं चतुर्थार्घ्यं दद्यात् । पुनर्नववारं प्राणानायम्य पश्चोपचारमभ्यर्च्य । अस्य श्री अस्त्रोपसंहारमन्त्रस्य ब्रह्मा ऋषिः गायत्रीछन्दः विलोमगायत्री देवता ब्रह्म बीजं ह्रीं शक्तिः हूं कीलकम् अस्त्रोपसंहरणार्थे विनियोगः । अघो- रास्त्राय शार्ङ्गय नाराचाय सुदर्शनाय ह्रां धियो यो नः अङ्गुष्ठाभ्यां नमः । अघोरादि चतुष्टय परियुक्त तर्जनीभ्यां शिरसे स्वाहा । अघोरादि- चतुष्टयसहितं हूं मध्यमाभ्यां वषट् । अघोरादि- चतुष्टयसहितं भर्गो देवस्य ओं अनामिकाभ्यां हृम् । अघोरादिचतुष्टय सहितं हें वरेण्यं ह्रीं कनि- ष्ठिकाभ्यां वौषट् । अघोरादिचतुष्टयसहितं तत्स- वितुरों करतलकरपृष्ठाभ्यां ह्ररुं फट्ः । एवं हृदया- दिन्यासः। ओं भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम्.

साङ्गन्यासजपविधानवर्णनम्

सोऽहमर्कमहं ज्योतिरर्कज्योतिरहं शिवः ।

[[२६८१]]

आत्मज्योतिरहं शुक्रः सर्वज्योतिरसो महिम् (मृतम् ) ४३॥ आगत्य देवि तिष्ठ त्वं प्रविश्य हृययंमम । अङ्कुशं मुद्रया नासा पुटं हृदयेनाभिस्पृशेत् । विलोमगायत्रीं त्रिवारं जपेत् । असावादित्यो ब्रह्म पश्चोपचारैरभ्यर्च्य पुनर्वायव्यास्त्रं न्यसेत् । इति त्रिकाले समानमन्त्रं अघोरास्त्राय शार्ङ्गय नाराचाय सुदर्शनम् ।

मायाषड्दीर्घगायत्री प्रतिलोम न्यसेत् क्रमात् । लकारं च

हकारं च यकारं रेफसंज्ञकं ॥४४॥

वकारमिति विख्यातं पञ्चभूतात्मकं यजेत् ।

इति पञ्चमोऽध्यायः ।

अथ षष्ठोऽध्यायः

द्विविधजपलक्षणम्

ओमित्येकाक्षरं ब्रह्मन्यासध्यानपुरस्सरम् । यथाशक्ति जपं कुर्यात्सन्ध्याङ्गो जपईरितः ॥ १ ॥ नदीतीरे सरित्कोष्ठे पर्वताग्रे विशेषतः । शिवविष्णुसमं देवा गायत्रीजपमाचरेत् ॥२॥ नैमित्तिकं च काम्यं च द्विविधं जपलक्षणम् ।

[[२६८२]]

विश्वामित्रस्मृतिः

॥ भूशुद्धिः ॥

भूशुद्धयाधारशुद्धिं च विलिखेद्गुरुमार्गतः । शुद्धो भूमौ लिखेद्यन्त्रं प्रणवादिषडक्षरैः ॥ ३ ॥ आधाराख्यं च संप्रोक्तं प्रार्थयेत्पृथिवीमिमाम् । अपसर्पन्तु ये भूता ये भूता दिवि संस्थिताः ॥ ४ ॥ भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । पृथिवि ( थ्वि) त्वया धृता लोका देवि त्वं विष्णुनाधृता ॥५॥ त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।

ये

प्रणवाद्यश्च

षड्वर्णैर्दशवाराभिमन्त्रितम् ॥ ६ ॥

शुद्धभूमौ जलं प्रोक्ष्य विलिखेद्यन्त्रमुत्तमम् । त्रिकोणा वह्निबीजं मध्ये मायां सबिन्दुकम् ॥ ७ ॥ युतं तन्त्रं जपस्थाने लिखेत्क्रमात् ।

चतुरश्रं हस्तमानं सुदृढं मृदु निर्मलम् तस्योपरि समासीनो गायत्रीजपमाचरेत् ॥ ८ ॥ कृत्वा मूलेन भूशुद्धिं भूतशुद्धिं समाचरेत् । शोषदाहप्लवं कुर्यात् प्रणवादिषडक्षरैः ॥६॥ पार्थिवं शतमेकं च वकारं द्विशतं तथा । त्रिशतं वह्निबीजं च वायुबीजं चतुश्शतम् ॥१०॥ आकाशं पञ्चशतकं भूतशुद्धिरिति क्रमात् । प्रणवादि नमोऽन्तं च वृद्धिरेकोत्तरं शतम् ॥११॥ प्राणायामं च पञ्चार्णैः कुर्याद्भूद्भूतशोधनम् । मूलाधारं समारभ्य गायत्री तुर्यया सह ॥१२॥

गायत्रीन्यासवर्णनम्

[[२६८३]]

ऊर्ध्वनास्यां (सां) समायोज्य गायत्रीं तत्र विन्यसेत् । अस्त्रमन्त्रेण कुर्वीत रक्षादिबन्धनं दिशाम् ॥१३॥ उपपातकरो (गाणां महापातकनाशनम् । कामक्रोधादिषड्वगं पापं कुक्षौ विचिन्तयेत् ॥१४॥ खङ्गचर्मधरं कृष्णं पिङ्गलश्मश्रुलोचनम् । उकारान्तः स्थितद्वीपं ज्वालाकार हुताशनम् ॥१५॥ प्रतिष्ठाप्य ततः कामं शक्तिना वायुना (सह ) । शक्तिबीजात्मकं ज्वाला त्रितयेन विनिर्दहेत् ॥१६॥ कर्पूरमिव सुज्वालाशेषं कुर्यात्समाहितः । ओं यं नमः शोषणं कुर्यात् । ओं इं नमः इत्यग्नि- बीजेन दहनं कृत्वा । ओं वं नमः इत्यमृतबीजेन प्लावनं कृत्वा लं नमः इति षण्णवत्यङ्गुलप्रमाणेनाव- यवादिकं त्यक्त्वा । ओं हं नमः इत्याकाशबीजेन सर्वसंज्ञाभासप्रतिष्ठापनं कुर्यात् ।

पादादिजानुपर्यन्तं पृथ्वीमण्डलसंज्ञि(व्ज्ञ,क (त)म् । जान्वादिकटिपर्यन्तं जलमण्डलसंज्ञि (ब्ज्ञ) क (त) म् ॥१७॥

कद्या(क्ष)दिकटिपर्यन्तं वह्निमण्डल संज्ञि(व्ज्ञ) (त) कम् ।

हृदादिवर्णपर्यन्तं वायुमण्डलसंज्ञि (ब्ज्ञ) (त) कम् ॥१८॥

पाञ्चभौतिकमित्येतच्छोधनं

कर्णादिब्रह्मरन्ध्रान्तं नभोमण्डलसंज्ञि (ज्ञ) (त) कम् ।

गुदादिद्व्यङ्गुलादूध्वं (मे)ढ्या (द्रा) दिद्वयङ्गुलादतः ।

सुषुम्नामूलमन्त्रेण वा (?) दि चतुरक्षरैः ॥२०॥

समुदाहृतम् ॥१६॥

[[२६८४]]

विश्वामित्रस्मृतिः

विलसितकनकप्रभं पद्यं ध्यात्वा तन्त्र विद्युल्लतायां कुलकुण्डलिनीं सुषुम्नावर्तषट्पत्रभेदक्रमेण ब्रह्मरन्ध्र नीत्वा तत्र कुलसहस्रकर्णिकामध्यस्थित संम्पूर्ण- गायत्रीं ओङ्कारस्वरूपपरमात्मनि शिवे लीनां कुर्यात् । पाशमायाङ्कुशैर्बीजप्रणवादिनमोऽन्तकैः ।

प्राणायामं प्रकुर्वीत एवमष्टोत्तरं शतम् ॥।२१॥ पञ्चपूजां प्रकुर्वीत स्वात्मनो हंसरूपिणः । सोऽहं भावेन युञ्जीयादाकाशाद्रविमंडले ॥२२॥ आकृष्य धारयेद्द ेवीं(प्राणस्थापन) प्राणस्नापनमाचरेत् । हृदिस्थजीवं चैतन्यं हंस इत्यक्षरद्वयम् ॥२३॥ सोऽहं भावेन संपूज्य पञ्चपूजानुसारतः । उक्तसंख्याप्रकारेण प्राणायामं समाचरेत् ॥२४॥ प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वराः । ऋषयः कथितास्तस्य छन्दांसि निगमत्रयम् ॥२५॥ देवता प्राणशक्तिःस्याद्बीजं शक्तिश्च कीलकम् । पाशादित्रितयं प्राणस्थापने विनियुज्यते ॥२६॥ बीजराजं पाशबीजं चैतन्यं चाङ्कुशं तथा । हंसद्वयं ततः पश्चात्पञ्चाशद्वर्णमन्त्रतः ॥२७॥

नादैस्संपुटितैः क्रमात् ।

वर्णैश्च यादिक्षान्तार्णैः(स)नत्याभ्यां संपुटीकृतैः । पञ्चविंशतितत्त्वैश्च कराङ्गन्यासमाचरेत् ॥२८॥

कराङ्गन्यासवर्णनम्

प्रणवं प्राणशक्ति च पाशमायाङ्कुशानि च । तृतीयस्वरसंयुक्तं यादिहान्तं समुच्चरन् ॥२६॥ मम प्राणा इरात्यादि वह्निजायान्तमुच्चरेत् । पाशादित्रितयं प्राणशक्ति तारं समुच्चरन् ॥३०॥ इमं मन्त्रं सकृज्जप्त्वा प्राणस्थापनमाचरेत् ।

॥ अङ्गन्यासः ॥

करेण हृदयं

स्पृष्ट्वा गुरोराज्ञानुसारतः ।

[[२६८५]]

जपेन्मन्त्रमिदं सम्यग्दशवारं यथाविधि ॥३१॥ स्वस्य शाखोदितं प्राणसूक्तं वारत्रयं जपेत् । प्राणसूक्तं त्रिरावृत्त्या आद्यन्तं प्रणवं युतम् ॥३२॥ प्राणायामं प्रकुर्वीत पिण्डब्रह्माण्डसंयमे । मूलादिब्रह्मरन्ध्रान्तं प्रवालपद्मरागमय दण्डानुकारि- णीम् अखण्डमुज्ज्वलन्तीं सविस्मयां अखिलदुरित- तिमिरनिरस्तपटीयसीं ज्योतिर्मयीं त्रिपदां सतुरीय- मन्त्रराजानुवर्तितेजः पुञ्जपञ्जरीकृतज्योतिर्मयस्व- रूपिणीं यावच्छ्वांसस्पृशशरीरदृशासनं कुर्यात् । हकारं प्रणवो ज्ञेयः सकारं प्रकृतिस्तथा ॥३३॥ प्राणायामं प्रकुर्वीत मातृकावर्णकैः क्रमात् । . करशुद्धिश्च कर्तव्या षड्दीर्घस्वरसंयुतैः ॥३४॥ ऋष्यादिषट्कं विन्यस्य कराङ्गन्यासमाचरेत् । ऋषि मूर्ध्नि न्यसेत्पूर्वं मुखे छन्द उदीरितम् ॥३५॥

[[२६८६]]

विश्वामित्रस्मृतिः

देवता हृदि विन्यस्य नाभौ बीजमिति स्मृतम् । आधारे विन्यसेच्छक्ति कीलकं पादयोर्न्यसेत् ॥३६॥ ऋषिर्ब्रह्मा समाख्यातो गायत्री छन्द उच्यते । देवो बहिर्मातृका स्याद्धलो बीजानि च स्वरा ॥३७॥ शक्तयश्च समाख्याता नमः कीलकमुच्यते । द्वाभ्यां द्वाभ्यां हकारादिवर्णाभ्यां संपुटीकृतैः ॥३८॥ कादिवर्णैस्तत्त्वयुक्तः कराङ्गन्यासमाचरेत् । त्रिलोकैर्दन्धनं ध्यानं योनिमुद्रां प्रदर्शयेत् ॥३६॥

पञ्चादशाक्षर विनिर्मित देहयष्टिं

फालेक्षणां दृतहिमांशुकलाभिरामाम् । मुद्राक्षसूत्रमणिपुस्तकयोनि (ग) हस्तां

वर्णेश्वरीं नमत कुण्डहिमांशु गौरीम् ॥४०॥ केशान्ते मुखमण्डले नयनयोः श्रोत्रद्वये नासयोः । दन्तोष्ठद्वयदन्तपङ्क्तियुगले मूर्त्यासने तु स्वरान् ॥४१॥ दोः पत्सन्धितदग्रपादयुगले पृष्ठे च नाभ्यन्तरे । याद्यर्णानपि सप्तधातुषु तथा प्राणेषु जातानि तु ॥४२॥ ततोऽन्तर्मातृकान्यासं कुर्याद्विध्युक्तमार्गतः । तारत्रयेण कुर्वीत प्राणायामं समाहितः ॥३३॥ ऋषिश्छन्दो देवता च बीजं शक्तिश्च कीलकम् । ब्रह्मा च लिपिर्गायत्री ततोऽन्तर्मातृका मता ॥४४॥ वाग्भवं शक्तिबीजं च श्रीबीजं च त्रयं तथा । तारत्रयमिति ख्यातं ज्ञात्वा न्यासं समाचरेत् ॥४५॥

मुद्राविधिवर्णनम्

करन्यासं हृदिन्यासं कुर्यात्तारत्रयेण च ।

अनुलोमविलोमाभ्यां त्रिलोकैर्बन्धनं दिशाम् ॥४६॥

॥ मुद्राः ॥

कृत्वा ध्यात्वा महायोनिमुद्रां सन्दर्शयेत्ततः । पञ्चाशन्निज देहजाक्षर भवैर्नानाविधैः कर्मभिः ॥४७॥ बह्वर्थैः पदवाक्य(दा)नजनकैरङ्गैश्च संभावितैः । साभिप्रायचिदर्थकर्मफलदानन्तैरसज्ञैरिदं ॥४८॥

[[२६८७]]

विश्वन्याप्यचिदात्मनाहमहमित्युज्जृम्भसे मात्रके । एवमुक्तविधानेन विन्यसेन्मातृकाद्वयम् ॥४६॥ आवाहनादिभेदैश्च दश मुद्राः प्रदर्शयेत् । आवाहनासने यो जुहुयाद्धविष्यं घृतसंयुतम् ॥५०॥ अथवा तण्डुलेनापि नित्यकर्म समाचरेत् । अनाज्ञातत्रयं कृत्वा गायत्रीदशकं जपेत् ॥५१॥ प्रणवाद्यन्तमध्यस्थं होमान्ते च विधीयते । चतुर्विंशतिवर्णानि जपेत् पारायणे मनुः (म् ) ॥५२॥ जपे पारायणे चैव युक्तं च विरलं क्रमात् । चतुरक्षरसंयुक्त’ कराङ्गन्यासमाचरेत् ॥५३॥ तुर्यपादं विनान्यासमाद्यन्तं प्रणवैस्सह । व्याहृतित्रयमुच्चार्यगायत्रीचतुरक्षरम् ॥५४॥ पुनर्व्याहृतिमुच्चार्य कराङ्गन्यासमाचरेत् ।

पाद पाद द्विभाग, च प्रतिप्रणवसंपुटम् ॥५५॥

[[२६८८]]

विश्वामित्रस्मृतिः

कराङ्गन्याससंयोगे षट्पदा त्रिपदा भवेत् । अङगुष्ठादिचतुर्वर्णमनुलोमक्रमेण

च ॥५६॥

हृदयादिचतुर्वणं क्रमेणैव विलोमता । चतुर्वर्णं विना यस्तु विपर्यासं न्यसेद्यदि ॥।७॥ स विपत्ति समाप्नोति सत्यं सत्यं न संशयः । अस्त्राय फडिति न्यासमापादतलमस्तकम् ॥५८॥ षष्णवत्यात्मके देहे प्रकाशार्थं प्रचोदयात् । लोकत्रयेण दिग्बन्धं ततो मन्त्राः (न्) प्रदर्शयेत् ॥५६॥ हंससिंहासनं वह्निर्विश्वयोनिस्तथैव च । खेचरी कुण्डलीकुण्डं सप्तव्याहृतिमुद्रिका ॥६०॥ सुमुखं संपुटं चैव विततं विस्तृतं तथा । द्विमुखं त्रिमुखं चैव चतुः पञ्चमुखं तथा ॥६१॥ षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा । शकटं यमपाशं च प्रथितं(चोन्मु)सम्मुखोन्मुखम् ॥६२॥ प्रलम्बं मुष्टिकं चैव मत्स्य कूर्मवराहकौ । सिंहाक्रान्तां महाक्रान्तं मुद्गरं पल्लवं तथा ॥६३॥ एते मुद्राश्चतुर्विंशा गायत्री सुप्रतिष्ठिता । इति मुद्रां न जानाति गायत्री निष्फला भवेत् ॥६४॥ ध्यानं मुक्ताविद्रुम हेमनीलधवलच्छायैर्मुखैः - भजे । तारं तुर्यपादं चोक्त्वा बीजशक्तिं च कीलकम् ॥६५॥ त्रीणि त्रीणि त्रिधाप्रोक्त’ क्रमादृष्यादिकं न्यसेत् । पूर्णगायत्रिया देव्याः प्रसादे विनियुज्यते ॥६६॥भिन्नभिन्नकालानांजपप्रकरणवर्णनम्

वीजशक्त्यादिकीलानां अनुलोमविलोमतः ।

आदौ प्रणवसंयुक्त कराङ्गन्यासमाचरेत् ॥६७॥ प्रणवान्तस्त्रिलोकैश्च कुर्याद्दिग्बन्धनं

ततः ।

[[२६८६]]

ध्यानं - यद्द ेवास्सुरपूजितारुणनिभं हेमार्कतारागणैः पुन्नागाम्बुजनागपुष्पवकुलैः (वासा) दिभिः पूजितम् । नित्यं धातृसमस्तदीप्तिकरणं कालाग्निरुद्रोपमं, तत्संहारकरं नमामि सततं पातालषष्ठ मुखम् । शिखायोनिर्महायोगी सुरश्चाप्युपमस्तनि (के) । लिङ्गमुद्रामहामुद्रांञ्जलिरित्यष्टमुद्रिका प्रातर्मध्याह्नकाले तु तुर्यपादं दशांशकम् । सायंकाले चतुष्पादसहितं जपमाचरेत् ॥६६॥ सुरभिर्ज्ञानवैराग्ये योनिः शङ्खोऽथपङ्कजम् । लिङ्गं निर्वाणमुद्राऽष्टौ जपान्ते परिकल्पयेत् ॥७०॥

चक्र े - अत्र ग्रन्थपातः क्रमात् ।

॥६८॥

ऋक्शाखोक्त ेन विधिना योगे तु विलोमतः । विना प्रयोगजाप्ये तु अनुलोम न विद्यते ॥७१॥

इति विश्वामित्रस्मृतौनानाप्रयोगविधानं

नामषष्ठोऽध्यायः ।

[[१६६]]

अथ सप्तमोऽध्यायः उपस्थानविधिवर्णनम्

॥ उपस्थानम् ॥

अथातस्संप्रवक्ष्यामि उपस्थानविधिं क्रमात् । ऋक्शाखोक्त ेन विधिना जातवेदस इत्यृचम् ॥ १ ॥ प्रातःकाले च सायाह्न े जपेच्चेत्युक्तमार्गतः । मध्याह्न े च पृथक्सन्ध्या योदित्यं जातवेदसम् ॥ २ ॥ सहस्रपरमां देवीं मध्याह्न े च जले द्विजः । सूर्यावलोकनं कुर्वन् दुर्गोपस्थानमाचरेत् ॥३॥ सायाह्न े सूर्यमालोक्य दद्यादर्घ्य चतुष्टयम् । ऋक्षप्रकाशपर्यन्तं जपेदेवं चतुष्पदाम् ॥४॥ जातवेदस इत्येषां प्रातस्सायमृचं जपेत् । जलान्ते विधिवत्कुर्यात् उपस्थानं समाहितः ॥ ५ ॥ हंसमन्त्रं समुच्चार्य गायत्रीं त्रिपदां वदन् । अर्घ्यमेकं तु मध्याह्नळे ऋग्यजुस्सामवेदिनाम् ॥६॥ प्रायश्चित्तं द्वितीयाघ्यं असुराणां वधाय च । अर्घ्यद्वयं तु मध्याह्न सर्वेषामेवमेव हि ॥७॥ अर्घ्यप्रदानात्परतो गायत्रीं पूर्ववज्जपेत् ।

आवर्तनं गते सूर्ये उपस्थानं समाचरेत् ॥ ८ ॥

उदित्यमिति मन्त्रेण ऋकशाखोक्तविधिक्रमात् ।

मध्यंदिने रविध्याने प्रातस्सायाह्नवद्भवेत् ॥ ६॥

सूर्योपासनाविधिवर्णनम्

कृत्वा माध्याह्निकीं सन्ध्यां त्रयोदशघटीपरम् । आवर्तनान्तं प्रजपेदुपस्थानं ततः परम् ॥१०॥ नित्यं जाप्यं विना यस्तु उपस्थानं करोति चेत् । सौरमन्त्रैश्च सकलैः गायत्रीजपपूर्वकम् ॥११॥ प्रत्यगासूर्यमालोक्य उपस्थानं समाचरेत् । उदयेऽस्तमये जप्त्वा दुर्गोपस्थानमाचरेत् ॥१२॥ मध्यन्दिने जपान्ते च सूर्योपस्थानमाचरेत् । आश्वलायनगृह्योक्तमृग्यजुस्सामशाखिनाम् ॥१३॥ जपोपस्थानयोरन्ते सौरं पश्चार्चनं यजेत् ।

प्रभान्तमुद्यत्प्रतिभास्यमानो

बिम्बं समालोक्य कृतोदितो वदेत् ।

मन्त्रस्य चार्षादिऋचं च याजुषैः

शाखान्तरोक्तास्तु (समु) उपासनीयाः ॥१४॥

त्रिपदाज पसाद्गुण्यं तुर्याजाप्यं दशांशकम् । तुर्यपादं विना जाप्यं कुरुते निष्फलं भवेत् ॥१५॥ मित्रस्य चर्षणीमन्त्रं याजुषोपासनक्रमात् । प्रातर्जपान्ते गायत्र्याः सूर्योपस्थानमाचरेत् ॥१६॥ आसत्येनेति मन्त्रेण षडृचोक्तविधानतः । मध्यन्दिने रविं ध्यायेज्जपान्ते विधिवत्क्रमात् ॥१७॥ सायं भानोरस्तमयाद्विघटी कर्मसंयमे । ऋक्षप्रकाशपर्यन्तं जपन् देवीं मनोहराम् ॥१८॥

[[२६६१]]

[[२६६२]]

विश्वामित्रस्मृतिः

लुप्त सूयं समालोक्य दिगुपस्थानमाचरेत् । सूक्तं वारुणमस्ते च इमंमादि पठेन्मनुम् ॥१९॥ प्रियासूक्तं समुचार्य देवीं ध्यायेच्चतुष्पदाम् । पञ्चोपचारैरभ्यर्च्य गायत्रीं तुर्यया सह ॥२०॥ इति विश्वामित्रस्मृतौ उपस्थानंनाम सप्तमोऽध्यायः ।

अथ अष्टमोऽध्यायः देवयज्ञादिविधानवर्णनम्

॥ वैश्वदेवम् ॥

देवयज्ञादिकं वक्ष्ये गृह्येोक्तविधिना ततः । कोद्रवान्मासुरान्माषान् मसूरांश्चकुलुत्थजान् ॥१॥ लवणं च कटुद्रव्यं वैश्वदेवे विवर्जयेत् । नीवारान्वंशजं धान्यं गोधूमान् तण्डुलांस्तदा ॥ २ ॥ कन्दमूलफलादीनि दधिक्षीरघृतादिकम् ।

प्रत्यहं वैश्वदेवार्थं कुर्यान्नित्यमतन्द्रितः ॥३॥ गृहस्थो वैश्वदेवस्य कर्म प्रारभते यदा ।

गृहे सिद्धान्नमादाय दधिक्षीरघृतान्वितम् ॥ ४ ॥

जपासने स्वकार्यार्थं सर्वेभ्यः पचने द्विजः ।

यो हि यत्तधुनेदग्नौ गायत्रीमंत्रपूर्वकम् ॥५॥

बलिप्रकरवर्णनम्

दिवा सूर्याय रात्रौ चेदग्नये च हुवेद्धविः । प्रजापतय इत्येकामुभयोराहुति हुनेत् (?) ॥ ६ ॥ प्रणवव्याहृतिभिश्च हुत्वामन्त्रैः स्वशाखिभिः । भूतेभ्यश्चवलिंदद्यात्

[[11611]]

आयुष्कामो दिवारात्रौ शूपाकारं बलि हरेत् मृत्युरोगविनाशार्थं नराकारं बलिं हरेत् ॥ ८ ॥ काम्ये कर्मणि वाक्ये च बलिं वल्मीकवद्धरेत् । आयुरारोग्यमैश्वयं पुत्रान्पौत्रान्पशूंश्च यः ॥ ६ ॥ काङ्क्षते स च मोक्षार्थी चक्राकारं बलिं हरेत् । धर्मार्थकाममोक्षार्थं व्यजने च बलि हरेत् ॥१०॥ पञ्चवैतेषु विप्राणां मुख्यमेतच्चतुर्थकम् । ।

[[२६६३]]

प्रथमं चोपवीतं स्याद्वितीयं च निवीतिकम् ॥११॥ तृतीयं पितृमेधार्थं वैश्वदेवे विधीयते । तण्डुलोदकसंयुक्त पाकं कुर्याद्विशेषतः ॥१२॥ तप्तोदकस्य मध्ये तु तण्डुलं नैव पाचयेत् । तप्तोदकस्य मध्ये तु तण्डुलं पाचयेद्यदि ॥१३॥ तण्डुलं गरलं ज्ञेयं तुल्यं गोमांसभक्षणम् । अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ॥१४॥ अस्नेहा अपि गोधूमा यवा गोरसमिश्रिताः । पाकमध्ये घृतं दत्वा पाकादुत्तीर्य यत्नतः ॥ १५॥ तस्योपरि घृतं क्षिप्त्वा भागान् कुर्याद्विशेषतः । यज्ञार्थे देवपूजार्थे विप्रार्थे बलिकर्मणि ॥१६॥

[[२६६४]]

विश्वामित्रस्मृतिः

पृथक्पाकं न कुर्वीत वैश्वदेवे विशेषतः । हविष्यान्नं कुशैः कार्यं पञ्चभागान्द्विजोत्तम ॥१६। अभिघार्य च तान् भागान् पूर्वं पश्चाद्ध्रुतेन च । . प्राणायामान्प्रकुर्वीत पञ्चपूजापुरस्सरम् ॥१८॥ देशकालौ च संकीर्त्य ततः कर्म समाचरेत् । षड्भिराद्यः प्रतिमन्त्रं हस्तेन जुहुयात्ततः ॥१६॥ मनःस्था (खानि)स्थिरां कृत्वा स्वयं ज्ञानाग्निनापचेत् । स्वधर्मनिरतो यस्तु स्वयंपाकी स उच्यते ॥२०॥ अमन्त्रं वा समन्त्रं वा वैश्वदेवं न सन्त्यजेत् । वैश्वदेवस्य करणादन्नदोषैर्न लिप्यते ॥२१॥ प्रातर्मध्याह्नकाले च होमं कुर्याद्यथाविधि । सायंकाले तथा कुर्याद्धविष्यं तण्डुलं द्विधा ॥२२॥ विधाय प्रत्यहं पार्क हुत्वा देवार्पणं हविः । हुत्वा दत्वा च यो भुङ्क्त े स्वयंपाकी स उच्यते ॥२३॥ पञ्चसूनापनुत्त्यर्थं प्रायश्चित्ते हुनेद्धविः । पवित्रमन्यं (न्नं) तज्जातं नास्ति चेदपवित्रता ॥२४॥ एकपार्श्वद्विधा होमौ न कुर्याद्वश्वदैविकम् । कदाचित्कुरुते यस्तु उपोष्य व्रतमाचरेत् ॥२५॥ परेऽहनि समुत्थाय स्नानं कृत्वा यथाविधि । पाकं कुर्याद्विधानेन होमं कुर्यात्षडक्षरैः ॥२६॥ भूभुर्वस्सुवरित्येतैः हुनेत्प्रणवपूर्वकम् । अष्टोत्तरशतं

चैव स्वसूत्रोक्तविधानतः ॥२७॥

[[२६६५]]

वैश्वदेव कालनिर्णयवर्णनम्

वैश्वदेवं ततः कुर्यात्क्रमेणैव यथाविधि ।

बलिदानं ततः कुर्यात्प्रायश्चित्तं विधीयते ॥२८॥ सूतकद्वयसंप्राप्तौ नित्यहोमं परित्यजेत् ।

पारायणं प्रकुर्वीत वाचकोपांशुवर्जितम् ॥२६॥ एकादशेऽह्नि संप्राप्ते पृथक्पाकं प्रकल्पयेत् । वैश्वदेवं प्रकुर्वीत बलिकर्म यथाविधि ॥३०॥ प्रेतश्राद्ध पृथक्पाकं वैश्वदेवं समाचरेत् । क्षये दर्शे च पक्षे च एकपाको विधीयते ॥३१॥ प्रेतश्राद्ध विना येन पृथक्पाकः कृतो यदि ।

राक्षसाः प्रतिगृह्णन्ति पाककर्ता पतत्यधः ॥३२॥ वैश्वदेवप्र (करणस्य) कालस्यात्र विनिर्णयम् ।

सूर्योदयं समारभ्य

घटिकाः स्युश्चतुर्दश ॥३३॥

घटिका पञ्चदश च षोडश स्युः ततः परम् ।

ततस्सप्तदश प्रोक्ताः ततश्चाष्टादश स्मृताः ॥३४॥

सङ्गमान्ते ब्रह्मयज्ञं

कुर्यात्स्नानपुरस्सरम् ।

मध्यसन्ध्यां तर्पणं च वैश्वदेवमिति क्रमात् ॥३५॥ मध्यकाले तु मध्याह्ने दक्षिणायनगे रखौ । वश्वदेवं प्रकुर्वीत मध्यकालाच्च पूर्वतः ॥३६॥ मध्याह्वान्ते वैश्वदेवं घटिकानवकात्परम् । उत्तरायणगे सूर्ये वैश्वदेवं समाचरेत् ॥३७॥ चतुर्दशघटी भ्यस्तु मार्तण्डस्योदयावधि ।

परतस्तर्पणं कृत्वा वैश्वदेवं समाचरेत् ॥३८॥

[[२६६६]]

विश्वामित्रस्मृतिः

ऋतुत्रयाख्यविधिना दक्षिणोत्तरमार्गयोः ।

सूर्योदयं समारभ्य घटिकाद्वयष्टकात्परम् ॥३३॥ तर्पणान्तेऽस्य विधिना वैश्वदेवं समाचरेत् । योगिनां वैश्वदेवस्य कालनिर्णय उच्यते ॥१४०॥ याममध्ये न होतव्यं यामयुग्मं न लङ्घयेत् । योगिनां वैश्वदेवस्य काल एष उदाहृतः ॥४५॥ अन्यथा यस्तु कुरुते योगी भ्रष्टोऽभिजायते । योगिनां वैश्वदेवस्य मुख्यो विधिरुदाहृतः ॥१२॥ वलिक्रियां समुत्सृज्य कुर्यान्नित्यं षडाहुतिम् । नान्तर्बलिक्रियां कुर्याद्वाह्य एको बलिः स्मृतः ॥४३॥ षड्भिराद्य हुनेदन्नं इति कौषात किस्मृतः । तस्माद्धुनेद्विधानेन वैश्वदेवं श्रुतीरितम् ॥४४॥ वैश्वदेवस्याकरणाद्दोषं भिक्षर्व्यपोहति । भिक्षोर्नदानं दोषं तु वैश्वदेवं व्यपोहति ॥४५॥ अकृत्वा वंश्वदेवं तु भिक्षौ भिक्षार्थमागते । उद्धृत्य वैश्वदेवार्थं भिक्षां दत्वा विसर्जयेत् ॥४६॥ काष्ठभारगतेनापि घृतकुम्भशतेन च । अतिथिर्यस्य भग्नाशस्तस्य होमो निरर्थकः ॥४७॥ दूरादतिथयो यस्य गृहं प्राप्य सुतोषिताः । सद्गृहस्थ इति प्रोक्तश्शेषाः स्नुगृहरक्षकाः ॥४८॥ वैश्वदेवं विना पाको यस्तु सप्रत्यनामकः । `तं पाकं ब्राह्मणो भुङ्क्त े स सद्यः पतितो भवेत् ॥४६॥

पश्चसूनापनुत्यर्थवैश्वदेवविधिवर्णनम्

वैश्वदेवाकृताद्दोषाच्छक्तो भिक्षुर्व्यपोहितुम् ।

[[२६६७]]

पादुकायोगपट्टे च पवित्रं चित्रकम्बलम् ॥५०॥ स्वाहां स्वधां वैश्वदेवे तर्जन्यां रजतं तथा । वर्जयेज्जीवपितृकः कुर्यान्नित्यं षडाहुतीः ॥५१॥ यदि पित्रा समाज्ञप्तो वैश्वदेवं समाचरेत् । असंस्कृतान्ननैवेद्य ं स्थावरेषु गृहेषु च ॥५२॥ स्वाहाकारं विना यस्तु कुरुते ब्रह्मराक्षसः । चराचरादिदेवानां हविष्यान्नं निवेदयेत् ॥५३॥ पञ्चसूनापनुत्त्यथं वैश्वदेवं विधाय च । पञ्चसूनापनुत्त्यर्थं प्रायश्चित्तं हुनेद्धविः ॥५४॥ तत्परं देवताभ्यस्तु नैवेद्य परिकल्पयेत् । वैश्वदेवार्पणं येन द्विजदेवार्पणं हविः ॥५५॥ कुर्वन्ति ते महापापात्तद्धविः क्रिमिसङ्कुलम् । रण्डावन्ध्याकृतः पाको बधिरामूकयोस्तथा ॥५६॥ निष्फलायाश्च गुर्विण्या न भोक्तव्यं कदाचन । रण्डापञ्चविधं ज्ञात्वा प्रयत्नेन परित्यजेत् ॥ ५७॥ श्मशाने चितिसंयुक्त प्रज्वाल्याभीष्टकाष्ठवत् । कन्या वैधव्यमापन्ना वीरेत्याचक्षते बुधैः ॥५८॥ रोहिणी विधवा भर्ता सा रण्डेत्यभिधीयते । दुर्भगा दशवर्षा या सा कन्या समुदीरिता ॥५६॥ रजसः परतस्सा तु यातुकी विधवा भवेत् । असन्ततिश्च या नारी सा रण्डेत्यभिधीयते ॥ ६०॥

[[२६६८]]

विश्वामित्रस्मृतिः

नानभावैः प्रयत्नेन रण्डापाकं परित्यजेत् । वीररण्डा कुण्डरण्डा बालपुत्राह्यपुत्रिणी ॥६॥ तासां पाको न भोक्तव्यो भुक्त्वा चान्द्रायणं चरेत् । अस्नाता विधवा चण्डी पक्काशी माससूतकी ॥६३॥ पञ्चपक्कान्त्यजेद्विप्रः तत्प्रेष्यं च परित्यजेत् । पाकं कृत्वा प्रयत्नेन ह्यभुक्त्वा भोजने विषम् ॥ ६३॥ रण्डापाकं महापापं वैश्वदेवे परित्यजेत् । नाहुतं पाकमश्नीयादनैवेद्य स मन्यते ॥ ६४॥ रण्डापाकं विषं क्रूरं अहुत्वान्नं तथा विषम् । द्विविधं यन्त्रसंयुक्तं तदन्नं कालकूटकम् ॥६॥ नाना भावैः प्रयत्नेन रण्डापाकं परित्यजेत् । प्रमादात्प्राप्यते चान्नं प्राणायामांश्चतुर्दश ॥६॥ कुर्यात्कुम्भकमार्गेण न्यासध्यानपुरस्सरम् । मन्त्रराजहविर्भागं प्रथमं वैश्वदेविकम् ॥६७॥ कृत्वा श्राद्ध प्रकुर्वीत नित्यनैमित्तिकं चरेत् । श्राद्धानौ करणात्पूर्वं वैश्वदेवं विधाय च ॥६८॥ ततोऽग्नौ करणं कुर्यादन्यथा श्राद्धघातकः । वैश्वदेवं विना यस्तु श्राद्धकर्म समाचरेत् ॥६। वृथा श्राद्धं भवेत्तच्च रौरवं नरकं व्रजेत् ।

नित्यनैमित्तिके श्राद्ध पक्त्वा चान्नं प्रयत्नतः ॥ ७०॥

ततो होमं प्रकुर्वीत ब्राह्मणान् भोजयेत्ततः । यदन्नौ करणं कुर्याद्वश्वदेवपुरस्सरम् ॥७१॥वैश्वदेवमाहात्म्यवर्णनम्

ब्रह्मार्पणं हविस्तत्स्यात्पितॄणां दत्तमक्षयम् ।

[[२६६६]]

देवेभ्यश्च पितृभ्यश्च ऋषिभ्यश्च तथा हविः ॥७२॥ आदौ वह्निमुखे दत्तं तृप्त्यै भवति नान्यथा । यस्त्वमौ न हुतं चान्नं दैवे पित्र्ये प्रयच्छति ॥ ७३॥ गोत्रपान्नं भवत्येव वृथा श्राद्धं न संशयः । नित्यश्राद्ध े गयाश्राद्ध तीर्थश्राद्ध तथैव च ॥७४॥ वैश्वदेवं हुनेदादौ ततः श्राद्धं समाचरेत् । स्वाहाकारेण हुत्वादौ स्वधाकारेण वै ततः ॥ ७५ ॥৷ एवं होमत्रयं कृत्वा ततः श्राद्धं समाचरेत् ।

वैश्वदेवविषये :-

हविष्यमन्नं घृतसङ्कुलं च

वह्नौ समांशं जुहुयात्त्रियामम् ।

द्वयोत्तरं त्रिजति(?) युग्मसंज्ञं

ओंङ्कारमादौ प्रतिमन्त्रयुक्तम् ॥७६॥

रसयुक्तं हविष्यं स्याद्घृतयुक्तं तथो (थ)दनम् । ब्राह्मणो वैश्वदेवार्थं कुर्यान्नित्यमतन्द्रितः ॥७७৷৷ अन्यस्य चेद्रसं त्यक्त्वा वैश्वदेवं करोति यः । देवेभ्यश्शापमाप्नोति दरिद्रो भवति ध्रुवम् ॥७८॥ सुपक्कं रससंयुक्त राजान्नं घृतसंयुतम् । तद्धविष्यमिति ज्ञातं सुप्रीतास्त्रिदशादशः ॥७६॥ पर्वद्वये समायोगे

श्राद्धान्ते वैश्वदेवार्थं पार्क कृत्वाप्रयत्नतः

॥८०॥

[[२७००]]

विश्वामित्रस्मृतिः

हुत्वा दत्वा च भुक्त्वा च द्विजश्चान्द्रायणं चरेत् । देवानां च ऋषीणां च पितॄणां च विशेषतः ॥८१॥ पर्यायेण प्रदातव्यं श्राद्धकाले हविर्द्विजैः ।

वर्षिपितृतुष्ट्यर्थमेकपाको विधीयते ॥८२॥ पृथक्पाको न कर्तव्यः कृतश्चेत्पतितो भवेत् । अकृत्वान्नं तु नैवेद्य ं यः कुर्यात्क्रिमिसङ्कुलम् ॥८३॥ होमं कृत्वा प्रयत्नेन वैश्वदेवंप्रकल्पयेत् । इति विश्वामित्रस्मृतौ वैश्वदेव प्रकरणनाम सप्तमोऽध्यायः समाप्त ।

॥ श्रीगणेशाय नमः ॥