विवाहाग्नौस्मार्तकर्मविधानवर्णनम्
लोहितं सर्ववेदान्ततत्त्वज्ञं न्यायवित्तमाः । सामान्यज्ञानसंजातसंशयास्सर्व वस्तुषु ॥ १॥ विशेषं परिपप्रच्छुः भार्यापुत्रधनादिषु । स्मार्तं कर्म विवाहाग्नौ कुर्वीत प्रत्यहंगृही ॥ २ ॥ इत्यत्र विद्यमानोऽग्नि शब्दोऽयं संशयास्पदम् । प्रधानलाजहोमाग्निः
विवाहाग्निरितिस्मृतः ॥३॥
सोऽयं नित्यत्वधार्यत्वविहितो हि यतो मतः । विवाहपचनाग्निश्चेत्प्रकृतेन समञ्जसः ॥ ४॥ तस्योत्तरत्र कार्येषु विनियोगैकशून्यतः । प्रधानहोमाग्नौ तत्र पुनस्संशय ऐककः ॥ ५॥ आद्याग्नौ वा द्वितीयाग्नौ तृतीयाद्यनलेऽपि वा । अथ वा स्याच्चतुर्थाग्नौ पञ्चमाग्नौ न चेत्तथा ॥ ६ ॥ सर्वत्रैवाविशेषेण कुर्वीत प्रत्यहं गृहीः ।
पुनस्तथा पश्चात्क्षत्रियाद्यनलेषु वा ॥ ७ ॥ केन द्रव्येण भूयश्च कथं मन्त्राश्च के पुनः । इत्येवं संशये जाते निश्चयं वच्मि वोऽद्य तु ॥ ८ ॥
एवं
[[२७०२]]
लोहितस्मृतिः
॥ बहुभार्यस्योपासनादौ विशेषः ॥ ब्रह्मचर्यनिवृत्तिस्सा यस्यास्समुदपद्यत ।
धर्मपत्नी सैव लोके कथिता तत्समा च सा ॥ ६ ॥
भर्तु रर्धशरीरा च सर्वधर्मसमाश्रया । तद्विवाहसमुद्भूतो
बहिर्निखिलकर्मणाम् ॥१॥
मन्त्रपूतो वेदजन्यः सर्वयागैकसाधकः । स एव हि प्रधानाग्निः ब्राह्मणस्यमहात्मनः ॥११॥ द्वितीयाद्यग्नयः शिष्टाः दुर्बलास्तत्समान तु । न ते वैदिककृत्यस्य तूष्णीका एव केवलम् ॥१२॥ धर्मपत्नीवीतिहोत्रे स्मात कर्माखिलं चरेत् । द्वितीयापत्म्यग्निषु चेत्तष्णीकं कृत्स्नकर्म तत् ॥१३॥ वेदोक्तमन्त्रतन्त्राणि न भवेयुः कदाचन । प्रत्यग्नावपि यत्नेन सायं प्रातस्समाहितः ॥१४॥ वेदोक्तमन्त्रैरखिलैः कुर्यादौपासनं बुधः । राजन्याद्यबलाग्नीनां नित्यमौपासनं तु तत् ॥१५॥ ब्राह्मणेन तु कर्तव्यं व्रीहिभिर्न तु तण्डुलैः । शूद्रकन्योपासनं तु ब्राह्मणेन विपश्चिता ॥१६॥ ।
यवैरमन्त्रकं नित्यं कर्तव्यमिति काश्यपः । पञ्चपत्यो ब्राह्मणस्य स्वजातो धर्मतो मताः ॥१७॥ राजन्यवैश्ययोश्चापि स्वजातावेव वै तथा । त्रैवर्णिकानां सततं धर्मपत्नीधनञ्जयम् ॥१८॥
श्राद्ध पुविशेषकृत्यवणनम्
प्राथम्येन पुरस्कृत्य वैदिकानि प्रचालयेत् ।
.
[[२७०३]]
पितृश्राद्ध ेषु सर्वेषु प्रथमेष्वेव पञ्चसु ॥ १६॥ तदग्नौ करणं कुर्यात् विशेषोऽयमथोच्यते । धर्मपत्न्यनिले कुर्यात् मन्त्रवत्तद्विधानतः ॥२०॥ चतुर्ष्वन्येध्वमन्त्रेण हुनेदिति मनोर्मतम् । एवं पितुश्च मरणे प्रथमाग्नौ सुतेन वै ॥२१॥ सर्वा आहुतयः कार्याः तन्मन्त्रैरखिलैरपि । पश्चाद्वितीयाद्यनले तूष्णीकं ताः स्रु वाहुतीः ॥२२॥ कुर्यादेव समन्त्रास्ते तत्रस्युस्सर्वथैव हि । सर्वे मन्त्राश्च धर्माश्च क्रियास्तन्त्राणि सूरिभिः ॥२३॥ धर्मपत्न्यनलावेव कर्तव्यत्वेन चोदिताः । क्षत्रियाद्यबलावह्निविशेषायेऽस्यतेऽभवन् ॥२४॥ तान् सर्वान्दीप्यमानेऽस्मिन् क्रमात्तूष्णीं तु निर्वपेत् । सर्वेष्वग्निषु तस्माद् यावज्जीवं विधानतः ॥२५॥ स्मार्तकर्माणि कुर्वीत चौपासनमुखान्यपि । सजातिवह्निषु सदा तदौपासनमात्रकम् ॥२६॥ आन्तं समन्त्रकं नित्यं स्थालीपाकं तथैव च । सर्वं श्राद्धादिकं शिष्ट’ यद्वा नैमित्तिकं भवेत् ॥२७॥ तत्र सर्वत्र सततं प्रथमाग्नौ
इतराग्निष्वमन्त्रं स्याद्वश्वदेवं
समन्त्रकम् ।
यथारुचि ॥२८॥
सर्वोत्तमा धर्मपत्नी तग्निश्च
तथाविधः ।
तत्प्राधान्येन कुर्वीत कर्म चौपासनं सदा ॥२६।
[[२७०४]]
.
लोहितस्मृतिः
क्रमेणेतरकर्माणि न ..व्यत्यासेन तच्चरेत् । पृथङ्नित्यं तथाकर्तुमशक्तश्चेद्विचक्षणः ॥३०॥
॥ अनेकाग्निसंसर्गः ॥
सर्वेषामपि वह्नीनां संसर्ग विधिनाचरेत् । संसर्गे तु कृते होमे चैको वह्निस्ततो भवेत् ॥३१॥ ततो होमे कृते तावन्मात्रेणैव समन्त्रकम् । सर्वत्रापि कृतं सम्यग्भवत्येव न संशयः ॥३२॥ धर्मपत्नीवीतिहोत्रे प्रधानेऽस्मिन्यथाविधि । क्रमेणैव स्थापयित्वा हुत्वामम्त्रैस्तुतैरति(पि) ॥३३॥ योजयेत्तेन विधिना नान्यावह्नौ कदाचन । प्राधान्येन प्रधानाग्निं कृत्वा तस्मिन् परानशुचीन् ॥३४॥ योजयेत्समिताद्यस्तु चरुधर्मेण धर्मवित् । कदाचिन्मोहतो यो वा द्वितीयाद्यनलेषुचेत् ॥३५॥ संसगं कुरुते मूढः प्रधानमितरास्तु वा । सर्वे नष्टा मयस्ते लौकिकत्वं भजन्ति हि ॥३६॥ तद्दोषशमनायाथ पुनरग्निं यथाविधि । प्रतिष्ठाप्याखिलैर्दारैरुपविश्य यथाक्रमम् ॥३७
•
प्रधानहोमं कृर्वीत लाजहोमं च पूर्ववत् । पत्नीसंख्याविधानेन · पश्चात्तत्सिद्धिरीरिता ॥३८॥ अन्यथा दोषमाप्नोति नात्र कार्या विचारणा ।
श्रौताग्नौ विद्यमाने स्वायतने तु तदान्वहम् ॥३॥
पत्नीसुतानां ज्येष्ठत्वादिविचारवर्णनम्
सायंप्रातर्होमकाले धर्मपत्न्यास्सदैव हि । सीमोहनमात्रेण सद्योऽग्निलौकिको भवेत् ॥४०॥ तदधीनो यतो वह्निस्तथा तस्मात्प्रयत्नतः । तां धर्मपत्नीं तत्सीम्नः तत्कालोल्लङ्घनं यथा ॥४१ ॥ न करोत्येव सा यत्नात्तथा यत्नेन बोधयेत् । कदाचिद्यदि सा मोहादवशादुःखपीडनैः सीमान्तरं प्रविष्टास्यात्पुनस्सन्धानमाचरेत् । अपस्मारादिना सा चेदभिभूतावशा भवेत् ॥४३॥ निरोधयेद्गृहेष्वेव ं नो चेदग्निस्तु लौकिकः ।
॥४२॥
[[२७०५]]
॥ ज्येष्ठादिपत्नीनां तत्सुतानां च ज्यैष्ठ्यकानिष्ठ्यविचारः ॥
धर्मपत्नी वयोन्यूना द्वितीया वयसाधिका ॥४४॥ धर्मपत्न्येव सततं ज्यैष्ठ्यमर्हति कर्मसु ।
वयोधिका द्वितीया सा सदा कानिष्ठ्यभागिनी ॥ ४५ ॥
भवेदेवेतिनिखिलाः प्राहुस्ते
ब्रह्मवादिनः ।
॥४७॥
द्वितीयादिसुतोज्येष्ठः वयसा कर्मशीलतः ॥४६॥ अधिकोऽप्याहिताग्निर्वा जातपुत्रो बहुश्रुतः । न ज्येष्ठपत्नीतनयान्मौञ्जीविरहितादपि न समो धर्मतः प्रोक्तः सोऽयमेवौरसः परः । आत्मजश्चापि कथितो द्वितीयादिसुतास्तुते ॥४८॥ कामजा इति हि प्रोक्ताः श्रुतिस्मृत्यर्थदर्शिभिः । एतेनैव प्रकथिता स्तृतीया तुर्यकादयः ॥ ४६ ॥
॥४६॥
[[१७०]]
[[२७०६]]
लोहितस्मृतिः
ज्यैष्ठ्यकानिष्ठ्यधर्मेषु न्यूनाधिक्येष्वपि स्फुटम् । धर्मपत्नी सुतेनैव स दत्तो भिन्नगोत्रजः ॥५॥ तुर्यभागीति कथितः न द्वितीयादिसूनुना । विशेषोऽत्रापि भूयश्च पालको यद्यकिञ्चनः ॥१॥ महाचारित्रबन्धुत्वशुश्रूषाद्यनुवर्तनैः ।
श्रीमन्नामतितुष्टाभ्यां पितृभ्यां प्रीतिपूर्वकम् ॥१२॥
॥ दत्तपुत्रविषयः ॥
कृपया दत्तपुत्रः श्रीभूमिक्षेत्रादि भाग्यवान् । बहुलो जातपुत्रश्च शनैः कालेन वै तदा ॥५३॥ वृद्धिं तां परमां प्राप्तस्तत्सून्वोश्च ततः परम् । तुल्यो भागः प्रकथितो न विवादः कदात्र वै ॥५४॥ तत्रापि जैष्ठ्यकानिष्ठ्य मात्रीचात्मज हेतुतः । विवदन् चात्र यः पापी राष्ट्रात्सद्यरस एव हि ॥५५॥ निर्वास्यस्ताडनीयश्च राज्ञा वै धर्म भीरुणा । एतेन सर्वदत्तानां पुत्राणामयमेव वै ॥५६॥ न्यायः प्रकथितस्सद्भिः एवं सत्यत्र केवलम् । एवं हि निश्चयो ज्ञेयः यो वा लोके त्वकिश्चनः ॥१७। परश्रियं समुद्वीक्ष्य महिमानं च पूज्यताम् । तत्साम्यप्राप्तयेऽतीव कालमुद्वीक्ष्य केवलम् ॥५८॥ परापुत्रत्वदुःखज्ञो भूत्वा पश्चात्स्वयं शनैः । युवाभ्यां तनयं स्वीयं प्रदास्यामीति तौ तराम् ॥५६॥
अपुत्रायादत्तकपुत्रविधानवर्णनम्
संप्रार्थ्य यत्नात्संवोध्य समाश्रित्य च बन्धुभिः । मित्रैराप्तैर्बोधयित्वा तदीयैर्ज्ञातिसज्जनैः ॥६०॥ स्वपुत्रं प्रददेत्ताभ्यां अपुत्राभ्यां तदिच्छया । सोऽयमेव सुतः प्रोक्तस्तुर्य भाग्यौरसेन वै ॥ ६१॥ पश्चाज्जातेन धर्मेण हेयापुत्रस्तुतात्यशः ? । भवत्येव च सर्वत्र नचेद्दत्तः पुनर्यदि ॥ ६२ ॥ विद्याश्रीधनभाग्यैस्तु समो वाभ्यधिकोऽथ वा । भ्राता सगोत्रस्तत्कामरहितः पुष्कलात्मवान् ॥६३॥ अपुत्रप्रार्थनापूर्वं दानधर्मैकवर्त्मना ।
पुत्रं जनानां पुरतो ग्राहयामास केवलम् ॥६४॥ शपथैरतुलैर्घोरै राजबन्ध्वादिजल्पितैः ।
[[२७०७]]
सपुत्रस्तेन तुलितः रिक्थद्रव्यक्षमादिषु ? ॥६५॥ अधिकोऽपि कदाचित्स्यादौरसान्न तु तत्कृतौ । पैतृके तु स एव स्याज्ज्येष्ठोऽयं वयसा तराम् ॥६६॥ न्यूनोऽपि तादृशो दत्तः समोऽभ्यधिक एव वा । कानिष्ठ्यमेव लभते न तु ज्यैष्ठ्य’ कथंचन ॥६७॥ प्रेतकृत्यैकभिन्नेषु विभागादिषु तादृशः । औरसेन समः प्रोक्तः तादृशो यदि वा पुनः ॥६८ ॥
‘‘प्सादीकोग्राम भूमिजनताधनशेवधेः ।
स एवार्हति सर्वस्वप्रदानादिषु केवलम् ॥६६॥ स्वामित्वं च तदाधिक्यं तत्कर्तृ त्वं तदीशताम् । न्यूनत्वं दत्तमात्रेण लभते किल केवलम् ॥७०॥
[[२७०८]]
- लोहितस्मृतिः
किं तु तज्जन्मजनक क्रियाभिः पूर्वसंविदैः । ग्राहकस्यावश्यकत्वनावश्यत्वमुखैः परैः ॥ कृत्यैश्चरित्रैः सुस्पष्ट प्रभवेत्स्वयमेव वै। विद्वद्दत्तसुतोपायसंपादितमहाधने ॥७२॥ किमौरसस्य समता तुर्यता वेति वै जगुः । : तत्रात्रु वन्धर्मपरा महान्तों ब्रह्मवादिनः ॥७३॥
दत्तः स्वप्रार्थनापूर्वप्राप्तपुत्रत्ववान्यदि । भिन्नगोत्रः पुनश्चापि तुर्यभाक् तु स एव हि ॥७४॥ औरसेन समोनायं स्वयमेवागतो यतः । पालकप्रार्थनाधिक्य या च सा शपथादिभिः ॥७३॥ प्रदानशपथप्रोक्तिमर्यादावाक्यसूक्तिभिः । स्वगोत्रसङ्गृहीतो यः प्रत्यासन्नोऽति सुन्दरः ॥७६॥ कापेयरहितस्सूनुः तत्समत्वेन कल्पितः । विद्वद्दत्तसुतोपायसंपादितमहाधने ॥७७॥ विभागेच्छा पालकौरसस्यजाता तदाकिल । संपादकेच्छनियतां साम्यंशश्च विधीरितः ॥७८॥ अनौरसः प्रकथितः धर्मपत्नीसमुद्भवः ।
…द्वितीयादिसुतास्सर्वे सूनुपुत्रादिशब्दिताः ॥७६॥
भवन्त्येवात्र संततमौरसत्वं न तेषु तु ।
• एतादृशीयं मर्यादा धर्मपत्नीस्थितौ तदा ॥८०॥ द्वितीयादिसमुद्भूतपुत्राणामिति निर्णयः । धर्मपत्त्यां तु नष्टायां पश्चात्स्याद्या विवाहिता ॥८१॥धर्मपत्नीत्वविचारवर्णनम्
[[२७०६]]
सा चापि धर्मपत्नीत्वं प्राप्नोत्येवाचिरात्खलु । तस्यामपि च नष्टायां पुनर्यास्याद्विवाहिता ॥८२॥ कुले समाने सा चापि धर्मपत्नीत्वमर्हति । ज्येष्ठायां विद्यमानायां या द्वितीया विवाहिता ॥ ८३ ॥ पुत्रार्थं सापि काले न पुत्रिणी चेत्तथा भवेत् । तथा न चेद्भोगिनी स्यादाप्नोति पुरुषप्रसूः ॥८४॥ यत्नेन धर्मपत्नीत्वमनवाप्यंसुनिर्मलम् । बहुकालसुता भावद्धर्मपत्नी द्वितीययोः ॥८५॥ पुत्रसङ्ग्रहणे जाते द्वितीया पुत्रिणी यदि । तदापि तनयस्सोऽयं औरसो न भवेदपि ॥८६॥ आत्मजत्वं दत्तपुत्रे अङ्गादङ्गेति मन्त्रतः । यतो निक्षिप्तवान् तातः परसंजातविग्रहे ॥८७॥ ततो द्वितीयासंभूतः तनयस्तादृशो न तु । किं त्वयं कामजः कोऽपि सुतपुत्रादिवाच्यता ॥८८॥ तस्मिन् तिष्ठति बाढं सा नौरसत्वं प्रतिष्ठति । आत्मजत्वं च मुख्येन गौणत्वेनाखिलं तु तत् ॥८६॥ प्रतिष्ठत्येव किं तेन नौरसेन समो भवेत् । ज्येष्ठाद्वितीययोरारात्पित्रापुत्रकृताः परः Ilgall उपनीतस्ततोज्येष्ठा मृता तस्याः क्रियां च सः । अकरोद्दत्तपुत्रस्तु ततः
ततः कालेन सा परा ॥६२॥ पुत्रं प्रासूत सोऽयंचेद्दत्तोऽन्यकुलजोऽपि सन् ।
तत्समांशी भवेदेव नात्रकार्या विचारणा ॥१२।
.
[[२७१०]]
लोहितस्मृतिः
ज्येष्ठाद्वितीययोरारात्तातेन च स्वीकृतः सुतः । सगोत्रो वाऽसंगोत्रो वा कृतमौज्ज्यादिसत्क्रियः ॥३।
मृता द्वितीया तस्यास्तु चकार प्रेतकृत्यकम् । दत्तोऽयं स्वेन धर्मेण मृताया मातुरेव हि ॥६४॥ पश्चात्कालेन सा ज्येष्ठा प्रासूत यदि पुत्रकम् । सोऽपिपुत्रोऽपि ते नैव तुल्य इत्येव सूरिभिः ॥६॥ कथितो हि महाभागैः तस्मात्कर्म तथाविधम् । तादृक्कर्मकरो मुख्यो भवत्येव तु तादृशं ॥६॥ कर्म सद्भिः प्रकथितं तत्कर्तादुर्बलोऽप्ययम् । प्रबलः सद्य एव स्यादौरसेन समोऽप्यतः ॥ हजा एवं सत्यत्र भूयश्च निश्चयं वच्मिचैककम् । दत्तपुत्रादत्तपुत्रसन्निधाने पितृक्रिया ॥६८॥ अदत्तपुत्रेणैव स्यात्कर्तव्याऽन्येन नैव हि ।
॥ धर्मपत्न्याः प्राबल्यम् ॥
ज्येष्ठपत्न्येव सा पत्नी धर्मपत्न्यपि सा परा ॥६॥ मुख्योवैदिककृत्यानां नान्या तत्सदृशी भवेत् । धर्मपत्नीसमुद्भूत औरसश्चात्मजश्च सः ॥१०॥ वंशोद्धरणकर्तृत्वसर्वधर्मसमाश्रयः ।
न तत्समः परस्तात्तु तदन्ये कामजाः स्मृताः ॥१०१॥ । सर्वे धर्मा धर्मपत्न्याः सकाशात्संभवन्ति हि । पाकयज्ञाः सप्त तेऽपि हविर्यज्ञास्तथैव
च ॥१०२॥
गृह्याग्निकृत्ये स्त्रियोमुखत्वम्
सोमसंस्थास्सप्तसंस्थाः नित्यनैमित्तिकास्सवाः ।
●
सहस्रसंख्याः काम्याश्च यज्ञेष्टिपशुकादयः ॥ १०३ ॥ अहीनाः क्रतवश्चापि सत्रास्ते विविधाः पुनः । धर्मपत्न्यनलाज्जातास्तेषामौपासनस्य तु ॥ १०४॥ प्रथमः कथितस्सद्भिः मुखं प्रवर उत्तमः । तत्समो विद्यते भूमौ मूलभूतश्चकारणम् ॥१०५॥ तादृशस्यास्य करणं धर्मपत्न्येव मुख्यभूः । तदधीना वह्नयः स्युस्तस्मात्सा सन्ध्ययोर्द्वयोः ॥ १०६॥ सीमासन्धिप्रदेशेषु न गच्छेदेव सर्वथा । नदीपाथः परंपारं न गच्छेदेव सर्वथा ॥ १०७॥ यदि मोहेन सा गच्छेद्वह्नयस्सद्य एव वै । लौकिकत्वं प्राप्नुवन्ति तस्मात्तु सरितं नदीम् ॥१०८॥ महानदीमल्पनदीं यन्नान्नातिक्रमेत वै । नद्य त्तरणमात्रेण धर्मपत्न्या विशेषतः ॥ १० ॥ पत्नीमात्रस्य सामान्यात्सजातेरपि केवलम् । पक्षवन्तो वह्नयस्ते प्रद्रवन्त्याशु तत्क्षणात् ॥ ११०॥ तस्मादत्यल्पसलिलकुल्यागोष्पदमात्रकाः । सरित्स्नानाय गन्तव्या न भवेत्तु तया किल ॥ १११ ॥ यदि मोहेन सा पत्नी अत्यल्पसलिलामपि । कुल्यारूपामतिस्वल्पविशालां पादमात्रतः ॥ ११२ ॥ सुसन्तरेयां हेलाथं लङ्घयेन्नतु सर्वदा ।
स्रवन्त्या अपि तादृश्याः परे पारेऽतिबाल्यतः ॥११३॥
[[२७११]]
[[२७१२]]
लोहितस्मृतिः
[[4]]
अप्येकपादं पूर्वं वा निक्षिपेत्तावतैव हि । पुनस्सन्धानमित्युक्तं वह्नरस्येति तज्जगुः ॥११४॥ धर्मपत्न्यतिरिक्तानां तादृशो नियमो न हि । संसर्गहोमात्परतः पत्नीनामिति निश्चयः ॥११५॥ संसर्गहोमो यावत्तु न कृतः स्यात्तदा पुनः । तावत्तु तासां स्वाग्नीनां अवनायायमेव वै ॥ ११६॥ नियमः कथितस्सद्भिः संसर्गात्परतः पुनः । एतादृशस्तु नियमः त्वत्यन्तावश्यको न तु ॥ ११७। तस्माद्वितीयादि भार्या विशेषाणां च सानिशम् । शरणं विश्रमस्थानं सर्ववैदिककर्मणः ॥११८॥ यदि सा स्यात्समीचीना धर्मपत्नी सती शिवा । तया समुत्तारिताः स्युः सर्वाभार्याः परास्तुयाः ॥११६॥ यदि सा स्यादप्रगल्भा कर्माज्ञा कर्मनाशनी । धर्मस्यसिद्धिर्नास्यस्यादित्येवं धर्ममानसम् ॥१२०॥ अथापि तस्य यो वह्निः सदा रक्ष्यश्च सूक्ष्मतः । स हि प्रधानो धर्मस्य मुख्यश्चौपासनः शिवः ॥१२१॥ तस्मिन्नेवौपासनेऽन्यवह्नयश्शास्त्रवर्त्मनाः ।
संयोज्यास्तदभावे तु द्वितीयाद्यनलेऽल्पके ॥१२२॥ स्थालीपाकं पितृश्राद्ध आधानं सोम एव वा । कतु न शक्यतेऽतीव कृतं यद्यकृतं भवेत् ॥ १२३॥ प्रथमायां धर्मपत्न्यां दूरगायां कदाचन । प्राप्तेषु श्राद्धकृत्येषु सद्यस्सन्धानकर्म तत् ॥१२४॥
गृह्याग्निरक्षणविधिवर्णनम्
कृत्वा तस्मिन्वीतिहोत्रे तानि कर्माणि चाचरेत् । द्वितीयाद्यनलेष्वेवं विद्यमानेषु चेत्पुनः ॥ १२५॥ अमन्त्रकेण होतव्यं अन्यथा कर्म नश्यति । कंचित्कालं धर्मपत्नी स्वधर्मेणस्थिता ततः ॥१२६॥ चित्तव्यामोहरुक्क्रोधोऽपस्मारादिकुबुद्धिभिः । भर्तारमपि संलङ्घय भ्रष्टा तुच्छातिचारिणी ॥१२७॥ जाता यदि तदा तस्यास्तमग्निं धार्य धर्मतः । विद्यमानं समिन्निष्ठमथवात्मनि संस्थितम् ॥१२८॥
[[२७१३]]
तत्तत्कालेषु संप्राप्तश्राद्धषु च तथा
पुनः । पित्रोश्च मातामहयोर्दर्शादिषु च कृत्स्नशः ॥ १२६ ॥ नित्यनैमित्तिकेष्वेवं स्थालीपाकेषु मन्त्रतः । हुत्वाज्यं व्याहृतीभिर्वै सर्वचित्तप्रपूर्वकम् ॥१३०॥ तस्मिन्नेव प्रधानाग्नौ तानि कर्माणि चाचरेत् । अतिदुष्टेति या वत्सा त्यज्यते मन्त्रसंस्कृता ॥ १३१ ॥ ते नैव वह्निना दाहं प्राप्यते घटताडनात् । तावत्तस्मिन् पावके तु तद्भर्ता पितुराब्दिकम् ॥१३२॥ स्थालीपाकं तथा धानं यच्चान्यदपि वैदिकम् । संप्राप्तमखिलं कुर्याद्विवाहो यदि वा पुनः ॥ १३३॥ घटप्रहरणाभावे कर्तव्यत्वेन निश्चितः । तस्मिन्वौ विद्यमाने समिध्यात्मनि वा सदा ॥ १३४ ॥ विद्यमानं मन्त्रमुखात् पुनस्सन्धाय वा ततः । तस्मिन्वह्नौ विवाहोऽयं द्वितीयो मन्त्रपूर्वकः ॥१३५॥
[[२७१४]]
लोहितस्मृतिः
कर्तव्यत्वेन विहितो न चेद्वानन्तरं पुनः । तस्मिन्नेव च संसर्गहोमं कुर्याद्यथाविधि ॥ १३६॥ किमर्थमेवमिति चेत्सा भ्रष्टापितदुद्भवः । वह्निश्शिवो न संन्त्याज्यः आत्मगाम्येव वै यतः ॥ १३५ सोऽयमेव प्रधानोऽग्निः यजमानस्य केवलम् । गार्हस्थ्यदायकः श्रीमान् ब्रह्मचयनिवारकः ॥१३॥ प्रबलस्तेन कथितस्तस्मिन् सति ततः शिवे । मुख्याग्नावात्मनि परे तमनादृत्य केवलम् ॥१३॥ वह्नि गार्हस्थ्यदं दिव्यं पत्नीप्रद्वषतो जडः । यदा पत्नी गता भ्रष्टा तदा सोऽपिविभावसुः ॥ १४०ll नष्ट एवेतिनिश्चित्य दुर्बुद्धा शास्त्रवर्त्म तत् । अज्ञात्वेव जडो जाड्यौं प्राप्य दुष्टधिया वृथा ॥ १४१॥ द्वितीयाग्निमुखाद्यद्यत्कर्म भ्रान्त्या करोतिचेत् । व्यर्थमेव भवेन्नूनं फलं न भवेदपि ॥ १४२॥ श्राद्धादित्यागदोषाय पात्रमेव भवेद्ध्रुवम् । सति तस्मिन्प्रधानाग्नौ वात्मन्यत्राशुशुक्षणौ ॥१४३॥ द्वितीयाद्यनले लौकिकत्वेनैव समे स्थिते ।
•
अमन्त्रेणैव होतव्ये समन्त्रेण कृतं तु चेत् ॥ १४४॥ व्यत्यासेन कृतं तच्च तूष्णीकं प्रभविष्यति । पित्रोः श्राद्ध तथा व्यर्थे जाते तत्परमेव वै ॥ १४५॥ सद्यश्चण्डालता सा स्यादनिवार्या सुरैरपि । पुनमोहेन तस्मिन्वै द्वितीयाद्यनलेऽल्पके ॥१४६॥
भ्रष्टचरित्रायाःगृह्याग्निकृत्यनिषेधवर्णनम्
[[२७१५]]
प्राधान्येनैव निश्चित्य तानि कर्माणि मोहतः । कृतानि वेदिकानि का वा तस्य गतिर्भवेत् ॥ १४७॥ आदावेकां गतिं कृत्वा पूर्वाग्नेश्शास्त्रवर्त्मना । स्वीकारं वा नचेत्त्यागं पश्चात्कुर्यात्सवादिकम् ॥१४८॥ इत्येवं केचन प्राहुराचार्या ब्रह्मवादिनः । वस्तुतस्त्वत्र निष्कर्षं प्रवदामि सुखाय वै ॥१४६॥ आत्मस्थं वैदिकाग्निं तं भ्रष्टायै न कदाचन । दातु ं वै शक्यते तूष्णीं दत्तश्चेदाशुशुक्षणिः ॥१५०॥ तादृशायै शपत्येनं घटध्वंसात्परं क्रुधा । सप्राणां पतितां भार्या समुद्दिश्यैव पावकम् ॥ १५१ ॥ शुद्धमात्मैकशरणं बुद्धिपूर्वं कथं शुचिम् । दातुमिच्छत्ययं मूढः मामित्येवं सुदुःखितः ॥ १५२॥ भवत्ययं वायुसखा तस्मात्तां घटताडने । लौकिकेन दहेद्वैश्वानरेणैव न चान्यतः ॥१५३॥ पश्चात्पूर्वोत्थिते वह्नौ स्वात्मन्येवस्थितेशिवे । द्वितीयासंभवं वह्नि संसृज्य विधिवत्ततः तस्मिन्नेवानले सर्वं कर्मजातं तु वैदिकम् । कुर्यादेव विधानेन न चेद्दोषो महान् भवेत् ॥ १५५॥ दुश्चरित्रात्पूर्वमेव समुद्भूतस्सुतः शुभः । निर्दोष एव स्वीकार्यः सैव त्याज्या मनीषिभिः ॥१५६॥ तदूर्ध्वं चेत्समुद्भूतः तस्या गर्भात्तु शावकः । सतां ग्राह्यस्तु न भवेदिति वेदान्तशासनम् ॥१५७॥
॥१५४॥
[[२७१६]]
लोहितस्मृतिः
घटप्रहारात्परतः तत्प्रकृत्या च तां ततः । दुग्ध्वाश्राद्ध ं च निर्वर्त्य सकृदेव स्वयं ततः ॥१५॥ शुद्धो भवेन्नचेत्तूष्णीं स्थितेऽस्मिन्वै तथा किल । श्रौतस्मार्तादिकृत्यानां नाधिकारी भवेदयम् ॥१५॥ भ्रष्टायां पतितायां वा स्वैरिण्यां यदि दैवतः । जातायामपि तत्पत्न्यां त्यागं कुर्यादतन्द्रितः ॥ १६०॥ शास्त्रमार्गेण विधिना तमग्निं परिगृह्य वै । त्यक्त्वा तां विधिना पश्चाद्भूयो धर्मार्थमेव वै ॥ १६ ॥ आहरेद्विधिवद्दारान् अग्नींश्चैवाविलम्बयन् । पञ्चाग्नयो ब्राह्मणस्य पञ्च दाराश्चशास्त्रतः ॥ १६२॥ स्वाजातौ विहितास्सद्भिः तेषु दारेषुधर्मतः । ऋतुगाम्येव तु भवेत्तादृशेन हि कर्मणा ॥ १६३॥ अयं भवेद्ब्रह्मचारी सदा नित्यविशेषणः । प्रजार्थं मैथुनं कुर्वन् ताभिस्संप्रार्थयन्नति ॥१६४॥ पुनः कुवंस्तथा नापि च्यवते ब्रह्मचर्यतः । ब्रह्मचर्यैकसंसिद्धिः पत्नीपञ्चकसंस्थितौ ॥१६५॥ सिध्यते ब्राह्मणस्यैव ऋतुकालाभिगामितः । स्त्रीकामपूर्तिकरणाद्ब्रह्मचर्यं कदाचन ॥१६६॥ मो(क्ष)षमाप्नोति नैवेति ते प्राहुर्ब्रह्मवादिनः । पत्नीनां करणं प्रोक्तं पञ्चानां स्यात्कृते युगे ॥१६७॥ चातुर्वर्ण्यविवाहोऽपि मांसेन श्राद्धसत्क्रिया । अश्वालम्भो गवालम्भः भार्यान्तरपरिग्रहः ॥ १६८॥
द्वादशविधपुत्रवर्णनम्
देवरादिसुतोत्पत्तिः विधवागर्भधारणम् ।
एवमादीनि चान्यानि कर्माणि न कलौ क्षितौ ॥ १६६ ॥
॥ द्वादशविधपुत्राः ॥
[[२७१७]]
प्रशस्तानीति नोचुर्हि तथा द्वादशपुत्रकान् । तत्रादौ क्षेत्रजो दुष्टः स्वपत्न्यामन्यसंभवः ॥ १७०॥ सगोत्रेणेतरेणापि तावुभौ शास्त्रनिन्दितौ । स्वस्मिन्व्याध्यादिना ग्रस्ते सति सान्येन सङ्गता ॥ १७१ ॥ येन केनचिदज्ञाता गर्भ धृत्वा रहस्यति । प्रसूते यं सुतं सोऽयं सुतो गूढजनामकः ॥ १७२॥ पितृमात्रेण संज्ञातजननो व्यभिचारजः । पितृणां सर्वनरकप्रदः पापालयः खलः ॥१७३॥ बन्ध्वबन्धुप्रभेदेन द्विविधोऽयं च कथ्यते । या विवाहात्पूर्वमेव जारसङ्गतितः किल ॥१७४॥ गर्भेधृतेऽथ : तह्निर्ज्ञात्वा सत्वरमेव वै । विवाहितात्पितृभ्यां हि दत्वा वै यस्य कस्यचित् ॥ १७५॥ अकीत्यैकभयात्सद्यः सा प्रसूते तु यं सुतम् । कानीन इति विख्यातः पुनश्चायं तथा परः ॥१७६॥ प्रकारान्तरतः प्रोक्तः सूते कन्यैव यं सुतम् । सोऽयं तथाविधश्चापि प्रथितस्तेन दुर्जनिः ॥ १७७॥ तन्माता पतिता पश्चाद्यस्य कस्य विवाहिता । कुलघ्नी सच्चरित्रेव गुह्यपापातिनिन्दिता ॥१७८॥
[[२७१८]]
लोहितस्मृतिः
तुच्छेन येनकेनापि भर्तृरूपेण सङ्गता । तज्जायापतिभावं च पश्यतां धारयन्त्यपि ॥१७६॥ …..तं चापि तनयं स्वीकृत्य च ततः पुनः । पालयन्त्यपि निर्दुष्टपुत्रवत्पृथिवीतले ॥१८०॥ साध्वीषु च सतीष्वेवाहं काचिदिति वादिनी । स्वसुतानां सत्कुलेषु बहुकाले गते शनैः ॥१८॥ दूरदेशस्थितैर्बन्धुजातै “बन्ध्यमायया । विद्यमानातिचपला तेन पुत्रेण सत्कुलान् ॥१८२॥ महात्मनो नाशयन्ती तत्पुत्रस्तादृशो ह्ययम् । कानीनस्त्वपरः पापी निन्दितो ब्राह्मणोत्तमैः ॥ १८३॥ अक्षतायां क्षतायां च जातौ भगौ मतौ । तौ चापि निन्दितौ पापौ पुत्रबाह्यौ प्रकीर्तितौ ॥ १८४॥ अकीर्तिकारकौ बन्धुजनानां दूषितौ खलौ । अतिनैच्यं गतौ हेयौ धर्मशास्त्रप्रदूषितौ ॥१८५॥ पितृदोषैकजननौ न योग्यौ यस्य कस्यचित् ।
॥ दत्तस्यौरससमभागः ॥
दत्तः पितृभ्यां दत्ताख्यः सापेक्षाभ्यां च सद्विधः । तथैव निरपेक्षाभ्यां तत्राद्यस्तु तुरीयभाक् । तत्तो यो निरपेक्षाभ्यां सकाशात्पालकस्य वे ॥१८६॥ सोऽयं वै समभागी स्यात्पश्चाज्जातौ रसेन वै । दम्पत्योरेव तद्दानेऽधिकारस्तत्प्रतिग्रहे ॥ १८७॥विधवायाःदत्तकपुत्रस्वीकारेऽनधिकारित्ववर्णनम् २७१६
॥१८८॥
दम्पत्योरेव नान्यस्य यतेर्वा ब्रह्मचारिणः । अकलत्रस्थतत्सामीप्य। कलत्रस्य वा तथा विधवाया नाधिकारः प्रदानग्रहणेऽपि वा । वानप्रस्थस्याशुचेर्वानुपनीतेः कदाचन ॥१८६॥ तद्वत्सूतकिनश्चापि व्रतिनोनाधिकारता । विक्रीतः कथितश्चैवं पितृभ्यां तादृशैरपि ॥ १६०॥ निर्वाहकेण ज्येष्ठेन पितृव्येण तथैव च । पितामहेन तत्पत्न्या तथा मातामहेन च ॥ १६१॥ स्वयं क्रीतश्च कथितः पुत्रः कृत्रिमसंज्ञिकः । स्वयंदत्तस्तु दत्तात्मा स्वपोषणपरः खलः ॥ १६२॥ सहोढजस्तथाप्यन्यः पुत्रः शास्त्रैकनिन्दितः । गर्भेविन्नोन्यङ्गहेतुः पितॄणां नरकप्रदः ॥ १६३॥ स कानीनः पुनरपि स्वगोत्रेण समुद्भवः । अतिपापी स चण्डालादधिकोऽश्चाव्य एव सः ॥१६४॥ स्मरणीयो न वाच्योऽयं वंशमज्जनकारकः । अपुत्रेण परक्षेत्रे नियोगोत्पादितस्सुतः ॥ १६५॥ उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः । हैन्यन्यङ्गैकनिलयः पुत्रोऽयं कश्चनस्मृतः ॥१६६॥ पितृभ्यां यस्समुत्सृष्टः महादोषसमुद्भवः । ग्राहकेण स्वीकृतो यः सोपविद्ध इतीरितः ॥१६७॥ त एते निखिलाः पुत्राः सूत्रकारैर्महात्मभिः । दुःखादनङ्गीकृताःस्युः महान्यायैकसंभवाः ॥१६८॥
[[२७२०]]
लोहितस्मृतिः
चरमस्त्वपविद्धस्तु कृताकृत
इतीरितः ।
तस्माद्द्द्वावेव तौ प्रोक्तौ तनयौ शास्त्रविश्रुतौ ॥१६६॥ नरकोत्तारकौ सद्यो जन्मनैव न कर्मणा । आत्मजश्चापिदौहित्रः समानौ पैतृकेऽनिशम् ॥२००॥ कदाचिदधिकञ्चापि दौहित्रस्तनयादति । दौहित्रात्तनयस्तद्वद्धिकः केषु कर्मसु ॥२०१॥ औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । पुत्रभावोयस्य वा स्यात्कदाचित्केन कारणात् ॥ २०२॥ पुत्रसङ्ग्रहणं सद्यः कर्तुमाशु न शक्यते । चिरकालप्रतीक्षादौ तत्पित्रोः कामपूरणम् ॥२०३॥ तत्प्रार्थितप्रदानस्य शपथोक्त्यादिकं ततः । जनानां पुरतो होमः पश्चाच्छपथवाचनम् ॥२०४॥ तस्यैतस्य तु कृत्स्नस्य तत्तत्काले शनैः शनैः । अत्यन्तदुःखं सुक्ररमनुभूय स भार्यकः ॥२०५॥ तं सङ्गृह्य विधानेन जातकर्मादिकं च तत् । : कृत्वोत्सव नु भूय तस्य मौज्यादिषुस्वयम् ॥२०६॥ पश्चाज्जाते धर्मपत्न्यां तनये वा तदैव वै । द्वितीयायां तृतीयायां स्वकीयोत्पत्तिमात्रतः ॥२७॥ पूर्वकालगृहीतं तं कुमारं शुद्धचेतसम् । अपि तूष्णीं द्वेष्टि किल तस्मादन्यसुतं हठात् ॥२०८॥ सङ्ग्रह्यचोभयत्रापि भ्रष्ट कृत्वा स्वयं ततः । अत्यन्नपातकाबासमिथ्यावाक्यविशेषकान् ॥२०॥
•
पुत्रसंग्रहाबश्यकतावर्णनम्
॥२११॥
तमुद्दिश्यदिवारात्रं प्रलपन दुर्मनाः परम् । राजाज्ञापान्त्भूतश्च सज्जनैरतिदूषितः ॥२१०॥ संलंध्यन् मित्रवाक्यानि बन्धुवाक्यानि भूरिशः । तृणीकुर्वन् दुष्टवाक्यसहस्र ेणायमल्पकः तुच्छो दूष्यः प्रभवति तन्मध्ये च पुनः पुनः । ताडितो धिक्कृतो राजकीयैः पुंभिः प्रदूषितः ॥ २१२॥ हेयभूतश्च भवति तस्मात्पुत्रस्य सङ्ग्रहम् । प्रकुर्वन्त्येव विद्वांसः पुत्राभावे तु मुख्यतः ॥ २१३॥ दौहित्रे सति सोऽयं स्यात्पुत्रतुल्यस्ततोऽधिकः । न तस्य होमः कर्तव्यो ग्रहणं न च मन्त्रतः ॥२१४॥ क्रियाः काश्चिन्न सन्त्यत्र जातकर्मादिकाः पराः । तनयोत्पत्तिसमयेस्वर्णदानादिकं परम् ॥ २१५॥
विद्यते । यद्यत्तदेतदखिलं यत्नसाध्यं न
स वा नूनं कृते किञ्चित् पुनरप्यतिवार्धके ॥ २१६ ॥ अस्यैव पुरतो दैवात्पुत्रे जातेऽथवा तदा । जातं तमेनं दौहित्रो मातुलो मम संप्रति ॥ २१७॥ संजातइति सन्तोषपूर्वकं तोषयिष्यति ।
[[२७२१]]
तयोश्चित्तं स्वबन्धूनां पश्चाज्जातोऽप्ययं शिशुः ॥२१८॥ संजातमात्रः परमः सर्वप्राणेन सन्ततम् । प्रपालयति स्वप्राणाधिकतो मानयन्नति ॥२१६॥ मानितः पालितः सम्यक्त नैवं सति सोऽप्यति । प्रीत्यैव सततं पश्यन्प्रतिष्ठत्येवं सर्वदा ॥२२०॥ १७१
[[२७२२]]
लोहितस्मृतिः
तस्माद्दौहित्रतुलितो नास्ति पुत्रो जगत्त्रये ।
॥ दौहित्रेसति पुत्रप्रतिग्रहाभावः ॥ दौहित्रोत्पत्तिमात्रेण तत्कुलद्वयसंभवाः ॥२२१॥ उत्तारितास्सद्य एव भवेयुर्नात्र संशयः । तामभ्यनुज्ञां भार्यायाः पुत्रसङ्ग्रह हेतवे ॥२२२॥ न दद्यात्सति दौहित्रे म्रियमाणः स्वयंपतिः । आपन्निवारकस्सोऽयं आपत्सापुत्रशून्यता ॥२२३॥
एक एव भवेन्नूनं दुहितातनयोऽखिलैः । दौहित्रे सति पुत्रस्य ग्रहणं न समाचरेत् ॥२२४॥ अजातपुत्रस्तेनैव पुत्र्ययं धर्मतो मतः । अविभक्तो ज्ञातिभिर्यस्त्वपुत्रो दैवयोगतः ॥२२५॥ मृतश्चेत्तस्य ते सर्वे तन्मुखेनैव तत्क्रियाः । मन्त्रैः कारयितव्याः स्युरन्यथा पापभागिनः ॥२२६॥ ज्ञातयः प्रभवन्त्येव तत्क्रियामात्रतोऽस्य वै । तद्द्द्द्रव्यभाक्त्वं न भवेत् अविभक्ता यतस्तु ते ॥२२७॥ विभक्तास्ते खलु तदा भवेयुर्यदि तेन वै ।
पूर्वं मृते न चेत्तेषां ज्ञातीनां त न किश्चन ॥२२८॥
तु लेशमात्रं हि किमपि धर्मतो न भवेद्ध्वम् । द्रव्यं मृतस्य यद्वा तत्सर्वं पुत्रीसुतस्य वै ॥२२६॥ स्वीयमेव भवेन्नूनं तस्माज्जातेऽखिला भुवि । दौहित्रे भग्नमनसः नष्टकामा गतश्रियः ॥२३०॥
परधनापहारकाणांदण्डविधानवर्णनम्
[[२७२३]]
भवन्ति किल भूयोऽपि केचिदुष्टजनास्तराम् । परद्रव्यापहर्तारः नित्यचौर्यैकवृत्तयः ॥२३१॥ कथं ज्ञातेर्विभक्तस्य धनं तूष्णीं दुराशयाः । कदा केन वरिष्याम इतिचिन्ता समन्विताः ॥२३२॥ अनृतानि च वाक्यानि प्रलपन्तस्ततस्ततः । सतां प्रषिणोऽतीव वर्तन्ते पापिनो जडाः ॥२३३॥ तान्नित्यं धार्मिको राजा विचार्य शठबुद्धिकान् । धर्मेण चारमुखतः तया व्याभाषणादिना ॥ २३४॥ तेषां परेषां विदुषां धर्मज्ञानां मिथोक्तितः । विचार सूक्ष्मयाबुद्धया समालोच्य ततः परम् ॥२३५॥ स्वीकृत्य दण्डयित्वा च छीत्कृत्य च तदा तदा । राष्ट्रात्प्रवासयेद्दृष्टान् सन्तस्सम्यक्प्रपूजयेत् ॥२३६॥ दानमानादिना नित्यं तेनास्य सुमहात्मनः । भूतिर्यशो भगश्चायुर्वर्धन्तेऽन्वहमञ्जसा ॥२३७॥ अपुत्रधनमात्रे स्युर्ज्ञातयो नित्यमेव वै । दौहित्राजनने यत्नाद्धतु यत्ता भवन्ति वै ॥२३८॥ दौहित्रजनने सद्यो नष्टकामास्तथा पुनः । निशानित्यदुःखाश्च कश्मलं प्राप्नुवन्ति च ॥ २३६ ॥ श्वश्रूश्वशुरयोः पित्रोः पत्यभावे ततः पुनः । अभ्यनुज्ञाप्रदानेऽस्या अपुत्रिण्या विपद्यपि ॥ २४०॥ सङ्गच्छते कदाचित्तु पुत्रग्रहणकर्मणः ।
अधिकारो मनुप्रोक्तः आपत्सापुत्रशून्यता ॥२४१॥
[[२७२४]]
लोहितस्मृतिः
।
आपन्निवारकस्सोऽयं दौहित्रस्तस्य चोदितः । विधवा या पितृभ्रातृकृता पुत्रग्रहे तु या ॥२४२॥ अभ्यनुज्ञा ज्ञातिमता चेद्बन्धूनां च ग्रामिणाम् । जनानामपि शिष्याणां श्रोतृणामपि कृत्स्नशः ॥२४३॥ युक्तत्वेनैककण्ठ्याच्च तथास्त्विति मनोर्मतम् । तदा तु ग्रहणं ज्ञातेर्नान्यस्य तु कथंचन ॥ २४४॥ कदाचिदपि पुत्रस्य ग्रहणे समुपस्थिते । अपुत्रिणोस्तदाभ्रातृमध्ये ज्येष्ठान्त्ययोः किल ॥ २४५॥ एकस्य ग्रहणं कार्यं धर्मतो यस्य कस्य वा । ग्रहणं त्वेकपुत्रस्य सर्वेषामप्यसम्मतम् ॥२४६॥ न ज्येष्ठस्य कनिष्ठस्य पङ्गोमू कस्यरोगिणः । अन्धस्य बधिरस्यापि क्लीवस्य श्वित्रिणोऽपि वा ॥ २४७॥ ग्रहणं नैव कुर्वीत कुर्याद्यदि वृथैव सः । औरसैरपि तैः पुत्रैः पङ्गुमूकादिभिर्जडैः ॥२४८॥ निरंशैर्वेदमन्त्रैकन (१) धिकारनिदानकैः । निष्प्रयोजनकैः तुच्छैः नाममात्रैकभाजनैः ॥२४६॥ भरणीयैरन्नपानप्रदानमुखतस्तराम् ।
प्रयोजनं किमप्यस्ति तदुत्पन्नैः कथंचन ॥२५०॥ वर्गत्रयात्परं तेषां मूकाद्यौरससन्ततौं । भवेद्ब्राह्मण्यपौष्कल्यं तत्पूर्वं तस्य खर्वता ॥२५॥
मन्त्राद्य ुच्चारणाभावात्तत्क्रियाणां च लोपतः ।
तथा तावत्प्रकथितं धर्मज्ञैस्तैर्महात्मभिः ॥२५२॥
पुत्रत्वस्याधिकारितावर्णनम्
ज्ञातिमत्या कृता बन्धुसामन्तजनसम्मता । सा चेद्भट कृतानुज्ञा पुत्रग्रहणहेतवे ॥२५३॥ फलत्येवेति धर्मज्ञा न चेत्तु न तु सिध्यति । ज्ञातिमत्या कृतं यत्तु पुत्रसङ्ग्रहणादिकम् ॥२५४॥ धरादानक्रयाद्यदेवं वैश्वस्तं तत्तु सिध्यति । सर्वज्ञातिमतं यत्तद्दानं विश्वस्तया कृतम् ॥२५५॥ धारं धाराकृतं चेत्तु सिध्यत्यत्र न चेन्न तु । दानकालनिषिद्ध यद्दानं धारं रहः कृतम् ॥ २५६॥ देशान्तरकृतं चापि न सिध्यत्येव सर्वथा । रण्डान्यदेशरचितभूमिदानं महात्मभिः ॥२५७॥ तच्छौर्यकृत्यमित्येव निश्चितं शास्त्रवर्त्मना । अपुत्रपुत्रग्रहणं दौहित्राजनने भवेत् ॥२५८॥ दौहित्रजननादूर्ध्वं तद्प्रामाणिकं भवेत् । यावन्तॄणां विभक्तानां दौहित्रोत्पत्तियोग्यता ॥२५॥। तावत्तु तस्य स्वीकारे योग्यतापि न जायते । जातेन्द्रियाणां दौर्बल्ये दौहित्रे सति सङ्कटे ॥ २६०॥ अवशादसुसन्देहे पुत्रग्रहणमिष्यते ।
[[२७२५]]
एकस्य पञ्चषेष्वस्य ग्रहणं ज्येष्ठखर्वयोः ॥ २६१॥ विहितो यस्य कस्यापि मध्य एकस्य सङ्ग्रहः । न तत्र ज्यैष्ठ्यकानिष्ठ्यनियमो मनुना स्मृतः ॥२६२॥ ग्रहणं त्रिषु मध्यस्य त्रयाणां पञ्चसु स्मृतम् । त्रयाणां षट्सु खर्वो वा ज्येष्ठो वा नियमो न हि ॥२६३॥
[[२७२६]]
लोहितस्मृतिः
त्रिषु पञ्चसु षट्ष्वेवं भ्रातृष्वाद्यान्त्ययोश्च न । मध्य एकः त्रयश्चत्वारः स्युरत्रेति वै जगुः ॥२६ सङ्ग्राह्य ेष्वाद्य एकः स्याद्ब्राह्यो ज्येष्ठो द्वितीयकः । तृतीयो वा विधानेन न द्वौ सर्वात्मना स्मृतौ ॥२६॥ आद्यान्श्यावेव संत्याज्यौ वहुभ्रातृषु तत्सुतौ । मध्ये ज्येष्ठद्वितीयादि नियमो नेति चोचिरे ॥२६६॥ यदि मोहाज्ज्येष्ठपुत्रो दत्तस्स्याच्चत्ततः स्वयम् । कृतमौञ्जीविवाहोऽपि जनकस्य सुतो भवेत् ॥२६॥ न पालकक्रियायोग्यो न गृह्णीयादतस्त्विमम् । यः कृतो दत्तहोमस्स तूष्णीकं स्यान्न संशयः ॥ २६॥ दत्तोऽयं बालिशो भ्रष्टो ग्राहकस्य सुतो न तु । जनकस्य सुतस्सोऽयं इत्युक्त े तं प्रवच्यपि ॥२६॥ न कर्मयोग्यस्तस्यापि किं तु तूष्णीं ततः परम् । क्रयक्रीतद्रव्यसमः तृणकाष्ठमृदादिभिः ॥२७०॥ तुलितो न क्रियायोग्यो यतस्त्यक्तश्च तेन वै । अनेकजायासञ्जातपुत्रानेकस्य चेदपि ॥२७१॥ जायानामग्रजस्त्याज्यः कनिष्ठोऽपि तथैव हि । ज्येष्ठान्त्ययोस्तु ये मध्याः संजातास्तनयास्तु
ते ॥२७२॥
ग्राह्यास्तत्र विशेषेण ज्यैष्ठ्यकानिष्ठ्यसंभवः ।
नियमोनेति तत्र स्यादिति सर्वमतं तराम् ॥ २७३॥
एकपुत्रत्वेदत्तकायोग्यतावर्णनम्
॥ एकपुत्रस्य स्वीकरणनिपेधः ॥
[[२७२७]]
यद्यकपुत्रो दत्तश्चेदात्मानं ग्राहकं ततम् । मातृद्वयं तत्क्षणेन नरके पातयिष्यति ॥२७४॥ उभयोस्तातयोश्चापि जनन्योरपि कर्मणि । नाधिकारी भवेत्तस्मादुभयभ्रष्ट ईरितः ॥ २७५॥ प्रदानसमये स्वस्य सन्तु भ्रातृपु तत्परम् । नष्टेषु तेषु चेदवशिष्टो यदि भवेदयम् ॥ २७६ ॥ उभयोः कर्मकर्ता स्यात्तदा तद्रिक्थभाग्यपि । एकपुत्रोऽहमित्येवं वदन् दत्तश्च साम्प्रतम् ॥२७७॥ सभायां व्यवहारेषु वहिष्कार्यो विचक्षणैः । विधवासगृहीतोऽहमिति जल्पन् सभासु चेत् ॥ २७८॥ (च) पेटिकाप्रदानेन की (धिक्) त्कार्यस्सद्य एव वै विधुरेण प्रदत्तोऽस्मि दूरभार्येण वै तदा ॥२७६॥ तथैव सङ्गृहीतोऽहं वदन्नेवं तु निर्भयम् । स दूरीकरणीयः स्याच्चोरवत्तु विशेषतः ॥२८०॥ वर्णिना यतिनापत्सु दत्तोऽहं मातृमात्रतः । पितृमात्रेण दत्तोऽस्मि सङ्गृहीतोऽहमित्यपि ॥ २८१॥ सद्भिस्सभासु विवदन् दुश्चरित्रः परस्वहृत् । निर्लज्जया न्यङ्गहीनः सज्जनाकृतिमावहन् ॥२८२॥ पूर्वोत्तरविरुद्ध तद्विवदन्प्रलपन्नति ।
[[1]]
तस्य तत्प्रतिवाक्येषु यो वै तं निग्रहं शनैः ॥२८३॥
[[२७२८]]
लोहितस्मृतिः
विरोधान्विविधान् संम्यक् संगृह्य व ततः पुनः । प्रदूषयेत्तिरस्कृत्य देशादुच्चाटयेदपि
॥२८४
दुष्ट निग्रहमात्रेण तद्देशस्य महीपतेः । तत्रत्यानां च सर्वेषां सर्वश्रेयो महद्भवेत् ॥ २८५॥ ज्येष्ठोऽहमेकतनयः पितृभ्यां पुनरेव वै। दत्तोऽन्याभ्यामिति च वै विवदनपर रिक्थके ॥२८६॥ पुत्रत्व हेतुना सोऽयं प्रसिद्धस्तस्करो मतः । कुतस्तथेति सन्देहे तच्चसम्यङ्निरूप्यते ॥२८॥ न दानाहों ज्येष्ठपुत्रः कदाचिदपि वा भवेत् । तत्रापि चैकस्सुतरां तत्क्रियानधिकार्यपि ॥२८॥ एवमेव परे चापि तनयाः परिरिक्थके । विवादमतिकुर्वन्तो दौहित्रादिषु तासु च ॥ २८६॥
॥ विधवास्वीकृत पुत्र ( दण्डं ) । तनयासु विभक्तानां प्रत्तासु विधवासु च । दत्तपुत्रोऽहमस्मीति सपिण्डोऽहं सगोत्र्यति ॥२०॥ सम्बन्धो भवतां को वा भिन्नगोत्रिधनेऽति वै । प्रलपन्तः केन दत्त इत्युक्त निर्भयान्विताः ॥२११॥ निर्लज्जा मातृदत्ताः स्मः विश्वस्ताः स्वीकृताः खराः । अभ्यनुज्ञाकृतस्वीकारा वै तद्भट वाक्यतः ॥२२॥ वयं तद्गोत्रसंभूता अस्माकं तद्धनं महत् ।
न्यायेन निखिलं स्याद्धि सुतादौहित्रयोः कथम् ॥२३॥ ।दौहित्रप्रशंसावर्णनम्
[[२७२६]]
स्थितयोः परगोत्रत्वे तद्धनं तु भविष्यति । इति शास्त्रविरुद्धानि वाक्यान्यन्यानि वा पुनः ॥२६४॥ सभासु वै प्रलपतो सद्योदेशात्प्रवासयेत् । पुत्रभिन्नादन्ध्रगोत्रदत्तसाहनकात्तराम् ॥२५॥ अधिको दुहितासूनुः सर्वशास्त्रैस्तथोदितः । कुतस्तथेति चोक्त े तु प्रवदामि च तत्स्पु (त्स्फुटम् ॥ २६६॥
॥ दौहित्रप्रशंसा ॥
दुहिता (तृ) तनयो लोके सर्वेषां सर्वकर्मसु । नित्यं मातामहादीनां तत्पत्नीनां च पुत्रवत् ॥ २६७॥ करोति हि खपितृभिस्समत्वेन समन्त्रतः । दर्शादीन्यपि नित्यानि तथा नैमित्तिकान्यपि ॥६८॥ सर्वश्राद्धानि काम्यानि मासिश्राद्धादिकान्यपि । श्राद्धप्रतिनिधित्वेन क्रियमाणेसु कर्मसु ॥ २६६॥ तर्पणेष्वपि सर्वेषु नित्यस्नानादिकर्मसु । पितृवर्गसमत्वेन वर्ग मातामहस्य वै ॥ ३००॥ मातृवर्गेण तुलितं तत्पत्नीनां त्रिकं तथा । को वा सपिण्डो यजते को वा भ्राता च तत्समः ॥ ३०१॥ तत्सुतः तस्य पौत्रो वा कदाचित्तस्य कर्मणि । कृते कार्यवशात्पश्चात्प्रतिसंवत्सरं ततः ॥३०२॥ लौकिकाग्नौ श्राद्धमात्रं तद्दिने त्वागते तदा । श्राद्धमात्रं तु तत्पत्न्याः अपि तूष्णीं करोति हि ॥ ३०३॥
[[२७३०]]
लोहितस्मृतिः
अकृते वा तस्य दोषः शास्त्रतो नास्ति केवलम् । मृताद्विशेषलाभश्चेदस्य तेन तु पश्यताम् ॥३०४ सतां चित्तसमाधानकार्याय किल तत्तथा । अकीर्तिभीत्या न प्रीत्या तथास्य करणं परम् ॥३०५॥ दौहित्रमात्रस्य तु चेल्लोके सर्वत्र केवलम् ! तत्कर्मण्यकृतेऽनेन मुख्यकर्त्रा कृतेऽपि च ॥ ३०६ ॥ सर्वशास्त्रोक्तमार्गेण यथा पुत्रस्य सन्ततम् । सर्वश्राद्ध ककरणमौपासनशुचौ हितः ॥३०७॥ तथास्यापि स्मृतं तूष्णीं तदीयद्रविणादिके । स्वल्पेकस्मिन्नभावेऽपि किञ्चिद्वा विहिनेन वै ॥३०८॥ तदीयसर्वश्राद्धानि गयातीर्थाष्टकादिषु । नान्दीदधिघृतारण्यकक्षेष्विभतृणादिषु ॥३०६ ॥ तान्यजन्नेव विधिना तत्पत्नीरपि तत्समम् । वर्तते राजते तस्मादपिकिञ्चिद्धनं विना ॥३१॥ तमजानन्नपि तदा शास्त्रमर्यादया वशात् । तत्कि वेत्यविचार्यैव तादृशानेन कः समः ॥३११॥ कर्मकर्ता प्रकथितो नैतेनान्यो महीतले ।
‘तुलितस्तनयस्सद्भिर्विचार्य च पुनः पुनः ॥३१२॥ नास्ति सूनोश्शतगुणो दौहित्रो गयनामकः । खङ्गपात्रं तिलादर्भास्तथा नैपालकम्बलः ॥३१३॥ गोधूमाः कण्टकिफलं माषामुद्गायवा जलम् । गव्यं तद्रजतं गाङ्गं शिवनिर्माल्यमच्युतम् ॥३१४॥
दौहित्रवैशिष्ट्यवर्णनम्
[[२७३१]]
कुतपः श्रोत्रियो वीरोभ्र गोत्रह्म सनातनम् । उपमारहितास्सर्वे त एते पितृवल्लभाः ॥३१५॥ पुत्रदत्ताच्छतगुणा विनापाञ्जलयो नृणाम् । तद्दौहित्रेणसंत्यक्ता अक्षय्याः प्रीतिकारकाः ॥३१६॥ मृतानां कथितास्सद्भिर्नित्यनैमित्तिकादिषु । ततः प्रत्यव्दभिन्नेषु सर्वश्राद्धेषु सन्ततम् ॥३१७॥ स्वपितुर्वर्गसाम्येन जननीपितृवर्गके । स्वामातृवर्गसाम्येन तन्मातृत्रयकस्य च ॥३१८॥ समर्चनं प्रकुरुते दौहित्रोऽयं सुताधिकः । कश्चिद्गीतः प्रसिद्धोऽत्र ताल्भ्यपत्न्या पुरास्फुटः ॥ ३१६॥
सपत्नीतनययं दृष्ट्वा विवादे तनयं प्रति ।
अयं तवानुजो मह्यं द्वयञ्जलीदो
ब्रह्मयज्ञेन दर्शादिश्राद्धषु तु न
हि तर्पणे ॥३२०॥
किञ्चन ।
।
भागिनेयस्तु ते वत्स वत्सोऽयं सर्वकर्मसु ॥ ३२१॥
पैतृकेषु प्रसक्तषु स्वमातृकुलसाम्यतः । मद्वर्गस्य समग्रस्य त्र्यञ्जलीदो हि कोऽत्रमे ॥३२२॥
आवयोः प्रवरः प्रोक्तः को वा त्वं वद मे स्फुटम् । इति मातुर्वचः श्रुत्वा वत्सस्तु सुमहानृषिः ॥३२३॥ सपत्नीतनयात्तस्या दौहिमधिकं तराम् ।
॥ दौहित्रत्रैविध्यम् ॥
शास्त्रविन्मन्यते नूनं समालोच्य स्वचेतसा ॥३२४॥
[[२७३२]]
लोहितस्मृतिः
तन्मातामह गोत्र्येकः दौहित्त्रोऽन्यस्ततः परः । निर्दोषस्त्रिविधोज्ञेयः तमेनं प्रवदामि च ॥ ३२५॥ कन्याप्रदानसमये तेन मातामहेन वै प्रोक्त एवं यदि तदा सोऽयमाद्योऽयमीरितः ॥ ३२६॥ अपुत्रोऽहं प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् । अस्वां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥ ३२७॥ एवं द्वितीयो विज्ञेयः कालेऽस्मिन्नेव केवलम् । भङ्ग्यन्तरेणचेत्प्रोक्तः दौहित्रः कोऽपि कथ्यते ॥३२॥ अपुत्रोऽहं प्रदास्यामि तुभ्यं कन्यां भवानपि । पुत्रार्थी चेदिहोत्पन्नः स नौ पुत्रो भविष्यति ॥३२॥ अस्य गोत्रद्वयं ज्ञेयं तद्वशस्य ततः परम् । गोत्रद्वयं च सङ्ग्राह्य ं विवाहादिषु कर्मसु ॥३३॥
एतादृगभिसन्ध्येकरहितेन
यदि त्वसौ । कन्यकायाः प्रदत्तायाः तनयो दुहितुः पुनः ॥३३१॥ तातगोत्र्येव विज्ञेय एवं स त्रिविधो मतः । त्रिविधोऽपि समो ज्ञेयो दौहित्रोऽयमकल्मषः ॥३३२॥ वर्गद्वयोद्धारकश्च सर्ववर्णैकसम्मतः ।
तमेवं वीक्ष्य दौहित्रं विभक्तज्ञातिसञ्जयः ॥३३३॥ वर्द्धमानं श्रिया दीप्त्या वर्चसा भ्राजसौजसा ।
यशसा कान्तिदाक्षिण्यसौजन्यादिगुणादिभिः ॥३३४॥ निष्कारणं वृथा मोहात्प्रकुप्यति हि केवलम् । प्रतिग्रहो वा होमो वा दौहित्रस्य विधीयते ॥३३५॥
दौहित्रश्रोत्रिययोर्ज्येष्ठतावर्णनम
[[२७३३]]
जननादेव दौहित्रः (स् ) तत्कुलद्वयतारकः । रौरवस्सर्वकृत्यानां पितॄणामतितृप्तिकृत् ॥३३६॥ निवारको दुर्गतेश्च तारकस्ततयस्स च । द्रव्याभावे क्रियाभावे मन्त्राभावे तथैव च ॥३३७॥ विप्राभावे धनाभावे शक्त्यभावेऽथवा पुनः । सर्वाभावेऽपि यत्नेन दौहित्रस्य सुमेधसः ॥३३८॥ श्रोत्रियस्यास्य तज्जग्धिमात्रेणैव च तत्क्षणात् । पितॄणां नित्यतृप्तिरस्यादक्षय्या नात्र संशयः ॥३३६ ॥ तच्छ्राद्धदेवतानां वा श्राद्धकतु रथापि वा । दौहित्र इति विज्ञेयः कर्तृणामस्य वा पुनः ॥३४०॥ अमादिकानां श्राद्धानां प्रकृतित्वेन केवलम् । प्रोक्तानां पुनरन्येषां मनुभाटस्य तत्परम् ॥३४१॥ युगाद्यानां तथा
पश्चान्महालयषकस्य च । अष्टकान्वष्टकानां च द्वादशानां तथैव च ॥ ३४२॥ गजच्छायातीर्थदधिघृतानामेकमेव वै ।
उपायः कथितस्सद्भिर्दोहित्रस्यास्य भोजनम् ॥३४३ ॥ लब्धद्रव्येण लघुना येन केन यथा तथा । सर्वाभावे तस्यभुक्तिमात्रेणैव परं कृतम् ॥३४४ ॥ सम्यग्भवति नास्त्यत्र संशयस्त्वणुमात्रकः । प्रत्यब्दमात्रमेकं तद्विध्युक्तन परं स्मृतम् ॥ ३४५॥ कर्तव्यत्वेन विद्वद्भिः निश्चितं ब्रह्मवादिभिः । अन्नेनैव दक्षिणया होमेन ब्राह्मणैस्सह ॥३४६॥
[[२७३४]]
लोहितस्मृतिः
अग्नौ करणतो वापि पिण्डदानेन धर्मतः । तदङ्गतर्पणेनैवं पित्रोः प्रत्यब्दमेककम् ॥३४७॥ अत्यन्तावश्यकत्वेन कर्तव्यत्वेन चोदितम् । अत्यन्तापदि च त्याज्यं न भवेदेव सर्वदा ॥ ३४८ ॥
॥ प्रत्यादिकाकरणेप्रत्यंवायः ॥
यदि त्यक्तं तद्भभवते तत्क्षणादेव केवलम् । पतितः स्यान्न सन्देहः तस्मात्तत्तु विधानतः ॥३४॥ सर्वप्राणेन कुर्याद्व ब्राह्मण्यस्यास्य सिद्धये । यदलभ्यं वस्तु तस्य प्राप्तये मासपक्षयोः ॥३५०॥ पूर्वमेव यतन् बाढं येन केन प्रकारतः । तत्संपाद्य प्रयत्नेन गोपयेत्तस्य कर्मणः ॥३५१॥ जलानि तण्डुलामाषा मुद्गाश्शाकद्वयं कृतम् । पत्राणि दक्षिणां शक्त्या पात्राण्येतानि वाडवाः ॥३५२॥ मन्त्रज्ञाः श्राद्धकार्याय दशप्रोक्ता मनीषिभिः । एतेषामेकलोपेऽपि न श्राद्धं सुकृतं भवेत् ॥३५३॥ जलाभावे किमपि तन् न सिध्यत्येव सर्वदा । तानि यत्र समृद्धानि तत्र श्राद्धं हि सिध्यति ॥३५४॥ तंथैव तण्डुलाभावे न प्रत्यब्दकथा भवेत् । तण्डुलाश्चहिरण्यं च प्रधानद्रव्यमुच्यते ॥३५॥ कार्यमात्रस्य कृत्स्नस्य किमुत श्राद्धकर्मणः । तद्वयं प्रथमं यत्नात्सङ्गृह्णाति प्रयत्नतः ॥ ३५६॥
श्राद्ध ेस्यापत्कल्पे सम्पादनवर्णनम्
तत्कर्तव्यं यत्र कुत्र मृतेऽहन्येव नान्यतः ।
तदभावें लोपएव भवेदेव तु तत्पुनः ॥ ३५७॥ मुद्गाभावे माषमात्रैः कर्तुं सूपाय शक्यते । भाषाभावे त्वङ्गलोपो भवेदेव न संशयः ॥ ३५८ ॥ महापदि कदाचित्तु तेन लोपेन तत्पुनः । शक्यते हि तथा कर्तुं न त्याज्यं तत्तु तेन वै ॥ ३५६ ॥
एषा हि चोदनाप्रोक्ता सुमहाचौयं वर्त्मना ।
[[1]]
[[२७३५]]
शाकाश्शाकौ तथा शाकः पृथक्त्वेन मनीषिभिः ॥ ३६० ॥
कीकटादिषु तच्छ्रन्ये न त्याज्यं श्राद्धकर्म तत् ।
पयोदधिघृतक्षीरसूपभक्ष्यादिसंभवे
॥३६१॥
शाकाभावे विशेषेण बाधकं न भवेदिति । लौकिकानां वैदिकानां च महदुक्तिर्महत्तरा ॥३६२॥ लौकिकोक्तिर्वैदिकोक्तिः स्वीकार्ये वैदिकेऽपि च । भविष्यति कदाचित्तु चापत्कल्पं तदुच्यते ॥३६३॥
॥ श्राद्धद्रव्याभावे अनुकल्पः ॥
घृतस्य दुर्लभे जाते कदाचित्सङ्कटे खरे । देशनाशे राष्ट्रनाशे महावर्षादिदुर्घटे ॥३६४॥ तैलं प्रतिनिधिस्तस्य दुर्लभे तस्य चागते । तस्य प्रतिनिधिस्त्वाज्यं दुर्लभे तु द्वयोरति(पि) ॥३६५॥ पयः प्रतिनिधिः प्रोक्तं तस्य प्रतिनिधिर्दधि । सर्वेषामपि चैतेषां दुर्लभे किं पुनस्त्विति ॥३६६॥
[[२७३६]]
लोहितस्मृतिः
परं चिन्तयतां तत्र महादेवः प्रजापतिः । स्वयमागत्य चोवाच सर्वलोकहिताय वै ॥ ३६७॥ पिष्ट जलेन संयोज्य लोडयित्वा विशेषतः । तेन पिष्टजलेनैव होमकार्यादिकं चरेत् ॥३६॥ लब्धेन मधुना वापि सर्वकार्याणि साधयेत् । फलपत्रादिसुद्रव्यैरन्नेन च तदा किल ॥३६॥ श्राद्धादीन्यपिकार्याणि न त्याज्यानि मनीषिभिः । मासप्रयत्नदुर्लभ्ये तदा कुर्याद्यया तथा ॥ ३७०॥ अष्टानां भुक्तिपत्राणां दुर्लभेसति तत्परम् । श्राद्धकार्याय मृत्पात्रं कथितं यत्तु तत्सदा ॥ ३७१॥ संलब्धं कथितं श्रीमन् तेन तत्साधयेत्तराम् । आपत्सुपत्रालाभे तु लभ्यते यत्तु तेन तत् ॥३७२॥ साधयेदिति सर्वेषां संमतिः परमा स्मृता । विप्राभावे तु सर्वत्र दर्भमुष्टिषु तत्पितॄन् ॥३७३॥ सुरानपि विधानेन मन्त्रैरावाह्य भूतले । कृत्वा तां निखिलामचं अग्नौ करणमेव च ॥ ३७४ ॥ अन्नत्यागं च तत्कृत्वा सर्वं तत्परिषेचनम् ।
आपोशनादिका कृत्वा मन्त्रमात्रेण चाहुतीः ॥ ३७५॥
पञ्चापि जप्त्वा विधिना चाभिश्रवणमेव च । उत्तरापोशनं ( ं) कृत्वा मन्त्रैः
पिण्डप्रदानं निर्वर्त्य तत्सर्वं
पूर्ववदेव वै ॥ ३७६॥
सलिले क्षिपेत् ।
तच्छेषं च ततो भुक्त्वा तर्पणं च परेऽहनि ॥३७७॥
सविधिश्राद्धकर्मफलवर्णनम्
[[२७३७]]
कुर्यादेव विधानेन दक्षिणां तां ततः परम् । यस्मै कस्मैचिद्विप्राय दद्यादिति हि सा श्रुतिः ॥ ३७८॥ अस्वाधीनानि पात्राणि परेषां पूर्वमेव वै । त्रिदिनादेव स्वाधीना स कृत्वा तैः ततः परम् ॥३७६॥ तैः श्राद्धं तु ततः कुर्यात्सद्यो लब्ध्वाऽथवाऽऽपदि । यथाकथंचित्कुर्याच्च तेन चापि विधानतः ॥ ३८० ॥ कृतमेव भवेन्नूनं नात्र कार्या विचारणा । मृत्पात्राणि तु चेत्तानि पात्राभावेऽथवा पुनः ॥३८१॥ कबलं कवलं हस्ते यावद्द्वात्रिंशदाहुतीः । प्राणायेत्यादिभिस्सर्वैः षडावृत्या ततः पुनः ॥३८२॥ तुरीयपञ्चमाभ्यां च सप्तमावृत्ति कर्मणि । पूरयित्वावृत्तिभेदं तां वृत्तिं तत्रकर्मणि ॥ ३८३ ॥ श्राद्धाख्ये. कारयेद्विद्वान् ब्राह्मणानामनापदि । एवं कृत्वा सद्य एव सर्वभ्रष्टा भवेदपि ॥ ३८४॥ वेदहन्ता शास्त्रहन्ता मर्यादामारकश्च सः । पितृन्नो विप्रहन्ता च भवेदेव न संशयः ॥ ३८५॥ आपत्कल्पोक्तमर्यादाः शास्त्राणि विविधान्यति । . अनापत्सु न गृह्णीयात् गृह्णन् तानि पतेदधः ॥३८६ ॥ येन केन प्रकारेण पित्रोः श्राद्ध विधानतः । अन्नेनैव प्रकुर्वीत नान्येन तु कदाचन ॥ ३८७॥ तदन्नमतिशुद्ध यद्योगं तच्छ्राद्धकर्मणि ।
अतिशुद्धत्वमन्नस्य सद्द्रव्येणैव केवलम् ॥३८८॥
[[१७२]]
[[२७३८]]
लोहितस्मृतिः
संपादितस्य भवति नासद् द्रव्येण तद्भवेत् । न्यायार्जितस्य द्रव्यस्य सत्त्वं प्रकथितं बुधैः ॥ ३८ ॥ तदन्यायार्जितं द्रव्यं असदित्येव सूरिभिः । कथितं सत्कर्मजालायोग्यं(?) निरयभीतिदम् ॥३६॥ तत्सद्द्द्रव्यं ब्राह्मणस्य याजनाध्यापनादिभिः । सम्प्राप्तं यद्विशेषेण स्वीयोर्वीसंभवं च यत् ॥३६१॥ धान्यादिकं शाकमूलशलाटुफलमूलकम् ।
न्याया र्जितमितिप्रोक्तं योग्यं सत्कर्मणां सदा ॥३२॥ महादानादिसंप्राप्त गजदानादिनागतम् ।
कुमा (ला) ध्यस्थ्यादिनाप्राप्त ग्रामसामान्यजादिकम् ॥ ३६६॥ शौद्र सौतं राथकारं ताक्षं त्वाष्ट्रं तथैणवम् । मालाकारीयमाम्बष्ठ ‘तौन्नवायं (तान्तुवायं)च सौचिकम् ३१ कौलकं सौचिकं नाटं शैलूषं भारतं तथा । पामरं जाल्मकं गाधं चाण्डालं यावनं तथा ॥ ३६५॥ म्लेच्छ होणं कौङ्कणं वा भृतकाध्यापनादिभिः । आद्यश्राद्धादिसंप्राप्त स्वामिद्रोहादिनागतम् ॥३६६॥ चौर्यानृतसमुद्भूतं दुष्टयाजनसङ्गतम् ।
अहीनक्रतुसंलब्धं कन्यकाविक्रयोत्थितम् ॥३६७ निक्षेपवार्धुष्यगतं यदन्यच्छास्त्रनिन्दितम् । तदेतदखिलं . द्रव्यमसमीचीनमुच्यते ॥३६८॥ समीचीनं तदेव स्यात् सच्छ्रोत्रियमुखागतम् । एकविंशतिसंख्याकक्रतुदक्षिणया तथा ॥ ३६६॥असद्द्रव्यकृतश्राद्धस्यनरकप्रदत्ववर्णनम्
प्रीतिदत्तं श्राद्धकालमहसंभावनादितः ।
संप्राप्तयाचया प्राप्त शनकैश्शनकैरपि ॥४००॥ खलभव्य सुतोत्पत्तिपुराणस्मृतिपाठकैः ।
पठन्तैरपि तत्प्रीत्या संप्राप्तमवशात्तदा ॥४०१॥ दक्षिणादानरूपेण सदस्यादिमुखेन च । सोमप्रवाकादिमुखादुत्सवादिमुखेन च ॥४०२ ॥
संप्राप्तमवशाद्द’ वात्संप्राप्त
न्यायवर्त्मना ।
[[२७३६]]
मधुपर्कादिरूपेण समागतमनीश्वरात् ॥४०३॥ यच्चान्यदखिलं भूयस्सद्द्रव्यमिति तद्विदुः । असद्द्रव्यकृतं श्राद्धं पितॄणां निरयप्रदम् ॥४०४॥ ततोऽल्पेनापि सद्द्रव्यसमानीतैकवस्तुभिः । स्वपत्नीहस्तरचितपाकैरत्यन्तपावनैः ॥४०५॥ भावशुद्ध ेन मनसा तादृशेनान्धसा च तत् । निर्वर्त्यमेकं प्रत्यब्द्धं मन्त्रपूतं च तातयोः ॥ ४०६ ॥
॥ श्राद्ध े पाककर्तारः ॥
तत्रादौ पाककका धर्मपत्नी तथापराः । कुलपत्न्योऽनन्यजाति संभवाः स्युः प्रजावती ॥४०७॥
मातरो ज्ञातिपत्त्यश्च पितृष्वस्रादिकाः पराः । भार्याः स्वसारःश्वश्र्वश्च मातुलान्यस्तथैव च ॥ ४०८॥ अत्याराद्बन्धुपत्न्यश्च गुरुपत्न्यस्तथाविधाः ।
आनुकूल्येन निर्दिष्टास्सर्वाभावे स्वयं वरः ॥४०६॥
[[२७४०]]
लोहितस्मृतिः
पाककर्मणि संप्रोक्तस्सत्सु दारेषु तत्पुरः । न तत्कर्मणि निर्दिष्टो यजमानोऽपि तत्र च ॥४१६ यदि कर्ता ब्रह्मचारी तढ़ा पार्क प्रयत्नतः । न कुर्यादेव विधिना तस्य पाके कदाचन ॥ ४११ अधिकारोऽस्ति धर्मेण वनस्थस्य यतेरपि । ब्रह्मचारी यतिर्वापि यस्मिन्देशे यदा तदा ॥४१२३॥ पचनं कुरुते मोहात्तद्राष्ट्रं तत्क्षणात्परम् । श्रियादिरहितं सर्वदेववेदसुरद्विजैः ॥४१३॥ तीथैः पुण्यैः पवित्रैश्च सप्ततन्तुमुखादिभिः । प्रवर्जितं विशेषेण भवेदूरीकृतं तथा ॥ ४१४॥ नष्टं भ्रष्ट प्रभग्नं च भ्रान्तनष्टमृगद्विजम् । निर्मानुष्यं शुष्कजलं आशताब्दाद्भविष्यति ॥४१५॥ पाकभिन्नानि कार्याणि सर्वाण्येवाविशेषतः । गुरोर्नित्यं ब्रह्मचारी कर्तुं शक्नोति सन्ततम् ॥ ४१६॥ विना पाकं तमेकं तु कार्याण्यन्यानि यानि वा । तदुक्तानि प्रकुर्वीत यतिश्वापि तथैव हि ॥४१७॥ वर्णिना यतिना पाके कृता भूमिस्तथा तराम् । भीता दुग्धा प्रणष्टा च कम्पितास्यान्न संशयः ॥ ४१८ ॥ तस्मात्तु यदि वर्णीस्याच्छ्राद्धकर्ता तदा किल ।
तन्माता तस्य भगिनी याचकाश्चन तास्तु
वै ॥४१६ ॥ बन्धुपत्न्योमित्रपत्न्यः गुरुपत्न्यादिकाः स्मृताः । पाककर्यो नराः स्वीयाः कीर्तिता न स्वयं कदा ॥४२०॥
श्राद्ध पुपाकानांगर्हितत्ववर्णनम्
[[२७४१]]
सर्वश्राद्ध ेषु सर्वत्र रण्डापाको विशेषतः । गर्हितः स्यात्तथा वन्ध्यापाकोऽपि परिकीर्तितः ॥४२१ ॥ , स्वसा माता तथा श्वश्रर्मातुलानीसुता पिता ।
पितृव्यपत्नी वा भार्या भगिनी वा तथाविधा ॥४२२ ॥ कर्त्रीणां तु . पुरोक्तानामभावे विधवा अपि । एता ग्राह्याः पाककांर्ये श्राद्धकर्मणि सङ्कटे ॥४२३॥ ज्ञातिभार्याश्च निखिलाः प्रत्यासन्नास्तथाविधाः । सपिण्डभार्यास्साध्यश्चेद्ग्राह्या एवेति शण्डिलः ॥४२४॥ श्राद्धपाकक्रियायास्ताः प्राह श्रीमानसौ महान् । पुत्रिणीनां न रण्डात्वं निखिलैर्निश्चितं पुरा ॥४२५ ॥ वन्ध्यात्वं जातपुत्राणां न कदाचन विद्यते । कन्यकानुपुनीतानां न कर्मार्हत्वमूचिरे ॥४२६॥
॥ मृतकार्येकर्तु नुकल्पनिषेधः ॥
॥४२८॥
सति कर्त्रन्तरेभूयो न चेत्तेषां तु कर्तृता । अस्त्येवेति तदा प्राह मृतकार्ये विशेषतः ॥४२७॥ स्वधानिनयनादेव मन्त्रकार्याखिलामता । अथवा तद्व्रतःकक्षान्तरनिष्ठस्तु कश्चन तत्कार्यमखिलं कुर्यात्तेन तत्सुकृतं भवेत् । विनैव वरणं तूष्णीं कतुःस्वस्य स्वयं यदि ॥४२६॥ तत्कर्तव्यत्वेन कुर्यात्कर्म तत्स्यान्निरर्थकम् । यस्य कस्यापि नष्टस्य दूरे कर्तरि संस्थिते ॥४३८॥
[[२७४२]]
लोहितस्मृतिः
॥ कर्त्तावृतस्याधिकारः ॥
तत्कर्तव्यत्वेन नान्यः कर्म कुर्यात्तथा यदि । पुनः करणमित्येव निश्चितं त्वादितो यथा ॥॥४३।१॥ अतद्वृतकृतं कर्माकृतमेवेति सूरिभिः । यतस्सुनिश्चितं तद्धि करणं पुनरर्हति ॥४३२॥ तादृशेष्वेव कृत्येषु रण्डानां पाककर्तृता । न तद्भिन्नेषु पित्र्येषु चैवं सति यदाऽवशात् ॥४३॥ मोहात्तत्कृतपाकेन कृतं श्राद्धं तदा पुनः । परेऽहन्येव कुर्वीत स्नुषापाकेन तत्सुतः ॥४३४॥ ज्ञाताज्ञातेति रण्डे द्व े स्पृष्टास्पृष्ट परे तथा । पतिं जानाति या ज्ञाता प्रथमा सा प्रकीर्तिता ॥ ४३५॥ तत्राज्ञातेति या सेयं न जानाति पति
स्वकम् । अत्यन्तपापा सा ज्ञाता यस्याः स्पर्शात्परं तदा ॥४३६॥ सुखदोषेण मरणं तद्भर्ता प्रतिपद्यते । सा स्पृष्ट ेति हि विख्याता ह्यलब्ध्वा तद्रतिं परम् ॥४३७ रजसोऽप्यश्नुते घोरं वैधत्र्यं पापजं महत् । सास्पृष्ट ेति समाख्यातास्ता एताः पूर्वजन्मनि ॥ ४३८॥ नग्नश्राद्ध नवश्राद्ध लोष्टब्राह्मणभोजने । आद्यश्राद्धे च भोक्तारः प्रत्यक्षान्नं विनाशु चिम् ॥४३६॥ क्रमेणैव महापापाः सप्तानां जन्मनां पुरा । अग्नौ प्रथमतः कृत्वा होमरूपेण कर्म तत् ॥४४०॥
विधवानिन्दावर्णनम्
[[२७४३]]
समाप्य विधिवद्भूयः यथा सङ्कल्पपूर्वकम् । सम्यग्विप्रमुखेनापि तादृक्कर्मचतुष्टयम् ॥४४१॥ प्रकर्तव्यं प्रयत्नेन न चेत्तु ब्राह्मणो वृथा । अधः पतेदेवतरां नेहामुत्र च निष्कृतिः ॥४४२॥ तस्य भोक्तः प्रकथिता तादृक्प्रेतक्रियासु वै । विनाग्निमादितो विप्रमुखेन क्रियमाणके ॥४४३ ॥ प्राथम्येनैव तद्भोक्तुः पुलाकानां तु संख्यया । ज्ञातादिराण्डजन्मानि भवेयुरिति वै विधिः ॥ ४४४ ॥
॥ विधवानां निन्दा ॥
श्रीमान्प्रजापतिः
प्राहः सर्वलोकपितामहः ।
तादृश्य एतास्सुक्र ूराः क्रूरचित्तामहाजडाः
दयादाक्षिण्यसौभाग्यक्षान्तिदान्तिबहिष्कृताः ।
क्रू रातिक्ररसुक्र रतमा इति जगत्त्रये
॥४४५॥
॥४४६॥
जन्मनैव हि विख्यातास्तादृशीनां सदा क्षयः । पितरौ भ्रातरस्तज्जाः पितृगेहे प्रकीर्तिताः ॥४४७॥
पतिगेहे तु
तत्तातभ्रातरस्तज्जतज्जनाः ।
अप्येवं सति सर्वत्र न स्वातन्त्र्यकथा सदा ॥४४८ ॥ तासां प्रकथिता सद्भिः एवं सति पितृगृहे । पित्रोस्तु कृपयापाल्यास्तत्कोष्ठजनितोऽन्वहम् ॥४४६॥ भ्रात्रादीनामपि तथा तज्जातानां तथैव च । एतद्भिन्नेन केनापि सम्बन्धेन न चैव हि ॥४५० ॥
[[२७४४]]
लोहितस्मृतिः
परं तु तंत्र लोकानां पश्यतां तास्तथाविधाः । अनाथा इव भान्त्येता न तु तत्कृपया तराम् ॥४५१॥ एतादृशी लोकरीतिस्तत्र भर्तृ निकेतने । अत्यन्तपारवश्यं तत् सुस्पष्ट’ लोकवर्त्मतः ॥४५२॥ गतानां तत्र निर्लज्जं पुरस्कारैकवर्जनात् । हैन्यमादौ जायते हि शनैः कालेन तत्परम् ॥४५३॥ भागांशादिप्रश्नमूलकलहेन निकृष्टता । स्वयमेवोत्पद्यते च जाते चैवं विशेषतः ॥४५४॥ शापरोदनहुङ्कार त्वङ्कारादिककश्मले । समुत्थिते सङ्कटेऽस्मिन् मिथयोः पश्यतां पुरः ॥४५५॥ कि कार्यमिति तैः प्रोक्त े तामेनात्ताश्च वीक्ष्य वै । तत्परं दीयते चेति प्रतिज्ञाप्य ततः परम् ॥४५६॥ यच्छास्त्रेणैव विहितं तावन्मात्रं तदा तदा । अस्माभिर्दीयते चेति नान्यत्किमपि क्षुल्लकम् ॥४५७৷৷ धर्मतोऽस्यास्तु रण्डाया मध्याह्न ऽन्वहमेव वै । सार्वत्रिकरसंपूर्णास्तण्डुला लवणं समित् ॥४५८॥
वसनंत्रिपणकक्रीतं त्रिमासानां तथैव च । एतावदेव साध्वीनां चोदितं विधवाशनम् ॥४५६॥ प्रदेयं शास्त्रमार्गेण चैतस्मादधिकं न हि । इत्येवमुक्त्वा वचनं तावन्मात्रे ततः पुनः ॥४६०॥ दत्तेथ(ध) नालमेतन्मे चेति रोदनपूर्वकम् । द्वारे निरुद्ध ज्ञातेस्तु तत्र सन्तस्तु केचन ॥४६१॥
विधवायाः स्वभर्तृ गेहनिवासवर्णनम्
किमेतदिति तूष्णीकं सन्ततं पश्यतां पुरः ।
"
[[२७४५]]
उभयैः क्रियते चेति हन्तसम्प्रतिमास्त्विति ॥४६२॥ तत्कोष्ठपूरणे यावत्तावद्द यमिति व वा । गच्छेदियमिति प्रोक्त्वा चैतावद्वत्सरस्य राः (१) ॥४६३॥ देया भवद्भिरित्येवं भूमिरूपेण वा
पुनः ।
निबन्धद्रव्यरूपेण धान्यरूपेण वाथवा ॥ ४६४॥ भवेत्कालेन निष्कर्षः एवं सत्यत्र केवलम् । तस्यानिकृष्टता घोरा प्रसिद्धा जगतीतले ॥४६५॥ सिद्धापि नात्र विशयः तस्मिन् भर्तृ कुलेऽन्वहम् । संप्राप्तजीवनांशायाः एवं यत्नेन कालतः ॥४६६॥ पश्चान्निवासो भवने परेषां चेद्भवेद्यदि । अयशो महदेवस्याद्भ्रात्रादीनां गृहेष्वपि ॥ ४६७॥ तत्कलनादिजनताप्रद्व ेषः पुनरेककः । परगेहनिवासोत्थप्रत्यवायो महानपि ॥ ४६८॥ जायते हि विशेषेण विश्वस्ताया व्रतं तु सः । सन्त्यक्तभर्तृ गेहाया निवासो भर्तृ मन्दिरे ॥ ४६६॥ अन्वहं कृच्छ्रफलदं ज्ञातिचित्तानुवर्तनात् । । स्वभर्तृ’शयनस्थानपालनान्वेषणादितः ॥४७०॥ ब्रह्मचर्यं महत्त्वं च सौजन्यमति वर्धते । तत्पुण्यतीर्थनिखिलसर्वकृच्छ्रत्रतान्यपि ॥४७१॥ प्राप्तान्येव भवन्त्यस्यास्तस्मात्तत्रैव भक्तितः ।
•
येन केनाप्युपायेन भर्तृ’ज्ञातिजनाश्रयम् · ॥४७२॥
[[२७४६]]
लोहितस्मृतिः
॥ रण्डाया अस्वातन्त्र्यम् ॥
कृत्वा तत्रैव निवसेद्दत्तांशाप्यनुसृत्य तान् । तत्रैव मरणे चेत्तु गङ्गातीरमृतौ तु या ॥४७३॥ श्रेयसी कथिता सद्भिः तामाप्नोतीह तत्क्षणात् । तेषामनुसृतिर्नाम स्वसंपादितवस्तु ( वस्तू) नाम् ॥४७४॥ समर्पणं यत्र कुत्र त्यक्त्वा तत्रार्पणं जगुः । दत्तांशायास्तु रण्डायाः यानि वस्तूनि सन्ति वै ॥ ४७५॥ भूषणाच्छादनादीनि पात्रधान्यधनान्यपि । येभ्यः केभ्यः परेभ्यो वा स्वेभ्यो वा दातुमुत्तमः ४७६ ॥ अधिकारोऽस्ति सततं यथेच्छं शास्त्रवर्त्मना । पितृभ्रातृपतिप्राप्तधरणी यदि संस्थिता ॥४७७॥ तत्तत्कुलप्रसूतानां विनानुज्ञां तु तां हठात् । न दद्यादेव विधिनाऽन्यस्मै स्वच्छन्दतो ननु ॥४७८॥ स्वीयानामेव वस्तूनां दानं शास्त्रैकसम्मतम् । सामान्यानां धनादीनां दानं शास्त्रैकनिन्दितम् ॥४७६ ॥ न सामान्यं धनं देयं परभोज्यं विवादतः । स्पष्टतरं भावदुष्ट निषिद्ध स्वैः परैरपि ॥४८०॥ नियमोऽयं सर्वधर्मः पितृभ्रातृमतां सताम् । पुत्रिणामपि दानेषु तदनुज्ञां विना क्वचित् ॥४८१॥ कर्तुं न शक्यतेऽतीव भूमिदाने तु किं पुनः । स्वतन्त्रस्यापि शक्तस्य पुंसस्संपादकस्य च ॥१४८२॥
नानाविधरण्डानांभेदवर्णनम्
[[२७४७]]
सगोत्रज्ञातिदायादसामन्तानुमतिः परा । अपेक्षिताधरादाने हिरण्यमुदकं तथा 1182311 एवं सति पुनर्नार्या अधिकारस्तथाविधे । कथं भवेद्भर्तृ पुत्रपौत्रवत्याः प्रदानके ॥४८४॥ विश्वस्तायास्सनाथायाः तस्मिन्दानेऽतिसङ्कटे । तत्रापि सुतरां दूरं अनाथायास्तु का कथा ॥४८५ ॥ दाने तु तादृशेधारे ह्यशक्ये येन केनचित् । कर्तुं प्रयत्नशतकाधिकारो भविष्यति ॥४८६॥ कथं वेत्यत्र देवेशो जानात्यन्येन चैव हि । अष्टवर्षा तु विधवा विवाहात्परतो यदि ॥४८७॥ चित्यग्निसदृशी प्रोक्ता प्रथमेयं स्मृताखला । रोहिणीविधवाचेत्तु चितिधूमसमानिशम् ॥४८८॥ अवीरेत्युच्यते नाना महापापैकसंभवा । गौरीदशायां वैधव्यमापन्ना तापिता स्मृता ॥४८६॥ चित्युल्मूकैव सा ज्ञेया रजसोऽर्वागितीव च । पुरोदिताभी रण्डाभिस्साकं भूयः पराहताः ॥४६०॥ सन्ति ताश्च प्रवक्ष्यामि स्पष्टार्थं वै प्रसङ्गतः । दुर्भगाकुटिलाकाष्ठा चरमा चटुला वशा वीररण्डा कुण्डरण्डा बाधारण्डा तथा परा । दशानामपि चैतासां दशमाब्दात्परं तथा ॥४६२॥ ऐकादशाब्दप्रभृतिवैधव्यं क्रमतो यदि ।
॥४६१॥
रजसः परतो भूयो भवेयुस्तानि शून्यतः ॥४६३॥
[[२७४८]]
लोहितस्मृतिः .
नामान्येतानि तुच्छानि चैतासां कर्ममात्रके । सन्नामके नाधिकारस्तथाप्यासां विधेर्वशात् ॥ ४६४ ॥
सद्वृत्तिर्वसुधारूपा
निबन्धादिस्वरूपका ।
संप्राप्तापिपितुर्भर्तु र्वन्धूनामथवा पुनः ॥४६५॥ सकाशात्तु तया पश्चात् श्रियं सुमहतीं पराम् । संप्राप्ता अपि यद्य ेताः सततं परतन्त्रकाः ॥४६६ ॥ स्वपात्रस्थोर्णकचलप्राशनेऽपि
स्वतन्त्रतः ।
अत्यन्तशक्तिविकलाः सर्वशास्त्रैकवर्त्मतः ॥४६७॥ तथा हि तासां सर्वासां वनितानां महत्कुले । संजातानां विवाहस्य पश्चात्संवसरात्परम् ॥४६८॥ कार्तिकगौरीपूजायाः तद्दीपाराधनात्परम् । त्रियुद्धिमृत्स्तम्भमहा निकटे तद्व्रते तदा ॥४६६॥ महासुमङ्गलीवृन्दगीतवाक्य विशेषतः ।
प्राप्ताया अप्यनुज्ञायाः तत्पूर्तिकरणाय वै ॥५००।l नित्यं भुक्तिक्रियाकाले यां काञ्चिद्यं च कं च वा । दृष्ट्वा पृष्ट्वा भोजनस्याभ्यनुज्ञां तदनन्तरम् ॥५०१ ॥ तया वा तेन वोक्त े वाऽभ्यनुज्ञानविशेषके । सा भुक्तिः क्रियते तस्मात् वनितामात्रया भुवि ॥५०२॥ अभ्यनुज्ञानदेवास्ते प्रथमं स्याद्गणाधिपः । वर्षत्रयं ततः पश्चाद्गुहस्ताक्ष्र्क्ष्योऽथ वा स्मृतौ ॥५०३ ॥ विकल्पत्वेननिर्दिष्टौ पूर्ववत्कालनिर्णयः ।
पुष्पवन्तौ च निर्दिष्टौ पश्चान्नोचेज्जगद्गुरू ॥५०४॥विवाहात्परतःस्त्रीणामस्वातन्त्र्यवर्णनम्
ततः ।
उमामहेश्वरौ पश्चाल्लक्ष्मीनारायणौ उभयोरेतयोः कालो देवयोः परिकीर्तितः ॥ ५०५ ॥ ततोऽपि द्विगुणस्तस्मात् वनितामात्रतः स्मृताः । अष्टादशस्युर्वपस्ताः भोजने नियतास्सदा ॥ ५०६ ॥ अभ्यनुज्ञात्रतस्यास्य चैतावदिति लेखनम् ।
[[२७४६]]
जातं ममेति काश्यप्यां कृत्वा भक्त्या ततः परम् ॥५०७॥ तां देवतां नमस्कृत्य पश्चाद्भोजनमुच्यते । अपि पात्रगते चान्ने हस्तेनादातुमप्यलम् ॥५०८॥ विनाभ्यनुज्ञां तूष्णीकं न युक्तमिति हि श्रुतिः । सुमङ्गलीनां धर्मोऽयं मृते भर्तरि तद्वते ॥ ५०६॥ तद्दवतेयं विधवा तदधीनैव सर्वदा । भवेत्तेनैवास्वतन्त्र्या (न्त्रा) परमाध्यवशा भवेत् ॥५१०॥ व्रतकाले तादृशे तु व्यतीतेऽस्यामहत्त्वकम् । स्वातन्त्र्यभर्तृ’ वाक्येन शनैस्तन्मुखतो भवेत् ॥५११॥ एवं सत्यत्र जगति वनितानां विशेषतः । विवाहत्परतोऽत्यन्तमस्वातन्त्र्यं श्रुति -फुटम् ॥५१२॥ स्वपात्रगतभिस्सैकग्रहणाणुस्वतन्त्रकम् (?) । अत्यन्तैकपराधीनं अतो नारीजनस्य वै ॥५१३॥ तादृशस्य कथंदानेऽधिकारः स्वस्य वा पुनः । वसुनः स्थावरादेर्वाऽभ्यनुज्ञां तां विनैव हि ॥५१४ ॥ ज्ञातीनामभ्यनुज्ञा चेत् ज्ञातिप्राप्तक्षितेस्तथा । पितृप्राप्तक्षितेस्तस्य ह्यत्यन्तावश्यकीति नु ॥५१५॥
[[२७५०]]
लोहितस्मृतिः
युक्तत्वेनैव गृह्णन्ति लोके सन्तस्सुमेधसः । कृतेऽपितादृशे दाने कदाचिन्मूढयो पहा ? ॥ ५१६॥ समागतो यतोमूलः स्थावरो वनितास्पदम् । यथा वा तद्गतं भूयः तथाकुर्यान्नचेद्दृथा ॥५१७॥ स्वगोत्रैककृतं भूमिदानंस्यादुत्तमोत्तमम् ।
भिन्नगोत्रकृतं तत्तु तदर्धफलकं विदुः
॥ ५२८ ॥
॥५१८॥
सत्सु साधुषु तिष्ठत्सु स्वकीयेषु जनेषु चेत् । आहिताग्निषु विद्वत्सु तद्धरण्यधिकारिषु ॥५१६॥ विधवानाहिताग्नीनां जनानां तादृशीं धराम् । न दद्यादेव सहसा दत्ताप्येषा कथञ्चन ॥५२०॥ न सिध्यत्येव तेषां सा पुरोडाशः शुनामिव । भूरस्माकमिदं मन्त्रं आहिताग्नेः प्रतीष्टिके ॥५२१॥ अध्वय सति जपति स्वीया सा भूमिरुत्तमा । तदीयपूर्वकोपात्ता कथमन्यत्र गच्छति ॥५२२॥ गता विना न्यायवर्त्मद्वारा तस्य तु सा ततः । वृद्धितान भवत्येव वृद्धिदात्र्यपि केवलम् ॥५२३॥ सद्यस्ततस्सर्ववंशमूलोन्मथनकारिणी ।
भवेदेव न सन्देहः हरिपत्न्यखिलाश्रया
॥ ५२४ ॥
कालेन महता तस्मान्न कुर्यात्कर्म तादृशम् । नारीनरो वा मेधावी समालोच्य चिरंस्थिताम् ॥५२५॥ स्ववंशेऽस्याधिकारं च तदागमनकारणम् ।
देशं कालंयुक्तपात्रं युक्तं चायुक्तमेव च ॥५२६॥
शास्त्रदृष्ट्याधर्मपालनमहत्त्ववर्णनन्
[[२७५१]]
शास्त्रदृष्ट्या समालोच्य पश्चाद्धमं समाचरेत् । पुंसो नित्याधिकारः स्यात्तद्वारा तनयस्य वा ॥५२७॥ पित्रोः श्वसुरयोर्भर्तुरनुज्ञानात्स्त्रियस्य तु । पुसः शतगुणन्यूना वनिता सा सभर्तृका ॥५२८॥ तत्सहस्रगुणन्यूना विश्वस्ता नष्टपुत्रका । तत्सहस्रगुणन्यूना रण्डा सर्व विवर्जिता ॥ ५२६॥ चित्यग्निधूमकाष्ठोल्मूकसमानाऽतिगर्हिता । सैतादृशीचेति वाक्यप्रलापनपरा खला
॥५३०॥
सारण्डा तत्र भूदानं ग्रहदानं च नैष्कुटम् । कुल्यादानं कूपदानं वापीदानं च गाहनम् ॥५३१॥ क्षेत्रदानं वृत्तिदानं सेतुदानं च वाक्षिकम् । औदान्यं माण्टपं सौधं प्रासादं गैहदं तदा ॥ ५३२॥ यदाकरोत्तथैवाहं करिष्यामीति मामकम् । वदन्त्येवं निर्भयेन निर्लज्जं जनतापुरः ॥५३३॥ तस्मादनुमतिं श्वश्रूवोः ज्ञातीनां चेत्तु सामगम् । तुल्यैवेति पुनस्त्वज्जमज्जनानां विशेषतः ॥५३४॥ आकाङ्क्षानुमतिश्चाथाधिकोमम तु सांप्रतम् ।
सा ज्ञातीननुसृत्य स्वान् तत्सम्मत्या चकार हि ॥५३५॥ इत्युक्त े चेन्मामकानां जनानां परया ततः । संमत्यैव करिष्यामि पश्यतां तद्विरोधिनाम् ॥५३६॥ तन्निरोधे कथं त्वं वै करिष्यसि नयो न तु । न युक्तमेवं करणमित्युक्त े तत्र सज्जनैः ॥५३७॥
[[२७५२]]
लोहितस्मृतिः
पश्यद्भिरखिलैर्भूयो मामके क्षितिमात्रके । अहं वै प्रवरा कर्त्री संप्राप्त व्यवहारतः ॥५३८॥ मन्निरोधाय सम्बन्धः को वा त्येवमेव वै । पूर्वोत्तरविरुद्धानि वचनानि प्रभाषतः ॥५३६॥ दुष्टबुद्धदुर्मुखस्य ज्ञातेरस्येति ( जल्पतीम् ) वादिनीम् । हुङ्कृत्य दूषयित्वैव भर्त्सयित्वा विशेषतः तत्सहायानधर्मज्ञान् पामरान्धर्मविद्विषः ।
॥५४०॥
दानप्रतिग्रहव्याजान् मर्यादामात्रदूषकान् ॥५४१॥ भ्रंशयित्वा बहिष्कृत्य निरोधनमुखेन च । धिक्कृत्य वेदविदुषस्ताडयित्वाप्यभीक्ष्णशः ॥५४२॥ अपराधानुगुण्येन द्वादशान्यूनकान्पणान् ।
तेभ्यः स्वीकृत्य तां गेहवर्त्मापणरसादिकम् ॥५४३॥ स्थावरं न्यायमार्गेण दापयेत्पृथिवीपतिः । तत्स्वामिने यथापूर्वं तेन स्वर्गो जितो भवेत् ॥५४४॥ जीवनांशैकसंलब्धभूमिका यातिदुर्मतिः ।
अहो देवरपुत्रेण पुत्रिणीति ततो मया ॥ ५४५ ॥ प्रदीयतेऽस्मै मत्तातसंलब्धा धरणीति वै । संवलब्धमनाथानां विधवानां कदाचन ॥५४६ ॥ न भूदानेऽधिकारोऽस्तीत्युक्त्वा वाक्यं ततश्च ताम् । दूरतः प्रेषयेदुष्टां तद्दत्तामपि तां धराम् ॥५४७॥ तत्स्वामिने दापयेच्च तेन क्रतुफलं भवेत् । पुत्रिणी सैव संप्राप्ता या प्रसूयेत जीविनः ॥५४८॥
पुत्राभावेदत्तकविधानवर्णनम्
[[२७५३]]
पुत्रो वा पुत्रिका वापि यस्यास्साऽस्ति पुत्रिणी । पुत्रसंग्रहणेनापि भर्त्रा साकं च पुत्रिणी ॥५४६ ॥ वन्ध्याऽपि प्रभवेदेव शास्त्रेण रचितेन चेत् । अनेकवारं पुत्रस्य ग्रहणं शास्त्रनिन्दितम् ॥५५०॥ नष्ट ेऽपि दत्ततनये न पुनस्तच्चरेदपि । सङ्गृह्णीयादेकमेव न द्वौत्रीन् चतुरोऽपि वा ॥५५२॥ असकृद्वा सकृद्वापि पुमान् स्त्री वा पृथङ्न तु । मिलित्वैवाऽतियत्नेन कुर्यात्तद्ग्रहणं मुदा ॥५५२ ॥ सहस्रदः सहस्राढ्यो ब्रह्मनिष्ठोऽन्नद्स्त्वति । बहुशिष्यधनज्ञातिग्रामभूमिविशेषवान्
प्रथितस्त्वग्निचिन्नष्टपुत्रो दौहित्रवानपि ।
॥५५३॥
नष्टभार्यो मित्रशिष्यज्ञातिप्रार्थनया तदा ॥५५४॥ स्वीयसन्ततिविच्छित्तौ सर्वमत्या विधानतः । सङ्गृहीयाज्ज्ञातिपुत्रं दौहित्रस्य मतेन चेत् ॥५५५॥ अपि पत्नी तादृशस्य विधवा नष्टपुत्रका । कुलशिष्यज्ञातिधनबन्धुग्रामहिताय च ॥ ५५६॥ तेषां वाक्येन दौहित्रमत्यां पुत्र्याश्च तादृशे । सङ्कटे महति प्राप्त प्रकुर्यात्पुत्रसङ्ग्रहम् ॥५५७॥ स पुत्रो देवरसुतो भवितव्यो न हीतरः । पुत्रप्रदश्च सर्वेषाममात्यानां च मध्यमे ॥५५८॥ देवरा एव विख्याता ज्ञातिभ्यो न्यायवर्त्मना । देवरेष्वपि भूयश्च सर्वेषामन्त्य एव चेत् ॥५५६॥
[[१७३]]
[[२७५४]]
लोहितस्मृतिः
उत्तमः कथितस्सद्भिर्मध्यमस्य तु मध्यमः । ज्येष्ठस्य तु सुतास्सर्वे चाधमाः परिकीर्तिताः ॥२६॥ तद्भिन्ना ज्ञातिपुत्राश्चेदधमाधमसंज्ञकाः । एतेन खलु सर्वत्र दौहित्रे सति सङ्कटे ॥२६॥
पुत्रस्यग्रहणं दुष्टं शास्त्रजालैरशेपकैः । इतियत्तस्य दौहित्रामतं यदि तदा तराम् (१) ॥५६२॥ न कार्यमेव तन्नो चेन्मतेनास्य मुदादिना । सम्यक्कर्तुं शक्यते हि तस्मिंश्चेद्यदि दुःखिते ॥ ५६३॥ सगृहीतस्स तु शिशुः पुत्रत्वेन न वर्धते । तत्संमतिश्च परमा नास्त्यस्तीति ततः परम् ॥५६४ ॥
कालेन महता पश्चात्कल्प्या फलबलेन हि । तादृशस्य च तादृश्याः विधुरस्य विपश्चितः ॥५६५ ॥
तत्पत्न्या विधवाया वा स एषः पुत्रसङ्ग्रहः । उभयोरेतयोरेव पृथक्त्वेन तथाविधम् ॥५६६॥ संगच्छते कर्म कतु नैताभ्यां भिन्नयोर्ननु । सर्वथा शक्यते कर्तुं नान्यस्य तु कथंचन ॥५६७॥
G
अन्याया विधवाया वै सोऽयं पुत्रपरिग्रहः । उपमारहितश्रीकः मिथिलोत्पत्तिसन्निभः ॥५६८॥ एतादृक्पुत्रकरणे गुणा ह्यावश्यकाः स्मृताः । 1. तेऽत्यन्तदुर्लभा दिव्या ते सन्ति यदि वै तदा ॥५६६॥
समीचीनरण्डावर्णनम्
[[२७५५]]
कर्म कर्तुं तादृशं चालं युक्त शास्त्रसंमतम् । ते गुणाश्चापि सुव्यक्तं निरूप्यन्तेऽधुना क्रमात् ॥५७०॥ वंशद्वयविशुद्धत्वं अत्यन्तावश्यकं स्मृतम् । सहस्रदक्षिणादत्वं सहस्रधनवत्त्वकम् ॥५७१॥ पण्डितत्वं शताधिक्यशिष्यवत्त्वं महोन्नतम् । महाग्रामाधिकारित्वं ब्रह्मनिष्ठत्वमप्यति ॥५७२॥ अन्नदत्वं ब्रह्मवित्त्वं शान्तिदान्त्यादिपात्रता । अग्निचित्त्वं धराधीशपूज्यता सर्वसम्मता ॥५७३॥ यस्यैते निखिलादिव्याः सन्ति तस्यैवतादृशे । समये कर्म तत्कर्तुं तत्कलत्रस्य शक्यते ॥५७४৷৷ विधवायास्तादृशस्य विधुरस्येति विश्वसृट् । पुत्रसंग्रहणे शास्त्रं कल्पयामास सूक्ष्मतः ॥ ५७५৷ अतिगुह्यमिदं शास्त्रं सर्वसाधारणं न तु । तादृशानां तु या काचिज्जन्मान्तरतपः फलात् ॥५७६॥
॥ समीचीनरण्डा ॥
मृते भर्तरि तूष्णीकं सर्वं निश्चित्य केवलम् । नश्वरं दुःखजनकं अज्ञानास्पदमध्रुवम् ॥७७৷৷ सद्वाक्येन विनिश्चित्य किमे न ती ।
क्षान्तिशान्तिशमादीनां आलया सद्गुणाश्रया । ५७८॥ वेदान्तवाक्यश्रवणं कुर्वन्ती महतां सताम् । वसन्ती निकटे नित्यं जगदेतच्चराचरम् ॥५७६॥
[[२७५६]]
लोहितस्मृतिः
कं खं भूद्यैस्तथा वायुः पुष्पवन्तौ सुरासुरान् । वृकं खरं खगं छागं पश्यन्ती ब्रह्म शाश्वतम् ॥५८०li सत्यं ज्ञानमनन्तं च सच्चिदानन्दलक्षणम् । सर्वोपनिषदां सारं सर्वोपनिषदीरितम् ॥५८१॥ भेदं सर्वं परित्यज्य सोऽहं भावनयैव हि । विभावयन्ती सततं स्वात्मत्वेन समत्वतः ॥५८२॥ सुखं दुःखं भवं भावं भावाभावौ तथैव च । विपत्तिमविपत्ति च द्वन्द्वाद्वन्द्वे लयालयौ ॥ ५८३ ॥ ॥५८३॥ शत्रुं मित्रं तथानुष्णमुष्णं तेजस्तमस्तथा । सिद्धान्तपूर्वपक्षौ च भेदराहित्यतोऽनिशम् ॥५८४॥ समया प्रपश्यन्ती परत्वमपरत्वकम् । कामं क्रोधादिकं चापि रागद्व ेषादिकं परम् ॥५८५॥॥ लाभालाभौ च सततं स्वात्मन्येव व्यवस्थितम् । एकमेवेति मन्वाना द्वितीयं नेति सूक्ष्मतः ॥५८६॥ मन्यमाना महाभागा महती ब्रह्मवादिनी । । जाति मानं च गवं च जन्मवर्णाश्रमादिकम् ॥५८७॥ अहं भावं स्वकीयत्वं त्यक्त्वा विस्मृत्य सत्वरम् । किमप्यकाङ्क्षमाणैव सर्ववस्तुषु केवलम् ॥५८८॥ काममिच्छामि नात्यन्तास्पृहया येन केनचित् । लब्धेन प्राणवृत्तिं तां कुर्वती च सुसंस्थिता ॥५८॥ नित्यतुष्टा नष्टदुःखा पूर्णकामा च सन्ततम् । अदः पूर्णमिदं पूर्णं पूर्णात्पूर्णं बहिस्तथा ॥५६०॥
समीचीनायरण्डायावर्णनम्
[[२७५७]]
अन्तः पूर्णमधः पूर्णमूर्ध्वं पूर्णं च तेन हि । परेण ब्रह्मणा तेन स्वयं तद्ब्रह्म किं कखौ ॥५६१ ॥ नेतः परमहं त्वरिंमचेति बुद्धिः परा हढा । रण्डापि सा सर्ववन्द्या सदा शास्त्रार्थतत्त्ववित् ॥ ५६२॥ यस्याः स्यात्काङ्क्षितं वस्तु परमिष्ट ममेति न । सैवं साक्षात्परं ब्रह्म सर्वं (च) ह्यप्रयोजकम् ॥५६३॥ तच्चर्याज्ञाननिष्ठाद्याः सर्ववन्द्याः सदा जनैः । स्वीकार्याः स्युर्विशेषेण तस्यां बुद्धिं तु मानुषीम् ॥५६४॥ न कुर्यादेव धर्मेण सा ब्रह्मव न संशयः । न यस्याः स्वं परं चेति परभावोऽप्यहङ्कृतिः ॥ ५६५॥ देहे दुःखसुखे न स्तः सेयमप्राकृता स्मृता । सर्वप्राणिसमा दुःखसुखतुल्या निराकुला ॥५६६॥ निराशा निर्ममा साध्वी रण्डाऽपीयं विशिष्यते । दुर्व्यापारमकृत्वैव परेषां स्वहिताय वै ॥५६७॥ वृत्तिक्षेत्रगृहक्षोणी विषये निस्पृहा च या । सापि रण्डा समीचीना प्राकृताभिः समा न तु ॥ ५६८॥ इदं कृत्यमिदं कार्यमिदं शास्त्रमिदं परम् । इदं युक्तमिदं न्याय्यं इदं धम्यं सनातनम् ॥५६६॥ अप्रदेयं देयमिदं अवाच्यं वाच्यमेव च । अनुष्ठेयं च तद्भिन्नं क्रेयमक्रयमेव च ॥६००॥ अश्राव्यं श्राव्यमित्येतज्ज्ञानं तस्य निरीक्षणम् । अनुष्ठानं विशेषेण यस्याः स्युः साप्यकालतः ॥६०१॥
[[२७५८]]
लोहितस्मृतिः
इयं रण्डाप्यरण्डेव ज्ञात्री धर्मपरा सती । सर्वज्ञात्र्यपि या नूनं दुर्बुद्वया सततं कलिम् ॥६८२॥ स्वजनैः ज्ञातिभिस्सद्भिः पितृभ्यां बान्धवैः परैः । कुवंती सततं पीडां तद्द्रव्यहरणेच्छया ॥६०३॥
।
दुर्व्यापारादिना तेषां मृत्युस्सा सार्वकालिकी । तादृशीं धार्मिको राजा स्वदेशादन्यतो नयेत् ॥६०४॥ तत्कृता दुष्क्रियास्सर्वा मार्जयित्वाऽथ सत्क्रियाः । कारयेदेव विधिना सद्धर्मस्थापनाय वै ॥ ६०५ ॥ असत्क्रियैककर्तारं असद्वाक्यैकवादिनम् । सदूषकं दुष्टकर्मबोधकं राष्ट्रतो नयेत् ॥ ६०६॥ निष्ठीवन्तं सभामध्यात्सभायां निर्भयेन वै । ताम्बूलचर्वणपरं वाक्येनोद्वासयेत्ततः ॥६८७॥ कल्याणराजसदसि रागेण यदि वा क्षुतन् । अपानयन्वा दुर्बुद्धिं तूष्णीकं हि ततस्तु तम् ॥६०८॥ सद्यउत्थापयित्वैव तत्रदर्भेर्भुवं दहेत् ।
॥ सभायां एकस्मिन् अन्यस्यपतने ॥
सभानृपतने जाते निद्रया यस्य कस्य वा ॥ ६० ॥ तद्वस्त्रं सहसाच्छित्त्वा वेष्टयित्वा शिरोऽस्य वै । विसर्जयित्वा दूरेऽथ तं दूरीकृत्य तत्परम् ॥६१०॥ प्रहृत्य पृष्ठ हस्तेन नां भूमिं च ततः परम् । प्रोक्ष्योद्धृत्याथतान्पांसून् बहिर्गेहाद्विसर्जयेत् ॥६११।उत्तमदण्डव्यवस्थावर्णनम्
॥६१५॥
[[२७५६]]
मृदन्तरेण भूयश्च पूरयेत्तां भुवं यथा । त्रियम्बकेन मन्त्रेण हुनेदष्टोत्तरं शतम् ॥ ६१२॥ ब्राह्मणान् भोजयेत्पश्चाच्छत्त्याचित्रान्नषड्रसैः । आगामिसूतकं ज्ञात्वा गत्वा देशान्तरं त्वरन् ॥६१३॥ लौकिकं वैदिकं तत्र नित्यं नैमित्तिकं तु वा । परस्य स्वस्य वा कर्म संप्राप्त कुरुते यदि ॥ ६१४ ॥ कारयेद्वा विशेषेण यद्यदेवाखिलं परम् । तत्सूतक कृतं नूनं भवेदेव न चान्यथा कृतस्य सूतके यत्तु प्रायश्चित्तमुदीरितम् । तथैवेहास्य कथितं कर्मणो ब्रह्मवादिभिः ॥६१६॥ तादृशं तमिमं राजा बलादाहृत्य सत्वरम् । उत्तमेनैव दण्डेन दण्डयेद्धर्मसिद्धये ॥ ६१७॥ परप्रयोजनदशायां प्राप्तायां (तु) मृषाच्छलात् । चिराद्द ेशान्तरगतसूतकं नेति वै वदन् ॥६१८॥ दाप्यश्शतपणान्सद्यः तत्सत्यं चेत्तु तत्पुनः । त्वयेदं दुष्कृतं दुष्टं किं कृतं तद्धठाद्यथा ॥६१६॥ न युक्तमेवं करणं तदिदानीं सहिष्णुना । तदाद्य ेतावत्पर्यन्तकालहाते विगर्हितम् ॥६२०॥ एवं जनानां पुरतो लज्जयेत्तं विगर्हयेत् । सूतकी सन्परे देशे श्राद्धभुक्ं शुभकर्मणः आर्त्विज्यं वैदिकस्यापि कुर्वन्यो वर्तते तराम् । तमेनं बालिशं मूर्ख सद्यो राजा विशेषतः ॥६२२॥
॥६२१॥
[[२७६०]]
लोहितस्मृतिः
ग्राहयित्वा रोधयित्वा मासं वा पक्षमेव वा । तमेवं पूर्ववत्कृत्वा लज्जयित्वा ततः पुनः ॥ ६२३॥ तस्य स्वार्थधनं सम्यग्धृत्वा राष्ट्रात्प्रवासयेत् । पत्न्यां रजस्वलायां यः श्राद्ध’ भुङ्क्त ऽतिकामतः ॥ ६२४ स्वायोग्यतां लोपयित्वा जनानां सोऽयमल्पकः । निष्कासितो धिक्कृतश्च मोचनीयः स्वकाद्गृहात् ॥६२॥ चतुर्विंशतिपणान्वापि दाप्यस्सद्योऽथ वा भवेत् । अमन्त्रनिपुणो मन्त्रैः कुग्रामेषु द्विजन्मनाम् ॥६२६॥ वसतां कर्म सम्यग्वः कारयिष्यामि सन्ततम् । संमन्त्र्यैवं प्रतिज्ञाप्य तथा कुर्वन्न शास्त्रतः ॥६२७॥ व्यामोहयन्वाक्यजालै नित्यानुसरणादिना । सेवया संचरन्नित्यं शास्त्रमार्गं विनाशयन् ॥६२८॥ मन्त्रक्रियापरिज्ञानविकलो नटवत्तराम् । तत्क्रियाभिनयान् कुर्वन् वैदिकोऽहमिति वन् ॥६२६॥ दुष्टोऽयमसतां मुख्यः सदूषणपरः पुनः । अज्ञातशब्दार्थभयरहितः पामरो जडः ॥६३०॥ ज्ञातो विप्रमुखाद्राजा सद्यस्तं भटवर्त्मना । आनाययित्वा सन्ताढ्य किं कृतं च त्वयानिशम् ॥ ६३१ । विधानं ब्रूहि पुरतो कर्मणां विप्रसन्निधौ । तूष्णीकं लोकविप्रत्वं नाशयिष्यसि केवलम् ॥६३२॥ सर्वं वः कारयिष्यामीत्युक्तिमात्रेण तान् जडान् । व्यामोहयित्वा पापात्मन् एवमुक्त्वा पुनश्च तम् ॥६३३॥
[[२७६१]]
सुवासिनीनांशिरःस्नाननिषेधः
कपोलयोस्ताडयित्वा तत्तद्ग्रामनिवासिनाम् ।
कार्याय कर्मजालस्य दक्षमेकं नियुज्य च ॥ ६३४ ॥ पश्चात्तस्यापि सर्वस्वं हृत्वा राष्ट्रात्प्रवासयेत् । विश्वस्तामशिरस्नातां शिरःस्नातां सुवासिनीम् ॥६३५॥
कदाचिदवशाद्दृष्ट्वा
कुर्यात्सूर्यावलोकनम् ।
शिरःस्नानं पतेः पित्रोः कृत्स्नश्राद्धदिनेषु तत् ॥६३६॥ पाकस्य हेतवे हि स्यात् न चेन्नास्त्येव किंच तत् । प्रत्यब्दमात्रे भवति तदभावेऽपि केवलम् ॥६३७॥
शिरःस्नानं ग्रहणयोः पूर्वं चाप्यपरं परम् ।
द्विवारमपि यत्नेन तथा बन्धुमृतावृतौ
चतुर्थेऽहनि तद्वर्त्मनियमेन
॥६३८॥
समासतः ।
॥६३६॥
तथैवापूर्वतीर्थेषु चण्डालस्पर्शनादिषु
अभ्यङ्गकालनैयत्यं आर्थिकं प्रभवेद्धि वै ।
अध्वराद्यन्तयोरेवं नान्यत्रासां तु मास्तकम् ॥ ६४०॥
॥ सुवासिनीनां शिरःस्नाननिषेधः ॥
सुमङ्गलीनां तत्स्नानं हरिद्रावर्जनेन चेत् । जलं श्मशानगर्तस्थं सत्यं स्याद्धरणीगतम् ॥६४१ ॥ यद्य ुदुद्धृतं भाण्डगतं चण्डालचषकस्थितम् । तत्क्षणादेव भवति तदा तस्मात्तयैव हि ॥६४२॥
॥ हरिद्रास्नानविधिः ॥
तथा स्नानं प्रकर्तव्यं अजस्रं तद्धरिद्रया । अजस्रं विहितं स्नानं रात्रौ चेत्तज्जलं पुनः ॥६४३॥
[[२७६२]]
लोहितस्मृतिः
दैवाकीत्यैकचषकगतमेव न संशयः ।
तासामाकण्ठमेव स्यादास्यस्य क्षालनं च तत् ॥६४४॥ भर्त्रा स्नानं नित्यमेव न मध्येऽह्नि (मध्यान्हे) विधीयते । भर्तुः स्नानात्परं प्रातः होमकार्याय तच हि ॥६४५॥ होमाभावे यथेच्छ स्यात्सङ्गवे पाकहेतवे । पाकाभावेऽपि कालोऽयं सङ्गवो वाथ तत्परः ॥६४६ ॥ मध्याह्नो नापराह्नः स्यात्सदा कुर्याद्धरिद्रया । हरिद्रालेपने नित्यं तर्जन्या विदिशां दिशाम् ॥६४७ ॥ सर्वासां देवपत्नीनां तस्यादानं च धर्मतः । कर्तव्यत्वेन विहितं हरिद्राया निरन्तरम् ॥६४८॥ विदिशां देवपत्नीनां चतसृणां दिशामपि । हरिद्राकल्कलेशांस्तान् अक्षिप्त्वेवातिगर्वतः ॥६४६ ॥ अज्ञानाज्ज्ञानतो वापि नमस्कारप्रपूर्वकम् । या स्नाति विधवा नूनं सत्यमेव भविष्यति ॥६५०॥ या करोति शिरः स्नानं जीवभत्र सुमङ्गली । पतिघ्नी सा प्रकथिता तथोक्तं ब्रह्मवादिभिः ॥६५१ ॥ विनाभ्यनुज्ञां भर्तुर्या चौपवस्तं करोति ‘वै । भर्तु रायुष्यमश्नाति सैषा पापालया स्मृता ॥६५२॥
॥ पतिव्रताधर्माः ॥
भर्तृशुश्रूषणं नार्याः परमो धर्म उच्यते । नैतस्मादधिको धर्मो नैतस्मादधिको जपः ॥६५३॥
पत्न्याःपतिशुश्रूषणंपरमधर्मवर्णनम्
[[२७६३]]
नैतस्मादधिकं दानं नैतस्मादधिकं तपः । नैतस्मादधिकं तीर्थं नैतस्मादधिकं दमः ॥६५४॥ नैतस्मादधिकाः कृच्छ्राः नैतस्मादधिकारसवाः । मुक्त्वा तत्पतिशुश्रूषां तस्मादन्यन्न किंचन ॥६५५ ॥ धर्मं चरेत्प्रयत्नेन साध्वी नारी पतिव्रता । नैनमुच्चैः प्रभाषेत प्रियमेवास्य यच्चरेत् ॥ ६५६॥ अध्येनं कुपितं रोषात् प्रतिकुप्येत्कथंचन । कठोरं निर्दयं क्रूरं निरनुक्रोशमक्षमम् ॥६५७॥ ताडयन्तमहोरात्रं शपन्तमपि दुर्हृदम् । न दूपयेन्न चाक्रोशेन्न क्रुध्येत्प्रशपेदपि ॥ ६५८॥ छायानुवर्तिनी नित्यं दुःखिते दुःखिता भवेत् । सुखिते सुखिता तस्मिन् हृष्ट हृष्टा स्थिते स्थिता ॥ ६५६ शयिते शयिता सुप्ते पश्चात्सुप्ता स्वयं भवेत् । आहूताऽतित्वरा गच्छेदपि कार्यं विहाय च ॥६६०॥ शतं सहस्रं गोप्यं वा गुह्यमावश्यकं तु वा । ताम्बूलचर्वणं नित्यं अक्ष्णोरञ्जनमेव च ॥ ६६१॥ कुङ्कुमं चापि सिन्दूरं कज्जलं कञ्चुकं कचः । कबरी च प्रशस्तं स्यात्सुगन्धं स्रक्सुमादिकम् ॥६६२॥ नित्यमावश्यकं स्त्रीणां सतीनां विधिचोदनात् । भर्तरि प्रोषिते स्त्रीणां नालङ्कारो विधीयते पतिव्रतानां धर्मोऽयं तत्पुरोऽलङ्कृतिः परा । अन्वहं निशयास्नानं सिन्दूरं कुङ्कुमं सुमम् ॥६६४॥
[[२७६४]]
लोहितस्मृतिः
सुगन्धद्रव्यसद्वस्त्रकञ्चुकस्रककज्जलाः ।
निखिलास्वप्यवस्थासु संसेव्यास्त्वाभिरित्यपि ॥६६५॥ नित्यभव्याय स मुनिरुवाच पुलहः पुरा । भौमवारे शुक्रवारे निमज्जन्तीं धराजले ॥६६६॥ सपतिं वनितां साध्वीं दृष्ट्वा तद्दोपशान्तये ।
.
॥६६८॥
पद्मानने पद्म
उरु पद्माक्षी पद्मसंभवे ॥६६७॥ त्वं मां भजस्व भद्राक्षि येन सौख्यं लभाम्यहम् । इति मन्त्रं श्रियोमूलं समुच्चार्योदकेन वा नेत्रे प्रक्षाल्य नोचेत्तु नवनीतेन माष्टि च । उदुत्येन ततस्सूयं प्राङ्मुखस्त्ववलोकयेत् ॥६६६॥ तथैवमवशाद्दृष्ट्वा विश्वस्तां रक्तदन्तकाम् । ताम्बूलरञ्जितमुखीं सुगन्धालिप्तगात्रकाम् ॥६७०॥ स्वतन्त्रां वातिहासां वा काल्योद्वर्तितविग्रहाम् । विचित्रवस्त्रां वा तद्वच्छ्लक्ष्णकायां सुचित्रिताम् ॥६७१॥ अतिवैदग्ध्यमापन्नां अत्यन्तोत्कटवादिनीम् । क्षुद्रकण्टकतच्चित्रक्रियमाणाङ्गकां पुनः ॥६७२॥ तदा तदा भूषणाध्यां (ढ्यां) वस्तुनीलितदुर्दतीम् । स्वर्णादिसूत्रखचितविद्रुमाच्छाक्षमालिकाम् ॥६७३॥ व्यूहाधिपत्यं कुर्वन्तीं दानमानादिदुर्नयैः । परद्रव्याणि स्वीयत्वबुद्ध व स्वजनैः कलौ ॥६७४॥ ग्राहयन्तीं धर्ममात्रव्याजेनैव निरन्तरम् ।
सन्तोऽपि भ्रामयन्तीं तु सत्कुलैकविभीषिकां ॥६७६५॥
दुराचाररतांरण्डांदृष्ट्वाप्रायश्चित्तवर्णनम्
[[२७६५]]
रण्डां तथाविधां दृष्ट्वा दुष्टचित्तां प्रतारकाम् । प्राणायामत्रयं कृत्वा पादप्रक्षालनात्परम् ॥६७६ ॥ उपस्थाय च सप्ताश्वं उद्वयद्वयतो हरिम् । संस्मृत्य व्याहृती जप्त्वा चेदं विष्णुं सकृज्जपेत् ॥६७७॥ राजा चेत्तादृशींश्रुत्वा पृष्ट्वा वा सद्य एव वै । स्वदेशादुद्वसेन्नोवेच्छ्र यो भव्यं न विन्दति ॥६७८॥ धनवन्तमदातारं दरिद्रमतपस्विनम् ।
॥६८१॥
कण्ठे बद्ध्वा शिलां गुर्वीं सिन्धुमध्ये विनिक्षिपेत् ॥६७६॥ सतोऽपि नित्यं दुर्मार्गग्राहकस्य दुरात्मनः । प्राप्तस्यात्यन्तमित्रत्वं शिक्षा तेन ह्यभाषणम् ॥६८०॥ दासीप्राणहरो दण्डः शिरोमुण्डनमुच्यते । रहस्यधेनुबालघ्न्याः ग्राहदाह्यास्तथैव च विषप्रदास्यद रण्डोऽयं धर्मशास्त्रैकनिश्चितः । तच्चूर्णक्षुद्रपाषाणवह्निना वर्ष्यदीपनम् ॥६८२॥ महावाते प्रचलति रात्रौद्वषेण दाहिनः । ग्रामं वीथीं गृहं वापि दण्डोऽयं देवनिर्मितः ॥६८३॥ ग्रामाद्वहिः शिरश्छित्त्वा तरुशूलाधिरोहणम् । सर्वं चतुर्थवर्णादिजनो पापालयोऽनिशम् ॥६८४॥ धेनुचौर्यं वाहचौथं मेषचौयं तथाविधम् । पुनरन्यानि चौर्याणि कुर्वन्नेव तदा तदा
अवशात्सङ्गृहीतश्चेत् बहुलोकापकारकः ।
॥६८५।!
सन्ताड्य तं भ्रामयित्वा सर्वा वीथीस्समाकुलाः ॥६८६॥
[[२७६६]]
लोहितस्मृतिः
घोषयित्वा विशेषेण यद्यत्तत्तस्य सहितम् । शनैः शनैरुपायेन समादायातिकौशलात् ॥६८७॥ त्वां वयं मोचयिष्याम इत्युक्त्वा तत्कृताः पुरा । यत्र तत्र क्रियास्तास्ता ज्ञात्वा तन्मुखतः पुनः ॥६८८॥ चो (चौ) रान्तरादिदुष्टौघान् विज्ञाय तदनन्तरम् । निगलेन पुनस्सम्यक् ग्रन्थयित्वा तदा तदा ॥६८६॥ ताडयित्वा स्थापयित्वा बन्धयित्वातिनिष्ठुरम् । अखिलं तावक कृत्यं सम्यग्वदसि चेत्तदा ॥६॥ निश्चयान्मोचयिष्यामो न चेन्मुक्तिस्तु तेन हि । त्रिवारमेवं संशोध्य पश्चाल्लब्धानि तन्मुखात् ॥६६१॥ द्रव्याणि धर्मकृत्येषु योजयित्वा ततश्च तम् । करमेकं पादमेकं खण्डयित्वा विमोचयेत् ॥६६२ ॥ गजचोरं महाघोरे पल्वले गजसङ्ग्रहे । पुराकृते तादृशेऽस्मिन् कृतेऽद्यापि घने तथा ॥६६३॥ पातयित्वा खनित्वैनं प्रच्छाद्यस्तम्भमूलके । काष्ठर्निखातैः पृथुलैः हन्यादेवाविचारयन् ॥ ६६४॥ एडूकत्रोटने दक्षं तत्काले तमसि स्थिते । नैपुण्यधावनपरं ग्रहणायागतान् जनान् ॥ ६६५॥ कृतप्रहारं खड्गेन गृहीतमवशाज्जनैः । चोरं सद्यस्ताडयित्वा करौच्छित्त्वा प्रवासयेत् ॥६६६॥ यदि तेन हतः कोपि तस्मिन्काले विशेषतः ।
हिंसिताः स्युः परे क्रौर्याद्दण्डयित्वा प्रमापयेत् (प्रवासयेत्) ६६७
नानादण्ड्यकर्मसुदण्डविधानवर्णनम्
[[२७६७]]
यदि चेद् ब्राह्मणो दुष्टश्चोरस्तत्रापि हिंसकः । तस्मिन्काले विशेषेण खण्डदण्डादिभिर्जनान् ॥६६८॥ गृहीतोऽयं हतान्कृत्वा तमेनं निगलेन वै । बन्धयित्वा पीडयित्वा शोधयित्वा तदा तदा ॥६६६ ॥ संवत्सरात्परं यत्नात्कृत्वैवाक्षतमत्रणम् ।
सर्वाङ्गवपनं कृत्वा घोषयित्वा पुरे स्वके ॥७००॥
गर्दभारोहणेनाथ राष्ट्रादस्माद्विसर्जयेत् ।
सर्वेष्वपि च कार्येषु चातिक्रूरेषु केवलम् ॥७०१॥
कृतेष्वपि तथा तेन त्वक्षतो ब्राह्मणो व्रजेत् । स्त्रीणां न हिंसाविहिता चातिक्ररेषु कर्मसु ॥७०२॥ बालघ्नीनां तु रागेण परेषां स्वस्य वा पुनः । क्षुद्रशूलशिलावह्निविग्रहैकप्रदाहतिः ॥७०३॥
प्रपातनं प्रकथितं ब्राह्मणीनां तु केवलम् । केशानां लुञ्छनं कृत्वा च्छिन्नं कृत्वा यथातथम् ॥७०४॥ श्वदण्डध्वजशूलापस्मारचक्रादिभिः सदा ।
गदंभारोहणादेव देशादुच्चाटनं स्मृतम् 1100411 अजितोऽस्मीति वक्तारं जितं न्याये न शास्त्रतः । सभायां तं पराजित्य दूषयित्वा प्रवासयेत् ॥७०६॥ दुष्टं सतो दूषयन्तं स्वकार्यायान्वहं खलम् । त्यक्तकापट्यकौटिल्यान्मोहयन्तमभीक्ष्णशः ॥७०७॥ भेदयन्तं भीषयन्तं हेतुवाक्यादिभीषणैः ।
तत्सज्जनाकार मात्रं . सज्जनद्व ेषिणं तराम् ॥७०८॥
[[२७६८]]
लोहितस्मृतिः
सत्क्रियाचरणव्याजदुष्टकार्यैककारिणम् ।
कोपेयं कर्कशं क्रूरं सामान्यद्रव्यहारिणम् ॥७८६॥
ग्रामद्रोहजनद्रोहसर्वद्रोहकलोलुपम् ।
विद्याविहीनं पिशुनं पामरं पापचेतसम् ॥७१०॥ यत्नेन राजा निश्चित्य कालेन महता शनैः । जनवाक्येन महतां चर्यया भाषणे न च ॥७११॥ पूर्वोक्तान् शिक्षयेत्सम्यक् सत्पथे विनिवेशयेत् । तस्योपायांश्च वक्ष्यामि स्पष्टाय विशदाय च ॥७१२ ॥ स्वामिना स्वामिनं कार्यकाले तस्मिन्समागते । विवदन्तं समत्वेन सद्यस्सम्यक्प्रताडयेत् ॥७१३॥ अज्ञं सभायां विदुषा समत्वेनैव निर्भयम् । विवदन्तं धराधीशः सन्ताड्योद्वासयेद्बहिः ॥७१४॥ अश्रोत्रियं श्रोत्रियेण विवदन्तं सभास्वति । तूष्णीं विनैव मर्यादां दमं कुर्यात्तु हुङ्कृतेः ॥ ७१५॥ ग्रामे राष्ट्र च सर्वत्र प्राधान्येन चिरात्सितान् । महात्मनो महाभागान् दुष्टान् केचन सङ्घशः ॥७१६॥
मिलित्वा तत्क्रियाः पौर्वापर्यमर्यादया कृताः । यत्नादन्यथयन्तो वै नास्माकं सम्मतिः परा ॥७१७॥ इयमित्येव ये दुष्टा तान्सद्योनिर्दयं नृपः । एकदा भीषयेच्चेत्तु दण्डसङ्ग्रहणात्परम् ॥७१८॥नयप्राप्तराज्ये सर्वेषां सुखित्ववर्णनम्
[[२७६६]]
अनया निखिलाश्चापि सद्यश्शान्ता भवन्ति हि । अनयानामभावे तु लोकोऽयं सुखमश्नुते ॥७१६॥ लोको यदा सुखी राजा तदा सर्वान्मनोरथान् । अवशादेव लभते नात्र कार्या विचारणा ॥७२०॥ इतीदं कथितं शास्त्रं लोहितेन महात्मना । हिताय सर्वलोकानां सारमुद्धृत्य शास्त्रतः ॥ ७२१॥
श्रीलोहितस्मृतिः समाप्ता ।
[[१७४]]
॥ श्रीगणेशाय नमः ॥