…
॥ श्रीगणेशायनमः ॥
अथ प्रायश्चित्तवर्णनम् ।
अथातो ह्यस्य धर्मस्य प्रायश्चित्ताभिधायकम् । चतुर्णामपि वर्णानां धर्मशास्त्रं प्रवर्त्तते ॥ १
जलाग्न्युद्बन्धनभ्रष्टाः प्रब्रज्यानशनच्युताः । विषप्रपतनप्रायशस्त्रघातच्युताश्च ये ॥२ सर्वे ते प्रत्यवसिताः सर्वलोकवहिष्कृताः । चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥३ उभयावसिताः पापा येऽग्राम्यशरणच्युताः । इन्दुद्वयेन शुध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥४ गोब्राह्मणहनं दग्धामृतमुद्वन्धनेन च ।
पाशं तस्यैव छित्त्वा तु तप्तकृच्छ्रं समाचरेत् ॥५
[[२०८४]]
यमस्मृतिः ।
कृमिभिव्रण संभूतैर्मक्षिका श्रोपधातितः ।
कृच्छ्राद्धं संप्रकुर्वीत शक्त्या दद्यात्तु दक्षिणाम् ॥६ ब्राह्मणस्य मलद्वारे पूयशोणितसम्भवे । कृमिभुक्तत्रणे मौञ्जीहोमेन स विशुध्यति ॥ ७ यः क्षत्रियस्तथा वैश्यः शूद्रश्चाप्यनुलोमजः । ज्ञात्वा भुङ्क्ते विशेषेण चरेच्चान्द्रायणं व्रतम् ॥८ कुक्कुटाण्डप्रमाणन्तु प्रासश्च परिकल्पयेत् । अन्यथाहारदोपेण न स तत्र विशुध्यति ॥६ एकैकं वर्द्धयेच्छुक्ले कृष्णपक्षे च ह्रासयेत् । अमावास्यां न भुञ्जीत एष चान्द्रायणोविधिः ॥१० सुरान्यमद्यपानेन गोमांसभक्षणे कृते । तप्तकृच्छ्रध्वरेद्विप्रस्यत्पापस्तु प्रणश्यति ॥११ प्रायश्चित्ते पक्रान्ते कर्ता यदि विपद्यते । पूतस्तदहरेवापि इहलोके परत्र च ॥ १२ यावदेकः पृथक् द्रव्यः प्रायश्चित्तेन शुध्यति । अपरास्ते न च स्पृश्यास्तेऽपि सर्वे विगर्हिताः ॥ १३ अभोज्याश्चाप्रतिग्राह्या असंपाठ्या विवाहिनः । पूयन्तेऽनुत्रते चीर्णे सर्वे ते ऋक्थभागिनः ॥ १४ ऊनैकादशवर्षस्य पञ्चवर्षात् परस्य च ।
प्रायश्चित्तं चरेद् भ्राता पिता वान्योऽपि बान्धवः ॥१५
अतोबालतरस्यापि नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥१६प्रायश्चित्तवर्णनम् ।
अशीतीर्यस्य वर्षाणि बालोवाप्यून षोडशः । प्रायश्चित्तार्द्ध मर्हन्ति स्त्रियोरोगिण एव च ॥१७ अस्तंगतो यदा सूर्यश्चाण्डालरजकस्त्रियः । संस्पृष्टास्तु तदा कैश्चित् प्रायश्चित्तं कथं भवेत् ॥ १८ जातरूपं सुवर्णश्च दिवानीतं च यज्जलम् ।
तेन स्नात्वा च पीत्वा च सर्वे ते शुचयः स्मृताः ॥ १६ दासनापितगोपाल कुलमित्रार्द्ध सीरिणः ।
एते शूद्रेषु भोज्यान्ना यश्चात्मनं निवेदयेत् ॥२० अन्नं शूद्रस्य भोज्यं वा ये भुञ्जन्त्यबुधा नराः । प्रायश्चित्तं तथा प्राप्तं चरेश्चान्द्रायणं व्रतम् ॥२१ प्राप्ते द्वादशमे वर्षे यः कन्यां न प्रयच्छति । मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥२२ माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥२३ यस्तां विवाहयेत् कन्यां ब्राह्मणो मदमोहितः । असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः ॥२४ वन्ध्या तु वृषली ज्ञेया वृषली तु मृतप्रजाः । शूद्री तु वृषली ज्ञेया कुमारी तु रजस्वला ॥२५ यत् करोत्येकरात्रेण वृषलीसेवनाद् द्विजः । तद्भैक्षभुग् जपन्नित्यं त्रिभिर्वर्षैव्यपोहति ॥२६ स्ववृषं या परित्यज्यान्यवृषेण वृहस्पतिः । वृषली सा तु विज्ञेया न शूद्री वृपली भवेत् ॥७२
[[२०८५]]
}
[[२०८६]]
यमस्मृतिः ।
वृषलीफेनपीतस्य निःश्वासोपहतस्य च । तस्यान्चैव प्रसूतस्य निष्कृतिनैव विद्यते ॥२८ श्वित्रकुष्ठी तथा चैव कुनखी श्यावदन्तकः । रोगी हीनातिरिक्ताङ्गः पिशुनोमत्सरस्तथा ॥ २६ दुर्भगो हि तथा षण्डः पाषण्डी वेदनिन्दकः । हैतुकः शूद्रयाजी च अयाज्यानाच याजकः ॥३० नित्यं प्रतिग्रहे लुब्धोयाचकोविषयात्मकः । श्यावदन्तोऽथ वैद्यश्च असदालापकस्तथा ॥ ३१ एते श्राद्ध
े च दाने च वर्जनीयाः प्रयत्नतः ॥ ३२ ततोदेवलकश्वव भृतकोवेदविक्रयी ।
एते वर्ज्याः प्रयत्नेन एतद्भास्वतिरब्रवीत् ॥३३ एतान्नियोजयेद्यस्तु हव्ये कव्ये च कमणि । निराशाः पितरस्तस्य यान्ति देवामहर्षिभिः ॥३४ अप्रे माहिषिकं दृष्ट्रा मध्ये तु वृषलीपतिम् । अन्ते वार्धुषिकं दृष्ट्रा निराशाः पितरोगताः ॥ ३५ महिषीत्युच्यते भार्या या चैव व्यभिचारिणी । तान् दोषान् क्षमते यस्तु स वै माहिषिकः स्मृतः ॥३६ समार्धन्तु समुद्धृत्य महाघं यः प्रयच्छति । स वै वार्धुषिकोनाम ब्रह्मवादिषु गर्हितः ॥ ३७
यावदुष्णं भवत्यन्नं यावद्भुञ्जन्ति वाग्यताः । अश्नन्ति पितरस्तावद्यावन्नोक्ता हविर्गुणाः ॥ ३८
प्रायश्चित्तवर्णनम् ।
हविर्गुणा न वक्तव्याः पितरोयत्र तर्पिताः ।
पितृभि स्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥३६ यावतो प्रसते ग्रासान् हव्यकव्येषु मन्त्रवित् । तावतोग्रसते पिण्डान् शरीरे ब्रह्मणः पिता ॥४० उच्छिष्टोच्द्रिसंस्पृष्टः शुना शूद्रेण वा द्विजः । उपोष्य रजमीमेकां पञ्चगव्येन शुध्यति ॥४१ अनुच्छिष्टेन संस्पृष्टं स्नानमात्रं विधीयते । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥४२ यावद्विप्रा न पूज्यन्ते सम्भोजनहिरण्यकैः । तावच्चीर्णव्रतस्यापि तत्पापं न प्रणश्यति ॥४३
[[२०८७]]
यद्वेष्टितं काकबलाकचिल्लरमेध्यलिप्तं तु भवेच्छरीरम् । गात्रे मुखे च प्रविशेच्च सम्यक् स्नानेन लेपोपहतस्य शुद्धिः ॥४४
ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते ।
ऊभ्वं स्नानमधः शौचं तन्मात्रेणैव शुध्यति ॥४५ अभक्ष्याणामपेयानामलेह्यानाश्च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥४६ पद्मोडुम्बरविल्वाश्च कुशाश्वत्थपलाशकाः । एतेषामुदकं पीत्वा षड्रात्रेणैव शुध्यति ॥४७ यः प्रत्यवसितोविप्रः प्रव्रज्याग्निर्निरापदि । अनाहिताग्निर्वर्त्तेत गृहित्वञ्च चिकीर्षति ॥४८ आचरेत्त्रीणि कृच्छ्राणि चरेचान्द्रायणानि च । जातकर्मादिभिः प्रोक्तैः पुनः संस्कारमर्हति ॥४६
[[१३१]]
[[२०८८]]
यमस्मृतिः ।
तूलिका उपधानानि पुष्पं रक्ताम्बराणि च । शोषयित्वा प्रतापेन प्रोक्षयित्वा शुचिर्भवेत् ॥५० देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थाश्च ज्ञात्वा धर्म समाचरेत् ॥५१ रथ्याकद्दमतोयानि नावायस तृणानि च । मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च ॥ ५२ आतुरे स्नानसम्प्राप्ते दशकृत्वोह्यनातुरः ।
स्नात्वा स्नात्वा स्पृशेत्तन्तु ततः शुध्येत आतुरः ॥५३ रजकश्चर्मकारश्च नटोवरुड़ एव च ।
कवर्त्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥५४ एषां गत्वा तु योषां वै तप्तकृच्छ्रं समाचरेत् ॥ ५५ स्त्रीणां रजस्वलानान्तु स्पृष्टास्पृष्टि यदा भवेत् । प्रायश्चित्तं कथं तासां वर्णे वर्णे विधीयते ॥ ५६
।
स्पृष्टा रजस्वला यान्तु सगोत्राव सभर्त्तृ काम् । कामादकामतो वापि स्नात्वा कालेन शुध्यति ॥५७ स्पृष्ट्रा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा । कृच्छ्र ेण शुध्यते पूर्वा शूद्रा पादेन शुध्यति ॥५८ स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया शद्रजा तथा । पादहीनं चरेत् पूर्वा पादार्द्ध न्तु तथोत्तरा ॥५६ स्पृष्टा रजस्वलान्योन्यं वैश्यजा शूद्रजा तथा । कृच्छपादं चरेत् पूर्वा तदर्द्धन्तु तथोत्तरा ॥ ६०
प्रायश्चित्तवर्णनम् ।
स्पृष्टा रजश्वला चैव श्वाजजम्बूकरासभैः । तावत्तिष्ठेन्निराहारा स्नात्वा कालेन शुध्यति ॥ ६१ स्पृष्टा रजस्वला कैश्चिचाण्डालैररजस्वला । प्राजापत्येन कृच्छ्रेण प्राणायामशतेन च ॥ ६२ विप्रः स्पृष्टोनिशायाश्च उदक्या पतितेन च । दिवानीतेन तोयेन स्रापयेचामिसन्निधौ ॥६३ दिवाकं रश्मिसंस्पृष्टं रात्रौ नक्षत्ररश्मिभिः । सन्ध्योभयोश्च सन्ध्यायाः पवित्रं सर्वदा जलम् ॥६४ अपः करनखस्पृष्टाः पिबेदाचमने द्विजः । सुरां पिबति सुव्यक्तं यमस्य वचनं यथा ॥ ६५ खातवाप्योस्तथा कूपे पाषाणैः शस्त्रघातनैः । यष्ट्या तु घातने चैव मृत्पिण्डे गोकुलेन च ॥ ६६ रोधने बन्धने चैव स्थापिते पुष्कले तथा । काष्ठे वनस्पतौ रोधसङ्कटे रज्जुवस्त्रयोः ॥ ६७ एतत्ते कथितं सवं प्रमादस्थानमुत्तमम् । यत्र यत्र मृता गावः प्रायश्चित्तं समाचरेत् ॥ ६८ दारुणा घातने कृच्छ्र पाषाणैर्द्विगुणं भवेत् । अर्द्ध कृच्छ्रन्तु खाते स्यात् पादकृच्छ्रन्तु पादपे ॥ ६६ शस्त्रघाते त्रिकृच्छ्राणि यष्टिघाते द्वयं चरेत् ॥७० कृच्छ्र ेण वस्त्रघातेऽपि गोघ्नश्चेति विशुध्यति । योवर्त्तयति गोमध्ये नदीकान्तारमन्तिके ॥ ७१
[[२०८६]]
[[1]]
[[२०६०]]
यमस्मृतिः ।
रोमाणि प्रथमे पादे द्वितीये श्मश्रु वापयेत् ।
।
तृतीये तु शिखा धार्या चतुर्थे सशिखं वपेत् ॥७२ न स्त्रीणां वपनं कुर्यात् न च सा गामनुव्रजेत् । नच रात्रौ वसेद्गोष्ठे न कुर्याद् वैदिकी श्रुतिम् ॥७३ सर्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम । एवमेव तु नारीणां शिरसो वपनं स्मृतम् ॥७४ मृतकेन तु जातेन उभयोः सूतकं भवेत् । पातकेन तु लिप्तेन नास्य सूतकिता भवेत् ॥७५ चत्वारि खलु कर्माणि सन्ध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रां स्वाध्यायश्च चतुर्थकम् ॥७६ आहाराज्जायते व्याधिः क्रूरगर्भश्च मैथुने ।
निद्रा श्रियो निवर्त्तन्ते स्वाध्याये मरणं ध्रुवम् ॥७७ अज्ञानात्तु द्विजश्रेष्ठ ! वर्णानां हितकाम्यया । मया प्रोक्तमिदं शास्त्रं सावधानोऽवधारय ॥७८
इति यमप्रोक्तं धर्मशास्त्रं समाप्तम् ।
ॐ तत्सब्रह्मणे नमः ।
॥ 3727 ॥