व्याघ्रपादस्मृतिः

तत्रादौ स्मृतिमहत्त्ववर्णनम्

॥ ॥

ऋषिमेकान्तमासीनं व्याघ्रं मतिमतां वरम् । पप्रच्छुर्मुनयः सर्वे धर्मशास्त्रकथानकम् ॥ १ ॥ हुताग्निहोत्रं विधिवत् व्याघ्र वेदविदां वरम् । सर्वशास्त्रविधिं ज्ञात्वा ऋषिभिश्चनमस्कृतम् ॥ २ ॥ नमस्कृत्य च ते सर्वे इदं वचनमब्रुवन् । हितार्थं सर्वलोकानां भगवन् कथयस्व नः ॥ ३ ॥ वेदतत्त्वार्थतत्त्वज्ञा यन्मां पृच्छथ संशये । ते सर्वे संप्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ॥ ४ ॥ सर्वतीर्थान्युपस्पृश्य सर्वान्वेदान्प्रणम्य च । जप्त्वा तु सर्वसूक्तानि सवशास्त्रानुसारतः ॥ ५ ॥ सर्वपापहरं दिव्यं सर्वसंशयनाशनम् । चतुर्णामपि वर्णानां व्याघ्रः शास्त्रमकल्पयत् ॥ ६ ॥ ये च पापकृतोलोके ये चान्ये धर्मदूषकाः । सर्वपापैः प्रमुच्यन्ते श्रुत्वेदं शास्त्रमुत्तमम् ॥ ७ ॥ तस्मादिदं वेदविद्भिरध्येतव्यं प्रयत्नतः ।

शिष्येभ्यश्च

[[१५६]]

प्रवक्तव्यं सवृत्तेभ्यश्चसर्वतः ॥ ८ ॥

प्रवक्तव्यं

[[२४६२]]

व्याघ्रपादस्मृतिः

आचारं चैव सर्वेषां कार्याणां च विनिर्णयम् ।

यथाक्रमं यथायोग्य वक्त मर्हस्यशेषतः ॥ ६ ॥ भगवन् सर्ववर्णानां यथावदनुपूर्वशः ।

अन्तरं च प्रभावानां धर्मान्नो वक्तुमर्हसि ॥ १०॥ युगेयुगे च सामथ्यं विशेषं मुनिभाषितम् । व्याघ्र ेण च यथाप्रोक्तं प्रायश्चित्तं प्रदीप्यते ॥ ११॥ युगेयुगे च ये धर्मास्तेषु तेषु च ये द्विजाः । तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥ १२ ॥ अकृते वैश्वदेवे तु ये भुंजन्ति द्विजातयः । वृथा ते तेन पाकेन काकयोनिं व्रजन्ति वै ॥१३॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एतेषां तु हितार्थाय व्याघ्रः शास्त्रमकल्पयत् ॥ १४ ॥ योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ १५॥ भानौभौमे त्रयोदश्यां नंदाभृगुमघासु च । । पिंडदानं मृदास्नानं न कुर्यात्तिलतर्पणम् ॥१६॥ पक्षयोरुभयोर्वापि सप्तम्यां निशि सन्ध्ययोः । विद्यापुत्रकलत्रार्थी तिलान् सप्तसु वर्जयेत् ॥१७॥ विवाहे चोपनयने चौले सति यथाक्रमम् । वर्षमधं तदधं वा

तदधं वा नेत्येके तिलतर्पणम् ॥ १८ ॥ वृद्धौ सत्यां च तन्मासि नेत्याहुस्तिलतर्पणम् । तीर्थे तिथिविशेषे च गयायां प्रेतपक्षके ॥ १६ ॥

आचारधर्मवर्णनं, श्राद्धवर्णनश्च

निषिद्ध ेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम् । तिथितीर्थं विशेषे तु कायं प्रेते च सर्वदा ॥२०॥

देवानृपो पितृ श्चैव तर्पयेत्तु

प्रयत्नतः ।

[[२४६३]]

आचम्य मार्जनं कुर्यात्ततः प्राणान्समापयेत् ॥२१॥ अग्रजन्मगृहे प्राप्त श्राद्ध सतिलकं भवेत् । तिलकेनविनाकार्यं पितृकर्म निरर्थकम् ॥२२॥ अग्रजन्मैः सदाकायं श्राद्ध सतिलकं तथा । श्रौतस्मार्तानि कर्माणि तिलकेन समाचरेत् ॥२३॥ मृत्तिका गोशकृत् दर्भा उपवीतोत्तरीयकम् । दद्याद्विप्रत्वमाप्नोति श्राद्धकाले विशेषतः ॥२४॥ गोपीचन्दनखण्डांश्च यो दद्याद्ब्राह्मणे यदि । अपि सर्षपमात्रेण ब्रह्महत्यां व्यपोहति ॥२५॥ मृदं यज्ञोपवीतं च श्राद्ध े दद्यात्प्रयत्नतः । उच्छिष्ट शिवनिर्माल्यं कुर्याच्छ्राद्ध विशेषतः ॥२६॥ निषिद्धानि च वाक्यानि शूद्राणां योषितां तथा । शून्यमुखेन कर्तव्यं श्राद्धं कर्म यथाविधि ॥२७॥ श्राद्धं कुर्यात्तु शूद्रोऽपि शून्यं कुर्याल्ललाटकम् । ललाटे तिलकं दृष्ट्वा निराशाः पितरोगताः ॥२८॥ शूद्रणतिलकं कृत्वा श्राद्धकर्मसु यत्कृतम् । निष्फलं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठति ॥२६॥ यो यस्य विहितो धर्मस्तेनधर्मेण कारयेत् । विपरीतं चरेद्यस्तु किल्विषी स निगद्यते ॥३०॥

[[२४६४]]

व्याघ्रपादस्मृतिः

देवानम्यर्च्यगंधेन त्रिपुंड

पापनाशनम् ।

तिलकेन विना श्राद्धं तत्सर्वं निष्फलं भवेत् ॥३१॥ " तिलकेन विना सन्ध्या तिलकेन विना जपः ।" अंगवंगकलिङ्गाश्च तैलङ्गा द्राविड़ास्तथा ।

सदा शून्यमुखा ज्ञेया देशधर्मानुसारतः ॥३२॥ अन्ये च बहवोधर्मा देशेदेशे व्यवस्थिताः । ते ते धर्माः सदाकार्या व्याघ्रस्य वचनं यथा ॥३३॥ श्राद्धकाले तथा दाने होमे देवार्चने तथा । विधिवत्तिलकं कुर्यान्मृदा वा चन्दनेन वा ॥ ३४ ॥ धारयेदूर्ध्वपुड़ तु स्नानान्ते च विशेषतः । तर्पणे होमकाले च सायं प्रातः समाहितः ॥३५॥ तिर्यक्पुंड न कुर्वीत यावद्धोमं समाचरेत् ।

शिलागन्धानुलेपेन

मार्जारोच्छिष्टभोजनात् ॥ ३६ ॥

स्वरूपदर्शनादप्सु भाग्यहीनोभवेन्नरः ।

शुभ्रं वृतं विप्रैस्तु क्षयार्थे कुरुवीक्षणम् ॥३७॥ ललाटै यैः कृतं नित्यं मृदाचन्दनभस्मना । धारयेदृध्यपुंड तु स्नानान्ते च विशेषतः ॥३८॥ गृहानागत्य होमांते भस्मना च त्रिपुण्ड्रकम् । स्नात्वापुण्ड’ मृदा कुयात् होमं कृत्वा तु भस्मना ॥३६॥ “देवानभ्यर्च्य गंधेन त्रिपुंड पापनाशनम् ॥” आशौचेपि न चाभ्यङ्ग विवाहे चन्दनादिना ।

ऊर्ध्वपुंड्र सदाकार्यं श्रौते स्मार्ते च कमणि ॥४०॥

आचारधर्मवर्णनम्

सूतके समनुप्राप्त वर्जनीयः प्रयत्नतः । मृत्तिका चन्दनं भस्म तथा तोयं चतुर्थकम् ॥४१॥ एमिद्रव्यैर्यथाकालं तिलकं तु समाचरेत् । देवानां च तथा शैवे नाभ्यंगे न च शूद्रतः ॥ ४२॥

अभ्यङ्गाद्धरते लक्ष्मीं शूद्रस्य नरकं

[[२४६५]]

ध्रुवम् । तर्जनीं रौप्यसंयुक्तां ब्रह्मग्रन्थियुतां शिखाम् ॥४३॥

भोजने मैथुने मृत्रे कृत्वा कृच्छ्रं समाचरेत् । तर्जन्यां च धृतं रौप्यं ब्रह्मग्रन्थौ च मूर्द्धनि ॥ ४४॥ भोजने मैथुने मूत्रे कुर्वन् कृच्छ्र ेण शुध्यति । शिखावंधं विमुच्याथ हस्तप्रक्षालनं स्मृतम् ॥४५॥ न करोति स मूढात्मा तदन्नं केशदूषितम् । प्राङ्मुखोदङ्मुखो वापि कुर्यादाचमनं तदा ॥४६॥ पश्चिमे पुनराचम्य दक्षिणे स्नानमाचरेत् । । गोकर्णकृतहस्तेन माषमात्रं जलं पिबेत् ॥४७॥ तन्न्यूनमधिकं चैव तज्जलं रुधिरं भवेत् । अनुष्णाभिरफेनाभिरद्भिद्याभिरंततः ॥ ब्राह्मणो ब्रह्मतीर्थेन दृष्टिपूताभिराचमेत् ॥४८॥ हृत्कण्ठतालुकाभिश्च यथासंख्यं द्विजातयः । स्त्रीशूद्रवास्य संस्पर्शमात्रेणापि विशुद्धयति ॥४६॥ अंगुष्ठाग्र े तु संमृज्य मध्यमा मध्यपर्वसु । योजीताम्रण हस्तेन स वै गोकणिकः स्मृतः ॥ ५०॥

[[२४६६]]

व्याघ्रपादस्मृतिः

[[1]]

मुक्ताङ्गुष्ठकनिष्ठाभ्यां त्रिः पिबेत् ब्रह्मतीर्थतः । स्नात्वा पीत्वा क्षुते सुप्र भुक्त्वा रथ्याप्रसर्पणे ॥ ५१ ॥ आचान्तः पुनराचामेद् वासोऽपिपरिधाय च । ऊर्ध्वजानुस्तु नाचामेदेकपाण्यातेन च ॥१२॥ तथैव

ब्रह्महस्तेन नापरिज्ञातहस्ततः ।

आपः स्पर्शनकाले तु तज्र्जन्यां तु स्पृशेज्जलम् ॥

तज्जलं च पिवेद्विप्रः सोमपानसमं भवेत् ॥ ५३॥ आपः करनखैः स्पृष्ट्वा तेनाचामति यो द्विजः । सुरां पिबति वै व्यक्त व्याघ्रस्य वचनं यथा ॥ ५४ ॥ पीतोच्छिष्ट पादशौचं शौचशेषं तु यज्जलम् ।

तज्जलं तु सुरातुल्यं पर्यग्निकरणं विना ॥५५॥ कांस्येनायसपात्रेण त्रपुसीसकपित्तलैः । आचान्तः शतकृत्वोपि न कदाचन शुध्यति ॥ ५६ ॥ कटिमंडलमावृत्य नाभ्यन्तर्दक्षिणोत्तरे । कच्छं द्वादशपिंजलं पुरापश्चात्प्रयुज्यते ॥५७॥ एकराशिगतौ स्यातां यदा गुरुनिशाकरौ । सा पौर्णमासी महती सर्वपापहरा स्मृता ॥ ५८॥ आब्दिके समनुप्राप्त आशौचं यदि जायते । आशौचे तु व्यतिक्रान्ते तत्र श्राद्धं प्रदीयते ॥ ५६ ॥ अनपत्या च या नारी भर्तृ पिंडेन योजयेत् । यदि जीवति भर्तारं श्वश्रेयादिभिर्योजयेत् ॥ ६०॥

श्राद्धवर्णनम्

[[२४६७]]

पितामहाश्चजीवंति तत्पिता म्रियते यदि । देहमात्रत्रयः पिण्डान् प्रपितामहपूर्वकम् ॥६१

॥ जीवन् पितामहोयस्य पिता यत्र न विद्यते । द्वौपिंडावेकनामानौ एकस्मिन्प्रपितामहे ॥६२॥ चत्वारि अर्घ्यपात्राणि गंधमाल्यैस्ततोऽर्चयेत् । ये समानि ऋचामेतत्पात्रस्थापो नये त्रिषु ॥६३॥ पक्षश्राद्धं तु निवृत्य तर्पणं तु दिनेदिने । सकृन्महालये श्राद्ध परेऽहनि तिलोदकम् ॥ ६४ ॥ ॥६४॥

दर्शश्राद्ध गयाश्राद्ध श्राद्ध े चापरपक्षगे । ताम्बूल चर्वणं दोषो व्याघ्रस्य वचनं यथा ॥ ६५॥ वृद्धावादौ क्षयेचान्ते दर्शे मध्ये तथैव च । महालये च पिण्डान्ते वैश्वदेवं चतुर्विधम् ॥ ६६ ॥ श्राद्धं कृत्वा तु विधिवत वैश्वदेवादिकं ततः । ब्रह्मयज्ञ ततः कुर्यात्तर्पणं तु तिलैर्विना ॥६७॥ स्नात्वातीरं समागत्य उपविश्य कुशासने । संतर्पयेत् पितृन्सर्वान् स्नात्वा वस्त्र’ च धारयेत् ॥६८॥ सहोदर समुत्पन्नां कुर्याद्देवपितृस्तथा । एकमेकं तु गोत्राणां कुर्याद् ब्राह्मणजो भवेत् ॥६६॥ सहगोत्रजा ब्राह्मणानां न कुर्यात्सर्वतो द्विजः । याज्ञवल्क्यं तु कार्याणि वर्जनीया प्रयत्नतः ॥ ७०॥ वेदज्ञातो द्विजातीनां कुर्याद्ब्राह्मणतो भवेत् । एकगोत्रं द्वितीयं तु तृतीयाग्निस्तथैव च ॥७१॥

[[1]]

[[२४६८]]

व्याघ्रपादस्मृतिः

एकगोत्र ब्राह्मणानां पृथक् गोत्रस्तथैव च । कुर्याच्छ्राद्धादि कार्याणि महालयां तु सिद्धये ॥ ७२ ॥ वानप्रस्थयतीनां तु ब्रह्मचारिस्तथैव च । कुर्याच्छ्राद्धादिकं तस्य व्याघ्रस्य वचनं यथा ॥ ७३ ॥ पूर्वेद्यः क्षणितोविप्रो ब्राह्मणः कर्तृकं यथा । अनुज्ञायतां कार्याणि कृपां कर्तुं यथाविधि ॥७४ ॥ पूर्वेयः क्षणितं विप्रं यजुः शास्त्र ं तथैव च । गोत्रं नाम समुच्चार्य व्याघ्रस्य वचनं यथा ॥ ७५ ॥ गायत्र्याः स्थानमास्यं च मंडलं स विधीयते । गायत्र्या गोमयं तस्य मंडलं कारयेद्ध्रुवम् ॥७६ ॥

गायत्र्या वत्स प्रस्थानं मंडलं कुरुते यदि । मंडलं तोयमादाय कुशतिलैस्तथैव च ॥७७॥

मंडलं बाहुमात्रं च कुर्याद्व

देवकार्येषु सर्वत्रारनिमात्रं गृहस्योत्तरतोभागे कुर्याद्

उत्तरे मंडले देवा दक्षिणे

श्राद्धकर्मणि ।

प्रशस्यते ॥७८॥॥

गोमयमंडलम् ।

हस्तस्यव्यवधानेन मंडले द्व े च

पूर्वप्लवं वृद्धिकरं नराणां,

पितरस्तथा ॥७६॥

कारयेत् ।

तथोत्तरं चैव धनप्रदं च ॥

धनक्षयं पश्चिमतप्लवेन,

आयुः क्षयं दक्षिणतप्लवेन ॥८०॥श्राद्धवर्णनम्

पादप्रक्षालनार्थाय द्वौविप्रौ प्राङ्मुखस्थितौ ।

उदङ्मुखास्त्रयोविप्रा स्वयं वै

पादप्रभृति मून्नर्यन्तं देवानां

[[२४६६]]

दक्षिणामुखः ॥८१॥

पुष्पपूजनम् ।

शिरःप्रभृतिपादान्तं पितॄणां पुष्पपूजनम् ॥८२॥ श्राद्धकाले यदा पत्नीं वामे वारिंप्रदापयेत् । पितरस्तस्य गृह्णीयात् यावद्वशतं समाः ॥ ८३ ॥ कन्यादाने विवाहे च प्रतिष्ठायज्ञकर्मणि । सर्वेषु धर्मकार्येषु पत्नी दक्षिणतः स्मृता ॥८४॥ दक्षिणे वसति पत्नी हवने देवतार्चने । शुश्रूषा रतिकाले च वामभागे प्रशस्यते ॥ ८५ ॥ जातकर्मादि कर्मणां कर्मकर्तु श्चदक्षिणे । तिष्ठेद्वरस्य वामे च विप्राशीर्वचनं यथा ॥८ ६ ॥ त्रिषु स्थानेषु सा पत्नी वामभागे प्रशस्यते । पादशौचे पितॄणां च रथारोहे ऋतौ तथा ॥८७॥ श्राद्ध पत्नी च वामांगे पादप्रक्षालने तथा । नान्दीश्राद्ध

े च सोमे च मधुपर्के च दक्षिणे ॥८८॥ आमन्त्रितस्तु यो विप्रो भुक्त्वा अन्यत्रगच्छति । नरकाणां शतं भुक्त्वा चांडालेष्वपि जायते ॥ ८६ ॥ एकवस्त्रा तु या नारी मुक्तकेशा तथैव च । ललाटे कुंकुमं दृष्ट्वा निराशाः पितरो गताः ॥ ६०॥ मुक्तकेशा तु या नारी रक्तवस्त्रं कथंचन । हसते वदते चैव निराशाः पितरो गताः ॥ ६१॥

[[२५००]]

व्याघ्रपादस्मृतिः

श्राद्ध यज्ञे जपे होमे वैश्वदेवे शिवार्चने । त्रिपुंड धारयेद्यस्तु निराशाः पितरोगताः ॥२॥ अगम्यागमनोपेता द्य तासत्यरताश्च ये । ।

नानाविधेषु पापेषु रता नित्यं मदोद्धताः ॥३॥ आसीमांतेन पूर्वेण ताम्बूलं भक्षये द्विजः ।

त्रयस्ते नरकं यान्ति दाताभोक्ता पिता तथा ॥ ६४ ॥

शिलातले पटे पात्र रोमकूपे तथा भुवि ।

ते तिलाः कृमिणा तुल्याः तत्तोयं रुधिरंभवेत् ॥६५॥ अंगुष्ठमूलमध्ये तु वामभागेऽप्रभागिनाम् । तत्तिलं मेरुणातुल्यं तत्तोयं सागरोपमम् ॥६६॥ आपः कृष्णतिलैर्दद्यान्मात्रापित्रोः क्षयेऽहनि । आदौ च यजुषां दद्यात् पश्चाद्वह्नच सामगाः ॥६७॥ सकारे सूतकं विद्याद्वकारे रिपुवर्द्धनं । हकारे ब्रह्महत्यायां आहुतिः कुत्र दीयते ॥१८॥ वर्णत्रयं समुच्चार्य दीर्घे दद्याद्विजोत्तमः । आयुरारोग्यमैश्वयं लभते काममीप्सितम् ॥६॥ स्नानं तौ वरुणः शक्तिर्जुह्वतोऽभिधनक्षयम् । जपतः क्षीणमायुष्यं तस्मान्मौनं त्रिषु स्मृतम् ॥१००॥ श्राद्ध यज्ञे विवाहे च दीक्षायामागते गुरौ । तिष्ठत क्षालनं कुर्यान्निराशाः पितरोगताः ॥ १०१ ॥ तिष्ठन्प्रक्षालयेत्पादौ देवे पित्र्ये च कर्मणि । देवा हविर्न गृह्णन्ति कव्यं च पितरस्तथा ॥ १०२॥

[[1]]

श्राद्धवर्णनम्

मंडलस्योत्तरे भागे कुर्यादाचमनं बुधः । उत्तरे जाह्नवीतोयं अन्यत्र रुधिरं भवेत् ॥ १०३॥ मण्डलात्पूर्वतो देवा पितृविप्रैस्तथोत्तरे ।

[[1]]

कर्ता कुर्वीत ईशाने श्राद्ध आचमनं स्मृतम् ॥१०४॥ हस्तप्रक्षालनादूर्ध्वं पाणिभ्यां पात्रधारणम् । संकल्पे दक्षिणे त्याज्यं भुक्त्वा वामं विमुत्सृजेत् ॥१०५॥ ब्राह्मणानासनं वस्त्रं तिलमिश्रं तथैव च । पितृनानि ( ? ) देवादि काष्ठासनानि वर्जयेत् ॥ १०६ ॥ सव्यं तु देवमस्थानमर्चयेत्पश्चिमामुखम् ।

अपसव्यं

पितृस्थानमर्चयेद्दक्षिणस्तथा ॥ १८७॥ श्राद्धरम्भेऽवसाने च पादशौचे तथार्चने । विकरे पिण्डदाने च षट्सु आचमनं स्मृतम् ॥१०८॥ स्वागते स्वस्तिवचने गोत्रशेषे प्रदक्षिणे । अर्ये च दक्षिणादाने षट्सु सव्यं विधीयते ॥ १०६ ॥ प्रातःकाले शुचिः स्नात्वा पाकनिष्पतितो यदा । गृह्णन्तु पितृकार्याणि मुनीनां सर्वतोद्विजः ॥ ११० ॥ अपुत्रा म्रियते भर्तुः गोत्रजानाननाशयत् । स्त्रीणां च कुरुते श्राद्धं पुत्राभावेति सर्वथा ॥ १११ ॥ स्त्रीणां कुरुते श्राद्धं गोत्रमुच्चारणं कथम् । अमुकगोत्राय भर्तुश्च पिताप्रपितामहाय च ॥ ११२॥ उत्तरीयाभावे च वस्त्रं सव्यापसव्यकर्मणि ।

गोत्रनामस्वधाकारैः भतुः श्राद्धं तु कारयेत् ॥ ११३॥

[[२५०१]]

[[२५०२]]

व्याघ्रपादस्मृतिः

अपुत्राम्रियते भार्या भर्ता कुर्याद्यथाविधि । गोत्रनामसमुच्चार्य सरस्वतीनाम चोत्तरे ॥११४॥ प्रथमं सरस्वतीनाम्नी द्वितीयं गौतमी तथा । तृतीयं यमुनानाम्नी कुर्याच्छ्राद्धं सभर्तृकः ॥ ११५ ॥ पितामहा च वर्तते पिता च म्रियते यदि । द्वौ पिण्डौ चैकनामानौ एकं तु प्रपितामहे ॥ ११६ ॥ अपुत्रस्यपितृव्यस्य ज्येष्ठस्य भ्रातुरेव च । कुर्यात्रिपुरुषं श्राद्धं एकोद्दिष्ट कदाचन ॥११७॥ आसनावाहनौ चैव द्विजांगुष्टस्तथैव च । अध्यं गन्धानुसंकल्पं देवपूर्वाणि षट्सु च ॥११८॥ विप्रप्रदक्षिणा याच्या जपासि स्वस्तिवाचनम् । श्राद्ध च दक्षिणादानं पट्सव्यं च प्रचक्षते ॥ ११६ ॥ अपसव्येत्यनुज्ञातः सव्येनैव तु होमयेत् । अपसव्यं पुनः कृत्वा पितृपात्रेषु दीयते ॥ १२०॥ कुशे रत्तानपाणिस्तु आहुती द्व े घृताप्लुते । शेषं देवाय दातव्यं पितृभ्यस्तदनंतरम् ॥१२१॥ सव्येपृच्छत्यनुज्ञातो स्वल्पं च जुहुते हविः । साग्निरग्निमुखेदद्यान्निरग्निर्द्विजपाणये ॥१२२॥ साग्निकैरग्निपूर्व तु पितृपूर्वमनग्निकैः । अग्नौकरणशेषं तु विश्वेदेवाय हूयते ॥ १२३॥ निरग्निरनौकरणं कुर्यान्मुख्ये च पैतृके ।

तदन्नं देवायदातव्यं पितॄणां तदनन्तरं ॥ १२४॥

श्राद्धवर्णनम्

अग्नौकरण शेषं तु पितृपात्रेषु दीयते । प्रतिपाद्यपितॄणां तु नो दद्याद्वैश्वदेविके ॥ १२५ ॥ यत्तुपाणितले दत्तं पूर्वमश्रयं (?) तु सिद्धयः । पितरस्तन्न गृह्णति शेषान्नं न लभन्ति च ॥ १२६ ॥ अभ्यपात्रस्थिता दर्भाः ब्राह्मणो ज्ञानदुर्बलः । स्वयं गृह्णन् क्षिपेद्यस्तु स भवेत्पितृघातकः ॥ १२७॥ पाणौ होमस्य ये दर्भा पात्राधस्तु विनिक्षिपेत् । पुनरग्नौ च तान्हुत्वा दहंति पितरस्तथा ॥ १२८॥ न जीवत्पितृकः कुर्याच्छ्राद्धं मातृक्षयाहते । क्रान्ते च नवमी श्राद्धं मृते चैव विलुप्यते ॥ १२६ ॥ न छायां भार्गवे दीने मातापित्रोः क्षयेऽहनि । तिलैस्तु तपणं कुर्यात् पितृहासोऽपि जायते ॥ १३०॥ कन्यायां तु गते भानौ पितरो यान्ति स्वं गृहम् । पितृलोकं परित्यज्य यावद्व श्विकदशनात् ॥१३१॥ चन्दनागरुकर्पूरं कुंकुमं च प्रदापयेत् । अश्वमेधफलं तस्य पितॄणां च विलेपनम् ॥१३२॥ रविशुक्रत्रयोदश्यां सप्तम्यां निशिसंध्ययोः । तिलतर्पणसंयोगात्तज्जलं रुधिरं भवेत् ॥ १३३॥ । क्षयाहे पातसंक्रान्ते ग्रहणे शशिभास्करे । न वारतिथिदोषो न कुर्याञ्च तिलतर्पणं ॥ १३४॥ घृतं गुग्गुलु धूपं च पितॄणां यः प्रयच्छति । अश्वमेध फलं तस्य धूपदानस्तथैव च ॥ १३५ ॥

[[२५०३]]

[[२५०४]]

व्याघ्रपादस्मृतिः

आवाहनानौकरणं विकरं पात्रपूरणम् । तृप्तिप्रश्नं न कुर्वीत आमे होमे कथंचन ॥ १३६ ॥ मातापित्रोरेकदिवसे पृष्ट्वा पाकं प्रयत्नतः । प्रथमं पितृकार्याणि द्वितीयं मातरस्तथा ॥ १३७॥ अग्नौकरणमेकं स्यात् पिंडदानस्तथैव च । त्रयं त्रयं च पिंडानां मातापित्रोः क्षयेऽहनि ॥ १३८ ॥ यद्य ककर्तृकं श्राद्धमनेकोऽपि विधीयते । वैश्वदेवे न तंत्रंस्यात् पृथक् पाको न विद्यते ॥ १३ ॥ असंकल्पितं च पश्चान्नं पाणिना स्पर्शते यदि । त्रयस्ते नरकं यान्ति दाता भोक्ता च पूर्वजाः ॥ १४०॥ मृण्मयेषु पात्रेषु मृत्तिका चन्दनेन वा । घृतेनैव कृतं धूपं निराशाः पितरोगताः ॥ १४१॥ भोजनोत्तिष्ठ (च्छिष्ट) पात्रे च स्वस्ति कुर्वन्ति ये द्विजाः । भ्रमन्ति पितरस्तेषां षण्मासोच्छिष्टभोजिनः ॥ १४२ ॥ अकृत्वा भस्ममर्यादां यः कुर्यात्पाणिशोधनम् । आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठति ॥ १४३ ॥ माषाः सर्वत्रयोज्याः स्युः पितृपिंडेषु वर्जयेत् । ब्राह्मणानां यथा मद्यं तथामाषान्नपिंडयोः ॥ १४४ ॥ पूर्वमापोशनं ग्राह्यं पिंडदानं तथैव च ।

ग्राह्यं

कुर्याद्व मातृकं श्राद्धं नरक्यां सहितो सुतः ॥ १४५॥ विकरं निक्षिपेद्भूमौ ब्राह्मणानामनुज्ञया । कुर्यात्पिडं तत्सुतानां नरक्यां ब्राह्मणो भवेत् ॥१४६॥

श्राद्धवर्णनम्

हस्तप्रक्षालनादृध्वं द्वौ हस्तौ पात्रधारिणौ ।

[[२५०५]]

आपोशाने दक्षिणंत्याज्यं भोजनान्ते वाममुत्सृजेत् ॥ १४७॥ अपोशनिक्षिपेत्पाणौ पिंडदानं तथैव च । यजुः शाखा तु देवानां पितॄणां प्रीतिवर्द्धनम् ॥ १४८॥ यजुः शाखा पूर्वतो पिण्डं ऋक्शाखा तु दक्षिणम् । सामवेदस्तु भोज्यं च श्राद्धं तु कुरुते यदा ॥ १४६ ॥ वस्त्रयुग्मं ततोदयादेकैकं वा पृथक् पृथक् । आशाया दीयते चाल्पं किंचिच्छत्त्यानुसारतः ॥ १५० ॥ पूर्ववद् विकरेद् भूमौ पिंडदानं तथैव च । कुर्याच्छ्राद्धविधिं तस्य निराशाः पितरोगताः ॥ १५१ ॥ मार्जनं तर्पणं श्राद्धं न कुर्याद्वारिधारया । मोहाद्वा कुरुते यस्तु स विप्रो नरकं व्रजेत् ॥१५२॥ उष्णोदकं वृथास्नानं वृथा जाप्यमवैदिकम् । मूर्खस्य तु वृथादानं वृथाश्राद्धमदक्षिणम् ॥ १५३ ॥ दशकृत्वः पिवेदापः गायत्र्याः श्राद्धभुक्द्विजः । ततः संध्यामुपासीत तज्जपाज्जुहुयादपि ॥ १५४॥ दन्तधावन ताम्बूलं स्नेहस्नानमभोजनम् । रसौषध परान्नं च श्राद्धकृत्सप्त वर्जयेत् ॥ १५५॥ पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।

दानं प्रतिग्रहो होमः

श्राद्धभुगष्टवर्जयेत् ॥ १५६ ॥

पितृक्षये अमावास्यां मंथानं कुरुते यदि ।

घृतं गोमांसवत्प्रोक्तं तक चापि सुरासमम् ॥१५७॥

[[२५०६]]

व्याघ्रपादस्मृतिः

दधितक्रकणाभिक्षा लवणं

व्यञ्जनादयः ।

सुविरोभिर्नदातव्यं यावत्पिडन्ननिर्वपेत् ॥ १५८॥ भागिनेयं भगिनीभर्ता दौहित्रं दुहितापतिः । प्रत्यासनमतिक्रान्तं मुनिदत्तं विनाभवेत् ॥ १५६ ॥ भागिनेयं दशविप्रेषु दौहित्रः शतमुच्यते । भगिनीभर्ता सहस्र ेषु अनन्तं दुहितापतिः ॥ १६० ॥ वेदपूर्ण मुखं विप्रं सभुक्तमपि भोजयेत् । न तु मूखं निराहारं षड्रात्रश्चोपवासिनम् ॥१६॥ स्वगोत्रे प्रवरेभिन्ने विधुरे ग्राम याचके । पितुः श्राद्धं न कुर्वीत पतिभ्रात्रा सहोदरा ॥ १६२ ॥ अपुत्रको पशुश्चैव व्याधितोल्पायुरेव च । वृत्तिहीनश्च मूर्खश्च जन्मे जन्मे भविष्यति ॥ १६३॥ काले कर्म प्रकुर्वीत काले तिष्ठन्ति देवताः । वरमेकाहुतिः काले नाकाले कोटिसंख्यया ॥१६४॥ अकाले कुरुते कम काले प्राप्त न कारयेत् । कालातीतं तु यत्कर्म अकृतं तं विनिर्दिशेत् ॥ १६५॥ अपेक्षितं यो न दद्यात् श्राद्धार्थमुपकल्पितम् । कृपणो मन्दबुद्धिस्तु न तच्छ्राद्धफलं लभेत् ॥१६६॥ भोजनं कदलीपत्रे वामभागाप्रमाहितः । अग्र चेदक्षिणे भागे भुक्त्वा चान्द्रायणं चरेत् ॥१६७॥ नित्यश्राद्धषु तीर्थेषु भोजनं बलिपूर्वकम् । अन्यश्राद्धषु सर्वेषु न बलिं नैव चाहुतिं ॥ १६८॥

श्राद्धवर्णनम

[[२५०७]]

आत्ममातामही पत्नी दुहिता च स्वसा तथा ।

पितृष्वसा मातृभगिनीत्येते व सम गोत्रजाः ॥ १६६ ॥

मृत्तिका गोशकृदर्भानुपवीतं दत्वा गुणाव्यविप्राय कुलजाय

अग्नौकरं तु देवस्य पितृव्या

तथोत्तराम् ।

तथोत्तरे ॥१७०॥ द्विजतर्पणे ।

मानसात्पिण्डदानाञ्च नरः क्रियाद्विकरेण तु ॥ १७१ ॥ एक पंक्त्युपविष्टानां ब्राह्मणानां श्राद्धकर्मणि । भक्ष्यं भोज्यं समं देयं दक्षिणात्वनुसारतः ॥ १७२ ॥ पिंडदानं च यजुषां वह्नचां द्विजतर्पणम् । श्राद्धशब्दाभिधेयं स्यादुभयं सामगायिनाम् ॥ १७३ ॥ स्वशाखोक्तं परित्यज्य परशाग्वोक्तं समाचरेत् । अप्रामाण्यमृषिं कृत्वा - अंधं तमसि मज्जति ॥ १७४ । अनग्निह्मचारी च स्त्री च नैव च नैव च । चालये पिंडपात्राणि स्वयं शिष्योऽथवा सुतः ॥ १७५ ॥

लेपभागश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।

पिंडद : सप्तमस्तेषां सापिण्ड्यं

यच्च पाणितले दत्तं (?)

निराशा पितरो यान्ति शेषमन्नं

सप्तपुरुषम् ॥ १७६ ॥ पूर्वमबुद्धयः ।

लभन्ति ते ॥ १७७ ॥

केतकी द्यतकी चैव बर्बरी करवीरकैः । जातिदर्शनमात्रेण निराशाः पितरो गताः ॥ १७८ ॥ कूष्मांडं महिपीक्षीरं आढक्या राजसर्षपाः । मसूराश्चणकाश्चैव षडेते श्राद्धघातकाः ॥ १७६॥

0 to

[[२५०८]]

व्याघ्रपादस्मृतिः

आचान्तोप्यशुचिस्तावत यावत्पात्रमनुद्धतम् । उद्ध तोप्यशुचिस्तावन यावन्नोन्मृज्यते मही ॥ १८०॥ गृहेऽपि शिशुदेवानां यतीनां ब्रह्मचारिणाम् । श्राद्धपाको न दातव्यो यावनपिंडान्ननिर्वयेत् ॥ १८१॥ शिखामात्रं तथापिंडान्पूर्व पश्चिमतोनयेत् । अनेन विधिना कार्य पितॄणां दत्तमक्षयम् ॥ १८२॥ वह्वचं भोजयेच्छ्राद्ध पितृस्थानेषु सर्वदा । श्रोत्रियं च गुणाढ्यं च पितृरूगातकुलं तथा ॥ १८३ ॥ वह्वच भोजयेच्छ्राद्धं याजुषैः सामगैस्तथा । अक्षयं तद्भवेच्छ्राद्धं व्याघ्रस्य वचनं यथा ॥ १८४ ॥ बह्वचं तु परित्यज्य श्राद्धकर्मणि यो द्विजः । निष्फलं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥ १८५ ॥

॥ वह्नर्चेन विनाश्राद्ध ये कुर्वन्त्यन्यशाखिनः । अज्ञानात्कुरुते श्राद्धं पितॄणां नोपतिष्ठति ॥ १८६॥ द्वौ दैवाथर्वणौ विप्रौ ऋग्यजुः सामवेदिनः । क्रमाच्छ्राद्ध नियुंक्त च व्याघ्रस्य वचनं यथा ॥ १८७ ॥ अथवा द्वौ विश्वेदेवौ वह्नचं पितरस्तथा । यजुषं पितामहं ज्ञेयं सामंस्यात् प्रपितामहम् ॥ १८८॥ अनेन विधिना श्राद्धं कृतमक्षय्यतां ब्रजेत् । उक्तलक्षणकं न स्यात् स्वशाखं भोजयेत्ततः ॥ १८६॥ बह्वचं यजुषं चैव सामगं च गुणान्वितम् । अहंकारेण संत्यक्त्वा श्राद्धकृन्निष्फलं भवेत् ॥१६०॥श्राद्धवर्णनम्

उच्छिष्टशव चाण्डालनवं च खरकाकयोः ।

२५०६.

चन्द्रसूर्यग्रहे चैव स्नानं कुर्यादमंत्रकम् ॥ १६१॥ अपत्नीके प्रवासे च यस्य भार्या रजस्वला । आमश्राद्धं प्रकुर्वीत वर्जयित्वा क्षयेऽहनि ॥ १६२ ॥ वृद्धावादौ क्षयेचान्ते मध्येजुह्वति पर्वणि । पितृपक्षे तथाचान्ते वैश्वदेवो विधीयते ॥ १६३॥ वोदने परमान्ने वा द्रोणमासाद्य मूढधीः । तत्पात्रं पूरयेद्धृतं तद्घृतं रुधिरं

दशमीद्वादशीश्राद्ध अमापूर्णा तु

भवेत् ॥ १६४॥

संक्रमे ।

अस्ते नक्त े तु यो भुंक्त भुक्त्वा चान्द्रायणं चरेत् ॥ १६५॥ अग्निना भस्मनावापि स्तंबेन सलिलेन वा । द्वारस्य चोपमार्गेण पंक्तिदोषो न विद्यते ॥ १६६ ॥ तिलकेन विनाविप्रो पुण्यस्त्री कुकुमं विना । द्वावेतौ गर्हितौलोके देवपित्र्ये च कर्मणि ॥ १६७ ॥ यागं दानं च योगं च स्वाध्यायं पितृतर्पणम् । भस्मीभवति तत्सर्वमूर्ध्वपुण्ड्र विना कृतम् ॥ १६८ ॥ विना यज्ञोपवीतेन विना वद्धशिखेन च । विशेषोद्य पवीतेन यत्कृतं नैव तत्कृतम् ॥१६६॥ पूर्वतो सर्वदेवाश्च दक्षिणे पितरस्तथा । तस्मात्सर्वप्रयत्ने न वामे गंडूषमुत्सृजेत् ॥ २००॥ हस्तपात्रे च धौते च क्रियते पंक्तिवारणम् । प्रागुदीची विवाहे च प्रतीची दक्षिणस्तथा ॥ २०१ ॥

२५१० •

व्याघ्रपादस्मृतिः

आमंत्रितो जपेदोग्ध्री नियुक्तस्तु निरंगिणः । उत्थायवामदेव्यं तु श्राद्धदौपैर्न लिप्यते ॥ २०२॥ कन्यादानं पिंडदानं विप्राणां पादसिंचनम् । आसन्नायां च भार्यायां केवलेन कृतं वृथा ॥ २०३॥ भर्तृणा च हता नारी साहंकारा तथैव च । तस्या हस्तान्नमुंजीत श्राद्धकालेषु वर्जयेत् ॥२०४॥ अनाश्रमी तु यः स्तेयो द्विजरूपधरस्तथा । तस्मै श्राद्धानि यो दद्याद्राक्षसेभ्यः प्रयच्छति ॥२०५॥ घृतहीनं तु योऽधीते (भुङ्क्त ) नररत्वाहुतिपंचकम । पश्चाद् वृतं तु यो भुंक्त द्विजश्चान्द्रायणं चरेत ॥ २०६॥ इक्षुरापः पयोमूलं फलं ताम्बूलमौषधम् । भक्षयित्वाऽपि कर्तव्यं देवाग्निपितृतर्पणम् ॥ २०७॥ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । गुरुरेवपतिः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ २०८ ॥ सर्वमन्नमुपादाय सतिलं दक्षिणामुखम् । उच्छिष्टसन्निधौपिण्डं दद्याद्वै पितृयज्ञवत् ॥ २०६ ॥

॥ पादप्रक्षालनादृध्वं यावद्विप्रविसर्जनम् ।

तावच्छ्राद्धं प्रकुर्वीत नाशौचं न च सूतकम् ॥ २१०॥ यजुषां पिंडदाने तु मापान्नं यः परित्यजेत् । स वै नरकमाप्नोति निराशाः पितरोगताः ॥ २११॥

प्रागादिप्रत्यगतस्य इति

वाजसनेयिनां ।

उदगादि दक्षिणान्तं दैवेपित्र्ये च कर्मणि ॥ २१२ ॥

श्राद्धवर्णनम

एकालिंगे करे तिम्र उभयोर्मृदृद्वयं स्मृतम् । पंचापाने दशैकस्मिन उभयोः सप्तमृत्तिका ॥ २१३ ॥ एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् ।

[[२५११]]

वानप्रस्थस्य त्रिगुणं यतीनां च चतुगु णम् ॥२१४ ॥ संध्याहीनोऽशुर्नित्यमनर्हः सर्वकर्मसु ।

इह जन्मनि शूद्रत्वं मृते श्वानोऽभिजायते ॥ २१५॥ उष्णोदकेन सप्ताहं द्विजः शूद्रत्वमाप्नुयात् ।

उष्णोदकैर्वृथा स्नानं वृथाजाप्यमवैदिकम् ॥ २१६ ॥

अश्रोत्रिये वृथादानं

वृथाश्राद्धमदक्षिणम् ।

प्रभाषितम् ॥२१॥

असामर्थ्याच्छरीरस्य वैदिकं श्रुत्वा दृष्ट्वास्पृष्ट्वा

संध्याविनाशयेज्जयं तत्सर्वं निष्फलं भवेत् । उल्लंघयति संध्यां यः स याति नरकं ध्रुवम् ॥२१८॥ तस्मान्न लंघयेत्संध्यां सायंप्रातद्विजः सदा । अकृत्वा वैश्वदेवं तु भुजंते ये द्विजाधमाः ॥ २१६ ॥ वृथा तेनान्नपानेन काकयोनिं व्रजन्ति ते । कृत्वालं पादशौचं विमलमथजलं त्रिः पिवेदुन्मृजेद्विःतर्जन्यंगुष्ठयुग्मात्सजलमभिमृशेन्नासिकारन्ध्रयुग्मं ॥ अंगुष्ठानामिकाभ्यां नयनयुगयुतं कर्णयुग्मं कनिष्ठांगुष्ठाभ्यां नाभिदेशं हृदयमथतलेनांगुलीभिः शिरोंसौ ॥ २२० श्मशाने शूद्रसंपर्के चांडालादि प्रदर्शने ।

रोदने व्याकुले देशे न पठेत महालये ॥ २२१॥

[[२५१२]]

व्याघ्रपादस्मृतिः

स्वयं वा पच्यते पाकः पत्नी वा पच्यते यदि । पुत्रेण पच्यते पाकः स्वयंपाकः स उच्यते ॥२२२॥ मातृपाकं तु भुंजीयात् स्त्रीपाकं तु विशेषतः । आत्मपाकं पवित्रं च व्याघ्रस्य वचनं यथा ॥ २२३ ॥ यदि भार्या अशक्त न श्राद्धपाकेषु कारिणम् । दृष्टिपूतः समंतोयं दरिद्रमजलं यथा ॥२२४ ॥ न कन्या क्रियतेपाकं न पाकं चान्यगोत्रजाः । विधवा च तथा वंध्या गर्भस्रावी च दुर्मुखी ॥२२५॥ एताः पार्क न भुंजीत पितॄणां नोपतिष्ठति । श्राद्धान्नपाके विधवापरस्त्री न वितृप्यते ये पितरो न देवाः ॥ नोदके नैव चाज्येन नान्नेनैव कदाचन । चित्राहुतिवलिं चैव न कुर्याच्छ्राद्धभुद्विजः ॥ २२७॥ तीर्थयात्राविवाहेषु संग्रामे देवतालये । उपनीतोत्सर्जनेषु स्पृष्टास्पृष्टं न विद्यते ॥२२८॥ सूतकान्नं नवश्राद्धं मासिकान्नं तथैव च । हीनाचारद्विजस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥ २२६ ॥ आसने पादमारुढं प्रत्यक्षं लवणं तथा । मुखेन धमितं चान्नं तुल्यं गोमांस भक्षणम् ॥ २३०॥ समीपस्थानतिक्रम्य ब्राह्मणान् वेदपारगान् । दाने भोजनकाले च तत्फलं निष्फलं भवेत् ॥२३१॥ पूजयेत् श्राद्धकालेषु यतिनं ब्रह्मचारिणम् ।

पितृमातृगणैरपि ॥ २३२॥

विप्रानुद्धरते पापात्

श्राद्धवर्णनम्

[[२५१३]]

आमंत्रिणो (तं) गतं विप्रं निवारयति दुर्मतिः । ब्रह्महत्यामवाप्नोति शूद्रयोनिषु जायते ॥ २३३ ॥ आमंत्रितस्तु यो विप्रो भोक्तु मन्यत्र गच्छति । नरकाणां शतं गत्वा चांडालेष्वभिजायते ॥ २३४ ॥ सपवित्रेण हस्तेन न दद्याद्गंधलेपनम् । दीयते यदि मूढेन निराशाः पितरोगताः ॥ २३५॥ अनग्निकस्य विप्रस्य यदन्नं हूयते करे । तदन्नं प्रक्षिपेनौ भुक्त्वा चान्द्रायणं चरेत् ॥ २३६ ॥ अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् । न याचते द्विजोमूढः सविप्रः श्राद्धघातकः ॥ २३७॥ अपेक्षितं न यो दद्याच्छ्राद्ध वै उपकल्पितम् । अधोगत्वा सुघोरासु तिर्यग्योनिषु जायते ॥२३८ ॥ शब्देनापोशनं पीत्वा शब्दे न घृतपायसम् । शब्देनापः पयः पीत्वा सुरापानसमं भवेत् ॥ २३६ ॥ अत्युक्तमन्नं विप्रस्तु पाणिनास्पर्शते यदि । त्रयस्ते नरकं यान्ति दाता भोक्ता च पूर्वजाः ॥ २४०॥ अप्रवाहोदकं स्नानं विप्रपादाभिषेचनम् । गायत्री जपमध्यंच आदित्यभिमुखो भवेत् ॥ २४१॥

ग्रन्थिर्यस्य पवित्रस्य

विप्रपादाभिषेचनम् ।

यथा वज्रहतो वृक्षो

देवता पितरस्तथा ॥ २४२ ॥

नान्दीमुखोत्सवे दाने द्वादश्यादि व्रतेषु च ।

पूर्वाभिमुखतः

कुर्याद्विप्रपादाभिषेचनं ॥२४३॥

[[२५१४]]

व्याघ्रपादस्मृतिः

विप्रपादाभिषेके तु कर्ता प्रत्यङ्मुखोभवेत् । दिवारात्राणि वा कुर्यान नित्यश्राद्ध विधीयते ॥ २४४ ॥ रजस्वलायां भार्यायां मृताहं यः परित्यजेत् । स वै नरकमाप्नोति हन्ति देवान पितस्तथा ॥ २४५॥ पंडितोज्ञानिनो वापि मूर्खयोषित एव वा । मृताहः स्वमतिक्रम्य चांडालः कोटिजन्मसु ॥ २४६ ॥ पित्रोः क्षयाहे संप्राप्त यः कुर्यात्तिलतर्पणम् । आमुरं तर्पणं ज्ञेयं तत्तोयं रुधिरं भवेत् ॥ २४७॥ आपोशानं करे विप्रे संकल्पं यः समाचरेत् । नष्टं भवतितच्छ्राद्धं पितॄणां नोपतिष्ठति ॥२४८ ॥ आपोशानं करे कृत्वा आशीर्वादं करोति यः । अभोज्यं तद्भवेदन्नं भुक्त्वा चान्द्रायणं चरेत् ॥ २४६॥ भूमौ यस्तर्पणं कुर्यान कांस्यतोयं तथैव च । तर्जन्यंगुष्ठमध्ये तु तज्जलं रुधिरं भवेत् ॥२५०॥ अगोधूमं तु यच्छ्राद्धं मापमुद्गविवर्जितम् । तैलपक्वेन रहितं तच्छाद्धं निष्फलं भवेत् ॥ २५९ ॥ माषान्नं पायसं दद्याच्छाद्धं गव्यं विशेषतः । आचन्द्राकं भवेत्तृप्तिः भोजने पिंडदानयोः ॥ २५२॥ नैककाले द्वयं स्नानं स्नानद्वये न तर्पणम् । नैकपादे द्वयं श्राद्ध न दिवा भोजनद्वयम् ॥ २५३ ॥ सूक्तस्तोत्रजपेत्युक्त्वा पिंडाघ्राणं च दक्षिणाम् । आह्वानं चागतं चाध्य विना च परिवेषणम् ॥२५४॥

श्राद्धवर्णनम्

[[२५१५]]

विसर्जनं सौमनस्यमाशिपः प्रार्थनां तथा ।

विप्रप्रदक्षिणं चैव

स्वस्तिवाचनकं विना ॥ २५५॥

पितृमन्यत्प्रकर्तव्यं प्राचीनावीतिना सह ।

सम्बन्धं प्रथमं ब्रूयान गोत्रं नाम ततः परम् ॥ २५६॥

पश्चाद्र पं विजानीयान व्याघ्रस्य वचनं यथा । प्राचीनावीतिना पित्र्यं सव्यं जानुनिपाततम् । दक्षिणास्थेन कर्तव्यमप्रदक्षिणतस्तिलैः ॥२५७॥ यत्किंचिद्दीयते श्राद्ध देवतीर्थेन दैविके । पैत्रिके पितृतीर्थेन सर्वत्रैषविधिः स्मृतः ॥ २५८॥ पितॄणमासनं दद्याद्वामपार्श्वे तथा सुधी । दक्षिणे चैव देवानां सर्वदा श्राद्धकर्मणि ॥ २५६॥

देवानां ऋजवोदर्भा अच्छिन्नाग्राः अमूलकाः । समूलाः पितृकार्येषु दक्षिणाग्रा द्विभुग्नकाः ॥ २६० ॥ नाकस्था नरकस्थाश्च नानायोनिगता अपि । स्वपितृभ्योपधयत्येव (?) श्राद्धं कुर्यात्समाहितः ॥२६॥

क्षणे चाह्नानसंकल्पे पिंडदानान्नदानयोः ।

पिंडाभ्यंजनकाले

तथैवांजनकर्मणि ॥२६२॥

अक्षय्यासनपाद्येषु गंधाद्याच्छादनेषु च । श्राद्धकर्मणि चैतेषु गोत्रं नाम प्रकाशयेत् ॥ २६३॥ दत्तेवाप्यथवादत्ते भूमौयो निःक्षिपेद्बलिं ।

तदन्नं निष्फलं भूयात् निराशाः पितरोगताः ॥ २६४॥

[[२५१६]]

व्याघ्रपादस्मृतिः

अमावास्या मासिकं च मृताहे व्यतिरेकि यत् । त्रयं कर्तुमशक्तश्चेत् सुतं शिष्यं च कारयेत् ॥ २६५॥ राजकार्ये नियुक्तस्य वंधनिग्रहवर्तिनः । व्यसनेषु च सर्वेषु श्राद्धं विप्रेण कारयेत् ॥ २६६ ॥ महालये गयाश्राद्ध प्रतश्राद्ध े तु मासिके । पिण्डशब्दप्रयोगः स्पादन्नमन्यत्र कीर्तयेत् ॥ २६७॥ सर्वत्रोंकारमुच्चायं श्राद्धमंत्रेषु नोच्चरेत् ।

आच्छन्दांसि वै तद्वद्यज्ञतः पूर्वकर्मणि ॥ २६८ ॥

सर्वायास विनिर्मुक्तः

कामक्रोधविवर्जितैः ।

भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ २६६ ॥ आयुः प्रशस्यमैश्वर्य सवं च लभते शुभम् । नैमित्तिके यथाश्राद्ध न दद्यात्सूत्रवाससी ॥२७०॥ भ्रमन्ति पितरस्तस्य दीना नमाश्च वत्सरम् । गृहिणी चैव सुस्नाता पार्क कुर्यात्प्रयत्नतः ॥ २७१ ॥ निष्पन्नेषु च पाकेषु पुनः स्नानं समाचरेत् । मातापित्रोश्च कर्तव्यमेकोद्दिष्ट कचित्कचित् ॥ २७२॥ देशाचारं कुलाचारं प्रत्यब्दं विधिवन्नरैः । पितृव्यभ्रातृ मातृणां ज्येष्ठानां पार्वणं स्मृतम् ॥ एकोद्दिष्ट कनिष्ठानां दम्पत्योः पार्वणं मिथः ॥ २७३ ॥

यजुषाः सामगाः पूर्व मध्येजुह्वत्यथर्वणः ।

ब्रह्वर्चाः श्राद्धशेषेण

वैश्वदेवस्त्रिधामतः ॥ २७४॥

श्राद्धवर्णनम्

ब्राह्मणं न परीक्षेत देवेकर्मणि

पित्र्ये कर्मणि संप्राप्त परीक्षेत

दक्षिणाप्रवणे देशे

तीर्थवापि

धर्मवित् ।

[[२५१७]]

प्रयत्नतः ॥२७५ ॥

गृहेपिवा ।

हते ॥ २७६॥

स्वभूमौ तु नदीतीरे केशाद्य ुपद्रवे

श्राद्धकर्ता च पूर्वेद्य :

संध्याद्य पासने कृते ।

श्वः श्राद्धं करिष्यामीत्यशक्तो वाचयेत्सुतान् ॥ २७७॥ इत्युक्तो गुणसंपन्नान् ब्राह्मणान् पूर्ववासरे । निमंत्रयीत तान्भक्त्या नियोगाख्यानपूर्वकम् ॥ २७८॥ न विना ब्रह्मचर्येण ब्राह्मणाः श्राद्धकर्मणि । यतिश्च ब्रह्मचारी च न दाने तौ निमंत्रयेत् ॥ २७६ ॥ अयातयामा विज्ञेया नियोज्याश्च पुनः पुनः । अकृते पिण्डदाने तु ब्राह्मणो वमते यदि ॥२८०॥ पुनः पाकं च कृत्वा तु श्राद्धं कुर्यात्प्रयत्नतः । पितृदेवक्रियां कृत्वा परपाकं तु सेवते ॥२८१ ॥ दातुः कर्मफलप्राप्तिर्भोक्ता भुंक्त े तु किल्विषम् । अविभक्ताः सुताः सर्वे एकं कुर्यु मृतादिकम् ॥२८२ ॥ ग्रामान्तरे पृथक्कुर्याद्दशश्राद्धानुमासिकम् । अविभक्ताः पृथग्ग्रामाः स्वस्वार्जितधनाशनाः ॥ २८३ ॥ भ्रातरः कुर्वतेश्राद्ध मातापित्रोः पृथक् पृथक् । विप्रस्तु दक्षिणं पादं पितरस्तु उदङ्मुखाः ॥२८४॥ भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च । मित्राय गुरवेश्राद्धमेकोद्दिष्ट न पार्वणम् ॥ २८५ ॥

[[१५१८]]

व्याघ्रपादस्मृतिः

पाणिहोमे कथं कुंडं कियन्मात्रं विधीयते । तन्ममाचक्ष्वविप्रर्षे पृच्छतः शुद्धमानसः ॥ २८६ ॥ दमैः कुंडं प्रकर्तव्यं चतुरस्रं सुशोभनम् । साष्टरष्टभिरेवस्यात् समूलैर्नात्र संशयः ॥ २८७॥

तत्र जुहुयान्मौनमास्थितः ।

दर्भस्य समिधं

सोमानीदेवते तत्र

पितृमत्कव्यवाहने ॥२८८॥

अपसव्येन होतव्यमाहुतीद्वयमेव च ।

यावत्पाणियजा (?) कुण्डं विपरीतं न कारयेत् ॥२८६॥ बहिः कर्मणि कुण्डं च त्रिकोणं च सदाभवेत् । नवश्राद्धेषु सर्वेषु कुण्डं पाणितले मतम् ॥ २६०॥ परिस्तरणमुद्दिष्ट पात्रमेकं शिशोदये । पाणिहोमे च ये दर्भा पात्रे वाधस्तु निःक्षिपेत् ॥ २६६ ॥ पुनरग्नौ च तानहुत्वा दहन्ति पितरस्तथा । आदौ पिता तथा माता सापत्नजननी तथा ॥ २६२॥ मातामहाः सपत्नीका आत्मपत्न्यस्तदन्तरं । सुतभ्रातृपितृव्याश्च मातुलाश्च सपत्निकाः ॥ २६३ ॥ दुहिता च स्वसा प्रोक्ता दौहित्रो भागिनेयकः । पितृष्वसा मातृष्वसा श्वशुरो गुरवस्तथा ॥ २६४ ॥ एते स्युः पितरस्तीर्थे तर्पणे च महालये । श्राद्धात्प्रागेव कुर्वन्ति वैश्वदेवं च ये द्विजाः ॥ २६५॥

एकादशाह्निकं भुक्त्वा तत्र ते

परान्नं पायसं क्षीरं कांजीपक

विधीयते ।

तथैव च ॥ २६६ ॥श्राद्धवर्णनम

[[२५१६]]

पितृशेषं तथोच्लिए वैश्वदेवं न कारयेत् । पित्र्यथं निर्वपेत्पाकं वैश्वदेवार्थमेव च ॥ वैश्वदेवं न पित्र्यर्थं न दार्श वैश्वदेविकं ॥ २६७॥ पितृपाकं समुद्धृत्य वैश्वदेवं करोति यः । आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठति ॥ २६८ ॥ हुतशेषं न दातव्यं वायसेभ्यः कदाचन । यदि दद्याद्विजोमोहान हुतं तम्य वृथा भवेत् ॥ २६६॥ पाकान्तरेण कुर्यात्तु वैश्वदेवं यथाविधि । स्नाने दाने जपे होमे स्वाध्याये पितृकमणि ॥। ३०० ॥ सपवित्रौ सदर्भीवा करो कुर्वीतनान्यथा । नित्यश्राद्धं न कुर्वीत प्रसंगाद्यत्र सिध्यति ॥ ३०१ ॥ श्राद्धान्तरे कृते तस्मिन् नित्यत्वात्तन्नापयेत् । दर्शश्राद्धादिनिष्पत्तौ नित्यस्य न पृथक् क्रिया ॥ ३०२ ॥ ते नैव तस्यसिद्धिःस्यात काम्येनित्याग्निहोत्रवत् । आविकेन तु वस्त्रेण मानवः श्राद्धमाचरेत् ॥३०३॥ गयाश्राद्धसमं प्रोक्तं पितॄणां दत्तमक्षयम् । रेतस्पृष्टं शवस्पृष्टं स्पृष्ट्वा मूत्रपुरीषयोः ॥ रजस्वलादि संस्पृष्टमाविकं तु सदाशुचिः ॥ ३२०४ ॥ अमिराविक वस्त्रं हि विप्रास्तिलाः कुशाः सवाः । एतेषां न कृतो दोषो व्याघ्रस्य वचनं यथा ॥ ३०५ ॥ हव्यार्थं गोघृतं ग्राह्यं तदभावे तु माहिषम् । आज्यं वा तदलाभे तु साक्षात्तैलं प्रगृह्यते ॥ ३०६ ॥

[[1]]

व्याघ्रपादस्मृतिः

लाभावे गृहीतव्यं तैलं च तिलसंभवं ।

भावेऽतसीस्नेहैः कौसुभः सर्पपोद्भवः ॥३०७ ॥ स्नेहोथवा ग्राह्यं पूर्वालाभे परः परः । तदलाभे यवनोहिः श्यामाकाभ्यन्तरोद्भवम् ॥३०८॥ पेष्टमालोक्यते येन घृतार्थे योजयेत्सुधीः । [dog पुनागं निचैरण्डोद्भवं त्यजेत् ॥ ३०६ ॥

द्वात्र्यं घृते छागं माहिष्यादेधृतं क्रमात् । दलाभे गवादीनां क्रमात्क्षीरं विधीयते ॥ ३१०॥ बदलाभे दधिग्राह्यमलाभे तैलमिष्यते । मुख्यासनौ यथा ग्राह्य कार्यकारणसंततौ ॥ ३११॥

वणका राजामपाश्च रक्तायावन्नलास्तथा ।

श्यामाका मसूराश्चैव आढक्याश्च सचत्वका ॥ ३१२॥ अग्राह्याः श्राद्धपाके च कुलित्थाः सर्पपास्तथा । हविष्योगोधूमाश्चैव मुद्गामाषा यवास्तथा ॥३१३ ॥ तण्डुला त्रीहयश्चैव कृष्णातिलास्तथैव च ।

आढक्यास्तुपर हिता

शुभायावन्नलास्तथा ॥ ३१४ ॥

आर्द्रकं नारिकेलं च रंभा जंबूच चूतकाः । रेक्षवं वदरं चैव सैंधवं लवणं तथा ॥३१५॥

परीचं च मधुश्चैव क्षौद्र शुंठिस्तथैव च ।

रुद्रस्वरूपास्ते श्राद्धार्थे तर्पणे

पितृन् ॥ ३१६ ॥

नामगोत्रे समुच्चार्य तिलैस्तीर्थेषु संयुतः ।

न चस्मरेहषीश्छन्दान श्राद्ध वैतानिके मखे ॥३१७॥

Y

श्राद्धवर्णनम

ब्रह्मयज्ञेन वै तद्वत्तथोंकारं तु नोश्चरेत । अन्वारब्धेन सव्येन दक्षिणेन तु पाणिना ॥३१८॥ सव्योत्तराभ्यां पाणिभ्यामथवा तर्पणं भवेन । ऊर्ध्ववाहुरधोयामं खातं प्राकक्षिणायतम ॥३१६॥

पंचारनिमिता तिर्यक् अधस्ताद्दक्षिणायतम् । पंचारत्निमितातिर्यगधस्ताद्वादशांगुलम ॥

पितुः पुत्रेण कर्तव्य प्रपितामहपूर्वकम् ॥ ३२०॥ दैवात्प्रत्यादिके श्राद्ध अन्तरामृतसूतके । आशौचानन्तरं कुर्यात्तन्मासेन्दुभयेरपि ॥ ३२१॥ श्राद्ध विघ्न समुत्पन्ने ह्यविज्ञाते मृतेहनि । कुर्यादन्नेन कृष्णायामेकादश्यां विधुक्षये ॥ ३२२॥ आब्दिके चैव संप्राप्त आशौचं जायते यदि । आशौचे तु व्यतिक्रान्ते तत्र श्राद्धं प्रदीयते ॥ ३२३॥ अपुत्रा तु यदाभार्या संप्राप्त े भर्तुरादिके । रजस्वला भवेत्सातु कुर्यात्तत्पंचमेऽहनि ॥ ३२४॥ अमाश्राद्ध गयाश्राद्ध श्राद्ध चापरपक्षगे । न जीवत्पितृक कुर्यात्तिलैः कृष्णैश्च तर्पणम् ॥ ३२५॥ भरणी प्रेतपक्षे तु महती परिकीर्तिता ।

अस्यां श्राद्धं कृतं येन स गयाश्राद्धकृद् भवेत् ॥ ३२६॥ मासद्वयगतं श्राद्ध मलमासेऽपि शस्यते । वर्षे वर्षे तु तच्छ्राद्धं मातापित्रोर्मृतेऽहनि ॥३२॥

[[२५२१]]

[[२५२२]]

व्याघ्रपादस्मृतिः

मासद्वयेऽपि तत्कार्य व्याघ्रस्य वचनं यथा । गयायां सर्वकाले च पिण्डं दद्यान विचक्षणः ॥ ३२८॥ अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः । आदित्यकिरणैः पूतं पुनः पूतं च वह्निना ॥ ३२६ ॥ अतोत्र्याध्यातुरः स्नायाद् ग्रहणं चन्द्रसूर्ययोः । सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् ॥३३०॥ पिण्डजं चरुहोमं च सगोत्रेण न कारयेत् । स्पन्दनेषु द्विजातीनां भिन्नतो जनभोजने ॥३३१ ॥

पंचगव्येन शुद्धिःस्याद् व्याघ्रस्य वचनं यथा । पिण्डदानं मृदास्नानं तथैव तिलतर्पणम् ॥३३२॥ विदेशगमनं चैव न कुर्याद्गुर्विणीपतिः ।

पुं सोभार्या गुर्विणीतस्य नाशश्चौलं सूनोः क्षौरकर्मात्मनश्च । गेहारम्भं पिण्डसंस्थापनं च वाद्धस्नानं तीर्थयात्रां न कुर्यात् भूभौ हस्तौ प्रतिष्ठाप्य मार्जनं चैव वर्जयेत् ।

न कुर्याद्यादि मूढात्मा रौरवं नरकं व्रजेत् ॥३३४ ॥ गंगायां वापिकायां च तड़ागे च तथैव च ।

वामहस्ते जलं गृह्णन् न कुर्यान्मार्जनं द्विजः ॥३३५॥ पात्रस्थितोदकेनैव वामहस्तोदकेन वा ।

संध्यायां मार्जनं कृत्वा नान्ययोस्तु कदाचन ॥३३६॥

उष्णोदकेन या सन्ध्या पदमध्ये तु मार्जनं । उपविश्य तु यत्राध्यं तत्सर्वं निष्फलं भवेत् ॥ ३३७ ॥

वामहस्ते जलं

आचारधर्मवर्णनम्

धृत्वा यस्तुसंध्यामुपासते ।

सा संध्या तु वृथाज्ञेया आसुरस्तेन तृप्यति ॥३३८॥ कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रं तु गृहीकुर्याद्यद्वा कर्णे समाहितः ॥ ३३६ ॥ यद्य कवस्त्रो विप्रः स्यात् कर्णेकृत्वोपवीतकम् । अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्यवाससा ॥३४०॥ अयज्ञीयस्तृणैस्तत्स्यात् (?) इतरानसतद्भवेत् । उभे मूत्रपुरीषे तु दिवाकुर्यादुदङ्मुखः ॥ ३४१॥ तीर्थे शौचं न कुर्वीत कुर्वीतोडत्य वारिणा । अरत्निमात्रं जलं त्यक्त्वा कुर्याच्छौचमनुद्धते ॥ ३४२ ॥ सन्ध्ययोर्भोजनार्थे च पित्र्यर्थं देवकर्मणि । शूद्राहृतेन नाचामेत्तथा चर्मेण वारिणा ॥ ३४३ ॥ प्रक्षाल्योदक् शुचौ देशे दंतधावनमुत्सृजेत् । निषिद्धाहे तृणैः कुर्याजिहोल्लेखस्तु सर्वदा ॥३४४॥ कार्पासमुपवीतं स्याद्विप्रोशौचधृतं त्रिवृत् । स्थाने पवित्रे संध्याया षण्णवत्यंगुलीष्वयत् ॥ ३४५॥ करंजपिप्पल-वट-प्लक्ष-कुंभ्यर्क - तंदुकाः ।

[[२५२३]]

एषां पात्रेषु नाश्नीयात् कोविदाराम्रयोरपि ॥४६॥ विपरीतेषु पत्रेषु तिर्यक्पत्रे च दारुजे । नैकवासा समश्नीयात् नाश्नीयात् भिन्नभाजने ॥ ३४७॥ हस्तदत्तानि चान्नानि प्रत्यक्षलवणं तथा । ताम्र-रजतसौवर्ण-शंखस्फटिक - शुक्तिषु ॥ ३४८॥ १५८

[[२५२४]]

व्याघ्रपादस्मृतिः

अपात्रेषु च पत्रेषु भिन्नदोषो न विद्यते । एक एव तु यो भुंक्त े विमले कांस्य भाजने ॥ ३४६ ॥ चत्वारि तस्य वर्द्धन्ते आयुः प्रज्ञा यशोबलम् । कांस्यपात्रमनुज्ञातं विधवाब्रह्मचारिणौ ॥३५०॥ यद्यन्यस्मै भोजनाय न कदाचित्प्रयच्छति । कर्मकाले न कुर्वीत मुसलोलूखलध्वनिम् ॥३५१॥ तथा संघट्टशूर्पादेः संध्यायां च विशेषतः । निशायाः पश्चिमे यामे धान्यसंस्करणादिकम् ॥ ३५२ ॥ श्रूयमाणं हि नारीणां श्रुतश्रेयोधनावहम । श्रोत्रियान्नं च भक्षं च हुतशेषं च यद्धविः ॥ ३५३ ॥ आनखाच्छोधयेत्पापं तुषाग्निमिव कांचनम् । मातुर्यद जायेत द्वितीयं मौंजीबन्धनम् ॥३५४॥ त्रितीयामग्निदीक्षी च त्रिजन्मपात्रमुत्तमम । वृत्तिमन्तं शिल्पानि हीनादपि समाश्रयेत् ॥ राजद्रव्यं तु ये केचिद् वेदोदोपेण (?) गृह्यति ॥३५५ ॥

रजस्वलायां भार्यायां सूतके पर्वणि तथा । तैलाभ्यंगं न कुर्वीत संध्यासु श्राद्धकर्मणि ॥ ३५६॥ अजागावो महिष्यश्च ब्राह्मणस्य प्रसूतिका । दशरात्रेण शुध्यंति भूमिस्थं च नवोदकम् ॥ ३५७॥ अतः परं प्रवक्ष्यामि संध्योपासननिर्णयम् । अग्निहोत्र कृतैः पापैः यामुपास्य प्रमुच्यते ॥३५८॥

आचारधर्मवर्णनम्

[[२५२५]]

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । धनधान्येन वैश्यानां शूद्राणामग्रजन्मतः ॥ ३५६॥ यश्चाभिवादनो (दिनं) विप्र आशिषं न प्रयच्छति । श्मशाने जायते वृक्षो आशिषं न प्रयोजति ॥ ३६० ॥ उदक्यां सूतिकां नारीं भर्तृव्रीं गर्भघातिनीं । पाखण्डं पतितं व्रात्यं महापातकिनं शटम् ॥ ३६१॥ सोपानत्कं कृतघ्नं च मंत्रोचारकृतं रिपुम । भुंजानमशुचिमतं धावन्तं नास्तिकं तथा ॥ ३६२॥ वमंतं जृम्भमाणं च कुर्वन्तं दन्तधावनम् । अभिवाद्य द्विजो मोहादहोरात्रेण शुद्धयति ॥ ३६३ ॥ जपयज्ञजलस्थं च समित्पुष्प कुशान्तिलान् । उदपात्रार्थभैक्ष्यं च वहतं नाभिवादयेत् ॥ ३६४ ॥ स्वयमेव विधानेन अभिवंदेभिवादकम् । संध्याये (?) नियमानेति द्रष्टव्या अभिवादने ॥ ३६५ ॥ देवताप्रतिमां दृष्ट्वा यतिं दृष्ट्वा त्रिदण्डिनम् । नमस्कारं न कुर्वीत प्रायश्चित्ती भवेन्नरः ॥ ६६ ॥ जन्मप्रभृति यत्किंचित्सुकृतं समुपार्जितम् । तत्सवं निष्फलं याति एक हस्ताभिवादनात् ॥ ३६७॥ अग्निहोत्रफलावेदा षडंगसपदक्रमः । अग्निहोत्रात्परो धर्मो न भूतो न भविष्यति ॥ ३६८॥ न व्याहृतिसमो होमो न गायत्री समो जपः । नाग्निहोत्रात्परो यज्ञो न देवः केशवात्परः ॥ ३६६ ॥

[[२५०६]]

व्याघ्रपादस्मृतिः

अनलादर्शनं यावत् इतिवाजसनेयिनः ।

परान्नपक्कं नाश्नीयात् ह्यवसन् पर्वणि द्विजः ॥ ३७०॥ असन्तुष्ट सुखं नास्ति न धर्मः क्षुद्रमानसे । भाग्यहीने धनं नास्ति नास्ति पुण्येऽच्युतार्चनम् ॥३७१ ॥ सत्यानृताभ्यां जीवंतमृतेन प्रनृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्या कदाचन ॥ ३७२ ॥ सत्यानृतं तु वाणिज्यं श्ववृत्तिः नीचसेवनम् । सेवावृत्तिभि (स्तु) यैरुक्ता नूनं ते नैव पंडिताः ॥ ३७३ ॥ दक्षिणास्योऽपसव्येन तर्पयेत् विधिवत्पितृन् । बाहूपूर्णतलैः कृत्वा जलस्थस्तर्पयेत् पितृन् ॥ ३७४॥ स्थलस्थेन तु कर्तव्यं पितॄणां तृप्तिमिच्छता । विनारौप्य सुवर्णेन विना ताम्रतिलैर्न च ॥ ३७५॥ विना दर्भैश्च मंत्रैश्च पितॄणां नोपतिष्ठति । विवाहस्त्वेकजन्यानां एकस्मिन्नुदये कुले ॥ ३७६ ॥ नाशं करोत्येकवर्षे स्यादेका विधवातयोः । प्रत्युद्वाहो नैव कार्यो नैकस्मिन् दुहितृद्वयम् ॥३७७॥ नैकजनन्योः पुंसो रेक (?) जनन्यके । मातामंगलसूत्रेण मृतायदि चतुर्दिने ॥ ३७८ ॥ । उद्दिश्यविप्रपंक्तौ तां भोजयेत्तु सुवासिनीम् । जानुदग्धजलस्थोवाऽऽविलं स्नानशाकटः ॥ ३७६॥ सव्येनप्राङ्मुखोदेवान् निवीत्युत्तरतोनरान् । शिशोर्मातारिगर्भिण्यां चूड़ाकर्म न कारयेत् ॥ ३८०॥

आचारधर्मवर्णनम्

[[२५२७]]

गते तु पश्चमेवर्षे गर्भिणी यदि वा भवेत् । गर्भिण्यां मातरि शिशोः क्षौरकर्म न कारयेत् ॥ ३८२१॥ पञ्चाब्दात्प्रागथोद्धं च गर्भिण्यामपि कारयेत् । चूड़ाकर्म शिशोर्माता गर्भिणी यदि वा भवेत् ॥ ३८२॥ गर्भस्यैव विपत्तिः स्यात् दंपत्योर्वा शिशोरपि । सहोपनीत्या कुर्याच्च तदादोपो न विद्यते ॥३८३ ॥ वेदान्तरमधीत्यैव ॠग्वेदं येत्वधीयते ।

उपनी तिरयं

तेषामलंकरणवर्जिता ॥३८४॥

पाखंड्य दृश्य संस्पर्शे न स्नायादुष्णवारिणा । नद्यां तु विद्यमानायां न स्नायादन्यवारिषु ॥ ३८५॥ अस्नातमातुरस्नाने स तीर्थं तु शृतोदकम् । स्नात्वा तु वाससी धौते अक्लिन्ने परिधाय च ॥ ३८६ ॥ प्रक्षाल्योरुमृताचाद्भिर्हस्तौ प्रक्षालयेत्ततः ।

काषायं कृष्णवस्त्रं च मलिनं केशदूषितम् ॥३८७॥ जीण नीलं संधितं च पारक्यं मैथुने धृतम् । अच्छिन्ना प्रमुपवस्त्रं कुत्सितं धमतो विदुः ॥ ३८८॥ यज्ञं दानं जपो होमं स्वाध्यायं पितृतपणम् । नैकवस्त्रो द्विजः कुर्याद्भोजनं तु सुरार्चनम् ॥३८६ ॥ तत्सर्वम सुरेन्द्राणां ब्रह्मा भागमकल्पयत् । ततः सन्ध्यामुपासीत (शुद्धचित्तोजितेन्द्रियः) ॥ मुहूर्तादग्निहोत्राणि नयंति परमां गतिम् ॥ ३६० ॥

[[२५२८]]

व्याघ्रपादस्मृतिः

अत्रस्वर्गश्चमोक्षश्च यो यथा गन्तुमिच्छति । यदिच्छसि महासिद्धि तीर्थराजाभिषेचनम् ॥ ३६१ ॥ विप्रपादविनिर्मुक्तं तोयं शिरसि धारय । दक्षिणां स ब्रह्मसूत्रं स्तेयेमे दक्षिणामुखः ॥३२॥ कुशास्तान द्विगुणी कुर्वन् जानुसव्यं निधाय च मार्जनं तर्पणं श्राद्धं न कुर्याद्वारिधारया ॥ ३६३ ॥ करोति यदि मूढात्मा तत्सवं निष्फलं भवेत् ॥ ३६४ ॥ विद्वान् स्वयं तु यो ब्रूयात् स धर्मः परमः स्मृतः । अच्छिद्रमितितद्वाक्यं वदंति क्षितिदेवताः ॥ ३६५ ॥ प्रणम्यशिरसाग्राह्यममिष्टोमफलैः सह ।

व्याघ्रपादेन चाख्यातं धर्मशास्त्रोत्तमोत्तमम् ॥३६६॥

इति व्याघ्रपादप्रणीतं धर्मशास्त्रं समाप्तम् ।

॥ समाप्तश्चायं स्मृतिसन्दर्भस्य चर्थोभागः ॥ * ॐ तत्सद्ब्रह्मार्पणमस्तु *लाल बहादुर शास्त्री राष्ट्रीय प्रशासन अकादमी, पुस्तकालय

Lal Bahadur Shastri National Academy of Administration Library

मसूरी

MUSSOORIE

अवाप्ति सं०

Acc. No……..

कृपया इस पुस्तक को निम्न लिखित दिनांक या उससे पहले वापस कर दें ।

Please return this book on or before the date last stamped

below.

दिनांक

उधारकर्ता की संख्या

दिनांक

उधारकर्ता की सख्या

Date

Date

Borrower’s No.

Borrower’s No.

–KATRI

Sans

294.5

FATO

भाग 4

~13276

अवाप्ति सं.

ACC No…

वर्ग सं.

Class No…..

लेखक

294.5 स्मृति

LIBRARY

पुस्तक सं.

Book No……….

[[13276]]

LAL BAHADUR SHASTRI

National Academy of Administration

भाग 4

MUSSOORIE

Accession No. 125165

  1. Books are issued for 15 days only but may have to be recalled earlier if urgently required.

  2. An over-due charge of 25 Paise per day per

volume will be charged.

  1. Books may be renewed on request, at the

discretion of the Librarian.

  1. Periodicals, Rare and Reference books may not be issued and may be consulted only In the Library.

  2. Books lost, defaced or injured in any way shall have to be replaced or its double price shall be paid by the borrower.

Help to keep this book fresh, clean & moving