॥ श्री :
- करावस्मृतिः *
धर्मसारवर्णनम्
कण्वं नत्वा महाभागं मुनयो ब्रह्मवित्तमाः । युगभेदप्रभेदेन सर्वधर्मान्सनातनान् ॥ १ ॥ पप्रच्छुर खिलज्ञप्त्यै लोकानां हितकाम्यया ।
कण्व वेदविदां श्रेष्ठ
सर्ववैदिककृत्यानां
सर्वलोकहिताय वै ॥२॥
मुख्या मुख्यगुणागुणम् ।
प्रविभज्य समासेन सुस्पष्ट कथयस्व नः ॥३॥ मुख्यं कल्पममुख्यं च गौणं काम्यमियत्तमः । एवमेतत्तथा नोचेत्साध्या साध्येचतत्परम् ॥४॥ चित्तं सद्यस्तत्रतत्र संप्रहेणानुविस्तरम् ।
सुस्पष्टं सुलभं तुल्ययोगयोग्यं तथा वद ॥५॥ इति पृष्टो ब्रह्मनिष्ठ इदं प्रोवा च तान्प्रति । पृष्ट ंभवद्भिः परमं रहस्यं स्वर्गसाधनम् ॥ ६॥ चित्तशुद्धिकरं ब्रह्म ज्ञानकारणमद्य वै ।
[[1]]
न शक्यतेऽन्यैरेतद्धिववतुं श्रोतुं च कैश्चिदु ॥ ७ ॥ अथापि वः प्रवक्ष्यामि धर्मसारं श्रुतीरितम् । मुख्यामुख्ये विभज्यैव चित्तपूर्वं द्विजोत्तमाः ॥ ८ ॥
धर्मकर्त्तव्यवर्णनम्
[[२८६१]]
क्रिया कर्ता कारयिता कारणं तत्फलं हरिः । सर्वमीश्वरमेवेति बुद्धिर्यस्य सदास्थिरा ॥६॥ स एव कृतकृत्यो हि सतु ज्ञानस्य भाजनम् । तत्कृतस्य च कार्यस्य वैगुण्यं नैव जायते ॥१०॥ कदाचिदपि केनापि नात्र कार्या विचारणा । यत्किंचिद्वा कृतं तेन पारमेश्वरतुष्टये ॥११॥ तदक्षयममोघं स्यादब्रह्मज्ञानैकसाधकम् ।
यथाशास्त्रकृतं च स्यादशास्त्रकृतमप्यलम् ॥१२॥ परमेश्वरतुष्ट्यर्थकृतं तस्मात्तथा चरेत् । तस्मादमू (णु) सर्वत्र परमेश्वरतुष्टये ॥१३॥ करिष्ये कर्मचेत्युक्त्वा सर्वकर्माण्युपक्रमेत् । परमेश्वरशब्दयेत्यकत्वान्यंशब्दमुत्तमम् ॥१४॥
कर्मादिषु प्रकुर्वन्ति तानि वैगुण्यमाप्नुयुः ।
•
सद्य एव न संदेहस्तस्मात्तं तादृशश्शिवः ॥१५॥ परमेश्वरशब्दं ये कर्मादिषुसमाहितैः ।
प्रवदेद्वदिकैः सिद्धिः ब्रह्मशब्दोऽथवा सदा ॥१६॥ श्रीशब्दपूर्वको नित्यं तावन्मात्रेण साक्रिया । सम्यक्कृता दोषशून्या सर्वलक्षणभूषिता ॥१७॥ सर्वाङ्गोपाङ्गसहिता सर्वमन्त्रकृता भवेत् । देशःकालश्च वक्तव्यः कर्मादौ प्रत्यहं द्विजैः ॥१८॥ तत्र देशाखिलानां च मेरुदक्षिणभागगः । षट्पञ्चाशत्प्रभेदेन कथितस्तं तथा वदेत् ॥१६॥
[[२८६२]]
जम्बूद्वीपं
कण्वस्मृतिः
भारतस्य वर्ष
भारतखण्डकम् ।
सर्वसाधारणाम्प्रोक्तमिदं संकल्पमात्रके ॥२०॥ यस्मिन्देशे स्थितो मर्त्यस्तं देशं स्वगृहावधि । समुच्चरेत्पैतृकेषु नान्यत्रैवं विदुर्बुधाः ॥२१॥ गण्डक्या अपि गङ्गाया नर्मदायास्तथैव च। गोदावर्याश्चकृष्णायाः कावेर्याश्चततः परम् ॥२२॥ ताम्रपर्ण्याश्चसेतोश्च मध्यभागं पठेद्धि सः । कालं पराधं प्रथमं कल्पं मन्वन्तरं युगम् ॥२३॥ तत्पादं संवत्सरं मासमृतु पक्षं तिथिं ततः । क्रमाद्वरेणसंयुक्तं समुच्चार्य च तादृशे ॥२४॥ सप्तम्यन्तेन च तिथौ करिष्यामीति कर्मणः । नामोच्चार्य वदेदेवमेतत्सङ्कल्पमुच्यते ॥२५॥ संवत्सरऋतुर्मासोयुगः पक्षस्तिथिस्तथा । त एते कालभेदाः स्युश्चन्द्रगत्यासमुद्भवाः ॥२६॥ यावत्कलाश्चन्द्रस्य प्रथमायावदीरिता । वृद्धिक्षयौयावत्तु प्रथमेत्युच्यतेबुधैः ॥२७॥ एवं सर्वेऽपि तिथयो ज्ञेयाः पञ्चदशापि वै । सुरपीतस्य चन्द्रस्य कलावृद्धिक्षयौ स्मृतौ ॥२८॥ घटिकाषष्टिसाध्या हि प्रकृत्याथापि तत्परं । अतिवृद्धिक्षयसमगतिभेदैस्तत्तत्तदा तदा ॥२६। यामार्धयामघटिकाद्वित्रिपञ्चक्षणादयः ।
"
व्यवस्थारहिताश्चस्युस्तिथ्यादीनां निशापतेः ॥३०॥
नित्यनैमित्तिककर्मणां फलनिर्णयः
तस्मात्सर्वेषु चाब्दादिकालभेदेषु चन्द्रमाः ।
[[२८६३]]
एक एव भवेत्कर्तानान्यः कश्चन चोदितः ॥३१॥ सूर्यादीनां तु कर्तृत्वमुपचारात्प्रकीर्तितम् । वस्तुतस्तच्च कर्तृत्वं याथार्थ्यात्तु विधोर्मतम् ॥३२॥ तस्मान्मानस्तु चान्द्रोऽयं सर्ववैदिककर्मसु । परिग्राह्यो भवेन्नूनं तेन मानेन वैदिकः ॥३३॥ तस्मात्सर्वाणि कर्माणिनियनैमित्तिकान्यपि । पैतृकाण्यपि दैवानि यानिकान्यखिलान्यपि ॥३४॥ क्रान्तप्रयुक्तानि विना चान्द्रेणैव समाचरेत् । क्रियमाणेऽन्यथा तस्मिन्यस्मिन्कस्मिश्च कर्मणि ॥३५॥ पक्षमासतु भेदः स्यात्तस्मात्संकल्प एव सः । अन्यथैव भवेन्नूनं तस्मात्तत्कर्म केवलम् ॥३६॥ अन्यथैवं कृतं स्याद्धि तेन तत्तु विनश्यति । कालभेदकृतं कर्म तस्मात्तन्न तथाचरेत् ॥३७॥ युगाब्दमासतु पक्षतिथयस्तत्रमुख्यतः ।
चान्द्रमाने संभवन्त्विकृप्ताश्च नियताः पुनः ॥३८॥ यएते कथिताः सद्भिरन्ये ह्यनियताः किल । क्रान्तयो निखिलालो निश्चयागमवर्जिताः ॥३६॥ तेषां मासत्वनामेदं मुख्यतस्तु न संभवेत् । मासादिमध्यान्तलक्ष्मराहित्येन तथोदितम् तदाहि तत्सम्यगेव प्रकृतेऽप्यनिरूप्यते । इन्द्राग्नी हूयते यत्र मासादिः संप्रकीर्तितः ॥४१॥
॥४०॥
[[२८६४]]
कण्वस्मृतिः
अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृसोमकौ । किंच तन्मासपर्यायशब्दानां तदनन्वयात् ॥४२॥ नराशयो मुख्यमासास्तेही मे कथिताश्शिवाः । चैत्रादयो द्वादशापि सतु भेषा दयस्तुते ॥४३॥ माससामान्यशब्दाः स्युस्ते चैतेषु भवन्ति हि । तानप्युदाहरिष्यामि स्पष्टार्थं सप्त सांप्रतम् ॥४४॥ दर्शान्तः पूर्णिमामध्यः त्वर्धः प्रतिपन्मुखः । त्रिंशत्तिथिः पक्षयुगं कृत्स्नाब्दक्षयवृद्धिकः ॥४५॥ मासवाचकशब्दाः स्युस्त इमे तत्रनोतराम् । सौरमाने प्रवर्तन्ते मासेषु किल सर्वदा ॥४६ ॥ सर्वे मेषादिशब्दास्ते राशीनामेव वाचकाः । समासानां मुख्यतो वै गुणतश्चेत्कदाचन ॥४७॥ तद्वाचकत्वकार्याय भवन्ति किल तावता । कथं ते मुख्यमासाः स्युस्तद्वयंॠतुरीरितः ॥४८॥ तत्षट्कं वत्सरः प्रोक्तस्तस्मादन्दमृतु ततः । मासं पक्षं तिथिं चापि मार्गेणानेन सन्ततम् ॥४६॥ सम्यगालोच्य संकल्प्येव्यत्यासे न भवेद्यथा । तथासमुच्चरेत्सर्वान न्यूनानतिरिक्ततः ॥५०॥ तिथ्यादीन्यदि संकल्पे व्यत्यासेनोच्चरेतदा । पुनः कुर्यात्तु तत्कर्म नष्टं तत्तेन तावता ॥५१॥ स्नानद्वये नित्यमेव संकल्पं सम्यगाचरेत् । कालादीन्प्रवदेच्चापि त्वरन् यदि तदा पुनः ॥५२॥
.
नित्यकृत्यवर्णनम्
संप्राप्तास्मदुरितक्षयद्वारेति ततः
पुनः ।
[[२८६५]]
परमेश्वरतुष्ट्यर्थं करिष्यामीति वा वदेत् ॥५३॥ करिष्ये वेति वा नित्यं नित्यकर्मसु केवलम् । अलमेतावदेवेति रहस्यं श्रुति (वेत्ति ) तन्मनः ॥ ५४॥ यत्र यत्रोच्चार्यते सः शब्दोऽयं परमेश्वरः । श्रीशव्दस्तत्र तत्र स्यादन्यथा शुभभाङ्न तु ॥५५॥ शम्भुः पुण्यशिवश्रीभिरास्व (श्व)न्तः कालकीर्तनात् । भवन्ति श्रीशुभावासास्तस्मादेतास्तदा वदेत् ॥५६॥ ( भवन्त्यस्याः शुभाः सर्वे स्तोतारएतास्ततस्त्यजेत् ) आशौची प्रोक्तशंभ्वादि शब्दानां श्रुतिमात्रतः । आशौच मध्ये यदितान् श्रीशम्भु शुभपुण्यकान् । आशौची प्रवदेन्मोहात्तस्याशौचस्य सर्वदा ॥५७॥ वृद्धिरेव भवेन्नूनं तस्मात्तानति यन्नतः । प्रसमीक्ष्य त्यजेन्नूनमन्यथानर्थ एव वै ॥ ५८ ॥ भवेदेव न सन्देहः अतस्तानत्र संत्यजेत् । नैमित्तिकेषु सर्वत्र सर्वेष्वपि शुचिर्यतन् ॥५६॥ देशं कालविशेषांस्तान्संकल्पे प्रवदेद् भृशम् । उक्तिरेव हि संकल्पः कर्मादिषु न मानसः ॥६०॥ सभाभ्यनुज्ञा च परावश्यकी दक्षिणा च सा । तिथिभेदान्मासभेदात्पक्षभेदादृतोस्तु वा ॥ ६१॥ अब्दभेदात्कर्मनष्ट प्रवदेन्नात्र संशयः ।
[[१८०]]
●
भेदो नामात्रसंकल्पे तथोक्तिरिति तत्स्मृतम् ॥६२॥ अयनस्यप्रभेदोक्तिर्नदोषाय भवेत्किल ।
यतोऽयनस्य सततं तृप्तिर्नास्ति ततस्तथा ॥६३॥
[[२८६६]]
कण्वस्मृतिः
मेषादीनामनेनैव नक्षत्रम्य च सर्वदा । प्रभेदोक्तौ न दोषोऽस्ति तेन तेषां कदाचन ॥६४ ॥ उक्तिरावश्यकी नेति संकल्पे श्रुतिराह हि । तस्मादव्दमृतु मासं पक्षं तस्य तिथिं शिवाम् ॥६५ ॥ संकल्पे ह्यत्यजन्सर्वान्प्रवदेत्सर्वकर्मसु । एतेषामन्यथोक्तौ चेत्संकल्पे तच्च कर्म वै ॥६६॥ नष्टमेव प्रभवति तेन तच पुनश्चरेत् ।
अन्यथा दोषमाप्नोति नात्रकार्या विचारणा ॥६७ ॥ श्रुतिस्मृत्युदितं कर्म विहितं वैदिकस्य यत् । तदुक्तनैव मार्गेण कर्तव्यं नान्यथा चरेत् ॥६८॥ यदि प्रमादेन कृतमन्यथा शास्त्रवर्त्मनः । तस्यतद्दोषशान्त्यर्थं सद्यश्चित्तं श्रुतीरितम् ॥६६॥ स्मृत्युक्तं वाथ सूत्रोक्तं पुराणोक्तमथापि वा । समाचरेद्विधानेन भक्तिश्रद्धापुरस्सरम् ॥७० । कृतमात्रे तु तस्मिन्वै प्रायश्चित्ते तक्षणात्ततः । तद्दोषो विलयं याति तेनायं स्यात्कृती शुचिः ॥१॥ भवेदेव न संदेहो न चेद्दोषोऽभिवर्तते । कालेन महता भूयो दृषत्सु वटबीजवत् ॥७२॥ तस्माद्दोषं समुत्पन्नं सद्यएव प्रशामयेत् । बाडवः प्रातरुत्थाय स्मरेदीश्वरमव्ययम् ॥७३॥ पादौ प्रक्षाल्य गण्डूषं कृत्वाऽऽचम्य विधानतः । सप्तर्षीनपि मैनाकं मेरुमन्दरपर्वतम् ॥७४॥
प्रातःस्मरणेकीर्त्यानांवर्णनम्
[[२८६७]]
गन्धमादनसंज्ञं च लोकालोकं गिरीश्वरम् । हिमवन्तं च कैलासं पुनरन्याञ्छुभाकरान् ॥७५॥ पतिव्रताः पार्वतीम्बा अहल्यां द्रौपदीं शिवाम् । तारां मन्दोदरीं पुण्यां नित्यकल्याणसुन्दरीम् ॥७६॥ सीतामरुन्धतीं लक्ष्मीं भारतीं परमेश्वरीम् । इन्द्राणींपुनरन्याश्च नित्यकल्याणमूर्तिकाः ॥७॥ ब्रह्मनिष्ठान्महाभागान्त्राह्मणान्संशितव्रतान् । लोकपालान्लोकनाथान्त्रह्मविष्णुमहेश्वरान् ॥७८॥ स्मृत्वा ब्रह्म ैक्यसंधानं कृत्वा ब्रह्माहमित्यपि । सर्वेभ्यश्च नमस्कुर्यान्नमो महद्भ्यइति वै वदेत् ॥७६॥ तत्र ध्यानादि ( ? ) स्मरणयोः कालादिनियमो नहि । यदावकाशो लभते तदानित्यं तु शक्यते ॥८०॥ कर्तुं किलाथ च पुनः प्रातश्चेत्तद्विशिष्यते । पादप्रक्षालनं नित्यं पश्चिमाभिमुखश्चरेत् ॥८१॥ यद्यन्यथाकृतं तत्तु तदाम्भस्तत्क्षणे परम् । मूत्रमेव भवेन्नूनं दक्षिणाभिमुखात्कृते ॥८२॥ उद्गाभिमुखे चेत्तु तज्जलं रक्तमेव हि । प्राक्तु चेत्तज्जलं मद्य तत्स्पृष्टोऽयं हि जायते ॥८३॥ पादप्रक्षालनं पश्चात्पश्चिमाभिमुखेन हि । कर्तव्यं सततं यत्नान्नान्यया हरिता कचित् ॥८४॥ सार्वकालिकधर्मोऽयं सार्ववर्णिक एव च ।
वैदिको निखिलो भूयो नूनं निश्चिनुताऽधुना ॥८५॥
[[२८६८]]
कण्वस्मृतिः
श्राद्ध
े विवाहे यज्ञे च मौञ्ज्यां स्वस्य परस्य वा । दिगियं नियता प्रोक्ता तत्कर्मण्यागते सति ॥८६॥ दक्षिणादिकृते तस्मिन्कदाचिद्यदि मोहतः । अयं मन्त्रो जपार्थः स्यात्पवमानः सुवर्जनः ॥८॥ प्राच्यादिशस्तथामन्त्रस्तदुत्तरइति श्रुतिः ।
उत्तरस्यां दिशि प्रोक्तस्तस्या अप्युत्तरो महान् ॥८८॥ श्राद्धकाले स्वयं चेत्तु तथा विप्रस्य वा वशात् । तस्यास्यचा(प्यृचे)ऽनुवाकस्य दशवारजपो भवेत् ॥८६॥ मौज्यां मोहेन चेद्भूयस्तथा कर्मण्य (न्या)(णि) दिक्षु वै । अग्ने तेजस्विन्ननुवाकं द्वादशवारकम् ॥६० अग्नेस्तु पुरतस्तिष्ठन् प्रजपेत्पाणिपीडने ।
श्रीसूक्तं पूर्वानुवाकं तथापि द्विगुणं जपेत् ॥१॥ यज्ञे तु संभारयजूंषि पत्न्यनुवाककम् । पुरुषसूक्तं वैष्णवं च ऋचं द्वादशवारकम् ॥१२॥ प्रजपेदेव तस्मात्तु पादप्रक्षालनं तदा । पश्चिमाभिमुखेनैव कर्तव्यं नान्यथा मतम् ॥३॥ मुखशब्दमकुर्वन्वै नित्यं गण्डूपमाचरेत् । सर्वतो मुखहस्ताभ्यां शुद्धाभ्यां प्राङ्मुखोऽथवा ॥६४॥ उदङ्मुखो यथेच्छं वा सशुद्धकरतस्तदा ।
.
तथा शुद्धाभिरद्भिर्वा विपद्यपि न चाचरेत् ॥६५॥ यदि गण्डूषकाले तु मुखाच्छन्दः प्रजायते ।
•
वाग्गतं तज्जलं तस्य श्वमूत्रसदृशं भवेत् ॥६६॥२८६६
पाने भक्षणेच शब्देकृतेप्रायश्चित्तवर्णनम्
तद्दोषपरिहाराय गायत्रीं त्रिशतं जपेत् । एवमाचमने प्रोक्तं जलपाने च भोजने ॥१७॥ भक्षणे चापि भक्ष्याणां खाद्यानामपि खादने । भोज्यानां भोजने चापि तथा वै लेाचोष्ययोः ॥८॥ अशब्दं सर्वतः कुवैन् तत्तत्कर्म समाचरेत् । यदि शब्द तथा कुर्वन् सद्यो निरयमृच्छति ॥६६॥ तद्दोषपरिहाराय पूर्वचित्तं समाचरेत् । विशेषतस्तक्रदृद्धिपयोदधिघृतादिषु ॥१००॥ यदि शब्दः समुत्पन्नः पाने वा भक्षणे यदि । महाननर्थो भवेत्सद्यः तद्द्द्रव्यं मद्यमेव हि ॥१०१ ॥ भवेदेव न सन्देहस्तस्य चित्तं ततस्त्विदम् । पक्षं तु यावकाहारो निराहारो दिनत्रयम् ॥१०२॥ अष्टानां वा चतुणं वा ब्राह्मणानां च भोजनम् । कुर्यादेव न संदेहोऽथवा गायत्रमाचरेत् ॥ १०३ ॥ त्रिसहस्रजपं मासं संहितात्रयमेव वा । चित्तं तत्कथितं तस्मान्न तत्कुर्यात्तथा द्विजः ॥ १०४ ॥ नित्यं मूत्रपुरीषादिकर्मस्वेषु प्रचोदितम् ।
यत्र यत्र ह्याचमनं द्वयं (तत्र) तत्र परो विधिः ॥ १०५ ॥ अयमेव समाख्यातः प्रथमाचमने खलु ।
मन्त्रो मानसिकः कार्यः कदाचिन्न तु वाच (चि) कः ॥१०६ ॥ द्वितीयाचमने सम्यङ्मन्त्रोच्चारस्तु वाचिकः ।
न मानसः कदा कार्यः प्रथमे तु तथा चरेत् ॥१०७॥
[[२८७०]]
कण्व स्मृतिः
तद्दोषाय भवेदेव तथा तन्न समाचरेत् । तद्दोषपरिहाराय तान्मन्त्रांस्तु ततः परम् ॥ १०८॥ पुण्डरीकाक्षदशकं जपपूर्वशताष्टकम् ।
प्रजपेदन्यथा दोपः स तु शान्तो भवेन्न तु ॥१०६॥ कदाचित्तु जलाभावे दक्षिणं श्रवणं स्पृशेत् । त्रिवारं तत्र पूर्वं वै तूष्णीमेव ततः परम् ॥११०॥ ओंकारस्तु समुच्चार्यो नचेत्कृष्णस्मृतिः परा । शिवस्मृतिर्वा परमा कर्तव्या स्यात्सभक्तितः ॥ १११ ॥ विभक्त्यैव प्रथमया वचनं तत्स्मृतिर्भवेत् । प्रायश्चित्तेषु सर्वत्र नामस्मृतिविधानके ॥ ११२॥ उक्तिरेव समाख्याता न तु मानसईरितः । मन्त्राणामप्येवमेव सर्वत्र विहितो हि वै ॥११३॥ सर्वदाचमनं तद्धि नामकं यत्प्रशस्यते । मान्त्रिकं तु सदा तु शक्यते स तु तत्किमु ॥११४॥ चेत्तत्तु च प्रवक्ष्यामि यदि शुद्धस्तवापरम् । कर्तुं हि मन्त्राचमनं शक्यते नान्यथा ततः ॥११५॥ तस्मात्सर्वेषु कालेषु सर्वदेशेषु चाखिलैः । सुलभाचमनं विद्धि नामाचमनमेव वै ॥११६॥
कर्तव्यत्वेन · सौलभ्यादङ्गीकृतमिदं
परम् ।
माषमग्नजलस्यैव पानं तत्र परं मतम् ॥११७॥
न्यूनाधिकाभ्यां तच्चेत्तु महत्पापं समश्नुते ।
तद्दोषपरिहाराय सन्ध्यावन्दनकर्मणि ॥११८॥
गृहस्थानां मृत्तिकाशौचविधानम् त्रिपदा नामगायत्री जलप्रक्षेपणं बुधैः ।
।
[[२८७१]]
विहितत्वेन कथितं तेन तच्छाम्यतेऽखिलम् ॥ ११६॥ प्रायश्चित्तोक्तमन्त्राणां सर्वेषां सर्वदा परम् । किं कार्यमपरिज्ञाने इदं विष्णुश्च व्याहृतिः ॥१२०॥ कर्तव्यत्वेन विहिते गायत्री च तथा तदा । नैतेभ्यस्तारकाः सन्ति तस्मात्तान्प्रवदेद् बुधः ॥१२१॥ नैर्ऋत्यां निषु निक्षेपे कुर्यान्मूत्रपुरीषके । जलपात्रेण मृत्पात्रं शुचौ निक्षिप्य दूरतः ॥१२२॥ उदगह्नि तथारात्रौ एवं वै दक्षिणामुखः । यद्य ेतद्व्युत्क्रमात्कुर्यात्सूयश्चेति महामनुम् ॥ १२३॥ कृत्वा शौचं विधानेन ततस्तु प्रजपेत्तदा । अग्निश्चेति च मन्त्रं च अबद्धं मनुरेव च ॥१२४॥ चतुर्विंशति वाचं वै शतमष्टोत्तरं शतम् । गायत्रीमपि तापेन ततश्शुद्धो भवेदसौ ॥१२५॥ मेहने चैकवारं स्याद्गुदे पञ्च तथैव हि । पादयोः करयोश्चापि पृथक्त्वेन समाचरेत् ॥१२६॥ एव हि मृत्तिकाशौचं गृहस्थानां विधीयते । त्रिगुणं स्याद्वनस्थानां यतीनां स्याच्चतुर्गुणम् ॥१२७॥ वर्णी गृही वनस्थो वा न कुर्यान्मृत्तिकाक्रियाः । पयस्तुर्याशपर्याप्त तस्य चित्तमिदं स्मृतम् ॥१२८॥ मृत्तिकेहनमन्त्रादि कृत्वा तत्परमां गतिम् ।
पर्यन्तं हि त्रिवारं स्याज्जपं कृत्वा शुचिः स्वयम् ॥१२६॥
[[२८७२]]
कण्व स्मृतिः
एककालस्य चित्तं स्यादेवं तत्कालसंख्यया । सम्यक्समीक्ष्य तत्कुर्यादन्यथा भ्रष्ट एव हि ॥ १३० ॥ भवेदेव न संदेहस्तदृध्वं वेत्तथाविधैः । पुनरसंस्कारत शुद्रो भविष्यति न चान्यथा ॥ १३१॥ यदि प्रक्षालनं त्यक्त्वा मेहनस्य गुदस्य वा । चरेद्विप्रो व्रात्यएव न संभाष्योऽखिलैरपि ॥ १३२॥ मोहना (तू) क्षालनान्मासं मात्राद्यदिविपर्ययात् । भ्रष्टो भवेत्ततो भूयः पुनस्संस्कारतश्शुचिः ॥ १३३॥ यथार्थकथनान्नित्यं चित्ते कर्ता भवेन्न तु । बुद्धिपूर्वगुदप्रक्षालनशून्योऽभक्षणे ॥१३४॥
.
जाते. तु सद्यः पतितस्तद्यथार्थोक्तितः परम् । आपण्मासाच्चित्तकर्मकर्तुं शक्यं ततः परम् ॥१३५॥ पतितो नात्र सन्देहश्चित्तं तस्य च चोदितम् । पुनर्गर्भविधानेन पुनः संस्कारतस्तराम् ॥१३६॥ शुद्धिः प्रकथिता सद्भिस्तप्तस्यैव न चान्यथा । कृत्वा तु तादृशं कर्म न कृतं चेति वक्ष्यति ॥१३७॥ संत्याज्य एव सततं न योग्यो यस्य कस्यचित् । चरणौ च करौ सम्यक् प्रक्षाल्यं च ततः परम् ॥१३८॥ नाचामेद्यदि तूष्णीकं भवेन्नात्र संशयः । ..
पुनः प्रक्षाल्याचामेच्च तौ पापस्य विशुद्धये ॥१३६॥ अनाचम्यैव यो मोहाद्व दवणं समुचरेत् ।
·
हत्यामवाप्नोति तत्पापविनिवृत्तये ॥१४०॥
नित्यकर्मणां व्यतिक्रमे फलाभाववर्णनम्
[[२८७३]]
पाहि त्रयोदशाख्यमनुवाकं शतं जपेत् । लौकिकोक्तरिदं विष्णुं प्रजपेद्दशवारकम् ॥१४२॥ कदाचिन्मोहतो विप्रः अकृत्वा दन्तधावनम् । स्नायात्कृत्वा दन्तशुद्धिं पुनः स्नायाद्यथाविधि ॥ १४२ ॥ तृणपर्णैस्सदा कुर्यादमामेकादशीं विना । तयोरपि च कुर्वीत जम्बूप्लक्षाम्लपर्णकैः ॥ १४३॥ अष्टकासु मृताहेषु अमामनुयुगादिषु ।
महालयेषु पुण्येषु संक्रान्तिष्वयनद्वये ॥ १४४॥ व्यतीपाते गजच्छाया ग्रहणादिषु सूतके । पुनरन्यासु तिथिषु स्वजन्मत्रितये तथा ॥ १४५॥ दन्तधावनतः पापं महदाप्नोति केवलम् ।
तद्दोषपरिहाराय
अग्नेर्मन्वानुवाककम् ॥१४६॥
स्नात्वा संकल्प्य विधिना प्रजपेत्पश्चवारकम् ।
पवित्रपाणिराचान्त उपविश्यैव नान्यथा ॥१४७॥
.
तिष्ठन्धावन्प्रजल्पन्वा जपेद्यदि निरर्थकम् । भवेदेव न सन्देहस्तस्मात्तन्न समाचरेत् ॥१४८॥ यदि संध्यां प्रकुर्वीत चाकृत्वा दन्तधावनं । व्यर्था भवेत्तु सा संध्या तस्मात्तद्भूय एव वै ॥ १४६॥ दन्तधावनतः पश्चात्कुर्वीतैव यथाविधि ।
अपां द्वादशगण्डूरैर्मुखशुद्धिर्भविष्यति ॥ १५०॥ … तथैव पैतृके कुर्यात्तद्भिन्नेषु तथा न तु नित्यं स्नानं द्विजः कुर्यात्प्रातरुत्थाय धर्मतः ॥ १५१ ॥
[[२८७४]]
कण्वस्मृतिः
देवर्षिपितृ तृप्त्यर्थं अन्यथा तेऽखिलाः परम् । शपन्त्येतं जीवनाशावशतः कोपिता हि ते ॥ १५२॥ स्नातुं प्रयान्तं विबुधाः पितरो मुनयोऽखिलाः । दृष्ट्वा पयोऽर्थिनः सन्त अनुधावन्ति पृष्ठतः ॥१५३॥ यदि तेषां तज्जलं हि दत्वैव किल मौढ्यतः । सर्वस्वाङ्गसमुत्सृष्टमन्यत्र किल गच्छति ॥१५४॥ तूष्णीं तिष्ठन्ति वा मूढा भवेत्तच्छापभाजनम् । तस्मात्स्नात्वा प्रयत्नेन देवादीनां विधानतः ॥ १५५ ॥ देयमेव भवेन्नूनं सर्वस्वाङ्गविनिर्गतम् । स्नानाङ्गतर्पणं चापि नित्यं कार्यं विधानतः ॥१५६॥ अकृते तर्पणे तस्मिन्वृथैव प्रभवेत्तु तत् ।
कुर्वीत तर्पणं सर्वं स्नानेषु फिल मार्जनम् ॥ १५७॥ संकल्पं तद्द्द्वयंचापि नचेत्स्नानं तु तद्भवेत् । यद्यशक्तो भवेत्स्नातुं सलिलेषु विधानतः ॥ १५८॥ नदीतटाककूपेषु स्नानमुष्णेन वा चरेत् ।
कण्ठस्नानं कटिस्नानं पादस्नानं तु वा चरेत् ॥१५६॥ तत्रापि यद्यशक्तश्चेत्सर्वमुष्णेन वाऽऽचरेत् । अथवा कापिलस्नानं प्रोक्षणस्नानमेव वा ॥१६०॥ स्नातस्नानं वा कुर्वीत शुद्धवस्त्राणि वा धरेत् (धारयेत्) । कायानुगुणतस्सर्वं कार्यमेव न चान्यथा ॥ १६१॥ प्रातस्संक्षेपतः स्नानं होमाथं तु विधीयते । मध्याह्न`तु यथाशास्त्रं शनैस्सवं समाचरेत् ॥१६२॥
वायव्यास्नानस्यश्रेष्ठयत्ववर्णनम्
जलस्नानं सर्वथा चेदशक्तः कतुमेव वै ।
कायानुगुणतो यद्वा स्नानमेकं समाचरेत् ॥ १६३॥ बहुप्रोक्तपु सर्वेषु दिव्यस्नानं विशेषतः ।
दुर्लभं सर्वमेतद्धि गङ्गास्नानसमं हि तत् ॥ १६४ ॥ न संकल्पादि तत्र स्यात्तर्पणं प्राणसंयमः । तथैवाचमनं वापि वायव्येऽपि तथैव च ॥१६५॥ । तत्तु प्रयत्नसाध्यं स्यात्सायं प्रातस्तथान्तरे । न वायव्यसमं स्नानं त्रिषु लोकेषु विद्यते ॥१६६॥ तद्गङ्गास्नानतुलितं पञ्चपातकनाशनम् । उपपातकसंदोहनिर्मूलकरणक्षमम् ॥१६७॥ ततस्सन्ध्यां प्रकुर्वीत शक्तः स्नानप्रपूर्विकाम् । नक्षत्रसहितां पूर्वा पश्चिमां सूर्यसंयुताम् ॥ १६८ ॥ असावादित्यमन्त्रेण ध्यानं तत्क्रियतेसदा । ब्राह्मणस्यैव संध्या स्यात्संघावह्नक्षपामुखात् ॥१६६॥ सात्वर्घ्यपूर्वकर्ता स्याद्गायत्र्यार्ध्य त्रयं चरेत् । सम्यगुच्चार्य तां वर्णस्वरतः क्रमतस्तथा ॥ १७०॥ ब्राह्मण्यमूलं नैव स्यान्नान्यदस्ति जगत्त्रये । तन्मूलं तु ततस्साहि संध्यानां त्रितयेऽनिशम् ॥ १७२॥ जप्यात्यन्तैकनियमशतैर्यन्त्रशताधिकात् ।
एतन्मन्त्रजपेनैव ब्राह्मणानां महात्मनाम् ॥१७२॥ सर्वलोकैकवन्द्यत्वं सर्वाचार्यत्वमेवच ।
वश्याकर्षणविद्व षस्तम्भनोच्चाटनादिकम् ॥१७३॥
[[२८७५]]
[[२८७६]]
कण्वस्मृतिः
निग्रहानुग्रहौ सर्वमहिमा सर्वपूज्यता ।
एतन्मूलानि सर्वाणि तस्मादेतं मनुं परम् ॥१७४॥ यथाशास्त्रमधीत्यैव स्वरवर्णक्रमान्वितम् । सम्यगेव जपेद्विद्वान् त्रिसंध्यासु यथोक्तितः ॥१७५॥ अस्यास्तु ब्रह्मविद्यायाः स्वरवर्णादिशून्यतः । संध्यात्रयीकरणतो ब्राह्मण्यं दूषितंतराम् ॥ १७६॥ दोषयुक्तं च भवति वर्णोच्चारणतः परम् । सर्वस्वरादिशून्ये न व्यत्यासः स्वरतस्तथा ॥१७७॥ तद्द्ब्राह्मण्यं तादृगेव भवेदेव न संशयः । एतन्मत्रं समीचीनं प्रोक्त कर्मणि वैकृते ॥१७८॥ अर्थाः सर्वेऽपि शुध्यन्ति तद्ब्राह्मण्यं च पुष्कलम् । अतिशुद्ध महच्छ्रीमत् प्रभवेद्वीर्यवत्तरम् ॥१७६॥ चतुर्विंशतिवर्णाना मुक्तिमात्रेण केवलम् । आभासमात्रब्राह्मण्यं तत्र तिष्ठति केवलम् ॥१८०॥ तस्मात्सम्यक्स्वरयुतं तन्मन्त्रं वेदचोदितम् । विप्रत्वसिद्धयेऽधीत्य संध्याकर्मणि सिद्धये ॥१८२॥ ब्रह्मध्यानार्घ्यमात्रो यः पुरापद्मभुवाखिलाः । श्रुतयो विशदत्वेन ब्राह्मणानां प्रदर्शिताः ॥ १८२॥ तस्माद् वेदान्विधानेन सम्यग्गुरुमुखात्परम् । अधीत्याग्रं तदन्तस्थां गायत्रीं शिरसा सह ॥ १८३ ॥ नित्यमावर्तयेद्भक्त्या त्रिसंध्यासु महाशुचिः ।
भूत्वा स्नात्वा स्वरैस्तत्तद्वर्णकैरतिशोभनैः ॥१८४॥
गायत्रीमन्त्रजपेतदर्थभावनायाः श्रेष्ठफलदायकत्वम् २८७७
प्रजपेद् ब्राह्मणो धीमांस्तदर्थस्यानुचिन्तया । योनः प्रचोदयान्नित्यं धियः कर्मसु सत्सु वै ॥ १८५ ॥ वरेण्यं सवितुश्चापि देवस्य परमात्मनः ।
गायत्र्याख्यं च तद्भर्गस्तेजो धीमहि चिन्तया ॥ १८६ ॥ इत्येवं प्रजपेद्भक्त्या ब्राह्मणो ब्रह्मवित्तमः ।
एव तं तदर्थानुस्मरणपूर्वकं प्रजपेत्सदा ॥ १८७৷৷ जपं करोति यस्सोऽयं स उ ब्रह्मविदांवरः । जीवन्मुक्तोऽपि सोऽयं स्याद् दुर्घटोऽयं महात्मनाम् ॥१८८॥ योगिनामपि दिव्यानां तदर्थस्य महाजपः । तल्लाभो यस्य कस्य स्यात्स सर्वेषां भवेत्किल ॥ १८६ ॥ तथंवार्थानुसंधानं यस्य स्यात्स तु चोदितम् । सत्यं ज्ञानमनन्तं वै सच्चिदानन्दलक्षणम् ॥१६०॥ परं ब्रह्म परं धाम परं ध्येयं परात्परम् । जगद्धेतुः श्रुतिप्रोक्तं जगज्जन्मादिकारणम् ॥१६१ ॥ न सन्देहोऽत्र कथितः संदेही पापभाग्भवेत् । तादृगर्थानुसंधानं कर्ता यस्तस्य केवलम् ॥१२॥ अपेक्ष्यं नास्ति किमपि लोकेऽस्मिन्सचराचरे । स एव कृतकृत्यो वै स एव ब्रह्मवित्तमः ॥ १६३॥ परं त्वत्र प्रवक्ष्यामि केवलं वस्तुतो यथा । बहवो ब्राह्मणा भूमौ मन्त्रमात्रं सलक्षणम् ॥१६४॥ समुच्चरन्तः परमं भक्त्या संध्यामुपासते । तावतैवात्रजगती चोदयास्तमयौ स्मृतौ ॥ १६५॥
[[२८७८]]
कण्वस्मृतिः
एतावती च तद्दृष्टिर्भावाभावौ शिवाशिवौ । सुखदुःखे जन्ममृती जगत्कार्यप्रवर्तते ॥ १६६ ॥ जगत्कृत्यं जगत्कर्ता चकमे विप्रसंध्यया । येनके नचिदन्येन गुह्यमेतन्मयोदितम् ॥ १६७॥ सर्वेषामपि लोकानां सर्वेषां नाकिनामपि । ब्रह्मविष्णुमहेशानां मखानां बहुना किमु ॥ १६८॥ सर्वकृत्यं संध्ययैव सम्यगेव सुसाधितम् । ब्राह्मणानां प्रसादेन नचेत्किमपि नास्ति वै ॥१६६॥ संध्याभावे सर्वलोकविनाशः सद्य
एव वै। भवेदेव न सन्देहो ब्राह्मणास्तादृशा हि वै ॥२००॥ सर्वत्रापि च वर्तन्ते कलौ चैतत्तु केवलम् । तिष्ठेतिरोहितत्वेन देवाज्ञातादृशा परो ॥२०१॥ ब्राह्मणाः सर्वजगतां निदानं परमं परम् । तद्विना चेन्नकिमपि तेनैवैतत्प्रवर्तते ॥ २८२॥ तत्कारणं हि गायत्री वेदमाता जगन्मयी । तयैतत्सृज्यते सर्वं तयैतत्पाल्यते परम् ॥२०३॥ संहोयते ( ? । तयैवेति सैषा किल जगत्प्रसूः । स्त्रीलिङ्ग ेन श्रुतौ नित्यं लीलया व्यवही (?) यते ॥२०४॥ लिङ्गानां वचनानां च हृदयं तत्र ब्रह्मणि । सर्वलिङ्गः सर्वशब्दैर्वचनैरखिलैरपि ॥२०५॥ प्रतिपाद्यं परं ब्रह्म नान्यत्किमपि विद्यते । स्त्रीलिङ्ग व्यवहारोऽयं यथा भवति तत्तथा ॥ २०६॥
Iगायत्रीमन्त्रवैशिष्ट्यवर्णनम्
देवता हृदयं प्रोक्तं पुलिङ्गो देवईरितः । नपुंसके ब्रह्मविद्या तदेतदखिलंस्मृतम् ॥२०७॥৷ गायत्र्यास्तु छन्दो वै गायत्र्येव न चेतरत् । विश्वामित्रमृषिः प्रोतो देवता सविता स्मृता ॥ २०८॥ मुखमग्निः समाख्यातरिशखा ब्रह्म प्रकीर्तिता ।
नारायणस्तु हृदयं शिखारुद्रः समीरितः ॥ २०६॥ महामन्त्रस्य तस्यान्यवर्णग्रहणमात्रतः ।
ब्राह्मण्यं मुख्यतः प्रोक्तं प्रथमं तु ततः पुनः ॥ २१०॥ स्वरवर्णसमीचीनसमुच्चारणतत्परम् ।
पौष्कल्यं तस्य संप्रोक्तं राहित्यात्सुस्वरस्य तु ॥ २११॥ तदुर्ब्राह्मण्यमेवस्याल्लुवर्णैर सुमध्यमे ।
अब्राह्मण्यं प्रकथितं तयोर्ब्राह्मण्ययोस्ततः ॥ २१२ ॥ परिहाराय यत्नेन कालेन महता शनैः । वेदाभ्यासमुखेनैव गायत्रीं गुरुवाक्यतः ॥२२३॥ समीचीनां तु कृत्वेमां प्रजपेन्नित्यमञ्जसा । संशोधनं तु गायत्र्या वेदाभ्यासः परो भवेत् ॥ २१४॥ वेदाभ्यासेन वाग्दोषाः दुष्टवर्णस्वरादिकाः । शनैश्शनैर्विनश्यन्ति वज्रवाचो भवन्ति च ॥२१५॥ एतदर्थं पुरा ब्रह्मा तन्माध्याह्निककर्मणि । हंसमन्त्रेणार्घ्यमेकं गायत्र्याकल्पयत्प्रभुः ॥२१६॥ तस्मिन्मन्त्रे समीचीनस्वाधीने सति तत्परम् । सम्यग्वक्तुं हि शक्यन्ते मन्त्राः सर्वत्र कर्मणि ॥२.१७॥
[[२८७६]]
[[२८८०]]
कण्वस्मृतिः
तस्मादध्ययनं नित्यं गायत्र्याः किल केवलम् । समीचीनोच्चारणैकहेतवे तस्य नान्यथा ॥२१८॥ तस्मादेवंविधिः ख्यातो गायत्रीग्रहणात्परम् । वेदैकाध्ययनं नित्यं तत्संस्कारैकहेतवे ॥ २१६ ॥ एवं सति तु यो मूढो गायत्रीग्रहणात्परम् । अनधीत्यैव तं वेदमसंशोध्यैव तामपि ॥ २२० ॥ गायत्रीं वर्णसंयुक्तामुच्चरेद्व ेदवर्जनात् । श्रममन्यत्रकुरुते शास्त्रजाले वृथाश्रमी ॥२२१॥ वेदारतस्तुयोलोके सोऽस्वाधीनैकवाग्भवेत् । देवी स्वाधीनंवाकप्रोक्तरतेन मन्त्रादिकं सदा ॥२२२॥ सम्यगुच्चारणाच्चैव प्रभवेत्किलसन्ततम् । सर्वदक्षस्तु वेदीस्यात्सर्वसिद्धिश्च तेन सः ॥२२३॥ प्रभवेदपि ते नैव इदं नित्यं समभ्यसेत् । वेदान्वेदौ नचेद्वेदं शाखामात्रं तु केवलम् ॥२२४॥ अध्येतव्यं प्रयत्नेन नचेदब्राह्मणः स्मृतः । दुर्ब्राह्मणो वा नो चेत्तु ब्राह्मणत्र ुर्न संशयः ॥ २२५॥ अथवा ब्रह्मबन्धुःस्यात्तएते ब्रह्मयोनिजाः । स्वकृत्यतस्तुचत्वारस्तेषां लक्षणमुच्यते ॥२२६॥ ब्रह्मवीर्यसमुत्पन्नः सम्यङ्मन्त्रैर्न संस्कृतः ।
अश्रोत्रियैकता तेन कर्माभासैकसंस्कृतः ॥२२७॥
अब्राह्मणइतिप्रोक्तो मन्त्राभासजपादिकः ।
રરા
गर्भाधानादिसंस्कार चौलोपनयनैर्युतः ॥२२८॥
सम्यग्गायत्री जपफलवर्णनम्
[[२८८१]]
[[1]]
वेदशून्येन तत्पित्रा सुधीर्भक्त्या प्रपूजितैः । सदसत्कृतसंस्कारोदुर्ब्राह्मणइति स्मृतः ॥२२६॥ मन्त्रशून्यकृतैः सर्वैः संस्कारैर्नाममात्रकैः । कृतसंज्ञैः प्रतिष्ठायै विप्रस्योङ्कारपूर्वतः ॥२३०॥ संस्कृतः स्यादत्राह्मणत्र स्तूष्णी नामधरस्तुसः । गृहीतमात्रं गायत्रीवर्णैकस्वरशून्यतः ॥२३१॥
अकालकृतसंध्याख्यकृत्यं
…
पण्डितमान्यपि ।
किंवेदेनेति यत्किंचिद्य (तो) वा निखिलोऽपिवा ॥२३२॥ यत्किंचिन्निखिलानांस्याद्यावत्कस्यापि नास्ति हि । इत्येवं प्रलपन्दुष्टो दुष्टाभिरतियुक्तिभिः दूषयन्श्रोत्रियान्विप्राञ्छास्त्रमात्रकृतश्रमः ।
॥२३३॥
ब्रह्मबन्धुरितिख्यातो ब्रह्मविद्भिस्ततस्सदा ॥२३४॥ यस्माद्व ेदाध्ययनतो गायत्रीं वेदमातरम् । उपनीतैः परं यत्नात्परैर्द्वादशवत्सरैः ॥२३५॥ कृत्वा शुभां समीचीनां शास्त्रस्वरसमन्विताम् । संध्यात्रये च प्रजपेत्तादृशेनजपेन वै ॥२३६॥ गायत्री सिद्धिदा यत्नाच्छनैर्भवति नान्यथा । शुद्धस्वरयुता देवी हंसमन्त्रसमन्विता ॥२३७॥ सम्यग्जप्त्वा (ता) ब्रह्मविद्या सायुज्यफलदायिनी । सम्यगुच्चारणं पूर्वमृषिदेवादिचिन्तनम् ॥२३८॥ पश्चान्न्यासस्तदर्थस्यानुसंधानं
ततः पुनः ।
उत्तरोत्तरतो मुख्यः सर्वमर्थानुचिन्तनम् ॥२३६॥
[[१८१]]
[[२८८२]]
कण्व स्मृतिः
सिध्यत्येव न सन्देहश्चिन्तनं तच्च वै क्रमान् । अनेकजन्मकृतिनो भविष्यन्ति न चान्यथा ॥२४०॥ असावादित्यो ब्रह्म ेति ध्यानरूपकृतेन्तराम् । संध्यायै समनुष्ठानयोग्यतायै प्रचोदिताः ॥ २४१॥ आपोहिष्टात्रयो मन्त्राः यं जुष्ट ेन नव स्मृताः । प्रोक्षणे विनियुक्ताः स्युर्दधिक्राव्णां च संगताः ॥ २४२॥ हिरण्यादिचतस्रश्च द्विपदा च शिवा तथा । स्नानमाचमनं चापि प्राणायामस्ततः पुनः ॥२४३॥ सङ्कल्पो निखिलं चैतत् संध्यानुष्ठानहेतवे । तत्पूजारूपमेव स्यादर्घ्यदानं समन्त्रकम् ॥२४४॥ रक्षोनिरसनादन्यदर्चनं तस्य किं स्मृतम् । तेनार्चयित्वा तां ध्यायेद्ब्रह्मत्वेनाथ तत्स्वयम् ॥२४५॥ अस्मीति चैवं संध्या हि संध्ययोस्तांतु समाचरेत् । उभयोः कालयोर्मध्ये द्विवारं ब्राह्मणः सदा ॥ २४६ ॥ मध्यसंध्या च कर्तव्या मध्याह्न तद्वदेव हि । त्रिवारमन्वहं प्रोक्तं संध्याकर्म द्विजन्मनः ॥२४७॥ यावज्जीवं भावना सा शक्तिः कतु न चेदपि । अर्घ्यदानात्परं सम्यगसावादित्यमन्त्रकम् ॥२४८॥ वदेद्वाचा केवलं वा तावन्मात्रेण केवलम् । ब्राह्मण्यं सुस्थिरं तिष्ठ ेत्ततः कुर्यात्प्रदक्षिणम् ॥२४६॥ ब्राह्मण्यं गोपनीयं हि सर्वदेशेषु सर्वदा । मन्त्रोक्तिमात्रतो नित्यं तदर्थस्यानुचिन्तनम् ॥२५०॥
सन्ध्या गायत्री वेदाध्ययनस्याफललक्षणम्
योगिनामप्यशक्यं स्यात्तत्कर्ता यश्च कश्चन ।
[[२८८३]]
स महात्मा महाभागो ब्रह्मनिष्टो महामनाः ॥ २५१॥ जीवन्मुक्तश्च ब्रह्मैव नात्रकार्या विचारणा । संध्यामूलमिदं ब्राह्म स्नानमूलं तथैव च ॥ २५२॥ शौचमूलं मन्त्रमूलं जपमूलं क्रियापरम् । वेदशास्त्रोक्तमूलं च सवं गायत्रिकं स्मृतं ॥२५३॥ ध्यानप्रदक्षिणापश्चादोमित्येकाक्षरादिकम् । सम्यगुच्चार्य संयम्य नासिकाग्रहपूर्वकम् ॥२५४॥ दशप्रणवगायत्रीं रेचकैः पूरकैस्तराम् । कुंभकैस्तद्विधानेन प्राणायामं जपंश्चरेत् ॥२५५॥ कृत्वा त्रिवारं तत्पश्चात्कृत्वा संकल्पमप्यसौ । सहस्रवारं मुख्यं हि शतवारं हि मध्यमम् ॥ २५६ ॥ अधमं दशवारं स्यात्करिष्यैवमिति स्म वै । जपं कुर्याद्विधानेन मन्त्रं तत्तत्स्वरान्वितम् ॥२५७॥ तत्तद्व ेदी जपेद्भक्त्या तद्व ेदस्वरभिन्नतः । वेदभ्रष्टो भवेत्सद्यस्तद्दोषशमनाय वै ॥२५८॥ तदवान्तरभेदयज्ञस्तत्क्रमेणैव तं मनुम् ।
त्रिमुहूतं जपेद्भक्त्या तद्दोषात्तु प्रमुच्यते ॥ २५६॥ तज्ज्ञानमात्रे विकलो ब्रह्मबंध्वादिनामकः ।
परितप्तस्सदा विद्वान् नित्यं परिचरन्भिया ॥ २६०॥ उपकुर्वन्परंकुर्वन्प्रदक्षिणनमस्क्रियाः ।
दृष्टमात्राद्ब्रह्मनिष्ठान् श्रोत्रियान्वेदपारणा (गा ) न् ॥२६१॥
[[२८८४]]
कण्वस्मृतिः
समुद्दिश्य प्रयत्नेन तत्पादुसलिलं तदा । पिबन्धरंश्च शिरसा पक्षे पक्षे यतश्शुचिः ॥ २६२॥ ब्रह्मकूर्चविधानेन तत् पिबन्होमपूर्वकम् ।
कालं नयेच्छुचिः स्वस्य तादृशस्यास्य भेषजं ॥ २६३॥ समीचीनमहासंध्यारहितस्य दुरात्मनः ।
नामानि तारकाणि स्युः प्रजप्तानि जगत्पतेः ॥२६४॥ वेदाक्षरैकशून्यस्य पुराणान्तर्गताः पराः । श्लोकाः केचन संप्रोक्ताः स्नानसंध्यादिकर्मसु ॥२६॥ न वैदिकः पुराणोक्तर्मन्त्रैः कुर्यात्कथंचन । किंचित्कर्मापि तस्मात्तैर्वैदिकैरेव वाचरेत ॥ २६६ ॥ सहस्रपरमां देवीं शतमध्यां दशापराम् । संध्यां नोपासते ये तु कथं ते ब्राह्मणाः स्मृताः ॥२६७॥ कलौ तु केवलं तिष्ठद्गायत्रीवर्णमात्रतः । तदेकदेशतश्चापि क्रियानुकरणादपि ॥ २६८॥ ब्राह्मण्यं तच्च पूज्यं स्यान्न विचायं प्रयत्नतः । न निषेध्यं विशेषेण गोपनीयतमं भवेत् ॥ २६६ ॥ संध्ययोः स्नानतो मौंज्याः बाह्य कक्रियया परम् । मोदनीयं हि विप्रत्वं न विचार्यतमं भवेत् ॥२७०॥ मूकस्यापि च विप्रत्वमस्तीत्येवेति केचन । प्रोचुर्महर्षयो मौंज्यां गायत्रीजलपानतः ॥ २७१॥ जले संलिख्य गायत्र्या मन्त्रैः कृत्वाखिलाः क्रियाः । प्राशयेत्तं विधानेन मूकविप्रत्वसिद्धये ॥२७२॥
मूकस्यविप्रत्वाधिकारित्वेविचारवर्णनम्
[[२८८५]]
तज्जातानां परं तत्तु विप्रत्वं दुर्लभं तराम् । ब्रह्मचित्तैकसंभूत्या पञ्चपूर्वात्परतराम् ॥३७३। तावत्क्रियाभिः सम्यऽवै कृताभिस्तत्कुलेऽपि वै । विप्रत्वं प्रभवेद् भूयश्चास्वलद्विप्रकृत्यतः ॥ २७४॥ यदि मध्ये तत्कुलीनाः प्रास्खलन्वै स्वकृत्यतः । नष्टा एव भवेयुर्वै तावत्तत्र समुद्भवाः ॥ २७५॥ वेदशास्त्रपराश्चापि सत्क्रियाभिश्च संस्कृताः । सत्कर्मिणोऽपि नितरां नान्ययोग्याइतिश्रुतिः ॥२७६॥ ते परेषां हव्यकव्ययोग्याइत्येव तत्परम् । ब्रह्मविद्भिः प्रकथिताः परिनिष्ठः कुलोद्भवः ॥२७७॥ विप्रत्वप्रकृतिं याति नचेन्मूकस्तु केवलम् । को वानुमेयः सद्भिर्वै सदसत्तद्विलक्षणः ॥२७८॥] गायत्रीवर्णरहिते क्रियामात्रैकभूषिते ।
कथं तिष्ठति विप्रत्वं मूके किं बहुना पुनः ॥२७६॥ विप्रसंध्याकारकोऽपि स्वक्रियायै महत्तराम् ।
- एनो महदवाप्नोति गवां (संध्या) तद्रोधनेन च ॥२८०॥ विप्रसंध्यारोधनस्य बालस्तस्य विरोधिनः । तत्पानसमयेऽतीव भक्तमत्तुं समुद्यतम् ॥२८१॥ विघ्नकर्तुः श्राद्धकाल (ले) विघ्नकर्तु दुरात्मनः ।
रतिकल्याणमौंज्यांदिपरतत्कालहारिणः ॥२८२॥ एकःस्याच्चैव संकल्पो यद्द ेवादेवजालकम् । कूष्माण्डं कथितं दिव्यं · शतवारजपात्तु वै ॥ २८३॥
[[२८८६]]
कण्व स्मृतिः
सर्वेषु श्रुतिरुत्कृष्टा रुद्र कादशिनी श्रुतौ । पञ्चाङ्गरुद्रन्यासेन सर्वकल्पनाशनी ॥२८४॥ विप्रसंध्याविघातस्य कर्ता सद्यः स्वयं तदा । तस्य संध्यां यतः कुर्यादन्यथा किल्विषी भवेत् ॥ २८५॥ न संध्याविघ्नकरणादन्यत्पापं तु विद्यते । ब्राह्मणस्य क्षत्रियादेरपि शूद्रस्य वा पुनः ॥ २८६॥ संध्यापरं तु होमः स्यात्सा च संध्याजपोऽपि वा । मित्रस्यचर्षणीमन्त्रादुपस्थानादिकं परम् ॥२८७॥ आहिताग्नेः पूर्वमेव चोदयादंशुमालिनः । निखिलं तद्विजानीयादग्नेरुद्धरणं तथा ॥ २८८॥ आहिताग्नेरग्निहोत्रं सर्वश्रुतिसमीरितम् । निखिलेभ्यश्च कर्मभ्यः सततं ह्यतिरिच्यते ॥ २८६॥ तत्कर्मणः सर्वकर्मजालं यत्तदशेषकम् । परं तद्योग्यतामात्रं संपात ( द ) कमिति स्मृतम् ॥२०॥ तस्मात्तदुदयात्पूर्वं स्मार्त निर्वर्त्य चाखिलम् ।
ततः
संकल्पनियतस्त्वग्निहोत्रस्य कर्मणः ॥२१॥ होष्यामीत्येव संकल्प्य सायम्प्रातः समाचरेत् । संकल्पानन्तरं तस्य तदुद्धरणमुच्यते ॥२६२॥ अकृत्वैव (तु) संकल्पं न तदुद्धरणं चरेत् । कृते तस्मिंश्चसंकल्पे तन्मध्ये स्मार्तकर्म तत् ॥२३॥ न किंचिदपि कुर्वीत महावैदिककर्मणि । कर्मणोऽन्यस्य संकल्पेऽन्यकर्मान्तरमुच्यते ॥ २६४॥
वैदिककृत्यस्यसर्वतःप्राधान्यवर्णनम्
[[२८८७]]
प्रबलं वैदिकं कर्म सर्वेष्वपि च कर्मसु । तत्कृत्वैवपुरापश्चात्पित्रोः कुर्याच्छवक्रियाम् ॥२५॥ शवे निपतिते गेहे पित्रोरपि पुनः किमु । स्नात्वाद्रवाससा सत्वं अग्निहोत्रं यथा पुरा ॥२६॥ निर्वर्त्य तत्परं सर्व कुर्यादिति परा श्रुतिः । तद्वैदिकस्य कृत्यस्य संकल्पेऽस्मिन्कृते यदि ॥२७॥ यस्य कस्यचिदेकस्य तदन्तःपातिनामपि । मध्ये वा ऋत्विजां नूनमाशौचं सूतकन्तु वा ॥ २६८॥ नास्त्येवेति ततः प्राह तस्मादत्र तु ऋत्विजः । स्नात्वा कर्माणि कुर्वीरन् कर्मकाले तु तत्पुनः ॥२६॥ वैतानिकस्थलं त्यक्त्वा दूरे तिष्ठति नात्र तत् । यावत्कर्म ततो भूयो बहिरन्वेति तं पुनः ॥ ३००॥ एवं चेदृत्विजामन्यद्गोत्रिणामपि केवलम् । लग्नानां तत्र विप्राणां कीदृशं कर्म तद्भवेत् ॥३०१॥ तत्तादृशं कर्म तस्मादुपमारहितं परम् ।
तत्परस्य ब्राह्मणस्य वैदिकस्य महात्मनः ॥ ३०२॥ तद्धर्माः पृथगेव स्युः पितृदीक्षादयोऽखिलाः । गर्भदीक्षादयः सर्वे तस्यास्य च पृथक् पृथक् ॥३०३॥ दिङ्मात्रमपि चोच्यन्ते वैदिकस्यान्वहं तराम् । उदयास्तमयात्पूर्वं सूर्योपस्थानमीरितम् ॥३०४॥ प्रतिपक्षेष्टितस्तद्वत्क्षुरकर्म हि पर्वणि ।
अतः सपित्रोशब्दं सा (दीक्षाकेशस्थितिः सदा)
केशधारणरूपिणी ॥ ३०५ ॥
[[२८८८]]
कण्वस्मृतिः
कन्याकुम्भकुलीरेषु पत्नीगर्भे सुसन्ततम् । प्रत्यब्दमासपक्षेषु चानुमनुयुगादिषु ॥३०६॥ प्रोच्यते वेदवाक्येन तस्मात्तु क्षुरकर्म तत् । आहिताग्नः पर्वणि हि कथितं तु विशिष्यते ॥३०७॥ इष्टयभावेऽपि तत्कर्म मात्रादपि च केवलम् । यत्किचित्कर्मणादिष्टिक मैकदेशतः ॥३०८॥ कर्मणादिष्टिसिद्धिश्च भवत्येवेति तत्कृतम् ॥३०६॥ यावतः कर्मणः कर्तुमशक्तावपि तस्य वै । अङ्गमात्रास्यात्तु कृतौ समीचीनं भवेत्किल ॥३१०॥ सोऽयं तस्मादाहिताग्नेर्न कालादिनिरीक्षणम् । क्षुरस्य कार्यं नैव स्यात्सकालः क्षुरकर्मणः ॥ ३११॥ नित्यतः समुपक्रान्तस्तस्याइष्ट रुपक्रमे । त्यक्तनष्टाग्निहोत्रस्याहिताग्नेरेवमप्यति ॥३१२॥ चोदितं तद्धि चैवं स्यादाहिताग्नीतरस्य च । वर्णिनो ग्रहणश्चापि वैदिकस्यैव केवलम् ॥३१३॥ उपाकर्मणि चोत्सर्गे व्रतानां सन्ततं तराम् । यदा तदा क्षुरं स्याद्धि न कालादिनिरीक्षणम् ॥३१४॥ कूष्माण्डे गणहोमे च प्रायश्चित्ते ह्य पस्थिते । सूतकान्ते प्रसूत्यन्ते व्रते (त) चान्द्रायणादिषु ॥ ३१५॥ नैमित्तिकब्रह्मकूर्चे न कालादिनिरीक्षणम् । । देवासुरसुराणां त (त्) त्रिविधं परिकीर्तितम् ॥३१६॥ब्रह्मापणबुद्धवसर्वकर्मणामनुष्ठानम्
श्मश्रूपपक्ष केशानां मानवं प्रथमं स्मृतम् । उपश्मश्रु केशवपनं तदनन्तरम् ॥३१७॥ एतद्भिन्नं तृतीयं स्यादासुरत्वसमंजसम् । केचित्त्व प्रदायाथ स्वमत्या तत्परं शुचिम् ॥३१८॥ समुद्धृत्य विधानेन चोदयान्तर्दशोत्तरम् । जपं कुर्वन्ति गायत्र्या स्तत्क्रियामध्य एव वै ॥ ३१६॥ उद्यानन्तरं सूर्योपस्थानमनन्तरम् ।
[[२८८६]]
अग्निहोत्रं हि कुर्वन्ति तदेतदसमंजसम् ॥३२०॥ कर्ममार्गस्य कालं वै ज्ञानिमार्गस्य चेत्पुनः । ब्रह्मार्पणधिया सर्वं कर्म तत्क्रियते परम् ॥३२१॥ स्नानसंध्याग्निहोत्रादि स्मार्तं वैदिकजालकम् । यत्कर्म तद्ब्रह्मधिया क्रियते किल तेन वै ॥ ३२२॥ को भेदः कर्मणां चेति कृत्स्नानां ब्रह्मरूपतः । तस्मात्कृत्वान्वहं सन्तः कृत्वैतद् वाधकन्तराम् ॥३२३॥ न भवेदिति च प्रोचुस्तदनुष्ठानमेतदु । नोत्तमत्वेन मन्वन्ते ज्ञानिनो वैदिकाः परम् ॥ ३२४॥ न कर्मणि तु भिन्नस्य कर्मणः समुपक्रमः । विधिर्नालमिति प्रोचुस्तदुपर्यपि केचन ॥३२५॥ इष्टमध्येऽग्निहोत्रं तत्क्रियते वा न चेत्पुनः । अन्वाधानात्परं भूयस्त्यज्यते किं तदुच्यताम् ॥३२६॥ अतः स्यात्कर्ममध्येऽपि कर्मान्यत्कार्यमुच्यते ।
•
.
वस्तुतस्तु परं वच्मि मध्येऽस्मिन्स्मार्तकर्मणः ॥३२७॥
[[२८६०]]
कण्वस्मृतिः
कार्यान्तरं न कुर्वीत यावत्कृत्वा ततश्चरेत् । नौपासनात्परो धर्मो ब्राह्मणस्येह विद्यते ॥ ३२८ ॥
औपासने किलाधानमधं यावत्तु वा द्विधा ।
तेनाग्निहोत्रं
तत्पश्चाद्दर्शादिस्तदनन्तरम् ॥३२६॥
आग्रयणं चातुर्मास्यं निरूढपशुरेव च । अग्निष्टोमादयः पश्चात्क्रतवो निखिलाः स्मृताः ॥३३०॥ तस्मादौ पासनसमं न धर्मान्तरमस्ति हि । अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते ॥३३१॥ आदित्याज्जायते वृष्टिवृष्टिरेन्नं ततः प्रजाः । तत्मादौ पासने सूर्यायाहुतिर्दीयते परा ॥ ३३२॥ तावन्मात्रेण सर्वेषामन्नादानां धरातले । महतां विद्यमानानां योगिनां ब्रह्मवादिनाम् ॥३३३ ॥ जङ्गमानां च सर्वेषां क्षुधार्तानां विशेषतः । अन्नमन्नं महाक्षन्नः को वा तस्या निवृत्तये ॥३३४ ॥ प्रदास्यति महाभागः अटतामिति सर्वतः । भक्ष्यभोज्यैश्च लेह्यश्च चोष्यैरपि सुधास्रवैः ॥३३५॥ सूपेन परमान्नेन नानाशाकविशेषतः । प्रभूतसर्पिषा दध्ना पयसा मधना फलैः ॥३३६॥ दातुरन्धस्तु यत्पुण्यं तत्कोटिगुणितं फलम् । महदाप्नोति परमं नात्रकार्या विचारणा ॥३३७॥ औपासने परा देवा वेदाः शास्त्राणि कृत्स्नशः । तीर्थानि पुण्यक्षेत्राणि व्रतानि विविधान्यपि ॥३३८ ॥
गार्हप्रत्यस्थापन्नवर्णनम्
कृच्छ्रचान्द्रायणादीनि दानानि विविधान्यपि ।
[[२८६१]]
तुलाभारंमुखान्येवं यानि लोकेऽधिकानि वै ॥ ३३६ ॥ फलाधिकानि वर्तन्ते तत्कर्ता तानि विन्दति । तस्मादौपासनं सायं प्रातश्च सुसमाचरेत् ॥३४०॥ धृत्वोखया विशेषेणविवाहेऽग्निविशेषवित् । बिभृयादुखयैवैनं न तु भूमौ विनिक्षिपेत् ॥ ३४१॥ भूमौ तु गार्हपत्यस्य स्थापनं स्मृतिचोदितम् । औपासनस्य तत्प्रोक्तमुखं कृत्वा ततो यथा ॥३४२॥ सौलभ्याधारणामूलं भवेत्तस्यां निधायतम् । नित्यानुहरणं कुर्यात्कृते त्वैवं हि तद्गृहे ॥३४३॥ भव्यानुहरणे पूर्वं बभूवुर्यानि कृत्स्नशः । मङ्गलानि प्रतिदिनं महोत्सवपरम्पराः पूर्वं तु शेषहोमस्य विप्रागमविशेषकाः । तदर्चनाविशेषाच्च तद्भोजनपरम्पराः ॥३४५॥ सर्वबन्ध्वागमाश्चापि स्वस्तिवाचनपूर्वकाः । असंख्याका अनन्ताः स्युर्मङ्गलध्वनयोऽनिशम् ॥३४६॥ उख्यानुहरणं यत्तत्क्रियते गृहिणान्वहम् । सायंप्रातश्च विधिना मङ्गलायतनं हि तत् ॥३४७॥ तस्यानुहरणं पश्चाद्रथस्योत्सवनादिकः । गृहप्रवेशहोमाख्य आग्नेयश्च तथाविधः ॥३४८॥ सप्तर्षि अरुन्धतीपूजादर्शनादिमहोत्सवः । औपासनसमारंभस्तद्गतेर्वनमर्चनम् ॥३४६॥
॥३४४॥
[[२८६२]]
कण्वस्मृतिः
तद्दीक्षानियमा दिव्या दम्पत्यालापनादिकाः । महदाशीरुत्सवश्च भूषणोत्सव एव च ॥३५०॥ दीपोत्सवो दीपशान्तिः कुलाचारादयोऽखिलाः । चौर्योत्सवो हेलनाख्यो बन्धुभक्तिमहोत्सवः ॥३५१॥ गीतोत्सवो वाद्यरंध्रभाषणोत्सवसंज्ञकाः । शेषहोमो नाकबलि महेन्द्राणी (?) समर्चनम् ॥३५२॥ त्रयस्त्रिंशत्कोटिसंख्या तद्देवानां समर्चनम् । महादिशामुत्सवश्च ताम्बूलोत्सव एव च ॥ ३५३॥ तद्दम्पती महापूजा तन्नामोक्त्युत्सवः परः । गृहाद्ग्रामविनिर्याणांमहाजल महोत्सवः ॥ ३५४॥ हारिद्रजलतच्चूर्णगम्धकुङ्कुमवस्तुभिः । दोलोत्सवो देवतोद्वासनसंज्ञोत्सवः कङ्कणोद्वासनोबन्धोद्वासनादिकमित्यतः ।
परः ॥३५५॥
यद्भव्यजातं तत्सर्वमन्वहं तत्ततोऽधिकम् ॥३५६॥ भवत्येव ततो यत्नादुख्यमग्निं सदा धरेत् । यदि भूमौ निक्षिपेत्तु तपद्भूमिशुचिः सदा ॥३५७ सशान्ति कुरुते तस्मात्परं तण्डुलहोमतः । गार्हपत्याख्यकश्चित्तु पुरोडाशादिना न तु ॥ ३५८॥ हविषापाशुकेनैव नित्यशान्तो भवेदहो । नचेद्गार्हपत्याख्यो यजमानस्य सन्ततम् ॥३५६॥ तस्मिन्नतीते वर्ष पललं हि तदिच्छति । वह्नयो वैदिकात्तस्माद्गार्हपत्यादिकास्त्रयः
॥३६०॥
[[२८६३]]
पञ्चपाककरणासमर्थस्यविकल्पविधिवर्णनम
पञ्चपाकास्तापनीया नायमौपासनः कदा ।
तथाकतु मशक्तश्चेत्समारोपणतोऽपि वा ॥३६१॥ अश्मनः समिधो वापि भर्तव्यः सन्ततं द्विजैः । परित्यजेद्यदि शुचि विरहीत्युच्यते बुधैः ॥ ३६२॥ सायं प्रातस्ततो नित्यं वहन्युपस्थानमाचरेत् । होमात्परमुपस्थानं कार्यो होमस्ततः पुनः ॥३६३॥ होमं विना ह्य पस्थानं न कदाचित्समाचरेत् । प्रवरस्यदितत्काले शुचिर्भक्त्या समन्वितः ॥ ३६४॥ सूर्यायेदं नममेति तद्गृहाभिमुखो जपेत् । बुध्वा तं होमकालं वै तथास्विष्टकृतश्च वै ॥ ३६५॥ चतुथ्यंन्तेन तत्पश्चात्तदुपस्थानमाचरेत् । प्रणमेत प्रयत्नेन गोत्राभिवादनं च तत् ॥ ३६६॥ कुर्यादेव विधानेन न तु तूष्णीं स्वयं शुचौ । लौकिके जुहुयाद्यत्र कुत्रापि यदि वै तदा ॥ ३६७॥ चरेद्वृथा हि तत्कर्म तथा नप्तं भवेद्ध्रुवम् । यतोऽयं वह्निरेवं हि भार्याधीनो बभूव हि ॥ ३६८॥ पुरा तु ब्रह्मसदने निर्णयस्तु तथा कृतः । औपासने स्थिते गेहे भार्याधीनेन कुत्रचित् ॥ ३६६ ॥ प्रवासे यजमानस्य यदि प्रत्यब्दमागतम् । तदा तु लौकिके कुर्यादग्नौ पाणौ नचाचरेत् ॥३७०॥ दर्भस्तंबेऽप्सुवा जायामग्नौकरणमापदि ।
न कुर्यादेव सहसा पाण्यादिषु हि याजुषः ॥३७१ ॥
[[२८६४]]
कण्वस्मृतिः
नियमोऽयं याजुषस्य श्राद्धकर्मणि पावकः । वैदिकः कथितः सद्भिर्बह्न चानां तथैव हि ॥ ३७२॥ मुख्यः कल्पः पावके स्यादनौ करणकर्मणः । विकल्पात्पाणिहोमोऽपि तदादिस्तदनन्तरम् ॥३७३ ॥ प्रयतो वैश्वदेवान्ते ब्राह्मणानतिथीनपि । भोजयीत च बालादीन्मानुषोऽयं महासवः ॥३७४॥ अजस्रं वैश्वदेवादाववसानेऽथवा शुचिः । औदुम्बर्यश्चसमिधो जुहुयाद्दश वा शतम् ॥ ३७५॥ तावत्संख्यान्नाहुतीश्च श्रीकामः कालयोर्द्वयोः । देवयज्ञोऽयमुदितः केचित्तु शकलाहुतिः ॥३७६॥ इमं यज्ञं तमेवोचुर्यत्पितृभ्यः स्वधेति वै । तर्पणं क्रियते यत्तु पितृयज्ञं प्रचक्षते ॥३७७॥ येयं पूर्वं बलिः प्रोक्ता वायसानां शुनामपि । एषा (प) वै भूत यज्ञः स्यादतिथीनां तु भोजनम् ॥३७८॥ नृयज्ञः कथितः सद्भिर्ब्रह्मयज्ञस्त्रयीमयः ।
एवं पञ्चमहायज्ञाः श्रुतिप्रोक्ताः सनातनाः ॥३७६॥ नैषामङ्गाङ्गिभावोऽस्ति स्वतन्त्रास्ते परस्परम् । तर्पणं ब्रह्मयज्ञस्य देवादीनां यदीरितम् ॥३८०॥ तदङ्गमेवतस्याः स्यात्तच्चनित्यमितीरितम् ।
देवानां प्रथमं तत्र तर्पणं समुदीरितम् ॥ ३८१॥ ऋषीणामथ तत्प्रोक्तं पितॄणां तु ततः परम् । ब्रह्मादयोऽपि ये देवा वेदोक्ता अष्टमे मताः ॥ ३८२॥
ब्रह्मवेदाध्ययनेऽधिकारित्ववर्णनम्
नमोब्रह्मण सुस्पष्टाः काण्डानुक्रमतो
[[२८६५]]
मताः ।
तत्तद्व देष्वेवमेव काण्डानुक्रमतस्त्विमे ॥ ३८३॥ ज्ञेया एव न चान्येऽत्र ब्रह्मवादिभिरीरिताः । ऋषयस्त्वेवमेव स्युः पितरोऽपि तथा मताः ॥३८४॥ श्रुतिसंबन्धिनः कृत्स्नास्तत एव हि तर्पणम् । तेषामेव प्रकर्तव्यत्वेन तच्चोदितं परम् ॥३८५॥ गणास्त एव कथिता अग्नये वायवेत्यादिना । एकादशैते कथिताः पत्न्यानेनादिकाः स्मृताः ॥ ३८६॥ तत्रपत्न्यनुवाकेयाः पत्न्यस्ता एव चोदिताः । एतत्त्वनुवाकोक्तपत्नीनां मन्त्रमूलतः ॥३८७॥ पठनादप्यपत्नीकः सपत्नीक इतीरितः ।
अपत्नीको ब्रह्ममेधानध्यायी श्रोत्रियोऽपि सन् ॥३८८॥ सपत्नीको ‘ब्रह्ममेधाध्यायी न संशयः । पत्नीपुत्रादिराहित्ये वैकल्यं श्रोत्रियस्य न ॥३८६॥ विशेषेण ब्रह्ममेधाध्येतुस्तन्नास्ति सन्ततम् । पञ्चभार्यो दशसुतोऽप्यपत्नीकोऽप्यपुत्रवान् ॥३६०॥ यो ब्रह्ममेधानध्यायी स एव कथितस्तथा । भार्यामात्रविहीनेन ब्रह्ममेधी महामनाः ॥३६१॥ पत्नीमन्त्रैकसंलब्धसंस्कारहोतृसंस्कृतः ।
नित्यपत्नी समायुक्तस्तुच्छपत्नीविनाशतः ॥३६२॥ अपत्नीकः कथमयं भवतीत्यसकृत्तराम् ।
मीमांसा चात्रकर्तव्या धर्मब्रह्मादिवादिभिः ॥३३॥
[[२८६६]]
कण्वस्मृतिः
ब्रह्म वै चतुर्होतारः तेभ्यो यज्ञोऽधिनिर्मितः । स हि नारायणो ब्रह्मा पुरुषरूपेण तत्र च ॥३६४॥ वर्तते चानुवाकेन चोत्तरेण जगन्मयः । सृष्टिस्थितिविनाशानां कर्ताकारणकारणम् ॥३६५॥ करणस्यापि करणं जगज्जन्मादिकारणम् । सत्यज्ञानानन्दमयं सदसच्चिन्मयात्मकम् ॥ ३६६॥ तद्र पेणावतीर्णं तत्तस्याध्येता तदात्मकः । ब्रह्मवाद्य च्यते सद्भिः स यैर्न निषिध्यते ॥३६७॥ स सर्ववेदयज्ञौधसत्कर्मव्रतकृन्मतः ।
स उ वै वैदिकश्रेष्ठः कर्मिष्ठः कर्मठोऽशठः ॥ ३६८॥ सर्वाचार्यः सर्वबन्धः संप्रदायप्रवर्तकः । सर्वाचारस्थापकश्च सर्वलोकविलक्षणः ॥३६६॥ सूक्ष्मधर्मार्थतत्वज्ञः सोऽयं किल विशेषवित् । वेमार्गानुसारी च परं वेदोक्तमेव हि ॥४००॥ करोति कर्मनान्यत्तु गौणमुख्ये तथा बलम् । देशकालमहापात्रद्रव्ययोगादिकेक्षणे
॥४०१॥
मुख्यं तत्समनुष्ठानं कुरुते किल सन्ततम् । सत्कर्मभिः सदा पूजां करोति कुलसंभवः ॥ ४०२॥ सपत्रपुष्पादि कृता देवस्य परमात्मनः ।
भवेन्नतु सदापूजा किन्तु साकर्मभिः कृतैः ॥४०३॥ यथाशास्त्रादिविहितैरलभ्यैर्महतीति सा ।
प्रोच्यते तद्विशेषज्ञैः स हि सर्वोत्तमोत्तमः ॥४०४ ॥
ब्रह्मज्ञानैकसाधनोपासनप्रयोगः
[[२८६७]]
सा सर्वसाधारणतो न कर्तुं शक्यते किल । साधारणाश्चपुरुषास्तादृशं दूपयन्त्यपि ॥४०५॥ तां क्रियां तत्स्वरूपं च तन्मन्त्रान्वेदवर्जितान् । मोचयन्तः स्वकां पूजामधिकत्वेन केवलम् ॥४०६ ॥ वर्णयन्तः परं भावमजानन्तः श्रुतेः पदम् । व्यत्यासयन्ति सन्मार्गा न मार्गान्वर्णयन्त्यपि ॥ ४०७ ॥ तदीयमार्गभाग्यो वै वैदिकोऽपि न वैदिकः । अखण्डवैदिको मार्गः सर्वेषामेव कर्मणाम् ॥ ४०८॥ आरंभकाले सङ्कल्पे परमेश्वरतुष्टये । करिष्यामीति संकल्प्य तत्तत्कर्म यथाविधि ॥४०॥ समनुष्ठाय तत्पश्चात्तत्तत्कर्मान्त एव हि । प्रीणातु भगवान्देवः परमात्मा सदा हरिः ॥४१०॥ अनेन कर्मणा चेति त्यागं कुर्याज्जलेन वै । एतच्चक्रधरस्यास्य पूजनं महदेककम् ॥४११॥ सद्भिरुक्त’ विधानेन परमैर्वैदिकोत्तमैः । पूजनं देवदेवस्य परं कर्मभिरेव वै ॥ ४१२॥ कथितं तत्समासेन तानि कर्माणि सांप्रतम् । प्रवक्ष्यामि क्रमेणैव ब्रह्मज्ञानैकसाधकम् ॥४१३॥ औपासनं वैश्वदेवं पार्वणं च तथाष्टकाः । मासिश्राद्ध सर्पवलिरीशानबलिरेव च ॥ ४१४॥ अग्निष्टोमोऽतिपूर्वश्च उक्थ्यः षोडशसंज्ञिकाः । अतिरात्रोप्तोर्यामश्च वाजपेयश्च सप्त वै ॥४१५॥
[[१८२]]
[[२८६८]]
कण्व स्मृतिः
कथितास्तु समासेन हविर्यज्ञास्तथैव च । अग्निहोत्रं च दर्शादि तथैवाग्रयणं महत् ॥४१६ चातुर्मास्यनिरूढे च सौत्रामणिरतः परम् । पितृयज्ञाश्च कथिता एकविंशतिसंज्ञिकाः ॥४१७॥ कर्म यद्यपि तत्प्रोक्तं त्रिक्षणस्थायि केवलम् । तानीमानि तु कर्माणि नित्यान्याहुर्मनीषिणः ॥ ४१८॥ कथं तदिति हि प्रोक्त वीप्सावाक्येन केवलम् । तेन तत्कर्म कथितं केचिदत्र महर्षयः ॥४१६॥ चत्वारिंशत्संस्काराः प्रोचुरेवं च तद्यथा । पद्यापद्यापि वक्ष्यामि क्रमेणैव पुनश्च तैः ॥४२०॥ गर्भाधानं पुंसवनं सीमन्तोनाम (जात) कर्म च । नामान्नप्राशनं चौलं मौंजीव्रतचतुष्टयम् ॥४२१॥ स्नानं गोदानिकं चेति विवाहः पैतृमेधिकम् ।
परं निष्क्रमणं त्वेवं परो विष्णुवलिः परः ॥४२२॥ तदंगभूतया दिव्यं सर्वाण्युक्तानि च क्रमात् । यस्य वेदश्ववेदी च विच्छिद्य ते त्रिपौरुषम् ॥४२३॥ स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः । दौर्ब्राह्मण्यविनाशाय द्विजो भक्त्या धिया युतः ॥ ४२४ ॥ नित्यमेव यतस्तस्माद्यज्ञाने तान्सदा यजेत् ।
.
पितॄणां प्रजया पश्चादेतेषु त्रिषु सर्वदा ॥४२५॥ चेतसा भीतियुक्तेन तदापाकरणहेतवे ।
स्वाध्यायोऽयं ह्यधी(मघे)तव्यो (?) महातन्नियमैर्युतः ॥४२६।वेदानामनभ्यासे पतनवर्णनम्
अनधीत्यैव यो वेदं शास्त्रेषु कुरुते श्रमम् ।
[[२८६६]]
स पापीयानृपित्र्णान्मुक्तो नैव भवत्यलम् ॥४२७॥ विप्रजन्म समासाद्य वेदं तमनधीत्य च । तेन वेदेन किं वेति वदन्मम महाजडः ॥४२८॥ शास्त्रमात्र श्रमोऽतीव सप्ततन्तून्विहाय च । . सुखार्थं मैथुनं कुर्वन्नदन्निष्टमटन्वनम् ॥४२६॥ संपादयन्वृथातीव सत्क्रियाश्च विसृज्य वै । कुटुम्बभरणेऽतीव नित्यजागरसंमुखः (संयुतः) ॥४३०॥ लुठन्महीतले तूष्णीमधोगच्छति मानवः ।
अनधीतैकवेदोऽपि तत्क्रियामन्त्रमात्रतः ॥४३१॥ कृत्वा कर्माणि नित्यानि ज्योतिष्टोममुखानि वै । ब्राह्मणो ब्रह्म सायुज्यं लभते नात्र संशयः ॥४३२॥ त्रिपूर्ववेदिविच्छित्ताविन्द्राग्नी पशुना यजेत् । त्रिपूर्वसोमविच्छित्तौ दौर्ब्राह्मण्यनिवृत्तये ॥४३३॥ तदाश्विनाख्य पशुना यजेतैवाविचारयन् । वेदोक्तकर्मभिर्नित्यैरेभिरेव (हि?) जायते ॥४३४॥ चित्तशुद्धिर्ब्राह्मणस्य नान्यैः कर्मशतैरपि । वेदोक्तमार्गो यो दिव्यः कथितश्चित्तशुद्धये ॥४३५॥ सुलभोऽयं तमेवातः सेवेतैव विचक्षणः । चित्तशुद्धिवंशवृद्धिः पितॄणां (तु) प्रसादतः ॥४३६॥ पितृप्रसादः श्राद्ध ेन न चान्येन कदाचन । एकविंशति ‘यज्ञेषु मासि श्राद्ध तथाष्टकाः ॥४३७॥
[[२६००]]
महापितृयज्ञश्च
कण्वस्मृतिः
पितृयज्ञस्तथैव च ।
पैतृकाणि हि कर्माणि चत्वार्याहुर्मनीषिणः ॥४३८॥ प्राधान्येनैव चोक्तानि जातकर्ममुखानि तु । मानुषाणि तु सर्वत्र प्रसिद्धानि जगत्त्रये ॥४३६ ॥ पराणि दैविकान्याहुः सर्वाण्येतानि वै द्विजः । प्रतिसंवत्सरं कुर्यादेव पित्र्याणि शक्तितः ॥४४०॥ शक्तिसाध्यानि कार्याणि कथं कुर्यादकिंचनः । प्रभूतधनधान्यानि ह्यग्निहोत्रमुखानि वै ॥ ४४१॥ इत्याहुः केचनाचार्या वैखानसमहर्षयः । अपरे वालखिल्यास्तु वैदिकामतयोऽब्रुवन् ॥४४२॥ यस्य त्रिवार्षिकं वित्तं लक्षं लक्षार्धमेव वा । : स कथं मत्तमातङ्गमग्निहोत्रमुपासते ॥४४३॥ पुनरन्ये ह्यश्मकुट्टाः स्वमतं प्राहुरुत्तमम् । रंभासंभोगकार्याय स्वर्गोऽयं विहितः पुरा ॥४४४॥ पितामहेन दैवेन तत्कार्याय मखः परः । रंभासंभोगकामा ये तैरेवाहिस हिक्रतुः ॥ ४४५॥ समनुष्ठ ेय एवेति नान्यकार्याय स स्मृतः । नैमिशा (प) दि महाक्षेत्रे विद्यमानेश्वरार्चनात् ॥४४६॥ मुक्तिर्नात्र विरोधो हि तस्मात्कुर्याद्धरेः सदा । प्रतिमासु पुराणेषु मृद्दारुप्रस्तरात्मसु ॥४४७॥ पत्रैः पुष्पैः फलैरर्चा षोडशैरुपचारकैः । नित्यपूजां विशेषेण तथा नैमित्तिकान्यपि ॥४४८॥
त्रिविधऋणेभ्यऋणमोचनत्वप्रकारवर्णनम्
[[२६०१]]
काम्यपूजां पक्षपूजां मासवब्दादिपूजनम् । जलाभिषेकपुष्पादिधूपाद्यश्च निवेदनैः ॥४४६ ॥ ब्राह्मण्यं ब्राह्मणे जातो न्यायोऽथायं क्रियामुखैः । उच्यते ब्राह्मणश्चेति स तु जातो महाऋणी ॥४५०॥ स्वाध्यायाध्ययनाच्चापि ब्रह्मचर्यमुखादिना । ऋणं तं प्रथमं लंव्यं यज्ञैर्देवं ततस्तरेत् ॥४५१॥ सात्वतं विधिमास्थाय गीतनृत्तार्पणेन च। हरेर्गानं च नृत्तं च नटनं च विशेषतः ॥४५२ ॥ सदा ब्राह्मणजातीनां विहितं नृत्यकर्मवत् । अर्धास्तमित आदित्ये पुनरर्धोदयेऽनिशम् ॥४५३॥ दिवैवाराधनं तस्य देवस्य परमात्मनः । कैवल्यदं सद्य एव तथा तदवलोकनम् ॥४५४॥ यत्किंचित्क्रियते कर्म लौकिकं वैदिकं तथा । भोजनं गमनं दानमलङ्कारोऽथ भूषणम् ॥४५५॥ सर्वं तत्प्रीतये कुर्यात्तन्निर्माल्यपरो भवेत् । तेनोपभोक्त(भुक्त)स्रुग्गन्धवासोऽलङ्कारचर्चितः ॥४५६॥ उच्छिष्टभोज नश्च तस्य मायां जयत्यसौ ।
…
वैदिकानि तु कर्माणि शक्रादिप्रीतये खलु ॥४५७॥ भवन्ति वै सुक्तिरसा भवत्यत्र कथं तथा ।
..
मुख्यं तमेव स्वीकार्यं विप्रत्वस्य हि सिद्धये ॥४५८॥ गार्हस्थ्यं धर्मकार्याय परोपकृतिहेतवे ।
एवं ते वैदिकं मार्गमश्मकुट्टादयोऽखिलाः ॥४५६॥
[[२६०२]]
वैखानसैकदेशापि
कण्वस्मृतिः
चक्र दूषणमेव वै ।
ते तु क्रमेण तद्भक्त्या वैखानसमहर्षयः ॥४६०॥ बालखिल्यास्तु संभूत्वा पश्चाज्जन्मान्तरे पुनः ।
संप्रक्षाला भवन्त्येव पश्चाज्जन्मान्तरे किल ॥ ४६१॥ मरीचिपाः संभवन्ति तस्मिञ्जन्मनि केवलम् । वेदमार्गानुगां बुद्धिं संप्राप्य महतीं ततः ॥४६२॥ पितृभिश्शिक्षिताः सम्यग्वेदाभ्यासपरास्तरां । वासं गुरुकुले कृत्वा ऋचस्सामानि तानि च ॥४६३ ॥ यजूंपि लब्ध्वा पुण्येन भवेयुः किल कर्मणा । सन्तः सत्पथगा धीराश्चांचल्यैकविवर्जिताः ॥४६४॥ सतां यजुस्सामऋचः श्रीर्दिव्या महती परा । तद्वन्तश्चतदर्थज्ञास्तदनुष्ठानतत्पराः ॥४६५॥ क्रमेणैव लभन्ते तं पन्थानं ब्रह्मवादिनाम् । सम्प्राप्य दिव्यज्ञानं तन्निदिध्यासनतत्परः ॥४६६ ॥ सायुज्यनाम (मि) कां मुक्तिं लभन्ते सद्गुरोस्तराम् । प्रसादेनैव कृपया पितृणामर्चया तथा ॥४६७। अयमेव महामार्गे वेदोक्तात्यन्तसौलभः । अन्यः पन्था नायनाय श्रुतिरेवमुवाच सा ॥४६८॥ ब्राह्मणस्यैव तद्विद्या शिक्षितस्य विशेषतः । द्वावेव श्रवणादीनां वेदवाक्यविचारतः ॥४६६॥ सूत्राणां (शि) क्षया चापि मुक्तिः स्यात्तादृशी परा । ‘विना वेदान्तवाक्यानां दिव्योपनिषदामपि ॥ ४७०॥
नित्यनैमित्तिककर्मणाम्विष्णोराराधनवर्णनम्
दिव्यं ज्ञानं भवेन्मुक्तिः साक्षात्तेषां न संशयः । तदर्थभाषाशास्त्राणि चित्तव्यामोहकानि वा ॥४७१॥ वैदिकेन ततस्तानि त्याज्यान्येव विपश्चिता । तथा सत्कमकालेषु भाषा या लौकिकी च सा ॥४७२ ॥ वर्जनीया प्रयत्नेन तच्चित्तज्ञानशुद्धये ।
दिव्यभाषा सदा ग्राह्या वैदिकेन महात्मना ॥४७३ ॥ विशेषात्कर्म कालेषु ततोऽपि श्राद्धकर्मसु । महामौनेककालेषु क्रियाकारादिना तथा ॥४७४॥ विलोकनादिना कुर्यात्पापसंदर्शनं नृषु ।
[[२६०३]]
॥४७७॥
यदि मौनं त्यजेद्वाऽपि हठान्मोहाच्छलात्तथा ॥४७५ ॥ वैष्णवी निष्कृतिर्दिव्या चेततुश्चतथा पराः । दिव्या व्याहृतयो यद्वा गायत्री वातिपावनी ॥४७६ ॥ वेदमन्त्रं विना नान्यत्तारकं न हि विद्यते । दुरालापादिकालेषु नामान्याहुर्विपश्चितः पावनानि हरेरन्यदस्तीति परमं स्मृतम् । तस्माद्वैदिककृत्येषु निष्णातः सर्वदा भवेत् ॥४७८॥ नित्यं यजेत निखिलैर्नित्यैर्नैमित्तिकैरपि । शक्तस्त्वहीन क्रतुभिश्शतसंवत्सरादिभिः ॥४७६॥ यजेतैव सदा विष्णोरर्चनाय द्विजाग्रणीः । अवेदवादिनो दुष्टान् धार्मिकान्धर्मदूषकान् ॥४८०॥ तथागतांस्त्यक्तयज्ञान्कुचित्तान्यज्ञदूषकान् ।
परित्यजेद्दूरतो वै तान्यास्यान्यवलोकयेत् ॥४८१॥
[[२६०४]]
कण्व स्मृतिः
विशेषेण ब्रह्मविद्या विषये वै वृथा कलिम् ।
न कुर्यादेव सहसा शक्त्या नित्यः स वो भवेत् ॥४८२॥ नानाहिताग्निस्तिष्ठेत्तु न च दुर्ब्राह्मणोऽपि वा । येन केनाप्युपायेन दौर्ब्राह्मण्यं समागतम् ॥४८३॥ अपि स्वीकृत्य चण्डालान्नाशयेत धनं द्विजः । दौर्ब्राह्मण्येन नष्टस्याश्रोत्रियत्वेन वा तथा ॥४८४॥ असोमयाजित्वेनैवं को लोकः स्यादहन्तराम् । नैव जाने नैव जाने नैव जाने पुनः पुनः ॥४८५॥ वेदविद्भस्ततो यत्नाद्विच्छित्तिर्नभवेद्यथा । मनुष्ययत्नः कर्तव्यस्तद्यत्नादपि केवलम् ॥४८६॥
अदृष्टलाभो भवति विशेषेण न संशयः । नाहीनक्रतुभिस्तिष्ये (?) यजेतैव न चान्यथा ॥ ४८७॥ कलापहीनक्रतवो दुस्साध्याः स्युर्हि देहिनाम् । सर्वक्रतूनां प्रथममाधानात्तु परंतराम् ॥४८८॥ अग्निष्टोमस्त्वनुष्ठेयः अतिरात्रोऽथवा सदा । अतिरात्रे प्रथमतो यदि चेत्समनुष्ठिते ॥४८६ ॥ अधिकारस्तूत्तरेषु तेषु क्रतुषु नैव वै। अग्निष्टोमे प्रथमतः कृते तु किल वच्म्यहम् ॥४६०॥ ऋतूनामपि सर्वेषामनुष्ठानाय योग्यता ।
- उत्तरेषां भवेदेव नात्रकार्या विचारणा ॥४६१ ॥
नित्यानुष्ठानाकरणेप्रत्यवायिकदोषवर्णनम्
[[२६०५]]
अतिरात्रात्परं तस्यानुष्ठानं तु विनैव हि । अग्निष्टोमस्य मुख्यस्य नोत्तरक्रतुयोग्यता ॥४६२॥ एष हि प्रथमो यज्ञो निखिलानां मुखं परम् । ततोऽप्यत्यग्निष्टोमः स्यादुक्थ्यः षोडशिका ततः ॥४६३॥ अतिरात्रोतोर्यामश्च वाजपेयश्च तत्क्रमः ।
त एते सप्तसंख्याकाः सोमसंस्थाश्च सन्ततम् ॥४६४॥ अनुष्ठेया ब्राह्मणेन अकरणे प्रत्यवायिकाः । हविर्यज्ञास्ततो भूयः अग्निहोत्रं ततः पुनः ॥४६५॥ दर्शश्च पौर्णमासश्चाग्रयणं तत्परं तथा । चातुर्मास्यानि प्रोक्तानि निरूढपशुरेव च ॥४६६॥ सौत्रामणिस्तत्परं स्यात्पितृयज्ञोऽन्त्य उच्यते । एतानि किल कर्माणि चतुर्दशमहान्त्यपि ॥ ४६७॥ नित्यानि कथितानि स्युः पावनानि द्विजन्मनाम् । ब्राह्मण्यपूर्तिरेतैःस्यादेतत्पूर्वाणि तानि हि ॥४६८॥ औपासनं वैश्वदेवः पार्वणं त्वष्टका तथा । मासि श्राद्ध सर्पबलिरीशानबलिरेव च ॥४६६॥ सप्तैते पाकयज्ञाः स्युरेक वितिसंख्यया । कथितानि समस्तानि गृहिणो न तु वर्णिनः ॥५०० वर्णिनोऽध्ययनं त्वेकं गुरुशुश्रूषणं तथा । अग्निकार्यं प्रतिदिनं भिक्षाचरणमेव च ॥५०१॥ विप्रस्य जातमात्रस्य जातकर्म प्रकीर्तितम् ।
.
कर्तव्यत्वेन विहितं दिनाद्वादशमात्तु तत् ॥५०२॥
[[२६०६]]
कण्व स्मृतिः
नित्यं कर्तुं भवेद्भूयस्त्वतीतेषु दशस्वपि । अहन्येकादशदिने नामकरणाख्यकर्मणा ॥५०३॥ कतु तच्च कृते भूयस्तच्च नामाख्यकं परम् । तत्परस्मिन्नपि दिने कतु वै शक्यते दिने ॥ ५०४ ॥ दिनेऽतीते द्वादशे तु भक्तप्राशनकर्मणा । सहैव विहितं शास्त्रान्न पृथग्भिन्नकालतः ॥५०५ ॥ मासि षष्ठे तच्च कर्म कालेऽतीते तु तस्य च । वर्षे तृतीये चौलेन नान्तरा तच्च वै स्मृतम् ॥५०६ ॥ तस्य कालेऽप्यतीते तु मौंज्या सह विधीयते । कर्तव्यत्वेन सततं जातकादीनि यानि वै ॥ ५०७ तास्युस्ता निखिलान्यत्र मौंज्या सह विधानतः । तदानीमेव कार्याणि न तु भिन्नेन नेहसा ॥५०८॥ कर्म कर्मान्तरेणैव कर्तव्यं स्यात्प्रयत्नतः । यद्यतीतं कृतं कर्म भिन्ने काले प्रमादतः ॥५०६॥ अपनीते तस्यापि पुनः करणमर्हति । पृथग्भिन्नं भिन्नकालः समुहूर्तादयः स्मृताः ॥५१॥ प्राजापत्येन मुख्येन तद्द्द्वितीयादिना मुखम् । कर्तव्यं स्यादुपाकर्म तथा चोत्सर्जनं पुनः ॥ ५११॥ प्राजापत्याख्य काण्डानि व्रतानि नव वै तथा । सौम्यान्यपि च दिव्यानि सप्ताग्नेयानि संविधिः ॥५१२॥ वैश्वदेवाख्यकाण्डानि षोडश स्युर्हि संख्यया । प्राजापत्ये तत्र काण्डं पौरोडांशे विधीयते ॥ ५१३॥
।
नानानुवाकानामवर्णनम्
याजमानं द्वितीयं स्याद्धोतारश्च तृतीयकम् । हौत्रं चतुर्थं संप्रोक्तः पितृमेधश्च पञ्चमम् ॥५१४॥ एतेषां ब्राह्मणानि स्युरनुत्राह्मणमेव च । काण्डत्रयं प्रकथितं नवकाण्डं च चोदितम् ॥५१५॥ तस्यास्य नवकस्यापि उपाकृतिरथापरम् । उत्सर्जनं च कथितं समारंभे समापने ॥५१६ ॥ तद्रूयं (भूयः १) चोदितं सद्भिरेवं सौम्यस्य तत्परम् । आध्वर्यवं ग्रहश्चापि दक्षिणा च ततः परम् ॥५१७॥ समिष्टयजूंषि तत्पश्चादवभृथ यजूंष्यपि ।
[[२६०७]]
॥५१८॥
वाजपेयशुक्रियाणि सवश्चेति ततस्तथा ब्राह्मणानि च तेषां वै सौम्यानि स्युर्मनीषिणः । आपउन्दन्नु (न्तु) देवस्य प्रश्वद्वितयमध्वरः ॥५१६॥ सजोषा इन्द्रपर्यन्ता आदधे प्रमुखाग्रहः । ब्रह्मसंपदमानोनुवाकावप्यध्वरौ मतौ ॥५२०॥ उदुत्यमनुवाकांस्त्रीन् दक्षिणामूचिरे बुधाः । ब्राह्मणत्रयमेतेषां षष्ठकाण्ड उदाहृतः ॥५२१॥ सत्रात्प्राचोऽनुवाकांस्त्रीनपि तद्ब्राह्मणं विदुः । उभये वै प्रश्न आद्य पञ्चमौ षष्ठसप्तमौ ॥५२२॥ अग्ने प्रपाठके तुर्यमन्तिमाश्चतुरस्तथा । अध्वरब्राह्मणं प्राहुरनुवाकानिमानपि ॥५२३॥ त्रिवृत्सोम इति प्रश्नः सवाख्यः परिकीर्तितः । नमोवाचे तदूव तु प्रश्नौशुक्रिय तद्विधिः ॥ ५२४॥
[[२६०८]]
कण्व स्मृतिः
पाकयज्ञमितिप्रश्नसप्तमाद्याःपडीरिताः ।
अनुवाकानाजपेयुस्तद्विधीन्प्रथमाष्टके ॥५२५॥ प्रश्ने द्वितीये देवा वै यथेत्यष्टौ प्रचक्षते । एवं नवोदिताः काण्डाः सौम्यानाहुर्मनीषिणः ॥ ५२६॥ अग्न्याधानं प्रथमतः अग्निहोत्रं ततः परम् । अग्न्युपस्थानमित्येव महाग्निचयनं तथा ॥५२७॥ सावित्रं नाचिकेतश्च चातुर्होत्रं ततः परम् । वैश्वसृजोरुणायेति तद्ब्राह्मणमतः परम् ॥५२८॥ अनुब्राह्मणमेवं च सप्ताग्नेयानि चोचिरे । राजसूयः प्रथमतः पशवः स्युस्ततः परम् ॥५२६॥ इष्टयः स्युस्ततः सर्वा नक्षत्रेष्टिः परातनः । दिवश्येना अपाघाश्च सूक्तवाकानि तानि च ॥५३०॥ उपानुवाक्यं च तथा याज्यानुवाक्यास्तथा पराः । नरमेधोऽश्वमेधश्च पशुबन्धस्तथैव च ॥ ५३१॥ ब्रह्ममेधरतथा कृत्यं सौत्रामणिरथक्रमः । अच्छिद्रमखिलं चापि वैश्वदेवाख्यकाण्डकम् ॥५३२॥ सम्यक् षोडशसंख्याकं सर्वाण्येतानि कालतः । प्राप्तान्येव भवेयुर्हि कार्याणि ब्राह्मणेन हि ॥५३३॥ आद्यकाण्डाष्टमः प्रश्नः राजसूयः प्रकीर्तितः । तद्द्ब्राह्मणं त्रयः प्रश्नाः षष्ठाद्याः प्रथमेऽष्टके ॥ ५३४॥ वायव्यं काम्यपशवः परे काण्डेष्टयस्त्रयः ।
॥ सौत्रामण्यच्छिद्रनक्षत्रेष्टयः समुदाहृताः ॥ ५३५॥वेदानामध्ययनमनुगृहस्थाश्रमप्रवेशवर्णनम्
तुभ्यन्ताद्यास्तथा प्रोक्ता दिवश्येनादयश्च ताः ।
स्वाद्वीन्तानर्वनग्नेर्न इति प्रश्ना यथाक्रमम् ॥५३६ ॥
सौत्रामण्यच्छिद्रनक्षत्रेष्टयः समुदाहृताः ।
उभावामादयोत्यानुवाका व्यधिकविंशतिः ॥३७॥ युक्ष्वाहीत्यनुवाकश्च याज्या विद्वद्भिरीरिताः । वेदव्रतानि कृत्वैवं स्नानं कुर्याद्विधानतः ॥ ५३८ ॥ विधानेन ततो नाल्लक्षण्यां स्त्रियमुद्वहेत् । प्रधानहोमं निर्वर्त्या वाहयेत्तां समन्त्रकम् ॥५३६॥ सम्यक् प्रवाहारयेद्वा वह्निमाहृत्य गोपथे ।
स्वधाम च विधानेन समागत्या विलम्बयन् ॥५४०॥ गृहप्रवेशहोमाख्यं कुर्यादेवसमन्त्रकम् ।
स्थालीपाकं तथाग्नेयं विधानेन समाचरेत् ॥५४१ ॥ कन्यादातृगृहात्तस्य निर्गतस्य शनैश्शनैः ।
मार्ग चंक्रमतो मन्त्रैः कुर्वाणस्य च तत्क्रियाः ॥५४२॥ दिनानि यानि मार्गे स्युस्तेषु कालद्वयेऽन्वहम् । गुप्तिहोमः प्रकर्तव्यो विवाहाग्नेर्विशेषतः ॥५४३॥ अकृते तु पुनस्तस्मिन्सोऽयमग्निर्विनश्यति । पुनः प्रधानहोमस्य प्राप्तिरेव भविष्यति ॥५४४॥ पुनस्तदग्निसिध्यर्थमियं निष्कृतिरुच्यते ।
नान्यत्र निष्कृतिः प्रोक्ता गुप्तिहोमं ततश्चरेत् ॥५४५॥ गुप्तिहोमं करिष्येति वह्नः संरक्षणाय मे । संकल्प्यैवं विधानेन परिषिच्य समन्त्रकम् ॥५४६॥
[[२६०६]]
[[२६१०]]
कण्वस्मृतिः
तदाहुतिद्वयं कुर्यान्नान्यत्किमपि विद्यते ।
अयं हि गुप्ति (त) होमे स्यान्नित्यं कालद्वये चरेत् ॥५४७॥
तदग्निरक्षणायैव तदाद्य ेचं तदाद्य ेचं
विधीयते ।
प्रधानाहुत्यथविवाहाग्निसिद्धिर्भवेत्किल ॥५४८॥ स्थालीपाकादथपुनस्तदुपक्रम उच्यते ।
·
औपासनस्य कृत्यस्य कर्मणः श्रुति बोधनात् ॥५४६॥ तावन्मासस्तु पक्षो वा ऋतुर्वाध्ययनं शरत् । अहनद्योदिनं वापि मार्गमध्ये विधानतः ॥५५०॥ सायं प्रातस्तस्य कालो न गृहे सोऽयमुच्यते । शकटारोहणात्पश्चाद् वध्वा कृशानुना सह ॥५५१ ॥ होमकाले मार्ग मध्ये गुप्तिहोमोऽय मुच्यते । गृहप्रवेशहोमस्य चार्वागेव ततः परम् ॥५५२॥ यावज्जोवाख्य संकल्पपत्न्या कार्याद्विजन्मनाम् । अनुज्ञायं दक्षिणतः तेषां स्वप्रार्थनादितः ॥ ५५३॥ औपासनारंभतुर्ययामिन्यपरपक्षके ।
शेषहोमं प्रकुर्वीत मङ्गलस्नानपूर्वकम् ॥५५४॥ विवाहात्पूर्व दिवसे नान्दीश्राद्धमुदाहृतम् । ततः परं विधानेन लाजहोमात्परं तराम् ॥५५५॥ तद्दीक्षायामनुष्ठेया : दीक्षाधर्माः सनातनाः ।
नातपे संचरेद्वापि न ज्योत्स्नायां हिमेऽपि वा ॥ ५५६ ॥
नैव स्नानं प्रकुर्वीत तटाके वा सरित्यपि ।
"
हदेवा देव खाते वा कूपे वा पल्वलेऽपि वा ॥५५७॥
गृहस्थस्य नित्यकर्तव्यविधिवर्णनम्
[[२६११]]
वेशन्ने दीर्घिकायां वा न मन्त्रैरघमर्पणैः । स्नानाङ्गतर्पणं नैव न संकल्पोऽपिवा तथा ॥५५८॥ नित्यमुष्णेन तत्कुर्यात्सलिलेन सुगन्धिना । अलंकृतेन पात्रेण वेष्टितेनापि पर्णकैः ॥५५६॥ गन्धाक्षतादिभिः सम्यक् संस्कृतेन कृतेन च । तथा तैलहरिद्राभ्यामुद्वर्तनमुखादिकम् ॥५६०॥ सर्वमङ्गलवाद्यश्च विना शीप चरेदपि । संध्यात्रयं प्रकुर्वीत धार्यं चन्दनमेव वै ॥५६१॥ नान्येन पुण्ड्र कुर्वीत कुङ्कुमाक्तः सदा भवेत् । सदापुष्पः सदाचूर्णसुगन्धो दिव्यभूषणः ॥५६२॥ नैकान्नाशी भवेच्चापि सदा बन्धुभिरेव च । सुमङ्गलीभिर्विप्रैश्च भोजनं तदनुज्ञया ॥५६३॥ कालद्वयं यथेच्छं च चरेदेव विधानतः । प्रत्यक्षलवणं त्यक्त्वा भक्ष्यभोज्यादिकं यथा ॥ ५६४ ॥ क्षुदुत्पत्तिर्भवेत्तीक्ष्णा प्रभूताज्येन तच्छिवम् । भुञ्जीयादखिलं भव्यं द्रव्यं बुध्वा ( ध्या) भिधारितम् ॥५६५ ॥ यद्यत्र निखिलं द्रव्यं संमुखः सुमुखो मुदा । अश्नीयादेव सततं प्रसन्नः सन्वसेदपि ॥५६६॥ दिवास्वापी भवेन्नैव नाहर्भुक्तिद्वयं चरेत् । वध्वा तथाशयीतैव पृथङ्नैव कदाचन ॥५६७॥ कृत्वा दण्डं गन्धलिप्त मध्ये कृत्वा च तं यतन् । अभ्यर्च्य विधिना देवबुद्धया स्पृष्ट्वैव तं स्वपेत् ॥५६८॥
[[२६१२]]
कण्वस्मृतिः
दण्डं छत्रं वैणवं च तिरस्करणिकामपि । विचित्रामूध्वगां कृत्वा चतुर्भिः पद्भिरुत्तमैः । ५६६॥ अष्टभिर्वा द्विजैर्घोरैर्वेदघोषपुरस्सरम् । गीतवादित्रसंघैश्च सर्वमङ्गलसंवृतः ॥५७०॥ बहिर्गच्छेत्तदागच्छेत्सायं प्रातश्च वर्षति । न चरेन्नैव निर्गच्छेन्न तुपारेऽतिधर्मके ॥ ५७१॥ न तप्तायां धरायां वा सोपानत्कोऽपि मङ्गले । नार्द्रायां कर्दमेवाऽपि गच्छेदपि च सङ्कटे ॥५७२॥ अवशादागतं दैवात्सूतकं मृतकं त्यजेत् । इन्द्राण्युद्वासनात्तद्वदाकङ्कणविमोक्षणात् ॥५७३ ॥ लक्ष्मीनारायणध्यानपरत्वेन सदा भवेत् ।
इन्द्राणीमपि गौरीणां सायं प्रातः समर्चयेत् ॥५७४॥ यदि मोहेन तेनार्चे नित्या मङ्गलभाग्भवेत् । नित्यमौपासनं कृत्वा बृहत्सामेति मन्त्रतः ॥ ५७५ ॥ तद्भस्मना प्रकुर्वीत स्वरक्षां तद्विधानतः । प्रयतानामिकाङ्गुल्या चेमांत्वमितिमन्त्रतः ॥ ५७६॥ वध्वारक्षां प्रकुर्वीत शुभिके शिरमन्त्रतः । यामाहरेति मन्त्रेण मालिकामपि च स्रजम् ॥५७७॥ बिभृयादपि (च) य (त्ने) न नीराजनरतश्च वै । तदा तदा च तन्मध्ये विप्राशीरपि सन्ततम् ॥५७८॥ अत्यन्तावश्यकी ज्ञेया मङ्गलेषु पदे पदे । आगतानां विशेषेण बन्धूनां च द्विजन्मनाम् ॥५७६॥
सर्व पूजा विधानम्
[[२६१३]]
याचकानां दरिद्राणामपि पूजाविशेषतः । विधानेनैव कर्तव्यं वासोऽलङ्कार भूषणम् ॥५८०॥ दूरदेशान्तरस्थानां बन्धूनां सुहृदामपि ।
विशेषेणात्र कर्त्तव्या मेलनं पूजनं परम् ॥५८२१॥
कलहो नात्र कर्तव्यो नात्र कंचन पीडयेत् ।
दुःखयेत्ताडयेद्वाऽपि
नावमेत्तोपयेत्परम् ॥५८२॥
अत्रसद्बन्धुसुहृद्विप्रवैर्युदासीनपूजनम् ।
गौरीशचीगनं (vi) सवं भवेदेव न चान्यथा ॥५८३॥ विप्रस्य करणं लक्ष्मीनारायणगतं भवेत् । शत्रवोऽप्यत्र पूज्याः स्युदुह्रदाः कलिचेतसः ॥ ५८४॥ दुष्टा दुराचाररता अपि पूज्या विशेषतः । यथाशक्ति प्रदानैश्च सान्त्वसंवादनैरपि ॥५८५॥ शत्रवोऽप्यत्र(पूज्याः)वाच्याः स्युर्दत्वा देयमपि स्वयम् । सर्वेष्वपि च भव्येषु युग्मशाकक्रियापरा ॥५८६॥ कर्तव्यायुगक त्याज्यं तत्रापि त्रयमेककं । न कुर्यादेव सहसा कुर्याच्चेत्सद्य एव वै ॥५८॥ कश्मलं तद्गृहे तस्मात्तादृशं वै परित्यजेत् । सार्षपं तद्द्वयं कार्यं न कल्कान्यत्र कारयेत् ॥ ५८८॥ सम्यङ् (ग) लवणशाकानि विशेषेण भवन्ति हि । आर्द्रकं नारदं त्वाम्रं शिवमामलकं परम् ॥५८६ ॥ दिनाष्टकात्पूर्वमेव संपाद्याखिलवस्तुभिः ।
संस्कृत्य सम्यग्लवणद्रव्यराशिपरिष्कृतम् ॥५६०॥ १८३
[[२६१४]]
कण्वस्मृतिः
पात्राभिधारण कृत्वा परिवेषणमादितः । प्रकुर्यात्तत्सतीगानपूर्वकं भोजनेऽन्वहम् ॥५६१॥ बन्धूनां तत्र भोक्तॄणां द्विजानां च महात्मनाम् । पयस्त्वाज्येषु दिव्येषु दधिरम्येषु भूरिषु ॥५६२॥ परयोः सन्निधौ भुक्तौ वैश्वदेवैकवर्जनात् । यदत्र वृजिनं तन्न लक्ष्मीनारायणौ हितौ ॥ ५६३ ॥ तत्सन्निधानाद्गौर्याश्च शच्याशोभनगिर्वणाम् । आसन्निधाने वरयोरपङ्क्तौ भोजने तराम् ॥५६४ ॥ कृच्छ्रत्रयं प्रकुर्वीत ताभ्यां चेद्भोजने कृते । नैतत्किमपितत्प्रोक्तं पायसं कृसरं विना ॥ ५६५॥ नाचरेद्विदुषां भुक्ति भक्ष्याभावे ह्ययं विधिः । सत्सु भक्ष्येषु दिव्येषु परमान्नेषु भूरिषु ॥५६६॥ नैवकश्चित्तरामत्र नियमो मनुरब्रवीत् । विप्रमध्ये सतीमध्ये विधवां नैव भोजयेत् ॥५६७॥ कल्याणवेदिकामध्ये तेषु सर्वदिनेष्वपि । येषु केषु दिनेष्वेषु सतीषु ब्राह्मणेषु वा ॥ ५६८॥ अकेशीर्वा सकेशीर्वा एतानेवौपवेशयेत् । न गाययेद्वा चैताभिर्गायन्तीर्वानिषेधयेत् ॥५६॥ अपि ताभिः कृतं पाकं यत्नेनैव विवर्जयेत् । चौले चोपनये चापि ताभिरप्याहृतं जलम् ॥६००॥ कुमारभोजनेऽप्येवं तथा ब्रह्मौदने शिवे । नाङ्गीकुर्यात्तु पाकाय ताभिर्नाग्निं न चानयेत् ॥ ६०१॥
।
पंक्तिवर्ज्य भोजने दोषवर्णनम्
स्नानोदकाय
पाकाय शाकसंवर्धनाय वा ।
[[२६१५]]
नाभिः संवर्धिताश्शाक विशेषा दक्षिणामुखात् ॥६०२॥ पश्चिमाभिमुखाद्वापि कल्याणेषु तु पाचिताः । यदि भुक्तास्ते द्विजैर्वाताभ्यां तद्बन्धुभिस्तुवा ॥६०३॥ तद्गृहे मरणानि स्युरशुभानि पदे पदे । तस्मात्तद्वर्जयेद्यत्नात् नात्र कार्या विचारणा ॥६०४॥ यद्यप्यावश्यकास्तास्तु तादृशः पुनरेव च । पङ्क्त्यन्तरे यत्र कुत्र ं भोजयेद्बन्धुधर्मतः ॥६०५॥ नावमन्याश्चनायत्नात्पूजनीयाश्च
वाग्यतः ।
मातृश्वश्रूस्तादृशैश्च नत्वान्यत्रैव भोजयेत् ॥६०६॥ गृहिणो वर्णिनो भोज्याः सन्तो यज्वान एव च । वानप्रस्थाश्च भोज्याः स्युरेषु कर्मसु केवलं ॥ ६०७ यतयो न प्रवेश्याः स्युरस्मिन्सदसि कर्मसु । न ताम्बूलं वर्णिनां स्यात्प्रदेयं नात्र सन्ततम् ॥६०८॥ भुक्तये सर्वभक्ष्यादी (न्) पयोदध्याज्यपिष्टकान् । भुक्तियोग्यान्प्रदद्याच्च स्रुग्गन्धादि विवर्जयेत् ॥६०॥ नैषु विद्यत्यर्जुनस्य नामान्युच्चारयेद्भिया । तांबूलादिप्रदानेषु तत्तत्कालेषु केवलम् ॥६१०॥ योग्यान्मन्त्रानुच्चरेच्च नरमेधं विवर्जयेत् ।
रक्षोघ्नान् पितृसूक्तांश्च ब्रह्ममेधन्तथैव च ॥ ६११॥ कृत्स्नमारण्यकं काण्डं सन्तं प्राणादिकं त्यजेत् । समुद्र
ं गच्छजालं च तदोपनिषदादिकम् ॥६१२॥
[[२६१६]]
कण्वस्मृतिः
।
नोच्चरेत तदान्यानि पुराणादीनि कृस्नशः । पितृक्रियाप्रधानानि यासगाथादिकानि च ॥६१३॥ सप्रयत्नेनोच्चरेच्च पितृयज्ञादिकं तथा । साकमेधं शुनासीरीयकं तद्वश्वदेविकम् ॥६१४॥ वारुणं तत्प्रघासं च कल्याणेषु विवर्जयेत् । कुम्भाण्डश्चापिकूश्माण्डमसूरः कन्दसंज्ञकः ॥६१५॥ मूलानिशाकुटादीनि कर्णप्रावरणं पुनः ।
निंबो नैव्यो महासौम्यः सोमकेतुश्शिवारुणः ॥६१६॥ कर्णमूलं कर्णदामं
पाप्मनः ।
पुण्यो वार्ताकजातीयः पटोलः पनसश्शिवः ॥६१७॥ उर्वारुस्सरणस्सारः सारणोपसरित्तटः । एते शाकाश्शोभनदा : कल्याणेषु महर्षिभिः ॥६१८॥ मुख्यत्वेनैव कुर्वीत सर्वसाधारणेन वै । देहे निपतिताः स्युश्चेत्प्रमादाद्वर्णविन्दवः ॥६१६॥ जपेत्पृथिव्यै स्वाहेति चानुवाकं पराश्शिवाः । यदि वाकेन दैवेन ताडितस्त्वानपेन वा ॥ ६२०॥ पवते सदवाक्यानि तानि सर्वाणि वै जपेत् । अवशाज्जलसिक्तश्चेदद्भ्यः स्वाहेति वा जपेत् ॥६२१॥ शुना स्पृष्टिरस्पृश्यादिभिरेव
वा ।
हरिद्रातैलचूर्णानि द्रव्यलिप्तो यदान्वहम् ॥ ६२२॥ उष्णोदकेन तु स्नानं पावमानीभिरेव च ।
उत्तमाङ्गं विना स्नायादिदं विष्णुं च तं जपेत् ॥६२३॥
यज्ञानां ब्रह्मज्ञानफलसाम्यवर्णनम्
व्याहृतीश्च यथाशक्ति प्रजपेत्तस्य शान्तये ।
… द्विन्नेषु चान्येषु निमित्तेषु तदा यदि ॥ ६२४॥ संजातेष्वखिलेप्वेवं श्रीसूक्तं तारकं तराम् । भूसूक्तं च कदाचित्तु लक्ष्मीसूक्तं कदाचन ॥६२५॥ न चेत्तु सर्वशान्त्यर्थं तृतीयदिवसे किल । गणनाथं प्रपूज्यादौ ब्रह्माणं च सरस्वतीम् ॥६२६॥ लोकपालांस्तथावाह्य पूजयित्वा विधानतः । विवाहमण्डपे भक्त्या सदः कृत्वा वहून्द्विजान् ॥६२७॥ अभ्यर्च्य समलंकृत्य प्रत्येकं तैश्चमान्त्रिकम् । वेदोक्तामाशिपं दिव्यां गृह्णीयाद्दक्षिणादिना ॥६२८॥ सर्वपीडाविनिर्मुक्तः सर्वमृत्युविवर्जितः ।
सर्वोपद्रवसंत्यक्तः सर्वारिष्टपराङ्मुखः दीर्घायुर्दीर्घसंपत्कः पुत्रपौत्रसमन्वितः ।
I
॥६२६॥
संप्राप्तकामः संप्राप्तब्रह्मविद्यामहामनाः ॥६३०॥ ब्रह्मज्ञानं च संप्राप्य ब्रह्मसायुज्यमृच्छति । किं चास्य वक्ष्ये माहात्म्यं य एवं महदाशिपम् ॥६३१॥ कल्याणमध्ये कुरुते कारयत्यपि वा उभौ । कृतार्थौ सर्ववेदानां यद्वा पारायणे फलम् ॥६३२॥ यन्मखानां च सर्वेषां करणे फलमुच्यते । एते द्व े तत्र योक्तानां नित्यनैमित्तिकात्मनाम् ॥६३३॥ काम्यानामखिलानां च ध्रुवं वै तदुदाहृतम् । महत्तद्दिव्यसन्दोहकृतप्राप्तमहाशिषाम् ॥६३४॥
[[२६१८]]
कण्वस्मृतिः
दौर्ब्राह्मण्यं कुले तेषां नास्त्येवादशपूर्वकम् ।
सर्वं यागप्रतिनिधिः कल्पोऽयं कश्चन स्मृतम् ॥६३५॥ ब्राह्मणानां पुरा सृष्ट ब्रह्मणैव महात्मना । वेदक्रियासुचालस्यायेऽपि वातीवदुर्हृदः ॥६३६॥ तेषामपि हितार्थाय महाशीरियमुत्तमाम् । सृष्टा किलातिचपलं सर्ववेदस्वसारतः ॥६३७॥ समुद्धृत्य समुद्धृत्य चैकीकृत्य च तां चिरात् । प्रकाशिता जगत्यत्र तदेतत्तादृशं शिवम् ॥६३८॥ महत्तु वैदिकं कर्म ब्राह्मणानां सुमेधसाम् । यद्यत्र शोभने तस्य वस्त्रं कौतुकमुत्तमम् ॥६३६॥ वध्वाहतस्य माङ्गल्यं वह्निस्पृष्टं भवेद्यदि । दग्धमान्तं तथाधं वा यत्किंचिदपि वा पुनः ॥६४०॥ उपदीकाहताः केशाः मूषकैर्वापि दंशिताः । द्व ेषाच्छन्तुभिरुत्कृन्ता येषां तेषां च कर्मणाम् ॥६४१॥ आयुष्यसूक्तपठनं लक्ष्मीसूक्तस्य वै तदा । पुनर्वस्त्रान्तरादीनां तत्तन्मन्त्रैः परिग्रहः ॥६४२॥ निष्कृतिर्विहिता सद्भिर्वेदविद्भिर्द्विजोत्तमैः । यदि चण्डालसंस्पर्शो वरयोः संभवेत्तदा ॥ ६४३॥ तदास्यान्मङ्गलस्नानं हरिद्रोष्णजलेन तु । यदि श्वकाकसंसृष्टिस्तदुष्णेनैव वारिणा ॥६४४॥ हरिद्रामिश्रिते नैव घृतेन च विधीयते । स्नानात्परं रुद्रजपस्त्रिवारं निष्कृतिर्मता ॥६४५॥शेषहोम विधानवर्णनम्
[[२६१६]]
आतपे यदि मूत्रस्य पुरीषस्य भवेन्न तु । दीक्षायामत्र तु तयोश्छत्रेण सह वै तदा ॥ ६४६॥ इदं विष्णुर्व्याहृतीश्च त्र्यंबकं च सुपावनम् । पश्चाच्च शुद्वाचमनादृष्टवारं जपेत् क्रमात् ॥६४॥ पुनश्छत्रं तत्तन्मन्त्राद्गृहीयात्तद्विधानतः । दीक्षासु सन्ततं तस्माद्विवाहस्य द्विजोत्तमः ॥६४८॥ सच्छत्रस्त्वातपे कुर्यात्त्यागं मूत्रपुरीषयोः । शेषहोमात्परं प्रातः कुर्यान्नाकी बलिं शिवाम् ॥६४६ ॥ तद्विधानं च वक्ष्यामि शचीं गौरीं समर्चयेत् । वेदिकेशानदिग्भागे कृसरान्न निवेदनैः
त्रयस्त्रिंशत्कोटिसंख्य देवानामर्चनं क्रमात् ।
॥६५०॥
नमोऽन्तेनैव कुर्वीत सम्यक् संकल्पपूर्वकम् ॥६५१॥ अष्टाभिः कलशैः पूवभागैस्तद्वच्च सर्वतः । संस्थितैः वैदिकां कृत्वाऽलंकृत्यैव विधानतः ॥६५२॥ तन्मध्ये पृथुलैः कुम्भैश्चतुर्भिः स्थापितैश्शिवैः । तन्तुभिर्वेष्टितैर्गन्धैः पुष्पैस्ताम्बूलजालकैः ॥६५३॥ हरिद्राजलकुम्भेन द्विमुखेन सुपाथसा । नवार्चान्याससंसिक्तः प्रादक्षिण्यक्रमेण च ॥६५४॥ तत्संख्याकैः पुष्पदीपैः पुरंध्रीभिः समुद्धृतैः । परिक्रमणकर्त्रीभिस्तत्कृत्यमखिलं यथा ॥६५५॥ सर्वदेवपदस्पृष्टतद्ब्राह्मण्यसुघोषतः ।
त्रिः परिक्रम्य विधिनादिग्जयादिकलांछनम् ॥६५६॥
[[२६२०]]
कण्वस्मृतिः
जलाक्षताभ्यां संस्कृत्य पूजयित्वा सतानपि । ऐरावतं च संपूज्य दक्षिणे चोत्तरे तथा ॥६५७॥ सुप्रतीकं धराधारं त्रिःपरिक्रम्य तत्परम् । प्रति प्रति प्रवादाभ्यां विनियम्य परस्परम् ॥६५८॥
( न तत्सौमङ्गल्यवद्यथा )
कृष्णान्मणींश्च तत्कण्ठे तद्ददेवानां च सन्निधौ । वध्नीयाद्गीतवादित्र पुरंध्रीगानपूर्वकम् ॥६५६॥ ततः पुनश्च संकल्प्य फलदानानि चाचरेत् । तथा तांबूलदानानि दक्षिणादीनि शक्तितः ॥६६०॥ ब्राह्मणेभ्यः प्रकुर्वीत तच्चालंकारपूर्वकम् ।
सभापूजां च कुर्वीत तदाशीः प्राप्य तत्परम् ॥६६१ ॥ दम्पती चोपवेश्योभौ दम्पती पूजनक्रियां । प्रकुर्यातां विधानेन तदीयामाशिषां शिवाम् ॥६६२॥ स्वीकुर्वतां तत्परं च दद्यात्ताभ्यां च दक्षिणाम् । तांबूलं च क्रमेणैव सर्वेषां च द्विजन्मनाम् ॥६६३॥ तत्रत्यानां च सर्वेषां तांबूलं चापि दक्षिणाम् । शक्त्या लोभैर्न दद्याच्च मञ्चारोहणमेव च ॥ ६६४॥ डो(दो) लोत्सवोऽपि कर्तव्यो महाचूर्णोत्सवस्तदा । वीथीप्रदक्षिणं चापि पुनर्वेश्मप्रवेशनम् ॥६६५। जलक्रीडाविधानं च तांबूलस्य च भक्षणम् । मध्याह्न मङ्गलस्नानं पुनश्च स्वस्तिवाचनम् ॥६६६॥
ब्रह्मादीनांपूजावर्णनम्
[[२६२१]]
स्तंभपूजां चतुर्दिक्षु नमोऽन्तेनैव चोदिता । पुष्पधूपादिनैवेद्यांतं वै तां तु समाचरेत् ॥६६७॥ ब्रह्मादीनां ततः पूजां पञ्चानामत्र कारयेत् । नवानामत्र कल्याणे प्रत्यक्षान्नं निवेदनम् ॥६६८ ॥ भक्ष्यभोज्यैः फलैर्दिव्यैस्तांबूलैश्च सदीपकैः । नीराजनान्तैः कर्तव्यमन्यथाऽल्पायुरेव हि ॥६६६॥ भवेदेव वरस्सेव्यो वधूः पश्चात्क्रमेण चेत् । हरिद्रा, स्युर्बान्धवाश्च तथा तस्मात्समाचरेत् ॥६७०॥ हरिद्रा मिश्रसलिलदेवता किल चोदिता । वसन्तश्शोभनकरस्तस्य पूजा पराऽत्र वै ॥ ६७१॥ विशेषेण प्रकर्तव्या भाव्यबाहुल्यसिद्धये । देवतोद्वासनं कुर्याद्यज्ञेनेति च मन्त्रतः ॥६७२॥ मोचनं कौतुकस्याथ तत्संपूज्याथ तच्चरेत् । पुण्याहं वाचयेत्पश्चाद् ब्राह्मणानपि भोजयेत् ॥६७३॥ स्वीकुर्यादाशिपश्चापि दक्षिणादानपूर्वकम् ।
[[1]]
य एवं विधिना भव्यं कुरुते ब्राह्मणोत्तमः ॥६७४ ॥ तस्य नन्दन्ति ते सर्वे वृद्धा ये प्रपितामहाः । पितामहाश्च ये वृद्धा वृद्धा ये पितरस्तथा ॥ ६७५ ॥ त एते शुभदेवाः स्युः सप्तएते (?) कुलोद्भवाः । तेषां तुष्टया कुलस्यास्य प्रवृद्धिर्जायते परा ॥ ६७६॥ एतेनैव विधानेन तस्मात्कल्याणसन्ततम् । मर्त्यः कुर्वीत सततं नित्यकल्याणसिद्धये ॥६७७॥
[[२६२२]]
कण्व स्मृतिः
कल्याणं पुत्रयोः कृत्वा द्वौषण्मासं ततः परम् । पित्रोर्विना मृताहं तु अन्यद्दर्शादिकं तु यत् ॥६८॥ दूर्वाक्षताभ्यां तत्सव कुर्यादेवाविचारयन् ।
यदि दूर्वाक्षतांस्त्यक्त्वा कारुण्यानां पितृक्रियाम् ॥६७६॥ पितृव्यमातुलादीनामपि दर्शादिकं च यत् । तदादिकं दर्भतिलैः षण्मासं शुभात्परम् ॥६८० ॥ पुत्रयोः स्वस्य वा मूढः सदादुःखी भवेदयम् । तस्मात्पैतृककृत्येषु स्वस्य वा पुत्रयोः शुभात् ॥ ६८१॥ पण्मासमध्यप्राप्तपु दर्शनैमित्तिकादिपु । दूर्वाक्षताः प्रशस्ताः स्युर्न दर्भा न तिला अपि ॥ ६८२॥ पुत्रीविवाहः परमो विवाहात्तनयस्य वै । यतन(तनयः) स्वगृहेसम्यक्क्रियतेऽन्यत्र तस्य चेत् ॥६८३॥ तस्मात्पुत्रविवाहस्य षण्मासात्तु परं तराम् । शुभकर्मसमाचारः स्वनुष्ठयो विपश्चिता ॥ ६८४॥ पुत्रोपनयनं तस्माद्विवाहात्तस्य कर्मणः । शुभाचरणनाम्ना वै सततं ह्यतिरिच्यते ॥६८५॥ यतो विवाहं पुत्रस्य स्वीकृतो हि गृहान्तरे । तस्मादत्रविवाहात्तु दुर्बलं नित्यमेव हि ॥६८६ ॥ अथापि सम्यक्कुर्वीत विवाहात्तु तयोः परम् । शुभाचरणकर्माख्यषण्मासं च शनैरशनैः ॥६८७॥ तत्क्रमाच्चापि वक्ष्यामि मन्दवारे च सौम्यके । वरयोरुत्सवं कुर्यान्मङ्गलस्नानपूर्वकम् ॥६८८॥
सुपात्रे कन्या पुत्राच्छतगुणामता
बन्धूनां ब्राह्मणानां च सर्वेषां प्रीतिभोजनम् । नीराजनाशीर्वादौ च कर्तव्या चात्र दक्षिणा ॥६८६ ॥ भक्ष्यभोज्यादिकांचापि शतवादित्रपूर्वकाः ।
[[२६२३]]
या याः क्रिया मङ्गलार्थास्तास्ताः सर्वा विचक्षणैः ॥६६०॥ अष्टमे दिवसे चैवं पोडशे दिवसे तथा । स्थालीपाके तथान्वारंभरण्यां चैवं च दर्शके ॥६६१ ॥ वारेषु शुक्रभान्वोश्च कुशलोत्सवमेव च । गमनागमने चैव निर्गमे पारिभद्रके ॥६६२॥ क्षेमोत्सवो द्वितीयेऽथ मासे कल्याणनामकः । शिवोत्सवस्तृतीयेऽथ तुर्येऽन्यश्रेयसात्मकः ॥ ६६३॥ पञ्चमे मङ्गलाख्यश्च षष्ठ भद्रकनामकः । वरस्य केशवृद्धिस्तु तदा किल विधीयते ॥६६४॥ भुक्त्युद्भवश्च तन्मध्ये यावत्तावत्तु चोदितम् । शुभवृन्दं तथा तस्मात्प्रकर्तव्यं विचक्षणः एतादृशान्युत्सवास्तु कल्याणात्तु परं न तु ।
॥६६५॥
पुत्रस्य तु यतस्तस्मात्पुत्र्याः कल्याणमुत्तमम् ॥६६६ ॥ अतएवात्र भूयश्च लौकिकी वाङ् निरूप्यते । पुत्राच्छतगुणं पुत्री यदि पात्रो प्रदीयते ॥ ६६७॥ इति यासा सुमहती किं चात्र पुनरेकका । वैदिकी वाक् च दिव्यास्यात्स्पष्टार्था समुदीर्यते ॥ ६६८॥ पुत्रीदानं प्रशस्तं स्यादनेककुलतारकम् ।
तज्जातानां पुत्रतौल्यं पितृकर्मणि चोदितम् ॥६६६॥
[[२६२४]]
कण्वस्मृतिः
एवं तु तनये दत्ते भिन्नगोत्राय चापदि । तज्जातानां पुनः स्वस्य जनकस्य कुलं प्रति ॥७००॥ समाननकार्या``````त(अ) ज्ञात प्रार्थनादिका । सहस्राख्य परं भूयो दायादानां च तत्पितुः ॥ ७०१॥ तद्दायादिः प्रकर्तव्यो हरिद्राजललक्षणम् । पश्चाच्च तत्वीकारोऽपि तदेतदखिलं कृतम् ॥७०२ ॥ किमासीदिति चालोच्य चेतसा पश्यताधुना । गोत्रप्रवेशादयन तत्संसृष्टौ तथा तराम् ॥७०३॥ जातायामपि तस्याःस्यात्तद्गोत्रस्य च तादृशः । तद्रिक्थसंबन्धकथा तत्समत्वकथापि वा ॥७०४ ॥ क्व जाता तत्परं चास्य वंशो दुर्बल एव हि । बभूव किल हा तावत्प्रकृतिं याति केवलम् ॥७०५॥ तावदेव हि विप्रत्वं न्यूनत्वं समुपागतम् । तत्रापि सम्यगधुना स्पष्टाय हि निरूप्यते ॥ ७०६॥ अन्यगोत्रप्रदत्तो यः स तु स्वपितरं क्रमात् । पालयिता तस्य पित्रा च तत्पित्रा दत्तकेन वा ॥७०७॥ सपिण्डीकरणे सम्यग्योजयेत्तत्र बाधकम् । न भवेत्किंचिदपि वा दत्तजस्तु पुरा किल ॥७०८॥ स्वपुत्रं न्यस्य तातैकगोत्रसिद्धयर्थमादात् । स्वतातगोत्रमित्युक्तस्वपितामहगोत्रकम् ॥७०६॥ स्वताततातगोत्रस्य सिध्यथमिति तन्मनः ।
सुस्पष्टाय प्रकथितं तदर्थो गुरुणोदितः ॥७१०॥
गोत्र परिवर्तने नानामतानि
[[1]]
अस्य गोत्रप्रदत्तोऽयं स तु स्वतनयं ततः । जनकस्यैव गोत्रेण योजयेदिति वै मनुः ॥७११॥ अन्यथा तस्य गोत्रस्य साङ्कर्यं प्रभवेत्किल । तेन चण्डालता भूयात्तद्वशस्य ततस्त्यजेत् ॥७१२ ॥ यदि दत्तस्वतनये स्वगोत्रे न प्रवेशयेत् । दत्तजावथ तज्जो वा तद्गोत्रद्वयजास्तुते ॥७१३॥ दत्तजः पितरं वृत्तं गोत्रे तत्पालकस्य वै । पितुस्सपिण्डीकरणं कुर्यादिति मनोर्मतम् ॥७१४॥ दत्तस्य पितरं चेत्तु स्वगोत्राद्भिन्नगोत्रिणम् । मुक्त्वैवं तूष्णीं तत्पश्चाद्भोजयेत्तत्ततादिभिः ॥७१५॥ तत्पिता जनको नैव तज्जस्तत्प्रपितामहे । योजयेदेव धर्मेण शास्त्रेण च सुवर्त्मना ॥७१६॥ एवं पन्था महान्प्रोक्त एवं सत्यत्र दत्तजः । स्ववंशसाङ्कर्यभिया युक्तो धर्मेण संयुतः ॥७१७॥ स्वपुत्रस्वपितुर्गोत्रे योजनाय स्वबन्धुभिः । सम्यगालोच्य तान्ज्ञातिजनान्न्यूह्याखिलान्नपि ॥७१८॥ कृत्वा प्रदक्षिणं नत्वा वंशोद्धरणहेतवे ।
इत्येवं प्रार्थयेत्सर्वान्वरं दत्वा शतं शमम् ॥७१६॥ सहस्र ं विभवे कुर्याद्गोत्र भ्रष्टस्य मे सुतम् । वंशसाङ्कर्यशून्योऽयं युष्मद्गोत्रे स्वकीयके ॥७२०॥ उपनेष्यामि यूयं च स्वीकृत्यैवं स्वगोत्रके । हरिद्राजलपानेन कृतार्थं कुरुताधुना ॥७२१॥
[[२६२५]]
.२६२६
कण्वस्मृतिः
सम्यक् त्रिपूर्वपर्यन्त असौ यद्यपि नैच्यभाक् ।
वंशजानामस्य पितुस्त्याग एकस्य चोदितः ॥७२२॥ पितामहस्य तत्पश्चाद्वितीयस्य
ततः पुनः ।
तृतीयस्य परित्यागत्रयाणां तु ततः परम् ॥७२३॥ तद्व राजानां सुस्पष्ट न्यङ्गं नैच्यं च तत्कुले । सुस्पष्टमेव पित्रादित्यागस्तत्र सुवर्त्मना ॥७२४॥ युष्मत्साम्यं तत्परं वै वंशजानां भविष्यति । तावदेतांस्यक्तपितॄन् पश्यन्तः कृपया बत ॥७२५॥ युष्माभिर्न समाह्यते पुत्रपौत्रादयस्त्रयः । गोत्रप्रवररिक्थादिव्यवहारेषु वच्यपि ॥ ७२६॥ कृपया विप्रमात्रत्वस्वीकारेण मुदायुताः । अङ्गीकृत्य च मामेवमेतद्वशं च धर्मतः ॥७२७॥ समुद्धरत पाताद्य शरणं वोगतोऽरम्यहम् । इत्युक्तास्तेऽपि सर्वे वै तथा कुर्षुस्तम्भसा ॥७२८॥ ओमित्येवेति तत्राग्नौ व्याहृतीश्चहुनेच्छतम् । ततो मौंजीं प्रकुर्वीत तत्पुत्रस्तदनन्तरम् ॥७२६॥ न तैस्समो भवेत्तावद्गोत्रा रिक्थक्रियादिषु । यावत्तु क्रमसापिण्ड्यसिद्धिः स्यात्तावदेव हि ॥७३०॥ स्वगोत्रागतपुत्रस्य तादृशस्य पितुर्मृतौ । आशौचं त्रिदिनं प्रोक्तमेवं मातुश्च तत्समम् ॥७३१॥ दर्शादिदेवताश्चापि पितामहमुखास्त्रयः । नोच्चार्यश्च पिता तेषु श्राद्धमात्रं त्रिपूर्वकम् ॥७३२॥
वंशोद्धरणायदत्तकविधानवर्णनम्
तन्मार्गेणैव कुर्वीत ततो मातामहाश्च वै ।
[[२६२७]]
पितामहस्य एतेऽस्य चैतस्यापि मृतौ पितुः ॥७३३ ॥ तथैवाशौचमित्युक्तं एवं किल महत्तरम् । अत्यन्तबाधकं क्रूरमन्यगोत्रसुतस्य वै ॥७३४॥ परिग्रहे प्रकथितं ततस्त्वेतन्न चाचरेत् । स्वभ्रातृषु स्वगोत्रे च कृते पुत्रपरिग्रहे ॥७३५॥ न किंचिद्बाधकं तत्स्यात्तस्मादेतच्छिवं बुधः । समीक्ष्य सम्यगालोच्य पुत्रभावे प्रयत्नतः स्वीकुर्याद् भ्रातृपुत्रादीन् तत्समाधानपूर्वकम् । यद्यत्तत्रार्थितं दद्याद्द्ह्यात्मनः पुत्रसंशये ॥७३७॥ सर्वस्वं वा तस्य दत्वा तादृशी समये परम् । गृह्णीयात्तनयं वंशोद्धरणाय विचक्षणः ॥७३८॥ पुत्रस्वीकारसमये यद्यदुक्तं पुरा
तयोः ।
॥७३६॥
न तस्यास्त्वन्यथाभावः कदाचिदपि धर्मतः ॥७३६॥ तदुक्तिलंघनकराः ब्रह्मन्न इति
इति सूरिभिः । कथितो हि ततस्तं वै राजा राष्ट्रात्प्रवासयेत् ॥७४०॥ तनयग्रहणे यो वा तत्पित्रोः प्रार्थितं तदा । दत्वा शपथपूर्वं वै पुनरन्यानि भाषते ॥ ७४१॥ पुनश्च पुत्रे संजाते चिराद्दवेन दुर्मतिः । तमेनं धार्मिको राजा तद्वन्धूंस्तत्परान्खलान् ॥७४२॥ तदुन्मुखांस्तत्सहायान् संताड्य च कपोलयोः ।
न्यक्कृत्य भीषयित्वा च यथायोग्यं यथा मति ॥७४३ ॥
[[२६२८]]
कण्वस्मृतिः
।
सर्वस्वहरणं कृत्वा तयोः पूर्वं निबन्धनाम् । चाञ्चल्यरहितां कृत्वा देशात्तस्मात्प्रवासयेत् ॥७४४ ॥ परस्मै पुत्रदाने तु महते तादृशं पुनः । बाधकं शास्त्रतो ज्ञेयं पुत्रीदाने तु साधकम् ॥७४५॥ दौहित्रः कर्ता (?) तनयश्चापि सर्वशास्त्रसमौ मतौ । विभक्तषु तु तद्भ्रातृमुखेषु किल तत्परम् ॥७४६॥ स्वर्यातस्य ह्यपुत्रस्य कर्ता दौहित्र उच्यते । दौहित्रस्य तु कर्तृत्वं स (पुन) र्वै (स) पुत्रयोः ॥७४७॥ अभावे कथितं सद्भिः स्युश्चेत्ते तु एव हि । तेषामभावे दौहित्रो भ्रातृपुत्रेषु सत्सु चेत् ॥ ७४८॥ अविभक्तषु तैः सर्वैस्तन्मुखेनैव केवलम् । सर्वं कारयितव्यं स्यात्प्रेतकृत्यमशेषकम् ॥७४६॥ नायं तद्धनभागी स्याज्ज्ञातयो धनभागिनः । यत्किचित्तैः प्रीतिदत्तमस्य तद्भवति ध्रुवम् ॥७५०॥ न चेत्किमपि नास्त्येव विभक्तषु तु तेषु वै । तद्धनं निखिलं चास्य धर्मतः प्रभवेद्ध्रुवम् ॥७५१॥ यत एवमिति प्रोक्त े पुन्नाभावे तु चोदितः । प्रीत्यासन्नस्सपिण्डो यः कर्ता स इति निश्चयः ॥७५२ ॥ प्रीत्यासन्नस्सपिण्डत्वं दौहित्रस्येद मुख्यतः (मुच्यते) । ! इति तेषां सपिण्डानाममुख्यं तेन केवलम् ॥७५३॥ अङ्गादङ्गात्संभवति पुत्रवद् दुहिता यतः । तत्संभूतस्तु दौहित्रो भ्रातृपुत्रादयस्तथा ॥७५४॥श्राद्धकृत्याय निर्दिष्टस्यान्यकृत्य नियोजन निषेधः
[[1]]
[[२६२६]]
न भवेयुर्भ्रातृजा हि तदुत्पन्ना हि केवलम् । संबन्धस्तत्र नैतस्य पितृसंबन्धयोगतः ॥७५५॥ ते सपिण्डाः प्रकथितास्ते तत्संबन्धलेपकः ( लेखतः) । अत एव च सोऽयं वै दौहित्रः सर्वकर्मसु ॥७५६॥ अमादर्शादिषु तथा श्राद्धाख्येषु च सन्ततम् । स्वोपासनाग्नौ पितृभिः समत्वेन निरन्तरम् ॥७५७॥ मातामहान् शास्त्रवर्त्ममहापन्थानमाश्रितः । यजते धनभागीवाऽधनभाग्यैर्हि केवलम् ॥७५८॥ तस्मात्सर्वसपिण्डानां दौहित्रो मुख्य उच्यते । निर्दिष्टं श्राद्धकृत्याय नान्यकृत्ये नियोजयेत् ॥७५६॥ निर्दिष्टमन्योद्देशेन न देवाय निवेदयेत् । निवेदितं यद्ददेवस्य न तदन्येन योजयेत् ॥७६०॥ तथा निवेदितेनापि रुच्यर्थं वापि योजयेत् । निवेदितेन रुच्यर्थं योजयेन्न निवेदितम् ॥७६१॥ यथा निवेदितं पूर्वं स्वीकुर्याच्च तथैव हि । अपक्कमतिपक्कं वा अत्यन्तोष्णमनुष्णकम् ॥७६२ ॥ निवेदयेन्न देवाय किंतु तत्सम्यगेव हि । सुखोष्णयित्वा तत्पक्कं सम्यगेव समीक्ष्य वै ॥७६३॥ सूपशाकान्वितं कृत्वा भक्ष्याभोज्यादिसंयुतम् । अभिधार्याथ गायत्र्या परिषिच्य हविस्तथा ॥ ७६४ ॥ आत्मानं हि ततो मन्त्रैः प्राणापानादिभिश्चरेत् । नान्यकार्ये योजयेत्तत्तत्कार्यमखिलं च यत् ॥७६५॥
[[१८४]]
[[२६३०]]
कण्वस्मृतिः
योजयेत्तु भवेदेव नात्र कार्या विचारणा । हविः स्वीकरणान्तो वै यागस्सर्वाङ्गसंयुतः ॥७६६॥ एकं हविर्नान्यकार्यहेतवे प्रभवेत्किल । स्थालीपाकादिषु कृतं हविस्तद्ब्रह्मभोजने ॥७६७॥ प्रभूतसर्पिषान्यस्य कार्यस्य न भवेद हो । मधुपर्कादिषु कृतं यद्धविस्तत्तथैव हि ॥७६८॥ अन्यकार्याय न भवेच्छ्राद्धकर्मणि चेद्धविः ।
॥७७०॥
औपासनाग्नौ तत्पूर्व कर्तव्यं मुख्यतो न चेत् ॥७६६॥ लौकिकानौ सर्वजनसौलभ्यायैव केवलम् । औपासनकृतं चान्नमुद्धियादाज्ञया कृतम् तन्मे (1) क्षणेनोद्धृतं च होतव्यमधिकोष्णतः । यावत्तु प्राशनं तेषां तावदुष्णं भवेत्तराम् ॥७७१॥ ततः परं च पिण्डेषु गतोष्णेषु नमो मनुः । नमस्काराय कथितस्तस्मात्पैतृककर्म यत् ॥७७२ ॥ अत्यन्तोष्णेन निर्वत्यं तस्य प्राशनकर्मणि । प्रोक्षणं सेचनं चापि यजमानस्य मुख्यतः ॥ ७७३ ॥ कर्तॄणां गौणतः प्रोक्त े कुमारस्य तु भोजने । गुरोरेव हि कर्तृत्वं भुक्त स्नोर्मतं तराम् ॥७७४॥ सेचनं प्रोक्षणे नस्तो ब्राह्मौदनिककर्मणि । हविर्भक्षणमात्रेषु सर्वत्रैवं विधीयते ॥७७५॥ एवमाप्रयणस्मार्ततण्डुलानां तथा पुनः ।
हविषश्चापि तत्प्रोक्तं नतैः कर्मान्तरं चरेत् ॥ ७७६॥
[[२६३१]]
एककाले बहुश्राद्धागमेकृत्यसम्पादनविधि
हविरन्तं सर्वकर्म तस्मिन्नष्ट पुनः क्रिया । होमे जाते विकल्पः स्यात्तस्मिञ्जातेऽपि केचित् ॥७७७॥ इष्यते संम्यगान्तं च सर्वेष्टिषु तु केवलम् । विनाशो (शे) भूयः (कर्तव्यः ?) प्रारंभ इति वै जगुः ॥ ७७८॥ कदाचिद्दवयोगेन संघातमृतिमत्सु चेत् । एकस्मिन्नेव काले वै श्राद्ध वै समुपागते ॥७७६ ॥ तदानुक्रमशस्त्वेकपाकेनैव समन्त्रकम् ।
तन्त्रेण श्रपणं कृत्वा सर्वं कुर्यादचिन्तितम् ॥७८०॥ तत्क्रमं च प्रवक्ष्यामि पितुः प्रथमतश्चरेत् । त्रिप्रानुद्वास्य भूयश्च तद्धविस्त्वनले पुनः 1162211 शास्त्रेण श्रवणं कृत्वा चाभिधार्य ततः किल । मातुः श्राद्धं प्रकुर्याच्च तद्धविः पूर्ववत्पुनः ॥७८२॥ संस्कृत्याथ पितृव्यस्य तद्वच ततः परम् । भ्रातुर्ज्येष्ठस्य तत्पत्न्याः कनिष्ठस्य तथैव वै ॥ ७८३॥ तत्कलत्रस्य तत्पुत्रक्रमेणैवं शनैश्शनैः ।
एकेनैव तु पाकेन सर्वं शक्यं हि शक्यते ॥ ७८४॥ शुभकर्मकृतं चान्नं न श्राद्धाय कदाचन । यच्छ्राद्धकार्येककृतं न तत्स्याच्छुभकर्मणः ॥७८५। देवपूजां सर्वकालसर्वदेशशुभोत्तमा ।
।
ताहगथं तन्निमित्तकृतं संपादितं तथा ॥७८६॥ द्रव्यमन्नं जलं शाकं तत्संबन्धि यदुच्यते । न तन्नियोजयेत्पित्रे देवब्राह्मणसन्निधौ ॥७८७॥
[[२६३२]]
कण्व स्मृतिः
श्राद्धं कुर्यात्प्रयत्नेन श्राद्ध कृत्वा विधानतः । देवपूजां प्रकुर्वीत वैश्वदेवं ततः परम् ॥७८८ वैदिकोऽयं विधिः प्रोक्तः कर्मान्ते ब्रह्मयज्ञकम् । प्रश्नब्रह्मपरो यस्तु शाखामात्रेऽतिपावने ॥ ७८६॥ शाखाध्यायी महाभागः पङ्क्तिपावनपावनः । शाखामात्रैकदेशस्याध्ययनाच्छ्रोत्रियत्वकम् ॥७६० न प्राप्नोत्येव विधिना शाखाध्यायी ततो भवेत् । नित्यस्नानस्सदाचारः सदावह्निः सदाशुचिः ॥ ६१ ॥ सदातुष्टस्सदाशान्तः सदासूयाविवर्जितः । अग्निहोत्राद्यभावेऽपि वेदवेदिविवर्जितः ॥७६२॥ ब्रह्ममेध क्रियाशुद्धः पूर्वतुल्यो भवत्यपि । इत्येतदुक्तं कण्वेन मुनिना धर्ममुत्तमम् ।
शास्त्राणां प्रवरं शास्त्रं हिताय जगतां तराम् ॥७६३॥
॥ इति श्रीकण्वस्मृतिः समाप्ता ॥
शुभमस्तु
॥ श्रीगणेशाय नमः ॥