आङ्गिरसस्मृतिः

(२)

पूर्वाङ्गिरसम्

आङ्गिरसम्प्रति ऋषीणांमप्रश्नः पावकप्रतिमं साक्षान्मुनिमाङ्गिरसं द्विजाः । ब्रूहि धर्मानशेषान्न इत्यूचुः प्रणिपत्य तम् ॥ १ ॥ तेभ्यः स तु ततः प्रीत्या शृणुध्वमिति चाफणत् । वच्मि तानखिलान् धर्मान् वैदिकान् मुक्तये परान् ॥२ ॥ धर्मः स्याच्चोदना प्रोक्तस्तदन्यस्तूपचारतः । लिङ्गादिरूपा सा ज्ञेया मुक्तिदा श्रुतिचोदिता ॥ ३॥ श्रुत्युक्तलिङ्लोट्तव्यप्रत्ययलक्षणलक्षिता ।

चोदना सैव नान्या सा पुराणस्मृतिचोदिता ॥ ४॥

पुराणोक्त’ न कुर्यात्

न वैदिकः पुराणोक्तः कर्माणि मनुभिश्चरेत् । वेदोक्तरेव तैर्मन्त्रैर्निखिलानि समाचरेत् ॥ ५॥ कर्ममध्ये पुराणोक्तमन्त्रोच्चारणमात्रतः ।

नश्येत्तु वैदिकं कर्म तस्मात्तु न तथाऽऽचरेत् ॥ ६ ॥ पुराणोक्तष्वेषु सत्सु लौकिकेषु तथाऽऽचरेत् ।

[[२६५०]]

आङ्गिरसस्मृतिः

मन्त्राभावे व्याहृतयः

मन्त्राभावे तु सर्वत्र स्मृता व्याहृतयः किल ॥ ७ ॥ अन्वये लिङ्गतोऽर्थाद्वा विरोधाभावतः परे । तत्तन्मन्त्राः संभवन्ति तेषु तेषु तु कर्मसु ॥ ८ ॥ प्रायश्चित्तं दृश्यते न यत्र कुत्रापि तत्र वै । तस्यैतत्कथितं दिव्यं प्रायश्चित्तं महत्तरम् ॥६॥ पुण्या व्याहृतयश्चेति सा ऋग्वा वैष्णवी शिवा । सर्वपापप्रशमनी चिन्तितार्थैकदायिनी ॥१०॥ प्रायश्चित्तक्रियाहेतोर्निर्णीता विष्णुना पुरा।

न व्याहृतिसमो मन्त्रो न व्याहृतिसमो जपः ॥११॥ न व्याहृतिसमस्तीर्थो न व्याहृतिसमं तपः । न व्याहृतिसमो यज्ञो न व्याहृतिसमाः क्रियाः ॥१२॥ तस्मात्सर्वत्र ता दृष्टाः प्रायश्चित्ताय केवलम् । तस्माद्वैदिककृत्यानां लौकिकानामशेषतः ॥१३॥ प्रमादाकरणे कृत्स्ने तत्त्यागे बुद्धिपूर्वके । अज्ञानिनां ज्ञानिनां च पावकास्तारकाः पराः ॥१४॥ उत्तारका व्याहृतयो ऋचा युक्तास्तया पुनः ।

जातकर्माद्यतिक्रमे

कर्मणोऽकरणे जातनाम्नोर्व्याहृतयः स्मृताः ॥१५॥

दिनैकसाध्याः कथितास्तथा नामाख्यकर्मणः । तथान्नप्राशनस्यापि चौलस्याकरणे ततः ॥१६॥

श्राद्धपाकानन्तरमाशौचेनिर्णयः

[[२६५१]]

दिवसद्वंयसाध्या याः परा व्याहृतयः स्मृताः । पश्चान्मौी प्रकर्तव्या मौञ्ज्यास्त्वकरणे तथा ॥१७॥ मुख्यकाले षोडशाब्दपर्यन्तं दशमादितः । दिनत्रयचतुष्पञ्चपट्सप्ताष्टनवादिकाः ॥१८॥

रात्रयः कथितास्तस्य तज्जपस्तस्य निष्कृतिः । किमन्येषां कर्मणां तु यस्य नास्ति हि निष्कृतिः ॥ १६ ॥ तस्यैताः कथिताः सद्भिः सततं वेदवादिभिः । जप्त्वैता व्याहृतीर्दिव्याः प्रायश्चित्ताय केवलम् ॥२०॥ ( परिपूताः ) ततः सद्यस्तत्तत्कर्म समारभेत् । पाकारम्भसमारम्भः श्राद्धमात्रस्य संततम् ॥२१॥ प्रभवेद्धि विशेषेण संकल्पस्तु न तस्य वै ।

श्राद्धपाकानन्तरमाशौचं यदि ।

यदि दैवाद्यत्नमध्ये भवेत्सूतक मृत्विजाम् ॥२२॥ तत्क्रियाकरणे तत्तु न तेषां वारकं भवेत् । तत्क्रियार्थं प्रथमतः स्नात्वा सम्यक् समन्त्रकम् ॥२३॥ तत्क्रियामथ कुर्वीत तावत्तेषां न सूतकम् । कर्मकाले तदाशौचं सद्यो विलयमेति वै वृत्ते कर्मणि भूयश्च तदुदेति स्वयं पुनः ।

पाकारम्भानन्तरं तद्वीथ्यां मृतिसंभवे

॥२४॥

श्राद्ध े पाकसमारम्भे वृत्तेऽथ निपतेच्छवम् ॥२५॥ 1 तद्वीथ्यां तेन तच्छ्राद्धं दूषितं न भवेदपि ।

[[२६५२]]

आङ्गिरसस्मृतिः

पाकारम्भात्पूर्वं तद्वीथ्यां मृतिसंभवे

पाकारम्भस्य पूर्वं तत्प्रभवेच्छ्राद्धवारकम् ॥२६॥ शवं वीथ्यां निपतितं पाकारम्भात्परं तु न । उपक्रान्तस्य तस्यास्य सूतकं यदि मध्यतः ॥२७॥ अप्यागतं तेन तद्धि वारितं न भविष्यति ।

तस्माच्छ्राद्धमुपक्रान्तं सूतकेऽपि तथाऽऽचरेत् ॥२८॥ आतर्पणं विधानेन पाकस्यारम्भतोऽखिलम् ।

दर्शपूर्णमासेष्टिपशुबन्धानन्तरं श्राद्धम्

सर्वेषां व्रतकृछ्राणां वारकं श्राद्धमेककम् ॥२६॥ तस्यापि वारको यागः पौर्णमासश्च दाशिकः । पौर्णमासं च दशं च पशुबन्धं च तद्दिने ॥३०॥ समागतं समाप्याऽऽदौ पश्चाच्छ्राद्धं समाचरेत् । पितृक्रियादिनप्राप्तयागानुष्ठानतोऽखिलाः ॥३१। वसवश्चापि रुद्राश्चाप्यादित्याश्चैव कृत्स्नशः । तद्रपाः पितरः सर्वे सर्वे चापि पितामहाः ॥३२॥ नित्यतृप्ता भवेयुर्वै निखिलाः प्रपितामहाः । दीक्षाप्राप्त्या तु भूयिष्ठा तृप्तिस्तेषां भविष्यति ॥३३॥

महादीक्षामध्यगतश्राद्धम्

प्रत्यव्दमासस्तन्मासदीक्षा या न भविष्यति ।

प्रत्यब्दमपि पित्रोस्तन्न पितृव्यादिकं मतम् ॥३४॥

महादीक्षामध्यगतं गतमेव

भविष्यति ।

महादीक्षागतस्यास्य तदन्ते करणं ननु ॥३५॥

शुद्ध नव वैदिककर्मसु प्रवृत्तिः कार्या

दीक्षा महत्यस्ता ज्ञेयाश्चतुर्विंशद्दिनाधिकाः ।

खर्वदीक्षामध्ये

तिस्रस्ताभ्यस्तु या न्यूनास्त्रिषडादिदिनात्मकाः ॥ ३६॥ खर्वात्मकास्ता विज्ञेयास्तन्मध्यगतपैतृकम् ।

यद्वा तदन्ते तत्कार्यमन्यत्कबलितं तया ॥३७॥

दीक्षावृद्धौ

[[२६५३]]

महत्या दीक्षया कर्म सत्रेष्वेवं गतं गतम् । न कार्यमिति वाच्यं किं दीक्षावृद्धौ कथंचन ॥३८॥

संप्राप्तमपि तच्छ्राद्धमवशाद्दैवयोगतः ।

तदन्त एव कुर्वीत तस्या अपि पुनः कदा ॥३६॥ दैवयोगेन चिद्वृद्ध महत्त्वं चेत्समागतम् । कारणान्तरसंगत्या तदन्ते चेत्कृताकृतम् ॥४०॥

दीक्षामध्यमृते न संस्कारः कर्तव्यः

तच्छ्राद्धं भवतीत्याहुदिक्षामध्यमृतानपि ।

न संस्कुर्यान्नापि पश्येत् संस्कुर्यात्तद्वयतिक्रमे ॥४१॥ कर्मणो वैदिकस्यैवं प्राबल्यं प्रतिपादितम् । ब्रह्मविद्भिर्महाभागैर्धर्नज्ञैस्तत्त्वदर्शिभिः ॥४२॥ दानतीर्थव्रतादिभ्यः कृछ्रेभ्योऽपि विशिष्यते । वैदिकं तु महत्कर्म वैदिकं प्रभवेत्ततः ॥४३॥ शुद्धः सन्नेव कुर्वीत वैदिकं कर्म नाशुचिः । आशौचादशुचित्वं हि ब्राह्मणानां भविष्यति ॥४४॥

[[२६५४]]

पण आङ्गिरसस्मृतिः

सूत्याशौचस्यास्पृश्यत्वम्

सूत्याशौचे मृताशौचे वैदिकं कर्म नाचरेत् । अस्पृश्यत्वं न सूत्यां स्यादाशौचे तु भवेद्धि तत् ॥४५॥ उभयोर्भोजनं कुर्यान्महागुरुनिपातने ।

[[110811]]

अहोरात्रं भुक्तिहैन्यं सर्वेषामपि तन्मतम् ॥४६॥ अकालभुक्तिराशौचे सूत्याशौचे न तन्मतम् । संध्यामात्रं प्रकुर्वीत तयोर्मानसमन्त्रतः एकद्वित्रिचतुर्नारीनष्टाशौचस्य चेत्पुनः । आशौचे वर्तमानस्य संघाताशौचिनस्ततः साक्षादन्नस्य भुक्तिर्न संध्या सा स्याज्जले क्रिया ।

संतताशौचसंभवे

शतज्ञातिगतग्रामवासिनः संतताधिनः ॥४६॥ सूतकान्ते पुनः प्राप्तसूतकस्य निरन्तरम् ।

॥४८॥

अब्दं दृष्ट्वा ततो यत्नात्यक्त्वा तं ग्राममादरात् ॥५०॥ सद्यो देशान्तरे पित्रोः श्राद्ध कार्यमिति स्थितिः । यदा परंपराघोऽस्य (घस्य) जायते श्राद्धवारकः ॥ ५१॥ तदा संवत्सरं दृष्ट्वा सद्यो देशान्तरं व्रजेत् । यदि विघ्नो न जायेत श्राद्यस्याथ तथा तदा ॥ ५२॥ श्राद्धं तत्रैच कुर्वीत धृतयज्ञोपवीतवान् । एकदैव समाक्रान्तः सूतकत्रयतो यदि ॥५३॥ एकाशौचेन वा पश्चाद्यज्ञसूत्रं तु विभृयात् । 1. यज्ञसूत्रविहीनः स्यादनई. सर्वकर्मसु ॥५४॥

[[२६५५]]

शिखा निर्णयवर्णनम्

अभावे तस्य सूत्रस्य चेलं वाजिनमेव वा । धारयीत विधानेन न मन्त्रस्तत्र विद्यते ॥५५॥

सूत्रस्यैव भवेन्मन्त्रः शिखाहीनश्च तादृशः ।

शत्रुच्छिन्नशिखश्चेत्

शत्रुच्छिन्नशिखः सद्यो विभ्रन् कर्णे शुचिर्यतन् ॥५६॥ समगोपुच्छलोमानि प्राजापत्यप्रपूर्वकम् ।

पुनः संस्कारतः शुद्धः प्रभवेन्नात्र संशयः ॥ ५७ ॥

मध्यच्छेदे

मध्यच्छिन्ना यदा चूडा प्राजापत्येन शुध्यति ।

रोगादिना नाशे

शिखाया रोगतो नाशे कृत्स्नायाः संकटेऽपि वा ॥ ५८ ॥

अवशाद्वह्नितो वापि पुनः संस्कार एव हि । शिखारोहणतः पश्चान्न तत्पूर्वं समाचरेत् ॥५६॥ तावद्गोपुच्छलोमानि धार्याण्येव विधानतः । यथावत् सा तु न भवेद्बार्धकेण च रोगतः ॥६०॥

सप्तत्यध्वं रोमभिः

सप्तत्यूर्ध्वं तु चेत्तस्याः पूर्वतः पृष्ठतोऽपि वा । पार्श्वतः परितो वापि समुद्भूतैश्च रोमभिः ॥३१॥ शिखा कार्या प्रयत्नेन न चेन्नैवोपपद्यते । तत्स्थाने सर्वशून्ये तु परितो वापि किं पुनः ॥६२॥ ब्राह्मण्यसूचनायैवं तानि लोमानि धारयेत् ।

अन्यथा न भवेदेव तथा तस्मात्समाचरेत् ॥ ६३॥

[[२६५६]]

एवं

आङ्गिरसस्मृतिः

वर्षाष्टकेऽतीते तार्तीयीकाश्रमं व्रजेत् । शिखासूत्रं च तद्युग्मं ब्राह्मणत्वस्य मूलके ॥६४॥

यया कया च विधया शिखां सूत्रं च बिभृयात् । शिखाच्छेदो पश्चवारं यदि जायेत शत्रुभिः ॥६५॥ ब्राह्मण्यं तस्य नष्टौं स्यात् पुनः संस्कारतोऽपि तत् । श्राद्धविघ्न स्त्रीसंगे

श्राद्धविघ्ने समुत्पन्ने सन्ततं सूतकादिना ॥६६॥ अकृत्वैव तदा श्राद्धं नोपेयाच्च स्त्रियं तराम् । तदा यद्याहितो गर्भो ब्रह्महत्याव्रतं चरेत् ॥६७॥ तदा सकृत्सन्निपाते प्राजापत्यत्रयं चरेत् । असकृद्गमनाच्चापाप्रयानं च

समाचरेत् ॥६८॥

तस्योपनयनं भूयश्चोदितं ब्रह्मवादिभिः ।

प्रविष्टपरकायो यः स्वभार्या तेन वर्मणा ॥ ६६ ॥ नोपेयात्तत्प्रविष्टः सन्नोपेयात्तस्य तामपि । तादृशं कर्म कुर्याच्चत्तत्कुलं स्वकुलं च ते ॥७०॥ आत्मानं पातयेद्धोरे नरके रौरवाभिधे ।

नष्ट े त्रिप्राय श्राद्ध पूर्वस्मिन् हविषि क्वचित् ॥७१॥ तदा पुनस्तत्संपाद्य हुत्वा प्राणादिभिश्चरुम् । द्वात्रिंशदाहुतेः- पश्चात्तच्छेषेण समापनम् ॥७२॥ यत्तत्त्रिप्रायकं श्राद्धं तस्यागूश्च समापनम् । अपराह्न च मध्याह्न े सद्यः पक्कं भवेद्धि वै ॥७३॥

लाजहोमात्परंरजस्वलायां जातायांनिर्णयः

पृथक् पाकात्तस्य भुक्तिद्वितीये तत्र नैव सा । विप्राणां भुक्तिमात्रं स्यादाभान्त्येतत्समाचरेत् ॥७४॥ संभान्त्यथ मृताहस्य समारम्भो विधीयते । सर्वशेषं समादाय पिण्डांस्त्रीनेव निर्वपेत् ॥७५॥ अवशिष्ट प्राशयेच्च त्रिप्रायकविधौ तथा । यत्नान्महाभीतिमति पश्चात्स्याद्भूरिभोजनम् ॥७६॥

लाज होमात्पूर्वं यदि रजस्वला

अर्वाक्तु लाजहोमस्य वधूर्यदि रजस्वला । हविष्मतीति मन्त्रेण शतकुम्भैर्विधानतः ॥७७॥ स्नापयित्वा विधानेन वस्त्राभ्यां संपरीत्यतः । जप्त्वा द्विवारं यत्नेन युञ्जानाहुतियुग्मकम् ॥७८॥ पृथगग्नौ स्थापितेऽथ जहुयात्संस्कृतं घृतम् । पश्चात्तन्त्रं प्रयोक्तव्यमात्राह्मणविसर्जनम् ॥७६॥ योक्त्रं विमुच्य तां पत्नीं दूरतस्तु विनिक्षिपेत् । पश्चाच्चतुर्थदिवसे स्नातायां समनन्तरम् ॥८०॥ प्रवाहनादिकर्माणि विधिनैव समाचरेत् । उभयोस्तु तदा नित्यं विधिना स्यात्पयोव्रतम् ॥८१॥ तदौपासनहोमः स्यात् समारम्भात्तु तन्मतम् ।

लाजहोमात्परं चेत्

लाजहोमात्परं सा चेत्तदा तत्स्नानतः परम् ॥८२॥ अर्वाक् शेषहोमस्य तूष्णीकं मन्त्रवर्जितम् ।

[[२६५७]]

वस्त्रद्वयं प्रदायास्यै ताभ्यामाच्छाद्य तत्परम् ॥८३॥ -

[[२६५८]]

आङ्गिरसस्मृतिः

अपावृत्ते तृतीये च दिवसेऽथ चतुर्थके ! -अहि द्वितीययामे वै शतकुम्भैरमन्त्रितैः ॥८४॥

अभिषेकं कारयित्वा शेषं कर्म समाचरेत् ।

औपासने त्वनारब्धे द्वितीयेऽह्नि चेत्

औपासने त्वनारब्धे द्वितीयदिवसे यदि ॥८५ ॥ रजस्वला तदा तस्यै हविष्मन्मन्त्र सेचनात् । परं वस्त्रद्वयं दत्वा तूष्णीकं मन्त्रवर्जनात् ॥८६॥ ताभ्यामाच्छाद्य तत्पश्चात्सहस्र रुदकुम्भकैः । चतुर्थदिवसे कुर्यादभिषेकं समन्त्रकैः ॥८७॥ पञ्चगव्यस्तिलैः श्वेतैः सर्षपैः सर्वधान्यकैः । व्याहृत्या चैव गायत्र्या हुनेदष्टोत्तरं शतम् ॥८८॥ अष्टोत्तरसहस्रं चेत्सर्वदोषहरं परम् ।

आयुष्यसूक्तं हुत्वाथ चरुणा लाजतोऽपि वा ॥८६॥ होमशेषं समाप्याथ कर्मशेषं समापयेत् । पश्चाच्छुद्धिमवाप्नोति कर्मणस्तस्य केवलम् ॥१०। तत्पश्चमेऽथ दिवसे त्वौपासनपरिग्रहः । तयाथ संगमो मासाद्गर्भाधानविधानतः ॥ १॥ तद्गृहक्षेत्रमनसां परस्परविरोधतः ।

निरुद्धप्रेतकृत्यानां सूतकं तत्समापनात् ॥६२॥ निरुद्धप्रेतकृत्या ये तद्द्रव्यहरणेच्छया । तत्समापनपर्यन्तं तेषां तत्सूतकं भवेत् ॥६३॥सूत किनो निषिद्धकर्माणि

आशौचे नित्यनैमित्तिकादि

तत्समापनपर्यन्तं न कुर्युः शुभकर्म च ।

नित्यं नैमित्तिकं काम्यं ब्रह्मयज्ञादिकं तथा ॥ ६४ ॥ न स्वाध्यायं न वा होमं न सभायाः प्रवेशनम् ।

प्रेतकृत्य रोधे

कुर्वीत मनसा संध्यां न स्वादूनि च भक्षयेत् ॥६५॥ तानि कुर्यात्तु मोहेन स प्रेतो न सहिष्यति । शापं घोरं ददात्येव तस्मात्तत्कृत्यरोधनम् ॥६६॥ मनसापि न कुर्वीत तच्चाण्डालं प्रकीर्तितम् । कृत्यं घोरं हि दुष्टं तत्तादृशं न तदाचरेत् ॥६७॥

अत्यन्यायादि कलौ न कारयेत्

अत्यन्यायमतिद्रोहमतिक्रौर्यं कलावपि ।

अत्यक्रमं चात्यशास्त्रं न कुर्यान्न च कारयेत् ॥६८॥ यदि कुर्वीत मोहेन सद्यो विलयमेष्यति । कर्ता कारयिता चापि प्रेरकश्च निरोधकः ॥६६॥ तत्सहायश्च सर्वे ते लयमेष्यन्ति सत्वरम् । गृहक्षेत्रादिकं सवं न नित्यं शुभकारिणः ॥१००॥ तन्निमित्तमिदं रूपं पापं मर्त्यो न चाऽऽचरेत् । आगामिसूतकं ज्ञात्वा समुपक्रान्तकर्मणः ॥१०१॥ अङ्गापकर्षणं नैव कुर्यादिति मनोर्मतम् ।

समागते सूतकेऽपि समुपक्रान्तकर्मणः ॥१०२॥

[[२६५६]]

  • २६६०

आङ्गिरसस्मृतिः

अङ्गानि तत्तत्कालेषु कुर्यात्तत्र न सूतकी । भवेदेव तदा सद्यो गते तस्मिन् पुनस्तथा ॥ १०३ ॥

जीवत्पितृकपिण्डपितृयज्ञादिश्राद्धम्

अपि जीवत्पिता पिण्डपितृयज्ञं समाचरेत् । मासि श्राद्ध तथा होमाष्टकां पितृयज्ञतः ॥१०४॥ पितुर्वियोगात्परतः पिण्डदानं समाचरेत् ।

तेनायं श्राद्धकर्ता स्यान्न मातुः पिण्डदानतः ॥ १०५॥ जीवे पितरि चेच्छ्राद्ध प्राप्ते नैमित्तिके यदि । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्तु तत्सुतः ॥१०६॥ एवं पितामहे जीवे येभ्यो दद्यात् स हि स्वयम् । तेभ्यो दद्यात्तु तत्पौत्रस्तथा स्यात्प्रपितामहे (हान् ) ॥१०७॥

पितरि संन्यस्ते पातित्यादिदूषिते तत्पित्रादिश्राद्धम् संन्यस्ते पतिते ताते भ्रान्तचित्ते चलात्मनि । तत्कर्तृकाणि श्राद्धानि स्वयं पुत्रः समाचरेत् ॥ १०८॥ तत्तत्कालेषु विधिवच्छ्राद्धकर्ता न तेन सः । तेषामकरणात्सोऽयं सद्यश्चण्डालतां व्रजेत् ॥ १०६ ॥ श्राद्धाधिकारी पिण्डस्य दानमात्रेण जायते । ऋत्विक्त्वेन वृते तस्मिन् न तु कर्ता भवेदयम् ॥११०॥ पितुः पिण्डप्रदानेन श्राद्धकर्ता भवेदयम् । श्राद्धाधिकार सिध्यर्थं कुर्यादेकादशेऽहनि ॥ १११॥ पार्वणं तद्विधानेन पितुः सिद्ध ेरनन्तरम् ।

कर्मन्दी ब्रह्मभूतस्य तदा तस्मिन्नियोजयेत् ॥ ११२ ॥

.

सिद्धिदिने श्राद्धविधानम्

प्रतिसंवत्सरं सिद्धिदिने श्राद्धं समाचरेत् । पश्चादाराधनं कुर्यात्तस्मिन्नो चेत्परेऽहनि ॥११३॥ ब्रह्मभूतस्य तस्यास्य सर्वदेवादिरूपिणः । संगच्छते पितृत्वं च तेन रूपेण तं यथा ॥११४॥ तस्मिन् श्राद्धदिने भक्त्या यजेदेव विधानतः । तादृक् तयजनं चास्य श्राद्धनामककर्मणः ॥११५॥ अधिकारित्वसिध्यर्थं तस्मात्तेनैव तं यजेत् । न मातरं पितृत्वेन यजेत तु कथंचन ॥ ११६ ॥ पितृत्वं मातरि गतमेकशेषजमल्पकम् । यथा न तत्कार्यकरं मातृत्वमपि तत्तथा

पितृव्यपत्न्यादीनाम्

॥११७॥

पितृव्यपत्न्यादीनां स्यात्तादृक्पत्नीत्वमेव हि । तासां भवति तस्मात्तु न तन्मातृत्वमुच्यते ॥११८॥ पितृत्वमपि मातृत्वं दानतो नाशमेष्यतः । तत्कर्मणि पुनः प्राप्ते जननीत्वादिना भवेत् ॥ ११६॥ पितृत्वमपि मातृत्वमेकत्रैव हि तिष्ठति । न तिष्ठति तदन्यत्र क्रियाशतसहस्रकात् ॥१२०॥

गौणमातरि

गौणमातरि मातृत्वं पुरस्कृत्यार्थलोभतः । समुच्चार्य क्रियां कुर्यान्न सा तद्गा भवेद्ध्रुवम् ॥१२१॥ लोभान्मातृत्वमन्यासु यदि निक्षिप्य मोहतः । क्रियां कुर्याज्जडमतिः सद्यश्चण्डालतां व्रजेत् ॥१२२॥ १८६

[[२६६१]]

[[२६६२]]

आङ्गिरसस्मृतिः

अतस्मिन् तत्त्वमारोप्य संस्कुर्याद्यदि कामतः । निष्फलं याति तत्कर्म सोऽपि पातित्यमाप्नुयात् ॥१२३॥ पितृत्वं जनित्तर्येव मुख्यतोऽन्यत्र गौणतः । तत्पुरस्कृत्य चेत्कर्म कृतमन्यैः पुनः क्रिया ॥१२४॥ विहितेनैव पुत्रत्वं स्वीकारेण न चान्यतः । समवाप्नोति बन्धूनां राजविद्वदनुज्ञया ॥१२५॥

भ्रातृजः कृतदारः कृतक्रियोऽपि ।

भ्रातृजो वाक्यतः पित्रोज्यैष्ठयकानिष्ठयवर्जितः । पुत्रत्वं समवाप्नोति कृतदारः कृतक्रियः ॥१२६॥ सोऽप्येकश्चेदवाप्नोति नोभयोस्तु तथा विधिः । जनितुर्मुख्यसूनुः स्यादन्यस्य गुणतः सुतः ॥१२७! मातुलत्वपितृव्यत्व सुतत्वाद्यनुबन्धकम् । मुख्यतो यस्य यद्वा स्यात्तदुद्दिश्यैव तत्क्रिया ॥ १२८॥ मुख्यानुबन्धनं त्यक्त्वा यः कर्म कुर्यात्प्रमादतः । पितृव्यादिकमुच्चार्य पुनः कुर्यात्तु तां क्रियाम् ॥ १२६॥

गोत्रनामानुबन्धव्यत्यासे

गोत्रनामानुबन्धानां व्यत्यासेनाप्यनेहसः ।

वै

यदि कुर्यात्क्रियां तां वै पुनः कुर्याद्यथाविधि ॥ १३०॥ उपनीतस्तु चेदुपनेतृत्वेनैव तत्क्रिया । विद्यादत्वेन तद्दातुर्भक्तदत्वेन तत्प्रदे ॥१३१॥

भयपत्वेन भयपे पितृव्यत्वेन तादृशे । तत्तदुच्चारणं कृत्वा तत्तत्कर्म समाचरेत् ॥१३२॥

अनाथप्रेतसंस्कारेऽश्वमेधफलवर्णनम्

तदन्यथाकृतं तच्चेत् सम्यग्भूयः समाचरेत् ।

कर्तरि दूरगे प्रेष्यत्वेन कुर्वीत

मुख्यकर्त्रसमीपेऽन्यो न कुर्यात्स्वानुबन्धतः ॥१३३॥ तत्प्रेष्यत्वेन कुर्वीत प्रेषितस्तेन वै वृतः । अवृतस्तेन तत्प्रेष्यत्वेन तद्दूरगे सति ॥१३४॥ कृतं चेत्कर्म तद्भूयः संकल्पादि समाचरेत् ।

अन्येन कृते वाङ्मात्रदाने श्राद्धमात्रम्

[[२६६३]]

वाङ्मात्रदत्तपुत्रस्तु कृतदारः कृतक्रियः ॥ १३५॥ ग्राहकस्य न कुर्वीत दर्शादि न कदाचन । तत्पत्न्यास्तस्य च श्राद्धमात्रं सम्यक् समाचरेत् ॥ १३६ ॥ प्रतिवर्ष प्रयत्नेन न दर्शादिकमाचरेत् । सतामेव हि बन्धूनां कर्म कुर्यात् प्रयत्नतः ॥ १३७॥ भ्रष्टानामपि तुच्छानां पतितानां विकर्मिणाम् । न कुर्वीत क्रियां यत्नादपि स्नानं समाचरेत् ॥१३८॥ असतां पतितानां च भस्मान्तं सूतकं स्मृतम् । भ्रष्टपतितानां घटस्फोटनाधिकारिणः

जातिभ्रष्टानकर्मिष्ठान् पतितान् मातरं सुतम् ॥ १३६ ॥ पितरं भ्रातरं पत्नीं पतिमेवं मिथोऽसतः ।

त्यजेद्घटप्रहारेण नान्यानेवं समाचरेत् ॥१४०॥

अनाथप्रेतसंस्कारे

अनाथप्रेतसंस्कारादश्वमेधफलं लभेत् ।

प्रेतनिर्वापणं प्रोक्तमत्र संस्कारशब्दतः

॥१४१॥

[[२६६४]]

आङ्गिरसस्मृतिः

प्रेतसंस्काराभावे

अकृत्वा प्रेतसंस्कारं यो भुङ्क्त े कामकारतः । तत्प्रेतकृतपापौघं तत्क्षणाल्लभतेऽखिलम् ॥१४२॥ तद्दोषशमनायाथ चापाग्रे स्नानमाचरेत् । मासमात्रं प्रयत्नेन न चेदुक्थ्यं समाचरेत् ॥१४३॥

विप्रानुज्ञया यतिकृत्यम्

विप्राभ्यनुज्ञया कुर्यात् कर्ममात्रं विशेषतः । पितृकृत्यं प्रेतकृत्यं तयोर्नो चेद्यतेरपि ॥१४४॥ विप्रानुज्ञां यतिरपि लब्ध्वा स्नात्वार्द्र वस्त्रतः । प्रेतकृत्यं प्रकुर्वीत न चेत् कृत्यं तु तन्न तु ॥ १४५ ॥ अपि शास्त्रकृतं कर्म बहुविप्रामतं तु यत् । तदभ्यनुज्ञया तत्तु कर्मतः पुनराचरेत् ॥१४६॥ बहुविप्रतिरस्कारप्रद्वे पागःप्रदूषितम् ।

तदभ्यनुज्ञारहितं यत्तत्कर्म पुनश्चरेत् ॥१४७॥

कर्तरि सन्निहितेऽकर्तृकृतं पुनः

यद्यकर्तृकृतं कर्म समीपे कर्तरि स्थिते । धनवृत्तिगृहक्षेत्रहेतवे तत्पुनश्चरेत् ॥१४८॥

असगोत्र संस्कृतावाशौचम्

असगोत्रमपि प्रेतं दाययेद्यः कथंचन ।

स चापि गोत्रिभिस्तुल्यो दशाहं सूतकी भवेत् ॥ १४६ ॥

वेदमहिनोवर्णनम्

मृताहस्य परित्यागे मातापित्रोः

॥ १५०॥

मृताहस्य परित्यागे मोहात्कृछ्रद्वयं चरेत् । गायत्री दशसाहस्रजपो गोदानमेव च एवं पञ्चत्रिंशवर्षपर्यन्तं चित्त (त्र ) मुच्यते । पृथक्त्वेन महाभागैस्तदूर्ध्वं पतितो भवेत् ॥ १५१॥

नदीस्नाननेन निष्कृतिः

महानदीस्नानशतं पित्रोरत्यक्त े तु पैतृके । निष्कृतिः कथिता सद्भिः पुनः संस्कारतस्तथा ॥१५२॥ नदीस्नानानि सर्वत्र सर्वकृत्येषु वच्मि वः । निष्कृतित्वेन विप्राणां वेदिनामभ्यनुज्ञया ॥ १५३ ॥ न हि स्नानेन सदृशी निष्कृतिर्विहितास्ति हि । तस्मात्स्नानानि सर्वत्र तीर्थादिषु विशिष्यते ॥१५४॥

संहितापठनादिः

श्रुतिपारायणं यद्वा व्याहृतीनां जपोऽथवा । गायत्र्या वा जपो नो चेन्महारुद्रजपोऽथवा ॥१५५॥ पुरुषसूक्तजपो वापि संहितापठनं सकृत् । निष्कृतिर्विहिता सद्भिरपि पातकिनामपि ॥१५६॥

वेदमहिमा

वेदाक्षरोच्चारणतः सर्वनाम फलं लभेत् ।

[[२६६५]]

हरिनामानि यावन्ति पठितानि द्विजातिभिः ॥१५॥

असंख्याकान्यनन्तानि सर्वाविलहराण्यपि । तान्येकवेदवर्णः स्यात्तादृशैर्दिव्यवर्णकैः ॥ १५८॥

[[२६६६]]

आङ्गिरसस्मृतिः

अमेयैः संवृतो वेदः साक्षान्नारायणात्मकः । तादृशस्यास्य वेदस्य पठनात् सर्वकिल्बिषैः ॥१५६॥ सद्य एव विमुक्तः स्यात् पातकी नात्र संशयः ।

ब्राह्मणस्य वेदाधिकारः

तादृशस्यास्य वेदस्य पठने ब्राह्मणस्य वै ॥ १६०॥ अधिकारो न चान्यस्य संस्कृतस्यैव कर्मभिः । तत्रापि परिशुद्धस्य कृत नित्यक्रियस्य वै ॥१६१॥ तत्रापि परिशुद्धस्य विशेषेषु दिनेष्वपि । शुद्धाच्छुद्धः स्वतो वेदस्तदुच्चारणतः क्षणात् ॥१६॥ देवनामान्यनन्तानि निखिलान्यघहानि वै । असकृत्पठितानि स्युर्नात्र कार्या विचारणा ॥ १६३॥ स्नानं कृत्वा प्रारभेच्च वेदं तं तादृशं शिवम् ।

अस्नात्वारम्भे

यद्यस्नात्वैव मोहेन प्रारभेत् पातकी भवेत् ॥१६४॥ स्नानतः सर्वकर्माणि सिध्यन्त्येव न संशयः ।

सर्व स्नानमूलम्

स्नानमूलमिदं ब्राह्म स्नानमूलमिदं तपः ॥१६५॥ स्नानमूलाखिला यज्ञाः स्नानमूलमिदं जगत् । सर्वकृत्येषु सर्वत्र स्नानमेव परं मतम् ॥१६६॥ कृत्स्नेष्वशुचिषु स्नानं तारकं परिकीर्तितम् ।

अस्पृश्यस्पर्शनादिकर्माङ्गस्नानम्

अस्पृश्यस्पर्शनें चैवमभक्ष्याणां च भक्षणे ॥१६७॥

शाकमूलादिवमनेऽघमर्पस्नानादिविधानवर्णनम् २६६७

संकलीकरणे चात्र मलिनीकरणे तथा । अपात्रीकरणेऽन्यत्र जातिभ्रंशकरादिषु ॥१६८॥ सूतकादिषु सर्वेषु सर्वेष्वाशौच कर्मसु । स्नानमेव परं प्रोक्तं सर्वकृछत्रतादिषु ॥ १६६॥ सर्वाद्यन्तेषु सत्रेषु तदेव परिकीर्तितम् । अभोज्यभोजनेष्वेवं स्नानं तत्समुदाहृतम् ॥१७०॥ अकार्यकरणेष्वेषु मुख्यस्नानानि मुख्यतः भवेयुर्हि पवित्राणि तानीमानि ततः सदा ॥१७१ ॥ चरेद्यत्नेन शुध्यर्थं न चेटिक वात्र शुध्यति ।

वमने स्नानम्

स्वक्रियावमने सद्यः सवासा जलमाविशेत् ॥ १७२ ॥ अजीर्णवमने स्नानमौषधादिक्रियावशात् ।

वमने स्नानाभावस्थलम्

वमनेऽप्यवगाहः स्यान्मक्षिका मूलतो यदि ॥ १७३॥ नावगाहः प्रकर्तव्यस्तल्लेपक्षालनं परम् । प्रकर्तव्यं प्रयत्नेन धारणं शुद्धवाससाम् ॥१७४॥

शाकमूलादिवमने

शाकैर्मूलैः फलैः पत्रैः कटुतिक्तरसादिभिः । सद्यश्चेद्वमनं तन्न चिरकाले तु तद्भवेत् ॥ १७५ ॥ यदा चेद्रोगवमनं तदा स्नानं विधानतः । सद्य एव प्रकर्तव्यमघमर्षविधानतः ॥१७६॥

[[२६६८]]

आङ्गिरसस्मृतिः

रात्रौ वमने

रात्रौ तु वमने जाते

रोगाद्य रप्यजीर्णतः ।

अर्धरात्रादधस्तूष्णे पाथसि स्नानमुच्यते ॥ १७७॥ तत्परं प्रातरेव स्यादिति शाकलभाषितम् ।

स्वगोत्रत्यागेऽन्यगोत्रपरिग्रहणे

स्त्रीयगोत्रपरित्यागादन्यगोत्रपरिग्रहात् ॥ १७८॥ प्रभवेत्पतितः सद्यः शुद्धः संस्कारतः पुनः । स्वीयगोत्र परित्यागो भिन्नगोत्रपरिग्रहः ॥१७६॥ द्वयमेतत्प्रकथितं स्त्रिय एव हि नुर्न तु ।

अर्धोदयः

अर्कश्रुतिव्यतीपातयुक्ताऽमा पुष्यमाघयोः ॥ १८०॥ असावर्धोदयो योगः कोट्यर्कग्रहसंनिभः । अस्मिन् स्नातो चापकोटौ कुर्यात्स्नानशतं यदि ॥ १८१॥ त्रिंशद्वषं त्यक्तपितृकर्मा शुद्धो भवेत्ततः । महोदये तु तत्स्नानसहस्रं यदि भक्तितः ॥१८२॥ कुर्याद्वा कारयेद्वापि शुद्धः पूर्वाघतो भवेत् । अन्यथा निष्कृतिर्नास्ति तादृशस्यास्य पापिनः ॥ १८३ ॥ तं योगं सुसमीक्ष्येत तस्मात्तादृक्तु किल्बिषी ।

पत्यन्येन चितारोहितायाः पुत्रस्य कृत्यम् यदि साध्वी प्रमादेन पत्यन्येन चितिं व्रजेत् ॥ १८४॥ कथं तत्कर्मकरणं पश्चात्तज्जातजन्मनाम् ।

इति चिन्तापरा देवा बभूवुः किल वै चिरम् ॥१८५॥स्त्रीणां पुनर्विवाहे प्रायश्चित्तवर्णनम्

पश्चादुदभवद्वाणी दिव्या स्पष्टपदाक्षरा । पत्यन्तनरयोगस्य षडब्दं कृच्छ्रमुच्यते ॥१८६॥ मोहात् प्राणपरित्यागे महापापस्य कर्मणः । तस्याः षडब्दं संप्रोक्तं षड्गुणेनैव संयुतम् ॥१८७७ सदानेनैव कुर्वीत लोभशाठ्यविवर्जितम् । तद्दोषशमनायैव प्राणत्यागाख्यकर्मणः ॥१८८॥ चापाग्रयानं कृत्वादौ तत्र स्नानशतं चरेत् । पक्षमात्रं प्रयत्नेन नित्यं प्रियपुरःसरम् ॥ १८६॥ तच्छान्तिस्तेन नान्येन साधसाहस्रमज्जनैः । ब्राह्मणानां प्रसादेन कूष्माण्डगणपाठतः ॥१६०॥

नित्यं त्रिवारं तत्रैव पश्चात्तु प्राकृतं चरेत् । ततः शुद्धा भवेत्सा तु तैरेतैः कर्मभि शुभैः ॥१६१॥

जातिभेदेन निष्कृतिः

द्विगुणं राजयोगेन त्रिगुणं वैश्ययोगतः । चतुर्गुणं शूद्रयोगादेवं निष्कृतिरीरिता ॥१६२॥ स्त्रियः पुनर्विवाहे

पुनर्विवाहिता मूढैः पितृभ्रातृमुखैः खलैः । यदि सा तेऽखिलाः सर्वे स्युर्वै निरयगामिनः ॥ १६३॥ पुनर्विवाहिता सा तु महारौरवभागिनी ।

तत्पतिः पितृभिः सार्धं कालसूत्रगतो भवेत् ॥१६४॥

[[२६६६]]

[[२६७०]]

आङ्गिरसस्मृतिः

दाता · चाङ्गारशयननामकं प्रतिपद्यते ।

,

तस्य निष्कृतिः

तद्दोषशमनायाथ प्रायश्चित्तमिदं परम् ॥१६५॥ दाता सेतुगतः सद्यो धनुष्कोट्यां समाहितः । नित्यं त्रिषवणस्नायी यावकाहार एव वै ॥ १६६॥

संवत्सरं

प्रयत्नेन वसेदेवान्वहं तराम् ।

स्वकृतं यच्च तत्पापं वदन्नित्यमटन् यतन् ॥१६७॥ सर्वेष्वपि च तीर्थेषु तप्तकृच्छ्रशतं चरेत् । ततः शुद्धो भवेदेवं वोढा चापि तदा पुनः ॥१६८॥ तद्दोषशमनायैव पुण्यं चान्द्रायणत्रयम् । यन्नात्कुर्वन् वसेत्तत्र ऋतुत्रयमतन्द्रितः ॥१६६॥ प्रतिनित्यं पञ्चगव्यं पिबंस्तद्विधिना रुदन् । निर्लज्जया लोकपुरः कूष्माण्डादीन् पठस्तथा ॥२००॥ द्रुपद नाम गायत्रीं गायत्रीं वेदमातरम् । संध्यात्रये सहस्राणि जपस्तप्ताख्यकं शिवम् ॥२०१ ॥ कृच्छ्र ं विधानतः कृत्वा पुनः संस्कारतः पुनः । पुटगर्भविधानेन शुद्धो भवति तत्र चेत् ॥ २०२॥ न चेत्तप्तशतं कुर्यात् पुनरुपनया (यना) त्परम् । सा चेद्भट द्वयं त्यक्त्वा सेतुस्नान सहस्रकम् ॥२०३॥ कृत्वा च यावकाहारा वर्षमात्रेण शुध्यति । यद्यपुत्रा पुत्रिणी चेत् पतेदेवाशु तैः सह ॥२०४॥

[[1]]

बहुवार विवाहिताया गतिवर्णनम्

सा वै पुत्रैस्तदुद्भूतैश्चण्डालत्वं भजेत वै ।

भ्रान्त्या पुत्रिकादिविवाहे जाते स्वमात्रशुद्धिः यदि स्वसारं तनयां चिराद्भ्रान्त्यादिकृच्छ्रतः ॥२०५॥ विवहेन्मोहतो ज्ञाते कृत्वा चान्द्रसहस्रकम् । चापाग्रयानतः पश्चात् पुटगर्भविधानतः ॥२८६॥ करणाज्जातकादीनां स्वमात्रस्य शुचिर्भवेत् । परेषां शूद्रतुल्योऽयं ततस्तां विभृयादपि ॥२०७॥ पूर्वधर्मं विनिक्षिप्य तस्यां भक्त्या जंपन्वसेत् ।

पुत्रे जाते

[[२६७१]]

यदि तस्यां प्रजायेरंस्तांश्चण्डालेषु विन्यसेत् ॥२०८॥ ततः स्वयं च नित्यं वै यावकाशी चरेद्भुवम् । पापप्रख्यापनं कुर्वन् यावज्जीवं हरिं भजन् ॥२०॥ पुण्यक्षेत्रेषु नियतं वसन् भक्त्या रसामटेत् । विवाहितां च विधवां महामोहेन वश्वकैः ॥२१०॥ दत्तां विवाह्य तज्ज्ञात्वा सद्यश्चण्डालतां व्रजेत् । तद्दोषशमनायैवं पूर्ववत्तु समाचरेत् ॥२११॥ द्विगुणं निखिलं कृत्यं समुन्नेयं विचक्षणैः ।

एकद्वित्रिचतुः पञ्चवारं विवाहिता

एकद्वित्रिचतुः पञ्चवारं वै या विवाहिता ॥ २१२॥ अतिक्षुद्र ककालेषु पापैकबहुलेषु च ।

विज्ञाता चेत्तु तां सम्यक् पृष्ट्वा गत्वा विचार्य च ॥ २१३॥

[[२६७२]]

आङ्गिरसस्मृतिः

तत्त्वं तस्यास्तु विज्ञाय प्रायश्चित्तं ततश्चरेत् । यत्र यत्र च सा गत्वा यं यं वा स्वजनैः सह ॥ २१४ ॥ मायया मोहयामास वञ्चयित्वाऽतिचर्यया । तं तं ज्ञात्वा च संभाष्य तत्तद्वाड्सूलमप्यलम् ॥२१५॥ श्रुत्वा पश्चाच्छ्रोत्रियेभ्यः श्रावयित्वाऽखिलं ततः । राज्ञे बन्धुनि चावेद्य प्रायश्चित्तं ततश्चरेत् ॥२१६॥ एतादृशेषु कृत्येषु सा क्षेत्रं प्रभवेद्ध्र ुवम् । प्रथमोद्वाहकस्यैव परं त्वेषा परा न तु ॥२१७॥ कदाचिद्धर्मकृत्यानां न तस्यापि परस्य वा ।

तदपेक्षया वेश्या विशिष्यते

सा भोगमात्रयोग्यापि वेश्या तस्या विशिष्यते ॥ २१८॥

तया चेत्तेषु कृत्येषु सपङ्क्तौ भोजनं तथा । सह वा भोजनं दुष्टं यदि पातित्यकारकम् ॥ २१६ ॥ तच्छुध्यर्थं रसायां तु श्वभ्रे संछाद्य धर्मतः । खनित्वा याममात्रं वा घटिकाद्वयमेव वा ॥२२०॥ तस्मादुद्धृत्य पश्चात्तु जातकादि समाचरेत् । तप्तकृच्छ्रसहस्राणि धर्मतश्च समाचरेत् ॥२२१॥ नियतात्मा यावकाशी चापाग्रं तद्भवेच्छुचिः । पञ्च स्नानसहस्राणि स्वयं विप्रमुखेन वा ॥२२२॥ समाचरेत्ततः स्वस्य शुद्धो भवति केवलम् । न परेषामयं योग्य एवमाह पुरा भृगुः ॥२२३॥

अग्राह्यमूर्तिग्राह्यमूर्तीनां वर्णनम्

प्रविष्टपरकायेन यदि

संयोगमाप्नुयात् ।

[[२६७३]]

त्रिमासयावकाहारा साध्वी शुध्यति नान्यथा ॥२२४॥

प्रविष्टपरवर्माणं विज्ञातं स्वपतिं सती । प्रपालयेद्विशेषेण रतिमात्रं न चाचरेत् ॥२२५॥ काययोरेव संबन्धः पुरा संस्कृतयोः पुरा । नात्मनोरस्ति संबन्धो भिन्नकाये न चेत्ततः ॥२२६॥ आत्मान्यकायं स्पृश्येन्न तेन पातित्यमाप्नुयात् । सुराणामपि चैवं हि मनुष्याणां तु किं पुनः ॥२२७॥

अग्राह्यमूर्तयो प्राह्ममूर्तयश्च

अग्राह्याभेद्यमूर्तीनां ग्राह्यभेद्यशरीरिणाम् ।

देवानां सुमहाभेदस्तारतम्यं च तत्परम् ॥२२८॥ स्पष्टमेव प्रभवति तेनाग्राह्याः सुरास्तु ये । ग्राह्यकायसुराणां वै प्रपूज्याः परमाः परम् ॥२२६॥ अधिका. वन्दनीयाश्च ते न नीचास्तु तेन वै ।

अग्राह्यमूर्ति निवेद्यम्

तन्निवेदितमत्यर्थं न तेषां परिकल्पयेत् ॥२३०॥ तेनापराधः सुमहान् प्रभवेन्न तथाचरेत् । अग्राह्याभेद्यमूर्तीनां ग्राह्यभेद्यनिवेदितम् ॥२३१॥

अयोग्यं संततं स्याद्धि शूद्रस्येव श्रुतिर्यथा । श्रौतस्मार्तक्रियादक्षः पैतृकोद्दशतोऽपि वा ॥२३२॥

[[२६७४]]

आङ्गिरसस्मृतिः

निरुप्तमन्योद्द शेन न देवाय निवेदयेत् । :

निवेदितेनानिवेदितयोजने

निवेदितेन रुच्यर्थं योजयेन्नानिवेदितम् ॥२३३॥ .. तथा निवेदितं भूयो लवणं च नियोजयेत् ।

निवेदनादथ पुनस्तदादाय घृतेन वा ॥२३४॥ तैलेन लवणेनापि यत्नेन न नियोजयेत् । तदुच्छिष्टं न कुर्वीत तत्करेण न पीडयेत् ॥२३५॥ न खण्डयेन्मिथोऽज्ञानान्न तत्प्रोक्षणमाचरेत् । परिषिचेन्नैवमेव तूष्णीमास्ये विनिक्षिपेत् ॥२३६॥ गृह्णीयात्तु तदन्तर्वे न दन्तैरपि पीडयेत् । तदेतत्परमं शुद्ध ं निर्माल्यमतिदुर्लभम् ॥२३७॥

देवानामपि तद्भोज्यं

प्रयत्नेनातिभक्तितः ।

तदोपदेशं स्वीकुर्यान्निवेदितमहाक्षणे ॥ २३८ ॥

भगवत्प्रसादग्रहणे भक्षणविषये

निवेदितस्य हविषो भक्षणे समुपस्थिते ।

.

आपोशनं न कुर्वीत प्रोक्षणं परिषेचनम् ॥२३६॥ यदि कुर्वीत मोहेन रौरवं नरकं व्रजेत् । अन्नं पक्वात् समुद्धृत्य पृथक्पात्रे नियुज्य च ॥२४०li कृत्वा सुखोष्णं संस्कृत्य पश्चाच्छाखादिभिर्यजेत् ।

अत्युष्णादिनिवेदने

असह्योष्णं महोष्णं वा पक्कपात्रगमेव वा ॥ २४१॥

गृहस्थस्य रात्रावुष्णोदकस्नानवर्णनम्

यो निवेदयते मोहाद्ददेवाय नरकी भवेत् ।

निवेदनप्रकारः

[[२६७५]]

तस्मादन्नं समुद्धृत्य पृथक्पात्रे निधाय च ॥२४२॥ कृत्वा यत्नात्सुखोष्णं च राशिं कृत्वाभिघार्य च ।.. अतिशुद्धमत्तिश्रेष्ठ राजयोग्यं सुशोभनम् ॥२४३॥

शाकभक्ष्य फलोपेतं

देवाय विनिवेदयेत् ।

तदन्नमपि यत्नेन पश्चाद्दद्यात्समाहितः

अप्रोक्ष्यापरिषिच्यैवमप्राणाहुतिपूर्वकम् ।

॥२४४॥

उच्छिष्टमप्यकृत्वैव यत्नाद्दद्यात्स्वयं शुचिः ॥२४५॥

स्वीकारप्रकारः

निवेदितानि वस्तू न दन्तैः परिघट्टयेत् । न खण्डये च्छन्दयेच्च किं तु तूष्णीं तदम्बुवत् ॥२४६॥ रसवत्फलवद्यत्नात् प्राशयेच्च न शब्दयेत् । कण्ठतो वापि यत्नेन काष्ठभूतफलान्यपि ॥ २४७॥

अर्भकेभ्यो दद्यात्

प्रदद्यादर्भकेभ्यो वै न स्वीकुर्यात्स्वयं यदि । स्वीकुर्यात्तु तदा नक्तमुपविष्टः शुचिस्थले ॥२४८ ॥ शब्दानजनयन्नेव तालुदन्तादिभिर्ह्य दन् ।

गृहस्थस्य रात्रावृष्णोदक स्नानम्

गृही न रात्रौ स्नायीत यदि स्नायीत वारिणा ॥ २४६ ॥ उष्णेन भवने विप्रसाक्षितो वह्निसाक्षितः । उष्णेन शक्तो न स्नायादशक्तश्चेत्तदाचरेत् ॥२५०॥

[[२६७६]]

आङ्गिरसस्मृतिः

अभ्यङ्गम्

अभ्यक्तश्च तथा स्नायाच्छरीरारोग्यहेतवे । तत्स्नानं कथितं सद्भिर्न नित्यं तेन नाचरेत् ॥२५१॥ कर्म नैमित्तिकं तस्माद्देवानामपि नार्चनम् । यावन्नित्यादिकमघं निर्वत्यैव विधानतः ॥२५२॥ पश्चादभ्यञ्जनस्नानं न चेत्काले तु मध्यमे । मध्याह्न संगवे वापि स्नानं कृत्वा तु तादृशम् ॥ २५३॥ माध्याह्निकस्नानम्

माध्यंदिनस्य कृत्यस्य पुनः स्नानं यथाविधि । कृत्वा तत्प्रारभेत्कर्म तेनैतत्कर्म नाचरेत् ॥२५४॥ मलापकर्षणार्थाय तद्धि स्नानं प्रकीर्तितम् ।

क्षुरस्नानम्

एवमेव क्षुरस्नानं कर्मायोग्यं प्रचक्षते ॥२५५॥ क्षुरस्नानात्परं यस्तु पुनः स्नानान्तरं विना । करोति वैदिकं कर्म न तत्फलमवाप्नुयात् ॥२५६॥ भवेदपि प्रत्यवायी तथातो नाचरेद्बुधः ।

प्रातः सायं पर्वादिष्वभ्यञ्जनस्नानम्

नाभ्यञ्जनं प्रकुर्वीत प्रातः सायं न पर्वसु ॥ २५७॥ ग्रहणे श्राद्धकालेषु व्रतेषु निखिलेष्वपि । पुण्यवैदिकदीक्षासु न नक्त क्षेत्रतीर्थयोः ॥२५८॥ सुप्त्वा भुक्त्वा रुदित्वा वा दूरं गत्वा पिपासितः । अतिक्षुधातुरो रोगी न कुर्वीत कथंचन ॥ २५६॥

क्रोश स्थितनदीस्नानाच्छाद्धवर्णनम्

अकृत्वा नित्यकर्माणि छर्दयित्वाऽतिताडितः ।

[[२६७७]]

शप्तः शपित्वा व्याजेन घातयित्वा नरान् परान् ॥२६०॥ हृत्वा धनानि दीनानां न कुर्यात्तत्तु सर्वदा । स्वजनान् प्रेषयित्वा च न्यक्कृत्य गुरुबान्धवान् ॥२६१॥ तदवश्यककृत्येषु कर्तव्यत्वेन शास्त्रतः(शाश्वतः) । महत्सूपस्थितेष्वेव तान्यकृत्वैव मौर्यतः न कुर्यादेव सहसा विग्रहोद्वर्तनं द्विजः ।

॥२६२॥

• अभ्यञ्जनस्नानं सोदकुम्भनान्दीश्राद्धयोः सोदकुम्भश्राद्धमानं कृत्वाभ्यञ्जनतः परम् ॥२६३ ॥ कुर्यादेवेति हारीतो नैवानेनेति वै मनुः । स्नातस्नानेन कुर्वीत न श्राद्धानि कदाचन ॥ २६४ ॥ नान्दि (न्दीं) ताभ्यां प्रकुर्वीतानुकल्पेनैव तत्स्मृतम् । स्नानमभ्यञ्जनं स्नानमशक्तस्य कदाचन ॥२६५॥ सोदकुम्भस्य नान्द्याश्च कर्तुः संपद्यते किल ।

क्रोशस्थितनदीस्नानाच्छ्राद्धम्

क्रोशस्थितनदीस्नानान्न पित्रोः श्राद्धमाचरेत् ॥ २६६॥ महादवभृथाच्चापि शावाद्वार्षावगाहतः ।

तदङ्गस्नानतः सद्यः श्राद्धाख्यं कर्म तच्चरेत् ॥२६७॥

संकल्पः

कर्ममात्रस्य सर्वत्र प्राणानायम्य मन्त्रतः ।

करिष्य इति वागुक्तिरूपं संकल्पमाचरेत् ॥२६८॥ १८७

[[२६७८]]

आङ्गिरसस्मृतिः

न संकल्पं विना कम नित्यकाम्यादिकं चरेत् । स मानसः स्यात्संकल्पः कर्तव्यो वाचिकः परः ॥२६६॥ यक्ष्य इत्येतद्वाक्येन तथा प्राह श्रुतिः शिवा । देशः कालश्च संकल्पे वक्तव्यौ तत्र चेत्पुनः ॥२७०॥ तिथिः काल इति प्रोक्तो व्यत्यासे तस्य कर्म तत् । नष्टमेव भवेत्सद्यस्तस्मात्तत्तु पुनश्चरेत् ॥२७१॥ पितृश्राद्धव्यत्यासे पुनश्चरेत्

एकस्मिन्नेव दिवसे पित्रोः श्राद्धमुपस्थितम् । तत्क्रमेणैव कर्तव्यं व्यत्यासे तु पुनश्चरेत् ॥२७२॥ मोहादतद्दिनकृतश्राद्धं चापि पुनश्चरेत् ।

शून्यतिथिकृतं पुनश्चरेत्

तथा शून्यतिथौ यत्नात्कृतं चापि पुनश्चरेत् ॥ २७३॥ सूतकान्ते शून्यतिथिदोषोऽयं श्राद्धकर्मणः । कदाचिन्न भवत्येव तस्मात्तत्रैव तच्चरेत् ॥२७४॥

पितृश्राद्धात्परं कारुण्यश्राद्धम्

पितुः श्राद्धात्परं श्राद्ध कारुण्यानां समाचरेत् । तदन्यथाकृतं तच्च ेत् परेद्य स्तत्पुनश्चरेत् ॥२७५॥ निमित्तग्रहणश्राद्धं कृत्वान्नेनापि तद्दिनम् । भूयः सम्यक् प्रकुर्वीत भिस्सयैव न चान्यथा ॥२७६॥ मातृपितृश्राद्धमेकदिनेऽन्नेन

पित्रोर्ऋताहं सततमपि कृच्छ्रगतो नरः ।

अन्मेनव प्रकुर्वीत मामाद्य ेन कदाचन ॥२७७॥चाक्रिकश्राद्धवर्णनम्

ग्रहणादिषु शक्तश्चेद्भिस्सया तानि चाचरेत् । -

न चेदामादिना

शुद्धस्तद्ध मैं रखिलैर्वृतः

ग्रहे मुहूर्तद्वितये गतेऽन्नश्राद्धमाचरेत् ।

॥२७८॥

[[२६७६]]

अपि शक्तोऽपि तन्न्यूने तादृछ्राद्धं न चाचरेत् ॥२७६॥

चाक्रिकश्राद्धम्

चाक्रिकं ग्रहणं मुख्यमायनं तदमुख्यकम् । पुष्पवन्मण्डलसममध्यभागप्रपीडितम् ॥२८०॥ यन्नीललक्ष्मपृथुलं वर्तुलं तत्त्रियामगम् । तच्चाक्रिकमिति प्रोक्त ग्रहणं पितृतृप्तिदम् ॥२८१॥ तच्च पञ्चशताब्दानामेकदा वै भविष्यति ।

ग्रहणे भोजननिषेधः, वृद्धवालातुराणां न ग्रहस्य चाक्रिकस्यास्य पूर्व यामत्रयं नरैः ॥ २८२॥ भोजनं नैव कर्तव्यं वृद्धबालातुरान्विना । अपराह्न े न मध्याह्न े मध्याह्न ेन तु संगवे ॥२८३॥ संगवे तु न तु प्रातः पृथुकानां तु केवलम् । स्तन्यपाने न दोषोऽस्ति तत्काले कैवलेऽपि वा ॥ २८४ ॥ यवाग्वाः पयसो वापि पानीयस्या ( २ ) शरत्समम् । नियमोऽयं प्रकथितो न तदूध्वं तु तच्चरेत् ॥ २८५॥ अयनग्रहणे मुख्ये पौनः पुन्यगते सकृत् । कोणैकदेशसंस्पृष्ट तन्न्यूमसमयस्थिते ॥ २८६ ॥ यामद्वयं सार्धयामद्वयं

सार्धयामद्वयं यामत्रयं तथा । सार्धयामत्रयं यामचतुष्टयमिति क्रमात् ॥२८॥

[[२६८०]]

आङ्गिरसस्मृतिः

अधिकारप्रभेदेन भोजनस्य निरूपणम् । यदेतत्तस्य सर्वस्य प्रवदामि विनिर्णयम् ॥२८८॥ तत्कालाजीर्णराहित्ये हृदयं तन्निबोधत । एवं स्थिते पुनर्वच्मि यामतः सार्धयामतः ॥ २८६॥ जीर्णशक्तिमतो नुश्चेत्तत्काले क्षुद्भवेद्यदि । न दोषः कथितः सद्भिः कदाचिद वयोगतः ॥२६०॥ अजीर्णः स्यात्तदा दोषः सुमहान् प्रभवेदपि । तस्माद्यामद्वयं सर्वैर्भुक्तिस्त्याज्या विचक्षणैः ॥२६२॥

अत्यन्तातुरादीनाम्

विशेषः कोऽपि भूयश्च प्रोच्यते सुमहान् परः ।

रोगिणोऽप्यतिमात्रस्य चौपधातिक्षुदश्नतः

॥२६२॥

क्रूरग्रहातितप्तस्य पिशाचावेशिनस्तथा । वश्त्याकर्षणविद्व ेषस्तम्भनोच्चाटनादिभिः ॥ २६३॥ पीडितस्य विशेषेण मूर्छितस्यातिताडनैः । तत्कालभक्षणमपि न दुष्यति कदाचन ॥ २६४॥ अत्युत्क्रान्तिप्रवृत्तस्य चिरत्यक्तान्धसस्तथा । अप्राशनोत्पन्नमृतिसंशयस्य विशेषतः ॥२६५॥ तत्कालभक्षणावृत्तिर्न दोषाय भवेदयम् । सर्वेषामपि वर्णानां सर्वाश्रमनिवासिनाम् ॥२६६॥ मुख्यो साधारणो धर्मस्तत्कालाजीर्णशून्यता । यामत्रयादिकाः कालास्तत्र तत्र प्रचोदिताः ॥२७॥

मातापितृभ्यां पितुः दानं ग्रहणञ्च

तैस्तैस्ते निखिला ज्ञेया नृभेदेन विवक्षिताः ।

ग्रस्तास्त के सकामिनिष्कामिनोः

[[२६८१]]

सोमं ग्रस्तास्तगं सूर्यमपि वा शास्त्रदृष्टितः ॥ २६८॥ मुक्त’ ज्ञात्वा ततः स्नात्वा निष्कामो भोजनं चरेत् । शुभ्रांशुचण्डांशुलोककामी चेन्न तु भोजनम् ॥२६॥ चरेदेव न संदेहस्तल्लोकाकामिनः परम् । दोषाय भोजनत्याग एवमाह प्रजापतिः ॥३००॥ अग्निहोत्रम्

विहितस्य परित्यागादग्निहोत्रस्वरूपिणः ।

पीतमातृस्तनरसो जनकाशौचमोचने

सहिष्णुर्न भवेत्तस्मात्तत्पूर्वं तत्समाचरेत् ।

दत्तपुत्रः

॥३०१॥

आरान्न्यक् सोदरसुतस्तर्णकः कर्मवर्जितः ॥ ३०२ ॥ कृतकर्मत्रयकृतो यो दत्तः प्रवरः स्मृतः ।

मातापितृभ्यां दानं ग्रहणं च

दद्यातां दम्पती पुत्रं गृह्णीयातां च दम्पती ॥३०३॥ तयोरेवाधिकारोऽयं तद्दाने ‘तत्प्रतिग्रहे । ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसंग्रहः ॥३०४॥ सगोत्रेष्वथवा कार्यो ह्यन्यत्र तु न कारयेत् । असंस्कृतो दत्तसूनुः पितुश्चाप्यकृतक्रियः ॥३०५॥ न तद्धनमवाप्नोति तद्वृत्तौ का कथा पुनः । जातकर्मादिना तस्य पुत्रत्वं नान्यथा मतम् ॥३०६ ॥

[[२६८२]]

आङ्गिरसस्मृतिः

मौन्ज्यन्तेनातिहर्षेण सर्वमत्या समन्त्रतः । पुत्रो ज्ञातिमतो दत्तः कृतसर्वपितृक्रियः ॥३०७॥ यदि स्वयं तदा सर्वा तद्वृत्तिं लभते पराम् । सर्वस्य प्रतिमन्त्रस्य पितृहेतुप्रपाठनात् ॥३०८॥ दत्तस्य तद्भूलाभः स्यात्तत्पूर्वं सा न सिध्यति । हिरण्यकक्ष्यामन्त्राणां पठनात्तत्त्रयं पुनः ॥ ३०६ ॥ प्रदूरीकृत्य तज्ज्ञातीनवशादेति चाखिलम् । दत्तसूनुः पित्रान्येन संस्कृतो यदि तद्वृतः ॥३१०॥ तदा तु तद्धनं सर्वं ज्ञातिसाधारणं भवेत् । स्वयमेव पितुर्दत्तः कर्म कुर्यात्प्रयत्नतः ॥ ३११॥

"

तद्धनं तु न दत्तोऽयमसगोत्रश्चेत्सदा दुर्बल एव वै

चेत्सद्यस्तज्ज्ञातिगतमेव वै ।

॥ ३१२॥

भवेदेव न संदेहः शास्त्रेऽमुत्र परत्र च । यदि जामी तत्र भवेत्तन्मुखं नावलोकयेत् ॥३१३॥

अवश्यं पुत्रसंग्रहः कर्तव्यः

यथाकथंचित्पुत्रस्य संग्रहः कार्य एव वै । दौर्बल्ये स्वस्य संजाते धर्मज्ञेन महात्मना ॥३१४॥ जलबुद्बुदसंकाशं वर्मैतत्कथितं बुधैः । न हि प्रमाणं जन्तूनामुत्तरक्षणजीवने ॥३१५॥ तस्मादात्महितं नित्यं चिन्तयन्नेव तच्चरेत् ।

अपुत्रस्य लोको नास्ति

नापुत्रस्य तु लोकोऽस्ति पुत्रिणस्तु त्रिविष्टपम् ॥३१६॥

[[२६८३]]

पुत्रवतो महिमवर्णनम्

ब्रह्मलोकादयो लोकाः स्वाधीना एव सर्वदा ।

पुत्रवानग्निमान्

पुत्रवानग्निमान्नित्यं पुत्रवान् श्रोत्रियः स्मृतः ॥३१॥ पुत्री साक्षाद्ब्रह्मविश्च पुत्रवानेन भाग्यवान् । ये ये धर्माः स्वेन ते ते पुत्रेणैतेन तत्क्षणात् ॥३१८॥ संपादिता भविष्यन्ति नात्र कार्या विचारणा । न पुत्रवानपत्नीकः किं तु सोऽयमपुत्रवान् ॥३१६॥ अनग्निको न पुत्री स्यादपुत्रोऽनग्निमान् स्मृतः । पुत्रेण स्थावरं दानं फलवद्दानमेव च ॥३२०॥ यद्यलोके महत्सर्वेदुर्लभं पुत्रिणी चरेत् । पुत्रयत्नं सदा कुर्याद्वैदिकं लौकिकं शुभम् ॥३२१॥ तस्मातुमतीं भार्या सदा स्वस्थो न लङ्घयेत् । लङ्घयेद्यदि तां मूढो भ्रूणहत्यामवाप्नुयात् ॥३२२॥ ऋतुस्नातदिने सोऽयं युवा श्रोत्रिय एव वा । न कव्याय भवेदेव पुत्रवान् यदि तद्भवेत् ॥ ३२३॥

जातमात्रे पुत्रमुखवीक्षणम्

पुत्रेण जातमात्रेण ऋणान्मुक्तो भवेदयम् । तस्मात्पुत्रस्य जातस्य पश्येत्सद्यो मुखं पुमान् ॥३२४॥

न पश्यतस्तल्लपनमृणान्मुक्तिर्न जायते ।

येन केन प्रकारेण तस्मात्कुर्वीत मानवः

॥३२५॥

[[२६८४]]

आङ्गिरसस्मृतिः

पुत्रसंपादनं धीमान् दुर्बलश्चेद्विशेषतः ।

वृत्तिदत्तादयः

वृत्तिदत्तं कल्पयेद्वा मौञ्जीदत्तमथापि वा ॥३२६॥ विवाहदत्तमथवा यज्ञदत्तं न चेत्परम् । वृत्तिदत्तः कुलान्यष्टौ मौजीदत्तस्तु षोडश ॥ ३२७॥ विवाहदत्तो द्वात्रिंशद्यज्ञदत्तस्तरिष्यति । चतुः षष्टिकुलान्यस्य लीलया सद्य एव वै ॥३२८॥ अपुत्रदत्तवृत्या यः प्राणवृत्तिं चरत्यलम् । वृत्तिदत्त इति ख्यातस्तनयः पुण्यलोककृत् ॥३२॥ धनतो यस्य यो लोके ह्युपनीतो भवेदहो । स मौञ्जिदत्त इत्याख्यस्तनयस्तु ततोऽधिकः ॥३३०॥ एवमेव भवेदन्यस्तनयः परलोकदः ।

विवाहदत्तसंज्ञः स्यात्ततोऽपि द्विगुणः परः ॥३३१॥ ततोऽधिको यज्ञदत्तस्तनयः पितृवल्लभः । त एते तनयाः सर्वे तत्तत्कर्मकपूर्तये ॥३३२॥ कृतेन धनदानेन भवन्ति किल नान्यथा । तस्मात्सन्तः किलैतेषां कर्मणामेकतो धनम् ॥३३३ ॥ न गृह्णन्ति महात्मानो परलोकदिदृक्षवः । कणशः कणशः सद्भयः प्रतिगृह्य ततस्ततः ॥३३४॥ शनैः शनैश्च कालेन महता तानि चाचरेत् । एवं कृतेषु तेष्वेषु महत्सु किल कर्मसु ॥ ३३५॥

विवाहे गोत्रद्वयत्यागवर्णनम्

नैकस्य तनयास्ते स्युस्तस्मात्तेषु तथाचरेत् ।

अन्येषु सुतग्रहणम्

दुर्लभे (पु) तु सगोत्रेषु सपिण्डेषु सुते यदि ॥३३६॥

सुतं बन्धुपु वान्येषु

गृह्णीयादन्यजातिषु । सवर्णेषु ग्रहणम्

सवर्णेष्वेव कुर्वीत नासवर्णेषु तद्ग्रहम् ॥३३७। असवर्णेषु तत्कुर्वन् सद्यः पतति वर्णतः ।

असगोत्रस्वीकृतौ

गृहीत असगोत्रश्चेत्तनयः पुरुषत्रयम्

कृतार्थतां

प्रापयति तत्कुलं तदनन्तरम् ।

॥३३८॥

[[२६८५]]

संकीर्णमवशाद्याति यत्नतश्चेत्तरिष्यति ॥ ३३६ ॥ असगोत्रस्तु न ग्राह्यो गृहीतुः (तः) स्यात्स एव हि । दत्तो रिक्थमवाप्नोति सन्ततिर्दातुरेव हि ॥३४०॥ तस्माद्दत्तसुतः स्वस्वतनयानुद्भवान् ततः । जनकस्यैव गोत्रे तान् मौज्यां मन्त्रः प्रवेशयेत् ॥ ३४१॥ यदि दत्तस्वतनयान् स्वगोत्रे न प्रवेशयेत् । दत्तजो वाथ तज्जो वा तद्गोत्रद्वयजास्तु ते ॥ ३४२॥ विवाहे गोत्रद्वयत्यागः

एवं सत्यत्र जनने जातानां पाणिपीडने । समागते तदा सम्यग्यत्नाद्गोत्रद्वयं त्यजेत् ॥३४३॥ तद्गोत्रद्वययुक्त्यर्थज्ञानाय किल तत्परम् ।

तज्जातानां विवाहस्य तदार्षद्वयमाचरेत् ॥३४४॥

[[२६८६]]

आङ्गिरसस्मृतिः

अभिवन्दनादौ द्विगोत्रत्वम्

नित्याभिवन्दने सन्ध्यावन्दने काम्यवन्दने । कृत्स्नार्षेयं त्वेकगोत्रे परस्मिन्नपि गोत्रके ॥ ३४५॥ स्वीकृत्याद्वयं तेन योजयित्वा ततः परम् । एकमेव वदेद्गोत्रमेकद्विध्यार्षकं तथा ॥३४६॥ पञ्चसप्तार्षकं वैतन्नवैकादशकार्पकम् ।

गोत्रमेकं भवेदेवं त्रयोदशकमाकम् ॥३४७॥ एवं पञ्चदशार्षं च गोत्रं तत्प्रभवेदपि । एवं जातानि गोत्राणि दत्तावृत्त्युद्भवानि वै ॥ ३४८॥ वर्तन्ते भूतले तस्माद्गोत्रिणस्तान्विचार्य च । पृष्ट्वा तत्संशयस्त्याज्य एतावन्त्येव भूतले ॥३४६॥ गोत्राणि शास्त्रसिद्धानि चैकार्षेयाणि कानिचित् । द्वयर्षेयाणि त्र्यार्षेयाणि पश्चार्षेयाणि सन्ति हि ॥३५०॥ एतावन्त्येव सर्वत्र शास्त्रसिद्धानि नेतरत् । आद्यदत्तैकतद्दत्तपारम्पर्येण केवलम् ॥३५१॥ दृश्यन्ते ब्राह्मणाः सप्तदशार्पेयावधीतरे ।

दत्तजादीनां पूर्वगोत्रम्

तस्माद्दत्तजपुत्रांस्तान् पूर्वगोत्रे प्रवेशयेत् ॥३५२॥ विना प्रवेशं यदि ते परं प्राप्तैकगोत्रिणः । यदि स्युर्मोहतः पश्चात्पूर्वं तज्जनकस्य च ॥३५३॥ गोत्रं वज्यं विवाहादावेवं सत्यत्र कालतः । अज्ञात्वा पूर्ववृत्तान्तं गोत्रे तज्जनकस्य च ॥३५४॥

भ्रातृपुत्रादिपरिग्रहवर्णनम्

[[२६८७]]

विवहेरन् महानर्थः प्रभवेत्किल केवलम् । पूर्ववृत्तेऽथ विज्ञाते तां त्यक्त्वा मातृवत्तु ताम् ॥३५५॥ पालयेदेव धर्मेण पश्चात्कृच्छ्रत्रयं चरेत् । तद्दोषपरिहाराय तत्र जातांस्तु चेत्ततः ॥३५६॥ चण्डालेष्वेव निष्कम्पं योजयेदिति निर्णयः । असगोत्रसुतं तस्मान्न स्वीकुर्यात्कथंचन ॥३५॥ बुद्धिमान् धर्मवित्किंतु पौर्वापर्यविशेषवित् । सगोत्रेष्वेव कुर्वीत शास्त्रतः पुत्रसंग्रहम् ॥३५८॥

भ्रातृजेषु न विवाहहोमादिः

भ्रातृजेषु विवाहो न न स्वीकारश्च सत्क्रिया । न होमादिश्च कार्यो वै वाङ्मात्रेणैव पुत्रता ॥३५६॥

भ्रातृपुत्रादिपरिग्रहः

भ्रातृपुत्रेषु तिष्ठत्सु नान्यं ज्ञातिजनं तथा । न स्वीकुर्याद्दूरगं वा स्वीकृतश्चोर एव सः ॥३६०॥ पुत्रग्रहणकाले तु तत्पित्रोर्मानसं तदा । तोषयित्वा प्रदानाद्य भविष्यत्कालकृत्यकम् ॥ ३६१॥

कृत्वा च शपथं बाढं बन्धुराजादिभिर्जनैः । तत्पुत्रस्य च मर्यादा चैवमित्यपि वै पुनः ॥३६२॥ जातेऽपि चौरसे भूयः करोम्येवं न संशयः । दृढयित्वा स्वयं पश्चात् स्वीकुर्यात्तनयं ततः ॥ ३६३॥

[[२६८८]]

आङ्गिरसस्मृतिः

न चेद्दोषो महानेव भविष्यति न संशयः ।

स्वीकृत्यनन्तरमौरसोत्पत्तौ

स्वीकृत्य परपुत्रं यः संजाते त्वौरसे पुनः ॥३६४॥ पुरोक्तान्यन्यथाकृत्वा मोहात्तदहितं चरन् । प्रलपंस्तदुरुक्तानि मम मास्त्वयमद्य वै ॥ ३६५॥ वदेत्पापी महाक्र रस्तेन भूर्भारवत्यलम् । तं देशाद्धार्मिको राजा ताडयित्वा प्रवासयेत् ॥ ३६६॥ सर्वस्वं तस्य गृह्णीयात्तस्मिन् जनपदे न चेत् । न वर्षेत्किल पर्जन्यः राष्ट्रक्षोभोऽपि जायते ॥३६७॥ पुत्रप्रदानसमये यदुक्तं तत्कर्तव्यम्

पुत्रप्रदानसमये तत्पित्रोग्रहकेण या ।

वागुक्ता तां ततः काले तिरस्कर्तुं न शक्यते ॥ ३६८॥ तद्बन्धुभिस्तेन राज्ञा तैर्जनैर्दातृदापकैः । तद्भार्याभिस्तत्तनयैर्येन केनापि वा पुनः ॥३६६॥ पुत्रप्रदानसमये प्रोक्तवाक्यं तु तत्परम् । अल्पं महदशक्यं वा शक्यं वा तन्न लङ्घयेत् ॥३७०॥ स्वकार्याय पुरा प्रोक्त्वा जनानां पुरतो दृढम् । इच्छंस्तदन्यथयितुं यतते यस्तु या जडा ॥ ३७१॥ ऊध्वं लोकं न यातो वै भ्रूणहत्यामवाप्नुतः ।

भर्तुः पितुर्वा वाक्यातिक्रमे

स्वपुत्रहितमिच्छन्त्यो भर्तृवाक्यं पुरोदितम् ॥३७२॥भ्रातृपुत्रस्वीकृतौ दत्तस्य समांशः

[[२६८६]]

तिरस्कुर्वन्ति सहसा ता वै निरयभाजिनः । भर्तुः पितुर्वा यद्वाक्यं तदा पूर्वमुदीरितम् ॥ ३७३। पत्नी पुत्रोऽथवा मौरुर्यादनृतं मौर्यचोदितम् । दुःश्रुतं परूपं क्रमस्मत्कार्यविरोधि तत् ॥३७४॥ नाप्यकुर्म स्वीकरणमिति वक्तृन् दुरात्मनः । न्यक्कृत्य वाचा धिक्कृत्य ताडयित्वा कपोलयोः ॥ ३७५ ॥ शीघ्रं प्रवासयेद्द शात् साधून् सम्यक् प्रपूजयेत् ।

भ्रातृपुत्रस्वीकृतौ दत्तस्य समांशः

स्वीकृत भ्रातृसूनोश्च पश्चाज्जातौरसस्य च ॥३७६॥

समभागः सदा

प्रोक्तस्तदन्यस्य पुनर्यदि ।

॥३७७॥

सगोत्रस्य तुरीयभागः

तुर्यभागः सगोत्रादेरेवमाह पितामहः

औरसो वयसा न्यूनो ज्येष्ठ एव न संशयः । नष्ट े तु पालके ताते स्वीकृतो वयसाधिकः ॥३७८॥ उपनीतः कलत्री वा जातपुत्रोऽथवा यजन् । यत्नाच्च तं नोपयेद्दत्तो जातं तदौरसम् ॥३७६॥ कनिष्ठो धर्मतो दत्तो ह्यप्ययं वयसाधिकः । न्यूनोऽपि वयसा ज्येष्ठः औरसो नात्र संशयः ॥ ३८०॥

दत्तेनौरसे उपनीते

तस्माद्दत्तः स्वयं पश्चाज्जातं धर्मेण पूर्वजम् । धमन्यूनो नोपनयेद्यदि मोहेन तादृशम् ॥ ३८१॥

[[२६६०]]

आङ्गिरसस्मृतिः

प्रमादेन ह्यपनयेत् स्यातां तौ पतितौ ध्रुवम् ।

न तयोर्द्वन्द्वभावोऽस्ति कदाचित्तु परस्परम् ॥३८२॥

मृतभार्ययत्यादिपुत्रग्रहणम्

मृतभार्यो यतिर्वर्णी विश्वस्ता दूरभर्तृका ।

पुत्रं न प्रतिगृह्णीयाद्दूरभार्योऽपि सूतकी ॥ ३८३॥ अधिकारो मिलितयोर्दम्पत्योरुभयोरपि । कदाचिन्न पृथक्त्वेन तद्दाने तत्प्रतिग्रहे ॥३८४॥ सूतिप्रजननस्थानापन्नयुग्मद्वयस्य चेत् ।

वस्तुनो मेलनं पुत्रदानं तद्ग्रहणं भवेत् ॥३८५॥ सूतिप्रजननस्थानयुग्मद्वन्द्वमनःसुखम् ।

॥३८७॥

अचञ्चलं स्थिरं तुष्टं चेन्मनस्तच्चरेन्ननु ॥३८६॥ दम्पती दम्पतीचित्तं तुष्टं कृत्वाम्बरादिभिः । कृत्वा च शपथं गाढं भविष्यत्कार्यहेतवे साक्षिण पुरतो नूनं देवब्राह्मणसन्निधौ । राज्ञे बन्धुनि चावेद्य गृह्णीयातां सुतं ततः ॥ ३८८॥

तत्काले प्रतिज्ञाय तदकरणे

शपथानन्वरं कालान्मर्यादा था कृता पुरा । नस्तानुल्लङ्घयत राजा राष्ट्रात्प्रवासयेत् ॥ ३८६॥

पत्नीषु सुतस्वीकार काले या सन्निहिता सा माता, अन्या सपत्नीमाता सुतस्वीकरणे याऽऽरात्स्थित्वा साऽम्बास्य वै भवेत् ।

सापल्ली जननी बूरस्थिता भवति नान्यथा ॥३६०॥

औपासनाग्नौ श्राद्धेऽप्रमादवर्णनम्

अन्ये मातृमातामहादयः

[[२६६१]]

द्व े तिस्रो वा स्थिताश्चेत्तु तदारादेव केवलम् । पुत्रग्रहणतुष्टयेच भर्त्रा साकं हृदा तया ॥३६२॥ निखिला मातरो ज्ञेया बहुमातृक एव सः । तदानीं स्वीकृतसुतो नात्र कार्या विचारणा ॥३६२॥ तासां च पितरः सर्वेऽप्यस्य मातामहाः स्मृताः । सर्वश्राद्ध ेष्वनेनाथ सर्वान् मातामहान् क्रमात् ॥३६३॥ एकस्मिन्नेव तत्पिण्डे योजयेद्वा पृथक्तु वा । पिण्डान्वा निक्षिपेत्तेषां स्मर्तृणामत्र केवलम् ॥३६४॥

समत्वेन विकल्पस्तुल्य एव हि ।

वचनानां

यथारुचि प्रकुर्वीत यथा वा पुरतः कृतम् ॥३६५॥ तथैव पश्चात्कुर्वीत सर्वत्रैवं हि निर्णयः ।

सपत्नीपिता न मातामहः

सपत्नीजननीतातो न तु मातामहो भवेत् ॥ ३६६॥ सपत्नीमातृतर्पणम् सपत्नीजननी नित्यतर्पणे द्वयञ्जली लभेत् । स्वमातृवत्त्यञ्जलिं सा कदाचिदपि नो लभेत् ॥३७॥ पुनर्बिवाहितेनैवं तद्भार्या द्वयञ्जलिं लभेत् ।

अपुत्रा वा सपुत्रा वा तत्समा सा प्रकीर्तिता ॥३६॥

तस्या औपासनाग्नौ श्राद्धम्

वस्था औपासने श्राद्धमग्नौ कुर्यान्न लौकिके ।

यदि कुर्यात्प्रमादेन कुलं तस्य विनश्यति ॥३६६॥

[[२६६२]]

आङ्गिरसस्मृतिः

पत्न्या अग्निः

यतः पत्नीमृतदिनं पितृनाशदिनेन वै । तुल्यत्वेनैव कथितं तस्याः को वा विमूढधीः ॥४००॥ लौकिकाग्नौ प्रकुर्वीत स्वसमाया विचक्षणः । सा विद्यमाना भार्यैव मृता चेन्मातृवर्गगा ॥४०१ ॥

भ्रातृपुत्रग्रहणविधिः

कृतत्रयविवाहस्य पत्नीं दृष्ट्वा चिरं पृथक् । द्वादशाब्दमलभ्यैतं तद्रजोदर्शनात्परम् ॥४०२॥ पुत्रग्रहः प्रकथितो मुख्योऽयं तद्ग्रहे विधिः । तत्र साक्षात्कनिष्टस्य सुतश्चेज्जातमात्रकः ॥ ४०३॥ प्रवरः कथितः सद्भिस्तस्य व्यवहितश्च चेत् । तस्मान्न्यूनो भवेत्पुत्र एवं द्वित्रिविभेदतः ॥ ४०४॥ भ्रातुः पुत्रो भवेन्न्यूनः सद्यः स्तन्यरसग्रहात् । परं तद्ग्रहणात्पुत्रस्तस्मान्न्यूनः प्रजायते ॥४०५॥ एवमन्येषु नवसु जातहोमात्परं पृथक् । दिनभेदेन तन्न्यूनो दत्तो भवति पुत्रकः ॥४०६६॥ ततो ज्येष्ठस्य चेत्पुत्रस्तन्न्यूनो नात्र संशयः । न चाप्येकद्वित्रिभेदाद् भ्राता व्यवहितो यदि ॥ ४०७॥ तस्य सूनुस्तथा न्यून एवमेव पुनस्त्वथा । सापत्नीमातृतनया उन्नेया ज्येष्ठतः परम् ॥ ४०८ ॥ तनयाः शास्त्रमार्गेण न्यूना एव भवन्ति ते । एवं पितृव्यतनयतनयाचं पृथग्विधाः ॥४०६ ॥

कामजपुत्राणाम्वर्णनम्

[[२६३३]]

तन्न्यूना एव कथिताः सगोत्रा एवमेव वै । विज्ञेयाः किल किं भिन्नगोत्राश्चेत्तु ततः पुनः ॥४१०॥ किं वाच्यमस्ति तज्ज्ञात्वा बुद्धिमान् कालदेशकौ । समालोच्य विधानेन कुर्यात्पुत्रस्य संग्रहम् ॥११॥ विभागे भ्रातरस्तुल्याः

विभागे भ्रातरस्तुल्यास्तत्पुत्रास्तत्समा हि यत् । ते गृहीत्वा न तुर्याशं तल्लभन्ते सुतोबे ॥४१२ ॥

लभन्तेंऽशमौरसेन समा हि ते ।

सममेव

धर्मपत्न्यां समुद्भूत औरसः कथितो बुधैः ॥ ४१३॥

द्वितीयादिसमुद्भूतो न तत्साम्यमवाप्नुयात् ।

कामजपुत्राः

धर्मपत्नीसुतं प्राहुरौरसं ब्रह्मवादिनः

॥४१४॥

द्वितीयादिसुतान् सर्वान् कामजानिति चोचिरे । धर्मपत्नीसुतो ज्यैष्ठयं दत्ताद्गौरवमाप्नुयात् ॥४१५॥ पश्चाज्जातः कनिष्ठोऽपि द्वितीयादिसुतास्तु वेत् । पित्र्यादिक्रियया कालाद्धर्मपत्नीसुतैः समाः ॥४१६॥ भवन्त्यपि न संदेहस्तथापि पुनरेककम् । श्रवदामि समुद्भूतस्तस्मात्तत्कार्यकृद्भवेत् ॥४१७॥৷ वयोऽधिको दत्तसुतो न तत्कार्ये प्रभुर्भवेत् । दत्तसूनुर्धर्मपत्न्याः सबि बातेऽथवा न चेत् ॥ ४१८॥ द्विभार्य के क्रियाकृच्चेत्तद्भार्याया (अथापि वा) । दत्तनुमुस्तयोरन्यतरस्य यदि कर्मकृत् ॥ ४१६ ॥

[[१८८]]

[[२६६४]]

आङ्गिरसस्मृतिः

सत्यौर से तत्समोऽयं प्रभवेदिति वै मनुः । दौहित्रो यदि दत्तः स्याद्भ्रातृजो वा तथाविधः ॥४२०॥ औरसेनैव तुलितौ सततं धर्मतत्परौ । दत्तस्य पितरौ प्रोक्तौ ग्राहकावेव संततम् ॥४२१॥ पितृत्वमपि दत्तेन तिष्ठज्जनकयोर्न तु । दानहोमात्परं तस्मात्पितरावस्य तौ मतौ ॥४२२॥ पितृत्वमपि मातृत्वमेकत्रैव हि तिष्ठति । न तिष्ठति तदन्यत्र क्रियाशतसहस्रकात् ॥४२३॥ पितृत्वं मातरि गतमेकशेषजमल्पकम् । यथा न तत्कार्यकरं मातृत्वमपि तत्तथा पितृव्यपत्न्यादीनां स्यात्तादृक्पत्नीत्वमेव हि । तासां भवति तस्मात्तु न तन्मातृत्वमुच्चरेत् ॥ ४२५॥

प्रजापतिभ्यो ह्यभिमानसूनुः

पितृव्यसूनुस्त्वथवा सगोत्रः ।

ज्येष्ठः कनीयान्न भवेत्तथैको

॥४२४॥

ब भिन्नगोत्रो न सगोत्रविद्विट् ॥४२६॥

सगोत्र्यसंमतः सूनुर्यः कश्चन समागतः ।

पुत्रत्वेनोदरपरो नाभिमानसुतो भवेत् ॥४२७॥ धर्मपत्नीसुतो वर्णी द्वितीयादिसुतो गृही । जातपुत्रोऽप्याहिताग्निर्न समस्तेन वर्णिना ॥४२८॥ धर्मपत्नीसुतो बालो द्वितीयादिसुतो युवा । आहिताग्निर्दशसुतो न समस्तेन चोदितः ॥४२६॥

दत्तकस्य कर्म करणेऽधिकारित्ववर्णनम्

[[२६६५]]

स एव पितृकृत्येषु मुख्यकर्ता न संशयः । अनुपेतोऽप्यसौ यद्यप्यथ तत्कर्तृ तोऽखिलम् ॥४३०॥ कारयेज्ज्येष्ठमुखतस्तथा चेत्कर्म तत्परम् । जातमात्रे धर्मपत्नीसुते गौणसुताः परे ॥ ४३१॥ द्वितीयादिपुरोद्भूता भवेयुस्तत्क्षणान्ननु । धर्मपत्नीसुतोत्पत्या दत्ततत्कार्यतोऽपि च ॥४३२॥ द्वितीयादिसुतानां स्यात्सद्यो हैन्यं श्रुतीरितम् । तत्पत्नी कर्मकर्ता चेद्वितीयातनयस्य सः ॥४३३॥

दत्तादौ विशेषः

दत्तोऽधिकश्चेद्भवति पितुर्यदि पुनस्तराम् । असन्निधौ सन्निधौ वा ताते जीवति दत्तकः ॥४३४ ॥ तद्भार्याकर्मकर्ता चेचत्सुतापतिरिष्यते । द्वितीयातनयश्चेत्तु कर्मकृद्दत्तस्तदा ॥ ४३५॥ सद्यो हैन्यमवाप्नोति न ज्येष्ठातनयो यदि । तातस्तद्धर्मपत्नी च समौ दत्तस्य संततम् ॥४३६॥ पराणि तत्कलत्राणि संस्कार्याणि सुतो न चेत् । सुते सति स एव स्यात्तत्कर्मणि न चेतरः ॥४३७५ सर्वदैवं समाख्यातो न तेनायं हि दुर्बलः । दत्तेन तत्कलत्रस्य प्रथमस्य कृता क्रिया सत्यन्यातनये तावन्मात्रेणायमथाधिकः ।

॥४३८॥

तुर्याशोऽपि स्वमांशः स्यात्तादृशं कर्म तत्कृतम् ॥४३६॥

[[२६६६]]

आङ्गिरसस्मृतिः

सति वत्तत्सुते तस्मात् पितृपत्न्या विचक्षणः । ज्येष्ठायास्तस्कनिष्ठाजः स्वयं कर्म समाचरेत् ॥४४०॥ ज्येष्ठेन दत्तपुत्रेण तत्क्षेत्रस्य पितुस्तु वा । कृते कर्मणि तस्य स्यादाधिक्यं तत्सुतात्परम् ॥४४१ ॥ नाते सति कलत्रस्य तत्पुरो ज्यायसोऽस्य चेत् । कृतं कर्म हि दत्तेन सद्यः पुत्राधिको भवेत् ॥४४२॥ पुत्रेषु सत्सु दत्तेन पितुः कर्म कृतं तु चेत् । न तदा तस्य वाधिक्यं स्वाम्यं किमपि लभ्यते ॥४४३ ॥ यदि तज्ज्येष्ठभार्याया अपुत्राया कृतं तु तत् । कर्म तत्पुरनो नूनं दत्तः स्यादधिकः सुतात् ॥४४४॥ पितुः कर्म कृतं तेन दत्तेन यदि तत्परम् । अप्ययं मुख्यकर्ता न मुख्यः स्यात्सुत एव वै ॥ ४४५॥ निखिलेम्यो सुतेभ्योऽसावौरसो ह्यतिरिच्यते ।

पत्नीविशेषाः, तत्र धर्मपत्नी

औरसो धर्मपत्नीजो धर्मपत्नी च केवलम् ॥४४६॥ याऽनेन पूर्वं वाला वा दुर्गुणा वा विवाहिता । सैवास्य धर्मपत्नी स्याद्धर्मविद्भिरुदाहृता

द्वितीयपत्नी

॥४४७॥

तत्पश्चाद्या कुलीना वा सुरूपा वा वयोऽधिका । न सास्य धर्मपत्नी स्याद्वितीया भोगिनी स्मृता ॥ ४४८॥ सति वेत्तनये तल्पे पुनः कामाद्विवाहिता । द्वितीया भोगिनी नारी धर्मपत्नी न सोच्यते ॥ ४४६ ॥

नानाविधानां पत्नीनांवर्णनम्

पुत्राणां ज्यैष्ठयकानिष्ठम्

धर्मपत्नीसमुद्भूतो ज्येष्ठपुत्र इति स्मृतः । पत्नी तनयराहित्यकृतवैवाहिकस्य सा ॥४५०। येयमूढा धर्महेतोर्धर्मपत्न्यभिचोदिता ।

भोगिनी

कलत्रे सति पुत्रे वा पौत्रे नप्तरि सन्ततौ ॥४५१॥ स्थितायां येयमूढा स्याद्भोगिनी काञ्चनाह्वया ।

भर्मणावावातादिपत्नयः

[[२६६७]]

भर्मणो (ऽमूनि) यानि नामानि तानि सर्वाणि कृत्स्नशः ॥४५२॥ लभतेऽतस्तु सा प्रोक्ता द्वितीया काञ्चनाह्वया ।

न धर्मपत्नी भवति भोगिन्येव परा स्मृता ॥४५३॥ भर्मणेयं यतः साध्या वनिता तेन सा स्मृता । सर्वस्वर्णपदैर्वाच्या वावातेति च फण्यते ॥ ४५४॥ परा दुर्वर्णनामानि यानि ख्यातानि भूतले । तानि सर्वाण्यवाप्नोति तृतीयेति च तां विदुः ॥४५५ ॥ परिवृत्तीति तामेके विज्ञेयां विमलामति । हरिद्रां हरिणीं कल्यां जगदुर्ब्रह्मवादिनः

एतासां

तनयाः सर्वेऽप्युत्तरोत्तरदुर्बलाः ।

॥४५६॥

धर्मपत्नीसुतान्न्यूना वयसाप्यधिकास्तराम् ॥४५७৷৷ प्रथमा धर्मपत्नी च सुभगा महिषीति च । सत्कर्णीति च कल्याणी धर्मज्ञैः कथिता हि सा ॥४५८॥

[[२६६८]]

आङ्गरसस्मृतिः

धर्मपत्नीसुतो बालो मौञ्जीविरहितोऽपि वा । तिष्ठत्सु चान्यापुत्रेषु कर्मभिः सत्कृतेष्वपि ॥ ४५६॥ उत्तमः पितृकृत्येषु तस्मादग्निप्रदः स तु । तेन प्राधानिकं कर्म यद्यत्तत्तत्तु तन्मुखात् ॥ ४६०॥ सम्यक्कारयितुं न्याय्यं मन्त्रान् सर्वान्परे सुताः । पठेयुर्वै विधानेन चैवं धर्मोऽखिलो महान् ॥४६१॥ विहितस्तु समासेन तेन यावत्कृतं न तु । तावत्स तु मृतो तातः परलोकं न विन्दति ॥४६२ ॥ प्रेतत्वाच्च न निर्मुक्तः क्षुत्तृष्णापीडितस्तराम् ।

शरणं यत्र कुत्रापि ह्यटन् धावन् स्खलन् भ्रमन् ॥४६३॥ नित्यं च सलिलाकाङ्क्षी प्रेतलोके ह्यधोमुखः । रुग्णो मुण्डश्च विकलो जडो भ्रान्तश्च दुर्मनाः ॥ ४६४॥ निवसेदेव सततं तस्मादौरस एव सः ।

धर्मपत्नीजस्य स्पर्शमात्रकर्तृत्वम्

धर्मपत्नीसमुद्भूतो ह्यपरिज्ञातवर्णकः ॥४६५॥ प्रेतकार्यस्पर्शमात्रं स्नात्वा कुर्यादमन्त्रकम् । तावन्मात्रेण तत्तातः कृतकृत्यः सुखीतराम् ॥४६६ ॥ सम्यक् पितृत्वमाप्नोति नित्यानन्दः प्रजायते । तत्तन्मातुस्तत्तनया मुख्यकर्तार ईरिताः ॥४६७॥ सत्स्वौरसेषु मुख्यत्वात्त एव कथिताः पराः । तत्तत्कर्मसु कर्तारो नान्यमातृसमुद्भवाः ॥४६८॥श्राद्धादावत्यन्ततृप्तिकराणाम्वर्णनम्

धर्मपत्नीसुते बाले केवलं रहिताक्षरे । अस्पष्टस्पष्टवर्णे वा विद्यमाने मृते तु वा ॥४६६॥ कक्ष्यानन्तरनिष्ठ ेन येन केन सुतेन वा । तत्समेनाऽथवा भ्रात्रा शिष्येणान्येन बन्धुना ॥४७०॥ सर्वं कारयितव्यं स्यात्समन्त्रेणाऽत्र तत्र चेत् । यद्यत्प्राधानिकं कर्म तत्र तत्रास्य वै शिशोः ॥४७१ ॥ सान्निध्यं स्पर्शमात्रकर्तृत्वम्

॥४७२॥

स्पर्शमात्रः प्रकर्तव्यस्तत्सान्निध्यं च केवलम् । अपेक्षितं मृतस्यात्र महातृप्त्यैक हेतवे तत्सान्निध्यस्पर्शमात्रात् स मृतः सुखभागलम् । भवेदेव न संदेहस्तथा तस्मात्तु तच्चरेत् ॥४७३। मृतस्यैतानि प्रोक्तानि तारकाणि महात्मभिः । कारकाणि महातृप्तेस्तानीमानि स्मृतानि हि ॥ ४७४॥ श्राद्धादावत्यन्ततृप्तिकराणि

जकारपञ्चकं त्वेकं धर्मपत्नीजसन्निधिः । तत्कार्यकरणं तद्वद्ग्रहणश्राद्धमेव च

॥४७५॥

गयाश्राद्ध च फल्गुन्याः शाकश्राद्धमथापि च । तथैव वरणं गौर्या वृषोत्सर्जनमेव च ॥४७६॥ महालयश्च पनसस्त एते निखिलाः पराः । अत्यन्ततृप्तिमुक्त्यैकनिदानानीति तान् जगुः ॥४७७॥ जन्मभूम्यादिकं तत्र तज्जकारस्य पञ्चकम् । मृतस्य तारकं पूर्वं तत्परं त्वौरसस्य वै ॥४७८॥

२६६६.

[[३०००]]

आङ्गिरसस्मृतिः

स्वान्निध्यं मृतिकाले तु द्वितीयादिसुतस्य वा । परलोकानुकूला या मृतस्य प्रभवेत्तथा ॥४७६॥ तत्क्रिया मन्त्रपूर्वैवं मृतस्य प्रभवेत्तथा । एवं स्याद्ग्रहणश्राद्धं गया श्राद्धमथापरम् ॥४८०ll तृप्तिदं फाल्गुनीश्राद्धमष्टोत्तरशतैरुत ।

शाके श्राद्ध यत्क्रियते तदेकमथ तारकम् ॥४८१॥

गौरीदानं पितृतृप्तिकरम्

गौरीदानं वृषोत्सर्गः पाक्षिकोऽयं महालयः । स्थापनं पनसाख्यस्य तानीमानि स्मृतानि हि ॥४८२ ॥ पितृणामपि सर्वेषां वल्लभानीति वै जगुः । जकारपश्चकं वत्सः परलोकगतस्य तत् ॥ ४८३ ॥ तृप्त्यै संतरणायापि प्रोवाचैवं न चेतरत् ।

जकारपश्चकम्

जलाधं जाह्नवीतीरं जनार्दन महास्मृतिः

ज्वलनो जननोत्पन्नसुतसान्निध्यमेव च ।

॥४८४॥

जकारपञ्चकं प्रोक्तं कथितं जन्ममोचकम् ॥४८५॥

ग्रहणश्राद्धलक्षणम्

ग्रहस्पर्शादथ यतन् सद्यः पत्न्यादिभिर्वृतः । तदान्नेनैव यच्छ्राद्धं करोति पितृतृप्तये ॥४८६॥ स्नात्वा तेनैव विधिना तद्ग्रहश्राद्धमुच्यते । तदेतत्किल देवेशो भगवान् भूतभावनः ॥४८७॥

पनसस्थापनमाहात्म्यम्

षोडशश्रादधतुलितं महादानशताधिकम् ।

[[३००१]]

प्रोवाच किल सर्वेशो गयस्य सुमहात्मनः ॥४८८॥ गयाफल्गुनिकाशाकश्राद्धान्येतत्समानि वै । गौरीदानं तथैवेति वृषोत्सर्जनमेव च ॥ ४८६ ॥ महान्ति निष्क्रियाणीति मनुः कात्यायनोऽङ्गिराः । कुत्सवत्सान्निभरतविश्वामित्र शुकादयः ॥४६०॥ नैतेषां तुल्यमपरं पैतृकं कर्म विद्यते । लोकत्रयेऽपि परमं तस्मादेतेषु चैककम् ॥४६१॥ अपि कर्ता कृतार्थः स्यात् सुकृती पितृतारकः । इत्येवमेनं जहृपुः पनसस्थापकं तु तम् ॥४६२॥ वयं न विद्मः को वा स दू । दुर्वासाजनकोऽथवा । कुम्भोद्भवो दधीचिर्वा शिविर्वा नहुषो नलः ॥४६३॥ मान्धाता वाऽप्यलर्को वा हरिश्चन्द्रोऽथवा महान् । गयो रामोऽथवा श्रीमानेषु चैकोऽथवा न चेत् ॥४६४॥ एतत्समष्टिर्लोकानां हितायाऽत्र भुवः स्थले । अवतीर्णो न सन्देह इति ब्रह्मा शिवो हरिः ॥४६५॥

पनसे स्थापिते महान् विशेषः

पनसस्थापकं प्रोचुः शलाटोस्तस्य पृष्ठतः। सर्वे कण्टकरूपेण समाश्रित्यैव सन्ततम् ॥४६६॥ अष्टोत्तरशतश्राद्धदिव्यशाकविशेषकाः ।

प्रवर्तन्ते यतस्तस्मात्तदा शाकसहस्रकम् ॥४६७॥

[[३००२]]

आङ्गिरसस्मृतिः

तस्यास्य दिव्यरूपस्य पितृप्राणैकरूपिणः । सर्वदेवस्वरूपस्य सर्वमन्त्रमयस्य च ॥४६८॥ सर्वयज्ञमहातीर्थसरिदग्निसुवर्ष्मणः ।

निखिलागमशास्त्रौघत्रतकृच्छ्रामृतान्धसाम् ॥४६६॥ निधानस्य पवित्रस्य पित्र्याकर्षणवर्ष्मणः । स्थापनं क्रियते येन तच्छायापत्रमूलकैः ॥५००॥ फलैः शलाटुभिर्वापि काष्ठैश्छायाभिरेव च । क्रियते पितृतृप्तिः स्याद्बुद्धिपूर्वमबुद्धितः ॥५०१ ॥ तस्य पुण्यफलं वक्तुं गुरुणा ब्रह्मणापि वा । शक्यं वर्षसहस्र ेण फणिराजेन वा न तु ॥५०२॥ पुरा किल पितृतृप्तिहेतवोऽखिलशाककाः । तपस्तप्त्वा वरेणाऽथ ब्रह्मणः पनसं श्रिताः ॥५०३ ॥

अलर्कश्राद्धम्

अलकालर्ककारूषाच्युतचूताजरामराः ।

सप्तस्त्रेतेष्वच्युतश्चेदलर्कश्चाजरास्त्रयः

॥५०४॥

प्रतिमासजभेदेन स्मृता द्वादशजातयः । अतः षट्त्रिंशत्कसंख्या तस्मादेतत्त्रयस्य च ॥५०५ ॥ एतेषां मासजानां स्यादेकजातिशलाटुतः । तद्भिन्नैकादशानां च शलाटुफलभेदतः ॥५०६॥ द्वैविध्यं किल संप्राप्त शलाटोरपि वै मुहुः ।

[[1]]

आर्द्रा शुष्कप्रभेदेन द्वैविध्यं समुपागतम् ॥५०७॥

श्राद्धार्हदिव्यशाकवर्णनम्

तद्वत्फलानां च पुनद्वैविध्यं समुपागतम् । तच्चैत्रामलको ग्राह्य आशरत्सपवित्रकः

दिव्यशाकाः श्राद्धार्हाः

[[३००३]]

॥५०८॥

वारुकः कर्मजः शारिः श्रीपर्णं श्रीकरः शमी । युगदो युग्मदो रम्यं वज्रपर्णी करीषकी ॥५०६॥ कारवल्ली त्रयी कारुः कामकृत् कामवारकः । कामवाही कामदूरः शाकुटद्वयमप्रिमा ॥ ५१०॥ कामप्रं कामदं कम्रः कलिङ्गः कलिवारुकः । अजश्रीरजचर्माख्यो दारुको धर्मदो दमः ॥५११॥ कुलंकारी मनुर्मानी राजश्रीः शेखरी नलः । नालकः कारकः खाद्यो गायत्रो हरिलोचनः ॥५१२ ॥ हरिदश्वो हयग्रीवः कारुण्यः कनकप्रियः । कार्मुकः कर्मकृत्कार्यो धैर्यदो मानकृत् कुणिः ॥ ५१३॥ शरच्छ्रीको मङ्गलको कुण्डोऽकुण्डो गुडप्रियः । फलश्रीर्मधुरग्रीवो दानदः कटुकः क्षमी ॥ ५१४॥

मान्मथो मधुरस्रावा

वज्रघ्नो वज्रपञ्जरः ।

वल्मीकजो बालराजो बालपुत्रो बृहद्रथः ॥ ५१५॥

कर्णकारोऽक्षिरोगघ्न्नः प्रतीहारी वलीमुखः । शर्मकृन्नेत्ररोगघ्नो धान्यद्वेषी दरिद्रहृत् ॥५१६॥ कुशलः कर्मसुखकृत् कण्ठहृत् कनकप्रभः । विश्वाकरः पिप्पलघ्न्नः क्षुन्मूलो क्षुन्निवारणः ॥५१७৷

३००४-

आङ्गिरसस्मृतिः

अग्निधामा धरानाथो धरावासी धराश्रयः । अद्रिराजो धर्मदेशी धर्माश्रयकरः प्रराट् ॥५१८॥ अनिकेतो निमिग्रीवो नीलनेनो मरुत्पतिः । मणिमालो बृहन्नालो नारदो लिकुचो नटः ॥५१६॥ कुम्भाडः कुण्डली चक्रः शैत्यकर्मा शताकरः । कल्याणाधार ईशान ईशानो दक्षिणास्पदः ॥५२०॥ शतवल्ली महावल्ली चक्रवल्ली निपानकृत् । द्रोणप्रियो द्रोणराजो गुल्महृत् कटुमूलकः ॥५२१॥ नित्यश्रीको नित्यपुष्पो निर्मलो बहुपुष्पकः । प्लक्षराजन्यसंभूतो हेतिमूलो निशाप्रियः ॥ ५२२॥ महादाहकरोऽश्वत्थः सुन्दरः पर्वताश्रयः । कर्दमाढ्यः कर्दमाधः सूपस्थानः सुरास्पदः ॥ ५२३॥ पूर्णपात्रं शर्मपात्रं शातकुम्भः स्थिराकरः । काव्यश्रीः श्रीकरः श्रीगः परागश्रुतिदीपनः ॥५२४॥ महामाली जीवमाली पाशाढ्यः पाशदुःसहः । प्रथितो प्राणतरणो देवराजप्रियः पणः ॥५२५॥ सद्योमूलः पण्यमतिः गरदूषो गणत्रिगः । गुहावासो गुहामूल्यं भरण्यं मुनिवन्दितः ॥५२६॥ मुनिप्रियो दन्तरिपुः शर्मकृच्छर्ममत्सरी ।

त ते दिव्यशाकाः स्युः श्राद्धकर्मणि चोदिताः ॥५२७॥ एतेषामम्लयोगेन तदयोगेन च द्विधा ।

भवेयुः किल ते भूय एतेषां पुनरेव वै ॥५२८॥

पनसमहिमावर्णनम्

[[३००५]]

मध्ये शाकुटकादीनि मूलतः स्तम्भतस्तथा । पत्रतस्त्रिविधो ज्ञेयः कानिचिच्छुष्कभेदतः ॥ ५२६॥ पक्कन जलतैलाभ्यां पृथक्त्वेन समष्टितः ।

चूर्णकल्कप्रभेदेन यत्नतः स्यात्सहस्रकम्

स्यात्सहस्त्रकम्

पनस महिमा

॥५३०॥

एतत्सर्वं चैकपात्रे विधाय किल पद्मजः । अन्यपात्रे च पनसं तुलयामास पाणिना ॥५३१॥ तदा तु पनसः किंचिद्बभूवाधिक एव वै । बृहती त्रिशतसमा तदा जाता हि पश्यताम् ॥५३२॥ आर्द्रकं पट्छतसमं तिलाः शतसमं तराम् । एवं तुलायां त्रितयं संबभूव तदादि वै ॥ ५३३॥ भूतले ब्राह्मणाः सन्तः पवित्रे श्राद्धकर्मणि । तुल्यं शाकसहस्रस्य तिला कबृहत्ककम्

॥५३४॥

संपादयन्ति यत्नेन पितॄणामतितृप्तये । तिळमापव्रीहियवा मुद्गगोधूमशाककाः ॥ ५३५॥ काशा दशविधा दर्भा मुख्या मुख्याश्च ये मताः । खड्गं दशविधं मांसं प्रेतपर्पटभूतपाः ॥ ५३६॥ वामदेवादयो विश्राः पितृसूक्तविशेषकाः । गयादिपुण्यक्षेत्राणि वटभूरुह एव च ॥५३७॥ बिन्दुमाधव विश्वेशचतुर्दशपदानि च । ईशानादिमुखान्येवं गधाधरमहेश्वरौ ॥३३८॥

[[३००६]]

आङ्गिरसस्मृतिः

॥५४१॥

भागीरथी फल्गुनी च यमुना च सरस्वती । पितृसूक्तानि सर्वाणि वैष्णवानि विशेषतः ॥५३६॥ रक्षोघ्नानि पवित्राणि पुनरन्ये तथाविधाः । श्राद्धद्रव्यविशेषाः स्युः पितॄणामतिवल्लभाः ॥५४०। ते सर्वे पनसस्त्वेकः सुमहाक्षयकारकः एतस्मिन् पनसे लब्धे सर्वश्राद्धनिदानके मृताहदिवसे पुण्ये नित्यतृप्ताः

पुण्ये नित्यतृप्ताः सुतोषिताः पितरस्तुन्दिलाः सद्यो भवन्त्येवेति सा श्रुतिः ॥५४२॥ एवं सत्यत्र यो मर्त्यः पनसस्थापको हृदा । मत्याऽमत्याथवाऽतीव भक्त्याऽभक्त्याथवा पुनः ॥५४३ ॥ ज्ञानेनाऽज्ञानतो वाऽपि भूतले यत्र कुत्रचित् । स एव कथितः सद्भिर्गयाश्राद्धसहस्रकृत् ॥५४४॥ पनस्त्रं स्वहकारैश्च कदल्यादिद्रुमैः सह । स्थापयित्वा विधानेन यत्नात्संवर्धितैः शिवैः ॥५४५॥ चम्पकैः पाटलीभिश्च मधूकैः सुमनोरमैः । चन्दनैः स्पन्दनैनींपैस्तच्छायाभिश्च तत्फलैः ॥५४६॥ पत्रैः पुष्पैश्च तत्काष्ठैर्नानाशाकविशेषकैः । कुर्वन् स्ववृत्या प्रयतन कुलकोटिसहस्रकैः ब्रह्मलोकमवाप्येह तत्सायुज्यमबाप्नुयात् । पनसं यत्र कुत्रापि दृष्ट्वा सद्यो महामनाः ॥५४८॥ तत्काष्ठपत्रकुसुमशलाटुफलमुख्यकैः ।

॥५४७

येन केनापि वा तृप्तिं पितॄणां तां समाचरेत् ॥५४६॥

श्राद्ध पनसस्यावश्यकतावर्णनम्

सद्य एव ब्राह्मणेभ्यो लब्धमात्रे च तत्फले । दृष्टमात्रेऽथवा भक्त्या दद्याद्वै पितृ तृप्तये ॥५५०॥ शलाटुं पानसं पत्रं फलं दृष्ट्वा तु यो नरः । पितृतृप्तिमकृत्वैव तूष्णीं तिष्ठेन्महाजडः ॥५५१॥ तं तस्य पितरः सर्वे शपन्ति किल कोपतः । दृष्टमात्रे तु तस्मात्तु पानस द्रव्यमुत्तमम् ॥५५२॥ येन केनाप्युपायेन पत्रेण च फलेन वा । शलाटुना छायया वा पितृतृप्तिनिमित्तकम् ॥५५३॥ यत्किंचिदपि वा तेषु ब्राह्मणेभ्यः प्रदापयेत् । तावन्मात्रेण पितरो नित्यतृप्ता भवन्ति वै ॥ ५५४॥ एवं सत्यत्र यः कश्चिद्भाग्यवान् पनसी नरः । तद्द्द्रव्यैरनिशं भक्त्या तृप्त्यकृत् पातकी भवेत् ॥५५५॥ गालवस्तु पुरा विप्रो दृष्ट्वा बीजानि भक्तितः । क्रयेण पञ्चषान् गृह्य पितृप्रीत्यै बुभुक्षितः ॥५५६ ॥ स्वयं पत्न्या भक्षयित्वा पितृतृप्तिं चकार ह । तावन्मात्रेण वे चापि परं तृप्ताः शताब्दकात् ॥५५७॥ आनन्दसागरे मग्ना बभूवुरिति नः श्रुतम् । पुरा कुशवने पुण्ये माण्डव्यो वेदवित्तमः ॥५५८॥ महाविन्ध्याटवीमार्गे पनसं कार्तिकेऽवशात् । दृष्ट्वाकं च नतस्तूष्णीं समालोच्य क्षणात्परम् ॥५५६॥ तत्पत्राणि पवित्राणि पतितानि भुवः स्थले । दृष्ट्वा समादायैतानि निपुणः सर्वकर्मसु ॥५६०॥

[[३००७]]

[[३००८]]

आङ्गिरसस्मृतिः

बानि स्वकरतः शीघ्रं कृत्वा पत्रपुटं त्वरन् । कस्मैचिद्विप्रपुत्राय पात्राय जलकांक्षिणे ॥ ५६२१॥ समुद्युक्ताय पातुं तज्जलं भूमिगतं कथम् । पास्यामि सलिलं वेति समालोकयतेतराम् ॥५६२॥ पिबत्यनैकतरसा पितृप्रीत्यै पितॄन् महान् । स्मृत्वा ददौ तदा तेssपि समागत्यातिसत्वरम् ॥५६३ ॥ तावन्मात्रेण संतुष्टा गया श्राद्धशताधिकात् । अतिहपं गताः सद्यस्तमेनं भूरितेजसम् ॥५६४॥ आशीर्भिश्च प्रशस्ताभिः प्रत्यक्षेणैनमीक्ष्य ते । परं तृप्ताः स्मेति चोक्त्वा त्वं कृतार्थो महानसि ॥५६५ ॥ शास्त्रार्थधर्मतत्त्वज्ञस्त्वमस्मत्परितृप्तिकृत् ।

इत्युक्त्वाऽऽभाष्य ते तेन तत्पदं चक्रपाणिनः ॥५६६॥ पश्यतस्तस्य पुरतो जम्मुः किल सुरोत्तमैः । प्रार्थनीयं विशेषेण सोऽयमेतादृशो महान् ॥५६७ ॥ पितॄणां पनसः श्रीमान् वल्लभः परमो महान् । कारश्च कारवल्लीकः कारुकः कालिको करुत् ॥५६८॥ पञ्चैते ब्रह्मपुरतो देवानां शृण्वतां तदा । इदमूचुर्वचो दुःखादस्माकमपि सन्ति हि ॥५६६॥ कण्टकानि ततो भूयः खराणि सुमहान्त्यपि । त्वमस्माकं तु तत्साम्यं किमर्थं नाकरोर्विभो ॥५७०॥ इत्येवमतिदैन्येन पौनःपुन्येन केवलम् ।

रुरुदुः किल दुःखार्त्तास्तानेतांस्तादृशान्विभुः ॥५७१॥कारस्यश्लाध्यत्ववर्णनम्

नाकिनां पुरतो भूयः प्रहसन् वाक्यमब्रवीत् ।

रोदनम्

यन्माहात्म्यसुमहतो जन्मसिद्धातिसुश्रियः ॥ ५७२। दृष्ट्वा विभूतिं परमामसहन्नेव केवलम् । तत्साम्यमिच्छुरारान्मे रोदनं कृतवानसि ॥ ५७३॥ तस्मादेतत्प्रभृति ते भुवने ये दरिद्रतः । श्राद्धककरणाशक्ता अष्टोत्तरशतेष्वपि ॥५७४ ॥ श्राद्धषु केषुचित्कालविशेषेषु कथंचन । रोदनाच्छ्राद्धकरणफलं ते प्राप्नुयुः परम् ॥५७५৷

कारस्य श्लाध्यत्वम्

[[३००६]]

यस्मादत्यम्लवचनं • मत्पुरः प्रोक्तवानसि । दे॒वानां शृण्वतां चापि तस्मात्त्वं श्राद्धकर्मसु ॥७६॥ नित्याम्लयुक्तो वर्तस्व कार रे रे कृती भव । कारवल्ल्यादयो यूयं स्वेषां कण्टकसाम्यतः ॥५७७॥৷ तत्साम्यचेतसो यस्मादङ्गीकुर्मश्च सांप्रतम् । युष्मान् श्राद्धषु सर्वेषु तद्योग्या भवतैव वै ॥५७८॥ तत्साम्यं तत्त्रयस्यैव मिलित्वैव पृथङ् न तु ।

नित्यं शाकसहस्रस्य बृहत्यादेस्तु वो न तु ॥५७६॥ युष्माकं श्राद्धयोग्यत्वमात्रं मद्वचसा मतम् ।

सकण्टक बृहत्यस्ता

मनसा पूर्वमेव वै ॥५८०॥

साम्यं कण्टकतस्तस्य पनसस्य त्वकामयन् । युष्मदीयमिमं वृत्तं ज्ञात्वा तूष्णीं व्यवस्थिताः ॥ ५८१ ॥

[[१८६]]

[[३०१०]]

आङ्गिरस स्मृतिः

अतिचातुर्यतोऽतीव निपुणाश्च विचक्षणाः । ज्ञात्वा तद्धृदयं सर्वमवलेपं तथाविधम् ॥ ५८२॥ सर्वं ज्ञात्वा विधास्यामि लोकेष्वद्य च श्रूयताम् । मन्वादिषु मदीयेषु युगादिषु चतुर्ष्वपि ॥ ५८३॥ अष्टकासु च पुण्यासु संक्रान्तिषु च वृद्धिके । नैमित्तिके च तासां स्यादयोग्यत्वं तथाविधम् ॥५८४॥ तत्र चैतासु याः क्रूराः प्रेतकर्मणि ता. पराः । संभवन्तु न चान्येषु मर्यादैवं मया कृता ॥ ५८५॥

उर्वारुमहिमा

एतस्मिन्नन्तरे तत्र देवसृष्टोऽतिसुन्दरः । पत्रपुष्पमहावल्लोशलाटुफलसंवृतः ॥५८६॥ समागत्यातिचपलात् कैलासाद्धरणीधरात् ।

नत्वा बद्धाञ्जलिपुटश्वोर्वारुर्मम का गतिः ॥५८७७ इति चोवाच लोकेशं भगवन्तं पितामहम् । तादृशं तं समुद्वीक्ष्य गौरीवाक्येन केवलम् ॥५८८॥ शम्भुना लोकनाथेन सृष्टं शुद्धकविग्रहम् । समागतं महाप्रह्णं महागुरुषु

शुद्धसत्वं दूरगवं ज्ञात्वा तं

वत्सलम् ॥५८६॥

सर्वसुन्दरम् ।

  1. अतिप्रशस्यं चोवाच देवानां पुरतो विभुः ॥५६०॥ त्वमुर्वारो स्थाणुसृष्टो भवानीवचसा यतः ।

स्वयं प्रकृत्या च महान् शान्तो दान्तो महामनाः ॥५६१॥

30%

पनसस्तुतिवर्णनम्

गुरुप्रियो विनीतश्च सततं गुरुवत्सलः । अवलेपैकरहितश्चाद्यप्रभृति भूतले ॥ ५६२॥ दैविकेषु च पित्र्येषु कल्याणेषु नवेषु च । नैमित्तिकेषु नित्येषु काम्येषु सकलेष्वपि ॥ ५६३ ॥ कृत्स्नक्रियाविशेषेषु बालवृद्धातुरादिपुं ।

[[३०११]]

नित्ययुक्तः सदा योग्यः शलाटूनां दशासु च ॥५६४॥ दशास्वेवं फलानां च शाश्वतो भव शाश्वतः । पितॄणां सर्वदात्यन्तं वल्लभः परमो भव ॥५६५॥ वसन्तमाधवस्य त्वं ग्रीष्ममृत्युंजयस्य च । महावर्षाः सप्ततन्तुः शरत्काल्यस्तथा पुनः ॥५६६॥ हेमन्तवनराजन्यः शिशिरः शीतलः शिवः । सुखाकरः शुभकरो नित्यकल्याणकारकः ॥५६७७ प्रथितो भव सर्वेषां पानसैराम्रकैः शिवैः । रम्भाभिस्तुलितो भूयः कदाचिदधिकस्तथा ॥ ५६८॥ विद्वत्स्तुत्यो राजमान्यो त्वज्जातीयकषोडशैः । : संग्राह्यो भव सर्वत्र सर्वनेत्रप्रियोऽनिशम् ॥५६६॥ सर्वदा सर्वसंवृद्धो भवोर्वारोऽतिवर्धितः । मरुत्कृतौ तु त्वद्वीजविक्षेपणमुखादितः ॥ ६००॥ फलबीजसमुत्पत्तिपर्यन्तं किल सर्वदा । तदिष्टित्रयतः शुद्धो महान्मन्त्रपरिष्कृतः ॥ ६०१ ॥ त्रयस्त्रिंशत्कोटिसंख्य देवानां वल्लभो भव !

इति स्तुतः पूजितश्च शासितो विहितोऽनघः ॥ ६०२॥

[[३०१२]]

आङ्गिरसस्मृतिः

अत्यन्तपितृतृप्त्यैककारकः किल

कारितः ।

॥६०३॥

उर्वारुस्तादृशः प्रोक्तः संग्राहाः श्राद्धकर्मसु

उर्वारुत्यागे दोषः

तादृशं तमिमं यो वै मौन्याच्छ्राद्धषु संत्यजेत् । सद्य एव पितुद्रही भवेदेव न संशयः ॥६०४॥ देवद्रोही श्रुतिद्रोही सर्वद्रोही स एव हि । विधिघ्न्नः श्राद्धहन्ता स्यात्तानीमानि प्रवच्म्यतः ॥६०५॥ षण्णवतिश्राद्धानि

अमामनुयुगक्रान्तिधृ(व्य) तिपातमहालयाः । तिस्रोऽटका गजच्छाया षण्णवत्यः प्रकीर्तिताः ॥६०६ ॥ मासिश्राद्धानि तान्येवं मासि मासि कृतानि वै । अष्टोत्तरशतानि स्युस्तानीमानि ततः पुनः ॥६०७॥ पित्रोमृताहः कथितोऽलङ्घनीयः कथंचन । रवि च प्रथमे पादे कविं चैव द्वितीयके ॥ ६०८ ॥ त्रयोदश तृतीये स्यादमाव्याख्यानमुच्यते । पुनर्निरूप्यते स्पष्टममावाक्यस्य सांप्रतम् ॥ ६०६॥ अमावास्या द्वादश स्युर्मनवस्तु चतुर्दश । युगादयश्च चत्वारः क्रान्तयो द्वादश स्मृताः ॥६१०॥ धृतयश्चापि पाताश्च त्रयोदश त्रयोदश ।

महालयाः पञ्चदश अष्टका द्वादश स्मृताः ॥ ६११॥ गजच्छाया तथा चैका षण्णवत्य इतीरिताः । प्रतिमासं प्रकर्तव्यत्वेन तानि च सांप्रतम् ॥६१२॥

दर्शश्राद्धवर्णनम्

[[३०१३]]

कीर्तितानि द्वादश हि मिलित्वैतेऽखिलान्यपि । अष्टोत्तरशतानि स्युः श्राद्धानि विहितानि वै ॥ ६१३॥ प्रतिवर्षं प्रयत्नेन ब्राह्मणस्य महात्मनः । अमावास्यास्तत्र क्लृप्ता मासान्ता नित्यमेव वै ॥ ६१४॥ अत्रैव पितृयज्ञश्च कर्तव्यत्वेन चोदितः । क्षुत्युक्तोऽयं पितॄणां स्यादतितृप्त्यैककारकः ॥६१५॥ श्राद्धानां प्रकृतित्वेन चोदितः स्मृतिकर्तृभिः । नैतस्मात्तु परं श्राद्धं विद्यते यत्र कुत्रचित् ॥६१६॥ श्रुत्युक्तमेतदेव स्यादेतन्मात्रे कृते तु चेत् । सर्वाण्यपि कृतानि स्युरथवैतद्दिने तु यैः ॥ ६१७॥ श्राद्धं वै क्रियते तद्वा प्रकृतिश्चेति वै जगुः । इतरैः सर्वपित्र्याणां श्रुतितो ब्रह्मवादिनः यदनुष्ठानतः सर्वानुष्ठानं जायतेतराम् ।

वै

॥६१८॥

तदेव प्रकृतिः प्रोक्ता हि कैश्चिद्ब्रह्मवादिभिः ॥६१६॥

दर्शश्राद्धम्

दर्शानुष्ठानतः सर्वश्राद्धानि स्युः कृतानि वै । इति सर्वे त्रयो लोकास्तूष्णीं तिष्ठन्ति केवलम् ॥६२०॥ न केनापि च तस्मात्तु दर्शः संत्यज्यते परः । दर्शमात्रेऽनुष्ठितेऽस्मिन् येन केन प्रकारतः सर्वाण्यनुष्ठितानि स्युरिति वै लोकसंस्थितिः ।

॥६२१॥

न तत्र साक्षाच्छ्राद्धं च क्रियते येन केन वा ॥ ६२२॥

[[३०१४]]

आङ्गिरसस्मृतिः

क्रियते कृतिना तत्तु भूतले येन केनचित् । तेनाप्युदकमात्रेण श्राद्ध नापि कृतेन वै ॥ ६२३॥ सर्वाण्यपि कृतान्येवेत्येवं सर्वैकनिश्चयः । स दर्शस्तादृशस्यानुष्ठाता यो ब्राह्मणोत्तमः ॥ ६२४॥ अग्निहोत्री स एव स्यादर्शयाज्ययाज्यपि । सोमयाजी सर्वयाजी तत्यागी ब्रह्मघातकः ॥६२५॥ स एव कर्मचण्डालस्तमेनं ब्रह्मघातकम् । दृष्ट्वा समागतं पापं वाङ्मात्रेणापि नार्चयेत् ॥६२६॥ प्रकृतिश्राद्धमात्रश्च दर्श एव न चापरः । पितृयज्ञमुखादेव प्रकृतित्वं तदीरितम् ॥६२७॥ तत्रैव विहितोऽयं हि पितृयज्ञः श्रुतीरितः ।

दर्शाब्दिकौ तुल्यौ

दर्शो मृताहश्च समौ न कदाचित्तु

॥६२८॥

येन केनापि वा त्यक्तुं तत्त्यागी चेत्पतत्यधः । पित्रोमृताहस्त्वन्नेन कार्यः स्यात्तु न चान्यतः ॥६२६॥ न हेनान्नेन होमेन पिण्डदानेन मन्त्रतः । अक्षेण शष्पैर्मन्त्रैर्वा न दुःखेन तदाचरेत् ॥६३०॥ किं त्वग्नौकरणाद्ब्रह्मभोजनात्पिण्डदानतः । कृतं भवति तत्कर्म न चेच्चण्डालतां व्रजेत् ॥६३१॥

दर्शाब्दिकौ न त्याज्यौ

मृताहोऽलङ्घनीयः स्याद्दर्शश्चापि तथाविधः । येन केन प्रकारेण शक्यते किल दुर्बलैः ॥६३२॥

संक्रान्तिपुण्यकालवर्णनम्

अकिंचनैदुर्बलैर्वा व्याधितैर्वा विशेषतः । वाधितैर्भावमानैर्वाऽज्ञातवासिभिरेव वै ॥६३३॥ नष्टक्रियैर्नष्टधनैर्मृ तप्रायैरथापि वा ।

[[३०१५]]

त्यक्तुं न शक्यते श्राद्ध मृताहाख्यं कथंचन ॥६३४॥ मृताहस्तादृशः क्लृप्तः प्रतिवर्षं च चान्द्रतः । मानेनैव भवेन्नूनसक्लृप्तोऽन्येन चेद्भवेत् ॥६३५॥ अत्यन्तावश्यको न स्यादक्लृप्तश्चेत्तु यो भवेत् । क्लृप्तस्यावृत्तिरित्येव मर्यादा शास्त्रसंमता ॥ ६३६ ॥ तिथ्यग्नी न तिथिस्तिथ्याशे कृष्णे भोऽनलो ग्रहाः । तिथ्यकौं न शिवोऽश्वोऽमातिथी मन्वादयः स्मृताः ॥६३७॥

तस्मात्तु क्लृप्ता इत्युक्तास्ततश्च क्रान्तयः स्मृताः । सूर्यराशिक्रमणतश्चाऽक्लुमा इत्युदीरिताः

संक्रान्तिस्वरूपम्

॥६३८॥

अयने द्व

े च विपुवौ चतस्रः षडशीतयः । चतस्रो विष्णुपद्यश्च संक्रमा द्वादश स्मृताः ॥६३६॥

स्थिरभेष्वर्कसंक्रान्तिर्ज्ञेया विष्णुपदाह्वया ।

पडशीतिमुखं ज्ञेयं द्विः स्वभावेषु राशिपु सौम्ययाम्यायने नूनं भवतो मृगकर्कटौ ।

तुलामेषोभयं ज्ञयं विपुवं सूर्य संक्रमे

संक्रान्ति पुण्यकालः

॥६४०॥

॥६४१॥

अहः संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् ।

रात्रौ संक्रमणे भानोर्व्यवस्था सर्वकर्मसु (सङ्क्रमे ) ॥ ६४२॥

[[३०१६]]

आङ्गिरसस्मृतिः

सौम्ययाम्यायनद्वन्द्व े विशेष इति वै जगुः । अतात्याप्राप्य तत्कालं पुण्यकाल उदाहृतः ॥६४३॥ संक्रान्तिष्व खिलारवेवं तत्कालः पुण्यदः स्मृतः । या याः सन्निहिताः नाड्यरतास्ताः पुण्यतमाः स्मृताः ॥६४४॥ अयने द्व े च विपुवे चतस्रः पडशीतयः । चतस्रो विष्णुपद्यश्च संक्रमा द्वादश स्मृताः ॥६४५॥ त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः । वर्तमाने तुलामेषे नाड्यस्तूभयतो दश ॥६४६॥ षडशीत्यां व्यतीतायां षष्टिरुक्ताः प्रणाडिकाः । पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडश ॥ ६४७॥ अर्धरात्रात्तदृध्वं वा संक्रान्तौ दक्षिणायने । पूर्वमेव दिने कुर्यादुत्तरायण एव वै ॥ ६४८॥ अन्नश्राद्ध कुतपः

यद्यत्तु पैतृकं कर्म श्राद्धमन्नेन चेत्पुनः । कुतपे तद्धि कुर्वीत तद्भिन्नस्य तु चेदयम् ॥६४६॥ विधिः ख्यातो न सन्देहो धर्मविद्भिः सनातनैः। ओदनश्राद्धमात्रस्य संक्रान्तीनां च कृत्स्नशः ॥६५०॥ द्वादशानां तथान्येषां कुतपो मुख्य उच्यते । तद्भिन्नस्नानदानादितर्पणादिषु ते स्मृताः ॥६५१॥ तदा तदा तु विहिता एते कालविशेषकाः । श्राद्धकर्तुस्तु सर्वत्र कृतिनः काल एककः ॥ ६५२॥

श्राद्धदेवतावर्णनम्

[[३०१७]]

कुतपो वेदवचसा मुख्यः प्रोक्तो न चेतरः । सोsपि यस्मिन् दिने सम्यग्दक्षिणायनकालकः ॥६५३॥ तमुत्तरायणे कुर्यादुत्तरायणमेव हि ।

कुतपस्य तु यत्र स्याल्लोभपूर्वं तथाचरेत् ॥६५४॥

दर्शसंक्रान्त्यादिश्राद्धानि

तत्क्रान्तियुग्मश्राद्धादिकृत्यं सर्वं यथा लभेत् । औत्तरे ह्ययने सम्यक् कुतपेऽस्मिन् तथाऽऽचरेत् ॥६५५॥ संक्रान्तिमात्राः कथिता अक्लृप्ता इति सूरिभिः । एवं धृतिश्च पातश्च पविंशतिक संख्यया ॥६५६॥ कथिताः किल सर्वाण्यप्यक्लृप्तान्येव केवलम् ।

महालयः

महालया बहुविधाः पूर्वं पञ्चदशेति वै ॥ ६५७॥

षोडशैवेति केचित्तु दशेति च

तथापरे ।

पञ्चैवेति त्रयं चेति एकमेवेति केचन ॥ ६५८ ॥ पोढा ताः कथिताः सद्भिरष्टका द्वादश स्मृताः । यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ॥ ६५६॥ याम्या तिथिर्भवेत्सा तु गजच्छाया प्रकीर्तिता ।

श्राद्धदेवताः

कर्माणि कानि ख्यातानि त्रिदैवत्यानि केवलम् ॥६६०॥ षड्दैवत्यानि कानि स्युर्नवदैवत्यकानि च । तत्रादौ तु त्रिदैवत्यं मृताहस्त्वेक उच्यते ॥ ६६१॥

[[३०१८]]

आङ्गिरसस्मृतिः

पड्दैवत्यस्तु दर्शः स्यादष्टका नवदेवताः । अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि ॥६६२॥ मातुः श्राद्ध पृथक् कुर्यादन्यत्र पतिना सह । पतिना सह कर्तव्यं पृथक्त्वेन कृते यदि ॥६६३॥ तत्पैतृकमहासङ्गसौख्यविघ्नकरं भवेत् ।

पितृवर्गस्तु पूर्वं स्यान्मातृवर्गस्ततः परम् ॥६६४॥ ततो मातामहानां च वर्गोऽयं तत्कलत्रतः ।

पित्र्येऽप्रदक्षिणम्, शून्यललाटता च

पितृवर्गो यत्र पूर्वं तत्र स्यादप्रदिक्षणम् ॥६६५॥

तथा शून्यललाटं प्रभवेदपि ।

अपसव्यं

यत्र यत्राऽऽपसव्यं स्यात्तत्र तत्राऽप्रदक्षिणम् ॥६६६ ॥ तथा शून्यललाटं च प्रधानाङ्गे च तत्स्मृतम् ।

तत्र गृहालंकारो न कर्तव्यः

यत्रैतत्त्रितयं तत्र गृहालंकरणं न तु ॥६६७!

मातृवर्गे प्रदक्षिणादि

मातृवर्गो यत्र पूर्व तत्र स्यात्तु प्रदक्षिणम् । सव्यं पुण्ड्रललाटं च मङ्गलस्नानमेव च ॥६६८॥ गृद्दालंकरणं चापि मङ्गलानि तथा पुनः । पितॄणां च क्रमो मुख्यो भवत्यपि च सन्ततम् ॥६६६॥ प्रपितामहपूर्वं स्यात्तत्पितामहमध्यकम् ।

पिॠत एव कथितं तदुच्चारणलक्षणम् ॥६७०॥आशौचकालनिर्णयवर्णनम्

श्राद्धभेदेन विश्वेदेवाः

[[३०१६]]

तेषां च विश्वेदेवास्ते सत्यसंज्ञिकनामकाः । सर्वत्र वृद्धशब्दश्च प्रयोक्तव्यश्चतुर्ष्वपि ॥ ६७१॥ तथैव मातृवर्गेऽपि तातयीके च वर्गके । जननक्रमतश्चेदं तेषामुच्चारणं भवेत् ॥६७२। एतद्विरुद्धं तत्सर्वं तद्विरुद्धमिदं परम् । निःशेषमिति बोद्धव्यं ते सर्वे देवताः किल ॥६७३॥ वसवः पितरोऽत्र स्यू रुद्राश्चापि पितामहाः । प्रपितामहाश्च कथिता आदित्या इति तद्गणाः ॥६७४ ॥

सापिण्ड्यनिरूपणम्

एतत्त्रयात्पूर्वकस्य चतुर्थस्य सकृत्किल ।

श्राद्धस्य करणं प्रोक्तं पाथेयाख्यस्य सूरिभिः ॥६७५॥ तदेवं सप्तपूर्षाख्यं सापिण्ड्यस्य निरूपणम् ।

आशौचं च दशत्रिदिनमेकदिनम्

तावत्तु सूतकं सर्वं तज्जानां संप्रकीर्तितम् ॥६७६॥ समानोदकसंज्ञाश्च ततो भूयः सगोत्रिणः । तदूर्ध्वमिति विज्ञ ेयं तेषां तत्सूतकं ततः ॥६७७। त्रिदिनं चैकदिवसं पश्चात्स्नानं च बोधितम् । क्रमेणैव परं यावत्तावत्पर्यन्तमेव वै ॥६७८॥ स्नानमात्रं च कथितं प्रसंगादिदमीरितम् ! जीवच्छ्राद्धं तु तत्प्रोक्तं सर्वश्राद्धविलक्षणम् ॥६७६॥

[[३०२०]]

आङ्गिरसस्मृतिः

चत्वारिंशद्द देवताकमथवा पश्चसंख्यया ।

पुनः समेतं तत्प्रोचुरतस्तद्द्द्विविधं स्मृतम् ॥ ६८०॥ श्राद्धानि कानिचिद्भूयो देवतासहितान्यपि । अदैविकानि च पुनस्तानीमानि च भण्यते ॥ ६८१॥ वृद्धिश्राद्धं गयाश्राद्धं घृतश्राद्धं तथैव च । दधिश्राद्धं तृणश्राद्धममादीन्यखिलान्यपि ॥६८२॥ सदैविकानि ख्यातानि प्रेतश्राद्धानि कृत्स्नशः । अदैविकानि प्रोक्तानि सोदकुम्भानि कृत्स्नशः ॥६८३॥ अमादिश्राद्धे कर्तव्यानि

प्रेतश्राद्धेषु सर्वत्र संकल्पो मुख्यतः स्मृतः । अभ्यनुज्ञापि परमा सा चात्राऽऽवाहनं मतम् ॥६८४॥ सपाद्यार्ध्यगन्धधूपदीपपुष्पाणि केवलाः ।

तिलाः सर्वत्र तूष्णीकाः कृत्स्नं वेदमनुं विना ॥ ६८५ तत्र पूजा प्रकर्तव्या पिण्डदानं च दक्षिणा । आवश्यक्यत्र परमा दध्याज्ये वस्त्रमेव च ॥६८६॥ पूर्वाह्न एव कुर्वीत कुतपं नावलोकयेत् । पिण्डानि वायसेभ्यो वा गृध्रेभ्यो वा निवेदयेत् ॥ ६८७॥ न चेज्जलचरेभ्यो वा नान्यत्र तु विनिक्षिपेत् ।

एकोद्दिष्टाधिकारिणः

भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥ ६८८॥ मित्राय गुरखे श्राद्धं पितुर्मातुः स्वसुस्तथा । श्वशुराय श्यालकाय चैकोद्दिष्ट

ं न पार्वणम् ॥६८६॥

महालयविधवर्णनम्

अपिण्डकानि सपिण्डकानि च श्राद्धानि

[[३०२१]]

युगक्रान्तिमनुश्राद्धं प्रेतश्राद्धादिकं तथा । अपिण्डकानि ख्यातानि सपिण्डानीतराणि च ॥ ६६०॥ मद्दालय पोडशत्वे गजच्छायाऽत्र नो भवेत् । पण्णवत्यत्वसंख्यायै सा हि पञ्चदशत्वतः ॥६६१॥ यया कया संख्यया वा तया षड्विधया भवेत् । महालयत्वस्य सिद्धिर्विशेषे तु फलं तथा ॥ ६६२॥ सर्वत्रैवं समाख्याता प्रयासाधिक्यतः फलम् । प्रभवत्येव सुमहन्नात्र कार्या विचारणा ॥६६३॥

महालयः

महालयः पाक्षिकोऽयं द्विविधः परिकीर्तितः । एकविप्रानेकविप्रभेदेन किल तत्र वै ॥६६४॥ एकविप्राख्यपक्षस्य स्वरूपं वच्मि पूर्वतः । महालयानां सर्वेषामापक्षान्तस्य केवलम् ॥६६५॥ ये वृताः प्रथमदिवसे वान्येषां च केवलम् । त एव नान्ये कर्तव्याः पक्षान्ते श्राद्धदक्षिणा ॥६६६॥ एकदैव हि देया स्यान्न देया स्यात्तदा तदा । अनेकविप्रपक्षे तु प्रतिनित्यं च बाडबाः ॥६६७॥ भिन्नभिन्नाः प्रकर्तव्याः प्रतिनित्यं पृथक् पृथक् । दक्षिणा च प्रदातव्या प्रतिपूषं पृथक् पृथक् ॥६६८॥ प्रतिवर्गं न चेद्विप्रा वरणीया विधानतः ।

षड्दैवत्यं तु सर्वत्र

नवदैवत्यमेव वा ॥६६६॥

[[३०२२]]

आङ्गिरसस्मृतिः

ख्यातो महालयः सद्भिः पविधोऽपि महालयः ।

एवमेव प्रकर्तव्यो नान्यथा तं समाचरेत् ॥७००॥

सकृन्महालयः

चरेद्यदि विशेषेण नानादैवतकेन वै ।

सकृन्महालयः सोऽयं स भवेत्किं तु स स्मृतः ॥ ७०१ ॥ गयाश्राद्धसमः कोऽपि कथितः परमो महान् । अनिर्वाच्योऽखिलैः शास्त्रैर्महाश्राद्धविशेषकः ॥ ७०२॥ तादृशश्राद्धकर्तापि पड्दैवत्येन संयुतम् । नवदैवतकेनापि विष्णुना वा समन्वितम् ॥७०३॥ धुरिलोचनसंयुक्तं कुर्याच्छ्राद्धं महालयम् । सकृत्पक्षेण वा पूर्वप्रोक्तपक्षेषु येन वा पक्षेण केनचित्कुर्यात् स महालयकृद्भवेत् । न चेदयं गयाश्राद्धतुलितं यं च कंचन ॥७०५॥ पुण्यं श्राद्धविशेषं वै कुर्यादेवेति सा श्रुतिः ।

महालयस्य भरण्यादीनां श्लाघ्यत्वम्

॥७०४ ॥

दिने दिने गयातुल्यं भरण्यां गयपञ्चकम् ॥७०६ ॥ दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः ।

द्वादश्यां शतमित्याहुरमायां तु सहस्रकम् ॥७०७॥

महालयकालः

आषाढीमवधिं कृत्वा यस्याः पक्षस्तु पञ्चमः ।

महालय इति प्रोक्तः पितॄणां श्राद्धसंपदे ॥ ७०८॥

सुमङ्गलीनां कृते श्राद्धव्यवस्थावर्णनम्

यतीनां महालयः

तत्र पक्षे यतीनां तु द्वादश्यां श्राद्धमाचरेत् ।

दुमृतानाम्

चतुर्दश्यां विशेषेण दुर्मृतानां चरेत्क्रियाम् ॥७८६॥

सुमङ्गल्याः

[[३०२३]]

सुमङ्गलीनां कथितं नवम्यां श्राद्धमेककम् । अश्रोत्रियकलत्राणां यावत्तद्भर्तृ वर्तनम् ॥७१०৷৷ प्राणिलोके ततस्तत्तु कुर्याद्वा न तु वा द्वयम् । एतदस्ति ह्यनुष्ठानं सकृन्महालये तु चेत् ॥७११॥ यावत्पैतृकधर्माः स्युस्तुलितस्तेन स स्मृतः । अतीतो यदि पक्षः स तद्भिन्नेऽपरपक्षके ॥७१२॥ तदन्यस्मिन् तादृशे वै तदन्यस्मित् तथाविधे । यावत्तु वृश्चिकस्तिष्ठ ेत् तावत्तत्तु समाचरेत् ॥७१३॥ अदर्शने वृश्चिकस्य जाते तत्पितरः परम् । धनुर्मासे तु संप्राप्ते श्राद्धाकरणमीक्ष्य वै ॥७१४॥ सद्यः शापप्रदानायोद्युक्ता एव भवन्ति वै । तावदेव ततो भक्त्या श्राद्धं महालयाख्यकम् ॥७१५॥ विधिनैव प्रकुर्वीत न चेद्दोषो महान् भवेत् । येन केन प्रकारेण ततश्च श्राद्धमेककम् ॥७१६॥ कुर्यादेव पितुः श्राद्धतुल्यं प्रत्यब्दमेव वै ।

महालये परेऽहनि तर्पणम्

ते ॥७१७७

प्रत्यब्दधर्मा निखिलाः सकृन्महालयस्य ते .

[[३०२४]]

आङ्गिरसस्मृतिः

भवेयुरेव तस्मात्तु परेऽहन्येव तर्पणम् ।

श्राद्धे यावन्त उद्दिष्टास्तत्परेऽहनि तान् यजेत् ॥७१८॥

व्युदयात्पूर्वं तर्पणम्

तच्छेष तिलदर्भैस्तु पूर्वं सूर्योदयस्य वै । प्रनष्टपितृकश्चेत्तु तर्पणस्याधिकाययम् ॥७१६॥ स प्रनष्टप्रसूर्नित्यं तर्पणेऽधिकृतो भवेत् ।

जीवत्पितृकश्राद्धम्

मासिश्राद्धे पितृयज्ञे नान्दीश्राद्धे च सन्ततम् ॥७२०॥ जीवत्तातोsपि कर्ता स्यादाहोमात्करणं स्मृतम् । पूर्वद्वये तु सततं नान्दीश्राद्धं तु सर्वदा ॥७२१॥ येषामेव पिता दद्यात्तेभ्यो दद्यात्तु तत्सुतः । ताते भ्रष्ट

े च संन्यस्ते रुग्णे रोगैकपीडिते ॥७२२॥ यत्कर्तव्यं तेन कर्म पैतृकं तत्सुतश्चरेत् ।

श्राद्धे वैदिकाग्न्यधिकारिणः

पित्रोः श्राद्धं स्वपत्न्याश्च सपत्नीमातुरेव च ॥७२३॥ मातामहस्य तत्पत्न्याः श्राद्धमौपासने भवेत् । तद्भिन्नानां तु सर्वेषां श्राद्धं स्याल्लौकिकानले ॥७२४॥ अपुत्राणां पितृव्यानां भ्रातॄणामग्रजन्मनाम् । तत्पत्नीनां च सर्वासां लौकिकाग्नौ यथाविधि ॥७२५॥ अवश्यत्वेन कर्तव्यं न त्याज्यं धर्मतोऽखिलैः । प्रत्यब्दं श्राधमात्रं स्यात् पितृश्राद्धसमानतः ॥ ७२६॥

निमन्त्रर्णाहविप्राणाम्वर्णनम्

अष्टकामासिश्राद्धम्

[[३०२५]]

॥७२७॥

माघकृष्णाष्टमी यस्यां रात्रौ कुर्यात्समन्त्रकम् । होमं दध्यञ्जलिस्तस्यापूपस्य स्थानके ततः नवम्यां तु ततो भक्त्या श्राद्धं कुर्याद्विधानतः । मासिश्राद्धविधानेन तावन्मात्रेण केवलम् ॥७२८॥ तानि शिष्टानि सर्वाणि हा कादश किलाष्टकाः । कृता एव भवेन्नूनं लघूपायोऽयमुच्यते ॥ ७२६॥ अष्टकासु यथा दर्शश्राद्धतोऽखिलपैतृकाः । कृतप्राया इति तथा लघुपायः प्रकीर्तितः सर्वाणि पृथगेव स्युः कार्याणि नियमेन वै । अष्टोत्तराणि ख्यातानि कदाचित्तु विशेषतः ॥७३१॥ असमर्थस्य तु प्रोक्तो लघूपायस्तु कश्चन । समर्थस्तु यथाकल्पं प्रतिसंवत्सरं द्विजः ॥७३२॥ सर्वाणि कुर्याच्छ्रद्धानि न चेद्दोषश्च कीर्तितः ।

श्राद्धप्रयोगः

॥७३०॥

श्राद्धप्रयोगश्च मया कृत्स्न एवोच्यतेऽधुना ॥७३३॥

निमन्त्रणम्

निमन्त्रणं च पूर्वेद्यः प्रकर्तव्यं विधानतः ।

निमन्त्रणार्हाः

विप्राणां वेदिनां नित्यं कार्यं नाऽवेदिनां तराम् ॥७३४॥ कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते ।

कुलं तारयते तेषां दश पूर्वान् दशाऽपरान् ॥७३५॥ १६०

[[३०२६]]

आङ्गिरसस्मृतिः

वेदाध्यायी तु यो विप्रः सततं ब्रह्मणि स्थितः । साचारः साग्निहोत्री च सोऽग्निर्वै कव्यवाहनः ॥ ७३६॥ वेदहीन निमन्त्रणे

मन्त्रपूतं तु यच्छ्राद्धममन्त्राय प्रयच्छति । तदन्नं तस्य कुक्षिस्थं रुदत्येव न संशयः ॥७३७॥ शपत्येनं प्रदातारं स्वस्य तं तादृशं किल । यजनं च प्रदातारं तदन्नं तद्वृदि स्थितम् ॥७३८॥ यावतः पिण्डान् खलु स प्राश्नाति हविषोऽल्पकः । तावतः शूलान् ग्रसति प्राप्य वैवस्वतं यमम् ॥७३६॥ दातृहस्तं च छिन्दन्ति जिह्वाग्रमितरस्य च । पश्यतश्चक्षुषी चैव शृण्वतः श्रोत्रयुग्मकम् ॥ ७४०॥ दुर्लभायां स्वशाखायां भोक्तृनन्यान्निवेदयेत् ।

स्वशाखीयः श्लाघ्यः

पित्रोः श्राद्ध विशेषेण स्वशाखीयान्निवेदयेत् ॥ ७४१॥ कन्यादानं पितृश्राद्धं शुद्धकच्छेभ्य एव च। प्रदेयं स्यात्प्रयत्नेन नासत्कच्छेभ्य एव वै ॥७४२॥

अभोज्याः

रोगयुक्तं दुष्टबुद्धिं दुष्टचारित्रतत्परम् । सदोषकं च सद्वषं कुनखं श्यावदन्तकम् ॥७४३ ॥ नित्याऽप्रयतवर्माणं दुर्वणं च कुरूपिणम् ।

नक्षत्रजीवनं दासकृत्यं शूद्र कजीविनम् ॥७४४॥

शूद्र कयाजकं

अभोज्यानाम्वर्णनम्

शूद्रपुष्ट शूद्रनिकेतनम् ।

[[३०२७]]

शूद्रप्रतिग्रहपरं नित्ययाचकमेव च ॥७४५॥ तथा पल्लविकं क्रूरमात्मसंभाविनं शपम् । अतिमानिनमग्राह्यं निष्क्रियं वेदनिन्दकम् ॥७४६॥ वेदविक्रयिणं नित्यं ग्रामयाजकमेव च । ब्रह्मविद्वेषिणं चैव ब्रह्मस्वहरणोन्मुखम् ॥७४७] परदारपरं दुष्टः परदारैकचिन्तकम् । त्यक्तभायं दत्तपुत्रं पुत्रविक्रयिणं तथा ॥७४८॥ मातापित्रोरूपोष्टारं गुरुद्रोहिणमेव च । धनसंग्रहणोद्य क्तमानसं धनिनं कटुम् ॥७४६॥ निर्दयं दानविमुखं नास्तिकं परदूपकम् । मणिकारस्वर्णकार रजकादिपुरोहितम् ॥७५०॥ अधिकाशमतृप्त च दुर्वादं दाम्भिकं जडम् । वेदकर्मत्यागपूर्वशास्त्रमात्रकृतश्रमम् ॥७५१॥ नास्तिकं किंभविष्यन्तमृणिनं त्यक्तवेदकम् । त्यक्तस्नानं त्यक्तसंध्यं निवृत्तक्षुरकर्मकम् ॥७५२॥ कृतार्धक्षुरकर्माणं तुच्छं विकसितमेहनम् । फल्गुं कुब्जं तथा चान्धं बधिरं भ्रान्तमुल्बणम् ॥७५३॥ उन्मत्तं दुर्बलं सन्नं कोपिनं कुनखं रतम् । कुण्डकं गोलकं व्रात्यमशुचि परसूतकम् ॥७५४॥ परान्निनं पराधीनं कर्षकं वार्धुषिं वृषम् । नृपवृत्ति वैश्यवृत्तिं शूद्रवृत्तिं दुराशयम् ॥७५५॥

[[३०२८]]

आङ्गिरसस्मृतिः

अत्यन्तचपलं श्रान्तमवीरापतिमेव च । तथैव गर्भिणीनाथमभोज्यान्नं दुरागसम् ॥७५६॥ अश्रोत्रियसुतं कारुधृतवस्त्रं च दुःशठम् । गायकं व्रणिनं क्षुद्रभाषिणं तुच्छभापकम् ॥७५७॥ हास्यकारं नटं नाट्यविद्य बुरुडकृत्यकम् । क्षुद्रजीवं कार्यजीवं नित्यवेतनजीविनम् ॥७५८॥ न भोजयेत्प्रयत्नेन निमन्त्रण दिनात्परम् । दिनत्रयं वर्जयित्या (त्वा) वृणुयादतिचर्यया ॥७५६॥ अनुमासिकभोक्तारं पक्षमात्रं परित्यजेत् । ऊनमासिकभोक्तारं मासमात्रं परित्यजेत् ॥७६०॥ नग्नश्राद्ध वर्षमात्रं नवश्राद्ध े तदर्धकम् । षोडशे सार्धवर्षं तु सपिण्डे च द्विवत्सरम् ॥७६१॥ वर्जयित्वा द्विजं पश्चाद्ग्राहयेच्छ्राद्धकर्मणि । शूद्रामश्राद्धगं सम्यक् त्यजेद्वर्षत्रयं तथा ॥७६२॥ नृपवैश्यश्राद्धभिरसाभक्षकं सन्ततं तराम् । वर्जयेदब्दमात्रं तु ग्रामचण्डालकर्मसु ॥७६३॥ आमश्राद्धगृहीतारं तद्दिने नावलोकयेत् । दिवारात्रमसंभाष्यो दिवाकीर्त्यपुरोहितः ॥७६४॥ पुण्यकाले त्वसंभाष्यः कुलालानां पुरोहितः । भानुवारे भौमवारे शुक्रवारे च सन्ततम् ॥७६५॥ असंभाष्यः प्रयत्नेन परसौनपुरोहितः । पर्वणोर्योगकालेषु द्विजवेश्यापुरोहितः ॥७६६॥प्रसादायदर्भदानम्

नावेक्ष्या एव चैते वै यदि दृष्टास्तदा तदा । अग्नेर्मन्वेऽनुवाकस्य पठनात्कृतकृत्यता ॥७६७। तीर्थप्रतिग्रही दृष्टो यदि श्राद्धदिने तराम् । तीर्थजीवी तदावासी तत्पुरोहित एव च यदा दृष्टस्तदा सूर्य पश्येमेति विलोकयेत् ।

वरणम्

॥७६८॥

[[३०२६]]

त्रिपूर्षचर्यावृत्तान्तः स्पष्टो यस्य भवेत्तराम् ॥७६६॥ तादृशं प्रयतं दान्तमलोलुपमदाम्भिकम् । यदृच्छालाभसन्तुष्ट श्रोत्रियं वेदिनं शुचिम् ॥७७०ll नित्याग्निं पूर्ववयसं सुधियं सत्कुलोद्भवम् । तस्मात्प्रत्युपकारैकरहितं सुमुखं द्विजम् ॥७७१॥ समीक्ष्य वरयेत्सम्यग्ब्राह्मणं श्राद्धकर्मणि ।

आदौ संकल्प्य प्रयतः सपवित्रकरस्तथा ॥७७२॥ दर्भपाणिः कृतप्राणायामोऽत्वरतरस्तराम् । अक्रोधनश्च सुमुखो वाचा संकल्पमाचरेत् ॥७७३॥ देशं कालं च संकीर्त्य तथा च प्रकृते ततः । पितॄन् देवान् प्राकृतान्वै समुद्दिश्य च प्राकृतम् ॥७७४॥ करिष्ये कर्म चैवेति संकल्पं प्रथमं चरेत् ।

प्रसादाय दर्भदानम्

विश्वेषामंत्र

देवानां स्थानमाहवनीयके

॥७७५॥

क्षणं कृत्वा प्रसादोऽद्य करणीय उदीर्यते ।

इत्येवं दक्षिणे हस्ते दद्याद्दर्भान् द्विजस्य वै ॥ ७७६॥

[[३०३०]]

आङ्गिरसस्मृतिः

एतद्धि वरणं प्रोक्तं पितॄणामेवमेव वै ।

मण्डलपूजा

कृत्वा तु वरणं पश्चादों तथेति च चोदिते ॥७७७॥ कृत्वा तु मण्डलं शुद्ध गोमयेन विधानतः । मण्डलं पूजयित्वादौ देवं पैतृकमेव च ॥७७८॥ मण्डलात्पश्चिमे भागे ब्राह्मणे स्वागतीकृते । तत्रैव विसृजेत्पाद्यं क्षालयेन्मण्डलोपरि ॥७७६॥

गुल्फयोरधः क्षालनम्

॥७८०॥

पादप्रक्षालनं श्राद्ध े वरं स्याद्गुल्फयोरधः । पितॄणां नरकं घोरं रोमसंसक्तवारिणा यद्रि स्याद्रोमसंसक्तं पादप्रक्षालने भवेत् । तद्दोषपरिहाराय आजानु क्षालयेत्परम् ॥ ७८१॥

आचमनप्रकरणम्

आदावन्त्ये च पाद्य च विरे विकिरे तथा । उच्छिष्टपिण्डदाने च षट्सु चाचमनं स्मृतम् ॥७८२॥ कर्तुः पूर्वं भोक्तु राचमने

कर्ताऽनाचम्य यद्भोक्ता कुर्यादाचमनक्रियाम् । शुनो मूत्रसमं तोयं तस्मात्तत्परिवर्जयेत् ॥७८३॥

देवादिभोजनदिक्

उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदद्यात्पार्वणे सर्व देवपूजाविधानतः ॥ ७८४।

विष्टरवर्णनम्

वरणत्रयकालः

[[३०३१]]

केचिद्रात्रौ तु पूर्वेद्य स्तद्दिने प्रातरेव च । कुतपे तद्दिने भूयखिवारं श्राद्धमूचिरे ॥७८५॥ सकृदेवेति तज्जामितया श्राद्धं प्रकुर्वते । तत्स्थाने वरणं कृत्वा श्राद्धं सर्वं प्रकुर्वते ॥७८६॥ ओं भूर्भुवः सुवरिति स्वाहान्तमन्त्रो वै ततः ।

विष्टरः

॥७८७॥

अयं वो विष्टरश्चेति प्रदद्याद्विष्टरं तथा स्वधाशब्दं पितृस्थाने सर्वत्रैवं विधीयते । अनेनैव तु मन्त्रेण तत्पूजा विहिता परा ॥७८८॥ अयं हि परमो मन्त्रः पितॄणामर्चने महान् । प्रयोक्तव्यः श्राद्धदिने मन्त्राः प्राकृतमातृकाः ॥७८६॥ विश्वान् देवान् पितृन्वापि संबुध्योञ्चार्य तत्परम् । पूर्वोक्तनैव मन्त्रेण विष्टरं प्रतिपादयेत् ॥७६० षष्ठयन्तेनासनं दद्यात्क्षणश्च क्रियतामिति । क्षणं दद्यात्तु दर्भेण हस्तसंस्पर्शनेन वा

,

॥७६१॥

प्राप्नुवन्तु भवन्तश्च तारपूर्वेण वै वदेत् । अध्यं कृत्वा कृतः प्रोक्तः कर्तव्य इति चेत्ततः ॥७६२॥ दर्भानास्तीर्य भूपृष्ठ तत्र पात्रमधोबिलम् । निक्षिप्य तदुपर्येवं दर्भेराच्छिद्य वै ततः ॥७६३॥ उद्धृत्य प्रोक्ष्य तत्पात्रे यवान्निक्षिप्य शम्बरम् । भूर्भुवःसुवरापूर्वगन्धाक्षतसुमादिकम् ॥७६४॥

[[३०३२]]

आङ्गिरसस्मृतिः

तत्र निक्षिप्य तच्चाम्भस्तद्धस्तेऽध्यं प्रदापयेत् । आवाहनं च तत्पूर्वं परं वा तत्कृताकृतम् ॥७६५॥ यदि कर्तव्यधीः स्याच्चेत्तदा व्याहृतिभिश्चरेत् ।

या दिव्या इति वा नो चेद्देवा वोऽर्व्यमिति ब्रुवन् ॥७६६॥ दद्यात्तमर्घ्यं देवेभ्यः पितृभ्यश्च क्रमेण वै । आवाहने विश्वेदेवा उशन्तस्त्विति युग्मकम् ॥७६७॥ उभयत्र प्रकथितं केचनात्रापरामृचम् । विश्वेदेवास इत्येकां विश्वेदेवेति वै पराम् ॥७६८॥ आगच्छन्त्विति तां चापि देवार्थे प्रजपन्ति वै । पितृस्थान उशन्तस्त्वा आयन्तु न इतीव वै ॥७६६॥ प्रजपेयुः केचनात्र तदेतत् कथितं परम् । कृताकृतं प्रकथितमनुक्ताबाधकं न तु ॥ ८००ll वेदमात्रानुक्तितस्तु गन्धाक्षतयवादिकम् ।

धूपदीपदुकूलादि कृत्स्नं यज्ञोपवीतकम् ॥८०२१॥ सवं व्याहृतिभिर्दद्यात्तूष्णीं वा तद्यथारुचि ।

अग्नौकरणम्

ततोऽग्नौ करणं कुर्याद्यदि पूर्व स्वसूत्रतः ॥८०२॥ अनुक्तमन्त्रैः काश्चित्तु कृताः स्युस्ताः क्रियास्ततः । तत्पूर्वकृतसंकल्पकर्ममध्याधिकत्वतः ॥८०३ ॥

पुनःसंकल्पप्रकरणम्

तत्किचिद्विगुणीभूयात् तद्वैगुण्यत एव वै ।

पुनः संकल्पयित्वैव तत्पूर्वकक्रियां चरेत् ॥८०४॥

परिवेषणेपौर्वापर्यवर्णनम्

सर्वत्रैवं विजानीयात् तत्तत्संकल्पकर्मसु ।

[[३०३३]]

न चेदेकस्य संकल्प एकधैव भवेद्धि वै ॥८०५॥ आसमाप्तेर्विधानेन प्रकृते पैतृके किल । अनुक्तमन्त्रपठनात् पुनः संकल्पमाचरेत् ॥८०६ ॥ ययुक्तमण्त्रमात्रेण यत्कर्म चलति स्थले । तत्कर्ममध्ये न पुनः संकल्पः प्रभवेद्धि वै ॥८०७॥ तस्मात्संकल्पयित्वाऽथ चाग्नौकरणमारभेत् ।

परिवेषणप्रकारपौर्वापर्यम्

॥८०८॥

संपरिस्तीर्य विधिना दर्भैस्तैर्दक्षिणाग्रकैः अन्नमादाय पक्कात्तु चोपस्तीर्य ततः पुनः । मेक्षणेनान्नमादाय मन्त्रमेतं श्रुतीरितम् ॥८०६॥ प्रतिकल्पैकपठितं सोमायेति हुनेद्धविः ।

तच्छेषेण यमायेति अग्नयेति च तत्परम् ॥ ८१०॥ उद्देशत्यागमात्रं च प्राचीनावीतिनैव वै । समुच्चार्य पुनश्चैव परिषिच्याप्रदक्षिणम् ॥ ८११॥ अमन्त्रकं विधानेन तदन्नं शिष्टमुद्धृतम् । अर्धं क्षिपेद्विप्रपात्रे दत्वा हस्तोदकं ततः ॥१२॥ दैवपात्रेऽभिघार्याथ पूर्ववच्च विधानतः ।

अन्नं च पायसं भक्ष्यं व्यञ्जनानि फलानि च ॥ ८१३॥ पयो मधु घृतं चान्ते सूपं तु परिवेषयेत् ।

अग्रे सूपदाने

यदि सूपादथ पुनर्वस्तु स्यात्परिवेषितम् ॥८१४॥

[[३०३४]]

आङ्गिरसस्मृतिः

तद्राक्षसं भवेच्छ्राद्ध तथा तस्मान्न चाचरेत् ।

रक्षोन्नमन्त्रम्

अन्नमाज्येनाभिघाय गायत्र्या प्रोक्ष्य तत्परम् ॥८१५॥ दधिनान्नं (दर्भेणान्नं) च प्रच्छाद्य चाहमस्मीति सूक्तकम् । प्रपठेदत्र विधिना राक्षोघ्नश्रुतिमध्यगम् ॥ ८१६॥

येन केनाप्युच्चारणमसमर्थस्य

स्वयं यद्यसमर्थश्चेन्मन्त्रोच्चारणकर्मणि ।

येन केन च विप्रेण वाचनीयं प्रयत्नतः

॥८१७॥

नैते मन्त्रा याजमाना अत्रोक्ताः किल कर्मणि । राक्षसानां विनाशाय वेदघोषः प्रशस्यते ॥ ८१८ ॥

स घोषो ब्राह्मणैः कर्तुं शक्यते प्रकृते किल ।

उष्णं दातव्यम्

अन्नं वस्तूनि यानीह पात्रेण सह केवलम् ॥८१॥ चुल्लिस्थानि भवेयुर्हि तेभ्यः पात्रेभ्य एव वै । दर्विभ्यश्च समुद्धृत्य स्वल्पं स्वल्पं यथोप्मकम् ॥८२०॥ यदा भवेत्तदा तत्र विप्रेभ्यः परिवेषयेत् । ऊष्मभागा हि पितरश्चोष्मशून्यं न पैतृकम् ॥८२१॥ भवेदेव न सन्देहः पश्चादन्नं यथा पुरा । विप्रहस्ते जलं दत्वा गायत्र्या प्रोक्ष्य वै ततः ॥८२२॥ यदैवाहवनीयं वै दक्षिणाग्निं विधानतः ।

नित्यं वै गार्हपत्यं च परिषिञ्चति मन्त्रतः ॥८२३॥

मन्त्रवैकल्यनाशाय वेदघोषवर्णनम्

[[३०३५]]

सत्यं त्वर्तेन विधिना ब्राह्मणं परिषिच्य वै । पृथिवी तेति तत्सर्वमभिमृश्य ततः पुनः ॥ ८२४॥ समुपस्पर्शयित्वाथ पित्रादिभ्यो निवेदयेत् । प्रधानमेतद्धोमश्च समुपस्पर्शनं पुनः

मन्त्राः वाच्याः

॥८२५॥

एतन्मन्त्रत्रयं वाचा यजमानः समुच्चरेत् । एतन्मन्त्रत्रयं श्राद्ध प्रधानकमिहोच्यते ॥८२६॥ तथा पिण्डप्रदानस्य मन्त्राः केचन चोदिताः । एतदुच्चारणाशक्तौ व्यर्थं श्राद्धं भवेत्किल ॥८२७॥ तस्माद्यत्नेन महता होमाग्नेय इति त्रयम् । द्वयं वाथ पुनश्चैकं पृथिवी तेति किंचन ॥८२८॥ अन्नाभिमर्शने प्रोक्तममृतोपस्तराणकम् ।

पञ्च प्राणाहुतौ मन्त्राः प्राणायेत्यादिकाः पराः ॥८२६॥ यथावदेव वाचा ते प्रवाच्या श्राद्धकर्मणि । न चेच्छ्राद्धं भवेन्नैतदेतैर्मन्त्रैर्भवेद्धि तन् ॥ ८३०॥ पश्चात्पिण्डप्रदानेऽपि मन्त्रा वाच्याच भक्तितः ।

मन्त्रवैकल्यनाशाय वेदघोषः

भोजने समुपक्रान्ते वेद्घोषं प्रयत्नतः ॥ ८३१॥ कारयेद्विप्रमुखतः ऋग्यजुः सामभिस्तराम् ।

तेन वैकल्यदोपा ये रक्षोभिः परिकल्पिताः ॥८३२॥ सद्यो नष्टा भवेयुर्हि तस्मादेव तथाचरेत् । यथान्यघोषो विप्राणां शृणुयान्नात्र केवलम् ॥८३३॥

[[३०३६]]

आङ्गिरसस्मृतिः

तथा घोषः प्रकर्तव्यः स्वयं परमुखात्तथा । यत्नात्कारयितव्यश्च न चेद्दोषो महान् भवेत् ॥८३४॥ वेदोच्चारणसामर्थ्यविकलो यदि तत्करः । नमो वः पितरो मन्त्रमात्रं भक्त्या जपेत्तु वै ॥ ८३५॥ इदं विष्णुर्व्याहृतीर्वा गायत्रीं वा विधानतः । विष्णोरराटमन्त्रं वा गायत्रीं वैष्णवीमपि ॥८३६॥ न चेत्तु पौरुषं सूक्तमथवा तं त्रियम्बकम् । आ वो राजानमन्त्रं वा मधुत्रयमथापि वा ॥८३७॥ नमो ब्रह्मण्यमन्त्रं वा दश शान्तिषु कामपि । स्वाधीनां तामृचं नो चेद्गायत्रीं सर्वशून्यदाम् ॥८३८॥ प्रतद्विष्णुमन्त्रमिरावती धेनुमतीति च ।

यजमानः स्वयं प्रीत्यै पितृभ्यो प्रवदेत्तराम् ॥८३६॥ भोजनान्ते च संपन्नं प्रददेत्पुरतः स्थितः । तृप्ताः स्थेति द्विवारं तदुक्त्वा दद्यात्तदन्नकम् ॥८४०॥ तत्रैव विकिरेत्पात्रसमीपे तत्पुरः स्थितः । उच्छिष्टपिण्डं च दद्यादुत्तरापोशनं ततः ॥८४१॥ सर्वाण्येतानि शिष्टानामाचारेण न चोक्तितः । सूत्रकारस्य वेदस्य कृतेऽभ्युदयमुच्यते ॥८४२॥ अकृते प्रत्यवायो न पुनरन्यानि केवलम् । तत्तत्क्रियाविशेषेषु तूष्णीकं वेदमन्त्रकैः ॥८४३॥ अत्रानुक्तर्महाकालविलम्बो बाधकाय वै ।

भवेदेव न सन्देहः श्राद्धमन्त्रो य ईरितः ॥८४४॥

शास्त्रविरोधित्यागवर्णनम्

तन्मात्रस्य समीचीनप्रोक्त्यै तत्कम साधु वै । भवेत्किलान्यथा तद्धि किं भवेदिति साधुभिः ॥८४५॥

श्राद्धमन्त्रोक्तिमात्रतः ।

सम्यगालोचनीयोऽतो

यावान् कालविलम्बः स्यात्तावानेवात्र केवलम् ॥८४६ ॥ प्रामाणिको हि तद्भिन्नोऽविहितश्च विधानतः । कर्मणो बाधकायैव साधकाय भवेन्न तु ॥८४७॥ तस्माद्विद्वान् सूत्रवेदविहितं यावदेव वै । तावदेव प्रकुर्वीत सवसौख्याय केवलम् ॥८४८॥ आत्मनो ब्राह्मणानां च भोक्तृणां शास्त्रवर्त्मनः ।

शास्त्रविरोधि त्याज्यमेव

यथावदेव कुर्वीताधिकं शास्त्रविरोधि यत् ॥८४६ ॥ सर्वं सम्यक्परित्याज्यं विहितं यत्तदाचरेत् । विप्राणां भोजनात्पश्चात्तच्छास्त्राधिककृत्यतः ॥८५०॥ समागतात्पुनः प्रोक्तः संकल्पो नान्यथाचरेत् । अपां मध्येन चाच्छिन्द्य दर्भान् मूलैः सकृद्धतैः ॥८५१ ॥ शुन्धन्तां पितरः प्रोक्ष्य आयन्त्वित्यभिमन्त्र्य च । सकृदाच्छिन्नमन्त्रेण संस्तीर्यैव ततः पुनः ॥८५२॥ मार्जयन्तेति मन्त्रेण ततो दद्यात्तिलोदकम् । सकृदाच्छिन्नदर्भेषु त्रिषु स्थानेषु तत्परम् ॥८५३॥ एतत्तेति च मन्त्रेण दद्यात्पिण्डत्रयं पुनः । यन्मे मातेति मन्त्रं तत् पितृभ्य इति वै पुनः ॥८५४॥

[[३०३७]]

[[३०३८]]

आङ्गिरसस्मृतिः

अत्र पितरोऽमुत्र च अमी मदमतः परम् । ये समानास्ततो भूयो येन जातास्ततः परम् ॥८५५॥ वीरं धत्तेति तत्प्राश्याघ्राय वा तत्परं पुनः । मार्जयन्तेति मन्त्रेण पूर्ववच तिलोदकम् ॥८५६॥ दत्वाञ्जनाभ्यञ्जने च वासश्छित्वा विधानतः । नमो व इति मन्त्रेण नमस्कारान् समाचरेत् ॥८५७॥ गृहान्न इति मन्त्रं च ऊर्जं वहन्तीमनुं ततः । उत्तिष्ठत पितरो मनो न्वाहुवेति मन्त्रकम् ॥५८॥ पुनर्न इति भूयश्च यदन्तरिक्षमिति वै

[[1]]

मन्त्रान् जप्त्वा क्रमेणैवं पिण्डांस्तान्पूजयेत्ततः ॥८५६॥ पितृपिण्डार्चनं यैस्तु क्रियते दर्भपत्रकैः । तण्डुलैरक्षतैः पुष्पैस्तिलैरपि यवैस्तथा ॥८६०॥ प्रीणिताः पितरस्तेन यावच्चन्द्रार्कमेदिनी ।

पुत्रकलत्रादिभिः पितृप्रदक्षिणनमस्कारः

वासोभिः पूजयेत्पिण्डान् यथाशक्त्या विचक्षणः ॥८६१॥ दक्षिणाभिश्च ताम्बूलैर्धूपदीपादिभिस्तथा । प्रदक्षिणनमस्कारैः पुत्रपौत्रादिभिः सह ॥८६२॥

कलत्रैः परिवारैश्च न चेत्तस्य कुलं तराम् । न वर्धते क्षीयते च काले काले शनैः शनैः ॥८६३॥ त एव पिण्डाः पितरस्तद्र पेण स्थिताः परम् । भवेयुः पूजनार्थाय नात्र कार्या विचारणा ॥ ॥८६४॥श्राद्धदिनशूद्रभोजनवर्णनम्

[[३०३६]]

अप्रत्यक्षा हि पितरो वायुरूपं समाश्रिताः । आकाशरूपमापन्नाः कालभेदेषु सन्ततम् ॥८६५॥ नित्यमाकाशरूपास्ते श्राद्धकालेषु भक्तितः । समाहूतास्तदा सद्यो वायुरूपं समाश्रिताः ॥८६६॥ समायान्ति मनोवेगात्पिण्डकाले तु ते

पुनः । तत्प्रविश्यैव पुत्राणां हिताय क्षणमञ्जसा ॥८६॥ तिष्ठन्ति किल तत्पूजास्वीकाराय ततो यतन् । तत्पूजां विधिना कुर्यात्ततश्चेत्पुत्रकामुकः ॥८६८॥

मध्यमपिण्डं परिमृज्य

प्रयच्छेन्मध्यमं पिण्डं धर्मपत्न्यै समन्त्रकम् । आधत्त पितरश्चेति ततः सा नियता शुचिः ॥८६६॥ प्रगृह्याञ्जलिना भक्त्या प्राङ्मुखी मौनमाश्रिता । तं प्राश्य विधिनाचम्य तत्पश्चात्तु त्रिरात्रकम् ॥८७०। कुर्वन्ती। भोजनं भतुर्भुक्त ेः पश्चात्सकृच्छुचिः । मुदिता हर्षितातीव दुःखिता मलिना तथा ॥ ८७१॥ भावयन्ती महारुद्र तं कालं निनयेदपि । तावन्मात्रेण च ततः सा पुत्रं पुष्करस्रजम् ॥ ८७२ ॥ लभते नात्र सन्देहो यदि सा स्याद्रजस्वला ।

श्राद्धदिने शूद्रभोजने

न शूद्रं भोजयेच्छ्राद्धं गृहे यत्नेन तद्दिने ॥ ८७३ ॥

[[३०४०]]

आङ्गिरसस्मृतिः

श्राद्धशेषं न शूद्रभ्यो न दद्यात्तु खलेष्वपि ।

पितृभोजनपात्रस्य खननम्

पितुरुच्छिष्टपात्राणि श्राद्ध गोप्यानि कारयेत् ॥८७४ ॥ खनित्वैव विनिक्षिप्य यथा श्राद्ध े न गोचरम् ।

सोदकुम्भम्

कृतेऽकृते वा सापिण्ड्य मातापित्रोः परस्य वा ॥ ८७५॥ तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः । अदैवं पार्वणश्राद्ध सोदकुम्भमधर्मकम् ॥८७६॥ कुर्यादाब्दिकपर्यन्तं संकल्पविधिनान्वहम् ।

कुर्यादहरहः श्राद्धममावास्यां विना सदा यत्सोदकलशश्राद्धं न कुर्यादनुमासिके ।

प्रथमाब्दे न तिलतर्पणम्

॥८७७॥

प्रथमाब्दे न कर्तव्यं तिलतर्पणमित्यपि ॥८७८॥

सपिण्डीकरणात्परं श्राद्धाङ्गतर्पणम्

यदेतत्तत्तु कथितं वत्सराब्दे सपिण्डने । एकादशे द्वादशे वा सपिण्डीकरणं यदि ॥ ८७ ॥ कृतं चेत्तत्पुरं सम्यक् सद्यः श्राद्धाङ्गतर्पणम् । कुर्वीतैव तथा दर्श प्रतिमासं पृथक् पृथक् ॥८८० अकृते तर्पणे भूयः पितरस्तस्य केवलम् । भवेयुः खिता घोरं पुनः प्रेतत्वशङ्कया ॥८८१॥

[[३०४१]]

श्राद्ध निमन्त्रित ब्राह्मणपूजावर्णनम् तेषां शङ्कानिरासाय मासिकेष्वङ्गतर्पणम् । श्राद्धान्ते विधिना कार्य सद्य एव न संशयः ॥ ८८२॥ प्रतिमासं तदा दर्श यच्छ्राद्ध तर्पणादिकम् । असंशयं प्रकुर्वीत न चेदोषो महान् भवेत् ॥८८३॥ श्राद्धभुक्तः परं तेषां द्विजानां करशुद्धये । तिलैर्हस्तोदकं कार्यं पड़वारं दर्भपुञ्जतः ॥८८४॥ न चेत्तत्करशुद्धिश्च न भवेदेव केवलम् । मद्गोत्रं वर्धतां देव पितॄणां च प्रसादतः ॥८८५॥ इति ब्राह्मणपादेषु सपर्या तां तदाचरेत् । विश्वेदेवप्रसादं च पितॄणां च प्रसादकम् ॥८८६॥ स्वीकृत्य शिरसा गृह्य देवाश्च पितरस्ततः । स्वस्ति व्रतेति वाचोक्त्वा हाक्षयोदकमित्यपि ॥८८७॥ अस्त्वित्यपि च तद्धस्ते शम्बरं सतिलाक्षतम् । यथाक्रमेण दद्याच्च वाचयिष्ये स्वधां तथा ॥ ८८८॥ स्वाहामपि च संप्रार्थ्य वाच्यतामिति तैस्ततः । संप्रोक्तस्तु ऋचे त्वेति धारां तां प्रवदेत्पराम् ॥८८॥ पितृभ्यश्च प्रथमतः पितामहेभ्य एव च । प्रपितामहेभ्यश्च तद्वत् स्वधास्ता वाच्यतामिति ॥८६०॥ ब्रुवन्तु च भवन्तो वै ओं स्वधामिति वै वदेत् । संपद्यन्तां स्वधाश्चेति देवाश्चापि तथा पुनः ॥८६१ ॥ प्रीयन्तां पितरः पश्चात्पितामहास्ततः किल । प्रपितामहाश्च पितरस्तद्धस्ते सलिलं क्षिपेत् ॥८६२॥

[[१६१]]

[[३०४२]]

आङ्गिरसस्मृतिः

पितॄणां रजतं देवानां स्वर्णम्

ततः श्राद्ध कसाद्गुण्यहेतवे दक्षिणां मुदा ।

[[1]]

यथाशक्त्या प्रदद्याच्च पितॄणां रजतं परम् ॥८६३॥ हिरण्यं चापि देवानां वाजेबाजेति वै वदेत् । उत्तिष्ठतेति पितरः अनुगच्छन्तु देवताः ॥८६४॥ इत्युद्वास्य तु तान् पश्चादन्नशेषोऽखिलः पुनः । क्रियतां किमिति प्रोक्त े चेष्टः स उपभुज्यताम् ॥८६५॥ इत्युक्तस्तु ततो भूयः स्वादुएँ सद् इत्यतः । उपस्थानं पितॄणां तु कुर्यात्प्राञ्जलिना द्विजः ॥८६६॥ तेषां तामाशिषं गृह्य प्रणिपत्य विधानतः । अनुव्रज्य विधानेन स्वगृहस्यान्तिमे त्यजेत् ॥८६७॥ न चेत्सर्वत्र ताः प्रोक्ताः परा व्याहृतयः शिवाः । न चेत्तु वामदेवाय मन्त्रं परममुत्तमम् ॥८६८॥ प्रवदेत्तेन मनुना यद्यद्वैगुण्यमागतम् । कर्ममध्ये पैतृकेऽस्मिन् ज्ञानाज्ञानत एव वै ॥८६६॥ कर्तृ भोक्तृमहादोपद्रव्यकालादिसंभवाः । लोभमोहाज्ञानचित्तकायकृत्यविशेषजाः ॥६००ll महापराधाः सुक्रूराः परीहारैकवर्जिताः । ते सर्वे स्मरणात्तस्य महामन्त्रस्य वैभवात् ॥१०१॥ सद्यो विलयमायान्ति कर्मसाद्गुण्यमप्यति । प्रभवेत्सद्य एवैवं तस्मात्तु मनुमुत्तमम् ॥१०२॥

उच्छिष्टादिश्राद्ध सप्तपवित्राणि

नमोद्वादशसंयुक्त पठनीयं सकृत्किल ।

तावन्मात्रेण तत्कर्म परमं तृप्तिकारकम् ॥९०३॥

अच्छिद्र सद्गुणं साङ्ग विकलैकविवर्जितम् । प्रत्यवायैकरहितं गयाश्राद्धशताधिकम् ॥६०४ ।

भवत्येव न सन्देहस्तस्मात्तन्मन्त्रमुच्चरेत् ।

उच्छिष्टादि श्राद्ध सप्त पवित्राणि

उच्छिष्टं शिवनिर्माल्यं वमनं प्रेतपर्पटम् ॥१०५॥ श्राद्ध सप्त पवित्राणि दौहित्रः कुतपस्तिलाः । पयसो वत्सपीतत्वादुच्छिष्टमिति नाम तत् ॥१०६॥ भगीरथप्रार्थनया तद्गङ्गात्यवलेपहा ।

तिरोधानं जटारण्ये कृत्वा तामधरद्यतः तन्निर्माल्यं ततो गङ्गा सा प्रीत्यै परमा स्मृता । सा नित्यशुद्धा तद्योगाद्गङ्गा पतितपावनी ॥१०८॥ निर्दोषा सैव कथिता तद्भिन्ना सप्त याश्च ताः । अशुद्धाश्च कदाचित्स्युः शिवाङ्गपतिता तु सा ॥१०६॥ अत्यन्तैकपवित्रा हि नान्या वै तत्समा सरित् । तदीयोदकसंबन्धाद्यत्पित्र्यं कर्म तत्तु वै ॥६१०॥ अपवित्रसहस्र ेभ्यो मुक्त सद्यो भविष्यति । पितरो नित्यतृप्तास्ते नष्टक्षुत्काः पितामहाः ॥ ६११॥ पारमेश्वरसायुज्यं लभन्ते प्रपितामहाः ।

अप्यन्ये कुलजा एव स्युस्ते कुलसहस्रकम् ॥६१२॥

[[३०४३]]

[[३०४४]]

आङ्गिरसस्मृतिः

तच्चापि वैष्णवं धाम तत्क्षणात्प्रापितं भवेत् । त्रिरात्रफलदा नद्यः पुण्ये तदयनद्वये ॥१३॥ अर्धोदये महोदये चक्रिके ग्रहणे तथा । पद्मकापिलपष्टयां वा पुनरन्येषु ताः पुनः ॥१४॥ विधिप्रयत्नरचिताऽवगाहनजपादिकैः ।

फलप्रदा हि सरितो न तथा जाह्नवी शिवा ॥१५॥ दर्शनस्पर्शनध्यानैर्जन्तूनां जन्ममोचनी । तदुत्तरक्षणाद्गङ्गा तद्भार्गतनुसंभवा ॥१६॥ सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः ।

दिनत्रयमसंस्पृश्यास्तत्रादौ याः सरिद्वराः

महानद्यः

॥१७॥

गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । तापी पयोष्णी दिव्या स्युर्दक्षिणे तु सरिद्वराः ॥६१८ पावनी नर्मदा चैव यमुना च महानदी । सरस्वती विशोका च वितस्ता च तथा पुनः ॥१६॥ दक्षिणायनकाले तु संप्राप्ते चावगाहनात् । परं त्रिदिनपर्यन्तं भवेयुस्ता रजस्वलाः ॥६२०॥ न तु सा शम्भुसंबन्धान्नित्यशुद्धा प्रकीर्तिता । जाह्नवी सरितां मुख्या सर्वलोकैकपावनी ॥ २१ ॥ ह्लादनी पावनी कामा कामनीया कलावती । करका कलुषघ्नी या नागाश्चैतास्तुरीयकात् ॥१२२॥

[[३०४५]]

दिनसङ्ख्यया नदीनां रजस्वलात्ववर्णनम् दिवसात् प्रभृति प्रोक्तास्तिस्रो रात्री रजस्वलाः । सप्तमीप्रभृति होवं सरितः काश्चनापराः ॥६२३॥ नलिनी निर्मला नारा गुर्वी गर्भा गरा धरा । क्षरिका काशिका श्यामा दश प्रोक्ता रजस्वलाः ॥२४॥ दारिद्र्यनाशिनी देया बाहुदा बहुला बला । शर्मिष्ठा शयना स्वापा नव नद्यो रजस्वलाः ॥१२५॥ दशमीप्रभृति प्रोक्तास्तिस्रो रात्रीर्मनीषिभिः । तप्ता तापा तापसा च विश्वामित्रा बृहद्वरा ॥२६॥ धना सेना सना सोमा नव नद्यो रजस्वलाः । त्रयोदशीप्रभृत्येता कथितास्ता रजस्वलाः ॥१२७॥ कलिका वरुणा वामा सोमदा महिला कला । त्वरिता लुलिता तारा षोडशप्रभृति स्मृताः ॥६२८॥ तिस्रो रात्रीरापगास्ता महाशुद्धा रजस्वलाः । गारुत्मता गतिमती गतिदा गणवारिता ॥२६॥ गुणाढ्या गुणदा शेषा सप्त नद्यः प्रकीर्तिताः । एकोनविंशतिदिनप्रभृत्येता रजस्वलाः ॥३०॥ शातद्रुश्च शतद्रुश्च वरणी वारुणी रसा । हिरण्यदा हैमवती गजवासी मनस्विनी ॥३१॥ रजस्वला नवैताः स्युर्द्वाविंशतिदिनादितः । करतोया कालतोया वर्षतोया सरद्रसा अन्तर्जला खेयतोया बृहत्तोया स्रवज्जला । पञ्चविंशत्यादितो वै विज्ञेयास्ता रजस्वलाः ॥१३३॥

॥३२॥

[[३०४६]]

आङ्गिरसस्मृतिः

अष्टाविंशत्प्रभृति वै याः काश्चन जनैः किल । नदीति नित्यं कथ्यन्ते खन्यन्ते च तदा तदा ॥३४॥ नदीगाः सिन्धुगा वापि पर्वतादिसमुद्भवाः । यत्र कुत्रापि वा जाताः क्षुद्रा दीर्घा जलैर्युताः ॥३५॥ वर्षाजलाश्च खननजला लवणशम्बराः ।

सर्वास्ताः कथिताः सद्भिर्मासान्ते स्यू रजस्वलाः ॥६३६॥ विशेषेणाधुना प्रोक्ताः सर्वासां सरितामपि । प्रसंगात्तत्स्वरूपस्य माहात्म्यं च तथाविधम् ॥३७॥ उक्तप्रायं विजानीयाद्या वा नित्यजलाः पुनः । उत्तमा इति ताः प्रोक्ता नदीनां सिन्धुसंगतः ॥६३८॥ आधिक्यं तत्प्रकथितं पुण्यक्षेत्रादिना तथा । क्षेत्रं चापि तथा ज्ञेयं नदीयुग्मैकमेलनात् ॥३६॥ खननोत्पन्नसलिला तन्न्यूना कथिता तथा । खननाञ्चाधिकजला तच्छष्ठा वै स्मृताखिलैः ॥६४०॥ पञ्चयोजनपर्यन्तप्रवहत्सलिलोत्तमा । उत्पत्तिप्रभृतिस्थैर्यवहत्सलिलसंयुता ॥६४१॥ परमा चोत्तमा चेति सा गङ्गेति च फण्यते । नदीनां प्रवरा गङ्गा तज्जलं श्राद्धकर्मणि पावनं परमं प्रोक्तं वमनं मधु चोच्यते । तत्प्रेतपर्पटं साक्षात्पितॄणां दुःखवारकम् ॥१४३॥ खड्गपात्रं हि कुतपो दौहित्रो वा पुनः स्मृतः । शिवनिर्माल्यतः श्राद्धवैगुण्यं तत्प्रशाम्यति ॥६४४ ॥

॥६४२॥

अनुमासिकाद्युच्छिष्टवमने विधिवर्णनम् पुनःकरणसंप्राप्तौ शिवनिर्माल्ययोगतः ।

प्रनष्टः प्रभवेद्दोषस्ते चात्रापि वदाम्युत ॥ ६४५॥

पुनःश्राद्धप्रकरणम्

विप्रवान्तावग्निनाशे पिण्डे च विदलीकृते ।

॥६४६॥

पिण्डगोलकसंयोगे दीपनाशे तथैव च रजस्वलानाथभुक्तौ बुद्धिपूव तथैव च । अशौचमुक्तावाशौचिसंस्पर्शे होमविस्मृतौ ॥४७॥

अतिथौ तद्दिनभ्रान्त्या संकल्पकरणेऽपि वा । एकस्मिन्नेव दिवसे पित्रोर्व्यत्यासतः कृतः ॥६४८॥ तद्दिने चोपवासः स्यात्पुनः श्राद्ध परेऽहनि । आद्यश्राद्ध े तु भुञ्जानविप्रस्य वमनं यदि ॥ १४६॥ यत्ते कृष्णेति मन्त्रेण होमं कुर्याद्यथाविधि । षोडशश्राद्धभुञ्जानब्राह्मणस्तु वमेद्यदि ॥५०॥ प्रेताहुतिस्तु कतव्या लौकिकानौ यथाविधि ।

अनुमासिकाद्युच्छिष्टवमने

अनुमासिकेऽत्र कतव्य उच्छिष्ट वमनं यदि ॥६५१॥ कवले तु सुभुञ्जाने तृप्तिं चैव विनिर्दिशेत् । अमावास्यामासिके च ब्राह्मणो मुखनिःस्रुतम् ॥६५२॥ तथा महालय श्राद्ध पित्रादेर्वमनं यदि । पितामहादिवत्कृत्वा श्राद्धशेषं समापयेत् ॥६५३॥

[[३०४७]]

[[३०४८]]

आङ्गिरसस्मृतिः

उच्छिष्टोच्छिष्टसंस्पर्शे

उच्छिष्ट ेन तु संस्पृष्टो भुञ्जानः श्राद्धकर्मणि । शेषमन्नं तु नाश्नीयात्कर्तुः श्राद्धस्य का गतिः ॥६५४॥ तत्स्थाननामगोत्रेण ह्यासनादि तथार्चयेत् ।

अन्नत्यागं ततः कृत्वा पावके जुहुयाच्चरुम् ॥५५॥ पुरुषसूक्त ेन जुहुयाद्यावद्द्वात्रिंशदाहुतिः । होमशेपं समाप्याथ श्राद्धशेषं समापयेत् ॥ ६५६ ॥ अकृत्वा तु समीपे तु ब्राह्मणे वमनं यदि । पुनः पाकं प्रकुर्वीत पिण्डदानं यथाविधि ॥७॥ उच्छिष्टस्पर्शनं ज्ञात्वा तत्पात्रं च विहाय च । तत्पात्रं परिहृत्याथ भूमिं समनुलिप्य च ॥ ६५८॥ तस्य शीघ्र विधायैव सर्वमन्नं प्रवेष्टयेत् । परिषिच्य ततः पश्चाद्भोजयेच्च न दोषकृत् ॥५६॥

अन्योन्यस्पर्शे

श्राद्धपङ्क्तौ तु भुञ्जानावन्योन्यं स्पृशनो यदि । द्वौ विप्रौ विसृजेदन्नं भुक्त्वा चान्द्रायणं चरेत् ॥६६०॥ उच्छिष्टोच्छिष्टसंस्पर्शे शुना शूद्रेण वा तथा । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥६६१॥ इन्द्राय सोमसूक्त ेन श्राद्धविघ्नो यदा भवेत् । अग्न्यादिभिर्भोजनेन श्राद्ध संपूर्णमेव हि ॥६६२॥ इन्द्राय सोमसूक्त ेन भोजनेनेति च त्रयम् ।

विधानं कथितं सम्यग्व्यवस्था ह्यत्र चोच्यते ॥६६३॥

•दर्शादौछर्दने पुनःपाकविधानम्

पिण्डदानात्परं यस्य कस्यचिद्ब्राह्मणस्य वै । वमनाच्छ्राद्धवित्रे तु तदा सूक्तजपाद्धि सा ॥६६४॥ श्राद्धसंपूर्णता ज्ञेया तत्पूर्वं चेत्तु दैवके ।

पितामहविष्णुवमने

[[३०४६]]

पितामहे तत्परस्मिन् विष्ण्वा वा वमने यदि ॥६६५॥

होमेनैव तदा ज्ञया द्वयोर्यदि तदा पुनः । तत्सूक्तजपहोमाभ्यां श्राद्धसंपूर्णता स्मृता

॥६६६॥

दर्शादौ छर्दने

विप्रस्य वमने यदि दर्शके ।

पितृस्थानस्य

पुनः पाकेन तच्छ्राद्धभोजनं विहितं तदा ॥१६७॥ आदिके वानुमासे वा तद्दिनोपोषणं भवेत् । परेऽहनि पुनःश्राद्ध भोजनेनैव नान्यथा ॥६६८॥ एक एव यदा विप्रो भोजने छर्दितो यदि ।

आव्दिके तु परेऽह्नय व दर्शे वा यदि मासिके ॥६६॥ तथैवाग्निं समाधाय होमं कुर्याद्यथाविधि । तत्स्थाननामगोत्रेण चासनादि समर्चयेत् ॥६७०॥ अन्नत्यागं प्रकुर्वीत ततोऽग्नौ जुहुयाच्चरुम् । प्राणादिपञ्चभिर्मन्त्रैर्यावद्द्वात्रिंशदाहुतिः ॥६७१॥ होमशेषं समाप्याथ श्राद्धशेषं समापयेत् ।

पुनः पाकेन सद्यो वै

श्राद्धस्य करणं

स्मृतम् ॥६७२॥

दर्शादिष्वेव कथितं न

प्रत्यब्दस्य परेऽह्नय े व स्थानं विप्रस्य तत्स्मृतम् ॥१७३॥

प्रत्यब्दे कथंचन ।

[[३०५०]]

आङ्गिरसस्मृतिः

उपवासार्थः

उपावृत्तिस्तु पाकेभ्यो यस्तु वासो गुणैः सह ॥७४॥ उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।

अपुत्रासापिण्ड्यम्

पत्न्याः कुर्यादपुत्रायाः पत्युर्मात्रादिभिः सह ॥६७५॥ सापिण्ड्यमनुयाने तु जनकेन सहात्मजः ।

अनुगमने

मृतं यानुगता नाथं सा तेन सह पिण्डनम् ॥७६॥ अर्हति स्वर्गवासेऽपि यावदाभूतसंप्लवम् । स्त्रीपिण्डं भर्तृ पिण्डेन संयुज्य विधिवत्पुनः ॥६७७॥ त्रेधा विभज्य तत्पिण्डं क्षिपेन्मात्रादिषु त्रिषु । भर्तुः पित्रादिभिः कुर्याद्भर्त्रा पत्न्यास्तथैव च ॥१७८॥ सपत्न्या वाऽसपत्न्या वा न भेद इति गोभिलः ।

एकादशेऽहनि षोडशम्

केचिदत्र पृथक्प्रोचुस्तं पक्षं प्रवदाम्यहम् ॥७६॥ एकचित्यां समारूढौ दम्पती निधनं गतौ । एकोद्दिष्ट षोडशं च पृथगेकादशेऽहनि ॥६८०॥ द्वादशेऽहनि संप्राप्ते पिण्डमेकं द्वयोः क्षिपेत् । पितामहादिपिण्डेषु तं पितुर्विनियोजयेत् ॥६८१॥ केचित्तमेव पिण्डं तु द्वधा कृत्वा ततः परम् । उदग्भागगतं पिण्डं पितृवर्गे नियोजयेत् ॥६८२॥

सकृन्मातृकपैतृकमरणेप्रधानाप्रधानयोर्निर्देशवर्णनम् ३०५१

यं दक्षिणस्थितं पिण्डं मातृवर्गे नियोजयेत् ।

तद्दिने परेद्य ुर्वा सहगमने श्राद्धम्

अत्र केचित्पुनः प्रोचुः प्रकारान्तरतः किल ॥६८३॥ तद्दिने वा परेद्यर्वा भर्तारमनुगच्छति । भर्त्रा सहैव शुद्धिः स्यात् श्राद्ध चैकदिने भवेत् ॥६८४॥ पैतृकं मरणं यत्र तदेवाहुः प्रधानकम् । केचित्तु मातृकं प्राहुरेवं पक्षद्वयं स्मृतम् ॥८५॥ प्रचेता अत्र चोवाच स्वमतं तत्प्रवच्म्यहम् । भर्त्रा सह प्रमीतायाः मृतेऽहन्यपरेऽह्नि वा ॥६८६॥ आशौचं मरणोद्दिश्यं दहनादि तयोर्न तु । पुनः पक्षान्तरं प्रोक्तं कैश्चित्तत्र महर्षिभिः ॥६८७॥ पतिव्रता त्वन्यदिनेऽनुगच्छेद्या स्त्री पतिचित्त्यधिरोहणेन । दशाहतो भर्तुरघस्य शुद्धिः श्राद्धद्वयं स्यात्पृथगेककाले ॥६८८

तयोराशौचे मरणादि

भर्तारमनुगच्छन्ती पत्नी चेदार्तवा यदि । तैलद्रोण्यां विनिक्षिप्य लवणे वा स्वकं पतिम् ॥ ६८६ ॥ परं त्रिरात्राद्दहनं कुर्युस्ते बान्धवास्तया । श्राद्ध चैकदिने कुर्युद्वयोरपि हि निर्णयः ॥ ६६० एकोद्दिष्ट षोडशं च भर्तुरेकादशेऽहनि । द्वादशेऽहनि संप्राप्ते पिण्डमेकं द्वयोः क्षिपेत् ॥६६१॥ पितामहादिपिण्डेषु तं पितुर्विनियोजयेत् । ब्रह्मवादिमतं भूयस्त्वन्यद्वक्ष्यामि शोभनम् ॥२॥

[[३०५२]]

आङ्गिरसस्मृतिः

दह्यमानं तु भर्तारं दृष्ट्वा नारी पतिव्रता । अनुगच्छेत्तयोः श्राद्धं पृथगेकादशेऽहनि ॥६६३॥ शिलाप्रतिष्ठापनादिकृत्यं सर्वं पृथक् पृथक् । एकत्रैव प्रकुर्वीत पितुर्मातुः समन्त्रकम् ॥६६४॥ पोडशान्तं पृथक्कृत्वा सपिण्ड्य द्वादशेऽहनि । प्रेतत्वात्तु विमुक्त ेन सह मातुः सपिण्डकम् ॥६६५॥

तत्पिण्डसंयोजनम्

स्त्रीपिण्डं भर्तृ पिण्डेन संयुज्य विधिवत्पुनः । त्रेधा विभज्य तं पिण्डं क्षिपेन्मात्रादिषु त्रिषु ॥ ६६॥

मातुः सापिण्ड्याभावस्थलम्

अत्र

विष्णुर्मतं स्वस्य

सुलभायावदत्किल ।

कृते पितुः सपिण्डत्वे मातुस्तु न सपिण्डनम् ॥६६७॥ पितुरेव सपिण्डत्वे तस्या अपि कृतं भवेत् । स्त्रीणां पृथङ् न कर्तव्या सपिण्डीकरणक्रिया ॥६६८ ॥

दत्तेन पालकपितुः सापिण्ड्यम्

अन्यगोत्रप्रदत्तश्चेत्तनयः स्वपितुस्ततः ।

पालकस्य प्रकुर्वीत तत्पित्रादिसपिण्डनम् ॥६६॥

दत्तपुत्रकृत्यम्

विवादो नात्र कोऽप्यस्ति तादृग्दत्तसुतः पितुः ।

स्वयं तद्भिन्नगोत्रोऽपि तद्गोत्रे योजयेच्च तम् ॥१०००॥

अन्यगोत्रदत्तक पुत्रकृत्यवर्णनम्

[[३०५३]]

पितामहादिभिः सम्यक् यत्प्राचीनैकगोत्रकैः । दत्तपौत्रस्य पितरं प्रपितामहमुख्यकैः ॥१००१ ॥ त्यक्त्वा पितामहं त्वन्यगोत्रं सम्यक् ततः परम् । योजयेन्नात्र सन्देहस्तज्जं तत्प्रपितामहम् ॥१००२॥ त्यक्त्वा सम्यग्विचार्यैव स्वगोत्रैरेव योजनम् । कुर्यात्तद्विधिना नो चेत् पितॄणां संकरो भवेत् ॥१००३॥ तेन दोषश्च सुमहान् प्रभवेदेव दुर्घटः । दत्तपुत्रोद्भवो यत्नात्सपिण्डीकरणे पितुः ॥१००४॥ त्यजेत्पितामहं यत्नात्तत्पुत्रः प्रपितामहम् । तत्पुत्रश्चेत्ततो वृद्धप्रपितामहमेव वै ॥१००५॥ एवं मातुः सपिण्डे तु दत्तपुत्रोद्भवश्वरेत् ।

अन्यगोत्रदत्तः

यद्यन्यगोत्रजो दत्तः सन्ततौ तत्परंपराम् ॥१००६॥ चतुष्कुलैकपर्यन्तं जातानां सङ्कटं महत् । तस्मिन् सपिण्डीकरणे तदानीं समुपस्थिते ॥ १००७॥ भवत्येव हि तत्पश्चात् पञ्चमादि यथाक्रमम् । स्वयमेव भवेत्तावत्तद्वर्गे जन्मिनां महत् ॥१००८॥ अवेक्षणं जागरूकता च नित्ये स्मृते तराम् । तस्मात्सगोत्रे तनयं संगृह्णीयादपुत्रकः ॥१००६॥ शिष्ट सर्वं पूर्वमेव मया सम्यङ् निरूपितम् । पुत्रे जाते ततो भूयः पुत्रस्वीकरणादथ ॥१०१०॥

[[३०५४]]

आङ्गिरस स्मृतिः

जातोऽधिकः प्रदत्तात्तु धर्मतः सर्वकर्मसु ।

पितुः श्राद्धस्य षण्मासात्पूर्वं प्रभृति कृत्यम् पित्रोः श्राद्धस्य षण्मासात्पूर्वमेव तदा तदा ॥१०११॥ श्राद्धस्मृतिं प्रकुर्वन्वै कथाः काश्चन सन्ततम् । प्रकुर्वन् स्वजनैस्तिष्ठ दिष्टान् कांश्चिद्विशेषकान् ॥१०१२॥ तिलमापव्रीहियवान् गुडमुद्गादिकान् मधु । कन्दमूलादिकान् कांश्चिद्वस्त्रकार्पासकादिकान् ॥१०१३॥ संगृह्य स्थापयेद्यत्नाद्दिव्यचन्दनखण्डकम् । दिव्योशीरं गुग्गुलुं च निक्षिपेच्चावनीतले ॥ १०१४॥ शुष्कान् शलाटुकान् कांश्चिद्गोपयेच्छ्राद्धहेतवे । वृक्षेषु कांश्चिद्यत्नेन भूम्यन्तर्भूतले तथा ॥१०१५॥ कुसूलेषु दुकूलेषु पुनः कुम्भघटेषु च । स्थापयेन्निक्षिपेदेवं निखनेत्कांश्चिदप्युत ॥१०१६॥ समीचीनानि वस्तूनि दृष्टमात्राणि चेत्तदा ।

श्राद्धार्थमिति निश्चित्य प्रोक्त्वा स्वीयैश्च केवलम् ॥१०१७॥

गोपयित्वैव यत्नेन स्थापयेत्पालयेदपि । तदुक्तितत्कथातृप्ताः पितरो नित्यमेव वै ॥ १०१८॥ आशीर्भिरेनं सततं वर्धयन्त्यपि तारिताः ।

कथा तृप्तिः

भवन्ति कथया स्वर्गे पितृलोके च तेऽनिशम् ॥१०१६ ॥ कथया तृप्तिरेतेषां स्मृत्योक्त्या वचनादपि । तदीयकृत्यसंभाषाप्रियवस्तुप्रचारणैः ॥१०२०॥

विप्रविसर्जनानन्तरमेव दानजपादिकरणविधानवर्णनम् ३०५५

विद्यमानाग्निरपि त्रिदिनात्पूर्वं पुनः

यत्नाद्दिनत्रयात्पूर्वं विद्यमानाग्निरप्यलम् ।

पुनः संधानविधिना श्राद्धायाग्निं सुसंस्क्रियात् ॥ १०२१॥

श्राद्धदिने वर्ज्यम्

औपासनं विना होममन्यं होमं तु तद्दिने । न कुर्यादेव विधिना यदि कुर्यात्तु तत्पतेत् ॥१०२२॥

श्राद्धदिने दानजपादि न कर्तव्यम्

दानाध्ययनदेवार्चाजपहोमत्रतादिकान् ।

न कुर्याच्छ्राद्धदिवसे प्राग्विप्राणां विसर्जनात् ॥ १०२३॥ न दद्याद्याचमानेभ्यः फलपुष्पजलाक्षतान् । तण्डुलान् दधितक्राज्यशाकपात्रतृणस्थलम् ॥१०२४॥ काष्ठमूलकन्दभाण्डविद्यापुस्तकभूषणम् ।

ऋणमेवं धनं धान्यं चेलं वाऽनुग्रहादिकम् ॥१०२५॥ कल्याणवार्ताकोपादिचाटुपारुष्यभाषणम् । बालनिग्रहतद्ग्राहतत्संल्लापादि वर्जयेत् ॥ १०२६॥ उच्चः संभाषणं हस्तताडनं हसनं वृथा । दुरालापं दुष्टलोकभाषणं दुष्टशिक्षणम् ॥१०२७॥ नैतानि कुर्याद्यत्नेन प्रत्यब्दे तु विशेषतः ।

मृता हे दर्श

दर्शादिषु मृताहश्चेन्मृताहं पूर्वमाचरेत् ॥१०२८॥

[[३०५६]]

आङ्गिरसस्मृतिः "

पश्चादर्श प्रकुर्वीत पित्रोरेवायमुच्यते ।

मृता हे मातामहादि श्राद्धसंभवे

मातामहस्य तत्पत्न्याः सापत्नीमातुरेव च ॥ १०२ ॥ पितुः श्राद्धसमत्वेन प्रोचुः किल महर्षयः । दर्शे समागतं मन्वादिकं श्राद्धं समाचरेत् ॥१०३०॥ दर्शसिद्धिस्तावता स्याद्दैवतैक्येन केवलम् । सपिण्डकमपिण्डं वा दैवतैक्ये पृथङ् न तु ॥ १०३१॥ कार्यं भवति तच्छ्राद्धं भिन्नदैवतके पुनः ।

नित्यनैमित्तिके प्राप्ते

पूर्वं नैमित्तिकं काय प्रत्यब्दे यदि तत्तदा ॥१०३२॥ प्रत्यब्दमागतं प्रत्यासत्तियोगवशाच्चरेत् ।

पितुः श्राद्ध प्रथमतो मातुः श्राद्ध ततः परम् ॥१०३३॥ पश्चान्मातामहस्यापि तत्पत्न्याश्च ततः परम् । पश्चात्सपत्नीमातुः स्यात्पश्चात्पत्न्या प्रकीर्तितम् ॥१०३४॥ सुतभ्रातृपितृव्याणां मातुलादिक्रमात्स्मृतम् ।

दर्शे बहुश्राद्धसंभवे

पित्रादिभिन्नश्राद्धानां कारुण्यानां यदा पुनः ॥१०३५॥ दर्शादिष्वागतानां चेन्मृताहानां तदा परम् । दर्शादिकं समाप्यैव कारुण्यश्राद्धमाचरेत् ॥१०३६॥ केचित्पत्न्याः पितृव्यस्य तत्पत्न्याश्च समागमम् । दर्शादिषु मृताहं वै पूर्वं कृत्वा ततः परम् ॥१०३७॥

[[३०५७]]

सवत्र क्रियाभेदाच्छ्राद्धानुष्ठानवर्णनम्

दर्शादिकमनुष्ठयमिति प्रोचुश्च तत्कृतौ । तस्माद्यथारुचिपरमात्मतृप्तिः प्रशस्यते ॥१०३८॥ वस्तुतोऽत्र पुनर्वच्मि पितृव्यो यदि केवलम् । एतस्य परमो मुख्यस्तत्पत्नी वापि पत्न्यपि ॥१०३६॥ मातृत्वकार्यका(क)रणे महती सुमहत्यपि ।

तदा चेत्तन्मृताहं तु पूर्वं कृत्वा ततः पुनः ॥ १०४० दर्शादिकं प्रकुर्वीत न चेत्ते केवला यदि । नाममात्रेण कथितास्तदा दर्शादिकं पुरा ॥१०४१॥ कृत्वैव पश्चात्तच्छ्राद्ध

ं कारुण्यानामिति स्थितिः । सर्वत्रैवं प्रकथितं स्वामिनः सख्युरेव वा ॥१०४२॥ पुरोहिताचार्ययोश्च प्रत्यासत्तिप्रभेदतः ।

श्राद्धस्य करणं प्रोक्तं पुनरप्युपकारिणः ॥१०४३॥ तेषां तेषां क्रियाभेदाच्छ्राद्धानुष्ठानमुच्यते । सर्वत्रैवात्मतुष्टिः स्याद्विदुषः परमोत्तमा ॥१०४४॥

केषांचित्कल्पप्रकारः

1:

पुनर्विशेषः कोऽप्यस्ति प्रवक्ष्याम्यत्र तं पुनः । यतस्तातो यतो वृत्तिर्यतो जीवो यतः प्रसूः ॥१०४५॥ स स्वीकृतः श्राद्धतिथिभ्रष्टत्यक्तपिताऽपि वा । दर्शादिश्राद्धपरतो मृताहश्राद्धमाचरेत् ॥१०४६॥ पित्रात्यन्तैककलहे धावनावसरे सुते ।

जाते नष्ट े च पितरि तथा मातरि तत्परम् ॥ १०४७॥

[[१६२]]

‘३०५८

आङ्गिरसस्मृतिः

अल्पकालमृतायां तु तत्तग्रामस्थितैरपि । तदा तदा पालितो यो दैवाज्जीवन्प्रवर्धितः ॥१०४८॥ दृष्टमात्रैर्बाल्य एव विप्रबुध्यैव तैस्तराम् ।

संस्कृतश्चाध्यापितश्च

ज्ञाताज्ञातैकगोत्रकः ॥ १०४ ॥

अज्ञातग्रामतातादिर्ज्ञातजातिर्जनोक्तितः ।

ततो विद्वान् महात्मा यो यतस्तात इति स्मृतिः ॥१०५०॥ एवमेव तथान्योऽपि तथावस्थाप्रभेदतः । यतोत्पत्तिस्तु कथिता अज्ञातग्रामसंभवः ॥ १०५१॥ स्वजीवनप्रकारं यो बाल्ये द्वादशवार्षिकात् । ॥ न वेत्ति नष्टजनको यतोत्पत्तिस्तु कथ्यते ॥ १०५२॥ मातरं यो न जानाति स्वकीयजनशून्यतः । तथा पित्रादिकान् सर्वान् प्रोच्यतेऽसौ यतः प्रसूः ॥१०५३ त एते किल सर्वेऽपि विपत्कालसमुद्भवाः । नष्टपित्रादिकजना दैवात्संप्राप्तजीवनाः

॥ १०४॥

यैश्च कैश्चिद्दृष्टमात्रैर्विप्रबुध्यैकपालितैः । अवस्थाभेदतः सर्वे तत्तन्नामाङ्किताः स्मृताः ॥१०५५॥ चत्वारः कथिताः सद्भिरतिदुःखैकजीवितम् । अतिबाल्ये ततो भूयो यौवने प्राप्तसंपदः ॥ १०५६॥ दैवयोगेन विद्वांसः कर्मठाश्चापि वा भवन् । पितुर्मृ’ ततिथिं यो वा ज्ञात्वा बाल्येन केवलम् ॥ १०५७॥ स्वयमेव श्राद्धहेतोर्मार्गशीर्षे ह्यमादिकम् ।

शास्त्रदृष्ट्या समालोच्य सद्भिरुक्तोऽथवा गृणन् ॥१०५८॥सर्वथापतितम्य पञ्चविंशद्वर्षात्परंक्रियारम्भवर्णनम् ३०५६

स्वस्वीकृतश्राद्धतिथिरुच्यते ब्रह्मवादिभिः ।

भ्रष्टक्रिया

वै ॥१०५६॥

मद्यपानादिना भ्रष्टः पिता यस्य बभूव मृतेस्तस्य परं प्रोष्य चतुर्विंशतिवार्षिकम् । भ्रष्टक्रिया प्रकर्तव्या पुत्रेण विदितात्मना ॥१०६०॥ तस्य श्राद्धं ततः कार्यं तादृशस्य दुरात्मनः । तादृपितृक्रियाकर्ता स उ भ्रष्टपिता स्मृतः ॥ १०६१॥ पितुस्तु भ्रंशमात्रेण नायं भ्रष्टपिता भवेत् । तादृक्कर्मैककरणसमयादथ तादृशः ॥१०६२॥

सर्वथा पतितस्यः पञ्चविंशद्वर्षात्परं क्रियारम्भः भवत्यपि तथा त्यक्तपिता चापि प्रकथ्यते । स्वयं चण्डालतां बुध्या प्राप्तो यो स्वजनैरपि ॥ १०६३॥ वहिष्कृतश्च संत्यक्तस्तादृशं पितरं मृतम् । पञ्चविंशतिवर्षेभ्यः परं पुत्रः स शास्त्रतः ॥१०६४॥ षडव्दं षड्गुणत्वेन वर्षयित्वातिकृच्छ्रकैः ।

महाकृच्छ्र स्तप्तकृच्छ्रः पराकातिशतैरपि ॥१०६५॥ चापाग्रस्नानशतकैर्मन्त्रकुम्भसहस्रकैः ।

गोसहस्र विधानेन संस्कुर्यात्तस्य केवलम् ॥१०६६॥ प्रतिसंवत्सरं पश्चात्तादृक्च्छ्राद्धकरस्तु यः । स उ त्यक्तपिता ज्ञेयस्त एते तनयाः सदा ॥ १०६७॥ एवं जातीयका ये स्युस्ते सर्वे धर्मतत्पराः । दर्शादिश्राद्धपरतो मृताहश्राद्धमाचरेत् ॥१०६८॥

[[३०६०]]

आङ्गिरसस्मृतिः

तेषां श्राद्धककरणमेतेषां स्वस्य केवलम् । प्रत्यवायैकशून्याय न चेहोपो महान् भवेत् ॥ १०६६॥ तत्संभूतमहादोषपरिहाराय वा न चेत् ।

प्राप्तये कर्मठत्वस्य न वेदस्य तु केवलम् ॥१०७०॥ श्राद्धत्यागात् प्रत्यवायो भवेत्तस्मात्तथाऽऽचरेत् । नित्यं तेषां मृताहेषु दानधर्मादिकं चरेत् ॥ १०७१। विप्राणां भोजनात्पूर्वं नियमोऽयमुदाहृतः । दुरात्मनां विशेषेण पूर्ववद्दोपशान्तये ॥१०७२॥ श्राद्धभुक्तः परं तेषां न कुर्याद्भूरिभोजनम् ।

श्राद्धाङ्गतर्पणं परेऽहनि

परेद्य ुर्वा प्रयत्नेन श्राद्धाङ्गतिलतर्पणम् ॥१०७३॥ सद्य एव प्रकर्तव्यं पूर्वं पश्चात्तु वा तथा । अभिश्रवणमेवं स्यादेकेनैव हि कारितम् ॥१०७४॥ नान्नसूक्त त्यागकाले प्राचीनावीतिकं न तु । अग्नौकरणहोमेऽपि तच्चावश्यकमुच्यते ॥१०७५॥

उद्देशत्यागकाले सव्यम्

उद्देशत्यागकाले च सव्यमेव भवेद्धि वै ।

मधुवाताद्यन्ते न

मधुवातादिकं भुक्तरन्ते नैव वदेदपि ॥१०७६॥

विकिरं न कुर्यात्

विकिरं नैव कुर्वीत नित्यकर्माणि यानि वा । तानि सर्वाणि सर्वत्र धृत्वा पुण्ड्र विधानतः ॥ १०७७॥

पितृश्राद्ध ऽगृहीतभोजनस्य पुत्रस्यप्रायश्चित्तवर्णनम् ३०६१ निवेदितान्नतः पञ्चयज्ञान्तेऽतिथिपूजनात् ।

पूर्वं तेषां प्रकर्तव्यं प्रत्यब्दादिककर्म वै

॥ १०७८ ॥

तेषां श्राद्ध त्यागमाचात्कृते सर्वं कृतं भवेत् ।

वमने

अपि प्राप्तेऽपि वमने पितृस्थानस्य वा किमु ॥१०७६ ॥ न पुनः करणं कुर्याच्छ्राद्वशेषं समापयेत् । पादप्रक्षालने तेषां मण्डलानर्चनं भवेत् ॥ १०८०॥ पादप्रक्षालनार्थाय प्रदेयमुदकं परम् ।

त एते निखिला धर्मा मृताहे केवलं स्मृताः ॥१०८१ ॥ न दर्शादिषु विज्ञेयास्तत्र धर्मा यथोक्तितः । प्रकर्तव्या विशेषेण विकारोऽत्यन्तकुत्सितः ॥१०८२॥ मृताह एव कथितो नान्यतो यत्र कुत्रचित् । श्राद्धान्ते वा परेद्य ुर्वा शक्तो यः पितृकर्मणि ॥१०८३ ॥ न कुर्यान्मोहतस्तूष्णीं विप्राणां भूरिभोजनम् । अर्धतृप्ता हि पितरो भवेयुर्नात्र संशयः ॥१०८४॥

कर्तुर्भोजनाभावे

श्राद्ध’ कृत्वा तु यो मूढो न भुङ्क्त े पितृसेवितम् । इष्टः पुत्रैर्बन्धुभिश्च ब्राह्मणैर्ब्रह्मवादिभिः ॥ १०८ आचार्यैर्गुरुभिः सद्भिरागताभ्यागतैरपि ।

पितरो नैव तृप्ताः स्युर्भुञ्जीयात्तेन तृप्तितः ॥१०८६॥ तद्वश्यानामर्भकाणां विप्रभुक्त रनन्तरम् ।

तत्कांक्षितानि वस्तूनि भक्ष्यादीनि फलान्यमि ॥ १०८७॥

[[३०६२]]

आङ्गिरसस्मृतिः

स्वच्छन्दतः प्रदेयानि तावन्मात्रेण ते परम् । अतितुष्टा महातुष्टाः परितुष्टाः प्रहर्षिताः ॥ १०८८॥ पूजिताश्च भविष्यन्ति तस्माद्वालमनोरथम् । पूरयेत्पितृ तृप्त्यर्थं तद्दिनेषु विशेषतः ॥१०८६॥ तृप्ताः स्थेति तथा प्रोक्त त्रिवारं पितृसूनुना । भावयन्ति तदा ते वै चेतसा तु वयं तथा ॥ १०६०॥ तृप्ता जातास्तथा त्वं च तृप्तो यदि तदा वयम् । तृप्ता भूम न चेन्नोऽद्य का तृप्तिरिति वै तराम् ॥ १०६१॥ दूयमानेन मनसा तिष्ठन्ति किल तेन वै । सम्यग्भुञ्जीत वै पूर्वं यथा कुर्वन् भुजिक्रियाम् ॥ १०६२॥ अतृप्ता एव नो ते स्युरिष्टः पुत्रैश्च बन्धुभिः । विप्रालंकरणे जाते गृहालंकरणं भवेत् ॥१०६३ ॥ पत्न्यादीनामलंकारः शिष्टब्राह्मणभोजनम् ।

अन्वेव भोजनं तेषां तद्दिने क्रियते तु यत् ॥१०६४ ॥ तत्सवं प्रीतये तेषां भवेदेव न चान्यथा । यद्वा तद्वा प्रकर्तव्यं तत्ततसर्वं प्रयत्नतः ॥ १०६५॥ अनन्तरं विप्रभुक्तः पित्रुद्वासनतः परम् । तत्पूर्वं लवमात्रं वा वस्तु किञ्चिदपि स्वयम् ॥१०६५॥

तिलद्रोणत्रयः

तिलद्रोणत्रयं कुर्यात्तद्दिने समुपस्थिते ॥ १०६७जा भक्ष्यास्तिलमयाः कार्यास्तिलकल्कं विशेषतः ।

!" तिलचूर्णं तैलपिष्ट तिलभर्जनमप्युत ॥१०६८॥

दर्शश्राद्ध तर्पणस्वरूपवर्णनम्

तिलार्चनं तिलमुखं रक्षोहननमाचरेत् ।

तिलैर्विकिरणं कुर्याद्रव्यलोपेषु कृत्स्नशः ॥ १०६६॥ समीचीनं तिलैः कुर्यात्तिलाः स्युः सोमदेवताः । सोमः पितॄणामाधारः सोमायैव तु हूयते ॥११००॥

[[३०६३]]

सोऽयं हि पितृभिः प्रीतस्तद्दत्तं कव्यमुत्तमम् । सोमतृप्त्यैकजनकं तस्मात्सोमहुतं हविः ॥ ११०१॥ तत्कलावृद्धिजनकं सा कला पीयते हि तैः । वस्वादिभिः पितृभिस्तु तदेवं तत्तिलैः सदा ॥ ११०२॥ सर्वश्राद्धषु पितरः पूजनीया विशेषतः ।

दर्शश्राद्ध तर्पणस्वरूपेण

सर्वाभावे विशेषेण तिलैर्जल विमिश्रितैः ॥११०३॥ दर्शादिकानि श्राद्धानि कार्याण्येव समन्त्रतः । स्वधा नमस्तर्पयामि पितरं च पितामहम् ॥११०४ ॥ प्रपितामहमेवं च वस्वादिकमयांस्तथा । नामगोत्रैकसंयुक्तान् श्राद्धं कृत्वाऽपि तत्परम् ॥११०५॥ तदङ्गतर्पणं कार्यं मृतस्यादौ तिलोदकम् । समारभ्य क्रियाः कार्यास्तस्मात्सन्तस्तिलोदकम् ॥११०६॥ प्रथमश्राद्धमेवोचुः श्राद्धप्रतिनिधित्वतः ।

तदेवोचुश्च निखिला दुर्बलानां हितेच्छवः ॥११०७॥ समालोक्यैव शास्त्राणि श्रुतिमूलानि ते पुरा । मन्वादयो महात्मानस्तिला स्युस्तादृशाः किल ॥११०८॥

३०६६ ·

आङ्गिरसस्मृतिः

कृत्वा पूर्वमुदाहार्य यथोक्त’

धर्मकर्तृभिः ।

पश्चात्कार्यानुसारेण शक्त्या कुर्युरनुग्रहम् ॥ ७॥ यत्पूर्वमृषिभिः प्रोक्तं धर्मशास्त्रमनुत्तमम् । । तत्प्रमाणं तु सर्वेषां लोकधर्मानुवर्णनम् ॥ ८ ॥ न हि तेषामतिक्रम्य वचनानि महात्मनाम् । प्रज्ञानैरपि विद्वद्भिः शक्यमन्यत्प्रभाषितुम् ॥६॥ स्वाभिप्रायकृतं कर्म विधिविज्ञानवर्जितम् । क्रीड़ाकर्मेव बालानां तत्सर्वं स्यान्निरर्थकम् ॥१०॥ इत्याङ्गिरसधर्मशास्त्रे उपोद्घातो नाम प्रथमोऽध्यायः ।

द्वितीयोऽध्यायः

परिषद उपस्थानलक्षणम्

अत ऊर्ध्वं प्रवक्ष्यामि चोपस्थानस्य लक्षणम् । !! उपस्थितो हि न्यायेन व्रतादेशनमर्हति ॥१॥ सद्यो निःसंशयः पापो न भुञ्जीतानुपस्थितः । भुञ्जानो वर्धयेत् पापं परिषद्यत्र वर्तते ॥२॥ संशये न तु भोक्तव्यं यावत्कार्यविनिश्चयः । प्रमाणेनैव कर्तव्यं यावदाशासनं तथा ॥३॥ कृत्वा पापं न मूहेत मूह्यमानं तु वर्धते । ॥ स्वल्पं वाऽथ प्रभूतं वा धर्मविद्भयो निवेदयेत् ॥ ४ ॥

प्रायश्चित्तविधानवर्णनम्

[[३०६७]]

ते हि पापकृतां वैद्या बोद्धारश्चैव पाप्मनाम् । दुःखस्यैव यथा वैद्या सिद्धिमन्तो रुजायताम् ॥ ५॥ प्रायश्चित्ते समुत्पन्ने श्रीमान् सत्यपरायणः । मृदुरार्जव संपन्नः शुद्धिं यायाद्विजः सदा ॥ ६ ॥ सचेलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः । क्षत्रियो वाथ वैश्यो वा ततः परिषदं व्रजेत् ॥ ७ ॥ उपस्थानं ततः शीघ्रमर्तिमान् धरणीं व्रजन् । गात्रैश्च शिरसा चैव न च किंचिदुदाहरेत् ॥ ८ ॥ ततस्ते प्रणिपातेन दृष्ट्वा तं समुपस्थितम् । विप्राः पृच्छन्ति यत्कार्यमुपवेश्यासने शुभे ॥ ६॥ किं ते कार्यं किमर्थं वा किं वा मृगयसे द्विज । पर्षदि ब्रूहि तत्सर्वं यत्कार्यं हितमात्मनः ॥१०॥

इत्याङ्गिरसधर्मशास्त्रे परिषदुपस्थानं नाम द्वितीयोऽध्यायः ।

तृतीयोऽध्यायः

प्रायश्चित्तविधानवर्णनम्

सत्येन द्योतते राजा सत्येन द्योतते रविः । सत्येन द्योतते वह्निः सत्ये सवं प्रतिष्ठितम् ॥ १ ॥ भूर्भुवः स्वस्त्रयोलोकास्तेऽपि सत्ये प्रतिष्ठिताः । अस्माकं चैव सर्वेषां सत्यमेव परा गतिः ॥ २॥

[[३०६८]]

आङ्गिरसस्मृातः

यदि चेद्वक्ष्यते सत्यं नियतं प्राप्यते सुखम् ।

यद्गृहीतो ह्यसत्येन न च शुध्येत कर्हिचित् ॥ ३॥ सत्येनैव विशुध्यन्ति शुद्धिकामाश्च मानवाः । तस्मात्प्रत्र हि यत्सत्यमादिमध्यावसानकम् ॥४॥ एवं तैः समनुज्ञातः सत्यं ब्रूयादशेषतः । तस्मिन्निवेदिते कार्येऽपसार्यो यस्तु कार्यवान् ॥ ५॥ तस्मिन्नुत्सारिते पापे यथावद्धर्मपाठकाः । ॥ ते तथा तत्र कल्पेयुर्विमृशन्तः परस्परम् 11 & 11

आप्तधर्मेषु यत्प्रोक्तं यच्च सानुग्रहं भवेत् । परिषत् संपदश्चैव कार्याणां च बलाबलम् ॥ ७ ॥ प्राप्य देशं च कालं च यच्च कार्यान्तरं भवेत् । परिषच्चिन्त्य तत्सर्वं प्रायश्चित्तं विनिर्दिशेत् ॥ ८ ॥ सर्वेषां निश्चितं यत्स्याद्यच्च प्राणान्न पातयेत् । आहूय श्रावयेदेको यः परिषन्नियोजितः ॥६॥ शृणुष्व भो इदं विप्र यत्त आदिश्यते व्रतम् । तत्तद्यत्नेन कर्तव्यमन्यथा ते वृथा भवेत् ॥१०॥ यदा च ते भवेच्चीणं तदा शुद्धिप्रकाशनम् । कार्य सर्वप्रयत्नेन न शक्त्या विप्रपूजितम् ॥११॥ इत्याङ्गिरसधर्मशास्त्रे प्रायश्चित्तविधानं नाम

तृतीयोऽध्यायः

परिषलक्षणवर्णनम्

[[३०६६]]

चतुर्थोऽध्यायः

परिपल्लक्षणवर्णनम्

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।

तपोनिश्चयसंयोगात्प्रायश्चित्तमिति स्मृतम् ॥ १ ॥ प्रायश्चित्तसमं चित्तं चारयित्वा प्रदीयते । पर्षदा क्रियते यत्तत्प्रायश्चित्तमिति स्मृतम् ॥२॥ चत्वारो वा त्रयो वापि वेदवेदाग्निहोत्रिणः । ये तु सम्यस्थिता विप्राः कार्याकार्यविनिश्चिताः ॥ ३ ॥ प्रायश्चित्तप्रणेतारः सप्तैते परिकीर्तिताः । एकविंशतिभिश्चान्यैः पार्षदत्वं समागतैः ॥४॥ सावित्रीमात्र सारैस्तु चीर्णवेदत्रतैर्द्विजैः । यतीनामात्मविद्यानां ध्यायिनामात्मवेदिनाम् । शिरोव्रतैश्च स्नातानामेकोऽपि परिषद्भवेत् ॥ ५॥ एवं पूर्वं मयाप्युक्तं तेषां ये ये परे परे । स्ववृत्या परितुष्टानां परिषत्त्वमुदाहृतम् ॥ ६ ॥ एषां लघुषु कार्येषु मध्यमेषु च मध्यमा । महापातकचिन्तासु शतशो भूय एव वा

116 11

अत ऊध्वं तु ये विप्राः केवलं नामधारकाः । परिषत्त्वं न तेष्वस्ति सहस्रगुणितेष्वपि ॥८॥ जन्मशारीरविद्याभिराचारेण श्रुतेन च ।

धर्मेण च यथोक्त ेन ब्राह्मणत्वं विधीयते ॥ ६॥

[[३०७०]]

आङ्गिरसस्मृतिः

चित्रकर्म यथाने कैरङ्गैरुन्मील्यते शनैः ।

ब्राह्मण्यमपि तद्वत्स्यात्संस्कारैर्मन्त्रपूर्वकैः ॥१०॥ इत्याङ्गिरसधर्मशास्त्रे परिषलक्षणं नाम चतुर्थोऽध्यायः

पञ्चमोऽध्यायः

प्रायश्चित्तनियन्तृकथनम्

चातुर्वेद्यो विकल्पी च अङ्गविद्धर्मपाठकः । त्रयश्चाश्रमिणो मुख्या पर्पदेषा दशावरा ॥१॥ चतुर्णामपि वेदानां पारगा ये द्विजोत्तमाः । स्वैः स्वैरङ्गैर्विनाप्येते चातुर्वेद्या इति स्मृताः ॥२॥ धर्मस्य पर्षदश्चैव प्रायश्चित्तक्रमस्य च ।

त्रयाणां यः प्रमाणज्ञः स विकल्पी भवेद्विजः ॥३॥ शब्दे छन्दसि कल्पे च शिक्षायां चैव निश्चयः । ज्योतिषामयने चैव सनिरुक्तऽङ्गविद्भवेत् ॥ ४॥ वेदविद्याव्रतस्नात्तः कुलशीलसमन्वितः । !! “अनेक धर्मशास्त्रज्ञः पठ्यते धर्मपाठकः ॥ ५॥

ब्रह्मचर्याश्रमादूर्ध्वमाश्रमाद्वृद्ध उच्यते ।

..

एषामेव तु वृद्धानां य एते संप्रकीर्तिताः परिषद्ब्राह्मणानां च राज्ञां सा द्विगुणा स्मृता

वैश्यानां त्रिगुणा चैव पर्षद्वच्च व्रतं स्मृतम्

॥ ६॥

॥ ७ ॥

॥७॥प्रायश्चित्तनियन्तृकथनम्

[[३०७१]]

ब्राह्मणो ब्राह्मणानां तु क्षत्रियाणां तु पाठकः । वैश्यानां चैव यो प्रष्टा त एव व्रतदाः स्मृताः ॥ ८ ॥ अगुरुः क्षत्रियाणां तु वैश्यानां चाप्ययाजकः । प्रायश्चित्तं समादिश्य तप्तकृच्छ्रं समाचरेत् ॥ ६ ॥ एवमुद्दिश्य वर्णेषु क्षत्रियादिषु दर्शनम् । प्रवृत्तानां तु वक्ष्यामि प्रायश्चित्तमनुत्तमम् ॥१०॥ शूद्रः कालेन शुध्येत गोब्राह्मणहिते रतः । दानैर्वाप्युपवासैर्वा द्विजशुश्रूषणे रतः ॥११॥ अपि वा मार्गमालम्ब्य क्षत्रधर्मेषु तिष्ठतः । अन्तरा ब्राह्मणं कृत्वा ततोऽस्य व्रतमादिशेत् ॥१२॥ तस्माच्छूद्रं समासाद्य तथा धर्मपथे स्थितः । . प्रायश्चित्तं प्रदातव्यं धर्मवेदविवर्जितम् ॥१३॥

.

आपन्नो येन वा धर्मो व्रतं वा येन तुष्यति । ब्राह्मणानां प्रसादेन संतार्यः सर्व एव हि ॥१४॥

इत्याङ्गिरसधर्मशास्त्रे प्रायश्चित्तनियन्तृकथनं नाम पञ्चमोऽध्यायः ।

[[1131]]

[[३०७२]]

आङ्गिरस स्मृतिः

षष्ठोऽध्यायः

प्रायश्चित्ताचारकथनम्

पणे तु पर्षत्कल्पस्य कल्पस्य परिपबलम् । कारिणश्चाप्युपस्थानं बलं सम्यनिवेदितम् ॥१॥ अकल्पा परिषद्यत्र कल्पो वा परिषद्विना । कार्यं वाप्यन्यथोक्तं वा शुद्धिस्तत्रास्य दुर्लभा ॥२॥ परिषत्कल्पतो कार्या यथा सर्वे बलीयसः । भवन्ति न तथा पापं तस्मिन् योगेऽवतीर्यते ॥ ३॥ एवमेतत्समासाद्य तद्योगं च प्रणश्यति । महत्यां चाम्भसि क्षिप्तं यथात्पलवणं तथा ॥४॥ एतद्योगप्रधानाय कार्याणि परिशोधने ।

तद्द्द्रव्यं कर्मसंयोगाद्वक्त्राणामिव शोधने ॥ ५॥ यत्पापं शाम्यमानस्य कर्तुर्धर्मेण शास्त्रतः । तद्वद्गच्छति कार्त्स्न्येन भागशः प्रब्रवीमि ते ॥ ६॥ गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । अन्तः प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ ७ ॥ गुरु राजा यमो वाऽपि शास्ता धर्मेण युज्यते । शास्ता संमुच्यते पापाद्दाहतो भयतः शुभम् ॥ ८ ॥ प्रायश्चित्ते यदा चीर्णे ब्राह्मणे दग्धकिल्बिषे । धर्मं पृच्छामि तत्त्वेन तत्पापं क्व नु तिष्ठति ॥६॥ नैव गच्छति कर्तारं नैव गच्छति पार्षदम् । मारुताकशुसंयोगाज्जलवत्संप्रशीर्यते ॥१०॥

प्रायश्चित्तवर्णनम्

॥११॥

तेषां त्रेताग्निना दग्धं पावकस्य तु धीमतः । नश्यते नात्र संदेहः सूर्यदृष्टिर्हिमं यथा प्रत्रयात्पक्षतो यच्च बाह्य यच्चापि पर्षदः । गच्छतस्तावुभौ मूढौ नरकं तेन कर्मणा ॥१२॥ अजानन् यस्तु चित्र याज्जानन्वाप्यन्यथा वदेत् । उभयोर्हि तयोर्दोषः पक्षयोरुभयोरपि । १३॥ अजानानां च दातॄणामदातॄणां च जानताम् । एवं भवेन्महादोषस्तस्माज्ज्ञात्वा वदेत्सदा ॥१४॥ यत्तु दत्तमजानद्भिः प्रायश्चित्तं समागतैः । तत्पापं शतधा भूत्वा दातृनेवोपतिष्ठति ॥१५॥ ये तु सम्यकस्थिता विप्रा धर्मवेदाङ्गपारगाः । शक्तास्ते तारणे तेषामात्मनोऽनुग्रहस्य च ॥१६॥

इत्याङ्गिरसधर्मशास्त्रे प्रायश्चित्ताचारकथनं नाम षष्ठोऽध्यायः ।

सप्तमोऽध्यायः

पापपरिगणनम्

[[३०७३]]

आर्तानां मार्गमाणानां प्रायश्चितानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते च यान्ति समं तु तैः ॥ १ ॥ तस्मादातं समासाद्य ब्राह्मणं तु विशेषतः । जानद्भिः पर्षदः पन्था न हातव्यः पराङ्मुखैः ॥ २॥

[[१६३]]

[[३०७४]]

आङ्गिरसस्मृतिः

प्रायश्चित्तं वक्तव्यम्

तस्य कार्यो व्रतादेशः प्रमाणार्थं हि दातृभिः । अज्ञानादुपदेष्टव्यः क्रमशः सर्व एव वा ॥३॥ भयादभ्युत्तरेत्कश्चिद्भयातं ब्राह्मणं क्वचित् ।

एवं पापात्समुद्धृत्य तेन तुल्यफलो भवेत् ॥४॥ अनर्थितैरनाहूतैरपृष्टश्च यथाविधि ।

प्रायश्चित्तं न दातव्यं जानद्भिरपि च द्विजैः ॥ ५ ॥ तस्माज्जनैः प्रदातव्यमनुज्ञाप्य च पर्षदम् । न चान्येषु प्रजल्पत्सु चैवं धर्मो न हीयते ॥ ६॥ पातकेषु शतं पर्पत् सहस्र महदादिषु । उपपापेषु पञ्चाशत् स्वल्पं स्वल्पेषु निश्चयः ॥ ७॥ पञ्चमहापातकिनः

ब्रह्महा स्वर्णहारी च सुरापो गुरुतल्पगः ।

एतैः संयुज्यते योऽन्यः पतितैः सह पञ्चमः ॥ ८ ॥

पतिताः

नारीपुरुषहन्ता च कन्यादूषी गवां च हा । चत्वारः पतिता प्रोक्ता यथा वै ब्रह्महादयः ॥ उपपातकास्त्वसंख्यातास्ते च गोन्नादयस्तथा ॥ ६ ॥

इत्याङ्गिरसधर्मशास्त्रे पापपरिगणनं नाम सप्तमोऽध्यायः ।

अष्टमोऽध्यायः

शूद्रान्नस्यगर्हितत्व वर्णनम् प्रतिग्रहे

आहिताग्निस्तु यो विप्रः प्रतिगृह्णाति शूद्रतः । भोक्तॄणां समतां याति तिर्यग्योनिं च गच्छति ॥ १॥

शूद्रान्नभोजने

यस्तु वेदमधीयानो भुङ्क्त े शूद्रान्नमेव च ।

शूद्र े वेदफलं याति शूद्रत्वं च स गच्छति ॥२॥

शूद्रं प्रशस्य स्वस्तिवचने

घ्रात्वा पीत्वा निरीक्ष्याथ स्पृष्ट्वा च प्रतिगृह्य च । प्रशस्य स्वस्ति चेत्युक्त्वा भोक्ता एव न संशयः ॥ ३ ॥ एते दोषा भवन्तीह शूद्रान्नस्य परिग्रहे । अनुग्रहं तु वक्ष्यामि मनुना चोदितं पुरा ॥४॥ आमं वा यदि वा पक शूद्रान्नमुपसेवते । किल्विषं भुञ्जते भोक्ता यश्च विप्रः पुरोहितः ॥५॥

प्रतिगृह्यान्येभ्यो दातव्यम्

गुरुवह्नयतिथीनां तु भृत्यानां तु विशेषतः । प्रतिगृह्य प्रदातव्यं न भुञ्जीत स्वयं ततः ॥ ६॥

शूद्रान्नरसपुष्टाधीयानस्य

शूद्रान्नरसपुष्टस्य चाधीयानस्य नित्यशः । जपतो जुह्वतो वापि गतिरुध्वं न विद्यते

[[11611]]

[[३०७६]]

आङ्गिरसस्मृतिः

पण्मासं भुक्तौ

षण्मासानथ यो भुङ्क्त े शूद्रस्यान्नं निरन्तरम् । जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ ८ ॥ अकृत्वैव निवृत्तिं यः शूद्रान्नान्प्रियते द्विजः । आहिताग्निर्विशेषेण स शूद्रगतिभाग्भवेत् ॥६॥ पक्कान्नवर्ज विप्रेभ्यो गोधान्यं क्षत्रियादपि । वैश्यात्तु सर्वधान्यानि शूद्राद्धान्यं न किंचन ॥१०॥ अनूदकं तु तत्सर्वं गन्धमाल्यविवर्जितम् । यथा वर्णेषु यद्दत्तं प्रतिगृहीत वै द्विजः ॥११॥ यत्तु क्षेत्रगतं धान्यं खले वा कण एव वा । सार्वकालं ग्रहीतव्यं शूद्रादप्यङ्गिरोऽब्रवीत् ॥१२॥ सत्पात्रे समनुज्ञातं दुग्धं यच्छुचिना भवेत् । यथा चौषधिकृत्यं स्यादध्ना वा पयसापि वा ॥१३॥ पात्रेभ्योऽपि तथा ग्राह्यं शूद्रेभ्यः प्राकृतादपि । शूद्रवेश्मनि विप्राणां क्षीरं वा यदि वा दधि ॥१४॥ निवृत्तेन न पातव्यं शूद्रान्नसदृशं हि तत् । अग्न्यगारे गवां गोष्ठे नदीविप्रगृहेषु च ॥१५॥ कूपस्थाने तथारण्ये पेयं चैव पयो दधि । आमं मांसं दधि घृतं धान्यं क्षीरमथौषधम् ॥१६॥ गुडो रसस्तथोदश्विद्भोज्यान्येतानि नित्यशः । अशृतं चारनालं च ताम्बूलं सक्तवस्तिलाः ॥१७॥

अभक्ष्यभक्षणप्रायश्चित्तवर्णनम्

[[३०७७]]

फलानि पिण्याकमथो ग्राह्यमौषधमेव च । अप्रणोद्यानि मेध्यानि प्रतिग्राह्याणि नित्यशः ॥१८॥ सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः । । पिबेत्पानीयमज्ञानाद्भुङ्क्त वा संस्पृशेत वा ॥ १६ ॥

पानीयपाने कुर्वीत पञ्चगव्यस्य प्राशनम् । त्रिरात्रोपोषणं भुङ्क्त े स्पर्शे स्नानं विधीयते ॥२०॥

इत्याङ्गिरसधर्मशास्त्रे शूद्रान्नादिनिषेधकथनं नामाष्टमोऽध्यायः ।

नवमोऽध्यायः

अभक्ष्याभक्षणप्रायश्चित्तम्

अन्तर्दशाहे भुक्त्वान्नं सूतके मृतकेऽपि वा । दशरात्रं पिबेद्व ब्राह्मणो ब्राह्मणस्य तु ॥ १॥ क्षत्रियस्यार्धमासं तु विशः पञ्चाधिकं तथा । शूद्रस्यैव तु भुक्त्वान्नं त्रिभिर्मासैर्व्यपोहति ॥ २ ॥ आहिताग्निस्त्रिरात्रेण ब्रह्मक्षत्रविशामपि ।

पञ्चरात्रं चरेद्भुक्त्वा श्रोत्रियस्याग्निहोत्रिणः ॥ ३ ॥ अत ऊध्वं तु स्नातानां मासाशौचं न विद्यते । दीक्षितानां च सर्वेषां राज्ञां सर्वनिधेस्तथा ॥ ४ ॥

[[३०७८]]

आङ्गिरसस्मृतिः

ससत्रे दानधर्मे च पद्ममन्नं तु गर्हितम् । पश्चरात्रं चरेद्वज्र पडहं मध्यमाचरेत् ॥५॥ तथा चान्येष्वभोज्येषु त्र्यहमेवं समाचरेत् । अनापत्सु चरेभैक्ष्यं सिद्ध वस्तु गृहे वसन् ॥ ६ ॥ दशरात्रेचरेद्वज्रमापत्सु च त्र्यहं चरेत् । पतितानां च सर्वेषां भुक्त्वा चान्द्रायणं चरेत् ॥ ७ ॥ प्रतिमासदिनं हृष्टमन्यथा पतितो भवेत् । प्रतिसंवत्सरं वापि श्रोत्रियस्य भवेदिदम् ॥ ८ ॥ ब्रह्मचारी यतिश्चापि विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च पडेते भिक्षुकाः स्मृताः ॥६॥ व्याधितस्य दरिद्रस्य कुटुम्बात्प्रच्युतस्य च । अध्वानां वा प्रयातस्य भैक्ष्यचर्या विधीयते ॥१०॥ ब्रह्मचारी शुना दष्टस्त्र्यहमेवं समाचरेत् । गृहस्थस्तु द्विरात्रं वाप्येकाहं वाग्निहोत्रवान् ॥११॥ नाभेरूध्वं तु दृष्टस्य तदेव द्विगुणं भवेत् । तदेव द्विगुणं वक्त्रे मूर्ध्नि चैव चतुर्गुणम् ॥१२॥ अत ऊर्ध्वं तु यत्स्नातः स्नानेनैव विशुध्यति । सर्वेष्वेवावकाशेषु तदा प्रत्रजितः स्वयम् ॥१३॥ अव्रती सव्रती वापि शुना दष्टस्तथा द्विजः । दृष्ट्वाग्निं हूयमानं तु सद्य एव शुचिर्भवेत् ॥१४॥ ब्राह्मणी तु शुना दष्टा सोमे दृष्टि निपातयेत् । यदा न दृश्यते सोमः प्रायश्चित्तं कथं भवेत् ॥१५३॥

हिंसाप्रायश्चित्तकथनम्

[[३०७६]]

यां दिशं तु गतः सोमस्तां दिशं तु विलोकयेत् । सोममार्गेण सा पूता पश्चगव्येन शुध्यति ॥१६॥ इत्याङ्गिरसधर्मशास्त्रे अभक्ष्यभक्षणप्रायश्चित्तविधिर्नाम

नवमोऽध्यायः ।

दशमोऽध्यायः

हिंसाप्रयश्चित्तकथनम्

दण्डादूर्ध्वं तु यत्नेन प्रहरेत्तु निपातयेत् । द्विगुणं गोत्रतं तस्य प्रायश्चित्तं विधीयते ॥ १॥

दण्डलक्षणम्

अङ्गुष्ठमात्रं स्थूलः स्याद्वाहुमात्रप्रमाणतः । सार्द्रश्च सपलाशश्च दण्ड इत्यभिधीयते ॥२॥

गवां रोधनादिना मरणे

रोधने बन्धने वापि योजने वा गवां रुजा । उत्पन्ने मरणे वापि निमित्तं तत्र विद्यते ॥ ३ ॥ पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्याच्चरेत्सवं निपातने ॥ ४ ॥

न नारिकेलेन न फालकेन

न मौञ्जिना नापि च वल्कलेन ।

एतैश्च गावो न हि बन्धनीया

बध्वा तु तिष्ठेत्परशुं प्रगृह्य ॥ ५ ॥

[[३०८०]]

आङ्गिरसस्मृतिः

कुशकाशैस्तु बध्नीयादूर्ध्वं दक्षिणतोमुखम् । पाशलग्ने तथा दाहे प्रायश्चित्तं न विद्यते ॥ ६॥ यदि तत्र भवेच्छोकः प्रायश्चित्तं कथं भवेत् । जपित्वा पावमानीयं मुच्यते सर्वकिल्बिषात् ॥ ७ ॥ अस्थिभङ्गं गवां कृत्वा ललङ्गूलच्छेदनं तथा । पातनं चैव शृङ्गस्य मासाधं यावकं पिबेत् ॥ ८ ॥ व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गश्च पाणिना । यवसश्चोपहर्तव्यो यावद्र ढव्रणो भवेत् ॥६॥ अस्थिभङ्गे तथा शृङ्गकटिभङ्गे तथैव च । यावज्जीवति पण्मासान् प्रायश्चित्तं न विद्यते ॥१०॥ शृङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्मोचने तथा । दशरात्रं पिबेद्वत्रं यावत्स्वस्ति भवेत्तदा ॥११॥ अन्यत्राङ्कनलक्ष्मभ्यां वाहनिर्मोचने तथा । सायं संगोपनार्थं तु न दुष्येद्रोधबन्धयोः ॥१२॥ यन्त्रेण गोचिकित्सार्थं मूढगर्भविमोचने । यत्ने कृते विपद्य ेत न दोषस्तत्र विद्यते ॥१३॥ औषधं स्नेहमाहारं दद्याद्गोब्राह्मणे हितम् । प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते ॥१४॥ गजे वाजिनि वा व्याघ्र खड्गे श्याममृगे वृके । सिंहे शुनि वराहे च मयूरे पक्षिणामपि ॥१५॥ काके हंसे च गृध्रे च टिट्टिभे खञ्जरीटके । यथा गवि तथा विन्द्याद्भगवान्मनुरब्रवीत् ॥१६॥गोवधप्रायश्चित्तकथनम्

मोहाद्विरूढमाचार्यप्रत्यावृत्तौ तु यो द्विजः ।

[[३०८१]]

प्रायश्चित्तं न मृग्येत शृणु तस्यापि यो विधिः ॥१७॥ विहितं यदकामानां कामात्तद्विगुणं भवेत् । पश्चात्तु दह्यात्तापेन कृत्वा पापानि मानवः ॥१८॥ धनत्यागं गृहे कृत्वा सर्वत्यागेन शुध्यति । द्रव्यैर्वा विपुलैर्विप्रान् तोपयेद्यः सुनिश्चितम् ॥१६॥ बालवृद्धाङ्गनानां प्रायश्चित्तम्

तन्नार्यः कामतः प्राप्ताः पापमर्थं समादिशेत् । अर्वाक्तु द्वादशादब्दात् पुरुषो धर्मभाग्भवेत् ॥२०॥ अशीतिर्यस्य चापूर्णा वर्षाधं सकलो विधिः । प्रायश्चित्तस्य ये क्लीवबालवृद्धाङ्गनादयः ॥ तेषु सर्वेषु संचिन्त्य पादमेकं समाचरेत् ॥२१ इत्याङ्गिरसधर्मशास्त्रे हिंसाप्रायश्चित्तकथनं नाम दशमोऽध्यायः ।

एकादशोऽध्यायः

गोवधप्रायश्चित्तकथनम्

उपपातकसंयुक्तो गोघ्नो भुञ्जीत यावकम् । अक्षारलवणं रूक्षं षष्ठे कालेऽस्य भोजनम् ॥ १ ॥ कृतावापो वने गोष्ठे चर्मणा तेन संवृतः । द्वौ मासौ स्नानमभ्यङ्गं गोमूत्रेण विधीयते ॥२॥

[[३०८२]]

आङ्गिरसस्मृतिः

॥५॥

पादशौच क्रिया कार्या अद्भिः कुर्वीत केवलम् । व्रतिवद्धारयेद्दण्डं समन्त्रां मेखलां तथा ॥३॥ गाश्चैवानुव्रजेन्नित्यं रजस्तासां सदा पिवेत् । तिष्ठन्तीष्वनुतिष्ठेच्च व्रजन्तीष्वप्यनुव्रजेत् ॥४॥ शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् । गोमतीं च जपेद्विद्वानोंकारं वेदमेव च आतुरामभिशस्तां वा चोरव्याघ्रादिभिर्भयैः । पतितां पङ्कलग्नां वा सर्वप्राणैर्विमोक्षयेत् ॥ ६॥ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा स्वशक्तितः ॥७॥ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्तीं न कथयेत् पिवन्तं चैव वत्सकम् ॥ ८ ॥ अनेन विधिना गोघ्नो यस्तु गा अनुगच्छति । स गोहत्यात्मकात् पापान्मुच्यते नात्र संशयः ॥ ६॥ ऋषभैकादशा गाश्च दद्यात्सुचरितत्रतः ।

अविद्यमाने सर्वस्वं वेदविद्भयो निवेदयेत् ॥१०॥ एतेषां विहितं पुण्यं कृच्छ्रमङ्गिरसा स्वयम् । धर्मविद्भिरनूचानैरुपपातकनाशनम् ॥११॥

इत्याङ्गिरसधर्मशास्त्रे गोवधप्रायश्चित्तं

नामैकादशोऽध्यायः ।

द्वादशोऽध्यायः

कृच्छ्रादिस्वरूपकथनम्

अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् । यमधीत्य विमुञ्चन्ति श्रुत्वा स्मृत्वा च वै द्विजाः ॥ १॥ सदा त्रिषवणं स्नायात् सकृत्स्नात्वा पयः पिबेत् । प्रातः स्नात्वा समारम्भं कुर्याज्जप्यं तु नित्यशः ॥ २ ॥ सावित्रीं व्याहृतीं वापि जपेदष्टसहस्रकम् । ओंकारमादितः कृत्वा रूपे रूपे तथान्तरम् ॥ ३॥ स्थानं वीरासनं सक्तः कुर्यादासनमेव वा । आसनं शल्यविद्धं स्यादमधःशायी भवेत्सदा ॥४॥ गव्यस्य पयसोऽलाभे गव्यमेव भवेद्दधि । दध्यभावे भवेत्तक्र तक्राभावे तु यावकम् ॥ ५ ॥ एषामन्यतमं यच्चाप्युपपद्य ेत तत्पिबेत् । गोमूत्रेण तु संयुक्तं यावकं तत्पिबेद्विजः ॥ ६॥ एतत्तु विहितं पुण्यं कृच्छ्रमङ्गिरसा स्वयम् । प्रणवात्तु समारम्भो नाम्ना वज्रमिति स्मृतम् ॥ ७ ॥ एतत्पातकयुक्तानां प्रायश्चित्तं विधीयते । महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः ॥ ८ ॥ अथोपपातकाश्चिन्त्यास्तथा कालं समादिशेत् । कालस्य तु यथोक्तस्य ब्राह्मणस्तत्र कारणम् ॥ ६॥

[[३०८४]]

आङ्गिरसस्मृतिः

ब्राह्मणा एव च क्षेत्रं ब्राह्मणा एव दैवतम् । ब्राह्मणानां प्रसादेन सूर्यो दिवि विराजते ॥१०॥ न ब्राह्मणसमं क्षेत्रं न ब्राह्राणसमोऽनलः । विधिर्न ब्राह्मणादूध्वं न दैवं ब्राह्मणात्परम् ॥११॥ जपतां जुह्वतां चैव यच्छतां च सतामपि । क्षेत्रोऽग्नेस्तु सुसंभूतो ब्राह्मणोऽद्य विशिष्यते ॥१२॥ न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥१३॥

देवतापितृभूतानां काचिद्भवति कस्यचित् । ब्राह्मणे देवताः सर्वाः स च सर्वस्य देवता ॥ १४ ॥ यो हि यां देवतामिच्छेदाराधयितुमव्ययम् ।

सर्वोपायप्रयत्नेन तोषयेद्ब्राह्मणान् सदा ॥१५॥

समस्तसंपत्समवाप्तिहेतवः

समुत्थितापत्कुलधूमकेतवः ।

अपारसंसारसमुद्रसेतवः

पुनन्तु मां ब्राह्मणपादपांसवः ॥१६॥

इत्याङ्गिरसधर्मशास्त्रे कृच्छ्रादिस्वरूपकथनं नाम

द्वादशोऽध्यायः ।

इत्युत्तराङ्गिरसम् इत्याङ्गिरसस्मृतिः ।

॥ श्रीगणेशाय नमः ॥