दाल्भ्यम्प्रतिऋषीणां धर्मविषयकः प्रश्नः कृताभिषेकं दाल्भ्यं स्वे आश्रमे समुपस्थितम् ।
परिपृच्छन्ति तत्वज्ञं ऋषयो वेदपारगाः
धर्माधर्मविवेकं च शुद्धिर्जातमृतस्य च ।
॥ १ ॥
आयुष्यानि च तीर्थानि मासशुद्धिस्तथैव च ॥२॥ श्राद्धकालं च ब्रह्मन्नगोन्नचण्डालसंकरम् । रसानां परिवेत्ता च कथयस्व यथायथम् ॥ ३ ॥ स्मृतिसारं प्रवक्ष्यामि यथा शङ्ख ेन भाषितम् । इष्टापूर्त विधिश्चैव प्रायश्चित्तविधिस्तथा
118 11
इष्टापूर्तौ तु कर्तव्यौ ब्राह्मणेन प्रयत्नतः । इष्टेन लभते मोक्षं पूर्ते स्वर्गोऽभिधीयते ॥ ५॥ एकाहमपि कौन्तेय भूमिस्थमुदकं कुरु । कुलानि तारयेत्सप्त यत्र गौ वितृषा भवेत् ॥ ६॥ भूमिदानेन ये लोका गोदानेन च कीर्तिताः । तान् लोकान् प्राप्नुयान्मर्त्यः पादपानां प्ररोहणे ॥ ७ ॥ वापीकूपतड़ागानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥ ८ ॥
[[२६३४]]
दाल्भ्यस्मृतिः
अग्निहोत्रं तपः सत्यं देवानां प्रतिपालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥६॥ इष्टापूतौं द्विजातीनां सामान्यौ धर्मसाधकौ । अधिकारी भवेच्छूद्रः पूर्वे धर्मे न वैदिके ॥१०॥ यावदस्थीनि गंगायां तिष्ठन्ति पुरुषस्य च । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥११॥ देवानां च पितॄणां च जले दद्याज्जलाञ्जलीन् । असंस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलीन् ॥१२॥ केशकीटकशंबूकमस्थिकंटकमेव च ।
स्थलेषु च न दातव्यं कदाचिदशुचिर्भवेत् ॥१३॥ वामहस्ते तिलान् स्थाप्य यस्तु तर्पयते पितॄन् । पितरस्तर्पितास्तेन रुधिरेण जलेन वा ॥१४॥ एकादेव (मेव) ऋषीणां तु द्वौ द्वौ तु सनकादयः । तु अर्हन्ति पितरस्त्रीन्त्रीनस्त्रियश्चैकैकमंजलिम् ॥१५॥ नाभिमात्रे जले स्थित्वा सतिलं दक्षिणामुखः । त्रींस्त्रीनपोऽञ्जलीन् दद्यादुच्चैरुञ्चतरं द्विजः ॥१६॥ जले चैव जलं देयं पितॄणां जलकाङ्क्षिणाम् । ततःस्थलेषु दातव्यं पितॄणां नोपतिष्ठति ॥१७॥ नोदकेषु च पात्रेषु नाशुद्धो नैकपाणिना । नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रदीयते ॥१८॥ एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । मुच्यते प्रेतलोकाच्च स्वर्गलोकं स गच्छति ॥१६॥
पोडशश्राद्धवर्णनम्
[[२६३५]]
॥२०॥
यव्या बहवः पुत्रा यद्य कोऽपि गयां व्रजेत् । यजेत वा अश्वमेधं नीलं वा वृपमुत्सृजेत् लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुरविपाणाभ्यां स नीलो वृप उच्यते ॥२१॥ प्रथमेऽह्नि तृतीये च पंचमे सप्तमे तथा । नवमैकादशे श्राद्ध तन्नवश्राद्धमुच्यते ॥२२॥ नवश्राद्ध त्रिपक्षे च पण्मासे मासिकादिके । पतन्ति पितरस्तस्य यो भुङ्क्त े चापदि द्विजः ॥२३॥ मासिकानि यश द्वस्यादाद्यष्टे ह्यर्धमासिके । ऊनषाण्मासिको नाब्दे श्राद्ध संख्यास्तु पोडश ॥२४॥ मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ॥२५॥ यस्यैतानि न कुर्वीत एकोद्दिष्टानि पोडश । पिशाचत्वं स्थिरं तस्य दत्तः श्राद्धशतैरपि ॥२६॥ सपिण्डीकरणादूध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्यादेकतस्तु क्षयेऽहनि ॥२७॥ एकोद्दिष्टं परित्यज्य पार्वणं कुरुते तु यः । अकृतं तद्विजानीयात्समातृपितृघातकः ॥२८॥ नित्यं नैमित्तिकं कार्यं नित्यं तु परिलंघयेत् । आदौ नैमित्तिकं कुर्यात्पश्चान्नित्यं समाचरेत् ॥२६॥ अमायां तु क्षयो यस्य प्रेतपक्षेऽथवा यदि । सपिण्डीकरणादूर्ध्वं तस्योक्तः पार्वणो विधिः ॥३०।
[[२६३६]]
दाल्भ्यस्मृतिः
त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते । एकादशदिने पूर्णे पार्वणं तु विधीयते ॥३१॥ यस्य संवत्सरादर्वाक् सपिण्डीकरणं कृतम् । प्रतिमासं तथा तस्य प्रतिसंवत्सरं तथा ॥३२॥ तस्याप्यन्नं सोदकुंभं दद्यात्संवत्सरं द्विजः । नित्यत्वात् कुलधर्माणां पुंसां चैवायुषः क्षयात् ॥३३॥ अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते । मातुः सपिण्डीकरणं कथं कार्यं भवेत्सुतैः ॥३४॥ पितामह्या सहैतस्याः सपिण्डीकरणं स्मृतम् । पतिनैकेन कर्तव्यं सपिण्डीकरणं स्त्रियः ॥३५॥ सा मृतापि हि पत्यैक्यं मांसमज्जास्थिभिः सहः । मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ॥३६॥ द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः । अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषकैः ॥३७॥ अदुष्यं ( दू?) तं यमः प्राह पङ्क्तिपावन एव सः । अग्नौ करणशेषं तु पितृपात्रेषु दापयेत् ॥३८॥ पितृपात्रं पितॄणां च न दद्याद्वैश्वदेविके । मृन्मयेषु (ण्म) च पात्रेषु श्राद्ध भोजयते पितॄन् ॥३६। दातुश्च नोपतिष्ठेत भोक्ता च नरकं व्रजेत् । हस्तदत्तं तु यत् स्नेहलवणव्यंजनादिकम् ॥४०॥ दातुश्च नोपतिष्ठेत भोक्ता भुंजीत किल्बिषम् । गण्डूषकरणात् पूर्वं हस्तं प्रक्षालयेद्विजः ॥४१॥
श्राद्धं निषिद्ध कर्मणां परिगणनम्
हतं दैवं च पित्र्यं च आत्मानं चोपपातकैः ।
॥४५॥
द्विस्त्रिः पिबति गण्डूपं ब्राह्मणो ज्ञानदुर्बलः ॥ ४२॥ हतं देवं च पित्र्यं च आत्मानं चोपपातकैः । अधं पिबति गण्डूपमधं त्यजति भूमिषु ॥ ४३॥ प्रीणन्ति पितरः सर्वे ये चान्ये भूमि देवताः । हस्तवाताहतं धूपं श्राद्ध यः संप्रदास्यति ॥४४॥ हतं दैवं च पित्र्यं च आत्मानं चोपपातकैः । पवित्रग्रन्थिमुत्सृज्य निक्षिपेभूमिमण्डले प्रक्षिपेद्भाजने विप्रो भ्रूणहत्यां स विंदति । पिता च म्रियते यस्य जीवेत च पितामहः ॥४६ ॥ द्वौ पिण्डावेकनामानावेकस्मिन् प्रपितामहे । पितॄणां त्रीणि पूर्वाणां पिता च वमते यदि ॥४७॥ तद्दिनं चोपवासश्च पुनः श्राद्धं परेऽहनि । जानुपातं बहिः पाणि हुंकारं तर्जनं बलिम् ॥४८॥ हस्तावलीढनं कुर्याच्छ्राद्धघाती प्रजायते । पानीयं पिबतः पात्रे मुखतो गलितं यदि ॥४६॥ हसते वदते चैव निराशाः पितरो गताः । बर्बरीकुसुमं चैव केतकीकरवीरकम् ॥५० जाती दर्शनमात्रेण निराशाः पितरो गताः । तुलसी शतपत्राणि भृंगराजस्तथैव च ॥५१॥ मारुतं मोगरं चैव पितॄणां दत्तमक्षयम् । कुलित्थाशणकाढक्यो मसूरा याव नालकाः ॥५२॥
[[२६३७]]
[[२६३८]]
दाल्भ्यस्मृतिः
निः पावा राजमाषाश्च घ्नन्ति श्राद्ध पतत्यधः ।
श्राद्ध े वै मृन्मयं (मृण्मयं ) पात्रं मृत्तिकायाश्च लेपनम् ॥५३॥ साज्यं धूपं घृतं चैव निराशाः पितरो गताः । क्षारस्य तु यल्लवणमुच्छिष्टस्य तु यद्घृतम् ॥५४॥ मुखेन श्रमितं भुंक्त े द्विजश्चान्द्रायणं चरेत् । अंगुल्या दन्तधावेन प्रत्यक्ष लवणेन च ॥५५॥ मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणम् । श्राद्धं कृत्वा परश्राद्ध यस्तु भुञ्जीत लोलुपः ॥५६॥ पतन्ति पितरस्तस्य लुप्तपिण्डोदकक्रियाः । श्राद्धं कृत्वा तु यो विप्रो नैव भुंक्त े कदाचन ॥७॥ हव्यं देवा न गृह्णन्ति कव्यानि पितरस्तथा । पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ॥५८॥ दानं प्रतिग्रहो होमः श्राद्धभुगष्ट वर्जयेत् । श्राद्ध े नियुक्तो भुक्त्वा च भोजयित्वाभिगम्य च ॥५६॥ व्यवायी रेतसो गर्ते मज्जयत्यात्मनः पितॄन् । देवपूर्वभवेच्छ्राद्धमदैवं चापि यद्भवेत् ॥६०॥ ब्रह्मचारी भवेद्भुक्त्वा भुक्त्वा श्राद्धं च नेत्तिकम् । पितृपात्रं समुत्सृष्ट्वा (ज्य) पिण्डांस्तत्र प्रदापयेत् ॥ ६१॥ अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषास्तथा । तेषां श्राद्ध तु कर्तव्यमेकोद्दिष्ट (?) पार्वणम् ॥६२॥ सूतकांतरितं श्राद्धं प्रमादाद्गलितं तथा । तद्दिनाद्वादशाहे वा कुर्यात् तन्मासपर्वणि ॥६३॥श्राद्धकरणेपुत्रस्याधिकारित्वम्
॥६७॥
[[२६३६]]
प्रत्यब्दं पार्वणे नैव विधिना क्षेत्रजोरसौ । कुर्यात्तामितरे कुयुरेकोद्दिष्ट सुतादश ॥६४॥ द्वौ दैवे प्राकुनयः पित्र्ये उदगेकैकमेव वा । मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ॥६५॥ बहूनामपि बन्धूनामेकश्चेत् पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥६६॥ बहूनामेक भार्याणामेका चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण पुत्रवत्य इति स्थितिः अष्टकासु च वृद्धौ च प्रेतपक्षे क्षयेऽहनि । मातुः श्राद्ध पृथक् कुर्यादन्यत्र पतिना सह ॥६८॥ अन्वष्टक्यं च पूर्वेद्य र्मासि मास्यथ पार्वणम् । काम्यमाभ्युदयमाष्टम्यामेकोद्दिष्टमथाष्टमम् ॥६६ ॥ चतुर्थाद्यषु साम्नीनामग्नौ होमो विधीयते । पित्रियद्विजपाणौ च उत्तरेषु चतुर्ष्वपि ॥७०॥ यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥ ७१ ॥ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेणैव हता ये तु तेषां तत्र प्रदीयते ॥७२॥ मासिकेऽब्दे तु संप्राप्त अंतरामृतसूतके । वदन्ति शुद्धौ तत्कार्यं दर्शे वापि मनीषिणः ॥७३॥ श्राद्ध ऽहनि समुत्पन्ने मृतस्याविदिते दिने । एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥७४॥
[[२६४०]]
दालभ्यस्मृतिः
समत्वमागतस्यापि पितुः शस्त्रहतस्य च । एकोद्दिष्ट सुतैः कार्यं चतुर्दश्यां महालये ॥७५৷৷ महालये गयाश्राद्ध मातापित्रोः क्षयेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिंडदानं यथाविधि ॥७६॥ एकोद्दिष्ट दैवहीनमेकाध्यैकपवित्रकम् । आवाहनाग्नौ करणरहितं त्वपसव्यवत् ॥७७॥ संकल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् । नावाहनाग्नौ करणं पिण्डांश्चैव न दापयेत् ॥७८॥ विवाहव्रतबंधोर्ध्वं वर्षमव्दार्धमेव वा । पिण्डान्सपिण्डान् नो दधु, र्न कुर्युस्तिलतर्पणम् ॥७६॥ नित्यश्राद्धमदैवं स्यादर्घ्यपिण्डविवर्जितं । आमश्राद्ध ं तु नैव स्याच्छूद्रः कुर्यात्सदैव हि ॥८०॥ अपत्नीकः प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धो द्विजः कुर्याच्छूद्रः कुर्यात्सदैव हि ॥८१॥ या संख्या पक्वपाकस्य शुष्कं तद्विगुणं भवेत् । चतुर्गुणं हिरण्यं तु श्राद्धकर्मणि संस्थितम् ॥८२॥ मातुः श्राद्ध ं तु पूर्वं स्यात् पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥८३॥ दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुक् द्विजः । ततः सन्ध्यामुपासीत होमं चैव यथाविधि ॥८४॥ चान्द्रायणं नवश्राद्ध पाराको (?) मासिके मतः । पक्षत्रयेऽति कृच्छ्र ं स्यात् षण्मासे कृच्छ्र एव तु ॥८५॥
शस्त्रहतकानां श्राद्ध दिनवर्णनम्
आव्दिके पादकृच्छ्र स्यादेकाहः पुनरादिके ।
अत ऊर्ध्वं न दोषः स्याच्छंखस्य वचनं यथा ॥ ८६ ॥ शस्त्रविप्रहतानां च श्रृंगीदंष्ट्रीसरीसृपैः । आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥८७॥ गोविप्रनृपहन्तॄणामन्वक्षं चात्मघातिनाम् ।
॥८८॥
पापण्डमाश्रितानां च निवर्तेतोदकक्रिया अग्निदाता तथा चान्ये ये चान्ये पाशछेदकाः । तप्तकृच्छ्र ेण शुध्यन्ति मनुराह प्रजापतिः ॥८६॥ गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहेषु च । यमुद्दिश्य त्यजेत्प्राणांस्तमाह ब्रह्मघातकम् गोभिर्हतं ततो वद्धं ब्राह्मणेन तु घातितम् । तं स्पृशन्ति च विप्रा वोढारोऽग्निप्रदायकाः ॥ ६१ ॥ उद्यता सह यावंत एककार्येष्ववस्थिताः ।
[[२६४१]]
यद्य ेको घातयेत्तत्र सर्वे ते घातकाः स्मृताः ॥१२॥ बहूनां शस्त्रघातानामेकश्चेद्धर्मभेदनम् ।
सर्वे ते शुद्धिमिच्छन्ति स एको ब्रह्मघातकः ॥६३॥ महापातकिसंस्पर्शे स्नानमेव विधीयते । संस्पृष्टस्तु तथा भुंक्त कृच्छ्रसांतपनं चरेत् ॥६४॥ यस्य चाण्डालिसंयोगो भवेत् किञ्चिदकामतः । तत्र सान्तपनं कृत्त्वा प्राजापत्यद्वयं चरेत् ॥६५॥ कामतस्तु यदा कश्चिच्चण्डालीगमनं कृतम् । चान्द्रायणेन शुद्धिः स्यात्तप्तकृच्छ्रद्वयं चरेत् ॥६६॥
[[२६४२]]
दाल्भ्यस्मृतिः
चण्डालोदकसंस्पर्शे स्नात्त्वा विप्रो विशुध्यति । तेनैवोच्छिष्टसंस्पर्श त्रिरात्रेणैव शुध्यति ॥६७॥ अज्ञानतः स्नानमात्रमन्येभ्योऽपि विशेषतः । अत ऊर्ध्वं न दोषः स्यान्मदिरास्पर्शने तथा ॥८॥ अस्थिभेदं गवां कृत्त्वा लांगूलशफछेदनम् । पातनं चैव शृङ्गाणां मासार्धं यावकं पिवेत् ॥६॥ यवसस्तावदूढव्यो यावद्रोहति तद्व्रणः । तद्वर्णा दक्षिणां दद्यात्ततः पापात्प्रमुच्यते ॥१००॥ हले वा शकटे चैव दुर्बलं यो नियोजयेत् । प्रत्यवाये समुत्पन्ने ततः प्राप्नोति गोवधम् ॥१०१॥ प्रयत्नाद्वापि कूपेषु वृक्षच्छेद निपातने । गवाशनं कृन्तयित्त्वा ततः प्राप्नोति गोवधम् ॥१०२॥ अतिवाहातिदोहाभ्यां नासिकाभेदनेन तु । नदीपर्वतसंरोधे पादोनं व्रतमाचरेत् ॥ १०३॥ एका चेद्बहुभिः कैश्विद्दवाद्वयापादिता यदि । पादं पादं च हत्यायाश्चरेयुस्ते पृथक् पृथक् ॥ १०४॥ एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने च त्रयः पादाः चरेत्सर्वं निपातने ॥१०५॥ रोम्णां तु प्रथमे पादे द्वितीये श्मश्रुवापनम् । पादहीने शिखावजं सशिखं तु निपातने ॥१०६॥ पादे वस्त्रद्वयं दद्याद् द्विपादे कांस्यभाजनम् । पादहीने च गां दद्यान्मिथुनं च निपातने ॥ १०७॥
आशौचनिर्णयवर्णनम्
कथंचिद् वृषभं हत्वा होमधेनु तथैव च । अन्नं तु द्विगुणं कुर्यादक्षिणा द्विगुणा भवेत् ॥ १०८ ॥ राजा वा राजमान्यो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तेषां प्रायश्चित्तं कथं भवेत् ॥ १०६ ॥ केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् । द्विगुणे तु व्रते चीर्णे द्विगुणा दक्षिणा भवेत् ॥११०॥ द्वौ मासौ पालयेद्वत्सं द्वौ मासौ द्वौ स्तनौ दुहेत् । द्वौ मासौ चैकवेलायां शेपं कालं यथेच्छया ॥ १११ ॥ औषधं पथ्यमाहारो दद्याद्गोब्राह्मणेषु च ।
।
[[२६४३]]
वैकल्यतः (ल्पतः?) विपत्तौ च प्रायश्चित्तं न विद्यते ॥ ११२ ॥ निशिबन्धविरुद्धषु व्याघ्रसर्पहतेषु च । अग्निविद्यन्निपातेषु प्रायश्चित्तं न विद्यते ॥११३॥ स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा । वदन्त्यनुग्रहं ये `वै तत्पापं तेषु गच्छति ॥११४॥ वलत्वेन दशाहे तु प्रेतत्वं यदि गच्छति । सद्य एव तु शुद्धिः स्यान्न शौचं नैव सूतकम् ॥ ११५ ॥ आदन्त जन्मनः सद्य आचूडान्नैशिकी स्मृता । आव्रतात्तु त्रिरात्रं स्याद्दशरात्रमतः परम् ॥११६॥ आचूडाकरणात् सद्यः प्रदानान्नैशिकी स्मृता । आविवाहात्रिरात्रं स्याद्दशरात्रमतः परम् ॥११७॥ अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । गुवन्ते वास्यनूचानमातुलश्रोत्रियेषु च ॥११८॥
[[२६४४]]
दाल्भ्यस्मृतिः
चतुर्थे दशरात्रं स्यात् पण्णिशाः पुंसि पञ्चमे । षष्ठे चतुरहं प्रोक्तं सप्तमे तु दिनत्रयम् ॥ ११६॥ एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । त्र्यहात् केवलवेदज्ञस्तद्धीनो दशभिर्दिनैः ॥१२०॥ मन्त्रकर्मपरिभ्रष्टाः संध्योपासनवर्जिताः ।
नामधारकविप्राणां भस्मांतं सूतकं भवेत् ॥१२१॥ संपर्काज्जायते दोषो नाऽन्यो दोषोऽस्ति ब्राह्मणे । तस्मात् सर्वप्रयत्नेन संपर्क नैव कारयेत् ॥१२२॥ आदावारभ्य आशौचं संयोगो यस्य नाग्निषु । आदावन्ते च विज्ञेयं यस्य वैतानि को विधिः ॥१२३॥ शवसूतकमुत्पन्नं पश्चाज्जातं न
सूतकम् । शावेन शुध्यते सूतिः सूत्या शावं न शुध्यति ॥१२४॥ जातं जातेन शुद्ध स्यान्मृतकं मृतकेन तु । न जाते मृतशुद्धिः स्यान्न मृते जातकं तथा ॥१२५॥ मातुर प्रमीतिः स्यादशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ॥ १२६॥ स्रावे मातुस्त्रिरात्रं स्यात्सपिण्डाः शौचवर्जिताः । पाते मातुर्दशाहः स्यात्सपिण्डानां दिनत्रयम् ॥१२७॥ आचतुर्थाद्भवेत्सावः पातः पञ्चमषष्ठयोः । अत ऊर्ध्वं प्रसूतिः स्यात् सूतकं तु यथोदितम् ॥१२८॥ शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं तथा । रजस्वलायाः संस्पर्शे स्नानमेव कुमारके ॥१२६ ॥
देशान्तर परिभाषावर्णनम्
आचूडाकरणाद्वाल आदन्ताच्च शिशुः स्मृतः । कुमारकस्तु विज्ञेयो यावन्मौञ्जीनिबन्धनात् ॥१३०॥ विवाहव्रतयज्ञेषु त्वन्तरामृतसूतके ।
पूर्वसंकल्पितार्थानि भोज्यानि मनुरत्रवीत् ॥१३१॥ विवाहचौलोपनयने यस्य माता रजस्वला । तस्याः शुद्धः परं कार्य मांगल्यं मनुरब्रवीत् ॥१३२॥ एकविंशत्यहर्यज्ञे विवाहे दश वासराः । पश्चाहश्चोपनयने नान्दीश्राद्ध पुरो भवेत् ॥१३३॥ विवाहव्रतयज्ञेषु अन्तरामृतसूतके ।
।
[[२६४५]]
प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥१३४॥ प्रारंभो वरणं यज्ञे संकल्पो व्रतसत्रयोः । विवाहे मातृपूर्वं स्याच्छ्राद्ध पाकपरिक्रिया ॥ १३५॥ निमन्त्रिते यदा विप्रें श्राद्धकर्मण्युपस्थिते । विधिना चैव तत्कार्यं नाशौचं नैव सूतकम् ॥१३६॥ भुजानेषु विप्रेषु सूतकं जायते यदि । अन्यगेहोदकाचान्ताः सर्वे ते शुद्धिमाप्नुयुः ॥१३७॥ देशान्तरे मृतः कश्चित् सपिण्डः श्रूयते यदि । न त्रिरात्रमहोरात्रं सद्यः स्नात्वा विशुध्यति ॥ १३८॥ देशान्तरं तु विज्ञेयं षष्टियोजनमायतम् । चत्वारिंशद्वदन्त्यन्ये त्रिंशदन्ये विपश्चितः ॥१३६॥ वाचो यत्र विभिद्यन्ते गिरिर्वा व्यवधायकः । महानद्यन्तरं यत्र तद्दशान्तरमुच्यते ॥१४०॥
[[१८५]]
[[२६४६]]
दाल्भ्यस्मृतिः
स्वगोत्रो वान्यगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात् स दशाहं समापयेत् ॥१४१॥ निर्दशे गुरुपाते च कृते चैवोर्ध्वदेहिके । ऊर्ध्वं त्रिरात्रमाशौचं दशाहमकृतक्रियः ॥ १४२ ॥ आत्रिमासात् त्रिरात्रं स्यात् पण्मासे पक्षिणी स्मृता । अहः संवत्सरादर्वाक् ततः स्नानं समाचरेत् ॥ १४३॥ रात्रावेव समुत्पन्ने मृते रजसि सूतके । पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ॥ १४४॥ उदिते तु यदा सूर्ये नारीणां दृश्यते रजः । जननं वा विपत्तिर्वा यस्याहस्तस्य शर्वरी ॥१४५॥ उषसः प्राग्रजः स्त्रीणां विज्ञेयं दिनपूर्वकम् । अर्धरात्रावधिः कालः सूतकादौ विधीयते ॥१४६॥ रात्रि कृत्वा त्रिभागां तु द्वौ भागौ पूर्व एव तु । उत्तरं तु परं ज्ञेयं युज्यते रुधिरःस्मृतः ॥१४५॥ रजस्वला यदि स्नाता पुनरेव रजस्वला । एकादशदिनादर्वागशुचित्वं न विद्यते ॥ १४८॥ रजस्वलायां प्रेतायां संस्कारादीनि नाचरेत् । ऊर्ध्वं त्रिरात्रतः स्नातां शवधर्मेण दाहयेत् ॥ १४६ ॥ या मृता सूतकी नारी या मृता च रजस्वला । पूर्ववस्त्रं परित्यज्य शवधर्मेण दाहयेत् ॥१५०॥ अन्तरिक्षे मृता ये वाऽप्यग्नौ चाप्सु प्रमादतः । उदक्यां सूतिकीं नारीं चरेच्चान्द्रायणत्रयम् ॥१५१॥
शुद्धाशुद्धिवर्णनम्
२६.४७
स्नापयेत् पञ्चगव्येन मृत्तिकाभिश्च लेपयेत् । वंशपात्रेण तत्स्नानं ततः शुध्यति सूतिका ॥१५२॥ आतुरे स्नानमुत्पन्ने शतकृत्वा ह्यनातुरः । स्नात्वा स्नात्वा स्पृशेदेनं ततः शुध्यति आतुरः ॥१५३ ॥ शुना पुष्पवती स्पृष्टा पुष्पवत्यन्यया तथा । शेषान्यहान्युपवसेत् घृतं प्राश्य विशुध्यति ॥ १५४॥ अन्त्यजैः स्वीकृते तीर्थे तडागेषु नदीषु च । . पिवेत्पानीयमज्ञानात् पंचगव्येन शुध्यति ॥ १५५ ॥ तडागकूपगर्ते तु चण्डालादिविदूषिते । अपां शतघटोद्धारः पंचगव्येन शुध्यति ॥१५६॥ दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ १५७॥ परिवित्तिः परिवेत्ता या या च परिविंदति । सर्वे ते नरकं यान्ति दातृयाजकपंचमाः ॥१५८॥ पितृव्यपुत्राः सापत्नाः परनारीसुताश्च ये । दाराग्निहोत्रधर्मेण न दोषः परिवेदने ॥१५६॥ ज्येष्ठो भ्राता यदातिष्ठेदाधानं नैव कारयेत् । अनुज्ञातस्तु कुर्वीत शंखस्य वचनं यथा ॥ १६०॥ आममांसं घृतं क्षौद्रं स्नेहाश्च पत्रसंभवाः । म्लेच्छभाण्डगता ये वै आत्मभाण्डगताः शुचिः ॥ १६१॥ पत्रचूर्णेषु यत्तोयं गोरसेषु च संस्थितम् । न दूष्यं तद्भवेद्वारि इत्येवं मनुरब्रवीत् ॥ १६२॥
[[२६४८]]
दाल्भ्यस्मृतिः
संग्रामे अट्टमार्गे च यात्रादेवगृहेषु च । महोत्साहे महोत्पाते स्पृष्टास्पृष्टिर्न दुःष्यति ॥ १६३॥ दिवा(?)कपिच्छ(त्थ)छायायां रात्रौ दधिशमीषु च । धात्री फलेषु सप्तम्यामलक्ष्मीर्वसते सदा ॥ १६४॥ शूर्पवातो नखाद्विन्दुः केशवखघटोदकम् । मार्जनीरेणुसहितं हन्ति पुण्यं पुराकृतम् ॥१६५॥ यत्र यत्र च संकीर्णं पश्येदात्मानमात्मना । तत्र तत्र तिलैर्होमो गायत्र्या वर्तनं यथा ॥ १६६ ॥ इदं दाल्भ्यकृतं शास्त्रं श्रावयिष्यति यो द्विजान् । सवपापविशुद्धात्मा पुण्यलोकमवाप्नुयात् ॥१६७॥
॥ इति श्रीदाल्भ्यप्रोक्तं धर्मशास्त्रं समाप्तम् ॥ ॥ शुभम्भूयात् ॥॥ श्रीगणेशाय नमः ॥