नारायणस्मृतिः

प्रथमोऽध्यायः

नारायणदुर्वाससोःसम्बादः

एकदा नैमिषारण्ये ब्रह्मर्षिगणसेविते । नारायणो महायोगी दूर्वाससमपृच्छत ॥ १ ॥ भगवन् मुनिशार्दूल सर्वधर्मभृतांवर । काले कलियुगे पुण्यधर्मे लुप्ते भुवरस्थले ॥२॥ सर्वपापप्रशमनी प्रायश्चित्तविधिः कथम् । पापाः कतिविधाः प्रोक्ता विस्तरेण वदस्व मे ॥ ३ ॥ दुर्वासा उवाच ।

॥३॥

नारायण महायोगिन् शृणु विस्तरतो मम । कृते युगे चतुष्पादो धर्मो वर्द्धति वर्द्धति (ते) ॥ ४ ॥ त्रेतायुगे तु सम्प्राप्ते पादहीनो भवेद्वृषः । द्वापरे समनुप्राप्ते द्विपादाभ्यां वृषस्स्थितः ॥५॥ ततः कलियुगे प्राप्ते पादेनैकेन तिष्ठति । ततः कृतो युगःश्रेष्टो मध्यमस्तदनन्तरम् ॥ ६ ॥

महापातकोपपातकवर्णनम्

[[२७७१]]

अधमो द्वापरयुगः कलिरस्यादधमाधमः । कृते कृते युगे पापे तद्देशं संपरित्यजेत् ॥७॥ त्रेतायां ग्राममात्रं तु द्वापरे कुलमुसृजेत् । कलौ युगे विशेषेण कर्त्तारं तु परित्यजेत् ॥८॥ कृतत्रेताद्वापरे (पु) तु मरणान्तादिनिष्कृतिः । कलौ युगे तु सम्प्राप्ते मरणान्ता न निष्कृतिः ॥ ६॥ पापा नवविधाः प्रोक्ताः सावधानतया शृणु । ब्रह्महत्या सुरापानं स्तेयं

स्तेयं गुर्वङ्गनागमः ॥१०॥ य एतै (स्सह) संयोगी महापातकिनस्त्विमे । अतिदेशादमीषां यदातिदेशिकमुच्यते एतत्प्रकाशपापानां रहस्यानां तथैव गोवधादिकमेनोयदुपातकमुच्यते ॥१२॥

॥११॥

च ।

यज्ज्ञातं तिलधान्यादि विक्रयात्पापमात्मनः । सङ्करीकरणं प्राहुः कन्यापहरणादिकम् ॥१३॥ मलिनीकरणं चैव चण्डालीगमनादिकम् । अपात्रीकरणं प्राहुः दुरन्नादेस्तु भोजनम् ॥१४॥ जातिभ्रंशकरं प्राहुस्तथा दुर्मरणादिकम् । प्रकीर्णकमिति प्रोक्तं पापानि नवधा क्रमात् ॥१५॥ महतां पातकानान्तु प्रायश्चित्तं कलौ युगे । द्वययुतैरेव गोदानैर्मत्या विप्रवधे कृते ॥१६॥ अमत्यायुतगोदानैर्निष्कृतिः परिकीर्तिता ।

सुरापानं द्विजः कृत्वा ब्रह्महत्यात्रतं चरेत् ॥१७॥

[[२७७२]]

नारायणस्मृतिः

॥२०॥

स्वर्णस्तेयेऽपि तद्वत्स्यान्मातृगन्तुस्तथैव च । अभ्यासे द्विगुणादीनि कल्पनीयानि सत्तम ॥१८॥ गोवधे च कृते विप्रैरमत्या तु पराककम् । मत्या चान्द्रायणं कार्यं नान्यथा मुच्यते त्वघात् ॥१६॥ तिलविक्रयणे चान्द्रं तप्त तण्डुलविक्रये । निक्षेपहरणे विप्रश्चान्द्रायणमथाचरेत् चण्डालीगमने विप्रस्त्वज्ञानान्मासमात्रतः । सेतुस्नानं ततः कृत्वा शुद्धिमाप्नोत्यसंशयः ॥२१॥ मत्या द्विमासमभ्यासे वत्सरं सेतुमज्जनम् । व्यतिपातादिदुष्टान्न भोजने न कृते यदि ॥२२॥ प्राजापत्यद्वयं कृत्वा शुद्धिमाप्नोत्यसंशयः । विद्युदग्न्यादिभिर्विप्रो मत्या प्राणैर्वियुज्यते ॥२३॥ तत्पापस्य विशुद्धयर्थं तत्पुत्रादिर्यथाविधि । मत्या त्वशीतिकृच्छ्राणि कृत्वा संस्कारमाचरेत् ॥२४॥ अमत्या दशकृच्छ्राणीत्येवमाहुर्महर्षयः । तुलाप्रतिग्रहे लक्षगायत्रीजपमाचरेत् ॥२५॥ हिरण्यगर्भग्रहणे त्वष्टलक्षं जपेद्बुधः । प्रतिग्रहे कल्पतरोरटलक्षजपं चरेत् ॥२६॥ गवां चैव सहस्रं तु प्रतिगृह्य द्विजाधमः । नवलक्षं जपं देव्याः प्रातस्नात्वा समाचरेत् ॥२७॥ हिरण्यकामधेनुं तु प्रतिगृह्य द्विजाधमः । अष्टलक्षं जपेदेवीं तत्पापस्यापनुत्तये ॥२८॥

प्रतिग्रहपापप्रायश्चित्तवर्णनम्

हिरण्याश्वस्य च तथा ग्रहणे भूसुराधमः ।

अष्टलक्षजपं कृत्वा शुद्धिमाप्नोति पूर्वजः ॥२६॥ हिरण्याश्वरथं गृह्य वसुलक्षजपं चरेत् ।

हेमहस्तिरथस्यैव ग्रहणे मुनिनन्दन ।

हेमस्तम्बेरमं गृह्य

वसुलक्षजपाच्छुचिः ॥३०॥

कूष्माण्डलक्ष होमेन

शुद्धोभवति पूर्ववत् ॥३१॥

पञ्चलाङ्गलदानस्य ग्रहणे विप्रनन्दनः ।

[[२७७३]]

दशलक्षजपाद्द ेव्याः सम्यगेव समाचरेत् ॥३२॥ प्रतिगृह्य धरादानं दशलक्षजपं चरेत् । विश्वचक्रस्य ग्रहणे तत्पापप्रशमाय च ॥३३॥ प्रयुतेनाभिषेकेण शम्भोश्शुद्धिमवाप्नुयात् । लतायाः कल्पसंज्ञायाः ग्रहणे विप्रनन्दन ॥३४॥ लक्षद्वादशवारं तु गायत्रीजपमाचरेत् । सप्तसागरसंज्ञस्य दानस्यैव प्रतिग्रहे ॥३५॥ देव्या द्वादशलक्षं तु जपं विप्रस्समाचरेत् । प्रतिग्रहे चर्मधेनोस्तत्पापस्य विशुद्धये ॥३६॥ देवीद्वादशलक्षं तु जपं विप्रस्समाचरेत् । महाभूतघटस्यैव ग्रहणे विप्रनन्दन ॥३७॥ लक्षमात्रं जपेद्दवीं तस्मात्पापात्प्रमुच्यते । एवमादिमहापापान्यनेकानि च सन्ति हि ॥३८॥ यो विप्रो धनलोभेन प्रतिगृह्णाति कामतः । नरके नियतं वासः कल्पान्तं परिकीर्तितः ॥३६॥

[[२७७४]]

नारायणस्मृतिः

वधपानापहरणगमनाद्यश्च

विक्रयात् ।

॥४०॥

हरणाद्भोजनात्सङ्गात् ग्रहणात्सह सङ्गतः पापान्यनेकान्युच्यन्ते तत्र तत्र महर्षिभिः । निष्कृतिश्चापि कथिता द्रष्टव्या विप्रनन्दन ॥ ४१॥ वच्मि ते परमं गुह्यं किमन्यच्छ्रोतुमिच्छसि ॥

इति श्रीनारायणस्मृतौ पापविवरणं नाम प्रथमोऽध्यायः ॥

अथ द्वितीयोऽध्यायः बुद्धिकृताभ्यासकृतपापानां प्रायश्चित्तवर्णनम्

नारायणउवाच ।

भगवन्मुनिनाथ त्वं मयि वात्सल्यगौरवात् । पुनवदस्व गुह्यं मे शरणं प्रणतोऽस्म्यहम् ॥ १॥

मत्यामत्या तथा पापात् अत्यन्ताभ्यासतस्तथा ।

वहुकालाभ्यासतश्च यत्पापं मनुजैः कृतम् ॥२॥ तत्तत्कालानुगुण्येन प्रायश्चित्तं वदस्व मे ॥

दुर्वासा उवाच ।

नारायण महायोगिन् प्रायश्चित्तं यदीरितम् । तदबुद्धिकृते पापे द्विगुणं बुद्धिपूर्वतः ॥ ३॥ अभ्यासे त्रिगुणं चैवमत्यन्ताभ्यासतस्तथा । चतुर्गुणं बहोः कालात् षड्गुणं परिकीर्तितम् ॥ ४ ॥

वर्षादूर्ध्वपापापनुतयेप्रायश्चित्ताकरणे न निष्कृतिः २७७५

एतद्वर्षात्पुराज्ञेयं वर्षादूर्ध्वं न

निष्कृतिः ॥ ५ ॥

तस्मात्पापं न कर्तव्यं नरैर्नरकभीरुभिः । वर्षात्परं तु सामान्यपापाभ्यासात्पतत्यसौ ॥ ६ ॥ तस्मात् त्रिवर्षपर्यन्तं द्विगुणत्रिगुणादिकम् । कल्पनीयं प्रयत्नेन प्रायश्चित्तं मनीषिभिः ॥ ७ ॥ ततः परन्तु तद्भावमधिगच्छत्यसंशयः ।

इति श्रीनारायणस्मृतौ प्रायश्चित्तवर्णनं नाम द्वितीयोऽध्यायः ।

अथ तृतीयोऽध्यायः नानाविधदुस्कृति निस्तारोपायवर्णनम्

नारायण उवाच ।

दुर्मासभक्षणेनैव दुस्संसर्गविशेषतः ।

दुष्कृत्यशतसाहस्रात् दुराचारसहस्रतः ॥ १ ॥ अत्यन्तमलिने काये बहुकालं गतेऽपि च । नानाबन्धुविनिन्दाभिस्त्यागादात्मजनैरपि 11 2 11 परैरपि च संत्यागात् धनहान्या विशेषतः । अतिनिर्वेदमापन्नः काले बहुदिने गते ॥३॥ प्रपन्नश्शरणं कश्चित् कथं निष्कृतिरीरिता ।

दुर्वासा उवाच ।

वास्तवाद्वाऽवास्तवाद्वा यः पुमान् शरणं व्रजेत् ॥ ४ ॥

[[२७७६]]

नारायणस्मृतिः

तं त्यजेच्छक्तिमान्सोऽयमात्रा नरके वसेत् । शरणागतसंत्राणमवश्यं कार्यमेव हि ॥ ५ ॥ यावतत्रिवर्षं पतितोऽप्यात्मभावं न मुञ्चति । अभ्यासस्यानुसारेण कल्प्यं निष्क्रयणं भवेत् ॥ ६ ॥ आत्मभावविहीनस्स्यादतः परमनातुरः । चतुर्थवर्षपर्यन्तं कथंचित्पूर्वनिष्कृतिः ॥७॥ ततः परं न कर्मार्हः कृत निष्क्रयणोऽप्ययम् । तथाऽपि पापबाहुल्यात् नालं पूर्वोक्तनिष्कृतिः ॥ ८ ॥ द्वितीयाद्धं समारभ्य सप्तमादावधि द्विजः । प्राजापत्यद्वयं तस्य नित्यं स्याद्दिनसंख्यया ॥ ६ ॥ सौदर्शिनीं तु संस्थाप्य कलशद्विशतेन तु । कूष्माण्डशतहोमेन गणहोमशनेन च ॥१०॥ पाहित्रयोदशानां च होमानां शतसंख्यया । तथैव विरजाहोमशतेन जुहुयाच्छुचिः ॥११॥ भूगोगर्भविधानेन पटगर्भविधानतः ।

स्वयं पितावाथान्यो वा जातकर्मादि भावयेत् ॥१२॥ प्राच्योदी च्यांगसहितं प्रायश्चित्तमिदं चरेत् । नान्यथा शुद्धिमाप्नोति यथा भुवि सुराघटः ॥१३॥ एवमेव नवाब्दान्तं प्रायश्चित्तविनिर्णयः । दशमाब्दं समारभ्य याद्विशतिवर्षकम् ॥१४॥ अघमर्षणसाहस्रैरब्लिङ्गशतमज्जनैः ।

सहस्रकलशस्नानैः गायत्र्या प्रणवेन च ॥१५॥

नानाप्रायश्चित्तवर्णनम्

॥१६॥

[[२७७७]]

[[112611]]

ततः पूर्वोक्तहोमैश्च प्राच्योदीच्याङ्गसंयुतां । पूर्ववन्निष्कृतिं कृत्वा पञ्चगव्यं विशेषतः दशदानं भूरिदानं सहस्रब्रह्मभोजनम् । ततो गङ्गाजले स्नानं सेतुदर्शनमेव वा एवं कृते विशुद्धोऽभूत् पूर्ववद्विजनन्दनः । स्वकर्मपरकर्मार्हो भवेदेव न संशयः विंशतेर्वर्षतः पश्चात् आर्त्तो वाऽनार्त्त एव वा । नात्यन्तमलिनस्याहुः प्राजापत्यं महर्षयः ॥१६॥

इति श्रीनारायणस्मृतौ नानाप्रायश्चित्तवर्णननाम तृतीयोऽध्यायः ।

॥१८॥

अथ चतुर्थोऽध्यायः

नारायण उवाच । योगिनांवर मत्स्वामिन् सर्वज्ञ करुणानिधे ।

वदस्व तपतां श्रेष्ठ मयि वात्सल्यगौरवात् ॥ १॥ विंशतिवर्षतः पश्चात् अतीवार्तस्समागतः । निष्कृतिर्न कथं तस्य स्यादित्येवं ब्रवीषि मे ॥ २ ॥

दुर्वासा उवाच ।

कोपसंरक्तनयनः कुटिलभ्र लतायुतः ।

स्फुरदोष्ठद्वयोऽतीव विष्फुलिङ्गितलोचनः ॥ ३॥

[[२७७८]]

नारायणस्मृतिः

नारायणमिदं प्राहः वाचातिक्ररया भृशम् । किमरे मूढ दुष्टात्मन् उपर्युपरिपृच्छसि ॥४॥ परिहासो भवेत्किवा न सहे कोपमुल्बणम् । पुनरेवं न प्रष्टव्यं यदि पृच्छसि दुर्मते ॥ ५॥ मत्कोपजातकालाग्नौ मूर्द्धा ते व्यपतिष्यति । इति ब्रुवन्तं कोपेन दुर्वाससमनन्यधीः ॥ ६ ॥ उत्प्रवेपितसर्वाङ्गो भयविह्वललोचनः ।

116 11

पपात पादयोस्तस्य शस्त्रच्छिन्न इव द्रुमः ततः करुणया दृष्ट्या दुर्वासास्तु महामुनिः । पाणिभ्यां तं

समुद्धृत्य ममार्ज

मुखमञ्जसा ॥ ८ ॥ ततो धैर्यं समालम्व्य नारायणमुनौ स्थिते ।

प्रीत्योवाच स तुष्टात्मा नारायणमहामुनिम् ॥६॥ तात वत्स न भेतव्यं प्रसन्नोऽस्मि तवानघ । कुटिलं पृच्छमानं त्वां मत्त्वा कोपो महानभूत् ॥१०॥ त्वदुक्ति संपरिज्ञाय मम चित्तं सुनिर्मलम् । सञ्जातमिहनिश्शंकं पृच्छ मां यद्यदिच्छसि ॥११॥ इति श्रीनारायणस्मृतौ प्रायश्चित्तवर्णनं नाम

चतुर्थोऽध्यायः ।

1अथ पञ्चमोऽध्यायः दुष्प्रतिग्रहादिप्रायश्चित्तवर्णनम्

नारायणः उवाच ।

भगवन्मुनिशार्दूल नमस्ते रुद्रमूर्त्तये । कालाग्निसदृशप्रख्य कोपनाय नमोनमः ॥ १ ॥ प्रसीद मे महर्षे त्वं पाहि मां शरणागतं । न कौटिल्यादहं पृच्छे नाहङ्कारान्महामुने ॥२॥ हिताय सर्वलोकानां पृष्टवानस्मि साम्प्रतम् । प्रसन्नो यदि वात्सल्यात् प्रष्टव्यं किंचिदस्ति मे ॥ ३ ॥ कोपो न स्याद्यदि पुनः मामनुज्ञापय प्रभो ।

दुर्वासा उवाच ।

तात मां पितरं विद्धि गुरुमाचार्यमेव वा ॥ ४॥ मम कोपः प्रशमितः तव वास्तवदर्शनात् । अतस्त्वं भयमुत्सृज्य पृच्छ मां यद्यदिच्छसि ॥ ५ ॥

नारायण उवाच ।

नृणाम् ॥ ६॥

पृच्छन्तं मामतीवात्तं उत्तरं दातुमर्हसि । सर्वपापप्रशमनं सर्वसिद्धिकरं नृणाम् चिराभ्यस्तमहापापदूषितानां दुरात्मनाम् । दुर्देशगमनेनैव दुष्प्रतिग्रहकोटिभिः ॥ ७ ॥ म्लेच्छान्त्यश्वपचस्त्रीभिः संसर्गाच्चिरकालतः । अपेयमद्यपानाद्य दुष्टमांसादिभक्षणैः ॥ ८ ॥

[[२७८०]]

नारायणस्मृतिः

आर्त्तानां का गतिर्ब्रह्मन् वदस्व करुणानिधे ।

दुर्वासाः उवाच ।

शृणुष्व सारः पृष्टोऽय लोकानां हितकाम्यया ॥ ६ ॥ संग्रहेण प्रवक्ष्येऽद्य सावधानतया शृणु । युगेष्वपि च सर्वेषु सत्त्वराजसतामसाः ॥१०॥ नित्यं गुणाः प्रवर्द्धन्ते तत्प्रभावं वदामि ते । सत्त्वप्रवर्त्तका भूयः प्रवर्द्ध न्ति (न्ते कृते युगे ॥११॥ सात्त्विकानान्तु वक्ष्यामि गुणानां कृत्यमद्भुतम् । स्त्रीपुंसंयोगमात्रेण स्त्रियां गर्भः प्रजायते ॥१२॥ तस्मिन्निविशते जीवः कर्मपाशवशंगतः । तस्य प्रवेशकालस्तु सात्त्विको यदि वै भवेत् ॥१३॥ जातमात्रस्य तस्यैव सात्त्विकत्वं भवेद्ध्रुवम् । ततः कतिपये काले बुद्धिस्सत्त्वे प्रवर्त्तते सत्रप्रवर्त्तनात्सोऽयं सत्कृत्यमनुतिष्ठति ।

॥१४॥

स्नानं सन्ध्या जपोहोमः स्वाध्यायः पितृतर्पणम् ॥॥१५॥ अतिथ्याराधनादीनि प्रवृध्यन्ति (प्रवर्धन्ते ) हि नित्यशः । नैव पापसमाचारे प्रवृत्तिस्स्यात्कदाचन ॥१६॥ कालधमं गते तस्मिन् मुक्त श्वयं भवेद्ध्रुवम् । तस्य प्रवेशकालस्तु राजसो यदि वै भवेत् ॥१७॥ रजोगुणपरीतात्मा जायते भुवि मानवः । पशुपुत्राद्यन्नकामः कामभोगसुखानि च ॥१८॥

[[२७८१]]

पापसमाचारस्यगतिवर्णनम्

भुक्त्वान्ते दिवमासाद्य स्वर्गादिसुखमेष्यति । सोऽयंकालो मिश्रसत्त्वराजसो यदि वै भवेत् ॥१६॥ सत्त्वराजस सम्मिश्रो जायते भुवि मानवः । भोगासक्तः कचित्काले क्वचित्सात्त्विक कृत्यवान् ॥२०॥ अन्ते स्वर्गसुखं भुक्त्वा ब्रह्मणा सह मुच्यते । तस्य प्रवेशकालस्तु तामसो यदि वै भवेत् ॥२१॥ तमसा मूढचित्तस्तु जायते भुवि मानवः । नित्यं कलहकारी च नित्यं द्रौद्वैकतत्परः परदारपरद्रव्यपरिग्रहपरायणः ।

॥२२॥

नित्यं पापसमाचारः परत्रेह न शर्मकृत् ॥२३॥ देहान्ते नरकं भुक्त्त्वा जायते भुवि कुत्सितः । कलिस्तु तामसाधारः प्रायेणात्र तु तामसाः ॥२४॥ जनिष्यन्ति विशेषेण सत्त्वोद्रिक्ताः क्वचित्क्वचित् । सर्वशक्तिक्षयकरः कलिर्दोषनिधिस्ततः ॥२५॥ तस्माद्व्रतोपवासाद्य कलौ नैव समाचरेत् । प्रत्याम्नायादिरूपेण प्राजापत्यादिकं चरेत् ॥२६॥ द्वितीयवर्षमारभ्य यावद्विंशतिवत्सरम् ।

महापापोपपापादि युक्तस्त्वातों भवेद्यदि ॥२७॥ पूर्वोक्तहोमसंयुक्तमघमर्पणमेव च ।

सहस्रकलशस्नानमग्लिङ्गशतमज्जनम् ॥२८॥ पञ्चगव्यप्राशनं च सर्वं कृत्वा विशुद्धयति । एवं यः कुरुते सम्यक् सर्वपापैः प्रमुच्यते ॥२६॥

[[२७८२]]

नारायणस्मृतिः

नारायण उवाच ।

सहस्रकलशानां तु स्थापनं कथमुच्यते । कथं मण्डलसंस्थानं विस्तरेण वदस्व मे ॥३०॥

दुर्वासा उवाच ।

शृणु मे विस्तरेणेह नारायण महामुने । सहस्रकलशानां तु स्थापनस्य विधिक्रमम् ॥३१॥ यच्छ्रत्त्वासर्वतापेभ्यो मुच्यते नात्र संशयः । नद्यास्तीरे तटाकस्य तीरे वा सुमनोहरे ॥३२॥ शालां विशालां विधिवत् षट्त्रिंशत्पदसंमितां । षोडशस्तम्भसंयुक्तां प्रपां तत्र प्रकल्पयेत् ॥३३॥ कदलीस्तम्भपूगालिमिश्रितां सुमनोहराम् । कृत्वा ततो वितानाद्य स्तोरणाद्यश्चभूषयेत् ॥३४॥ चतुरश्रां मध्यदेशे दशपादयुतां भुवम् । वेदिकां कल्पयेत्सम्यक चतुरङ्गुलमुन्नताम् ॥३५॥ ईशान्यादि चतुर्दिक्षु तथैव परिकल्पयेत् । गोमयेन समालिप्य निम्नोन्नतविवर्जिताम् ॥३६॥ पञ्चम्यगणैरलंकृत्य व्रीहिभारैस्ततस्तरेत् । सुधूपितान् सूत्रवस्त्रवेष्टितान् सुमनोहरान् ॥३७॥ कलशान् द्विशतं सम्यक् कलशाक्षतशोभितान् । पञ्चत्वक्पल्लवैर्मिश्रान् नालिकेराम्लपल्लवैः ॥३८॥ सुकूचैश्च शुर्चे देशे स्थापयित्वाऽथ देशिकः । पुण्याहवाचनं कृत्त्वा संप्रोक्ष्य कलशानथ ॥३६॥

सहस्रकलशस्थापनेपापादिदूरीकरणार्थवर्णनम्

एकं

कलशमादाय

[[२७८३]]

स्थापयेद्व्रीहिमध्यतः ।

परितश्चाष्टकलशान् विरलान् परिकल्पयेत् ॥४०॥ ततो विंशतिसङ्ख्याकान् द्वात्रिंशत्सङ्ख्यकांस्ततः । चत्वारिंशच कलशान् चक्राकारान्यथाक्रमम् ॥४१॥ ततः शिरः प्रदेशे तु प्राच्यादिचतुरोन्यसेत् । मध्ये त्वेकं तु संस्थाप्य पार्श्वयोरुभयोरपि ॥ ४२ ॥ । कलशत्रितयं दक्षे वामे च कलशत्रयम् । चक्रस्य दक्षिणे पार्श्वे कलशानां तु पञ्चकम् ॥४३॥ विन्यस्य मध्यमे त्वेकं तथैकं शिरसि न्यसेत् । ततस्त्यधः प्रदेशे तु रेखाद्वयसमाकृतीन् ॥४४॥ कलशान्दश विन्यस्य तथैवोत्तरतश्चरेत् । चक्रस्याधः प्रदेशे तु स्थाप्यैकं कलशं ततः ॥४५॥ परितः परिकल्प्याथ कलशान्षड्यथाक्रमम् । पार्श्वयोरुभयोस्तद्वत् प्रत्येकं कलशद्वयम् ॥४६॥ अधस्तात्कलशानां तु षट्कस्य त्रितयं तथा । अधस्तात्कलशद्वन्द्व स्थापयेद्विप्रसत्तमः ॥४॥ एवं कृते भवेत्स्पष्ट साक्षाच्चक्राकृतिः क्रमात् । ईशान्यादिचतुर्दिक्षु कल्पयेदेवमेव हि ॥४८॥

पञ्चचक्राकृतिरियं

महापापप्रणाशिनी ।

उपपातकदोषघ्नी अतिपातकवारिणी ॥४६॥

दुर्देशगमने चैव दुःखीसङ्गमे (मके) षु च ।

समुद्रलङ्घने चैव चैव

नौयानमवलम्ब्य

॥५०॥

[[२७८४]]

नारायणस्मृतिः

द्वीपान्तरगतौ चैव चण्डालखीनिषेवणे । सन्ध्यादिकर्मणां चैव श्राद्धादीनां च लोपने ॥ ५१॥ ब्रह्मन्नादिसहावासे तुलुष्कादिसमागमे । सर्वेषामपि पापानामियमेका हि निष्कृतिः ॥५२॥ भक्त्या परमया युक्त इमां निष्कृतिमाचरेत् । पराकमप्यकुर्वाणः पञ्चविंशतिसङ्ख्यया ॥५३॥ तप्तत्रिशतपूर्वं तु भूगर्भ प्रथमं चरेत् । गोगर्भ वटगर्भं च सवं साङ्ग समाचरेत् ॥५४॥ ब्राह्मः पूर्ववच्छुद्धो जायते स्फटिकोपमः । स्वकर्म परकर्मार्हो जायते तदनन्तरम् ॥५५॥ इति श्रीनारायणस्मृतौ विशेषविधानंनाम पञ्चमोऽध्यायः ।

अथ षष्ठोऽध्यायः

नारायण उवाच ।

सहस्रकलशस्नानं कथं कार्यं महामुने ।

दुर्वासा उवाच ।

स्वर्णराजतताम्रांश्च मृण्मयान्वा विशेषतः ॥ १ ॥

ससूत्रवस्त्रान् सच्छिद्रान् सालङ्कारान्सुधूपितान् ।

सहस्रसङ्ख्यान् कलशान् तण्डुलादिपरिष्कृतेः ॥ २॥

[[२७८५]]

कलौवर्ण्यकर्मणां निषेधवणनम्

दिश्यैशान्यां तथाऽऽग्नय्यां निर्ऋत्यां मरुतो दिशि । मध्ये च स्थापयेद्विप्रः कलशान् द्विशतं क्रमात् ॥ ३ ॥ शुद्धोदकैस्समापूर्य नालिकेराम्रपल्लवैः । समलङ्कृत्य विधिवत् वरुणं च प्रचेतसम् ॥ ४ ॥ आवाह्यापां पतिं चैव सुरूपिणमथाह्वयेत् । नैवेद्यान्तैस्तमभ्यर्च्य ऋत्विग्भिस्सहदेशिकः ॥५॥ शन्नो देवीस्त्वापो वा द्रुपदादिव इत्यपि । आपोहिष्ठाहिरण्याद्यैर्मन्त्रैरसम्मन्त्र्य मन्त्रवित् ॥ ६॥ गायत्र्या प्रणवेनैव त्ववरोहणमार्गतः ।

सकूर्चेःश्च (?) स्थानं प्रोक्षणमेव वा ।

कारयेत् सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ७॥ इति श्रीनारायणस्मृतौ सहस्रकलशाभिषेको नाम

षष्ठोऽध्यायः ।

अथ सप्तमोऽध्यायः

नारायण उवाच ।

कलौ तु कानि कर्माणि वर्ज्यानि परिचक्ष्व मे ।

दुर्वासा उवाच ।

शृणु नारायण ब्रह्मन् सावधानतयाऽद्य मे ॥ १ ॥ कलौ तु पापबाहुल्यात् वर्जनीयानि मानवैः । विधवापुनरुद्वाहौ नौयात्रा तु समुद्रतः ॥२॥

[[१७५]]

[[२७८६]]

नारायणस्मृतिः

118 11

आतिश्य ( ? प्राशनस ) करणार्थं तु मधुपर्केपशोर्वधः । शूद्रान्नभोज्यता विप्रैः तीर्थसेवी च दूरतः ॥ ३॥ सर्ववर्णेषु भिक्षूणां भैक्षाचयं विधानतः । ब्राह्मणादिपु गेहेषु शूद्रस्य पचनक्रिया भृग्वग्निपतनं चाष्टौ कर्माण्येतानि वर्जयेत् । अवर्जयित्वात्वेतानि शास्त्रोक्तमिति बुद्धितः ॥ ५ ॥ कलौ युगे विशेषेण पतितस्स्यान्न संशयः । कृतादौ तु महीपालो वेनो नाम नृपोत्तमः ॥६॥ शशास पृथिवीं सर्वा सकुलाद्रिमहार्णवाम् । दुरात्मा स तु कृत्येन ब्राह्मणानन्वशासत ॥ ७ ॥ यूयमद्यप्रभृति वै समुद्र

े यानमार्गतः । द्वीपाद्वीपान्तरं गत्वा कुरुध्वं सर्वविक्रयम् ॥ ८ ॥ विधवापुनरुद्वाहं यथेच्छं न विचारणा । पशु भक्ष मातिथ्यव्याजेनाचरथ द्विजाः 11 & 11 गृहे पचन्तु युष्माकं शूद्राः श्राद्ध ेऽपि नित्यशः । तीर्थसेवाव्याजमात्रात् त्यजध्वं श्रौतकर्म च ॥१८॥ यतयस्सर्ववर्णेषु भिक्षां कुर्वन्तु

भिक्षां कुर्वन्तु कामतः । ब्राह्मणाश्शूद्रगेहेषु भुञ्जन्तु च यथेच्छया ॥११॥ कालासहिष्णवो वृद्धाः भृगुपातं चरन्तु भोः । यो मच्छासनमत्युग्रमन्यथाकर्तुमिच्छति ॥१२॥ असिना तीक्ष्णधारेण वध्य एव न संशयः । इति वेन वचश्श्रुत्वा पर्यतप्यन्त पीडिताः ॥१३॥

वेनसमीपे सानुरोधं ऋषीणां समावेदनवर्णनम् २७८७ शप्तो यदि भवेदेष राज्यं भूयादनायकम् । अशप्तश्चेद्भवेत्पीडा कथं कार्यमितः परम् ॥१४॥ इति चिन्त्य ( ? ) महात्मानः सङ्घीभूय सभान्तरे । वेनं महीपतिं ब्रूयुः विप्राः प्राणपरीप्सवः ॥१५॥ भो भो वेन महीपाल किमर्थं नः प्रबाधसे । . अशास्त्रीयानिमान् कृत्वाऽमहर्षिकथितान् प्रभो ॥१६॥ निपातयसि नो घोरे निरये किं फलं तव । ऋषिभाषितमेवाद्य करिष्यामो महीपते ॥१७॥ नान्यत् किञ्चित् करिष्यामः प्राणैः कण्ठगतैरपि । एतच्छ्र ुत्वाऽथ भूपालो वैनः क्रोधपरिप्लुतः ॥१८॥ अष्टादशसहस्रं तु ऋषीनानाय्य सत्वरम् । स्तम्भेषु पङ्क्तिशो बद्ध्वा केशैरभिहनत्स्वयं ॥ १६॥ तेन संपीड्यमानास्ते घोषयांचक्रिरे नृपम् । भो भो राजन् महीपाल किमर्थं नः प्रबाधसे ॥२०॥

॥ वेनउवाच ॥

अमनोरञ्जकान्यद्य शास्त्राणि ( रचितानि ) हि । रञ्जकान्येव सर्वेषु वद्ध्वं तत्प्रियं मम ॥२१॥ नानादेशेषु विप्राद्याः नौयानात्प्रचरन्तु भोः । विधवापुनरुद्वाहं चरन्तु पृथिवीतले ॥२२॥ प्रचरन्तु पशोहिंसां मधुपर्के द्विजातयः ।

.

शूद्रगेहेषु भुंजन्तु द्विजगेहे पचन्तु ते ॥२३॥

[[२७८८]]

नारायणस्मृतिः

भिक्षवस्सर्ववर्णेषु भैक्षाचर्यं चरन्तु च । दीर्घकालासहा वृद्धाश्चरन्तु भृगुपातनम् ॥२४॥ काममग्नीन् परित्यज्य तीर्थसेवां चरन्तु च । इत्याकर्ण्य च तद्वाक्यं वेपमाना महर्षयः ॥२५॥ नौयात्राद्य’ त्वष्टकर्मह्यनुजानन्ति दुःखिताः । ततो विसृज्य भूपालो महर्षीनमितौजसः ॥२६॥ शशास पूर्ववत् पृथ्वीं परिपूर्णमनोरथः । ततः प्रभृति विप्राद्याः नौयात्राद्यष्टकर्मणि ॥२७॥ प्रवृत्ता ऋषिवाक्येन धर्मबुद्धया च मोहिताः । युगत्रयेषु यातेषु ततः प्राप्ते कलौ युगे ॥२८॥ बदरीवनमासाद्य सङ्घीभूय महर्षयः । विचिन्त्य विधियोगेन कृत्यान्येतान्यवारयन् ॥२६॥ तस्मात् कलौ त्विमान् धर्मान् वर्ज्यानाहुर्महर्षयः । कलौयुगे तु संप्राप्त नौयात्रादि करोति यः ॥३०॥ पतित्वा निरये घोरें दुःखमेति महत्तरम् । तस्मादिमान् कलौधर्मान् वर्ज्यानाहुर्महर्षयः ॥३१॥ इमान् कृत्वा कलियुगे निष्कृतिर्न विधीयते । यदि निष्कृतिमापन्नः सेतुस्नानादिना कचित् ॥३२॥ तथाऽपि न परिग्राह्यः पापबाहुल्यकं यतः । किमन्यच्छ्रोतु कामोऽसि वदस्व द्विजनन्दन ॥३३॥ इति श्रीनारायणस्मृतौ नौयात्राद्यष्टकर्मणानिषेधोनाम सप्तमोऽध्यायः ।अथाष्टमोऽध्यायः अष्टनिषिद्धकर्मणां प्रायश्चित्तवर्णनम्

नारायण उवाच ।

भो भो ब्रह्मन् वदस्वाद्य विस्तरेण ममाधुना । अबुद्धया बुद्धिपूर्वं वा कलिवर्ज्यानिमान्द्विजः ॥ १ ॥

परंभूयः पश्चात्पापपरायणः ।

कृत्वा ततः

शरणं यदि संप्राप्तः कथं निष्कृतिरुच्यते ॥ २ ॥ केनैव विधिना सन्यग् बन्धुमध्ये प्रवेशनम् । किं कृत्वा मुच्यते पापात् कथं कर्मार्हता भवेत् ॥ ३ ॥ एतदाचक्ष्व भगवन् संशयो जायते महान् ।

दुर्वासा उवाच ।

शृणु नारायण श्रीमन् गदतो मम विस्तरात् ॥ ४ ॥ गङ्गास्नानं वर्षमात्रं मासं सेतुनिमज्जनम् । साङ्गं च विधिवत्कृत्वा व्यवहार्यो भवेदिह ॥ ५ ॥ भवेत्स्वकर्ममात्रस्य भविता त्वर्हता द्विज । परकर्मणि नैवार्हः भवेदेव न संशयः ॥ ६॥ तस्मादिमान् कलियुगे वर्ज्यानष्टौ ब्रुवन्ति हि । असाध्यत्वात्कलौ काले द्रव्यव्ययविशेषतः ॥ ७ ॥ यदि सर्वस्वदानेन चित्तं चरितुमिच्छति ।

तदाऽसौ सर्वकर्मा

भवेदेव न संशयः ॥ ८ ॥

[[२७६०]]

नारायणस्मृतिः

तदद्य तव वक्ष्यामि रहस्यमिदमुत्तमम् । यदा प्रवृत्तस्त्येतस्मिन् तद्दिनं परिगण्य च ॥६॥ चान्द्रायणद्वयं नित्यं कर्तव्यमविशङ्कया । पूर्वोत्तराङ्गसंयुक्त अब्लिङ्गशतमन्त्रितम् ॥१०॥ सहस्रकलशस्नानं पश्चवारुणहोमकम् ।

कूश्मा (हम) ण्डगणहोमानां शतं पाहि त्रयोदशैः ॥ ११॥ शतं तु विरजाहोमं गायत्रीशतहोमकम् । तिलहोमसहस्रश्च गर्भं च वटभूगवाम् ॥१२॥ मज्जनं गोमयहृदे गोदानं द्वादशाचरेत् । दशदानं भूरिदानं सहस्रब्रह्मभोजनम् ॥१३॥ एवमादि यथाशास्त्रं धनव्ययमचिन्त्य तु । सन्तुष्टचित्तः कृत्वा (सततं ) शुद्धिमाप्नोत्यसंशयः ॥ १४ ॥ स्वकर्मपरकार्मार्हो भवेदेव न संशयः ।

इति श्रीनारायणस्मृतौ कलावष्टविधवर्ण्यकर्म प्रायश्चित्तवर्णनंन

अष्टमोऽध्यायः ।

अथ नवमोऽध्यायः धनहीनाय प्रायश्चित्तवर्णनम्

नारायण उवाच ।

भगवन् सर्वधर्मज्ञ शरणागतवत्सल । अकिञ्चनानामार्त्तानां कलिवर्ज्यकृतां नृणाम् ॥ १ ॥ कथं निष्कृतिरादिष्टा वद मे शिष्यवत्सल ।

दुर्वासा उवाच ।

तात ते कथयाम्यद्य शृगु वात्सल्यगौरवात् ॥२॥ अत्यन्तार्त्तो यदि ब्रह्मन् अधनः कलिवर्ज्यकृत् । शरणं यदि संप्राप्तः प्रायश्चित्तमिदं वदेत् ॥ ३ ॥ सशिखं वपनं कृत्वा नित्यकर्मपरायणः ।

पुण्यतीर्थे हृदे वाऽपि पुष्करिण्यामथाऽपिवा ॥४॥ आकण्ठजलसम्मग्नः प्राङ्मुखस्त्वघमर्षणम् । शिरस्यञ्जलिमाधाय जप्त्वा स्नानं समाचरेत् ॥ ५ ॥ पुनर्जप्त्वा पुनरस्नात्वा पुनजपमथाचरेत् । एवं मध्याह्नपर्यन्तं प्राङमुस्वस्स्नानमाचरेत् ॥ ६॥ माध्याह्निकं ततः कृत्वा समाराध्येष्टदेवताम् । ततः प्रत्यङ्मुखो भूत्वा पूर्ववत्स्नानमाचरेत् ॥ ७ ॥ सायाह्न े समनुप्राप्ते तटमुत्तीर्य वाग्यतः ।

न संमृजेच्छरीराणि वाससा वाऽपिपाणिना ॥ ८ ॥

[[२७६२]]

नारायणस्मृतिः

फलाष्टकप्रमाणेन तण्डुलेनहतिः पचेत् । गोमूत्रे विनिवेद्य व हरये परमात्मने 11 & 11 तदेव भुक्त्वा सायाह्न े स्वपेद्व दक्षिणाशिरः । एवं पण्मासकृद्विप्रः पूर्ववतच्छुद्धिमाप्नुयात् ॥१०॥ ततो गङ्गाजले स्नात्त्वा सेतुदर्शनमेव वा । कृत्वा ततः पुनः कर्म कृत्वा शुद्धिमवाप्नुयात् ॥११॥ स्वकर्मपरकर्मार्हो भवेदेव न संशयः ।

एवं सम्यक् समादिष्टं श्रुत्वा नारायणो मुनिः ॥१२॥ विच्छिन्नसंशयो भूत्त्वा परमानन्दनिर्भरः । मेरुपृष्ठमुपागम्य तपश्चर्तुं ययौ मुनिः ॥१३॥

इति श्रीनारायणस्मृतौ कलौवर्ण्यकर्मप्रायश्चित्तवर्णनंनाम नवमोऽध्यायः ।

॥ श्रीगणेशाय नमः ॥