वृद्धगौतमस्मृतिः

॥ श्रीगणेशायनमः ॥

प्रथमोऽध्यायः ।

अथ केशव युधिष्ठिर सम्वादवर्णनम् ।

अश्वमेधे पुरावृत्तं केशवं केशिसूदनम् । धर्मसंशयकं दृष्ट्रा किमपृच्छत गौतमः ॥१

गौतम उवाच ।

पञ्चमेनापि मेघेन यदा स्नातो युधिष्ठिरः । तदा राजा नमस्कृत्य केशवं वाक्यमब्रवीत् ॥२

युधिष्ठिर उवाच ।

भगवन् ! वैष्णवा धर्माः किं फलं किं परायणाः । किं धर्ममधिकृत्यासीत् भवतोत्पादिता पुरा ।

यदि ते न मनो ग्राह्यः प्रियो वा मधुसूदन ! ॥३

[[१६२०]]

वृद्धगौतमस्मृतिः ।

श्रोतव्यः स तु वा कृष्ण ! तन्मे कथय सुव्रत ! । पवित्राः किल ते धर्माः सर्वपापप्रणाशनाः ॥४ सर्वधर्मोत्तराः पुण्या भगवन्ननघोत्थिताः । यछ्र ुत्वा ब्रह्मणा गोघ्नो मन्त्रिणा गुरुतल्पगः ॥५ पाकभेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी । मित्रविश्वासघाती च ब्रह्मणा विष्णुना तथा ॥६ आत्मविक्रयिणो ये च जीवेयुश्च कुकर्मभिः । पापाः शठा नैष्कृतिका व्यभिचारपरास्तथा ॥७ रसभेदकरा ये च ये च नीरप्रदूषकाः ॥८ श्रीविप्रेण कराचौरा विप्रा ये च पुरोहिताः । रुक्षपणारुणाः स्निग्धा स्तथा ये परदारकाः ॥६ ये ते चान्ये च बहवः पञ्च ते तेऽपि किल्विषात् । तानाचक्ष्व सुरश्रेष्ठ ! त्वद्भक्तोऽस्म्यहमच्युत । ॥१०

वैशम्पायन उवाच ।

इत्येवङ्कथितो देवो धर्मपुत्रेण संसदि । वशिष्ठाद्यास्तपोयुक्ता मुनय स्तत्वदर्शिनः ॥ ११ श्रोतुकामाः परं गुण्यं भक्तिमन्तोहरेः कथाः । तथा भागवताचैव ततस्तं पर्यवारयन् ॥१२

युधिष्ठिर उवाच ।

यदि जानासि मां भक्तं स्निग्धम्वा भक्तवत्सल ! । सवधर्माणि गुह्याणि श्रोतुमिच्छामि तत्त्वतः ॥ १३

[ प्रथमो-

ऽध्यायः ]

धर्मोपदेशवर्णनम् ।

धर्मान् कथय देवेश ! यद्यनुग्रह भागहम् ।

श्रुता मे मानवा धर्मा वाशिष्ठाः काश्यपास्तथा ॥ १४ गार्गेया गौतमीयाश्च तथागोपालितस्य च ।

पराशरकृताः पूर्वमात्रेयस्य च धर्मतः ॥ १५ उमामहेश्वराश्चैव नन्दिधर्माश्च पावनाः ।

ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया ॥ १६ धूम्रवर्णाः कृताधर्माः क्रौ श्ववंश्वानरा अपि ।

भार्गव्या याज्ञवल्क्याश्च माण्डव्या कौशिकास्तथा ॥१७

भारद्वाजकृता ये च ब्रह्मस्वकुकृताश्च ये । 1

कृणिने च कृणीबाहो ! विश्वामित्रकृताश्च ये ॥१८ सुमन्तुजैमिनिकृताः शाकनेयास्तथैव च । पुलस्त्य पुलहोद्गीताः पाराशर्यास्तयैव च ॥ १६ अगस्त्यगीता मौङ्गल्याः शाण्डिल्यास्तुलहायनाः । बालखिल्यकृता ये च सप्तर्षिरचिताश्च ये ॥२० आपस्तम्बकृता धर्माः शङ्खस्य लिखितस्य च । प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया ॥ २१ वैश्वानराख्या गीताश्च विभाण्डककृताश्च ये । नारदीयकृता धर्माः कापोताश्च श्रुता मया ॥२२ तथापि पुरवाक्यानि भृगोरङ्गिरसस्तथा । कौश्वमातङ्गगीताश्च सौधहारीतकास्तथा ॥२३ पिङ्गवर्मकृताकान्ता ये च वा वसुपालिताः । उद्दालककृताधर्मा औशनसा स्तथैव हि ॥ २४

[[१६२१]]

[[१६२२]]

वृद्धगौतमस्मृतिः ।

वैश्यपा धनगीताश्च ये चान्येऽप्येव मागधाः । एतेभ्यः सर्वधर्मेभ्यो देवत्वाद्याश्च निश्रिताः ॥ २५ पावनत्वात्पवित्रत्वाद्विशिष्टा इति मे मतिः ।

[ प्रथमो-

तस्मा त्वा प्रपन्नस्य त्वदृभिन्नस्य च माधव ! ॥२६ युष्मदीयान् परान् धर्मान् पुण्यान् कथय मेऽच्युत !

वैशम्पायन उवाच ।

एवमुक्तस्तु धर्मज्ञो धर्मपुत्रेण माधवः ॥ २७ उवाच धर्मान् सूक्ष्माख्यान् धर्मपुत्रस्य धीमतः ।

श्रीभगवानुवाच ।

यावन्तो यस्य कौन्तेय ! एतद्धर्मेषु सुव्रत ! । त्वत्समो मत्समो लोके न कश्चिदिह विद्यते ॥ २८ धर्मः श्रुतो वा दृष्टो वा कृतो वा कथितोऽपि वा । आमोदितो वा राजेन्द्र ! पुनाति ह नरं सदा ॥२६ धर्मः पिता च माता च धर्मश्च सुहृदस्तथा । धर्मो भ्राता सखा चैव धर्मः स्वामी परन्तपः ॥ ३० धर्मादर्थश्च कामश्च धर्माद्भोगाः सुखानि च । धर्मादैश्वर्यमेव व धर्माः स्वर्गगतिः प्रभो ! ॥३१ धर्मो वशे विपन्नञ्च त्रायते महतो भयात् । द्विजत्वं देवतात्वञ्च धर्मः प्रापयते नरम् ॥३२ यदा च क्रियते पापः कालेन पुरुषस्य च । तदा सञ्जायते बुद्धिर्धर्मं कर्तुं युधिष्ठिर ! ॥ ३३

ऽध्यायः ]

धर्मोपदेशवर्णनम् ।

जन्मान्तरसहस्रैस्तु मानुषत्वं सुखी भव । तत्तवापीह यो धर्मान् न करोति स वतिः ॥ ३४ कीटाचैव पुरीषस्य विरूपा व्याधितास्तथा । परद्वेष्याश्च मूर्खाश्च न तैः धर्माः कृताः पुरा ॥३५ एके दीर्घायुषः शूराः पण्डिता भोगिनस्तथा । अरोगा रूपसम्पन्ना स्तैर्धर्माः स्युः कृताः पुरा ॥३६ एवं धर्मः कृतः सद्यो नयते गतिमुत्तमाम् । अधमः सेव्यमानस्तु तिर्यग्योनिं नयत्यसौ ॥३७ इदं रहस्यं कौन्तेय ! श्रूयतामिदमुत्तमम् । कथयिष्येपरं गुण्यं मम भक्तस्य पाण्डव ! ॥३८ इष्टस्त्वमसि मे त्यक्तुं प्रपन्नाश्चापि मां सदा । परमात्ममपि ब्रूयां किं पुनर्धर्मसंहिताम् ॥३६ इदं मे मानुषं जन्म कृतमात्मनि मायया । धर्मसंस्थापनायैव दुष्टानां शासनाय च ॥४० मानुष्यं भावमापन्नं ये मां गृह्यं तवाज्ञया । संसरन्ति ह ते मूर्खा स्तिर्यग्योनिष्वनेकशः ॥४१ ये च मां सर्वरक्तत्वे पश्यन्ति ज्ञानचक्षुषा । मद्भक्तांस्तान् सदा युक्तान् मत्समीपं नयाम्यहम् ॥४२ मद्भक्तानान्तु मानुष्ये सर्वजन्म च पाण्डव ! ।

अपि वा ये अभिरता मद्भक्ताः पाण्डुनन्दन ! ॥४३ मुच्यते पातकैः सर्वैः पद्मपात्र मिवाम्भसा । जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् ॥४४

[[१६२३]]

[[१६२४]]

वृद्धगौतमस्मृतिः ।

!

मद्भक्तिः क्रियते तात ! मनुष्याणां न संशयः । यच्च रूप्यपरं पुण्यं तैस्तदचलवत् धवम् ॥४५ न दृश्यते तथा देवैर्मद्भक्तैः क्रुश्यते यथा । जपरं यश्च मे रूपं प्राणभावेषु नाश्यते ॥४६ तदद्य ते ह सर्वार्थैः सर्वभूतैश्च पाण्डव ! । कल्पकोटिसहस्रेषु व्यतीतेष्वागतेषु च ॥४७ दर्शयामीति यद्रूपं तत्प्रपश्यन्ति मे सुराः । स्थित्युत्पत्तिलयकर्त्तारं यो मां ज्ञात्वा प्रपद्यते ॥४८ अनुगृह्णाम्यहं तस्य संसारान्मोचयामि च । अहमादीति भूतानां सृष्टा ब्रह्मादयोमया ॥४६ प्रकृतिं स्वामवष्टभ्य जगत्सर्वं सृजाम्यहम् । ततो मूलोऽहमव्यक्तो रजोमध्ये प्रतिष्ठितम् ॥५० ऊध्वं सत्त्वविशालोऽहं ब्रह्मादि स्तम्बसंस्थितम् । मूर्धानं मे दिवं विद्धि चन्द्रादित्यौ च लोचने ॥५१ देवादिब्राह्मणा वक्त्रं मरुतः श्वसनश्च मे । दिशो मे बाहवश्चाष्टौ नक्षत्राणि विभूषणम् ॥५२ अन्तरिक्षकरं बिद्धि सर्वभूतावकाशकम् । मार्गो मेघानिलाभ्यान्तु यमं सोदरमव्ययम् ॥ ५३ पृथिवीभ्व वलं यद्वै द्वीपार्णा च नगैर्युतम् । सर्वसन्धारणोपेतं पादौ मम युधिष्ठिर ! ॥५४ स्थितोह्येकगुणाख्ये ह द्विगुणश्चास्मि मारुते । अगुणस्तैः स्थितोऽहं वै सलिले तु चतुर्गुणः ॥५५

[ प्रथमो-ऽध्यायः ]

भगवत्स्वरूपवर्णनम् ।

महान्तो मे गुणाः पञ्च महाभूतेषु पञ्चसु । तन्मात्रेसंस्थितः सोऽहं पृथिव्यां पञ्चधा स्मृतः ॥५६

अहं सहस्रशीर्षस्तु सहस्रचरणेक्षणः ।

सहस्रबाहूद्रदृक् सहस्राक्षः सहस्रपात् ॥५७ स्थितोऽस्मि सर्वतः सद्यो ह्यद्य तिष्ठेद्दशाङ्गुलम् । सर्वभूतात्मभूतः सन् सर्वव्यापी ततो ह्यहम् ॥५८ अचिन्त्योऽहमनन्तोऽहमचलोऽहम जो ह्यहम् । अनाद्योहमप्रमेयोऽहमव्ययोवेद्योऽहमयम् ॥५६ निर्गुणोऽहन्निर्गन्धात्मा नित्योऽहं निर्ममोऽपि च । निर्द्वन्द्वो निर्विकारोऽहं निधान श्यामृतस्य च ॥६० मृतस्य तस्य चाहश्च स्वाहाकारो नराधिप । ।

! तेजसा तपसा चाहं भूतग्रामेष्वनव्ययः ॥ ६१ स्नेहपाशगणैबष्वा धारयाम्यात्ममायया । चतुराश्रमवर्णोऽहं चातुर्होत्रफलाशनः । चतुर्मूतिश्चतुर्व्यूह चतुराश्रमभाजनम् ॥ ६२ संहृत्याहं जगत्सर्वं कृत्वाहं गर्भमात्मनः । शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर ! ॥ ६३

सहस्रयुगपर्यन्ता ब्राह्मी रात्रि महार्णवे ।

[[1]]

[[१६२५]]

स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च ॥ ६४ कल्पे कल्पे च भूतानि संहरामि सृजामि च ।

न च मां तानि जानन्ति मायया मोहितानि हि ॥६५

[[१६२६]]

वृद्धगौतमस्मृतिः ।

[ द्वितीयो-

मम चैवान्धकारस्य माश्रितव्यस्य नित्यशः । प्रशान्तस्येव दीपस्य गतिर्नैवोपलभ्यते ॥६६ न तदस्ति कचिद्राजन् यत्र नाहं प्रतिष्ठितः । न च तद्विद्यते भूतं मयि धन्नं [स] प्रतिष्ठितम् ॥ ६७ यावन्मात्रं शरीरं हि स्थूलसूक्ष्ममिदं कचित् ।

जीवमृतो ह्यहं तस्मिन् हिताय मां प्रतिष्ठितः ॥ ६८ किश्वात्र बहुनोक्तेन सत्यमेतत् ब्रवीमि ते । यद्भूतं यत् भविष्यश्च तत्सर्व महमेव तु ॥ ६६ मया श्रद्दधनानि यानि भूतानि कानि पाण्डव ! । ममैव न च जानन्ति मायया मोहितानि मे ॥७० एवं सर्वं जगदिदं सदेवासुरमानुषम् ।

मन्त्रः प्रभवते राजन् मम विप्र ! विनाशिनः ॥ ७१

इति गौतमीये श्रीवैष्णवधर्मशास्त्रे प्रथमोऽध्यायः ।

द्वितीयोऽध्यायः ।

अथ धर्मशास्त्र (धर्म) प्रशंसावर्णनम् ।

वैशम्पायन उवाच ।

एवमात्मोद्भवद्रव्य मगदद्दृश्यकेशवम् ।

धर्मान्धर्मात्मजस्यैव पुण्यानकथयद् बहून् ॥१

ध्यायः ] धर्मशास्त्र (धर्म) प्रशंसावर्णनम् ।

श्रीभगवानुवाच ।

शृणु पाण्डव ! यत्नेन पवित्रं पावनं परम् । कथ्यमानं मया पुण्यं धर्मशास्त्रं महाफलम् ॥२ यच्छृणोति शुचिर्भूत्वा एकचित्तस्तपोधनः । धमं यशस्य मायुष्यं धर्मात्मानं युधिष्ठिर ! ॥३ श्रद्दधानस्य तस्येह यत्पाप्मा पूर्वसचितः । विनश्यत्याशु तत्सर्वमभक्तस्य विशेषतः ॥४ एवं श्रुत्वा वचः पुण्यं वाक्यं केशवभागिनम् । प्रणष्टमनसो भूत्वा चिन्तयन्त्युत्तमं परम् ॥५ देवा ब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा । भूताक्षयक्षमहा गुह्यका भुजगास्तथा ॥६ बालखिल्या महात्मानो योगिनस्तत्वदर्शिनः । तथा भागवताश्चापि पञ्चकालमुपासकाः ॥७ कौतुहलसमाविष्टाः प्रणष्टाः परमर्षयः । श्रोतुकामः परं गुह्यं वैष्णवं धर्मशासनम् ॥८ हृदि कतुश्च तद्वाक्यं प्रणम्य शिशुना तदा । ततस्ते वासुदेवेन दृष्टाः सौम्येन चक्षुषा ॥ विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम् । पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान् ॥१०

युधिष्ठिर उवाच ।

ततस्ते वासुदेवेन दृष्टाः सौम्येन मानुषाः । कीदृशी ब्राह्मणस्याथ कीदृशी क्षत्रियस्य वं ॥११

[[१२१]]

[[१६२७]]

[[१६२८]]

वृद्धगौतमस्मृतिः ।

[ द्वितीयो-

वैश्यस्य कीदृशी देव ! गतिः शूद्रस्य कीदृशी । कथं गच्छेत पापेन ब्राह्मणस्तु यमालये ॥१२ क्षत्रियोवाथ शूद्रोवा वैश्यो वा गच्छते कथम् । एतत्कथय देवेश ! लोकनाथ ! नमोऽस्तु ते ॥ १३

वैशम्पायन उवाच ।

स पृष्टः केशवश्चैव धर्मपुत्रेण धीमता । उवाच संसारगतिं चतुर्वर्णस्य कर्मजाम् ॥१४

श्रीभगवानुवाच ।

शृणु वर्णक्रमेणैव धर्मान् धर्मभृताम्वर ! । नास्ति किञ्चिन्नरश्रेष्ठ ! ब्राह्मणस्य तु विक्रयः ॥ १५ ये तु तासु सदा ध्यात्वा सन्ध्यां ये च उपासते । यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुहते च ये ॥१६ वैश्वदेवाश्च ये कुर्युः पूजयन्त्यतिथींश्च ये । नित्यस्वाध्यायशीलाश्च पश्चयज्ञपरायणाः ॥ १७ सायं प्रातहु ताशाच गुर्वभोजनवर्जिताः । दम्भाचारविमुक्ताश्च स्वदारनिरताः सदा ॥१८ पञ्चयज्ञरताश्चैव अग्निहोत्रमुपासते ।

ते नमस्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते ॥१६ ब्रह्मलोके ततः कामं गन्धर्वै ब्रह्मगायकैः ।

उपगीयमानाः प्रिय । तैः

! पूज्यमानाः स्वयम्भुवा ॥२०

ब्रह्मलोके प्रमोदन्ते यावद्भतस्य विल्लवम् ।

क्षत्रियोऽपि स्थितो राज्ये स्वधमं परिपालयन् ॥२१

ऽध्यायः ]

चातुर्वर्ण्यधर्मवर्णनम् ।

सम्यक् प्रजाः पालयिता स्वधर्मनिरतः सदा । यज्ञदानरतो धीरः स्वधर्मनिरतः शुचिः ॥२२ शास्त्रानुकारी तत्त्वज्ञः प्रजाकार्यपरायणः । विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः ॥२३ सत्यसन्धः शुचिर्नित्यलोभदम्भविवर्जितः ।

क्षत्रिय उत्तमां याति गतिं देवनिषेविताम् ॥२४ तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च प्रयत्नतः । सेव्यमाना महातेजाः क्रियते शक्रपूजितः ॥२५ चतुर्युगानि वै त्रिंशत् मादित्वा तत्र देववत् । इहैव मानुषे लोके चतुर्वेदी द्विजो भवेत् ॥२६ कृषिगोपालनिरतः स्वधर्मावेक्षणेरतः ॥ वणिक स्वकर्म वाप्नोति पूज्यमानोऽप्सरोगणैः । चतुर्युगानि वै त्रिंशत् ऋद्धि द्वादश पञ्च च ॥२७ इह मानुष्य के राजन् ! राजा भवति वीर्यवान् । त्रयाणामपि वर्णानां शृण्विष्टनिरतः सदा ॥२८ बिशेषेण तु विप्राणां दासवद्यस्तु तिष्ठति । अयाचितप्रदाता च सत्यशौचसमन्वितः ॥ २६ गुरुदेवेषु निरतः परदारविवर्जितः । परपीड़ामकृत्वैव भृत्यवर्गं बिभर्ति यः । मृतोऽपि स्वर्गमाप्नोति जीवाना मभयप्रदम् ॥३० स स्वर्गलोके ऋधित्वा वर्षकेाटीर्महातपाः । इह मानुष्यलोके वे वैश्या धनपतिर्भवेत् ॥३१

[[१६२६]]

[[१६३०]]

वृद्धगौतमस्मृतिः ।

एवं धर्मात्परं नास्ति महत् संसर्गसाक्षिणः ।

स स्वधर्मात्परं किञ्चित् पापकर्मव्यपोहनम् ॥३२ तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम् ॥

युधिष्ठिर उवाच ।

भगवन्! देव देवेश वदस्व मधुसूदन ! । शुभस्याप्यशुभस्यापि क्षयवृद्धीर्यथाक्रमम् ॥३३

श्रीभगवानुवाच ।

शृणु पाण्डव ! तत्सर्वं धर्मं सूक्ष्मं सनातनम् । दुर्विज्ञेयं प्रमोदन्ते यं ज्ञात्वा ते महाजनाः । यथैव शीतमुदकमुष्णेन बहुधा व्रतम् ॥३४ भवेत्तु तत्क्षणादुष्णं शीतत्वभ्व विनश्यति । यथोष्णं वा भवेदब्दं शीतेनापि यथाव्रतम् ॥३५ शीतत्वश्च भवेत्सवं मुष्णत्वञ्च विनश्यति । एवन्तु यद्भवेत् भूमन् ! सुकृतं वाथ दुष्कृतम् ॥३६ तदल्पं क्षपयेद्विप्रं नात्र कार्या विचारणा । समत्वे सति राजेन्द्र ! तयोः सुकृतपापयोः ॥ ३७ गृहीतस्य भवेदृद्धिः कीर्तिर्यस्य भवेत् स्वयम् । ख्यापनेन तु तापेन प्रायः पापं प्रणश्यति ॥३८ तथा कृतस्तु राजेन्द्र ! धर्मोनश्यति भारत ! । गृहीतौ तावुभौ सम्यक् वृद्धियातौ न संशयः ॥ ३६

[ द्वितीये

ऽध्यायः ],

दानप्रकरणवर्णनम् ।

तस्मात्सर्वप्रयत्नेन न पापं ग्राहयेद्भयम् ।

तस्मादेतत्प्रयत्नेन कीर्तितमक्षयं महत् ।

तस्मात् सङ्कीर्तयेत्पापं नित्यधर्मश्व ग्राहयेत् ॥४०

इति गौतमीये श्रीवैष्णवधर्मशास्त्रे द्वितीयोऽध्यायः ।

तृतीयोऽध्यायः ।

अथ दानप्रकरणवर्णनम् ।

वैशम्पायन उवाच ।

एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु ।

पप्रच्छ पुनरप्यन्यान् धर्मान् धर्मात्मजोहरिः ॥१

युधिष्ठिर उवाच ।

वृथा चरति जन्मानि वृथा दानानि वा कृतिः । वृथा च जीवितं क्षेमो नराणां पुरुषोत्तम ! ॥२ कीदृशासु व्यवस्थासु दानं देयं जनार्दन ! । इह लोकेच भवति पुरुषः पुरुषोत्तम ! ॥३ गर्भस्थे कर्म चायाति किं बाल्ये चापि केशव ! यौवनत्वेऽपि किं कृष्ण ! वृद्धत्वेचापि किं भवेत् ॥४ सात्विकं कीदृशं दानं राजसं कीदृशं भवेत् ।

तामसं कीदृशं देव । तमधीष्यति किं प्रभो ! ॥५

!

[[१६३१]]

. १६३२

वृद्धगौतमस्मृतिः ।

उत्तमं कीदृशं दानं मध्यमं कीदृशं भवेत् । अधमं कीदृशं दानं तेषां यादव ! किं फलम् ॥६ कि दानं नयतेर्बुद्धिर्गतिं किं मध्यमां नयेत् । गतिं जघन्या मथवा देवदेव । प्रयान्ति मे ॥७ एतदिच्छामि विज्ञातुं परं कौतुहलं हि मे । त्वदीयं वचनं सत्यं पुण्यश्व मधुसूदन ! ॥८

वैशम्पायन उवाच ।

एवं धर्मप्रसक्तेन पृष्टः पाण्डुसुतेन वें । उवाच वासुदेवोऽथ धर्मान् धर्मेण पाण्डवम् ॥६

श्रीभगवानुवाच ।

शृणु राजन्यथान्यायं वचनं तथ्यमुत्तमम् । कथ्यमानं सदा पुण्यं सर्वपापव्यपोहनम् ॥१०

वृथा च दश दानानि चत्वारि च नराधिप । । वृथा दानानि पञ्चाशत् पञ्च चैव यथाक्रमम् ॥११ वृथा च जीवितं येषां ते च सर्षपकीर्तिताः । अनुक्रमेण सर्वाणि तानि वक्ष्यामि पाण्डव ! ॥ १२ धर्मघ्नानां तथा चैव लुब्धानां पापिनां तथा । वृथापाकञ्च यत्सन्ति परदाररताश्च ये ॥१३ पाकभेदकरा ये च यथा स्युः सत्यवर्जिताः ।

मिष्टमश्नाति यचैको दृश्यमानस्तु बान्धवैः ॥१४

[ तृतीयो-

ऽध्यायः

दानप्रकरणवर्णनम् ।

पितरं मातरच्चैव उपाध्यायं गुरु तथा ।

मातुलं मातुलानीश्च योहि हन्याच्छपेत्तथा ॥१५ ब्राह्मणाचैव ये भूत्वा सन्ध्योपासनवर्जिताः । निर्ब्राह्मयो निःस्वधश्चैव यश्च गुर्वन्नभुक् द्विजः । मम वा शङ्करस्यापि ब्रह्मणो वा युधिष्ठिर ! ॥१६ पूर्वाब्राह्मणानान्तु ये न भक्ता नराधिप । । वृथा जन्मन्यथैतेषां पापानां विद्धि पाण्डत्र ! ॥१७ अश्रद्धया च यद्दत्तं चौर्येणावर्जितन्तु यत् । अभिशस्ताहृतं यत्तु यद्दानं पतिते द्विजे ॥१८ अब्रह्माभिहितं यत्तु यद्दत्तं सर्वयाचके । प्रात्ते तु यद्धि तद्दान मारूढपतिते च यत् ॥ १६ यत् ग्रामयाचकर्णान्तं यत्कृतघ्नहृतस्तथा । उपपातकिने दत्तं वेदविक्रयिणे च यत् ॥२० स्त्रीजीविते च यद्दत्तं यच्च देवलकाय च । देवपूर्वाशिने दत्तं नित्यकर्म न कारिणे ॥२१ रङ्गोपजीवने दत्तं यच मांसापजीविने । सेवकाय च यद्दत्तं यद्दत्तं ब्राह्मणब्रुवे ॥२२ अदेशिने च यद्दत्तं दत्तं वार्धुषिकाय च । यदनाचारिणे दत्तं यच दत्तं वृथाशिने ॥ २३

असभ्योपासिने दत्तं यच ग्रामनिवासिने ।

यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत् ॥२४

[[१६३३]]

[[१६३४]]

वृद्धगौतमस्मृतिः ।

नास्तिकाय च यद्दत्तं धर्मविक्रयिणे च यत् । कारकाय च यद्दत्तं दत्तं यत् कूटसाक्षिणे ॥२५ नचात्मानं तरन्त्येते न दातारं युधिष्ठिर ! । यत्तेभ्यो दत्तमात्राणि दानानि सुबहून्यपि ॥ २६ वृथा भवन्ति राजेन्द्र ! भस्मन्याज्याहुतिर्यथा । यथेष्टं यत्फलं किचित् भविष्यति कथञ्चन ॥२७ राक्षसाश्च पिशाचाश्च तद्विलुम्पन्ति संस्थिताः । वृथा ह्येतानि दानानि कथितानि समासतः २८ जीवितथ्य वृथा तेषां तच्छृणुष्व युधिष्ठिर ! ।

श्रीभगवानुवाच ।

ये च मां न प्रपद्यन्ते शङ्करं वा नराधमाः । ब्रह्माणं वा महीदेवा वृथा जीवन्ति ते नराः ॥२६ ये च निन्दन्ति मां मूढाः शङ्करं वा नराधमाः । कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः ॥३० विप्रा निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः । विद्यमानधनोयस्तु दानधर्मविवर्जितः ॥३१ मृष्टमश्नाति यश्चैको वृथा जीवति सोऽपि च । वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते ॥३२ तमोनिविष्टचित्तेन दत्तं दानश्व यद्भवेत् । न तस्य फलमश्नाति नरो गर्भगतो नृप । ।

! ईर्ष्यामात्सर्य्यसंयुक्तो भगवद्वाक्यकारणम् । ददाति दानं यो मर्त्यो बालभावस्तदश्नुते ॥३३

[ तृतीयो-ऽध्यायः ]

त्रिविधदानप्रकरणवर्णनम् ।

वै

श्रद्धायुक्तः शुचिः स्नातः प्रसन्नोभयमानसः । ददाति दानं यो मर्त्यो यौवने स तदश्नुते ॥३४ स्वयं नीत्वा तु यद्दानं भक्त्या पात्र प्रदीयते । तत् सार्वकामिकं विद्धि दान मामरणान्तिकम् ॥३५ सात्विकं राजसन्चैव तामसश्च युधिष्ठिर ! । दानं दानफलञ्चैव गतिश्व त्रिविधां शृणु ॥ ३६ दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वे । उपकारवियुक्ताय दत्तं यत्तद्धि सात्विकम् ॥३७ श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव ! । दीयते यत्प्रणष्टाय तत् सात्विकमुदाहृतम् ॥३८ वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे । समृद्धाय च यद्दानं तद्राजसमुदाहृतम् ॥३६ सम्वन्धिने च यद्दानं व्रताय चैव पाण्डव ! । लाभादिभिरपात्राय तद्राजसमुदाहृतम् ॥४० वैश्वदेवविहीनाय यद्दानं श्रोत्रियाय च । दीयते तस्करायापि तद्दानं तामसं स्मृतम् ॥४१ सरोषमवधूतथ्य शोकयुक्तमवज्ञया ।

सेवकाय च यद्दत्तं तद्दानं तामसं स्मृतम् ॥४२ देवाः पितृगणाश्चैव जनयश्चाग्नयस्तथा । सात्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर ! ॥४३ अथवा दैत्यसङ्घाश्च गृहयज्ञांश्च राक्षसाः ।

राजसं दानमश्नन्ति वर्जितं पितृदेवतः ।

[[१६३५]]

[[१६३६]]

वृद्धगौतमस्मृतिः ।

पिशाचाः प्रेतसङ्घाश्च कश्मला ये मलीमसाः । तामसं दानमश्नन्ति गतिश्च त्रिविधां शृणु ॥४४ सात्विकानां तु दानाना मुत्तमं फलमिष्यते । मध्यमं राजसानान्तु तामसानां तु पश्चिमम् ॥४५ अभिगत्योपनीतानां दानानामुत्तमं फलम् ।

मध्यमन्तु समाधाय जघन्याय च ते फलम् ॥४६ अयाचितप्रदाता वै स याति गतिमुत्तमाम् ।

समाहूय तु वं दद्यात् मध्यमां स गतिं व्रजेत् ॥४७

याचितो यस्तु वै दद्यात् जघन्यां स गतिं व्रजेत् । उत्तमा देवकी ज्ञेया मध्यमा मानुषी गतिः ॥ ४८ जघन्या याति तिर्यक्षु गतिरेषा क्रिया मता । पत्रभूतेषु विप्रेषु स्थितेषु चाहिताग्निषु ॥ ४६ यश्च यच्छति तीत्रोष्णं क्षयकृत् स प्रकीर्त्यते । श्रोत्रियाणां दरिद्राणां भरणं कुरु पाण्डव ! ॥५० समृद्धानां द्विजातीनां कार्य्यन्ते परिरक्षणम् । दरिद्रान् वृत्तिहीनानां प्रदानैस्तांस्तु पूजयेत् ॥५१ आतुरस्यौषधैः काय्यं नीरुजस्य किमौषधैः । पापं प्रतिगृहीतारं प्रदातु मुपगच्छति । प्रतिगृहीतुर्यत्पुण्यं प्रदातारमुपैति तत् ॥५१ तस्माद्दानं सदा कार्य्यं परमं हितमिच्छता । वेदविद्यावता तेषु सदा गुर्वन्तवर्जनम् ॥५२

[ तृतीयो-

ऽध्यायः ]

दानप्रकरणे विप्रप्रशंसा वर्णनम् ।

प्रयत्नेन हि दातव्यो महादानमयो निधिः । यस्तु दाता प्रयच्छेत सहस्रस्यावलम्बनम् ॥५३ भुक्तशेषस्य भक्तस्य तं निमन्त्रय भारत ! । अमन्त्रन्तु निराशास्ते न कर्तव्या हि पाण्डव ! ॥५४ कुलानि सन्ततिः प्राणा नैषामाशा हता भवेत् । मद्भक्ता ये नरश्रेष्ठ ! मद्गता मत्परायणाः । मद्याजिनो मन्नियमास्तान् प्रयत्नेन पूजयेत् ॥५५ तेषान्तु पावनायाह नित्यमेव युधिष्ठिर ! । उभे सर्वे प्रतिष्ठामि व्यसनं तश्च सुव्रतम् ॥५६

[[1]]

तस्मादष्टाक्षरं मन्त्रं मद्भक्ते वीतकल्मषैः । सन्ध्याकालेष्वकालेषु जप्तव्यश्वात्मशुद्धये ॥ ५७ अन्येषामपि विप्राणां किल्विषं हि प्रणश्यति । उभे सर्वे च पुरुषा स्तस्माद्विप्रो विशुद्धये ॥ ५८ देवे श्राद्धे च विप्रः सन् विधियुक्तो जुगुप्सितः । जुगुप्सितन्तु तत् श्राद्धं दहत्यग्निरिवेन्धनम् ॥५६ भारतं मानवोधर्मः साङ्गवेदश्चिकित्सितम् । अज्ञाविद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥६० न ब्राह्मणान् परीक्षेत दैवे कर्मणि मन्त्रवित् । महान् भवेत् परीवादो ब्राह्मणानां परीक्षणे ॥६१ ब्राह्मणानां परीवादं यः करोति नराधमः । सहसैव शुनां योनिं स गच्छेत् ब्रह्मदूषकः ॥ ६२

[[१६]]

[[१६३८]]

वृद्धगौतमस्मृतिः ।

स्वल्पपापेन निन्दित्वा परीवादात् खरो भवेत् । परिभाय कृमिर्भवति कीटो भवति मस्करी ॥६३ दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः । ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ॥६४ क्षत्रियवचैव स पचब्राह्मणश्च बहुश्रुतम् । नावमन्येत मेधावी कृशानपि कदाचन ॥६५ इह तचापि पुरुषं निर्दहेदवमानितम् । तस्मादेतं प्रयत्नेन नावमन्येत बुद्धिमान् ॥ ६६ यथा सर्वास्ववस्थासु पावको दैवतं महत् । तथा सर्वास्ववस्थासु ब्राह्मणो देवतं महत् ॥६७ व्यङ्गान् काणांश्च कुब्जांश्च वामनान् गास्तथैव च । स निर्वदेदयुक्तञ्च मिश्रिता वेदपारगः ॥ ६८ मन्यून्नोत्पादयेत्तेषां नचानिष्टं समाचरेत् । मन्युपहरणा विप्रा न विप्राः शस्त्रपाणयः ॥ ६६ मन्युना स्यन्ति ते शत्रून् वज्रणेन्द्र इवासुरान् । ब्राह्मणो हि महद्देवं कथितं वेदपारगैः ॥७० द्विजाश्च सर्वभूताना धर्मकोशस्य गुप्रये । किं पुनस्ते च कौन्तेय ! स नित्यमुपासते ॥७१ यस्यास्येन सदाश्नन्ति हव्यानि विविधानि च । तरामस्तान् द्विजान् वै किमभूतमधिकन्ततः ॥७२ उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥७३

[ तृतीयो-

ऽध्यायः ]

दानप्रकरणे विप्रप्रशंसावर्णनम् ।

भुक्तेषु तेषु स्ववशे तस्य धर्मं ददाति च ।

अनुशंस्यात् ब्राह्मणस्य भुञ्जतेऽपीतरे जनाः ॥७४ तस्मात्ते नावमन्तव्या मद्भक्ताश्च द्विजाः सदा । आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः ॥७५ कलावस्थान् द्विजान् सर्व्वान् प्रयत्नेन प्रपूजयेत् । स्वगृहे वा प्रवासे वा दिवा रात्रौ तथैव च ॥७६ वृद्धाश्च ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव ! । नास्ति विप्रसमो देवो नास्ति विप्रसमो गुरुः ॥७७ नास्ति विप्रात् परो बन्धु र्नास्ति विप्रात् परोनिधिः । नास्ति विप्रात् परं तीर्थं न पुण्यं ब्राह्मणात् परम् ॥७८ नास्ति विप्रात् परो धर्मो नास्ति विप्रात् परा गतिः । पापकर्मसमाक्षिप्तं पतन्तं नरके नरम् ॥७६ त्रायते दानमप्येकं पात्रभूते कृते द्विजे ।

बाला हिताग्नयो ये च शान्ताः स्युर्वान्नवर्जिताः ॥८० मामर्चयन्ति सद्भक्तास्तेभ्यो दत्तं महाफलम् । प्रदानैः पूजितो विप्रो वन्दितो वापि कृत्स्नशः ॥८१ संभावितो वा विप्रो वै मद्भक्तो दिवमुन्नयेत् । ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तुतम् ॥८२ तं श्रुत्वा वाथवा दृष्ट्वा नरैः पापात् प्रमुच्यते ।

मद्भक्ता मद्गतप्राणा मद्भक्त्या मत्परायणाः ॥८३ वीजयोनिविशुद्धा ये श्रोत्रियाः संयतेन्द्रियाः । श्रुत्वानविरला नित्यन्ते पुनन्तीह दर्शनात् ॥८४

[[१६३६]]

[[१६४०]]

वृद्धगौतमस्मृतिः ।

स्वयं नीत्वा विशेषेण दानन्तेषां गृहेष्वथ । निधापयेत्तु मद्भक्ता तद्दानकोटसम्मितम् ॥८५ जाग्रतः स्वपतोवापि प्रभासे स्वगृहेऽथ वा । हृदयानि प्रपश्यामि यस्य विपस्य भारत ! ॥८६

स पूजितो वास्पृष्टो वा पृष्टोवापि द्विजोत्तमः । सम्भाषितो वा राजेन्द्र पुनातीह नरः सदा ॥८७ एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव ! । मद्भक्तेभ्यः प्रदत्तानि तानि स्वर्गपदानि वै ॥८८

इति गौतमीये श्रीवैष्णवधर्मशास्त्रे तृतीयोऽध्यायः ।

चतुर्थोऽध्यायः ।

अथ विप्राणां गुणदोषवर्णनम् ।

वैशम्पायन उवाच ।

श्रुत्वैवं सात्विकं दानं राजसन्तामसन्तथा । पृथक् पृथक् फलब्चैव गतिञ्चैव पृथक् पृथक् ॥ १

अवितृप्तः प्रसन्नात्मा पुण्यधर्मामृतं पुनः । युधिष्ठिरो धर्मनित्यः केशवं पुनरब्रवीत् ॥२

[ तृतीयो-

ऽध्यायः ]

विप्राणां गुणदोषवर्णनम् ।

[[१६४१]]

युधिष्ठिर उवाच ।

द्विजयोनिविशुद्धानां लक्षणानि वदस्व मे ।

बीजदोषेण लोके च जायते च कथन्तराम् ॥३ आचारदोषं देवेश ! वक्तुमर्हस्यशेषतः । ब्राह्मणानां विशेषञ्च गुणदोषौ च केशव ! ॥४ चातुर्वर्ण्यस्य कृत्स्नस्य वर्तमानाः प्रतिग्रहे । केन विप्रा विशेषेण तरन्ते तारयन्ति च ॥ एतत्कथय देवेश ! त्वद्भक्तस्य नमोऽस्तुते ॥५

श्रीभगवानुवाच ।

शृणु राजन्यथातत्वं वीजयोनिशुभाशुभम् । येन तिष्ठति लोकोऽयं विनश्यति च पाण्डव ॥६ अवस्थितब्रह्मचर्योयं च विप्रो यथाविधि ।

स द्विजानामविज्ञेय स्तस्य वीजं शुभम्भवेत् ॥७ कन्या चाक्षतयोनिः स्यात् कुलीना पितृमातृतः । ब्राह्मादिषु विवाहेषु परिणीता यथाविधि ॥८ सा प्रशस्ता वरारोहा शुद्धयोनिः प्रशस्यते । कानीनश्च सहोदश्च ता वुभौ कुण्डगोलकौ ॥६ आरूढवनितो ज्ञातः पतितस्यापि यः सुतः । षडेते विप्र चण्डाला निषिद्धाः श्वपचादपि ॥१० यो यत्र तत्र वा रेतः सिक्ता गुर्वीषु वाचयेत् । कामचारी स पापात्मा वीजं तस्याशुभम्भवेत् ॥११

[[१६४२]]

वृद्धगौतमस्मृतिः ।

[ तृतीयो-

अशुभं तद्भवेद्वीजं शुद्धां योनिन्नचार्हति । दूषयत्येव तां वाणीं शृणुध्वं च हविर्यथा ॥ १२ गुवयोनौ पतत् वीजं हाहाशब्दो द्विजन्मनाम् । कुर्यात् पुरीषगर्तेषु पतितासि मतिः कुतः ॥१३ मामधः पातयेदेव कामात्मा पापमोहितः । अधोगतिं व्रजेत् क्षिप्र मिति शप्त्वा पतेत्तु यत् ॥१४ आत्मा हि शुक्रमुद्दिष्टं दैवतं परमं महत् । तस्मात्सर्वप्रयत्नेन निरुध्यात् शुक्रमात्मनः ॥ १५ आयुस्तेजो बलं वीयं प्रज्ञा श्रीश्च महायशः । पुण्यश्च मत्प्रियत्वश्च हन्यते ब्रह्मचर्यया ॥ १६ अविप्लुतब्रह्मचर्यैर्गृहस्थाश्रममाश्रितैः । पञ्चयज्ञपरधर्मः स्थाप्यते पृथिवीतले ॥१७ सायं प्रातस्तु ये सन्ध्यां सम्यक् नित्यमुपासते । नावं वेदमधिकृत्य तारयन्ति तरन्ति च ॥ १८ यो जपेत् पावनीं देवीं गायत्रीं वेदमातरम् । न सीदेत् प्रत्यगृह्णीत पृथिवीश्व ससागराम् ॥१६ ये च स्युः संस्थिताः केचित् गृहे सूर्योदयादिव । ते चास्य सौम्या जायन्ते शिवाशुभकरास्तथा ॥२० यत्र यत्रास्थिताश्चैव दारुणाः पिशिताशनाः । घोररूपा महाकाया वीजं न घोषयन्ति च ॥२१ पुनन्तीह पृथिव्यां हि चीर्णा स्तत्वत्रता नराः । ये चीर्णा व्रतवेदा ये विकमपथमाश्रिताः ॥ २२

ऽध्यायः ] विप्रप्रशंसावर्णने गायत्रीमहत्त्ववर्णनम् ।

ब्राह्मणा नाममात्रेण तेऽपि पूज्या युधिष्ठिर ! । किं पुनर्यश्च सन्ध्ये द्वे नित्यमेवोपतिष्ठति ॥ २३ शीलमध्ययनं दानं शौचमार्दवमार्जवम तस्माद्वेदान विशिष्टान्वै मनुराह प्रजापतिः ॥२४ भूर्भुवः स्वरिति ब्रह्म यो वेद परमद्विजः । स्वदारनिरतो दान्तः स च विद्वान् स भूसुरः । सन्ध्यामुपासते विप्रा नित्यमेव द्विजोत्तमाः ॥ २५ ते यान्ति नरशार्दूल ! ब्रह्मलोक मसंशयम् सावित्रीमात्रसारोऽपि वरोऽपि प्रसुयन्त्रितः ॥ २६ नायन्त्रित चतुर्वेदी सर्वाशी सर्वविक्रयी । सावित्रीञ्चैव वेदांश्च तुलया तुलयन पुरा ॥२७ देवा ऋषिगणाचैव सर्वे ब्रह्मपुरःसराः । चतुर्णामपि वेदानां सा हि राजन् ! गरीयसी ॥२८ यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः । समुत्सृज्य रसं सर्व निरातङ्कमसारवत् ॥२६ एवं हि सर्ववेदानां सावित्री प्राणमुच्यते । निर्जपा हीतरे वेदा सावित्री मन्तरेण च ॥३० एवं हि यश्वतुर्वेदी शीलभ्रः स कुत्सितः । शीलव्रतसमायुक्तः सावित्रीपाठको वरः ॥ ३१

सहस्रं परमां देवीं शतमध्यां दशावराम् । सावित्रीं जप कौन्तेय ! सर्वपापप्रणाशिनीम् ॥३२

[[१२२]]

[[१६४३]]

[[१६४४]]

वृद्धगौतमस्मृतिः ।

[ चतुर्थी-

युधिष्ठिर उवाच ।

त्रिलोकनाथ ! भो कृष्ण ! सर्वभूतात्मको ह्यसि । नानायोगपरश्रेष्ठ! तुष्य से केन कर्मणा ॥३३

श्रीभगवानुवाच ।

यदि भारसहस्रन्तु गुग्गुल्यादि प्रधूपयेत् । करोषि च नमस्कार मुपहारञ्च कारयेत् ॥३४ पूजयेत् स्तुतिभिर्माश्च ऋग्यजुः सामतस्तथा । न च तुष्यन्ति ते विप्रा नाहन्तुष्यामि भारत ! ॥३५ ! ब्राह्मणे पूजिते नित्यं पूजितोऽस्मि न संशयः । आतुष्टेचाहमाकृष्योभवामि भरतर्षभ ! ॥३६ परमाधिगतिरतेषां पूजयन्ति च मां हि ते । यदहं द्विजरूपेण वसामि वसुधातले ॥३७ यस्तान् पूजयति प्राज्ञो मद्गतेनान्तरात्मना । तमहंस्वेन रूपेण पश्यामि नरपुङ्गव ! ॥३८ काणाः कुब्जा वामनाश्च दरिद्रा व्याधितास्तथा । नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः ॥ ३६ ये तेऽपि सागरान्तायां पृथिव्यां द्विजसत्तमाः । मम रूपेषु तेष्वेव मर्चितेष्वचितो भवान् ॥४० बहवस्तु न जानन्ति नरा ज्ञानवहिष्कृताः । यथाहं द्विजरूपेण वसामि वसुधातले ॥४१ अवमन्यन्ति ये विप्रान्विकर्मापादयन्ति च । प्रेषयन्ते च सततं सुभ्रणाङ्कारयन्ति च ॥४२ऽध्यायः ] विप्रापमानकर्तॄणां यमलोके गतिवर्णनम् । १६४५

भूतांस्तान करपत्रेण यमदूता महाबलाः । निष्कृतन्ति यथाकाष्ठं सूत्रमार्गेण शिल्पिना ॥४३ आक्रोशपरिवादाभ्यां ये रमन्ते द्विजादिषु ।

तान् दूता यमलोकस्थान् निपात्य धरणीतले ॥४४ आनुश्योरसि पादेन श्रद्धासंरक्तलोचनाः । अग्निवर्णस्तु सदृशैर्यमो हिंसन माचरेत् ॥४५ ये च विप्रा निरीक्षन्ते पापाः पापेन चक्षुषा । अब्रह्मण्यश्रुतेर्वाह्या नित्यं ब्रह्मद्विषो नराः ॥४६ तेषां घोरमहाकायं वज्रतुल्या महाबलाः । उद्धरन्ति मुहूर्तन खगाश्रनुर्यमाज्ञया ॥४७

यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम् । अस्थिभागश्च यः कुर्यात् प्राणैर्वा विप्रयोजयेत् ॥४८ सोऽनुपूर्वेण यातीमान्नरकानेकविंशतिम् । शूलमारोपितो गत्वा ज्वलनेनापि दाते ॥४६ बहुवर्षसहस्राणि पच्यमानस्त्ववाक्शिराः । नावमुच्येत दुर्मेधा न तस्य क्षीयते गतिः ॥५० ब्राह्मणानविचार्यैव जयन्वै धर्मकाङ्क्षया । शतवर्षसहस्राणि तामित्रोपरि पच्यते ॥५१ उत्पाद्य शोणितं गात्रात् संरम्भा इति पूर्वकम् । स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥५२ तस्मान्नाकुशलं ब्रूयात् न शुष्काङ्गिरमीरयेत् । तच्छ्र ुत्वापरुषां वाणीं चैवैतानप्यतिक्रमेत् ।

ये विप्रं स्निग्धया वाचा पूजयन्ति नरोत्तमाः ॥५३

[[१६४६]]

वृद्धगौतमस्मृतिः ।

[ पश्वमो-

तच्छुत्वा वै स्तुतश्चैव भवामि च युधिष्ठिर ! ॥५४ सञ्जयन्ति च ये विप्रान् क्रोधयन्ति च भारत ! । आकृष्टस्तर्जितश्चाहं तैर्भवामि न संशयः ॥ ५५ यश्चन्दनैश्चागुरुधूपदीपैरभ्यर्च्य यत्काष्ठमधूम मर्च्यात् । तेनाचितो नैव भवामि सद्यो विप्रार्चनादचितोऽहं भवामि ५६ विप्रप्रसादाद्धरणीधरोऽहं विप्रप्रसादादसुराञ्जयामि । विप्रप्रसादाच्च सदक्षिणोऽहं विप्रप्रसादादजितोऽहमस्मि ॥५७

इति गौतमीये श्रीवैष्णवधर्मशास्त्रे चतुर्थोऽध्यायः ।

पञ्चमोऽध्यायः ।

अथ जीवस्य शुभाशुभकर्मणां फलवर्णनम् ।

युधिष्ठिर उवाच ।

[[1]]

देव ! देवेश ! दत्यघ्न ! परं कौतुहलं हि मे । एतत्कथय सर्वज्ञ ! त्वद्भक्तस्य ममाच्युत ! ॥१ मानुष्यस्य च लोकस्य यमलोकस्य चान्तरे । कीदृशं किं प्रमाणं वा किमधिष्ठानमेव च ॥ २ तरन्ते मानवाः देवाः केनोपायेन मानवाः । क्क वास्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते ॥ ३ कथयस्व महादेव ! सुखदुःख मशेषतः । जीवस्य यमलोके तु कर्मभिश्च शुभाशुभैः ॥४

ऽध्यायः ] जीवस्य शुभाशुभकर्मणां फलवर्णनम् ।

अनुबद्धस्य तैः पाशन्नीयमानस्य दारुणैः । मृत्युदूत दुराधर्षे चौर घरपराक्रमैः ॥५ बद्धस्य क्षिप्यमाणस्य जनस्य च यमाज्ञया । पुण्यं पापं कथन्तिष्ठेत सुखदुःखमशेषतः ॥ ६ दुराधर्षैह्रयते वा मानुषैस्तैः कथं पुनः । किं वा तत्र महादेवाः कर्म कुवन्ति मानवाः ॥७ कथं धर्मरता यान्ति देवता द्विजपूजकाः । कथं वा प्रेतकर्माणो धर्म प्रेतपुरं नराः ॥८ किं रूपं किं प्रदानं वा वर्णः को वास्य केशव ! । जीवस्य क्रोशतो नित्यं यमलोकं ब्रवीषि मे ॥६

श्रीभगवानुवाच ।

[[१६४७]]

शृणु राजन्यथातत्वं यमात्थ [ यश्चपृच्छसि ] यत्प्रयच्छसि । तत्राहं कथयिष्यामि मद्भक्तस्य नरेश्वर ! ॥ १० षडशीतिसहस्राणि योजनानां शतानि च । मानुषस्य च लोकस्य यमलोकस्य चान्तरम् ॥११ न तत्र वृक्षछाया च न तटाकं सरोहि वा । न वाप्यो दीर्घिका वापि न कूपं वा युधिष्ठिर ! ॥१२ न मण्डपं सभा वाऽपि न प्रभा न निवेशनम् । न पर्वतो नदी वाऽपि न भूमेर्विवरं कचित् ॥ १३ न ग्रामो नाश्रमोवाऽपि नोद्यानं काननानि च ।

न. किश्विद्विश्रमस्थानं पथि तस्मिन्युधिष्ठिर ! ॥१४

"

[[१६४८]]

वृद्धगौतमस्मृतिः ।

जन्तोः सम्प्राप्तकालस्य वेदनार्त्तस्य वै भृशम् ।

करणैस्त्यक्तदेहस्य प्राणः कर्णगतः पुनः ॥ १५

शरीराद्धार्यते जीवो ह्यत्रशो मातरिश्वना । निर्गतो वायुभूतस्तु सर्पकौशिक विग्रहात् ॥१६ शारीरं यश्च तद्रूप्यं तद्वर्णस्तत्प्रमाणकम् ।

अदृश्यं संप्रविष्टन्तु सोऽप्यदृष्टो न केनचित् ॥१७ सोऽन्तरात्मा देवतामटाङ्गो यस्तु सञ्चरेत् । छेदनाद्भेदनाहाहात्तोदनाद्वा न नश्यति ॥ १८ नानारूपधरैर्घोरैः प्रचण्डेश्वण्डशासनः । श्रयमाणो दुराधर्षैर्यमदूतैर्यमाज्ञया ॥१६ पुत्रदारं यश्व पाशं सन्निरुद्धो वशोवलात् । कर्मभिश्चापि नुगतं कृतं सुकृतदुष्कृतै ॥२० अकृत्यमानकरणं बन्धुभि दुखपण्डितैः । त्वत्क्त्वा बन्धुजनं सर्व निरपेक्षस्तु गच्छति ॥२१ मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा । दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते पुनः ॥२२ अदृश्यमानस्तैर्दीने रश्रुपूर्ण मुखेक्षणः ।

"

स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति ॥२३ अन्धकारं परतरं महाघोरं तमोवृतम् ।

दुःखाय दुष्प्रकामञ्च तमाशु पापकर्मणाम् ॥२४ दुःसहं यमपूरश्च दुर्निरीक्षं दुरासदम् ।

दुराप मतिदुर्गभ्व पापिष्ठान्वान्तरोत्तमम् ॥२५ .

[ पञ्चमो-

Sध्यायः ] शुभाशुभकर्मकर्तृणां प्राणिनां यमयातनावर्णनम् । १६४६

ऋषिभिः कथ्यमानन्तु पारम्पर्येण पार्थिव ! त्रासं जनयति प्रायः पयमानकथास्वपि ॥ २६ अपि तैश्चैव गन्तव्या स्तदर्धात् वा युधिष्ठिर ! । प्राप्तकालेन सन्त्यज्य बन्धून् भोगान् धनानि च ॥२७ जरायुजैश्वाण्डजैश्च उद्भिज्जैः स्वेदजै स्तथा ।

जङ्गमैः स्थिरसंज्ञैश्व गन्तव्यं हि यमालयम् ॥२८ देवासुरमनुष्याद्यैर्वैवस्वतवशानुगैः । स्त्रीपुंनपुंसकैचापि पृथिव्यां जीवसंज्ञकः ॥ २६ मध्यमै युवभिर्बाल वृद्धैर्वापि तथैव च । जातमात्रैश्च गर्भस्थैर्गन्तव्यः स महालयः ॥३० पूर्वाह्णे वा पराह्णे वा सन्ध्याकालेऽथवा पुनः । प्रदोषे पश्वरात्रे वा प्रत्यूषे वाप्युपस्थिते ॥३१ प्रवासस्थैर्वनस्थैर्वा पर्वतस्थे जलस्थितैः । क्षेत्रस्थैर्वा स्थलस्थैर्वा गृहमध्य स्थितैरपि ॥३२ भुञ्जद्भिर्वा खिद्भिर्वा खादद्भिर्वा नरोत्तम ! । आसीनै वास्थितैर्वापि शयनीयागतैरपि ॥ ३३ जाद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः । मृत्युदूतै दुराधर्षेः प्रचण्डै चण्डविक्रमैः ॥३४ आक्षिप्यमाणा ह्यवशा यान्ति शीघ्रं यमालयम् । कचिद्भीतैः कचित्स्तधैः प्ररखलद्भिः क्वचित् कचित् ॥ ३५ दहद्भिर्वेदनात्तैस्तु गन्तव्यं यमसादनम् ।

निर्भत्स्यमाने रुद्विग्न विक्रीतै र्भयविह्वलैः ॥३६

[[१६५०]]

वृद्धगौतमस्मृतिः ।

कण्टकाकीर्णमार्गेण तप्पल्यङ्कपांशुना । दण्डमानैस्तु गन्धव वनिरंदनिवर्जितः ॥ ३७ काष्ठोपलशिलाघातैदण्डोलू ककुशाङ्कुशैः । हन्यमाने यमपुरं गन्तव्यं धर्मवर्जितैः ॥ ३८ मेदःशोणितपूयाद्रवस्त्रैर्गात्रैश्च भीषणः । - विद्धक्षेत्रं प्रपाकीर्णे गन्तव्यं जीवघातकः ॥ ३६ क्रुश्यद्भिश्वरुद्भिश्च क्रोशद्भिश्वापि विस्वरम् । वेदनातः पतद्भिश्च गन्तव्यं जीवघातकः ॥ ४० वभिः कङ्कर्मक्ष्यमाणाः समन्ततः । तुद्यमानाश्च गच्छन्ति राक्षस मांसखादिभिः ॥४१ महिषैश्च मृगश्चापि शूकरैः क्रूरकर्मभिः । ।

वीक्ष्यमाणाः खरध्वानं गन्तव्यं मांसखादिभिः ॥४२ सूचीसुतीक्ष्णतृणिभि मक्षिकाभिः समन्ततः । तुद्यमानस्तु गन्तव्यं पापिष्ठे मधुघातकैः ॥ ४३ विवस्त्रं स्वामिनमिमं स्त्रियं वा घ्नन्ति ये नराः । शास्त्राणि निन्द्यमानस्तु गन्तव्यं तेर्यमक्षयम् ॥४४ घातयन्ति च ये पापा दुःखमापादयन्ति च । राक्षसैश्व श्वभिश्चैव भक्ष्यमाणा व्रजन्ति ते ॥ ४५ ये हरन्तीह वस्त्राणि शय्याप्रावरणानि च । ते यान्ति विद्रुताननाः पिशाचा इव तत्पथम् ॥४६ गोश्चयान् ये हिरण्यश्व खलु क्षत्रगृहं तथा । ये हरन्ति दुरात्मानः परस्परं पापकारिणः ॥ ४७

[ पञ्चमो-

ऽध्यायः ] शुभाशुभकर्मकतॄणां प्राणिनां यमयातनावर्णनम् । १६५१

पाषण्डै रुल्मकैर्दण्डैः काष्ठघातैर्निरीश्वरैः । हन्यमानैः क्षताकीर्णे गन्तव्यं यमसादनम् ॥४८ ये ब्रह्मस्वं हरन्तीह नरा नाकनिपातिनम् । आक्रोशयन्ति वा नित्यमाहरन्ति च ये द्विजान् ॥४६ शुष्ककर्णा निबध्यन्ते छिन्नजिह्वाक्षिनासिकाः । पूयशोणितदूर्गन्धैर्भक्ष्यमाणाश्च जम्बुकैः ॥५० चण्डाले निघृ णैश्चण्ड भक्ष्यमाणाः समन्ततः । क्रोशन्तः करुणं घोरं गच्छन्ति यमसादनम् ॥५१ तत्रैव पतिताः पापाः विष्ठा पूयेष्यनेकशः । मज्जन्ते वर्षकोटीस्तु क्लिश्यन्ते वेदनान्विताः ॥५२ ततश्च मुक्ताः कालेन लोके चास्मिन्नराधमाः । विष्ठाक्रिमित्वं गच्छन्ति पतन्ति च ततोऽर्णवे ॥ ५३ विद्यमानधनै यैस्तु लोभद्म्भादृतान्वितैः । श्रोत्रियेभ्यो न दत्तानि धनानि बहुधा नृप ! ॥५४ श्रीपा पाशनिबद्धास्ते हन्यमानाश्च राक्षसैः । क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरन्नराः ॥ ५५ अदत्तदाना गच्छन्ति शुष्ककृर्णास्यतालुकाः । अन्नं पानीयसहितं प्रार्थयन्तः पुनः पुनः ॥ ५६ श्वासै बुभुक्षातृष्णार्त्ता गन्तुं नैव द्यशक्नुमम् । ममान्ते दीयतां स्वामिन्! पानीयं दीयतामिति ॥५७

इति ब्रुवन्तस्तेदूताः प्राप्नुवन्ति यमालयम् ॥५८

[[१६५२]]

वृद्धगौतमस्मृतिः ।

[ पश्वमो-

वैशम्पायन उवाच ।

तच्छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः । निःसंज्ञोऽभूद्भयत्रस्तोनिश्चेष्टो भयविह्वलः ॥ ५६ ततो लब्ध्वा शनैः संज्ञां समाश्वस्तो ऽच्युतेन सः । नेत्रे प्रक्षाल्य तोयेन भूयः केशव मब्रवीत् ॥६०

युधिष्ठिर उवाच ।

भीतोऽस्म्यहं महादेव ! श्रुत्वा वाक्यस्य विस्तरम् । केन दानेन तं मार्ग तरन्ति पुरुषाः सुखम् ॥६१

श्रीभगवानुवाच ।

इह ये धार्मिका लोके जीवघातकवर्जिताः । गुरुशुश्रूषया युक्ता देवब्राह्मणपूजकाः ॥ ६२ अस्मान्मानुष्यलोकान्ते ससहायाः सबान्धवाः । यमध्वानन्तु ते यान्ति यथावत्तु निबोध मे ॥ ६३ ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पाण्डव ! ।

ये प्रयच्छन्ति विद्वद्भ्य स्ते मुख्या यान्ति तत्पदम् ॥६४ अन्नभ्व ये प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम् । श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः ॥ ६५ ते विमाने महात्मानो यान्ति चित्रै र्यमालयम् । सेव्यमाना वरस्त्रीभि र्देवसङ्गे महापथे ॥६६

ये त नित्यं प्रभाषन्ते प्रिय मकिल्मिषं वचः ।

तु

ते च यान्ति महालाभै विमान तैर्यमालयम् ॥ ६७

ऽध्यायः] शुभाशुभकर्मकर्तॄणां प्राणिनां यमयातनावर्णनम् । १६५३

कपिलादीनि दानानि श्रद्धयुक्ताश्च ये नराः । ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः ॥ ६७ ते यान्त्यादित्यवर्णाभि विमाने हेमभूषणः । वैवस्वतपुरं रम्य मप्सरोभिनिषेविताः ॥६८ उपानहौ च छत्रभ्व शयनान्यासनानि च । विप्रेभ्यो ये प्रयच्छन्ति वस्त्रान्याभरणानि च ॥ ६६ ते यान्त्यश्ववृपैश्चैव कुञ्जरश्चाप्यलङ्कृतैः ॥७०

धनदस्य पुरं रम्यं दण्डच्छत्रविभूषितः । ये च वृक्षांश्च दास्यन्ति भोज्यं रम्यं तथैव च । स्निग्धतां चापि विप्रेभ्यश्छायया परया युताः ॥ ७१ ते यान्ति काञ्चनैनैिर्युता वैवश्वतक्षयम् । वरस्त्रीभिर्युवतिभिः सेव्यमानाः समन्ततः ॥७२ ये चं क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु । ब्राह्मणेभ्यः प्रयच्छन्ति श्रद्दधानाः सुसंस्कृताः ॥ ७३ चक्रवाकप्रयुक्तस्तु यानैरुषममयैः शुभैः ।

यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् । ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च ॥७४ हंसयुक्तैर्विमानैस्तु यान्ति ब्रह्मपुरं नराः ।

ये प्रयच्छन्ति विप्रेभ्यो विविधान्नं घृत लुतम् ॥७५ ते यान्त्यमलवर्णाभं विमानैर्वायुवेगिभिः ।

तत्प्रेतनाथस्य नानाजलसमाकुलम् ॥७६

[[१६५४]]

वृद्धगौतमस्मृतिः ।

पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम् ।

ते

[ पञ्चमो-

सुतृप्ताः सुखा यान्ति विमानैर्हसचोदितैः ॥७७ ये तिलांस्तिल्येतैव घृतं सर्व मथापि वा । श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः ॥७८ सोममण्डलसङ्काशैर्यानैस्तेयान्ति निर्मलैः । गीयमानास्तु गन्धर्वै वैवस्वतपुरन्नरः ॥७६ येषां वाप्यश्चतुः पञ्च तटाकानि सरांसि च । दीर्घिकां पुष्करिण्यश्च सजलाश्च जलाशयाः ॥ ८० यानैस्ते यान्तिस्वर्णाभैदिव्यघण्टानिनादितैः । चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः ॥ ८१ नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम् । येषां देवगृहाणीह छत्राण्याभरणानि च ॥ ८२ मनोहराणि कान्तानि दर्शनीयानि भूमिप ! । ते व्रजन्त्यमलाभ्राभं विमानैर्वायुवेगिभिः ॥८३ पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम् । वैवस्वतञ्च पश्यन्ति सुखचित्तं सुखस्थितम् ॥८४ यमेन पूजिता यान्ति यमसालोक्यतां गतिम् । मृतानुद्दिश्य लोकेषु प्रपातशालमुच्छ्रितम् ॥ ८५ शीतलं सलिलं रम्यंतिष्ठ तेभ्यो दिशन्ति ये । ते तु तृप्तिं पराम्प्राप्ताः सुखं यान्ति महापथम् ॥८६ काष्ठपादुकतर्दायां तमध्वानं सुखन्तथा । सुवर्णमणिपीठेषु पादौ कृत्वा रथोत्तमम् ।

आरामान् वृक्षषण्डाश्च रोपयन्ति च ये नराः ॥८७ऽध्यायः ] शाशुभकर्मकर्तृणां प्राणिनां यमयातनावर्णनम् । १६५५

सम्वर्धयन्तिचान्यग्राः फलपुष्पोपशोभितान् । वृक्षच्छायासु रम्यासु तमध्वानं स्वलङ्कृतम् ॥८८ यानैस्तु वाहनैर्द्दिव्यैः पूज्यमाना मुहु मुहुः । सुवर्ण रजतं वाऽपि विद्रुमं मौक्तिकं तथा ॥८६ ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्वलैः । ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम् ॥६० भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः । उदितादित्यसङ्काशैर्विमानै वृक्षयोजितैः ।

कन्याश्व ये प्रयच्छन्ति विप्राय श्रोत्रियाय च ॥ ६१ दिव्यकन्यात्रता यान्ति विमानैस्ते यमालयम् । सुगन्धान् गन्धसंयोगान् पुष्पाणि सुरभीणि च ॥१२ प्रयच्छन्ति द्विजाग्रेभ्यो ये भक्त्या परया युताः । दीपदा यान्ति यानैश्व दीपयन्तो दिशो दश ॥ ६३ आदित्यसदृशाकार दीप्यमाना यथाग्नयः । ग्रहावसथदाना ये गृहैः काञ्चनवेदिभिः ॥६४ व्रजन्ति बालसूर्याभै धर्मराजपुरन्नराः । जलभाजनदातारः कुण्ठिकाकरकाप्रदाः ॥६५ पूज्यमाना वरस्त्रीभि र्यान्ति तस्मान्महागजैः । पादाभ्यङ्गं शिरोभ्यङ्गं यानपादोदकं ततः ॥ ६६ ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् । विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम् ॥६७

[[१६५६]]

वृद्धगौतमस्मृतिः ।

चक्रवाकैः प्रयुक्तेन याति यानेन सोऽपि च । स्वागतेन च यो विप्रं पजयेदासनानि च ॥६८ स गच्छति तमध्वानं दिव्यं परमनिवृतम् । नमो ब्रह्मण्यदेवाय सर्वदा चाभिवादयेत् ॥६६ प्रयतं प्रयतो नित्यं स सुखं याति तत्फलम् । नमः सर्वसमेभ्यश्च त्वभियाय दिने दिने ॥१०० नमस्करोति यो भक्त्या स मुखं याति तत्फलम् । नमोऽस्तु विप्रदत्ताय तुभ्यं देहि दिने दिने ॥ १०१ भूमिमाक्रमते प्रातः शयनादुत्थितस्तु यः । स सर्वकामतृप्तात्मा सर्वभूषणभूषितः ॥ १०२ याति यानेन दिव्येन सुखं वैवस्वतालयम् । अनन्तराशितोये तु दम्भाहङ्कारवर्जितः ॥ १०३ तेऽपि सारसयुक्तेन यान्ति यानेन वै

सुखम् ।

ते चाप्येकेन भक्तेन वर्तन्ते दम्भवर्जिताः ॥ १०४ हंसयुक्तेर्विमानैस्ते सुखं यान्ति यमालयम् । चतुर्थेनैव भुक्तेन वर्तन्ते ये जितेन्द्रियाः ॥ १०५ यान्ति ते धर्मनगरं यानैर्वर्हिणयोजितैः ।

[[1]]

आनीय दिवसेनेह भुञ्जन्ते ये जितेन्द्रियाः ॥ १०६ तेऽपि हस्तिरथैर्यान्ति तत्पथं कनकोज्वलैः । षष्ठानुकामिको यस्तु वर्षमेकन्तु वर्तते ॥ १०७ कामक्रोधविनिर्मुक्त शुचिर्नित्यं जितेन्द्रियः । स याति कुञ्जरस्थस्तु जयशङ्खरवैयुतः ॥ १०८

[ पश्वमो-

Sध्यायः ] शुभाशुभकमकतृ णा पाणिनां यमयातनावर्णनम् । १६५७

पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः । धमराजपुरं रम्यं दिव्यस्त्रीगणसेवितम् ॥१०६ ये च मासोपवासं वै कुर्वन्ते संयतेन्द्रियाः । तेऽपि सूर्योदयप्रख्यै र्यान्ति याने यमालयम् ॥११० अग्निप्रवेशं पञ्चापि कुरुते मन्तात्मना ।

स यात्यमिप्रकाशेन विमानेन यमालयम् ॥ १११ प्राणांस्त्यजति यो विप्रो मां प्रपन्नोऽप्यनाशकम् । स बालार्कप्रकाशेन व्रजेद्यानेन तत्फलम् ॥११२ प्रविष्टोऽन्तर्जले यस्तु प्राणांस्त्यजति मानवः । सोममण्डलकल्पेन याति यानेन तत्पथम् ॥ ११३ स्वशरीरं हि गृध्राणां मज्जनाय प्रयच्छति । स याति रथमुख्येन काञ्चनेन यमालयम् ॥११४ गोकृते स्त्रीकृते चैव तयापि प्रकृतेपि च । ते यान्त्यमरकन्याभिः सेव्यमानो रविप्रभः । ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः ॥११५ हंससारसयुक्तेन याति यानेन तत्पथम् । परपीडामकृत्वैव भृत्यान् विभ्रति ये नराः ॥ ११६ तत्पथं ते सुखं यान्ति विमानैः काथ्व नोज्वलैः । ये समास्थाय भूतेषु जीवानामभयप्रदाः ॥११७ क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा । पूर्णचन्द्रप्रतीकाशै र्विमानैस्ते महाप्रभाः ॥ ११८

[[१६५८]]

वृद्धगौतमस्मृतिः ।

यान्ति वैवस्वतपुरं देवगन्धर्वसेविताम् ।

ये मामेकात्मभावेन भक्त्या त्र्यम्बकमेव वा ॥११६ पूजयन्ति नमस्यन्ति स्तुवन्ति च दिने दिने । धर्मराजपुरं यान्ति यानै स्तव समप्रभैः ॥ १२० पूजितास्तत्र धर्मण स्वधर्माद्यादिभिर्गुणैः ।

यान्त्येव मम लोकं वा रुद्रलोक मथापि वा ॥१२१ इति श्रीगौतमीये वैष्णवधर्मशास्त्रे पञ्चमोऽध्यायः ।

षष्ठोऽध्यायः ।

अथ सर्वदानफलवर्णनम् ।

वैशम्पायन उवाच ।

श्रुत्वा धर्मपुराथं वा जीवानां गमनं तथा । धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ।

युधिष्ठिर उवाच ।

देव ! देवेश ! दैत्यघ्न ! सदा देवैरभिष्टुत ! । भवान् भवकर ! श्रीमान् सहस्रादित्यतेजसः ॥१ सर्वसंहार सर्वज्ञ । सर्वधर्मप्रवर्तक ! ।

!

सर्वदानफलं सौम्य ! कथयस्व ममाच्युत ! ॥२

दानं कृत्वा कथं कृष्ण । कीदृशाय द्विजाय वै । !

कीदृशं वा तपः कृत्वा तत्फलं वाथ भुज्यते ॥३

[ षष्ठो-

ऽध्यायः ]

जलदानमाहात्म्यवर्णनम् ।

वैशम्पायनउवाच ।

[[१६५६]]

एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता ।

उवाच धर्मपुत्राय धर्मान् पुण्यान् महोदयान् ॥४

श्रीभगवानुवाच ।

शृणुष्वावहितो राजन् ! पूतम्पावनमुत्तमम् । सर्वदानफलं सौम्य ! तेन श्राव्यमकर्मणाम् ॥५ यच्छुत्वा पुरुषः स्त्री वा नष्टपापाः समाहिताः । तत्क्षणात्पूततां यान्ति पापकर्मरता अपि ॥ ६ एकाहमपि कौन्तेय ! भूमावुत्पादितं जलम् । सत्यं तारयते पूर्वा तृष्णा यत्र च गौर्भवेत् ॥ ७ पानीयं परमं लोके जीवानां जीवनं परम् । पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती ॥८ पानीयस्य गुणा दिव्या परलोक सुखावहा । तत्र पुण्योदकी नाम नदी परमपावनी ॥ कामन्ददाति राजेन्द्र ! तोयदानं यमालये । शीतलं सलिलं तस्यामक्षय्यममृतोपमम् ॥१० क्षीरतोयं प्रदातॄणां भवेद्दीर्घं सुखावहम् । ये चापि तोयदातारो भूयस्तेषां विधीयते ॥ ११ प्रशान्त्यत्यम्बुपानेन विभक्षा च युधिष्ठिर ! । तृषितस्य नचान्येन पिपासापि प्रणश्यति ॥ १२ तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता । अग्निर्मूर्त्तिः क्षितेर्योनिः स्मृतस्य च सुखम्भुवा ॥१३

[[१२३]]

[[१८६०]]

वृद्धगातमस्मृतिः ।

तत्तोयं सर्वदानानां मूलमित्युच्यते बुधैः ।

यतः सर्वाणि भूतानि जीवन्ति प्रभन्ति च ॥१४ तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते । सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम् ॥१५ तत्सवं तोयदानेन प्राप्यते नात्र संशयः । ये प्रयच्छन्ति विप्रेभ्यः स्वन्नदानं सुसंस्कृतम् । तस्माज्जाताः स्वयं प्राणा भवन्ति पुरुषर्षभ ! ॥ १६ अन्नभुक्तभ्व भुक्तश्च अन्ने जीवः प्रतिष्ठितः । इन्द्रियाणि च बुद्धिश्च पुष्यन्तेऽन्नेन नित्यशः ॥ १७ अन्नेनैव हि जीवन्ति सर्वभूतानि पाण्डव ! । तेजोबलञ्च रूपथ्व सत्वं वीर्यं द्युतिर्मतिः ॥१८ ज्ञानमेव तथायुश्च सर्वमन्ने प्रतिष्ठितम् । देवदानवतिर्यक्षु सर्वलोकेषु सर्वथा ॥ १६

सर्वकालं हि सर्वेषा मन्नं प्राणाः प्रतिष्ठिताः । अन्नं पूज्यं यतो रूप मन्नं नित्यं नमस्कृतम् ॥२० सर्वभूतमयब्चैव सर्वप्राणमयं स्थितम् । अन्नेनाधिष्ठितप्राणोऽन्नपानो व्यानमेव च ॥ २१

उदानश्च समानश्व धारयन्ति शरीरिणः । शयनोत्थानगमनग्रहणाकर्षणानि च ॥ २२

सर्वसत्वकृतं कर्म अनादेव प्रवर्तते ।

[[1]]

चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च ॥२३

[[1]]

। 9001-

ऽध्यायः ]

अन्नदानमाहात्म्यवर्णनम् ।

अन्नाद्भवन्ति राजेन्द्र ! श्रुतिरेषा सनातनी । विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः ॥२४ अन्नाद्यस्मात् प्रवर्तन्ते तस्मादन्नं परं स्मृतम् । देवा रुद्रादयः सर्वे पितरो जनयस्तथा ॥२५ जस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते । यस्मादन्नात्प्रजाः सर्वाः कल्पे कल्पेऽसृजत्प्रभुः ॥२६ तस्मादन्नात्परं दानं न भूतो न भविष्यति । यस्मादन्नं प्रवर्तन्ते धर्मार्थकाममेव हि ॥ २७ तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव ! । यक्षरक्षोगणा नागा भूता दत्याश्च दानवाः ॥२८ तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परम्भवेत् । परान्नमुपभुञ्जानो यत्कर्म कुरुते शुभम् ॥२६ तच्छुभैकस्य भागस्तु कर्तुर्भवति भारत ! । अन्नदस्य त्रयो भागा भवन्ति भरतर्षभ । । तस्मादन्नं प्रदातव्यं ब्राह्मणेभ्येा विशेषतः । ब्राह्मणाय दरिद्राय योऽन्नं सम्बत्सरं नृप ! ॥३१

श्रोत्रियाय प्रयच्छन् वै पाकवेदविवर्जितः । दम्भाचारवियुक्तस्तु परां भक्तिमुपागतः ॥ ३२ स्वधर्मेणार्जितायान्नं तस्य पुण्यफलं शृणु । गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् ॥३३ तत्पुण्यफलमाप्नोति नरो वै नात्र संशयः । अर्धसम्बत्सरं दद्यादप्रभैक्षमयाचते ॥७४

[[१६६१]]

[[१६६२]]

वृद्धगौतमस्मृतिः ।

विविधं परमं भूप ! तस्यपुण्यफलं शृणु । कपिलाद्य सहस्त्रे तु दत्तं यत्पुण्यमिष्यते ॥ ३५ तत्पुण्यमखिलं प्राप्य शक्रलोकं महीयते । स शक्रभवने रम्ये वर्षकोटिशतं नृप ! ॥३६ यथाकामं महातेजाः क्रीडत्यप्सरसाङ्गणैः । अग्रान्नं यो दिनं दद्याह्मिजाय नियतव्रतम् ॥३७ दशवर्षाणि राजेन्द्र ! तस्य पुण्यफलं शृणु । कपिलाशतसहस्रस्य विधिदत्तस्य यत्फलम् ॥३८ तत्पुण्यफलमादाय पुरन्दरपुरं व्रजेत् ।

स शक्रभवने रम्ये कामरूपी यथासुखम् ॥३६ दशकोटिसमा राजन् ! क्रीड़ते सुरपूजितः । शक्रतुल्यावतीर्णश्च अक्लेशेन महर्णुतिम् ॥४० चतुर्वेदी द्विजः श्रीमान् जायते राजपूजितः । अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे ॥४१ देशकालाभियाताय दीयते पाण्डुनन्दन ! । याचतेऽन्नं न दद्याद्वा इसमाने पराक्रमे ॥४२ स लुब्धो नरकं याति कृमीणा का सूतकम् । स तत्र नरके घोरे लोभमोहितचेतनः ॥ ४३ शतवर्षसहस्राणि क्लिश्यते वेदनादितः ।

तस्माच्च नरकात्यक्तः कालेन महता हि सः ॥४४ दरिद्रो मानुषे लोके चण्डालेष्ववजायते । यस्तु पांसुलपादस्तु दूराध्वश्रमकर्शितः ॥४५

[ षष्ठो-

ऽध्यायः ]

अन्नदानमाहात्म्य वर्णनम् ।

क्षुत्पिपासाश्रमार्त्तश्च श्रमखिन्नमतिर्द्विजः । प्रयच्छन् वै तु दातारं गृहस्वान्ते च यस्य वै ॥४६ तं पूजयति वान्नेन सोऽतिथिः स्वर्गसंक्रमः । तस्मिंस्तुष्ट नरश्रेष्ठ! तुष्टाः स्युः सर्वदेवताः ॥४७ न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः । अग्नयः प्रार्थयिष्यन्ति यथाह्यतिथिपूजनात ॥४८ कपिलायान्तु दत्तायां विधिवज्ज्येष्ठपुष्करे । न तत्फलमवाप्नोति यत्पुनर्विप्रभोजनात् ॥४६ द्विजपादजलक्लिन्ना यावत्तिष्ठति मेदिनी । तावत् पुष्करपर्णेन पिबन्ति पितरो जलम् ॥५० देवमालापनयनं द्विजोच्छिष्टापमार्जनम् । श्रान्तसंवाहनञ्चैव तथा पादावसेचनम् ॥५१ प्रतिश्रयप्रदानश्च तथा शय्यासनस्य च । एकैकं पण्डवश्रेष्ठ ! गोप्रदानाद्विशिष्यते ॥५२ पादोदकं पादघृतं जीवमन्नं प्रतिश्रयम् ।

ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पति तान् यमः ॥५३ विप्रातिथ्ये कृते राजन् ! भक्त्या शुश्रूषितेऽपि च । देवाः शुश्रूषिताः सर्वे त्रयस्त्रिशद्भवन्त्यतः ॥५४ अभ्यागतो ज्ञानपूर्वस्त्वज्ञातोऽतिथिरुच्यते । तयोः पूजामधः कुर्यादिति पौराणिकी श्रुतिः ॥५५ पादाभ्यङ्गोऽन्नपानैस्तु योऽतिथि पूजयेन्नरः । पूजितस्तेन राजेन्द्र ! भवेदेव न संशयः ॥ ५६

[[१६६३]]

[[१६६४]]

वृद्धगतिमस्मृतिः ।

शीघ्रं पापविनिर्मुक्तो मया चानुगृहीतकः ।

विमानेनैव कल्पेन यमलोकं स गच्छति ॥५७ अभ्यागतं श्रान्तमनुव्रजद्भि देवाश्च सर्वे पितरोऽग्नयश्च ।

[ षष्ठा-

अस्मिन् द्विजे तत्र च पूजिताः स्युर्गते निराशा अपि ते प्रयान्ति ॥५८

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।

पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च ॥५६

वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सदा ।

निरयं रौरवं गत्वा दशवर्षाणि पच्यते ॥६० ततश्चापि च्युतः कालादिह लोके नराधमः । श्वा वै द्वादशवर्षाणि जायते क्षुत्पिपासितः ॥ ६१ चाण्डालोऽप्यतिथिः प्राप्तो देशकालौ च काङ्क्षया । अभ्युद्गतगृहस्थेन पूजनीयः स सर्वथा ॥ ६२ अनर्चयित्वा योऽश्नाति लोभमोहितचेतसः । चण्डालत्व मवाप्नोति दशवर्षाणि पाण्डव ! ॥६३ निराशमतिथिं कृत्वा भुक्तवान् स प्रणष्टवान् । न जानात्यात्मनात्मानं विष्ठाकूपे निपातितम् ॥ ६४ मोघं धूपं प्रोन्नयन्ति मोघं स्यात्तत्तु पच्यते । मोघमन्नस्य चाश्नन्ति योऽतिथिं न प्रपूजयेत् ॥ ६५ साङ्गोपाङ्गांस्तु यो वेदान् पठतीह दिने दिने । नचातिथिं पूजयति वृथा स पठति द्विजः ॥ ६६ नित्यमग्नौ पाकयज्ञैः सोमसंस्थाभिरेव च ।

[[1]]

ये यजन्ति न चाश्नन्ति गृहेष्वतिथिमागतम् ॥ ६७ऽध्यायः ]

अतिथिमाहात्म्यवर्णनम् ।

तेषां यशोभिः कामानां दत्तमिष्टश्च यद्भवेत् । वृथा भवति तत्सर्वमाशया यतया हतम् ॥६८ देशं कालच पात्रच स्वशक्तिभ्व निरीक्ष्य च । अल्पं वा सुमद्वापि कुर्यादातिथ्यमात्मवान् ॥६६ सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम् । स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत् ॥७० प्रियो वा यदिवा द्वेष्यो मूर्खः पण्डित एव वा । प्राप्तो यो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः ॥ ७१ क्षुत्पिपासाश्रमार्त्ताय देशकालगताय च । सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता ॥७२ भोजयेदात्मनश्रेष्ठान्विधिवत्पूजितात्मनः ।

अन्नं प्राणो मनुष्याणा मन्नदः प्राणदोभवेत् ॥७३ तस्मादन्नं विशेषेण दातव्यं भूति मिच्छता । अन्नदः सर्वकामैस्तु सूपतृप्तस्त्वलङ्कृतः ॥७४ पूर्णचन्द्र प्रकाशेन विमानेन विराजितः । सेव्यमानो वरस्त्रीभि देवलोकं स गच्छति ॥७५ क्रीड़ित्वा तु ततस्तस्मिन्वर्षकोटिं यथामरम् । ततश्चापि च्युतः कालादिह लोके महायशाः ॥ ७६ वेदशास्त्रार्थ तत्वज्ञो भोगवान् ब्राह्मणो भवेत् । सर्वातिथ्यन्तु यः कुर्यान्मनुष्य स्तूपजायते ॥ ७७ महाधनपतिः श्रीमान् वेदवेदाङ्गपारगः ।

सर्वशास्त्रार्थविद्विद्वान् भोगवान् ब्राह्मणो भवेत् ॥७८

[[१६६५]]

[[१६६६]]

वृद्धगौतमस्मृतिः ।

सर्वातिथ्यन्तु यः कुर्य्याद्वर्षमेकमकल्मषम् । धर्मार्जितधनोभूत्वा पाकभेदविवर्जितः ॥७६ देवानिव स्वयं विप्रानर्चयित्वा पितृनपि । विप्रो नाम्राशनाशी य स्तस्य पुण्यफलं शृणु ॥ ८० वर्षेणैकेन यावन्ति पुण्यानश्नन्ति वै द्विजाः । ताद्वर्षसहस्राणि मम लोके महीयते ॥८१ ततश्चापि च्युतः कालादिह लोके महीयते । वेदशास्त्रार्थतत्वज्ञो भोगवान् ब्राह्मणोभवेत् ॥८२ सर्वातिथ्यन्तु यः कुर्याद्यथाश्रद्धन्नरेश्वर ! । अकालनियमेनापि सत्यवादी जितेन्द्रियः ॥८३ सत्यसन्धो जितक्रोधः सदा धर्मेषु निष्ठितः । अधर्मभीरु धर्मिष्ठो मायामात्सर्य्यवर्जितः ॥८४ श्रद्दधानः शुचिर्नित्यं पाकभेदविवर्जितः । स विमानेन दिव्येन दिव्यरूपी महायशाः ॥८५ पुरन्दरपुरं याति गीयमानोऽप्सरोगणैः । मन्वन्तरभ्य तत्रव क्रीड़ित्वा देवपूजितः ॥८६ मानुष्यं लोकमागम्य भोगवान् ब्राह्मणोभवेत् । दश जन्मानि भूपत्वं प्राप्नुयाद्राजपूजितः ॥८७ जातिस्मरश्च भवति यत्र तत्रैव जायते ।

अतः परं प्रवक्ष्यामि भूमिदान मनुत्तमम् ॥८८ यः प्रयच्छति विप्राय भूमिं रम्यां सुदक्षिणाम् । श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव ! ॥८६

[ षष्ठो-

ऽध्यायः ]

भूमिदानमाहात्म्यवर्णनम् ।

स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः । सर्वपापविनिर्मुक्तो दीप्यमानो रविर्यथा ॥ ६० बालसूर्यप्रकाशेन विचित्रध्वजशोभिना । याति यानेन दिव्येन ममलोकं महातपाः ॥ १ तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम् । कामगः कामरूपी च क्रीडत्यप्सरसाङ्गणैः ॥६२ यावद्विभर्ति लोकान्वै भूमिः कुरुकुलोद्वह ! । भूमिदानस्य पुण्यस्य क्षयो नवोपपद्यते ॥ ६३ ब्राह्मणाय दरिद्राय भूमिं दत्त्वा तु यो नरः । न हिनस्ति नरव्याघ्र ! तस्य पुण्यफलं शृणु ॥६४ सप्तद्वीपसमं प्रान्तं यत्र धान्यसमाकुला । सशैलवनदुर्गान्ता तेन दत्ता भवेन्मही ॥६५ भूमिं हि दीयमानाश्च श्रोत्रियायाग्निहोत्रणे । सर्वभूतानि मन्यन्ते मे ददातीति ह श्रुतिः ॥६६ सुवर्णमणिरत्नानि धनधान्यवसूनि च । सर्वदानानि वै राजन् ददाति वसुधान्ददत् ॥६७ सागरान् सरितः शैलान् समानि विषमाणि च । सर्वगन्धान्रसान् ददाति वसुधां ददत् ॥६८ ओषधिः फलसम्पन्नान् नगान् पुष्पफलोपगात् । कमलोत्पलषण्डानि ददाति वसुधां ददत् ॥६६ धर्मान् कामान् तथाथेभ्व वेदान् यज्ञांस्तथैव च । स्वर्गमोक्षगतिञ्चैव ददाति वसुधां ददत् ॥ १००

[[१६६७]]

[[१६६८]]

वृद्धगौतमस्मृतिः ।

अग्निष्टोमादिभियज्ञर्ये यजन्ति सदक्षिणः ।

[ षष्ठो-

न तत्फलं भवेत्तेषां भूमिदानस्य यत्फलम् ॥१०१ श्रोत्रियाय महीं दत्त्वा यो हिनस्ति न पाण्डव ! । तज्जनाः कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः ॥१०२ तावत्सर्गोपभोगानां भोक्तारं पाण्डुनन्दन ! । शस्यपूर्णा महीं यस्तु श्रोत्रियाय प्रयच्छति ॥ १०३ पितरस्तस्य कुप्यन्ति यावदाभूतसंप्लवम् । मम रुद्रस्य सवितु स्त्रिदशानां तथैव च ॥ १०४

[[1]]

प्रीतये बिद्धि राजेन्द्र ! भूमिं दत्त्वा द्विजाय वै । स च पुण्येन पूतात्मा दाता भूमे युधिष्ठिर ! ॥१०५ मयि सायुज्यतां याति नात्र कार्या विचारणा । यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्शितः ॥ १०६ स च गोकर्णमात्रेण भूमिदानेन शुध्यति । वेदानां पारगो यस्तु परं पुण्य मुदाहृतम् ॥१०७ भूमिर्गोकर्णमात्रेण तत्फलन्तु विधीयते ।

मासोपवासे यत्पुण्यं चीर्णे चान्द्रायणेऽपिवा ॥ १०८

भूमेर्गोकर्णमात्रेण तत्फलन्तु विधीयते ॥ १०६

युधिष्ठिरउवाच ।

देवदेव ! नमस्तेऽस्तु वासुदेव ! सुरेश्वर ! । गोकर्णस्य प्रमाणं मे वक्तुमर्हसि मानद ! ॥११०

ऽध्यायः ]

गोदानमाहात्म्यवर्णनम् ।

श्रीभगवानुवाच ।

[[१६६६]]

शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन ! । त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतोदिशम् ॥ १११ प्रत्यक्परागपि राजेन्द्र ! तत्तथा दक्षिणोत्तरम् । तत् गोकर्णमिति प्राहुः प्रमाणोद्धरणे नृप ! ॥ ११२ सर्वषां गोशतं यत्र सुखं तिष्ठति यत्नतः ।

स वत्स ! नरशार्दूल ! व तगोकर्ण मुच्यते ॥ ११३ किङ्करा मृत्युदण्डाश्च क्रमपाकाश्च दारुणाः । घोराश्च वारुणाः पापाः नोपसर्पन्ति भूमिदम् ॥ ११४ निराधारा वाद्यास्तु तथा वैतरणी नदी । तीव्रास्तु यातनाः कष्टाः नोपसर्पन्ति भूमिदम् ॥ ११५

चित्रगुः कलिः कालो गृहा वै मृत्युरेव च । यमभ्च भगवान् साक्षात्पूजयन्ति महीप्रदम् ॥ ११६

रुद्रः प्रजापतिः शक्रः सुराः ऋषिगणास्तथा । अहश्च प्रीतिमान् राजन् ! पूजयामो महीप्रदम् ॥११७

कृशशक्रस्य वृत्तस्य कृशगोश्च कृशातिथैः ।

भूमिर्देया नरश्रेष्ठ! सन्निधिः पारलौकिकम् ॥ ११८

सीदमानं कुटुम्बाय श्रोत्रियायामिहोत्रिणे । वृद्धस्थाय दरिद्राय भूमिर्देया नराधिप ! ॥ ११६ यथा जनित्री क्षीरेण पुत्रं वर्द्धयति स्वकम् । दातारमनुगृह्णाति दत्ता ह्येवं वसुन्धरा ॥१२०

[[१६७०]]

वृद्धगौतमस्मृतिः ।

यथा बिभर्ति गौर्वत्सं सृजति क्षीरमात्मनः । तथासर्वगुणोपेतं भूमिदम्पाति सम्पदा ॥ १२१ यथा द्विजा निराहन्ति जलसिक्तानि भूतले । तथा कामत्रिपुरो हन्ति भूमिदस्य दिने दिने ॥ १२२ यथोदयस्थसूर्यस्तु तमः सर्वं व्यपोहति ।

तथा पापान्नरस्येह भूमिदानं व्यपोहति ॥१२३ दानाद्दशानुगृह्णाति यो हरेद्दश हन्ति सः । अतीतानागतानीह कुलानि कुरुनन्दन ! ॥ १२४ आश्रित्य भूमिमदत्ता दत्त्वा वा यो हरेत् पुनः । स चान्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ॥ १२५ स्वदत्तां परदत्तां वा यो हरेत् वै वसुन्धराम् ।

न तस्य नरका घोरा निवर्तन्ते न निष्कृतिः ॥ १२६ ब्राह्मणस्य हृते क्षेत्रहन्याद् द्वादशपूरुषान् । प्राप्नोति भूमियोनिश्च न च मुच्येत जातु सः ॥ १२७ दत्त्वा भूमिं द्विजेन्द्राय यस्ता मेवोपजीवति । पणं शतसहस्रस्य हन्तुः सा लभ्यते फलम् ॥ १२८ सोऽवाक्शिरास्तु पापात्मा कुम्भीपाकेषु पच्यते । दिव्यैर्वर्षसहस्त्रस्तु कुम्भीपाकाद्विनिर्गतः ॥ १२६ इह लोके भवेच्छापैः शतजन्मानि पाण्डव ! । दत्त्वा भूमिं तु देवानां यस्तामेवोपजीवति ॥ १३० विनाश्य स्वकुलं याति नरकानेकविंशतिम् । नरकेभ्योविनिर्मुक्तः शुनां योनिं स गच्छति ॥१३१

[ षष्ठो-

ऽध्यायः ]

परिष्कृतक्षेत्रदानमाहात्म्यवर्णनम् ।

श्वयोनेश्व परिभ्रष्टो विष्ठायां जायते क्रिमिः । तत्र तत्रव जायेत नोत्तरं विन्दते पुनः ॥ १३२ फालाकृष्टा मही देया सबीजा शस्यमालिनी । अथवा सोदका देया दरिद्राय द्विजाय वै ॥ १३३ एवं दत्त्वा महीं राजन् ! प्रहृष्टेनान्तरात्मना । सर्वान् कामानवाप्नोति मनसा चिन्तितानपि । बहुभिर्वसुधा दत्ता दीयन्ते च नराधिपैः ॥ १३४ यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलम् । यः प्रयच्छन्ति कन्यां वै सभूषां श्रोत्रियाय च ॥१३५ स ब्रह्मदो हि राजेन्द्र ! तस्य पुण्यफलं शृणु । बलीवर्दसहस्राणां दत्तानां धूर्यवाहिनाम् ॥१३६

यत्फलं लभ्यते राजन् ! कन्यादानेन तत्फलम् । षष्टिवर्षसहस्राणि मम लोके महीयते ॥ १३७

ततश्चापि ध्युतः कालादिह लोके स जायते । पितरस्तस्य तृप्यन्ति ये प्रयच्छन्ति कन्यकाम् ॥१३८

यावन्ति चैव रोमाणि कन्यायाः कुरुनन्दन ! । तावद्वर्षसहस्राणि मम लोके महीयते ॥ १३६ ततश्चापि च्युतः कालादिह लोके स जायते । षडङ्गविचतुर्वेदी सर्वलोकार्चितो द्विजः ॥१४० यः सुवणं दरिद्राय ब्राह्मणाय प्रयच्छति । श्रोत्रियाय सुवृत्ताय बहु भूयश्च पाण्डव ! ॥१४१

[[१६७]]

[[१६७२]]

वृद्धगौतमस्मृतिः ।

स मुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः ।

दिव्यं विमानमारूढः कामगः कामरूपवान् ॥१४२ वर्षकोटिं महातेजा मम लोके महीयते ।

ततः कालावतीर्णश्च सोऽस्मिन् लोके महीयते ॥ १४३

वेदवेदाङ्ग विद्विप्रः कोटियज्ञपति महान् । यश्वरूप्यं प्रयच्छेत दरिद्राय द्विजातये । शक्रवृत्तः शक्रशङ्खः स मुक्तः सर्वकिल्विषैः ॥१४४ पूर्णचन्द्रप्रकाशेन विमानेन विराजता ।

[ षष्ठो-

कामरूपी यथाकामं स्वर्गलोके महीयते ॥ १४५ ततोऽवतीर्णः कालेन लोकेऽस्मिन् स महायशाः । सर्वलोकार्चितः श्रीमान् राजा भवति वीर्यवान् ॥१४६ तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति । विशेषेण दरिद्राय तस्यापि शृणु यत्फलम् । पुण्यं वृषायुतोत्सर्गे यत्प्रोक्तं पाण्डुनन्दन ! ॥ १४७ तत्पुण्यं समनुप्राप्तस्तत्क्षणाद्विरजा भवेत् । यथा त्वचं भुजङ्गो वै त्यक्त्वा शुभ्रतनुर्भवेत् ॥१४८ तथा तिलप्रदानाद्वै पापं त्यक्त्वा विशुध्यति । तिलवर्णप्रयुक्तश्च जाम्बूनदविभूषितः ॥ १४६ विमानवरमारूढः पितृलोकं स गच्छति । षष्टिवर्षसहस्राणि कामरूपी महायशाः ॥ १६० तिलप्रादानाद्रमते पितृलोके यथासुखम् ।

यः प्रयच्छति विप्राय तिलधेनुं नराधिप ! ॥ १६१

ऽध्यायः ] गोदानप्रकरणे तिलधेनुदान महत्त्ववर्णनम् । १६७३

श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम् । गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् ॥१६२ तत्पुण्यफलमाप्नोति तिलधेनुप्रदो नरः । तिलानान्तु यवैर्यस्तु तिलधेनुं प्रयच्छति ॥१६३ तावत्कोटिसहस्राणि स्वर्गलोके महीपते । आषाढकैस्तिलैः कृत्वा तिलधेनुं नराधिप ! ॥१६४ द्वात्रिंशन्निष्कसंयुक्तं विष्णवे यः प्रयच्छति । मद्भक्तो मद्रतात्मा च तस्य पुण्यफलं शृणु । कन्यादान सहस्रस्य विधिदत्तस्य यत्फलम् ॥१६५ तत्पुण्यं समनुप्राप्तो मम लोके महीयते ।

मम लोकावतीर्णश्च सोऽस्मिन् लोके हि जायते ॥ १६६ ऋग्यजुः सामवेदानां पारगो ब्राह्मणर्षभः । गान्तु यस्तु दरिद्राय ब्राह्मणाय प्रयच्छति ॥१६७

प्रसन्नाङ्गीरिणों पुण्यां सवत्सां कांस्यदोहनाम् । यत्किश्चित् दुष्कृतं कर्म तस्य पूर्वकृतं नृप ! ॥१६८

तत्सर्वं तत्क्षणादेव विनश्यति न संशयः । यानभ्व दोषसंयुक्तं दीप्यमानमलङ्कृतम् ॥१६६

आरूढः कामगन्दिव्यङ्गोलोकमभिगच्छति ।

यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप ! ॥१७०

तावद्वर्षसहस्राणि गवां लोके महीयते ।

गोलोकादवतीर्णस्तु लोकेऽस्मिन् ब्रह्मणो भवेत् ॥ १७१

[[१६७४]]

वृद्धगौतमस्मृतिः ।

[ षष्ठो-

सयाजी शतायुश्च जायते सद्भिरचितः ।

तिला गावः सुवर्णञ्च तथा कन्या वसुन्धरा ॥ १७२ तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज ! । ब्राह्मणं वृत्तसम्पन्नमाहिताग्निमलोलुप्रम् ॥१७३ दापयेद्विधिवद्राजन् ! सन्निधिः पारलौकिकः । आहिताग्नि दरिद्रश्च श्रोत्रियञ्च जितेन्द्रियम् ॥१७४ स्वकर्मनिरतञ्चैव द्विजं यत्नेन पूजयेत् ।

अहिताग्निः सदा पात्रं सदा पात्रश्च वेदवित् ॥ १७५ पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ।

सर्ववेदमयं पात्रं सर्वपात्रं तपोमयम् ॥१७६

असङ्कीर्णञ्च यत्पात्रं तत्पात्रं तारयिष्यति । दृढस्वाध्याय नियमाः स्वप्रकीर्णेन्द्रियाश्च ये ॥ १७७ पश्चयज्ञरता नित्यं पूजितास्तारयन्ति ते ॥१७८

ये क्षान्तदान्ताश्च तथाभिपूर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः । प्रतिग्रहे सङ्कुचिता गृहस्था स्ते त्राह्मणास्तारयितुं समर्थाः ॥१७६ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलान्नवर्जी । मृतभ्व छत्रादिकं योविधिनाददाति स ब्राह्मणस्तः रयितुं समथः ॥

ब्राह्मणो यस्तु मद्भक्तो मद्याजी मत्परायणः ।

मयि सन्यस्तकर्मा च स विप्रस्तारयिष्यति ॥१८१ द्वादशाक्षरतत्वज्ञश्चातुर्वण्यं विभागवित् ।

अच्छिद्रः पञ्च कालज्ञः सविप्र स्तारयिष्यति ॥१८२ इति श्रीगौतमोये वैष्णवधर्मशास्त्रे षष्ठोऽध्यायः ।ऽध्यायः ]

वृषदान महत्त्ववर्णनम् ।

सप्तमोऽध्यायः ।

अथ वृषदान महत्त्ववर्णनम्

वैशम्पायन उवाच ।

वासुदेवेन दानेषु कथितेषु यथाक्रमम् । अवितृप्तस्तु धर्मेषु राजा केशवमब्रवीत् ॥१ देव ! धर्मामृतमिदं शृण्वतोऽपि परन्तप ! 1. न विद्यते नरश्रेष्ठ ! मम तृप्तिर्हि माधव ! ॥२ अनडुत्सम्प्रदानस्य यत्फलन्तु विधीयते । तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत ! ॥३ यानि दानानि वार्ष्णेय ! त्वया नोक्तानि कानि च । तान्याचक्ष्व सुरश्रेष्ठ ! तेषाश्वापि क्रमात्फलम् ॥४

श्रीभगवानुवाच ।

शृणु धर्मविदां श्रेष्ठ ! दत्तस्यानडुहः फलम् । पवित्रत्वात् सुपुण्यत्वात् पावनत्वात्तथैव च ॥५ दशधेनुसमोऽनडानेकोऽपि कुरुपुङ्गव ! । मेदोमांसविपुष्टाङ्गोनीरोगः पापवर्जितः ॥६ युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः । धुरन्धरस्तारयति दत्तो विप्राय पाण्डव ! ॥७ स तेन पुण्यदानेन पञ्चकोटी र्युधिष्ठिर ! । यथा मम महातेजा मम लोके महीयते ॥८

[[१२४]]

[[१६७५]]

[[१६७६]]

वृद्धगौतमस्मृतिः ।

दरिद्रायैव दातव्यं न समृद्धाय पाण्डव ! । वर्षाणां हि तटाकेषु पञ्चदश्यां समाहितः ॥

योहि दद्यादनड़ाहौ द्वौ युक्तौ च धुरन्धरौ । सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः ॥ १० तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर ! । गोसहस्रप्रदानेन यत्प्रोक्तं फलमुत्तमम् ॥११ तत्पुण्यफलमासाद्य याति लोकान् स मामकान् । यावन्ति चैव रोमाणि तयोश्चानडुहो नृप ! ॥१२ तावद्वर्षसहस्राणि मम लोकं महीयते । दरिद्रायैव दातव्यं न समृद्धाय पाण्डव ! ॥१३ वर्षाणां हि तटाकेषु फलं नैव पयोधिषु । तस्मादनडुहन्दद्याद्दरिद्राय द्विजाय वै ॥ १४ स तेन पुण्यदानेन पूतात्मा कुरुपुङ्गव ! । विमानन्दिव्यमाख्ढो दिव्यरूपी यथासुखम् ॥१५ मम लोकेषु रमते यावदाभूतसंप्लवम् ।

गृहं दीपप्रभायुक्तं शय्यासनविभूषितम् ॥१६ भाजनोपस्करैर्युक्तं धान्यं पूर्णमलङ्कृतम् । दासीगोभूमिसंयुक्तं संयुक्तं सर्वसाधनैः ॥ १७ ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर ! । दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु ॥१८ देवाः पितृगणाश्चैव सिद्धयस्त्वृषयस्तथा । प्रयच्छन्ति प्रणष्टा वै यानमादित्यसन्निभम् ॥१६.

[ सप्तमो-

ऽध्यायः ]

अनेकदान महत्त्ववर्णनम् ।

तेन गच्छेच्छ्रियायुक्तो ब्रह्मलोकमनुत्तमम् । स्त्रीसहस्रभृते दिव्ये भवने तत्र काश्वने ॥२० मोदते ब्रह्मलोकेषु यावदाभूतसंप्लवम् ।

शय्याप्रस्तरणोपेतां यः प्रयच्छति पाण्डव ! ॥२१ अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यनुलेपनैः । भोजयेच विचित्राणि तस्य पुण्यफलं शृणु ॥२२ आहिताग्निसहस्रस्य तर्पितस्य हि यत्फलम् । तत्पुण्यफलमाप्नोति यस्तु विप्राय यच्छति ॥ २३ छन्दोभिः सह युज्यन्ते विमानेन विराजितः । सप्तर्षिलोकान् व्रजति पूज्यते ब्रह्मवादिभिः ॥२४ चतुर्युगानि वै तत्र क्रीडित्वा तत्र देववत् । इहैव मानुषे लोके विप्रो भवति वेदवित् ॥२५ विश्रामयति यो विप्रं श्रान्तमध्वपरिश्रमात् । विनश्यति तदा पापं तस्य वर्षकृतं नृप ! ॥२६ अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान् । दशवर्षकृतं पापं व्यपोहति न संशयः ॥२७ घृतेन वाथ तैलेन पादौ यस्तस्य पूजयेत् । तद्द्वादशाब्द समारूढं पापमाशु व्यपोहति ॥ २८ येन दानस्य दत्तस्य यच्च पुण्यमुदाहृतम् ।

तत्पुण्य फलमाप्नोति यस्त्वेवं विप्रमर्चयेत् ॥ २६

स्वागतेन च यो विप्रं पूजयेदासनेन च ।

प्रत्युत्थानेन वा राजन् ! स देवानां प्रियो भवेत् ॥३०

[[१६७७]]

[[१६७८]]

[[3]]

वृद्धगौतमस्मृतिः ।

[ सप्तमो-

स्वागतेनानलो राजन्नासनेन शतक्रतुः ।

प्रत्युत्थानेन पितरः प्रीतिं यान्त्यथिप्रियाः ॥ ३१ अनिशक्रपितृणाच्च तेषां प्रीत्या नराधिप ! । सम्बत्सरकृतं पापन्तत्र सद्यो विनश्यति ॥ ३२ यः प्रयच्छति विप्राय यानमाल्यविभूषितः । स याति मणिचित्रेण रथेनेन्द्रनिकेतनम् ॥३३ पुरन्दरपुरे तंत्र दिव्यनारीनिषेविते । षष्टिवर्षसहस्राणि क्रोड़तेऽप्सरसाङ्गणैः ॥३४ वाहनं ये प्रयच्छन्ति ब्राह्मणाय युधिष्ठिर ! । ते यान्ति रत्नचित्रेण वाहनेन सुरालयम् ॥३५ स तत्र कामं क्रीड़ित्वा सेव्यमानोऽप्सरोगणैः । इह लोके भवेद्विप्रो वेदवेदाङ्गतत्त्ववित् ॥ ३६ पादपं पल्लवाकीर्ण पुष्पितं सफलन्तथा । गन्धमाल्याचिंतं कृत्वा वस्त्राभरणभूषितम् ॥३७ यः प्रयच्छति विप्राय श्रोत्रियाय दरिद्रिणे । भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु ॥ ३८ जाम्बूनदविचित्रेण विमानेन विराजता । पुरन्दरपुरं याति जयशब्दरवैर्युतः ॥ ३६ तत्र शक्रपुरे रम्ये शक्रस्य कल्पपादपम् । ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति ॥४० यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च । तावद्वर्षसहस्राणि शक्रलोके महीयते ॥४१

[[1]]

ऽध्यायः ]

अनेकदान महत्त्ववर्णनम् ।

शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः ।

रथाश्वगजसम्पूर्ण पुरं राष्ट्रश्च रक्षति ॥४२ स्थापयित्वा तु भद्भक्त्या यो मत्प्रकृतिमान् नरः । न स्नानं विधिवत्कृत्वा पूजाकर्माणि कारयेत् ॥४३ स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु ॥४४ अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् । तत्फलं समनुप्राप्य मत्सालोक्यं प्रपद्यते ॥४५ न जाने निर्गमं तस्य ममलोकाद्युधिष्ठिर ! । देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा ॥४६ प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु । आरुह्य काञ्चनं यानं द्योतयन् सर्वतो दिशम् ॥४७ गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः । तत्र प्रकारं क्रीडित्वा वर्षकोटि महायशाः ॥४८ इहलोके भवेद्विप्रो वेदवेदाङ्गपारगः ।

देवालयेषु वा राजन् । ब्राह्मणावसथेषु वा ॥ ४६ चत्वरेषु चतुष्के वा रात्रौ वा यदि वा दिवा । नाट्यगान्धर्ववाद्यानि धर्म श्रावणिकाश्च याः ॥५० यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना । तस्य देवा नरश्रेष्ठ ! पितरश्चापि हर्षिताः ॥ ५१ सुप्रीताः सम्प्रयच्छन्ति विमानं कामगं शुभम् । स च तेन विमानेन याति देवपुरं नरः ॥५२

[[१६७६]]

[[१६८०]]

वृद्धगौतमस्मृतिः ।

[ सप्तमो-

तत्र दिव्याप्सरोभिस्तु देवमानं प्रमोदते । देवलोकावतीर्णश्च स लोकेऽस्मिन्नराधिप ! ॥ ५३ वेदवेदाङ्गतत्त्वज्ञो भगवान् ब्राह्मणो भवेत् । चत्वरे वा सभायां वा तोरणे वा गृहाङ्गणे ॥५४ वृत्वामिकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर ! । तत्राग्निश्चतुरोमासान् ज्वालयेद्यस्तु भक्तिमान् ॥५५ समाप्तेषु तु मासेषु पुण्यादिषु तथा द्विजान् । भाजयेत्पायसं मृष्टं सघृतं मद्गतात्मना ॥५६ दक्षिणाश्च यथाशक्ति ब्राह्मणेभ्यो निवेदयेत् । एवं नित्यन्तु यः कुर्य्यात् नित्य मेवार्चयंस्तु माम् ॥५७ तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ! ।

तेनाहं शङ्करश्चास्मि पितरो नयस्तथा ॥५८

यास्यामः परमां प्रीतिं नात्र कार्य्या विचारणा । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥५६ सोऽस्मत्प्रीतिकरः श्रीमान् मम लोके महायशाः । वेदवेदाङ्गविद्विप्रो जायतेऽमरपूजितः ॥ ६० यः कोरोति नरश्रेष्ठ ! भरणं ब्राह्मणस्य तु । श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः ॥६१ तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ! । गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम् ॥६२ तत्युण्य फलमाप्नोति वर्षेणैकेन पाण्डव ! । काञ्चनेन विचित्रेण यानेनाम्बरशोभिना ॥ ६३

ऽध्यायः ]

अनेकदान महत्त्ववर्णनम् ।

स याति मामकं लोकं दिव्यस्त्रीशतसेवितः ।

गीयमानोऽमरस्त्रीभि र्वर्षाणां कोटिविंशतिम् ॥ ६४ क्रीडित्वा मामके लोके तत्र देवरभिष्टुतः । मानुष्य मवतीर्णस्तु वेदविद् ब्राह्मणो भवेत् ॥६५ करकं कुसिकां वापि यो महज्जलभाजनम् । यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ॥ ६६ ब्रह्मचर्ये तु यत्प्रीते फलं प्रोक्तं यथाविधि । तत्पुण्यफलमाप्नोति जलभाजनदो नरः ॥६७ सुतृप्तः सुप्रभः सौम्यः प्रहृष्टेन्द्रिमानसः । हंससारसयुक्तेन विमानेन विराजिता ॥ ६८ स याति वारुणं लोकं दिव्यगन्धर्वसेवितम् । पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम् ॥६६ नैष्ठिकेषु च मासेषु तस्य पुण्यफलं शृणु । कपिलाकोटिदानस्य यत्पुण्यन्तु विधीयते ॥ ७० तत्पुण्य फलमाप्नोति पानीयं यः प्रयच्छति । पूर्णचन्द्रप्रकाशेन विमानेन विराजता ॥७१ स गच्छेद्विसदनं सेव्यमानोऽप्सरोगणैः । त्रिंशत्कोटिसमास्तत्र दिव्यगन्धर्वसेवितः ॥७२ क्रीड़ित्वा मानुषे लोके चतुर्वेदी द्विजोभवेत् । शिरोऽभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः ॥७३ सुभगो रूपवान् शूरः पण्डितश्च भवेन्नरः । वस्त्रदायी तु तेजस्वी रूपवान् प्रियदर्शनः ॥७४.

[[१६८१]]

[[१६८२]]

वृद्धगौतमस्मृतिः ।

[[1]]

भवेश्च सुभगश्रीणां स्त्रीणां नित्यं मनोहरः । उपानहश्च च्छत्रभ्व यो ददाति नरोत्तमम् ॥७५ स याति रथमुख्येन काञ्चनच्छत्रशोभिना । शक्रलोकं महातेजाः सेव्यमानोऽप्सरोगणैः ॥७६ काष्ठपादुकदा यान्ति विमाने वृषयोजितैः । धर्मराजपुरं रम्यं सेव्यमानाः सुरोत्तमैः ॥७७ दन्तकाष्ठप्रदानेन मृष्टधातु भवेन्नरः । सुगन्धवदनः श्रीमान् मेधासौभाग्यसंयुतः । क्षीरं दधि घृतं वापि गुडं मधुरसं तथा ॥ ७८ ये प्रयच्छन्ति विप्रेभ्यः परां भक्ति मुपागताः । ते वृषै रश्वयानैश्च श्वेतैः स्रग्दामभूषितैः । गीयमानैश्च गन्धर्वैर्यान्ति शक्रपुरं नरः ॥७६ तत्र दिव्याप्सरोऽभिस्तु सेव्यमानो यथासुखम् । षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः ॥ ८० ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः । प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः ॥८१ वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन ! । वैवस्वतं समुद्दिश्य परां भक्ति मुपागताः ॥८२ अभ्यर्च्य विधिवद्विप्रास्तिलान् गुडसमायुतान् । ये प्रयच्छन्ति विप्रेभ्यः स्तेषां पुण्यफलं शृणु ॥८३ गोप्रदानेन यत्पुण्यं विधिवत् पाण्डुनन्दन ! । तत्पुण्यं समनुप्राप्तो यम लोके महीयते ॥८४

[ सप्तमो-

ऽध्यायः ]

अनेकदान महत्त्ववर्णनम् ।

ततश्चापि च्युतः कालादिह राजा भविष्यति ।

तस्मिन्नेव दिने विप्रान् भोजयित्वा सदक्षिणम् ॥८५ तोयपूर्णानि रम्याणि भाजनानि दिशन्ति ये । ते यान्त्यादित्यवर्णाभै विमानै र्वरुणालयम् ॥८६ तत्र दिव्याङ्गनाभिस्तु रमन्ते कामगामिना । ततोऽवतीर्णाः कालेन ते चास्मिन् मानुषे पुनः ॥८७ भोगवन्तो द्विजश्रेष्ठा भविष्यन्ति न संशयः । अनन्तराशी यश्चापि वर्तते मृतवत्सदा ॥८८

सत्यवान् क्रोधरहितः शुचिः स्नानरतः सदा । स विमानेन दिव्येन याति रत्नपुरं नरः ॥ ८६ तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपः । क्रीडित्वा मानुषे लोके जायते वेदविद्विजः ॥६०

एक भुक्तेन यश्चापि वर्षमेकन्तु वर्तते ।

[[1]]

ब्रज्ञचारी जितक्रोधः सत्यशौचसमन्वितः ॥ ६१ स विमानेन शुभ्रण याति शक्रपुरं नरः ॥ ६२ दशकोटिसमास्तत्र क्रीडित्वाप्सरसाङ्गणैः । इह मानुष्यके लोके ब्राह्मणो वेदविद्भवेत् ॥६२ चतुर्थेनेह भक्तेन ब्रह्मचारी जितेन्द्रियः । वर्तते वर्षमेकं यस्तस्य पुण्यफलं शृणु ॥६४ चित्तबर्हिणयुक्तेन विचित्रध्वजशोभिना । याति यानेन दिव्येन स महेन्द्रपुरन्नरः ॥६५

[[१६८३]]

[[१६८४]]

वृद्धगौतमस्मृतिः ।

[ सप्तमो-

कर्कशाभि र्वरस्त्रीभिः सेव्यमानो यथासुखम् । तत्र च द्वादशकोटिसमाः सुखं प्रमोदते ॥ ६६ ततो लोकावतीर्णश्च लोके चास्मिन् नराधिप ! । भवेद्वै ब्राह्मणो विद्वान् क्षमावान् वेदपारगः ॥६७ षष्ठकाले तु योऽश्नाति वर्षमेकन्तु कल्पशः । ब्रह्मचर्याकृते युक्तः शुचिः क्रोधविवर्जितः ॥ ६८ तपोयुक्तस्य तस्यापि शृणुष्व फलमुत्तमम् । अग्न्यादित्यप्रकाशेन विमानेनाग्निसन्निभः ॥ स याति मम लोकं वै दिव्यनारीनिषेवितः । तत्र सर्वैर्मरुद्भिश्च सेव्यमानो यथासुखम् ॥१०० पश्यत्येव सदा मां तु क्रीडत्यप्सरसाङ्गणैः । पक्षोपवासं यश्चापि कुरुते मद्गगतात्मना ॥ १०१ समाप्ते तु व्रते तस्मिंस्तर्पयेच्छो त्रियं द्विजम् । सोऽपि यानेन दिव्येन सेव्यमानो महर्षिभिः ॥१०२ द्योतयन् प्रथमं व्योम मम लोकं प्रवर्तते ।

तत्र वै मोदते कामं कामरूपी यथासुखम् ।

[[1]]

त्रिंशत्कोटिसमा राजन् ! क्रीडित्वा देववत् सुखम् ॥१०३

!

इह मानुष्यके लोके पूजनीयो द्विजोत्तमः ।

त्रयाणामपि वेदानां साङ्गानां पारगो भवेत् ॥१०४

यश्च मासोपवासं वै कुरुते मद्रतात्मना ।

जितेन्द्रियो जितक्रोधो जितधीः स्नानतत्परः ।

समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान् ॥१०५ऽध्यायः ]

अनेकदान महत्त्ववर्णनम् ।

दक्षिणाश्च ततो दद्यात् प्रहृष्टेनान्तरात्मना ।

[[१६८५]]

स गच्छति महातेजा ब्रह्मलोक मनुत्तमम् ॥१०६ सिंहयुक्तेन यानेन दिव्य स्त्रीगणसेवितः । तत्रैव ब्रह्मणो लोके देवर्षिगणसेवितः ॥ १०७ शतकोटिसमा राजन् ! यथाकामं प्रमोदते । ततः कालावतीर्णश्च सोऽस्मिन् लोके द्विजो भवेत् ॥ १०८ षडङ्गविश्चतुर्वेदी त्रिशज्जन्मन्य रोगवान् ।

यः स्तुत्वा सर्वकामस्तु शुचिः क्रोधविवर्जितः ॥ १०६ महाप्रस्थानमेकाप्रो याति तद्गतमानसः ।

स गच्छेदिन्द्रसदनं विमानेन महातपाः ॥ ११० महामणिविचित्रेण सुवर्णेन विराजता । शतकोटिसमास्तत्र सुराधिपतिपूजितः ॥ १११ नागपृष्ठे निवसति दिव्यस्त्रीशत सेवितः । शक्रलोकावतीर्णश्च मानुषेषु प्रजायते ॥ ११२ राज्ञां राजन् ! महातेजाः सर्वलोकार्चितः प्रभुः 1 प्रायोपवेशं यः कुर्यात् मद्गतेनान्तरात्मना ॥ ११३ नमो ब्रह्मण्यदेवायेत्युक्ता मन्त्रं समाहितः । पुनः स्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु ॥ ११४ कामगः कामरूपी च बालसूर्यसमप्रभः ।

स विमानेन दिव्येन याति लोकांस्तु मामकान् ॥ ११५ स्वर्गास्वर्गमहातेजा गत्वा दत्त्वा यथासुखम् । मम लोकेषु रमते यावदाभूतसंप्लवम् ॥ ११६

[[१६८६]]

वृद्धगौतमस्मृतिः ।

अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना ।

[ सप्तमो-

सोऽपि यानेन दिव्येन मम लोकं प्रपद्यते ॥११७ तत्र सर्वगुणोपेतः पश्यत्येव च मां सदा । त्रिंशत्कोटिसमा राजन् ! मोदते मम सन्निधौ ॥११८ ततोऽवतीर्णः कालेन वेदविद् ब्राह्मणो भवेत् । कारीषं साधयेद्यस्तु मां प्रपन्नः शुचित्रतः ॥ ११६ नमो ब्रह्मण्यदेवायेत्येतन्मन्त्र मुदीरयेत् । बालसूर्यप्रकाशेन विमानेन विराजता ॥१२० मम लोकं समासाद्य पञ्चकोटीः प्रमोदते । मम लोकावतीर्णश्च लोकेऽस्मिन् क्षत्रियो भवेत् ॥१२१ निवेदयति मन्मूर्त्या मन्मना मद्गतः शुचिः । रुद्रं दक्षिणमूर्ति वा चतुर्दश्यां विशेषतः ॥ १२२ सिद्धैर्ब्रह्मर्षिभिश्चैव देवैः सर्वैश्च पूजितः । गन्धर्वै भूतसङ्घश्च गीयमानो महातपाः ॥ १२३ प्रविशेत् स महातेजा मां वा शङ्करमेव वा । तस्यापुनर्भवं राजन् ! विद्धि नात्र विचारणा ॥ १२४ are गोगृहे वाथ गुरुविप्रगृहेऽथवा । हन्यते यैस्तु राजेन्द्र ! शत्रुलोकं व्रजन्ति ते ॥१२५ तत्र जाम्बूनदमये विमाने कामगामिनि । मन्वन्तरं प्रमादन्ते दिव्यनारीनिषेविताः ॥ १२६ अश्रुतस्याप्रदानेन दत्तस्य हरणेन च ।

जन्मप्रभृति यद्दत्तं सर्व नश्यति भारत ! ॥ १२७

ऽध्यायः ]

पञ्चमहायज्ञवर्णनम् ।

नागोप्रदा स्तत्र पयः पिबन्ति

न भूमिदा भूमि मथाश्नुवन्ति ।

अन्यान् कामान् ब्राह्मणेभ्यो ददाति

तां स्तान् कामान् स्वर्गलोके स भुङ्क्ते ॥१२८ यद्यदिष्टतमं द्रव्यं न्यायेनोपार्जितञ्च यत् । ततो गुणवते देयं न देवात् क्षयमिच्छता ॥ १२६ अनुपोष्य च रात्रिश्व तीर्थान्यनभिगम्य च । अदत्त्वा काभ्वनङ्गाश्च दरिद्रो नाम जायते ॥१३० दानं यत्सफलं नैव श्रोत्रियाय न दीयते ।

न तद्गुणवते देयं न देवात् क्षय मिच्छता ॥ १३१ अनुपोष्य च रात्रिश्व तीर्थान्यनभिगम्य च । श्रोत्रिया यत्र नाश्नन्ति न देवा स्तत्र भुञ्जते ॥ १३२ श्रोत्रियेभ्यः परं नास्ति दैवतं तारणं महत् ।

निधानश्वापि राजेन्द्र ! नास्माच्छ्रोत्रियभाजनात् ॥१३३ इति गौतमीये श्रीवैष्णवधर्मशास्त्रे सप्तमोऽध्यायः ।

अष्टमोऽध्यायः ।

अथ पञ्चमहायज्ञवर्णनम् ।

युधिष्ठिर उवाच ।

विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः ।

अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी ॥ १

[[१६८७]]

[[१६८८]]

वृद्धगौतमस्मृतिः ।

[ अष्टमो-

श्रीभगवानुवाच ।

शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः । स तु सर्वस्य भूतस्य परत्वन्नाम विद्यते ॥२ पञ्चत्वं पाण्डवश्रेष्ठ ! पथ्वीभूतकरं परम् । तेषां पञ्चमहायज्ञान् ये कुर्वन्ति द्विजोत्तमाः ॥३ पञ्चत्वं पञ्चभिर्भूतै र्वियोगं सम्प्रपद्यते । न जायते न म्रियते पुरुषः शाश्वतः सदा ॥४ प्रायेण मरणं नाम पापिनामेव पाण्डव ! । येषान्तु न गतिः पुण्या तेषां मरणमुच्यते ॥५ प्रायेणाकृतकृत्यत्वाद् भूय उद्विजते जनः । कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ॥६

युधिष्ठिर उवाच ।

पञ्चयज्ञाः कथं देव । क्रियन्ते तु द्विजातिभिः ।

!

तेषान्नाम च देवेश ! वक्तुमर्हत्यशेषतः ॥७

श्रीभगवानुवाच ।

शृणु पञ्च महायज्ञान् कीर्त्यमानान् युधिष्ठिर ! । यैरेव ब्रह्मसालोक्यं लभ्यते गृहमेधिना ॥८

ऋषियज्ञं ब्रह्मयज्ञं भूतयज्ञश्च पार्थिव ! । नृयज्ञं पितृयज्ञं च पञ्चयज्ञान् प्रचक्षते ॥६ तपणं ऋषियज्ञः स्यात् स्वाध्यायो ब्रह्मयज्ञकम् । भूतयज्ञो बलियज्ञो नृयज्ञोऽतिथिपूजनम् ॥१०

ऽध्यायः ]

स्नानविधिवर्णनम्

[[१६८६]]

पितृनुद्दिस्य यत्कर्म पितृयज्ञः प्रकीर्तितः । हुतश्वाप्यहुतचैव तथा प्रहुतमेव च ॥ ११ प्राशितं बलिदानश्च पाकयज्ञान् प्रचक्षते । वैश्वदेवादयो होमाहुतमित्युच्यते बुधैः ॥ १२ आहुतन्तु भवेद्दत्तं प्रहुतं ब्राह्मणाशितम् । प्राणाग्निहोत्रहोमञ्च प्राशितं विधिवद् द्विजः ॥१३ वलिञ्च कर्म राजेन्द्र ! पाकयज्ञाः प्रकीर्तिताः । केचित्पञ्च महायज्ञाः पाकयज्ञान् प्रचक्षते ॥१४ अपरे ऋषियज्ञादि महायज्ञविदो विदुः । सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः ॥ १५ ब्राह्मणोभूष्णुरेतांस्तु यथाशक्तिमुपाहरेत् । अहन्यहनि ये त्वेतानकृत्वा भुञ्जते स्वयम् ॥१६ केवलं मलमश्नन्ति ते नरेन्द्र ! न संशयः । तस्मात्नात्वा द्विजो विद्वान् कुर्यादेतान् दिने दिने ॥ १७ अतोन्यथा तु भुञ्जन्वै प्रायश्चित्तीयते द्विज ॥१८

युधिष्ठिर उवाच ।

देव देव ! नमस्तेऽस्तु त्वद्भक्तस्य जनार्दन ! । वक्तुमर्हसि देवेश ! स्नानस्य तु विधिं मम ॥ १६

श्रीभगवानुवाच ।

शृणु पाण्डव ! तत्त्वेन पवित्रं पापनाशनम् ।

स्नात्वा येन विधानेन मुच्यते किल्विषाद् द्विजः ॥२०

[[१६६०]]

वृद्धगौतमस्मृतिः ।

मृदञ्च गोमयं चैव तिलदर्भास्तथैव च । पुष्पाण्यपि यथालाभमादाय तु जलं व्रजेत् ॥२१ नद्यां सत्यां न च स्नायादन्यत्र द्विजसत्तमः । सति प्रभूते पयसि नाल्पे स्नायात्कदाचन ॥२२ गत्वोदकसमीपे तु शुचौ देशे मनोहरे । ततो मृद्रोमयादीनि तत्र प्रोक्ष्य विनिक्षिपेत् ॥ २३ प्रदक्षिणं समावृत्त्या नमस्कुर्यात्तु तज्जलम् । न च प्रक्षालयेत्तीर्थन्ताभिर्विद्वान् कदाचन ॥२४ न च पादेन वा हन्याद्धस्तेनैव च वा जलम् । सर्वदेवमया ह्यापो मम याः पाण्डुनन्दन ! ॥२५ तस्मात्तास्तु न हन्तव्यास्ताभिर्निग्राहयेत् स्थलम् । केवलं प्रथमं मज्जेत् नाङ्गानि बिभृजेद् बुधः ॥२६ ततस्तीर्थ समासाद्य कुर्यादाचमनं बुधः । गोपुच्छाकृतिवत् कृत्वा करेंश्च प्रपिबेज्जलम् ॥२७ द्विस्तत्परिमृजेद्वक्तुं पादावभ्युक्ष्य चात्मनः । शीर्षण्यांस्तु ततः प्राणान् सकृदेव समं स्पृशेत् ॥ २८ बाहू द्वौ च ततः स्पृष्ट्रा हृदयं नाभिमेव च । प्रत्यङ्गमुदकं स्पृष्ट्रा मूर्धानन्तु ततः स्पृशेत् ॥ २६ आपः पुनन्त्वित्युक्ता च पुनराचमनश्चरेत् । सोङ्कारं व्याहृतिं वापि सदसस्पतिमित्यृचम् ॥३० आचम्य प्रथमं पश्चात् तत्र कृत्वा समालभेत् । ॠग्वेदं विष्णुरित्यङ्गमुत्तमाधममध्यमम् ॥३१

[ अष्टमो-

ऽध्यायः ]

स्नानविधिवर्णनम् ।

आलम्ब्य वारुणैः सूक्तैर्नमस्कृत्य जलं ततः । स्रवन्त्याश्चेत्प्रतिस्रोतः प्रतिकूलश्च वारिषु ॥ ३२ मज्जेदोमित्युदाहृत्य न च प्रक्षोभयेज्जलम् । गोमयभ्व त्रिधा कृत्वा यथापूर्वं समालभेत् ॥३३ सव्याहृतिकां सप्रणवां सावित्रीश्व जपेत् पुनः । पुनराचमनं कृत्वा मद्गतेनान्तरात्मना ॥३४ आपोहिष्ठेति तिसृभि दर्भपूतेन वारिणा । तथातरत् समन्दीति सिन्चेचेतिजलं क्रमात् ॥३५ गोसूक्तेनाश्वशूक्तेन शुद्धवर्णेन चाप्यथ । वैष्णवैर्वारुणैः सूक्तैः सावित्रै रुद्रदैवतैः ॥ ३६ वामदेवेन चात्मानं मन्त्रैर्मन्मय सामभिः । सिक्तान्तः सलिले सूक्तं जपेच्चैवाघमर्षणम् ॥३७ सव्याहृतिकां सप्रणवां सावित्रीं वा ततो जपेत् । आश्वासमोक्षात् प्रणवं जपेद्वा मामनुस्मरन् ॥३८ ऋक्पादं वा जपेन्मन्त्र मष्टाक्षरमथापिवा । सम्लुत्य तीर्थमासाद्य धौते शुक्ले च वाससी ॥३६ शुक्लेचाच्छादयेत् कक्षे न कुर्य्यात् कटिपाशके । पासनिर्बन्धकक्षोयत् कुरुते कर्म वदिकम् ॥४० राक्षसा दानवा दैत्या तद्विलम्पुन्ति हर्षिताः । तस्मात्सर्वप्रयत्नेन कक्षं पाशेन धारयेत् ॥४१ ततः प्रक्षाल्य पादौ द्वौ हस्तौ चैव मृदाशनैः । आचम्य पुनराचामेत् सावित्र्याञ्जलिना जपेत् ॥४२

[[१२५]]

[[1]]

[[१६६१]]

[[१६६२]]

वृद्धगौतमस्मृतिः ।

[ अष्टमो-

जले जलगतः शुद्धः स्थल एव स्थलस्थितः । उभयत्र स्थितस्तस्मादाचामेदात्मशुद्धये ॥४३ दर्भेषु दर्भपाणिः सन् प्राखमुखस्तु समाहितः । प्राणायामन्ततः कुर्य्याद् मद्गतेनान्तरात्मना ॥४४ सहस्रकृत्वः सावित्रीं शतकृत्वस्तु वा जपेत् । समाप्ते तु जपे तस्मिन् सावित्र्या चानुमन्त्र्य च ॥४५ मन्देहानां विनाशाय राक्षसां विक्षिपेज्जलम् । मदूर्गोऽसीत्यथाचान्तः प्रायश्चित्तजलं क्षिपेत् ॥४६ अथादाय स पुष्पाणि तोयान्यञ्जलिना क्षिपेत् । प्रक्षिप्य प्रतिसूर्य्यध्व व्योममुद्रां प्रकल्पयेत् ॥४७ ततो द्वादशकृत्वस्तु सूर्य्यस्यैकाक्षरं जपेत् । ततस्त्वष्टाक्षरादीनि त्रिः कृत्वा परिवर्तयेत् ॥४८ प्रदक्षिणं परामृज्य मुद्रायाः स्वमुखन्तथा । ऊर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षन् समाहितः ॥४६ तन्मण्डलस्थं मां ध्यायेत् ततो मूर्त्तिश्वतुर्भुजम् । उदुत्यश्च जपेन्मन्त्रं चित्रन्तर्चस्वरित्यपि ॥५० सावित्रीभ्व यथाशक्ति जप्त्वा सूक्तश्व मामकम् । मन्मयानि च सामानि पूरुषं वृत्तमेव तु ॥५१ ततश्चालोकयेदकं हंसः शुचिषदित्यृचा । प्रदक्षिणं समावृत्या नमस्कृत्य दिवाकरम् ॥५२ ततस्तु तर्पयेदद्भिर्मा ब्रह्माणश्व शङ्करम् । प्रजापतिश्च देवांश्च तथा देवमुनीनपि ॥५३

ऽध्यायः ]

तर्पणविधिवर्णनम् ।

साङ्गानपि तथा वेदानितिहासक्रतूंस्तथा ।

[[१६६३]]

पुराणानि च दिव्यानि कुलान्यप्सरसान्तथा ॥५४ ऋतून संवत्सरञ्चैव कालङ्कालात्मकं तथा । भूतग्रामांश्च भूतानि सरितः सागरांस्तथा ॥५५ शैलांश्चैव स्थितान् देवानोषधीः सवनस्पतीन् । तर्पयेदुपवीती तु प्रत्येकं तृप्यतामिति ॥५६ अन्वारभ्य तु सव्येन पाणिना दक्षिणेन तु । निवीती तर्पयेत्पश्चादृषीन् मन्त्रकृतस्तथा ॥ ५७ मरीच्यादीन्मुनीं चैव नारदान्तान् समाहितः । प्राचिनावीत्यथैतांस्तु तर्पयेद्दैवतान् पितॄन् ॥ ५८ ततस्तु हव्यमानामिं सोमं वैवस्वतं तथा । ततश्च पितरश्चापि चाग्निष्वात्ता स्तथैव च ॥५६ सोमपांश्चैव दर्भैस्तु सतिलैरेव वारिभिः । तृप्यध्वमिति पश्चात्तु स्वपितृ स्तर्पयेत्ततः ॥ ६० पितॄन् पितामहांश्चैव तथैव प्रपितामहान् । पितामहीं तथा चापि तथैव प्रपितामहीम् ॥ ६१ मातृष्वसां तथा चापि तथैव च पितृष्वसाम् । मातर श्वात्मनश्चापि तथा मातामहीमपि ॥ ६२ मातुर्मातामहीं चापि गुरूनाचाय्यमेव च । उपाध्यायांस्तु सम्बन्धीन् शिष्यत्विक्ज्ञातिपुत्रकान् ॥ ६३ प्रीतिमानानृशंस्यार्थं तर्पयेत्तान्नमत्सरः ।

तर्पयित्वा तथाचम्य स्नानवस्त्रं प्रपीडयेत् ॥ ६४

[[१६६४]]

[ अष्टमो-

वृद्धगौतमस्मृतिः ।

तद्धि भृत्य जनस्यान्नं स्नानपानश्च तद्विदुः । अतर्पयित्वा तान् पूर्वं स्नानवस्त्रन्न पीडयेत् ॥६५ पीड़येद्यदि तन्मोहादेवाः सर्षिगणास्तथा । पितरश्च निराशास्त्रं शप्त्वा यान्ति यथागमम् ॥६६

प्रक्षाल्य तु मृदा पादावाचम्य प्रयतः पुनः । दर्भेषु दर्भपाणिः सन् स्वाध्यायन्तु समाचरेत् ॥६७ वेदवादौ समारभ्य तथोपर्युपरि क्रमात् । यदधीते वदन् चित्या तत् स्वाधायं प्रचक्षते । ॠचं वाऽथ यजुर्वापि सामगाथा मथापिवा ॥६८ इतिहासपुराणं वा यथाशक्ति न हापयेत् । उत्थाय तु नमस्कृत्वा दिशोदिग्देवता अपि ॥६६ ब्रह्माणं श्वसनानं पृथिवी मोषधीस्तथा । वाचं वाचस्पतिभ्वापि विष्णुभा पितरं तथा ॥ ७० नमस्कारात्तमद्भिस्तु प्रणवादि च पूजयेत् । ततो नमोऽस्तु इत्युक्ता नमस्कुर्य्यात्तु तज्जलम् । घृणी सूर्य्य स्तथादित्य इत्युक्तात्रिः स्वमूर्धनि ॥७१ सिक्तावलोकयेदन्तं प्रणवेन समाहितः । ततोमामर्चयेत्पुण्यै मत्प्रियैरेव नित्यशः ॥७२

‘युधिष्ठिर उवाच ।

त्वत्प्रियाणि प्रसूनानि त्वदनिष्टानि माधव ! । सर्वाण्याचक्ष्व देवेश ! त्वद्भक्तस्य ममाच्युत ! ॥७३

..ऽध्यायः ]

पूजार्थं पुष्पवर्णनम् ।

[[१६६५]]

श्रीभगवानुवाच ।

शृणुष्वावहितोराजन् ! पुष्पाणि विविधानि मे । कुमुदं करवीरथा गणकञ्चम्पकन्तथा ।

मल्लिका जातिपुष्पञ्च नद्यावत्तंश्च मे प्रियम् ॥७४ पलाशपत्रं पुष्पञ्च दूर्वाग्रहकमेव च ।

वनमाला च राजेन्द्र ! मत्प्रियाणि विशेषतः ॥७५ सर्वेषा मपि पुष्पाणां सहस्र गुणमुत्पलम् । तस्मात्पद्म तथा राजन् ! पद्मात्तु शतपत्रकम् ॥ ७६ - तस्मात्सहस्रपत्रन्तु पुण्डरीकं ततः परम् । पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका । वकपुष्पं ततस्तस्याः सौवर्णन्तु ततोऽधिकम् ॥७७ सौवर्णाश्च प्रसूनात्तु मत्प्रियं नास्ति पाण्डव ! । पुष्पालाभे तुलस्यास्तु पत्रैर्मामर्चयेद्बुधः ॥७८ पत्रालाभे तु शाखाभिः शाखालाभे शिफालवैः । शिफालाभे मृदा तत्र भक्तिमानर्चयेत माम् ॥७६ वर्जनीयानि पुष्पाणि शृणु राजन् ! समाहितः । किङ्किणीं मुनिपुष्पश्च धत्तूरं पाटलान्तथा । तथामुक्तवैभितकं पुन्नागनक्तमालकम् । यौधिकं क्षीरिकापुष्पं निर्गुण्डी जागलीजपा । कर्णिकारन्तथाशोकं शाल्मली पुष्पमेव च ॥८० ककुभं कोविदारभ्य वैभीतकमथाऽपि च । कुरण्डकप्रसूनञ्च तिल्वकं धातकी तथा ॥८१

[[१६६६]]

वृद्धगौतमस्मृतिः ।

अङ्कोलं गिरिकर्णी च नीपादन्यश्च सर्वशः । एवं वर्णानि चान्यानि सर्वाण्येव विवर्जयेत् । अर्कपुष्पाणि वर्ज्याणि चार्कपत्रस्थितानि च ॥८२ व्याघात मपि चान्यानि सर्वाण्येव विवर्जयेत् । अन्यैस्तु शुक्लपुष्पैस्तु गन्धवद्भिर्नराधिप ! ॥८३ अवर्जितै र्यथालाभं मद्भक्तोमां सदाश्रयेत् ।

युधिष्ठिर उवाच ।

कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशास्तु ते ॥८४ वैखानसाः कथं ब्रूयुः कथं वा पाञ्चरात्रिकाः ॥८५ श्रीभगवानुवाच । शृणु पाण्डव ! तत्सर्वमर्चनाक्रममुत्तमम् ।

स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं स्वकं हितम् ॥८६ अष्टाक्षरविधानेनाप्यथवा द्वादशाक्षरैः ।

वैदिकैरथवा मन्त्र मम सूक्तेन वा पुनः ॥८७ स्थापितं मान्ततस्तस्मिन्नुद्धरीत विचक्षणः । पूरुषञ्च ततः सूक्त मच्युतञ्च युधिष्ठिर ! ॥८८ अनिरुद्धञ्च मां प्राहुर्वैखानस विदोजनाः ।

अष्टमो-

अन्ये त्वेवं विजानन्ति मां राजन् ! पाञ्चरात्रिकाः ॥८६ वासुदेवञ्च राजेन्द्र ! संकर्षण मथापि वा । ! प्रद्युम्नब्चाऽनिरुद्धञ्च चतुर्मूर्तिं प्रचक्षते ॥ ६० एतान्यन्यानि राजेन्द्र ! संज्ञाभेदेन मूर्तयः । विध्यनर्थान्तरायैव मामेवञ्चाचचेद्बुधः ॥ ६१

ऽध्यायः

भगवद्भक्तवर्णनम् ।

[[१६६७]]

युधिष्ठिर उवाच ।

त्वद्भक्ताः कीदृशा देव ! कानि वृत्तानि तन्नृणाम् । एतत्कथय देवेश ! त्वद्भक्तस्य ममाच्युत ! ॥६२

श्रीभगवानुवाच ।

अनन्यदेवता भक्त्या ये मद्भक्तजनप्रियाः । मामेव शरणं प्राप्ता मद्भक्तास्ते प्रकीर्तिताः ॥ ६३ स्वर्गाण्यपि यशस्यानि मत्प्रियाणि विशेषतः ।

मद्भक्ताः पाण्डवश्रेष्ठ ! वृत्तानीमानि धारयेत् ॥६४ नान्यदाच्छादयेद्वत्रं मद्भक्तो जलतारणे । स्वस्थस्तु न दिवा स्वप्यात् मधुमांसानि वर्जयेत् । प्रदक्षिणं व्रजेद्विद्वान् गामश्वत्थं हुताशनम् ॥६६ निधावे पतिते वर्षे नाप्रभाव लोपयेत् । प्रत्यक्षलवणं नाद्यात्सौहाशनकचिनौ ॥६७ ग्रासमेषाङ्गवे दद्यात् धान्यान् पब्चैव वर्जयेत् । तथा पर्युषितञ्चान्नं पक्वं परगृहायुतम् ॥६८ वैदिकञ्चैव यद्धव्यं तत्प्रयत्नेन वर्जयेत् । विभीतक करञ्जानां छायां दूरात्तु वर्जयेत् ॥६६

विप्रवादपरीवादं न वदेत् पीडितोऽपि सन् ।

।.

सात्विका राजसाश्चापि तामसाश्चापि पाण्डवः । ।१००

मामर्चयन्ति भक्तास्तेषामीदृग्विधा गतिः ।

तिर्यङ्यानुषदेहेषु तामसा भुञ्जते फलम् ॥१०१…

[[१६६८]]

वृद्धगौतमस्मृतिः ।

नागयज्ञगृहस्थाने राजसा भुञ्जते फलम् ।

[ अष्टमो-

सात्विकाः सत्वसम्पन्ना मत्पदं यान्ति मानवाः ॥ १०२ ये सिध्यन्ति च साङ्ख्येन योगसत्वबलेन च । नभस्यादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम् ॥ १०३ एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चधातुके । एतस्मिन् देहनगरे ये वसन्ति कृतं शृणु ॥ १०४ उदिते तस्य विप्रस्य क्रियायुक्तस्य धीमतः । चतुर्वेदविदश्चापि देहे षड्वृषलाः स्थिताः ॥१०५ क्षत्रियः सप्तविज्ञेयो वैश्यस्त्वष्टौ प्रकीर्तिताः । नियताः पाण्डवश्रेष्ठ ! शूद्राणामेकविंशतिः ॥ १०६ कामः कोधश्च लोभश्च मानश्च मद एव च । महामोहस्तथेत्येते देहे षड्वृषलाः स्थिताः ॥ १०७ गर्वोदम्भोऽप्यहङ्कार ईर्ष्याभिद्रोह एव वा । पारुष्यं क्रूरताचेति एते ते क्षत्रियाश्रिताः ॥ १०८ तीक्ष्णता निकृतिर्माया शाठ्यं दम्भोह्यनार्जवम् । पैशून्यमनृतञ्चैव वैश्यस्याष्टौ प्रकीर्तिताः ॥ १०६ तृष्णां बुभुक्षां चालस्यं निद्रां चाप्यघृणां दमम् । अधृतिञ्च विवादञ्च प्रमादम् हीनसत्वता ॥ ११० भयं वितथतां जाल्म्यं पापतां मन्युरेव च । आशां चाश्रद्दधानत्वादनवस्थाप्य यन्नृणाम् ॥ १११ अशौचं मलिनत्वष्च शूद्रास्यैते प्रकीर्तिताः । यस्मिन्नेते न दृश्यन्ते सर्वे ब्रह्मण उच्यते ॥ ११२

ऽध्यायः ]

कपिलादान प्रशंसावर्णनम् ।

येषु येषु हि भावेषु यत्कालं वर्तते द्विजः ।

तत्कालं नैव विज्ञेयो ब्राह्मणो ज्ञानदुर्बलः ॥ ११३ प्राणायामन्तु यत्काले येन माञ्चापि चिन्तयेत् । तत्कालं वै द्विजोज्ञेयः शेषकाल मथेरितः ॥११४

तस्मात्तु सात्विको

भूत्वा शुचिः क्रोधविवर्जितः ।

मामर्चयेद्यः सततं मित्प्रयत्वं यइच्छति ॥११५

[[१६६६]]

अलोलजिह्वः समुपस्थितो धृतीर्निधाय चक्षुर्युगमात्र मेव । मानञ्च वाचञ्च निगृह्य चञ्चलोभोगान्निवृत्तोभगवान्निहोच्यते ।

संरम्भशाठ्यानि दलेति ब्राह्मणो नियतेन्द्रियाः ।

येषां श्राद्धेषु भोक्ष्यन्ति तेषां तृप्ताः पितामहाः ॥ ११७ धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।

क्षमा जयति न क्रोधः क्षमावान् ब्राह्मणो भवेत् ॥११८

इति गौतमीये वैष्णवधर्मशास्त्रे अष्टमोऽध्यायः ।

नवमोऽध्यायः ।

अथ कपिलादानप्रशंसावर्णनम् ।

वैशम्पायन उवाच ।

दानधर्मफलं श्रुत्वा तपः पुण्यफलानि च ।

धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥१

[[२०००]]

वृद्धगौतमस्मृतिः ।

[ नवमो-

या चैषा कपिला देया पूर्व सम्पादिता विभो ! । होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव ! ॥२ सा कथं ब्राह्मणेभ्यो हि देया कस्मिन् दिनेऽपिवा । कीदृशाय च विप्राय दातव्या पुण्यलक्षणा ॥ ३ कति वा कपिलाः प्रोक्ताः स्वयमेव स्वयम्भुवा । कैव देयाश्च ता देव ! ज्ञातुमिच्छामि तत्त्वतः ॥४ एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि । अब्रवीत्कपिलासङ्घया तासां माहात्म्यमेव च ॥५ शृणु पाण्डव ! तत्त्वेन पवित्रं पापनाशनम् । यच्छ्र ुत्वा पापकर्मापि नरः पापै विमुच्यते ॥ ६ अग्निमध्योद्भवां दिव्या मनिज्वालासमप्रभाम् । अग्निज्वालोज्ज्वलच्छीष प्रदीप्ताङ्गारलोचनाम् ॥७ अभिपुच्छा मनिखुरा मग्निरोमप्रभाविताम् । तामाग्नेयी मग्निजिह्वा मनिग्रीवां ज्वलत्प्रभाम् ॥८ भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः । पतितांस्तान् विजानीया चण्डालसदृशा हिते ॥६ न तेषां ब्राह्मणः कश्चिद्गृहे कुर्यात् प्रतिग्रहम् । दूरा परिहर्त्तव्या महापातकिनो हि ते ॥१० सर्वकालं हि ते सर्वे वर्जिताः पितृदैवतैः । ते सदा प्रतिग्राह्या असम्भाव्याश्च पापिनः ॥ ११ पिवन्ति कपिलां यावत्तावत्तेषां पितामहाः । अमेध्य मुपभुज्जन्ति भूम्यां वै श्वश्वालवत् ॥१२

ऽध्यायः ]

कपिलादान प्रशंसावर्णनम् ।

कपिलाया घृतं क्षीरं दधि तक्र मथा पिवा । ये शूद्रा उपभुञ्जन्ते तेषां गति मिमां शृणु ॥ १३ कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम् । क्लिश्यते रौरवे घोरे वर्षकोटिशतं नृप ! ॥१४ ततश्च मुक्तः पापेन शुनां योनिशतं व्रजेत् । श्वयोन्याश्च परिभ्रष्टो विष्ठायां जायते क्रिमिः ॥१५ विष्ठावर्गेषु पापिष्ठो दुर्गन्धेषु सहस्रशः । तत्र तत्रैव जायेत नोत्तरं तत्र विन्दति ॥ १६ ब्राह्मणश्चापि यस्तेषां गृहे कुर्यात्प्रतिग्रहम् । ततः प्रभृति तस्यापि पितरः स्युरमेद्ध्यपाः ॥ १७ न तेन सार्द्ध सम्भाषेन्नचाप्येकासनं व्रजेत् । स नित्यं वर्जनीयो हि दूरादुर्ब्राह्मणोहि सः ॥१८ यस्तेन सह सम्भाषेदेकशय्यां व्रजेत वा । प्राजापत्यञ्चरेत्कृच्छ्र सच तेनैव शुध्यति ॥ १६

कपिलोपजीविनः शूद्राद्यः करोति प्रतिग्रहम् ।

प्रायश्चित्तं भवेत्तस्य विप्रस्येदं न संशयः ॥ २०

वर्षं ब्रह्मकृच्छ्रान् कुर्वीत चान्द्रायण मथापिवा । मुच्यते किल्विषात्तस्मात्तेन स्याद् ब्राह्मणो हि सः ॥२१ कपिला ह्यग्निहोत्रार्थे विप्रार्थे च स्वयम्भुवा ।

सर्वतेजः

समुद्धृत्य निर्मिता ब्रह्मणा पुरा ॥२२

पवित्रश्च पवित्राणां मङ्गलानाश्च मङ्गलम् ।

पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन । ॥२३

[[२००१]]

[[२००२]]

T

वृद्धगौतमस्मृतिः ।

तपसान्तप एवायं व्रताना मुत्तमं व्रतम् ।

दानानामपरं दानं विमानं हैममक्षयम् ॥२४ पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव ! ॥२५ तेभ्य स्तेजः समुद्धृत्य ब्रह्मणा लोक कारिणा । लोकनिस्तरणार्थाय निर्मिता कपिला स्वयम् ॥२६ सर्वतेजोमयी ह्येषा कपिला पाण्डुनन्दन ! । सदामृतवहा मेध्या शुचिः पावनमुत्तमम् ॥२७ क्षीरेण कपिलायास्तु दध्ना चैव घृतेन च । होतव्यान्यग्निहोत्राणि सायम्प्रात द्विजातिभिः ॥२८ कपिलाया घृतेनापि दध्ना क्षीरेण वा नृप ! । जुह्वते ये ऽग्निहोत्राणि ब्राह्मणो विधिवत्सदा ॥२६ पूजयन्त्यतिथींश्चैव परां भक्ति मुपागताः । शूद्रान्नविरता नित्यं दम्भानृतविवर्जिताः ॥३० ते यान्त्यादित्यकल्पेन विमानेन द्विजोत्तमाः ।

सूर्यमण्डलमध्येन ब्रह्मलोक मनुत्तमम् ॥३१ ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः । ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्प मक्षयम् ॥३२ एवं हि कपिला राजन् ! पुण्यं पापौघतारिणी । आदावेवाग्निहोत्रात्तु मन्त्र ब्रह्मादिनिर्मिता ॥३३ शृङ्गा कपिलायास्तु सर्वतीर्थाणि पाण्डव ! । ब्रह्मणोहि नियोगेन निवसन्ति दिने दिने ॥ ३४

[ नवमो-

ऽध्यायः ]

कपिलादानप्रशंसावर्णनम् ।

प्रातरुत्थाय यो मर्त्यो कपिलाशृङ्गमस्तकात् । च्युतात्पयस्तुशीर्षेण धारयेत्प्रयतः शुचिः ॥३५ स तेन पुण्यस्नानेन तत्क्षणाद्गत किल्विषः । वर्षमेकण्डुहिप्राप्यं प्रदहत्यग्निवत्तृणम् ॥३६ मूत्रेण कपिलायास्तु यस्तु प्रातरुपस्पृशेत् । स्नानेन तेन गुण्येन नष्टपापः समाहितः ॥ ३७ त्रिसद्वषकृतात्पापात्पूयते नात्र संशयः ।

प्रातरुत्थाय यो भक्त्या प्रयच्छेत्तृणमुष्टिकम् ॥३८ तस्य नश्यति तत्पापं त्रिंशद्वात्यकृतं नृप ! । प्रातरुत्थाय मद्भक्त्या कुर्याद्यस्तां प्रदक्षिणम् ॥३६ प्रदक्षीणीकृता तेन पृथिवी नात्र संशयः । प्रदक्षिणेन चैकेन श्रद्धायुक्तस्य पाण्डव ! ॥४० दशरात्रकृतं पापं तत्क्षणादेव नश्यति ।

दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हम्बारखं तथा ॥४१ व्यपोहति नरः पाप महोरात्रकृतं नृप ! ।

यत्र वा तत्र वा चाङ्गे कपिलायाः स्पृशेच्छुचिः ॥४२ संवत्सरकृतं पापं स नाशयति पाण्डव ! ।

गोसहस्रश्व यो दद्यादेकाश्च कपिलां नरम् ॥४३ समन्तस्य फलम्प्राह ब्रह्मलोके पितामहः । यस्त्वेतां कपिलां हन्यान्नरः किश्वित्प्रमादतः ॥४४ गोसहस्रहतं तेन भवेन्नात्र विचारणा ।

यस्त्वेकां कपिलां दद्याच्छोत्रियायाग्निहोत्र ॥४५

[[२००३]]

[[२००४]]

वृद्धगौतमस्मृतिः ।

गवां सहस्रन्तेनेह दत्तं भवति पाण्डव ! ।

दशेह कपिलाः प्रोक्ताः स्वयमेव स्वयम्भुवा ॥४६ या दत्ता श्रोत्रियेभ्यो वै स्वगं गच्छति तच्छृणु । । प्रथमा सुवर्णा कपिला द्वितीया गौरपिङ्गला ॥४७ त्रितीया रक्तपिङ्गाक्षी चतुर्थी वह्निपिङ्गला ।

[ नवमो-

पञ्चमी ब्रह्मवर्णा स्यात् षष्ठी स्यात् श्वेतपिङ्गला ॥४८ सप्तमी कृष्णपिङ्गाक्षी अष्टमी खुरपिङ्गला । नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला ॥४६ दशैताः कपिला प्रोक्ता स्तारयन्ति नरान्सदा । मङ्गल्यश्च पवित्राश्च सर्वपापप्रणाशनाः ॥५० एव मेवाप्य नड्डाहो दश प्रोक्ता नरेश्वर ! । ब्राह्मणो वाहयेत्तास्तुं नान्यवर्णः कथञ्चन । वाहयेत्कपिलायास्तु क्षेत्रेवाध्वनि पाण्डव ! ॥५१ बाहयेदधुङ्कतेनैव शाखया वा सपत्रया । सुतृप्तेषु तु भुञ्जीयात् पिवेत्प्रीतेषु चोदकम् ॥५२ गुर्वीषद्भाविताश्चैते पितरस्ते प्रकीर्तिताः ।

अन्नः पूर्वे त्रिभागे तु घूर्याणां वाहनं स्मृतम् । विश्रामो मध्यमे भागे भाग्यश्चान्ते यथासुखम् ॥५३ यत्र वा त्वरया कृत्य संशयो यत्र वाञ्छति । वाहयेत्तत्र धुर्यास्तु न स पापेन लिप्यते ॥५४ अन्यथा वाहनादेव निरयं याति रौरवम् । रुधिरं पातयेत्तेषां यस्तु किञ्चिन्नराधमः ॥५५ऽध्यायः ]

कपिलादान प्रशंसावर्णनम् ।

भ्रूणहत्यासमं पापं तस्या स्यात्पाण्डुनन्दन ! । तेन पापेन पापात्मा नरकं याति सर्वशः ॥ ५६ नरकेषु स सर्वेषु समाः स्थित्वा शतं ततः । इह मानुष्य के लोके बलीवर्दो भविष्यति ॥ ५७ तस्मात् विमुक्तिमन्विच्छन् दद्यात्तु कपिलान्नरः । कपिलां वाहयेद्यस्तु वृषलो लोभमोहितः ॥ ५८ तेन देवास्त्रयस्त्रिंशत्पितरश्चापि वाहिताः । स देवैः पितृभिर्नित्यं वर्जितास्तु सदुर्मतिः ॥५६ नरकान्नरकं घोरं गच्छेदाप्रलयं नृप ! । ब्रह्मा रुद्र स्तथाग्निश्च कपिलानां गतिङ्गताः ॥ ६० तस्मात्ते तु नगन्तव्याः पुण्याश्चैव विशेषतः । निवसन्ति यदा श्रान्तास्तदाहन्युश्च तत्कुलम् ॥६१ यावन्ति तेषां रोमाणि तावद्वर्षशतन्नृप ! । नरके परिपच्यन्ते तत्र तद्वाहका नराः ॥६२ कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते ।

तस्मात्ता दक्षिणा देया यज्ञेष्वेव द्विजातिभिः ॥६३ होमार्थे चाग्निहोत्रस्य यः प्रयच्छेत्स यत्नतः । श्रोत्रियाय दरिद्राय प्रशान्ताय यतात्मने ॥६४ तेन दानेन पूतात्मा सोऽग्निलोके महीयते । यावन्ति चैव रोमाणि कपिलाया युधिष्ठिर ! ॥६५ तावद्वर्षसहस्राणि सोऽग्निलोके महीयते ।

सुवर्णखुरशृङ्गीं यः कपिलां हि प्रयच्छति ॥ ६६

[[२००५]]

[[२००६]]

वृद्धगौतमस्मृतिः ।

विषुवेत्यापि येनैव सोऽश्वमेधफलं लभेत् । तेनाश्वमेधतुल्येन मम लोकं स गच्छति ॥ ६७ सुवर्णशृङ्गी रूप्यखुरा सवत्सा कांस्य दोहना । वस्त्रैरलङ्कृता पुष्टा पुष्पमाल्यैश्च पूजिता ॥ ६८ पवित्रं हि पवित्राणां सुवर्ण मिति मे मतिः । तस्मात् सुवर्णाभरणा दातव्या चाग्निहोत्रणे ॥ ६६ एवं दत्त्वा तु राजेन्द्र ! सत्यपूर्वान् परानपि । तारयिष्यति राजेन्द्र ! नात्रकार्या विचारणा ॥७०

!

अग्निष्टोमसहस्रश्व वाजपेयश्च तत्समम् ।

वाजपेयसहस्रभ्व अश्वमेधश्च तत्समम् ॥७१ अश्वमेधसहस्रश्च राजसूयश्च तत्समम् । कपिलानां सहस्रेण विद्धि दत्तेन पाण्डव ! ॥७२ राजसूयफलं प्राप्य मम लोके चहीयते ।

[ नवमो-

न तस्य पुनरावृत्ति र्विद्यते कुरुपुङ्गव ! ॥७३ यच्छन्ति ये कपिलां सचैलां सकांस्यदोहां कनकामशृङ्गीम् । तैस्तैर्गुणैः कामदुघाभिभूत्वा नरं प्रदातार मुपैति सा गौः । सा कर्मभिश्चाप्यनबुष्यमानातीब्रान्धकारे नरके पतन्तम् ॥७४ महार्णवे नौरिव वायुनीता दत्ताहि गौस्तारयते मनुष्यम् । पुत्रांश्च पौत्रांश्च कुलञ्च सर्वमासन्ननाशं तारयते परत्र ॥७५ यावन्मनुष्यः पृथिवीं विभर्ति तावत्प्रदातार मुपैति तत्र । यथौषधं मन्त्रकृतं नरस्य प्रयुक्तमात्रं विनिहन्ति रोगम् । तथैव दत्ता कपिला सुपात्रे पापं निहत्याशु नरस्य सर्वम् ॥७६

ऽध्यायः ]

कपिन्दागोःप्रशंसावर्णनम् ।

هان روبية

यथव दृष्ट्वा भुजगाः सुपणं नश्यन्ति दूराद्विवशा भयार्ताः । तथैवष्ट्रा छ कपिलाप्रदानं नश्यन्ति पापानि नरस्य शीघ्रम् ॥७७ यथा त्वचं स्त्रां भुजगो विहाय पुनर्नवं रूपमुपैति पुण्यम् । तथैवमुक्तः पुरुषः स्वपापाद्विराजते वै कपिलाप्रदानात ॥७८ यथान्धकारं भुवनेषु लग्नं दीपो हि निर्वापयति प्रदीप्तः । तथा नरे पापमपि प्रलीनं निर्वापयेद्धि कपिलाप्रदानम् ॥७६ यावन्ति रोमाणि भवन्ति तस्या वत्सान्वितायाः स्वशरीरजानि । तावत्प्रदाता युगवर्षकोटी स ब्रह्मलोके रमते मनुष्यः ॥८० यद्याहिताग्नेरतिथिः प्रियम्य पूर्वान्नदृरस्य जितेन्द्रियस्य । सत्यत्रतस्याध्ययनान्वितस्य दत्ता हि गौस्तारयते परत्र ॥८१ इति गौतमीये वैष्णवधर्मशास्त्रे कपिलादान प्रशंसोनाम नवमोऽध्यायः ।

उक्तं

दशमोऽध्यायः ।

अथ कपिलागोः प्रशंसावर्णनम् ।

वैशम्पायन उवाच ।

श्रुत्वावचः पुण्यं कपिलादानमुत्तमम् ।

धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥१ देवदेवश ! कपिला सदा विप्राय दीयते । कथं सर्वेषु चाङ्गेषु तम्या स्तिष्ठन्ति देवताः ॥२ १२६

[[२००८]]

वृद्ध गौतमस्मृतिः ।

[ दशमायाश्चैताः कपिलाः प्रोक्ता देवदेव ! त्वया मम । तासाङ्कति सुरश्रेष्ठ ! कपिलाः पुण्यलक्षणाः ॥३

कथं वानुगृहीतास्ता सुरैः पितृगणैरपि । केनात्मयुक्ता वर्णन श्रोतुं कौतू लं हि मे ।

वैशम्पायन उवाच ।

युधिष्ठिरे चैवमुक्ते केशवः सत्यवल्लभः ॥४ गुह्यानामपरङ्गुह्यं वक्तुमेवोपचक्रमे ।

श्रीभगवानुवाच ।

शृणु राजन् ! पवित्रं वै रहस्यन्धर्ममुत्तमम् । स्पृहणीयमिदं श्राव्यं उत्तमं हेतुत्रादिनाम् । यथा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह ॥५ दृश्यते कालदानन्तमाहु दर्दानविदोजनाः । अन्तरीक्षगतोवत्सो यावद्भूमिं न यास्यति । । गौरतावत् पृथिवी ज्ञेया तस्माद्देया तु तादृशी ॥६ यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर ! । यावन्त्यः सिकताश्चापि गर्भोदक परिप्लुताः ॥ ७ तावद्वर्षसहस्राणि दाता स्वग महीयते ।

सुवर्णाभरणं कृत्वा सवत्सां कपिलान्तु यः ॥ ८ तिलैः प्रच्छादितां दद्यात् सर्वरत्न रलङ्कृताम् । ससमुद्र नदी तेन सशैलद्वीपपत्तना ।

चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥

ऽध्यायः ।

कपिलागोः प्रशंसावर्णनम् ।

पृथिव्यास्तु स्वतुल्येन तेन दानेन मानवः । संसारसागरात्तीर्णो याति लोकं प्रजापतेः ॥ १० ब्रह्महत्यादि वा गोघ्नो भ्रूणहा गुरुतल्पगः । महापातकयुक्तोऽपि दानेनानेन शुध्यति ॥ ११ इयं पठति यः पुण्यं कपिलादानमुत्तमम् । प्रातरुत्थाय मद्भक्त स्तस्य पुण्यफलं शृणु ॥१२ मनसा कर्मणा वाचा मतिपूर्वं युसिष्ठिर ! । पापं रात्रिकृतं हन्यादस्याध्यायस्य पाठतः ॥१३ इदमावर्त्तमानस्तु श्राद्धे यस्तर्पयेद् द्विजान् । तस्याप्यमृत मश्नन्ति पितरोऽत्यन्तहर्षिताः ॥ १४ यश्चेदं शृणुयाद् भक्त्या मद्गतेनान्तरात्मना । तस्य रात्रि कृतं सर्वं पापमाशु व्यपोहति ॥१५ अतः परं विशेषन्तु कपिलानां शृणु क्रमात् । याश्चैताः कपिलाः प्रोक्ता दश राजन्मया तव ॥१६ तासाञ्च तस्य प्रवराः पुण्यं पापप्रणाशनम् । नमस्कृता वा स्पृष्टा वा घ्नन्ति पापं नरस्य तु ॥ १७ यस्यैताः कपिला सन्ति गृहे पापप्रणाशनाः । तत्र श्रीर्विजयः कीर्तिः स्थिता नित्यं युधिष्ठिर ! ॥१८ ये तासां प्रीतिमायान्ति ददतस्त्रिदशाः सदा । पयसा पितरः सर्वे घृतेन च हुताशनाः ॥ १६ ततः पितामहाश्चैव तथैव प्रपितामहाः । सकृद्दत्तेन तुष्यन्ति वर्षकोटि युधिष्ठिर ! ॥२०

[[२००६]]

[[२०१०]]

वृद्धगौतमस्मृतिः ।

कपिलाया घृतं क्षीरं दधि पायसमेव च । श्रोत्रियस्य सकृद्दत्त्वा नरः पापैर्विमुच्यते ॥२१ उपवासन्तु यः कृत्वा अहोरात्रं जितेन्द्रियः । कपिलापञ्चगव्यन्तु पीत्वा चान्द्रायणात्परम् ॥२२ सौम्ये मुहूर्त तत्प्राश्यं शुद्धात्मा शुद्धमानसः । क्रोधानृत विनिर्मुक्तो मद्गतेनान्तरात्मना ॥२३ कपिलापश्चगव्येन समन्त्रेण पृथक् पृथक् । यो मत्कृतिकृतं वापि शङ्कराकृतिमेव वा ॥ २४ स्नापयेद्विषुवे भक्त्या सोऽश्वमेधफलं लभेत् । स मुक्तपापः पूतात्मा यानेनाम्बरशोभिना ॥२५ ममलोकं व्रजेद्युक्तो रुद्रलोक मथापिवा ।

। दशमा.

ब्रह्मणा तु पुरा सृष्टा कपिला काश्वनप्रभा ॥२६ अग्निकुण्डात्परैमंन्त्र होमधेनु महाप्रभा । स्पृष्टमात्रान्तु तां दृष्ट्वा देवाः शूद्रादयो दिवि ॥२७ सिद्धा ब्रह्मर्षयश्चैव वेदाः साङ्गाः सहाध्वराः । सागराः सरित श्चैव पर्वताः सबलाहकाः ॥ २८ गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः । सर्वे विस्मयमापन्ना अग्निमध्ये महाप्रभाम् ॥२६ मन्त्र स्तोत्रैश्च विविधैस्तुष्टुवुश्तामनेकशः । कृताञ्जलि पुटाः सर्वे तान्त्रिशृङ्गी त्रिलोचनाम् ॥३० शिरोभिः प्रणता भूमौ वक्षसा मृततारिणीम् । ऊचुः प्राञ्जलयः सर्वे चतुर्वक्तुं पितामहम् ॥३१

Sध्यायः ]

कपिलागोः प्रशंसावर्णनम् ।

किमिदं देव ! देवेश ! सर्वलोकपितामह ! ।

आज्ञापय महदेव ! किं कुर्मस्ते प्रियं प्रभो ! ॥ ३२ एवमुक्तः सुरैः सर्वः प्रहृष्टेनान्तरात्मना । तत्र सानुनयं प्रीत्या ब्रह्मा वचनमब्रवीत् ॥३३ भवन्तो ह्यनुगृह्यन्तु दोग्ध्रीमेतां पयस्विनीम् । होमधेनुरियं ज्ञेया ह्यग्निसन्तर्पयिष्यति ॥३४ पीतक्षीरा ये हि चास्याः जातवीर्य्यपराक्रमाः । जयिष्यथ यथाकामं दानवान् सर्व एव तु ॥ ३५ जातवीर्य्यब लैश्वय्र्याः सत्ववन्तो जितारयः । अदेवमातृकाः सर्वाः पालयिष्यथ वै प्रजाः ॥ ३६ पालिताश्च प्रजाः सर्वा भवद्भिरिह धर्मतः । पूजयिष्यति यो नित्यं यज्ञैर्विविधदक्षिणैः ॥३७ एकमुक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना । ततः संहृष्टमनसः कपिलाय वरं ददुः ॥३८ यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता । तस्मात् पूता पवित्रा च भव पापव्यपोहिनी ॥३६ ये त्वां दृष्ट्रा नमस्यन्ति स्पृशन्ति च करेंर्नराः । तेषां वर्षकृतं पापं त्वद्भक्तानां विनश्यतु ॥४० कामतः कृतमज्ञात मनृतं यत्तु पातकम् ।

त्वां

दृष्ट्टा

ये नमस्यन्ति गावः सर्वसहेति च ॥४१

तेषां तद्विलयं यातु तमः सूर्योदये यथा ।

[[२०११]]

[[२०१२]]

वृद्धगौतमस्मृतिः ।

[ दशमा-

श्रीभगवानुवाच ।

इत्युक्ता च वरं दत्त्वा प्रययुस्ते यथागतम् ॥४२ लोकनिस्तारणार्थन्तु सा च लोकं चचार ह । तस्या एव समुद्भूताः शेषास्तु कपिला अपि ॥४३ विचरन्ति महीमेतां लोकानुग्रहकारणात् । तस्मात्तु कपिला देया परत्र हितमिच्छता । यदा च दीयते राजन् ! कपिला ह्यग्निहोत्रणे ॥४४ तदाप्रशृङ्गयोस्तस्या विष्णू रुद्रश्च तिष्ठतः । चन्द्रवज्रधरौ वापि तिष्ठतः शृङ्गमूलयोः ॥४४ शृङ्गमध्ये तथा ब्रह्मा ललाटे गोषृषध्वजः । कर्णयो रशिवनीदेवौ चक्षुषोः शशिभास्करौ ॥४५ करयो वरुणो राजन् ! हृदये हव्यवाहनः । रोमान्ते मुनयः सर्वे चर्मण्येव प्रजापतिः ॥ ४६ निश्वासेषु स्थिता वेदाः सपडङ्गपदक्रमाः ।

नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च ॥४७ अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः ।

साधु देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता ॥४८ पृष्ठे च नक्षत्रगणाः कटिदेशे यमः स्थितः । अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् ॥४६ श्रोणीतटस्थाः पितरो रोमलाङ्गूल मास्थिताः । पार्श्वयोरुभयोः सर्व विश्वेदेवाः प्रतिष्ठिताः ॥५०

Sध्यायः ]

कपिलागोः प्रशंसावर्णनम् ।

तिष्ठत्युरसि तस्यास्तु प्रीतः शक्तिधरो गुहः ।

जानुजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः ॥ ५१ खुरमध्येषु गन्धर्वाः खुरामेषु च पन्नगाः । चत्वारः सागराः पूर्णा स्तस्याश्च सपयोधराः ॥५२ रतिर्मेधा स्वधा स्वाहा श्रद्धा श्रान्तिः स्मृतिधृतिः । कीर्तिदप्तिस्तथा कान्तिः पुष्टिस्तुष्टिस्तु सङ्गतिः ॥ ५३ दिशश्च विदिशश्चैव सेवन्ते कपिलां सदा । देवाः पितृगणाश्चापि गन्धर्वाप्सरसाङ्गणाः ॥ ५४ लोका द्वीपार्णवाश्चैव गणाद्याः सरितस्तथा । गृहा मातृगणाश्चैव वेाः साङ्गा सहाध्वरैः ॥५५ वेदोक्तं विविधैर्मन्त्रैः स्त्रोत्रैः स्तुवन्ति हर्षिताः । विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा ॥ ५६ पुष्पवृष्टिं प्रमुञ्चन्ति प्रनृत्यन्ति च हर्पिताः । ब्रह्मणोत्पादिते । देवि ! वाग्निकुण्डान्महाप्रभे ! ॥५७

नमस्ते कपिले ! पुण्ये ! सर्वदेवं नमस्कृते !

कपिले ! च महासत्वे ! सर्वतीर्थमये ! शुभे ! ॥ दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् । अहोरात्र मिदं पुण्यं सर्वदुःखघ्न मुत्तमम् ॥५६ अहो धर्मार्जितशिव मिदमग्रंथ महाधनम् । इत्याकाशगतास्ते तु जल्पन्ति च रमन्ति च ॥ ६० तस्याः प्रतिगृहीता च भुङ्क्ते यां च द्विजोत्तमः । तावद्देवगणाः सर्वे कपिलाश्च नमन्ति वै ॥ ६१

[[२०१३]]

[[२०१४]]

वृद्धगौतमस्मृतिः ।

स्वर्णशृङ्गी रौप्यखुरा गन्धैः पुष्पैश्च पूजिता ।

। दशमे -

वस्त्राभ्यामेव ताभ्यान्तु धावंग्निष्टत्यलङ्कृताम् ॥६२ तावद्यदिच्छेन कपिला मन्त्रपूता सुसंस्कृता । भूलोकवासिनः सर्वान् ब्रह्मलोकन्नयेत् स्वयम् ॥६३ भूरश्वः कनकं गावो रौप्यं कृष्णतिला यवाः । दीयमानानि विप्राय प्रहृष्यति दिने दिने । अथवा श्रोत्रियेभ्यो में तानि दत्तानि पाण्डव ! । तानि निन्दन्यथात्मानमशुभं किन्नु नः कृतम् ॥६४ अहोरात्रं पिशाचैश्च अर्च्यमानाः समन्ततः । यास्यामो विलयं शीघ्र मिति शोचन्ति तानि व ॥ ६५ अथैतानि द्विजेभ्यो वं श्रोत्रियेभ्यो विशेषतः ।

दीयमानानि वर्धन्ते दातारं तारयन्ति च ॥ ६६

युधिष्ठिर उवाच ।

देव ! देवेश ! दैत्यघ्न ! कालः को हव्यकव्ययोः । के तत्त्रपूजा मर्हन्ति वर्जनीयाश्च के द्विजाः ॥ ६७

श्रीभगवानुवाच ।

देवं पूर्वाहिकं कर्म पैतृकञ्चापराहिकम् । कालहीनश्च यद्दानं तद्दानं राक्षसं विदुः ॥६८ खादितं चावलीढच्च कलिपूर्वञ्च यत्कृतम् । रजस्वलाभिमृश्च तद्दानं राक्षसं विदुः ॥६६ अवकृप्रञ्च यद्भक्त्या अवृतेनापि भारत ! । परामृष्टं शुना चापि तद्भागं राक्षसं विदुः ॥ ७०ऽध्यायः ]

पूज्यापूज्य विप्रवर्णनम् ।

यावन्तः पतिता विप्रा संसर्गात् पतितास्तथा ।

देवे वा पैतृके वापि राजन ! नाहन्ति सत्कृतिम् ॥ ७१ क्लीबः श्रित्री च कुष्ठी च राजयक्ष्मान्वितश्च यः । अपस्मारी च यश्चाधः पित्र्ये नार्हन्ति सत्कृतिम् ॥७२ चिकित्सका देवलका वृद्धा नियमधारिणः । सोमविक्रयिणश्चापि श्राद्ध नार्हन्ति सत्कृतिम् ॥७३ एकोद्दिष्टस्य ये चान्नं भुञ्जते विधिवद् द्विजाः । चान्द्रायण मकृत्वा ते पुनर्नार्हन्ति सत्कृतम् ॥७४ गायका नर्तकाश्चैव प्लावका वादकास्तथा । कथका योधकाश्चैव श्राद्ध नार्हन्ति सत्कृतिम् ॥७५ अनमयश्च ये विप्रा मृतनिर्यातकाश्च ये !

ते नरा हि विकर्मस्था राजन् ! नार्हन्ति सत्कृतिम् ॥७६ अपरिज्ञातपूर्वश्च गणपुत्रश्च यो द्विजः ।

पुत्रिका पूर्वपुत्रश्च श्राद्धं नार्हन्ति सत्कृतिम् ॥७७ ऋणकर्ता च यो विप्रो यश्च वाणिजको द्विजः । प्राणविक्रयवृत्तिश्च श्राद्ध नार्हन्ति सत्कृतिम् ॥७८ चीर्णावृता गुणैर्युक्ता ये च स्वाध्यायतत्पराः । सावित्रीज्ञाः क्रियावन्त ते श्राद्धं सत्कृतिक्षमाः ॥७६ श्राद्धस्य ब्राह्मणः कालः प्रातं दधि घृतं तथा । दर्भाः सुमनसां क्षेत्र तत्कालं श्राद्धदो भवेत् ॥८० चारित्रनियता राजन् ! कृशा ये कृशवृत्तयः । अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत्फलम् ॥८१

[[२०१५]]

[[२०१६]]

वृद्धगौतमस्मृतिः ।

तपस्विनश्च ये युक्ता स्तथा भैक्षचराश्च ये । अर्थिनः किञ्चिदिच्छन्ति तेषां दत्तं महत्फलम् ॥८२

एवं धर्मविदां श्रेष्ठ ! ज्ञात्वा सर्वात्मना सदा । श्रोत्रियाय दरिद्राय प्रयच्छ । नुपकारिणे ॥८३ दानं यत्ते प्रियं किञ्चिच्छोत्रियाणाञ्च यत्प्रियम् । तत्प्रयच्छ स्वधर्मज्ञ ! यदिच्छसि तमक्षयम् ॥८४

!

निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर ! । गुर्वर्थं वा गवार्थ वा नोचेदन्यत्र पाण्डव ! ॥८५ वदन्ति येऽनृतं विप्रास्ते वै निरयगामिनः । परदारापहर्तारः परदाराभिमर्शकाः ॥८६ परदारप्रयोक्तार स्ते वै निरयगामिनः ।

[ दशमो-

अनाथान् प्रमदा बालान् वृद्धान् भीतान् तपस्विनः ॥८७ प्रयच्छन्ति नरा ये च ते वै निरयगामिनः । वृत्तिच्छेदं गृहच्छेदं दाराच्छेदश्व भारत ! ॥८८

मित्रच्छेदं तथा कुर्युस्ते वै निरयगामिनः । वर्णाश्रमाणां ये संस्थाः पाषण्डा ये च पापिनः ॥८६ उपासते च तान्ये तु ते सर्वे नरकालयाः । वेदविक्रयिणश्चैव वेदानाञ्चैव दूषकाः ॥६० वेदानां लेखिनश्चैव ते वै निरयगामिनः । रसविक्रयिणो राजन् ! विषविक्रयिणश्च ये ॥ २ क्षीरविक्रयिणश्चापि ते व निरयगामिनः ।

चण्डालेभ्यश्च ये क्षीरं प्रयच्छन्ति नराधमाः ॥६२

ऽध्यायः ]

धर्माधर्म (निरयगामि) कथनम् ।

अर्थार्थमथवा स्नेहात्तं वै निरयगामिनः । ब्राह्मणानाङ्गवाचैव वृद्धानाश्च युधिष्ठिर ! ॥१३ ये ताड़यन्ति कार्येषु ते वै निरयगामिनः । उपाध्यायश्च पितरं गुरुञ्च भरतर्षभ

[[२०१७]]

ये त्यजन्ति सहायांश्च ते व निरयगामिनः ॥६४

अदातारं समर्था ये द्रव्याद्यालोभकारणात । दीनानाथान्न पश्यन्ति ते वै निरयगामिनः ॥६५ क्षान्तान् दान्तान् कृशान् प्राज्ञान् दीर्घकालं सहोषितान् । त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥६६

बालानामथ वृद्धानां श्रान्तानाश्वापि ये नराः । अदत्त्वाश्नन्ति मृष्टान्नन्ते वै निरयगामिनः ॥६७

एते पूर्वर्षिभिः प्रोक्ताः पुराणानाञ्च दृषकाः । ये च विप्रान् प्रदुष्यन्ति ते वै निरयगामिनः । ये स्वर्गन्तु समायान्ति तान् शृणुष्व युधिष्ठिर ! ॥ ६८ दानेन तपसा चैव सत्येन च दमेन च । ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ ६६ शुश्रूषाभिरुपाध्यायाच्छ्रतिमादाय भारत ! । ये प्रतिग्रहनिस्नेहा स्ते नराः स्वर्गगामिनः ॥ १०० प्रतिप्रदानदातारः श्रद्धयाश्रद्धयापि वा । दातारश्चापि विद्यानान्ते नराः स्वर्गगामिनः । क्षमावन्तश्च धीराश्च धर्मकार्येषु वोत्थिताः ॥ १०१

[[२०१८]]

वृद्धगौतमस्मृतिः ।

[ दशमो-

मङ्गलाचार युक्ताश्च ते नराः स्वर्गगामिनः । मधुमांसासवेभ्यस्तु निवृत्ताऋतुमत्यापि ॥१०२ परदारनिवृत्ताच ते नराः स्वर्गगामिनः । वैवाहिकन्तु कन्यानां दरिद्राणाञ्च ये नराः ॥ १०२ कारयन्ति च कुर्वन्ति ते नराः स्वगगामिनः । तपसा चैव दानेन येत्वशक्ता नरेश्वर । । धर्मोपदेशान् कुर्वन्ति ते नराः स्वर्गगामिनः ॥ १०३ दानाना मुपदेशञ्च तपसो नियमन्च तु । व्रतानामपि ये कुर्युस्ते नराः स्वर्गगामिनः ॥ १०४ ये च मार्गापदेष्टार स्तथा संक्रमकारिणः । मार्गशुद्धिकरा ये च ते नराः स्वर्गगामिनः ॥ १०५ रसानामथवीजाना मौपधानान्तथैव च । दातारः श्रद्धयोपेतास्ते नराः स्वर्गगामिनः ॥ १०६ सायं प्रातर्द्दिवा सन्ध्यां नित्यं ये चाप्युपासते । हव्यकव्यका नित्यं ते नराः स्वर्गगामिनः ॥ १०७ क्षेमाक्षेमन्च मार्गेषु समानि विषमाणि च । अध्वानं ये च वक्ष्यति ते नराः स्वर्गगामिनः ॥ १०८ हव्यकव्यविदो ये च ते नराः स्वर्गगामिनः । पर्वद्वये चतुर्दश्या मम्यां सन्ध्ययोर्द्वयोः ॥ १०६ आर्द्रायां जन्मनक्षत्रे विषुवे श्रावणे हि ये । ग्रामधर्माद्धि विरता स्तेनराः स्वर्गगामिनः ॥ ११० धर्माधम च कथितौ भूयः श्रोतुं किमिच्छसि ॥ १११

इति श्री गौतमीये वैष्णवशास्त्रे धर्माधर्मकथनोनाम दशमोऽध्यायः ।

ऽध्यायः ]

ब्रह्मघातक लक्षणवर्णनम् ।

[[२०५६]]

एकादशोऽध्यायः ।

ब्रह्मघातकलक्षणवर्णनम् ।

युधिष्ठिर उवाच ।

इदं मे तत्वतो देव ! वक्तुमर्हस्यशेपतः ।

हिंसा मकृत्वा यो मर्त्यो ब्रह्महत्या मवाप्नुयात् ॥१ श्रीभगवानुवाच ।

ब्राह्मणं स्वयमादाय भैक्षार्थं कृशवृत्तिकम् । क्लेशान्तस्तृतीयः पश्चात् तमाहुर्ब्रह्मघातकम् ॥२ उच्यते सहि विप्रस्य यश्च तस्य च भारत ! । वृत्तिं हरति दुर्बुद्धिस्तमाहु ब्रह्मघातकम् ॥३ यः प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा मुनिभिः कृतम् । दूषयेत्परमार्थ यस्तं विद्याद् ब्रह्मघातकम् ॥४ गोकुलस्य तृषार्त्तस्य बलात्त वसुधाधिप । । उत्पादयति यो विघ्नन्तं विद्याद् ब्रह्मघातकम् ॥५ आश्रमे वा वने वापि ग्रामे वा नगरेऽपि वा । अग्निं यः प्रक्षिपेत् क्रूरस्तं विद्याद् ब्रह्मघातकम् ॥६ मातरं पितरं वाऽपि भृत्यं दत्वा भयं सुतम् ।

त्यजेच करुणां भार्या तं विद्याद् ब्रह्मघातकम् ॥७ क्रोधाद्वा यदि वा द्वेषादाकृष्टम्तर्जितोऽपि वा । ऋतौ स्त्रियं यो नोपेयात्तं विद्याद् ब्रह्माघातकम् ॥८ यावत्सारो भवेद्दीनस्तन्नाशे यस्य दुःस्थितिः । तत्सर्व संहरेद्यो वै तं विद्याद् ब्रह्मघातकम् ॥

roso

वद्धगौतमस्मृतिः ।

[ एकादशी-

युधिष्ठिर उवाच ।

सर्वेषामेव दानानां यत्तु दानं विशिष्यते ।

अभोज्यानान्च यो विप्र स्तान् ब्रवीहि सुरेश्वर ! ॥ १०

श्रीभगवानुवाच ।

अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः । अन्नेन सदृशं दानं न भूतं न भविष्यति ॥ ११ अन्नकुण्डं शरीरं स्वं प्राणाश्चान्ने प्रतिष्ठिताः । अभोज्यान्नानिमान् सर्वान् निखिलं तन्निबोध मे ॥१२ दीक्षितस्य कदस्य बद्धस्य निगड़ेन तु । अभिशस्तस्य षण्डस्य पाकभेदकरस्य च ॥ १३ चिकित्सकस्य सर्वस्य तथाचोच्छिष्टभोजिनः । शूद्रान्नं सूतकान्नञ्च शूद्रोच्छेषणमेव च ॥१४ द्विपदान्नं नगर्यन्नं पतितान्न मनचितम् । तथा च पिशुनस्यान्नं यज्ञविक्रविणस्तथा ॥१५ शैलूषान्नन्तु पापान्नं कृतघ्नस्यान्नमेव च । अम्बष्ठस्य निषादस्य रङ्गावतरणस्य च ॥ १६ सौवर्णिकस्य वैश्यस्य शस्त्रविक्रयिणस्तथा । सुदुष्टं शौण्डिकान्नन्च चेल निर्णेजकस्य च ॥१७ अनिर्देश्ञ्च प्रेतान्नं गणिकान्नं तथैव च । बन्दिनोद्यतकर्त्तुश्च तथा द्यूतविदामपि ॥ १८ परिवित्तस्य यच्चान्नं परिवेत्तु स्तथैव च ।

ऽध्यायः ]

भोज्याभोज्यान्न विधिवर्णनम् ।

यश्चादिधीषुर्विप्रो दिधीषुरेव वा पतिः ॥१६ तयोरप्युभयो रनं सर्वत्रापि विवर्जयेत् ।

गोलकस्य च कुण्डस्य राजान्नञ्चापि वर्जयेत् ॥ २० राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्चमवकृन्तिनः ॥ २१ गणान्न गणिकान्नञ्च लोकेभ्यः परिकृन्तति । पूयश्चिकित्सकस्यान्नं शूकन्तु वृपलीपतेः ॥२२ विष्ठा वादुर्धुषिकस्यान्न तस्मात् तत्परिवर्जयेत् । तेषां स्वगस्थिरोमाणि भुङ्क्ते योऽन्न तु भक्षयेत् ॥२३ दानानान्तु फलञ्चान्यत् शृणु पाण्डव ! तत्वतः । वारिद स्तृप्तिमाप्नोति सुखमक्षयमन्नदः । तिलदस्तु प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥२४ भूमिदो भूमिमाप्नोति दीर्घमायु हिरण्यदः । गृहदोऽग्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥२५ वासदश्चन्द्रसालोक्य मश्विसालोक्यमश्वदः । अनडुद्दः श्रिया जुष्टोऽन्नदो ब्रध्नस्य विष्टपम् ॥२६ यानशय्याप्रदो भार्या मैश्वर्य मभयप्रदः । याति दशशतं सौख्यं ब्रह्मदो ब्रह्मसत्यताम् ॥२७ सर्वेषान्तु प्रदानानां ब्रह्मदानं विशिष्यते । हिरण्यभूगत्राश्वाजं वस्त्रशय्यासनादिषु ॥२८ यो वित्तं प्रतिगृह्णीते ददात्यर्चितमेव च । ता वुभौ गच्छतः स्वर्गे नरकन्तु विपर्यये ॥ २६

[[२०२१]]

[[२०२२]]

बद्धगौतमस्मृतिः ।

अनृतं न वदेद्दृष्ट्रा तपस्तप्त्वा न विस्मयेत् । नातोद्यपवदेद्विप्रोविप्रान्नत्वात् प्रकीर्तयेत् ॥३० यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् । आयुश्च पापवादेन दानन्तु परिकीर्तितम् ॥३१ एकः प्रजायते जन्तुरेक एव प्रलीयते ।

[ एकादशो-

एको हि भुङ्क्ते सुकृतमेकञ्चाप्नोति दुष्कृतम् ॥३२ मृतं शरीर मुत्सृज्य काष्ठलो समं क्षितौ । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥३३ अनागतानि कार्याणि कर्तुङ्गणयते जनः । स शिरःकम्पमुद्वीक्ष्य सूयते दिनमन्तकम् ॥३४ तस्माद्ध सहायोऽस्तु धर्मं सञ्चिनुयात्सदा । धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥३५ येषान्तटाकानि समाः प्रपाश्च कूपांश्च यूपांश्च प्रतिश्रयश्च । अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति ॥ ३६

इति गौतमीये वैष्णवधर्मशास्त्रे भोज्याभोज्यान्नविधिरेकादशोऽध्यायः ।

ऽध्यायः ]

धर्मशौचविधिवर्णनम् ।

[[२०२३]]

द्वादशोऽध्यायः ।

अथ धर्मशौच विधिवर्णनम् ।

युधिष्ठिर उवाच ।

अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः ।

किं लक्षणोऽसौ भवति तन्मे ब्रूहि सुरेश्वर ! ॥१

श्रीभगवानुवाच ।

[[1]]

शृणु राजन्! समासेन धर्मशौचविधिक्रमम् । अहिंसा सत्यमस्तेय मानृशंस्यं दमः शमः ॥२ आर्जवञ्चैव राजेन्द्र ! निश्चितं धर्मलक्षणम् । ब्रह्मचयं तपः क्षान्तिर्मधुमांसस्य वर्जनम् ॥३ मर्यादाया स्थितिश्चैव मशौचस्य च लक्षणम् । बाल्ये विद्यान्निषेवेत यौवने दारसंग्रहम् ॥४ स्थाविर्ये मोक्षमातिष्ठेत् सर्वदा धर्ममाचरेत् । ब्राह्मणान्नावमन्येत गुरून् परिवदेन्नच ॥५ यतीना मनुकूलः स्यादेष धर्मः सनातनः । यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ ६ पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः ।

यद्गृहस्थार्जितं पापं ज्ञानतोऽज्ञानतोऽपि वा ॥७ निर्दहष्यति सत्सर्व मेकरानोषितो यतिः ।

दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोऽपि वा ॥८

गृहस्थैर्य तयः पूज्याः परत्र हितकाङ्क्षिभिः । एकदण्डी त्रिदण्डी वा शिखी मुण्डी तथैव च ॥

[[१२७]]

[[२०२४]]

वृद्धगौतमस्मृतिः ।

[ द्वादशो-

काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिर ! । अपूजितो गृहस्थैर्वा तथाचाप्यवमानितः ॥ १०

यतिः सर्वातिथिर्वापि नरके पातयिष्यति ।

तस्माच्च यतयः पूज्या मद्भक्ता मत्परायणाः ॥ ११ मयि सन्न्यस्तकर्माणः परत्र हितकाङ्क्षिभिः । प्रहरेन द्विजान् प्राज्ञो गा न हन्यात् कदाचन ॥१२ भ्रूणहत्यासमन्चैतदुभयं यो निषेवते । नाग्निमुखे नोपयमे न च पादौ प्रतापयेत् ॥१३ नान्तरागमनं कुर्यान्नचामेध्यं विनिक्षिपेत् । उच्छिष्टो न स्पृशेदग्निमशौचस्थश्च जातुचित् ॥१४ श्वचण्डालादिभिः स्पृष्टोनाङ्गमग्नौ प्रतापयेत् । सर्वदेवमयो वह्निस्तस्माच्छुद्धतमः स्पृशेत् ॥ १५ प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान् । यावत्तु धारयेद्वेदाः स्तावदप्रयतो भवेत् ॥१६ पचनानि न गृह्णीयात्परवेश्मनि जातुचित् । तेन दत्तेन चानेन यत्कर्म कुरुते शुभम् ॥१७ तत्कर्मणः फलस्यार्द्ध मग्निदस्य भवेत् नृप । । तस्माश्च लिङ्गितं वहिं कुर्यादेवाविनाशिनम् ॥१८ प्रमादाद्यदि वा ज्ञानात् तस्य नाशो भविष्यति । गृह्णीयात्तुमथित्वा वा श्रोत्रियागारतोऽपिवा ॥१६ऽध्यायः ]

धर्मपात्रलक्षणवर्णनम् ।

[[२०२५]]

युधिष्ठिर उवाच ।

कीदृशाः साधवो विप्राः केभ्यो दत्तं महत्फलम् । कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन । ॥२०

श्रीभगवानुवाच ।

अक्रोधनाः सत्यपरा धर्मनित्या दमे रताः । तादृशाः साधवो लोके तेभ्यो दत्तं महत्फलम् ॥२१ अमानिनः सर्वसहा अदृष्टार्था जितेन्द्रियाः । सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महत्फलम् ॥२२ अलुब्धार्चयो वेषां श्रीमन्तः सत्यवादिनः । स्वधर्मनिरता ये तु तेभ्यो दत्तं महत्फलम् ॥२३ साङ्गाश्च चतुरो वेदान् योऽधीयीत दिने दिने । शूद्रान्नं यस्य नो देहे तम्पात्र मृषयो विदुः ॥२४. प्रज्ञाश्रुताम्यां वृत्तेन शीलेन न च समन्वितः । तारयेत् सकुलं सर्वमेकोऽपीह युधिष्ठिर । ॥ २५ गामन्नमश्वं वित्तं वा तद्विधे प्रतिपादयेत् । नियच्छेच्च गुणोपेतं ब्राह्मणं साधुसम्मतम् ॥२६ दूरादाहूय सत्कृत्य प्रयत्नेनैव पूजयेत् ॥२७

युधिष्ठिर उवाच ।

धर्माधर्मविधिः कृत्स्नो मम भीष्मेण भाषितः । भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर ! ॥२८

[[२०२६]]

वृद्धगौतमस्मृतिः ।

[ द्वादशो-

श्रीभगवानुवाच ।

अन्नेन धार्यते सर्वं जगदेतच्चराचरम् ।

अन्नात्प्रभवति प्राणः प्रत्यक्षो नास्ति संशयः ॥२६ अन्न च पीडयित्वा तु देशकाले च भक्तितः । दातव्यं विपुवे चान्न मात्मनो भूतिमिच्छता । विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा ॥ ३० अर्चयेद्गुरुवत् प्रीतो गृहस्थो गृहमागतम् । क्रोधमुत्पादितं कृत्वा सुशीलो वीतमत्सरः ॥ ३१ अर्चयेदतिथि प्रीतः परत्रेह च भूतये । अतिथीन्नावमन्येत न शुष्काङ्गिरमीरयेत् ॥ ३२

न पृच्छेत् गोत्रचरणं नाधिकं वा कदाचन । चण्डालो वा श्वपाको वा काले यः कश्चिदागतः ॥ ३३ अन्नेन पूजनीयः स परत्र हितमिच्छता । यः पिधाय गृहद्वारं भुङ्क्तेह्येकः प्रहृष्टवत् ॥३४ स्वर्गद्वार विधानं वै कृतन्तेन युधिष्ठिर ! । विप्रदेवान्नृषीन् विप्रानतिथींच निराश्रयान् ॥३५ यो नरः प्रीणयस्यन्नस्तस्य पुण्यफलं महत् । कृत्वापि बहुशः पापं यो दद्यादन्नमर्थिने ॥ ३६ ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते । अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत् ॥३७ तस्मादन्न प्रयत्नेन दातव्यं भूतिमिच्छता । अन्न मृतमित्याहुरन्न पूजितकं स्मृतम् ॥३८

ऽध्यायः ]

धर्मसारे - अन्नदान महत्त्रवर्णनम् ।

[[२०२७]]

अन्नप्रणाशे सीदन्ति शरीरे सर्वधातवः ।

बलं बलवतो न स्यादन्न तस्य च देहिनः ॥३६ तस्मादन्नं प्रदातव्यं श्रद्धया श्रद्धयापि वा । आदित्योऽपि रसं सर्व मादत्ते स गभस्तिभिः ॥४० वायुस्तस्मात्समाधाय रसमन्ने निषेचयेत् । तत्तु मेघगतं भूमौ शक्रो वर्षति पाण्डव ! ॥४१ तस्यां शस्यानि रोहन्ति यैज्जीवन्त्यखिलाः प्रजाः । मांसमेदोऽस्थिमज्जानां सम्भवस्त्वन्न एव हि ॥४२ एवमन व सूर्यश्च पवनः शक्र एव च । एक एव स्मृतोराशि येतो भूतानि जज्ञिरे ॥४३ वरं ददाति भूतानां तेजश्च भरतर्षभ ! । अन्नदानेन सम्प्रीता देवाश्च पितृभिः सह ॥४४ तस्मात्तेजो यशो वीर्य बलायुवृद्धयः सदा । श्रद्धयान्नं प्रदातव्यमिति पौराणिकी श्रुतिः ॥४५ अन्नदानं तु ये लोके कुर्वन्ति श्रद्धया नराः । भवनानि च दिव्यानि दिवि तेषां महात्मनाम् ॥४६ नानासंस्थानि रूपाणि नानाभूतयुतानि च । चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ॥४७

तरुणादित्यवर्णानि स्थावराणि महान्ति च । अनेकशतसंख्यानि सान्तर्जलवनानि च ॥४८ वदूर्यमणिचित्राणि रूप्यरूक्ष्ममयानि च ।

तत्र पुष्पफलोपेताः कामदाः सुरपादपाः ॥४६

[[२०२८]]

वृद्धगौतमस्मृतिः ।

[ त्रयोदशो-

[[1]]

वाप्यो वीथ्यः सभाः कूपाः दीर्घिकाश्चैव सर्वशः निर्घोषवन्ति यानानि युक्तानि च सहस्रशः ॥ ५१ भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च । क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः ॥५२ प्रासादाः पाण्डराभ्राभाः शय्याश्च कनकोज्वलाः । अन्नदानात्तु सिध्यन्ति तस्मादन्नप्रदो भवेत् ॥५३ इति गौतमीये वैष्णवधर्मशास्त्रे अन्नदानविधिर्नाम द्वादशोऽध्यायः ।

त्रयोदशोऽध्यायः ।

अथ भोजनविधिवर्णनम् ।

अन्नदानफलं श्रुत्वा प्रीतोऽस्म्यसुरसूदन ! । भोजनस्य विधिं वक्तुं देवदेव ! त्वमर्हसि ॥ १

श्रीभगवानुवाच ।

भोजनस्य द्विजातीनां विधानं शृणु पाण्डव ! । स्नातः शुचिः शुचौ देशे निर्जने हुतपावकाः ॥२ मण्डलं कारयित्वा तु चतुरश्च द्विजोत्तमः । क्षत्रियस्य ततो वृत्तं वैश्यस्य धनुसन्निभम् ॥३ कुचंपादस्तु भुञ्जीयात् प्राङ्मुखश्वासने शुचौ । पादाभ्यां धरणीं स्पृष्ट्रा पादेनैकेन वा पुनः ॥४ नैकवासास्तु भुञ्जीयान् नैवान्तर्धाय वै द्विजः । न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च ॥५

ऽध्यायः ]

भोजनविधिवर्णनम् ।

अन्नं पूर्वं नमस्कुर्यात् प्रहृष्टेनान्तरात्मना । नान्यदालोकयेदन्नान्नजुगुप्सेत वा पुनः ॥ ६ जुगुप्सितन्तु यच्चान्नं राक्षसा एव भुञ्जते । पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम ॥७ अपेयन्तद्विजानीयात् पीत्वा चान्द्रायणञ्चरेत् । परिषेकबलादन्यत पेयत्वे त्वनुमन्त्रवत् ॥८ पञ्चप्राणाहुतिं कुर्यात्समन्त्रस्तु पृथक् पृथक् । यथा रसं न जानाति जिह्वा प्राणाहुतौ नृप ! ॥ तथा समाहितः कुर्यात् प्राणाहुतिमतन्द्रितः । विदित्वा चान्न मन्नादं पश्च प्राणांश्च पाण्डव ! ॥१० यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्च वायवः । अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः ॥११ तेनान्नेन सुरान् प्रेतान् राजसांस्तर्पयिष्यति । वक्त्रप्रमाणपिण्डानि ग्रासेनेकैन वा पुनः ॥१२ वक्त्राधिकन्तु यत्पिण्डमात्मोच्छिष्टन्तदुच्यते । दष्टावशिष्टमन्त्रञ्च वक्त्रानिःसृतमेव च ॥ १३ अभोज्यन्तद्विजानीयान् भुक्ता चान्द्रायणञ्चरेत् । स्वमुच्छिष्टन्तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभाजने ॥१४ चान्द्रायणञ्च यत्कृच्छ्रं प्राजापत्यमथापि वा । पिबतः पतिते तोये भाजने मुखनिःसृते ॥१५ अभोज्यन्तद्भवेदन्न’ भुक्ता चान्द्रायणञ्चरेत् । केशकीटावपन्नश्च मुखमारुतवीजितम् ॥१६

[[२०२६]]

[[२०३०]]

वृद्धगौतमस्मृतिः ।

[ त्रयोदशो

अभोज्यं तद्विजानीयाद् भुक्ता चान्द्रायणभ्वरेत् । उत्थाय च पुनर्भुक्तं पादस्पृष्टभ्च लङ्घितम् ॥१७ अन्न तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत् । राक्षसोच्छिष्टभुग्विप्रः सत्यपूर्वान् परानपि ॥१८ निरये रौरवे घोरे स पितॄन् घातयिष्यति । तस्मिन्नाचमनं कुर्यात् यस्मिन् पात्रे स भुक्तवान् ॥१६ यश्वतिष्ठत्यनाचान्तो भुक्तवान्नासने ततः ।

स्नानं सद्यः प्रकुर्वीत नान्यथा प्रयतो भवेत् ॥ २०

युधिष्ठिर उवाच ।

तृणमुष्टिविधानश्च तिलमाहात्म्यमेव च । इक्षुसोमसमुद्भूतिं वक्तुमर्हसि मानद ! ॥२१

श्रीभगवानुवाच ।

पितरो वृषभा ज्ञेया गावो लोकस्य मातरः । तासान्तु पूजया राजन् ! पूजिताः पितृमातरः ॥२२ सभा विप्रगृहाचापि देवतायतनानि च ।

शुध्यन्ति स्वत एवासां किम्भूतमधिकं ततः ॥ २३ ग्रासमुष्टिं परगवे दद्यात् संवत्सरन्तु यः । ‘अकृत्वास्तेयमाहारं वृतवत्सार्वकामिकम् ॥२४ गावो मे मातरः सर्वाः पितरश्चैव मे वृषाः । ग्रासमुष्टिं मया दत्तां प्रतिगृह्णन्तु मातरः ॥२५ इत्युक्त्वा तेन मन्त्रेण सावित्र्या वा समाहितः । दद्यात्तु प्रासमुष्टिं यस्तस्य पुण्यफलं शृणु ॥ २६

ऽध्यायः ]

तिलदान प्रशंसावर्णनम् ।

यत्कृतं दुष्कृन्तेन ज्ञानतोऽज्ञानतोऽपि वा ।

तस्य नश्यति तत्सर्वं दुःस्वप्नञ्च विनश्यति ॥२७ तिलाः पवित्राः पापघ्ना नारायणसमुद्भवाः । तिलाः श्राद्ध े प्रशंसन्ति दानमेतदनुत्तमम् ॥२८ तिलानद्यात्तिलान् दद्यात्तिलान् प्रातरुपस्पृशेत् । तिलास्तिला इति ब्रूयात् महत्पापविमुक्तये ॥२६ तिलास्तु देवतारूपा नावमन्या द्विजातिभिः । भोजनाभ्यञ्जनाद्दानाद्यो न तत् कुरुते तिलैः ॥ ३० कृमिर्भूत्वाश्वविष्ठायां पितृभिः सह मज्जति । तिलान् यो पीड़येद्विप्रो स्ववक्त्रेण स्वयं नृप ! ॥३१ पीडयेद्यदि तान् मोहान्नरकं याति रौरवम् । इतिवंशोद्भवे सोमः सोमवंशोद्भवे द्विजः ॥ ३२ इक्षून् यः पीडयेत्तस्मादिक्षुघात्यात्मघातकः । इक्षुदण्डसहस्रेण एकैकेन द्विजोत्तमः ॥३३ ब्रह्महत्यामवाप्नोति ब्राह्मणो यत्र पीड़कः ।

तस्मान्न पीड़येदिन मन्त्रचक्रे द्विजोत्तमः ॥३४

इति गौतमीये वैष्णवधर्मशास्त्रे तिलान्नदानादि प्रशंसानाम

त्रयोदशोऽध्यायः ।

[[२०३१]]

[[२०३२]]

वृद्धगौतमस्मृतिः । चतुर्द्दशोऽध्यायः । अथापद्धर्मवर्णनम् ।

युधिष्ठिर उवाच ।

समुच्चयं तु धर्माणो भोज्याभोज्यश्च केशव ! श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे ॥ १

श्रीभगवानुवाच ।

!

दुर्भिक्षे राष्ट्रसम्पाते त्वशौचे मृतसूतके । कर्मकालेऽध्वनि तथा नियमस्थो न लुप्यते ॥२ दूराध्वचलनात्खिन्नो द्विजालाभे तु शूद्रतः । अकृतान्नभ्व यत्किञ्चिद् गृह्णीयादात्मवृत्तये ॥ ३ आतुरो दुःखितो वाऽपि भयार्तो वा बुभुक्षितः । भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च ॥४ यत्किञ्चिदपि कुर्वाणो विद्वान् गुरुनियोगकः । तेषां वचनसामर्थ्यात्प्रायश्चित्तीयते न च ॥५ अनृतावृतुकाले वा दिवा रात्रौ तथापि वा । प्रोषितस्तु स्त्रियं गच्छेत् प्रायश्चित्तीयते न च ॥६ निमन्त्रितस्तु यो विप्रो विधिवद्धव्यकव्ययोः । मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च ॥७ अष्टौ तान्यत्रतघ्नानि आपोमूलं घृतं पयः । हवि ब्रह्मणकाम्या च गुरोर्वचन मौषधम् ॥८ अशक्तं विधिवत्कर्तुं प्रायश्चित्तानि यो नरः । विदुषां कलनेनापि दानेनापि विशुद्ध्यति ॥

[ चतुदशी-

ऽध्यायः ]

आपद्धर्मवर्णनम् ।

[[२०३३]]

युधिष्ठिर उवाच ।

प्रशस्यः कीदृशो विप्रो निन्द्याश्चापि सुरेश्वर ! ।

अष्टकापञ्चकः कालस्तन्मे कथय माधव । ॥१०

श्रीभगवानुवाच ।

सत्यं यद्धि द्विजं दृष्ट्टा स्थानाद्वेपति भास्करः । एष मे मण्डलं भित्वा याति ब्रह्म सनातनम् ॥११ कुलीनः कर्मकृद्वैद्य स्तथैवाप्यनृशंसकः ।

सदानृजुः सत्यवादी पात्रं सर्व इमे द्विजाः ॥ १२ ये ते चाप्रासने स्थातुं भुञ्जानाः प्रथमं द्विजाः । तस्यां पंक्त्यां तु ये चान्ये तत् पुनन्त्येव दर्शनात् ॥ १३ मद्भक्ता ये द्विजश्रेष्ठा मद्गता मत्परायणाः । तान् पङ्क्तिपावनान् विद्धि पूज्याश्चैव विशेषतः ॥१४ निंद्याञ्छृणु द्विजान् राजन् ! मपि वा वेदपारगान् । ब्राह्मणेष्वात्मनालोक्य चरन्तः पापकर्मणः ॥१५ अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः ।

यत्र कुत्र च भुञ्जान स्वंविद्यात्पङ्क्तिदूषकम् ॥१६ मृतसूतकपुष्टाङ्गो यस्तु शूद्रान्नभोजनः ।

अहथवापि न जानामि गतिमस्य नराधिप । ॥१७ शूद्रान्नरसपुष्टाङ्गो ह्यधीयानोऽपि नित्यशः । जपतोजुह्वतो वाऽपि गतिरूद्ध्वं न विद्यते ॥ १८

आहिताग्निस्तु यो विप्रः शूद्रान्नेनापि वर्तते ।

[[1]]

पथ्य तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽमयः ॥१६

[[२०३४]]

वृद्धगौतमस्मृतिः ।

[ चतुद्दशो-

शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य युधिष्ठिर ! ।

भूम्यामन्नं प्रदातव्यं श्वशृगालसमो हि सः ॥२० प्रेतीभूतश्च यः शूद्रं ब्राह्मणोज्ञानदुर्बलः । अनुगच्छेन्नीयमान स्त्रिरात्र मशुचिर्भवेत् ॥२१

त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।

तु

प्राणायामशतं कृत्वा घृतं प्रास्य विशुद्ध्यति ॥२२ अनाथब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः । पदे पदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि ॥ २३ न तेषा मशुभं किञ्चित् पापं वा शुभकर्मणाम् । जलावगाहनादेव सद्यः शौचं विधीयते ॥ २४ शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि । घृतन्तेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत् ॥ २५ विप्राणां भोक्तुकामाना मत्यन्तञ्चान्तकाङ्क्षया ।

यो विघ्नं कुरुते मर्त्य स्ततोऽन्यो नास्ति पापकृत् ॥२६ सव च वेदाः ऋषिभिः सहाङ्गः साङ्ख्यं पुराणञ्च कुलरूच जन्मनोः । एतानि सर्वाणि गतौ भवन्ति शीलव्यपेतस्य न हि द्विजस्य ॥ २७ गृहोपरागे विषुवायनादि सुपुण्यतिथ्यान्च सुते च जाते । नवेषु पद्मेषु च पाण्डुपुत्र ! गच्छेत्सनिष्कन्तु सहस्र तुल्यम्॥ २८ नभस्यमासस्य व कृष्णपक्षे त्रयोदशी पञ्चदशी च मासे । उपप्लवे चन्द्रमसोरवेश्व श्राद्धस्य काले हायनद्वयं न ॥२६ य स्त्वेकपंक्तयां विषमं ददाति स्नेहाद्भयाद्वा यदिवार्थहेतोः । क्रूरं दुराचार मनात्मवन्तं ब्रह्मघ्नमेनं मुनयो वदन्ति ॥ ३०

1धर्मसारसमुच्चयवर्णनम् ।

[[२०३५]]

ऽध्यायः ] धनानि येषां विफलानि सन्ति नित्यं रमन्ते परलोकमूढाः । तेषा मयं शत्रुवरघ्नलोको नासौ सदेहः ससुखं रमेत ॥३१ ये युक्त योगास्तपसि प्रयुक्ताः स्वाध्यायशीला जरयन्ति देहम् । जितेन्द्रिया भूतहिते निविष्टास्तेषा मसौ नायमरिघ्नलोकः ॥३२ ये धर्ममेव प्रथमञ्चरन्ति श्रमेण लब्धा निधनानि काले । दारानवाप्य क्रतुभि र्यजन्ति तेषा मयञ्चैव परश्च लोकः ॥३३ ये नवविद्या न तपो न दानं न चापि मूढाः प्रजने यतन्ते । न चापि गच्छन्ति सुखान्यभावात् तेषामयञ्चैव परस्य नास्ति ॥३४

युधिष्ठिर उवाच ।

नारायण ! पुराणेश ! योगवास ! नमोऽस्तु ते । श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम् ॥३५

श्रीभगवानुवाच ।

धर्मसारं महाराज ! मनुना प्रोक्त मादितः । प्रयच्छामि मनुप्रोक्तं पौराणं श्रुतिसन्ततम् ॥३६ अग्निचित्कपिला सत्री राजा भिक्षु महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत तान् सदा ॥३७ गौरेकस्य प्रदातव्या न बहूनां युधिष्ठिर ! । या गौर्विक्रयमापन्नादहत्यासप्तमं कुलम् ॥३८ बहूनां न प्रदातव्या गौर्वत्रं शयनं स्त्रियः । तादृक् भूतन्तु यद्दानं दातारं नोपतिष्ठति ॥३६

[[२०३६]]

वृद्धगौतमस्मृतिः ।

आकृष्य ब्राह्मणो मत्क मन्न ं येषान्तु वेश्मनि । गोभिश्च पुण्यकं तेषां राजसूयाद्विशिष्यते ॥४० मा. दम्या इति यो ब्रूयाद् गोरग्ने ब्राह्मणस्य च । तिर्यग्योनिशतं गत्वा चण्डालेषु प्रजायते ॥४१

[ चतुर्दशो-

ब्राह्मणस्य तु देवस्य दरिद्रस्य च यद्धनम् । गुरोश्चापि हतं राजन् ! स्वर्गस्थमपि पातयेत् ॥४२ धर्म जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । द्वितीयन्तु स्वशास्त्राणि तृतीयं लोकसंग्रहः ॥ ४३ आसमुद्राच्च वै पूर्वादासमुद्राश्च पश्चिमात् । हिमवद्विन्ध्ययो मध्य मार्यावर्त प्रचक्षते । सरस्वतीदृषद्वत्यो स्तथा नद्योर्यदन्तरम् ॥४४ तद्देव मातृकं देशं ब्रह्मावर्त प्रचक्षते । तस्मिन्देशे सदाचारः पारम्पर्यकमागतः ॥४५ वर्णानां सान्तरालानां स सदाचार उच्यते । कुरुक्षेत्रञ्च मत्स्याश्च पाञ्चालाः शूरसैनिकाः ॥४६ एते महर्षिदेशास्तु ब्रह्मावर्तादनन्तरम् ।

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ॥४७ स्वं स्वं चरित्रं शिक्षन्ते पृथिव्यां सर्वमानवाः । हिमवद्विन्ध्ययोमध्ये यत्प्राग्विनशनादपि ॥४८

प्रत्यगेव प्रयागश्च मध्यदेशः प्रकीर्तितः ।

[[1]]

कृष्णसारस्तु चरति मृगोयत्र स्वभावतः ॥४६

ऽध्यायः

धर्मसारसमुच्चयवर्णनम् ।

संज्ञया ज्ञायते देशो म्लेच्छदेशस्तु तत्परम् ।

एतान् विज्ञाय देशांस्तु संश्रयेरन् द्विजातयः ॥५०

शूद्रस्तु यस्मिन् वा निवसेद्वृत्तिकर्शितः । आचारप्रभवोधर्मो ह्यहिंसा सत्यमेव च ॥ ५१ दानञ्चैव यथा शान्ति नियमानियमैः सह । वैदिकैः कर्मभिः पुण्यैः निषेकादि द्विजात्मनाम् ॥५२ कार्य्यः शरीरसंस्कारः पावनः प्रेत्य चेह च । गार्भे होर्जातकर्म नामचौडोपनायनैः ॥५३ स्वाध्यायैस्तर्पणैश्चैव विवाहस्नातकव्रतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयः क्रियते ततः ॥५४ धर्मार्थी यस्य महतां शुश्रूषामपि तद्विधः । न तस्य विद्या वक्तव्या कदाचिदपि चोषरे ॥५५ लौकिकं वैदिकं वाऽपि तथाध्यात्मिकमेव च । यतो ज्ञानागमं प्राप्त स्तं पूर्वमभिवादयेत् ॥५६ सव्येषु सव्यं स्पृष्टव्यो दक्षिणेन तु दक्षिणम् । न कुर्य्यादेकहस्तेन गुरोः पादाभिवन्दनम् ॥५७ निषेकादीनि कर्माणि यः करोति यथाविधि । अध्यापयन्ति वेदांश्च स विप्रो गुरुरुच्यते ॥ ५८ इहोपनयनं वेदान्योऽध्यापयति नित्यशः । सुकल्पान् इतिहासांश्च स उपाध्याय उच्यते ।

[[२०३७]]

साङ्गान् वेदांश्च योऽव्याप्य शिक्षयित्वा वृतानि च ॥५६

[[२०३८]]

वृद्धगौतमस्मृतिः ।

[ चतुर्दशो-

विवृणोति च मन्त्रार्था नाचार्यः सोऽभिधीयते । उपाध्यायादशाचार्य्य आचार्याणां शतं पिता ॥ ६० पितुर्दशगुणं माता गौरवेणातिरिच्यते । तस्मात्तेषां वशे तिष्ठेत्तच्छुश्रूषापरोभवेत् ॥ ६१ अवमानात्तु तेषां हि नरकान्याति सर्वशः । अनङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् ॥ ६२ रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् । शपतो यत् कृतं पुण्यं सेव्यमानन्तु गच्छति ॥ ६३ सेव्यमानस्य यत्पापं शपन्त मनुगच्छति । नास्तिक्यं लोकनिन्दाभ्व देवतानाञ्च तुच्छनम् । द्वेषं स्तम्भञ्च मोहञ्च क्रोधन्तैक्ष्ण्यं विवर्जयेत् ॥६४ यस्य यस्य हि यो भाव स्तेन तेन हि तं रथम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशन्नयेत् ॥६५

इति गौतमीये श्रीवैष्णवधर्मशास्त्रे धर्मसारसमुच्चयो नाम

चतुर्दशोऽध्यायः ।

ऽध्यायः ]

धर्ममहत्ववर्णनम् ।

२०३६.

पञ्चदशोऽध्यायः ।

अथ धर्ममहत्ववर्णनम् ।

युधिष्ठिर उवाच ।

भगवंस्तव भक्तस्य मम धर्मजनप्रिय । ।

धर्म पुण्यतमं देव ! पृच्छतः कथयस्व मे ॥१ यदेकमग्निहोत्रं वै स्पृष्टं वर्णत्रयस्य तु ।

मन्त्रस्य वृध्या तं सम्यग्विधिना चाप्युपासितम् ॥२ आहिताग्निन्नयत्यूद्ध सपत्नीकं सबान्धवम् ।

कथं तद्ब्राह्मणर्देव ! होतव्यं क्षत्रियैः कथम् ॥३ वैश्यैर्वा देव ! देवेश ! कथं वा सुहुतं भवेत् ।

कस्मिन् काले कथं कस्यचेयोऽग्निः स्यात् सुरेश्वर ! ॥४ आहितस्य कथं वाऽपि सम्यगाचरणं भवेत् ।

कत्यग्नयः किमात्मानं स्थानं किं कस्य वा विभो ! ॥५ कतरस्मिन्नु वा स्थाने किं व्रजेदग्निहोत्रकः । अग्निहोत्रनिमित्तव किमुत्पन्नं पुराऽनघ ! ॥६ कथमेवाथ हूयन्ते प्रीयन्ते च सुरैः कथम् । विधिवन्मन्त्रवद्भक्त्या पूजिता स्त्वग्नयः कथम् ॥७ कां गतिं वदतां श्रेष्ठ ! नयन्ति ह्यग्निहोत्रिणम् । दुहु ताश्चाग्निहूताश्चाप्यविज्ञातास्त्रयोऽग्नयः ॥८ किमाहिताग्नेः कुर्वन्ति चीर्णा वा अपि केशव ! । उत्सन्नाग्निस्तु पापात्मा कां योनिं देव ! गच्छति ॥

[[१२८]]

[[२०४०]]

वृद्धगौतमस्मृतिः ।

[ पञ्चदशो-

एतत्सर्वं हि देवेश ! भक्त्या भूपगतस्य मे । वक्तुमर्हसि धर्मज्ञ ! सर्वावास ! नमोऽस्तु ते ॥१०

श्रीभगवानुवाच ।

शृणु राजन् ! महत् पुण्यमिदं धर्मामृतं परम् । यत्तु तारयते भक्तान् ब्राह्मणानग्निहोत्रणः ॥ ११ ब्रह्मा त्वेतान् सृजन् लोकान् महदाद्यान् महाद्युतीन् । सृष्टोऽग्निमुखतः पूर्व लोकानां हितकाम्यया ॥१२ यस्मादग्रे स भूतानां सर्वेषान्निर्मितो मया । तस्मादग्नीत्यभिहितं पुराणज्ञैर्महर्षिभिः ॥१३ यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते । आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते ॥ १४ यस्माच्च नयति ह्यग्रां गतिं विप्रान् सुपूजितान् । तस्माच्च नयनाद्राजन् ! वेदेष्वग्नीति चोच्यते ॥ १५ यस्माच्च दुर्हु तान् सोऽय मलम्भक्षयितुं क्षणात् । यजमाना नरश्रेष्ठाः क्रव्यादोऽग्निस्तु न स्थितः ॥ १६ सर्वभूताधिपो राजन् ! देवानामेष वै मुखम् । प्रथमं मन्मुखात् सृष्टो लोकार्थे पचनप्रभुः ॥ १७ सृष्टमात्रो जगत्सर्व मुत्तमैश्च युतं खलु ।

ततः प्रशमितः सोऽग्निरूपः स मायया पुरा ॥१८ स्तृतादुपासनात् सोऽयमोपासन इति स्मृतः । आहुतिः सर्वमाख्यातस्तस्मिन् वसति योऽनलः । आवसथ इति ख्यातस्तेनासौ ब्रह्मवादिभिः ॥ १६

ऽध्यायः ]

धर्ममहत्वर्णनम् ।

तस्मिन् पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः । सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः ॥२० तेन सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः : गतात्मभासा युज्यन्ने मेध्याग्नेश्च न तत्पराः ॥२१ अपरे चावशंसन्ते पचनाग्नि प्रचक्षते । तस्मिन् पञ्च महायज्ञा वैश्वदेवश्च वर्तते ॥२२ स्थालीपाकश्च गृह्याश्च सर्वे तस्मिन् प्रतिष्ठिताः । गृह्यकर्म हो यस्माद् ततो गृहपतिस्तु सः ॥२३ औपासनञ्चावसथं सभ्यं पचनपावकम् । आहुर्ब्रह्मविदः केचिदेतमेव ममापि च ॥ २४ अग्निहोत्रप्रकारन्तु शृणु राजन्! समाहितः । त्रयाणां गणनामापि अग्नीनामुच्यते मया ॥२५ गृहाणान्तु पतित्वाद्धि गार्हपत्यमिति स्मृतम् । यजमानन्तु यस्मात्तु दक्षिणान्तु गतिं नयेत् ॥२६ दक्षिणाग्नि तदाहुस्ते दक्षिणत्वाच्च तद्विजाः । आहुतीः सर्वमाख्यातं हवनं हव्यवाहनम् ॥२७ आहूय योऽग्नि नियतं यश्चाहवनसंरतः । आभिमुख्येन होमस्तु यस्माद्यज्ञेषु वर्तते ॥२८ तेनास्याहवनीयत्वं गतोवह्निर्महाद्युतिः । आहोमादग्निहोत्रेषु यज्ञे ये यत्र सर्वशः ॥ २६ यस्मादस्मिन् प्रवर्तन्ते ततोह्याहवनीयता । आवसथन्तु येचाग्नि पचनाग्नि प्रचक्षते ॥३०

[[२०४१]]

[[२०४२]]

वृद्धगौतमस्मृतिः ।

तेषां सभागतोवह्निः सभ्य इत्यभिधीयते ।

[ पञ्चदशो-

आवसथस्तु यो वह्निः प्रथमः स प्रजापतिः ॥३१ ब्रह्मा वै गापत्योऽग्नि स्तस्माद्देवो हि वा भवेत् । दक्षिणाग्निः स्वयं रुद्रः क्रोधात्मा चण्ड एव सः ॥३२ अहमाहवनीयोऽग्नि रन्तरीक्षञ्च दक्षिणः । स्वर्गमाहवनीयोऽग्निरेव मग्नित्रयं स्मृतम् ॥३३ वृत्तो वै गार्हपत्योऽग्नि र्यस्माद्वृत्ता च मेदिनी । अर्द्धचन्द्राकृतिः खं वै दक्षिणाग्नि स्तथा भवेत् ॥ ३४ चतुरस्रं ततः स्वर्गे निर्मलं ह्यग्निसन्निभम् । तम्मादाहवनीयोऽग्नि चतुरस्रो भवेन्नृप ! ॥३५ जुहुयाद्रापत्यं यो भु ं जयति स द्विजः ।

यां जुहुयाद्दक्षिणाग्नि यः स जयत्यन्तरीक्षकम् ॥ ३६ पृथिवी मन्तरीक्षं वा दिवमृक्षगणैः सह । जयत्याहवनीयं यो जुहुयाद्भक्तिमान् द्विजः ॥ ३७ यस्त्वावसथे जुहुयात्तुलाग्नि विधिवद्विजः । स च सप्तर्षिलोकेषु सपत्नीकः प्रमोदते ॥ ३८ यश्चाप्युपास्ते सभ्यं वा विधिवत्प्रयतात्मवान् । स जयेद्वा यमभयं सर्वं तथाप्यहिसभामपि ॥ ३६ अग्नीनामथवाग्नेस्तु यस्य होमः प्रदीयते । ईर्ष्याभवति सर्वोऽग्निरग्निहोत्रञ्च वै भवेत् ॥४० त्रयणामपि वह्नीनामग्निहोत्रमिति स्मृतम् ।

त्राणाद्वै यजमानस्य चाग्निहोत्र मिति स्मृतम् ॥४१

ऽध्यायः ]

अग्निहोत्रप्रकरणवर्णनम् ।

हो इत्येष विवादो वै विपादो दुःख मुच्यते । दुःखं तापत्रयं प्रोक्तं तापो हि नरकं विदुः ॥ ४२ यस्माद्वा त्रायते दुःखाद्यजमानं हुतोऽनलः । तस्मात्तु विधिवत्प्रोक्त मग्निहोत्रमिति श्रुतम् ॥४३ नदग्निहोत्रं सृष्टं व ब्रह्मणा लोककारिणा । वेदाश्चाप्यग्निहोत्राथ जज्ञिरे स्वयमेव तु ॥४४ अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । रतिपुत्रफला नारी दानहोमफलं धनम् ॥४५ त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रचक्षते ।

ऋग्यजुः सामभिः पुण्यैः स्थाप्यते सूत्रसंयतः ॥४६ वसन्ते ब्राह्मणस्य स्यादाधयोऽग्नि र्नराधिप । ।

! वसन्तो ब्राह्मणः प्रोक्तो ब्रह्मयोनिः स उच्यते ॥४७

!

अग्न्याधानन्तु येनाथ वसन्ते क्रियते नृप । । तस्य श्रीब्रह्मपुष्टिश्व ब्राह्मणस्य विवर्द्धते ॥४८ क्रतवः सर्व एवैते त्रिभिर्वेदैरलङ्कृताः । अग्निहोत्राः प्रवर्तन्ते यैरिदं ध्रियते जगत् ॥४६ ग्राम्यारण्याश्च पशवस्तथा वृक्षास्तृणानि च । फलान्योषधयश्चापि चाग्निहोत्रकृतेऽभवन् ॥५० रसाः स्नेहा स्तथा गन्धा रत्नानि मणयस्तथा । काभ्वनाद्यानि लोहाणि चाग्निहोत्रकृतेऽभवन् ॥५१ आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः । धर्मशास्त्रभ्य तत्सर्व मग्निहोत्रकृतेऽभवत् ॥५२

[[२०४३]]

[[२०४४]]

[ पञ्चदशो-

वृद्धगौतमस्मृतिः ।

छन्दः शिक्षाश्च कल्पाश्च तथा व्याकरणं नृप । । ज्योतिर्ज्ञानं निरुक्तञ्च ह्यग्निहोत्रकृते कृतम् ॥५३ इतिहासपुराणच गाथाश्चोपनिषद्तथा । आथर्वणानि कर्माणि अग्निहोत्रकृतेऽभवन् ॥५४ यस्यां पृथिव्यां हि किञ्चिदस्ति चराचरम् । तत्सर्व मग्निहोत्रस्य कृते सृष्टं स्वयम्भुवा ॥५५ अग्निहोत्रस्य दर्शस्य पौर्णमासस्य चाप्यथ । यूपेष्टिपशुवद्धानां सोमपानक्रियावताम् ॥२६ तिथिनक्षत्रयोगानां मुहूर्त करणात्मनाम । कालानां वेदनार्थन्तु ज्योतिर्ज्ञानं कृतं पुरा ॥५७ ऋग्यजुः साममन्त्राणां लोकचित्तार्थचिन्तनात् । प्रत्यापत्तिविकल्पार्थं छन्दोज्ञानं प्रकल्पितम् ॥५८ वर्णाक्षरपदार्थानां सुपि लिङ्गविभक्तितः । नामधातुविवेकार्थ पुरा व्याकरणं कृतम् ॥५६ यूपवेद्यध्वरार्थन्तु प्रोक्षणं ग्रहणाय तु । यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम् ॥६० यज्ञपात्र पवित्रार्थं द्रव्यसम्भरणाय च । सर्वयज्ञविकल्पाय पुरा तुल्यं प्रकल्पितम् ॥६१ नाममन्त्रविभक्तानां तत्त्वार्थनियमाय च । सर्ववेदनिरुक्तश्च निरुक्त मृषिभिः कृतम् ॥६२ वेद्यथं पृथिवी सृष्टा सम्भाराथं तथैव च । इष्मनार्थश्व यूपार्थं ब्रह्मा चक्रे वनस्पतीन् ॥६३ऽध्यायः ]

अग्निहोत्रप्रकरणवर्णनम् ।

ग्राम्यारण्याश्च पशवः सूयन्ते यज्ञकारणात् ।

मन्त्राणां विनियोगञ्च प्रोक्षणं श्रवणं तथा ॥६४

अनुयाजप्रयाजांश्च मरुतां शासिनस्तथा । उद्वानञ्चैव साम्नां वै वलिप्रस्थानमेव च ॥ ६५ विष्णुक्रमाणां क्रमणं दक्षिणावभृतं तथा । त्रिकालं चैव भूमिश ! स्थानेपूपभृतस्तथा ॥६६ श्रवणम्मोक्षणञ्चैव हविषां श्रवणन्तथा । नावतुल्यन्ति ये विप्रा निवृत्ताश्च पशोर्वशम् ॥६७ ते यान्ति नरकं घोरं रौरवं तमसावृतम् । शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः ॥६८ क्रिमिभि र्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते । यूपास्तु उक्तसंस्कारै रोषध्यः पशवस्तथा ॥ ६६ यजमानेन सहिताः स्वर्गे यान्ति नरेश्वर ! । यावत्कालं हि यज्ञो वै स्वर्गलोके महीयते ॥ ७० तावत्कालं प्रमोदन्ते पशवोह्यध्वरे हताः । वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा ॥ ७१ तृणा इच्छन्ति दर्भत्व मोषध्यश्च हविष्मताम् । सोमत्वञ्च लताः सर्वा वेदित्वञ्च वसुन्धरा ॥७२ यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गेलिप्सया । तस्मात्पशुबधे हिंसा नास्ति यज्ञेषु पाण्डव ! ॥७३ अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत् स्मृतम् । वेदोक्तं ये न कुर्वन्ति हिंसाबुध्या क्रतं द्विजाः ॥७४

!!

[[२०४५]]

[[२०४६]]

वृद्धगौतमस्मृतिः ।

[ पश्चदशो-

सद्यः शूद्रत्वमायान्ति प्रेत्य चण्डालतामपि । गावो यज्ञाथ मुत्पन्ना दक्षिणार्थं तथैव च ॥७५ सुवर्ण रजतञ्चैव पात्रिकं भार्यमेव च । दर्भसंस्करणार्थन्तु रक्षसां रक्षणाय च ॥७६ यजनार्थं द्विजाः सृष्टा स्तारका भुवि दैवताः । क्षत्रिया रक्षणार्थन्तु वैश्या वार्तानिमित्ततः ॥७७ शुश्रूषार्थं त्रयाणान्तु शूद्राः सृष्टाः स्वयम्भुवा । एवमेतत् जगत्सर्व मग्निहोत्रकृते कृतम् ॥७८ नावबुध्यन्ति ये वैतदीदृशन्तत्समावृत्तम् । ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम् ॥७६ रौरवाद्विप्रमुक्तास्तु कृमियोनिं व्रजन्ति ते । यथोक्तमग्निहोत्राणि शुश्रूषन्ति च ये द्विजाः ॥८० तैस्तु दत्तं हुतं तप्तं जप्तमध्यापितं भवेत् । एवमिष्टश्च पूर्तश्च यद्विजैः क्रियते नृप ! ॥८१ तत्सवं सम्यगाहृत्य चादित्ये स्थापयाम्यहम् । मया स्थापितमादित्ये लोकस्य सुकृतं हि यत् ॥ ८२ तारयेत्तत् सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम् । तावत्तेषां हि पुण्येन दीप्यते रविरम्बरे ॥ ८३ स्वर्गे स्वर्गं गतानान्तु वीर्याद्भवति वीर्यवान् । तत्र ते ह्यपयुज्यन्ति ह्यग्निहोत्रस्य यत् फलम् ॥८४ समानरूपा देवानां तिष्ठन्त्याभूतसंप्लवम् । वृथाग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रणः ॥८५

ऽध्यायः ]

अग्निहोत्रप्रकरणवर्णनम् ।

न तेऽग्नि होत्रिणां लोकान् मनसापि ब्रजन्ति वै । वीरघ्नास्ते दुराचाराः सुदरिद्रा नराधमाः ॥८६ विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु । तस्मात्प्रोषितके नित्य मग्निहोत्रं द्विजन्मभिः ॥८७ होतव्यं विधिवद्राजनृध्वमिच्छन्ति ते गतिम् । अमृज्यं सूत्रमेतस्मादग्निहोत्रं युधिष्ठिर ! ॥८८ न त्याज्य मप्येतद्गृहीतव्यं द्विजातिभिः । वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्विजा ॥८६ शूद्रान्नाद्विरताः सन्तः संयन्तेन्द्रियबुद्धयः । पञ्चयज्ञपरा नित्यं क्रोधलोभविवर्जिताः ॥६० द्विकाल मतिथिनचैव पूजयन्ति च भक्तितः । तेऽपि सूर्योदयप्रख्यै र्विमानै र्वायुवेगिभिः ॥ ६१ मम लोके प्रमोदन्ते दृष्टा माध्च युधिष्ठिर ! । मन्वन्तरश्च तत्रकं मोदित्वा द्विजसत्तमाः ॥ ६२ इह मानुष्यके लोके भवन्ति द्विजपुङ्गवाः । बाला हिताग्नयो ये च शूद्रान्नद्विरताः सदा ॥१३ क्रोध लोभविनिर्मुक्ताः प्रातः स्नानपरायणाः । यथोक्त मग्निहोत्रं वै जुह्वते संयतेन्द्रियाः ॥६४ संतिष्ठेद्वा सदा सौम्यो द्विकालं मत्परायणः । ते यान्त्यपुनरावृत्ति भित्वा चादित्यमण्डलम् ॥६५ मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः ।

[[1]]

तत्र बालाः ससंस्काराः कालगाः कमरूपिणः ॥६६

[[२०४७]]

[[२०४८]]

वृद्धगौतमस्मृतिः ।

[ षोड़शो-

ऐश्वर्यगुणसम्पन्नाः क्रीडन्ति च यथासुखम् । इत्येषा ह्यहिताग्नीनां विभूतिः पाण्डुनन्दन ! ॥६७ ये च वेदश्रुतिक चित् निन्द्यमाना ह्यबुद्धयः ॥ ६८

इति गौतमीये वैष्णवधर्मशास्त्रे पञ्चदशोऽध्यायः ।

षोड़शोऽध्यायः ।

अथ चान्द्रायणविधिवर्णनम् ।

युधिष्ठिर उवाच ।

चक्रायुध ! नमस्तेऽस्तु देवेश ! गरुड़ध्वज ! । चान्द्रायणविधिं पुण्य माख्याहि भगवन्मम ॥ १

श्रीभगवानुवाच ।

शृणु पाण्डव ! तत्त्वेन सर्वपापप्रणाशनम् । पापिनो येन शुध्यन्ति तत्ते वक्ष्यामि सर्वशः ॥२ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽऽचरितव्रतः । . यथावत्कर्तुकामोयस्तस्य यं प्रथमन्तु यः । शोधयेत्तु शरीरं स्वं पचगव्ये पवित्रितः ॥३ सशिरः कर्तु पक्षान्तं ततः कुर्वीत पावनम् । शुद्धवासाः शुचिर्भूत्वा मौजी बध्नीत मेखलाम् ॥४ पालाशदण्डमादाय ब्रह्मचारीव्रते स्थितः ।

कृतोपवासः पूर्वन्तु शुक्लप्रतिपदि द्विजः ॥५

ऽध्यायः ]

चान्द्रायणविधिवर्णनम् ।

[[२०४६]]

नदीसङ्गमतीर्थेषु शुचौ देशे गृहेऽपि वा ।

गोमयेनोपलिप्तेऽथ स्थण्डिलेऽग्नि निधापयेत् ॥ ६ आधारवाज्यभागौ च प्रणवं व्याहृतिस्तथा । वारुणञ्चापि पञ्चैव श्रुत्वा सर्वान्यथाक्रमम् ॥७ सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे । विश्वेभ्यश्चैव देवेभ्योऽथ प्रजापतये तथा ॥८ षट् पञ्च जुहुयात्पश्चात्प्रायश्चित्ताहुतीर्द्विजः । ततः समापयेदग्नि शान्ति कृत्वाथ पौष्टिकम् ॥६ प्रणम्याग्निश्च सोमञ्च भस्म दत्त्वा तथात्मनः । नदीङ्गत्वा विविक्तानां सोमाय वरुणाय च ॥ १० आदित्याय ततः स्नायादन्नं कृत्वा समाहितः । शुचिर्वादिकमाचम्य स्वाधीनः पूर्वतोमुखः ॥११ प्राणायामन्ततः कृत्वा पवित्रैरभिषेचनम् । आचान्तस्त्वभिवीक्षेत चोर्द्ध बाहुदिवाकरम् ॥१२ कृताञ्जलिरुपश्रान्तः कुर्याचापि प्रदक्षिणम् । नारायणं वा रुद्रं वा स्वाध्यायं ब्राह्मणन्तथा ॥ १३ आरण्यं मम सूक्तं वा प्राकू भोजनमथापि वा । वीरघ्नमृषभस्यापि तथावाप्यघमर्पणम् ॥१४ गायत्रीं मम वा देवीं सावित्रीं वा जपेत्ततः । शतं वाष्टशतं वाऽपि सहस्रमथवा परम् ॥१५ ततो मध्याह्नकालो वै पायसं यावकन्तु वा । पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः ॥१६

[[०५०]]

वृद्धगौतमस्मृतिः ।

[ षोड़शो-

ततः पात्रं समादाय सौवणं राजतन्तु वा ।

ताम्रं वा मृण्मयं वाऽपि द्यौदुम्बरमथापि वा ॥ १७ वृक्षाणां याज्ञियानान्तु पर्णै राधेर कुत्सितैः पुटकेन तु गुप्तेन चरेद्भक्षं समाहितः ॥१८ ब्राह्मणानां गृहाणान्तु सप्तान्नान्नापरं व्रजेत् । गोदोहमात्रं तिष्ठेत्तु वाग्यतः संयतेन्द्रियः ॥ १६ न हसेच न वीक्षेत नाभिभाषेत वा स्त्रियम् । विष्ठामूत्रपुरीषथ्व चण्डालं वा रजस्वलाम् ॥२० पतितश्च तथाध्वानमादित्यमवलोकयेत् । यो हि पादुकमारुह्य सर्वदा प्रचरेद्विजः ॥२१ तदृष्ट्रा पापकर्माणमादित्यमवलोकयेत् । ततस्त्वावसथं प्राप्तो भिक्षान्निक्षिप्य भूतले ॥२२ प्रक्षाल्य पादावाचम्य हस्तौ वा कोऽपरः पुनः । आचम्य वारुणान्तेन वह्निं विप्रांश्च पूजयेत् ॥ २३ पञ्च सप्ताथ वा कुर्याद्भागान् भैक्षस्य तस्य वै । तेषामन्यतमं पिण्डमादित्याय निवेदयेत् ॥२४ ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च । विश्वेभ्यश्चैव देवेभ्यो ह्यादित्याय यथाक्रमम् ॥१५ अवशिष्टमथैकन्तु वक्तुं मात्रं प्रकल्पयेत् । अङ्गुल्य स्थितं पिण्डं जायते चाभिमन्त्रयेत् ॥२६ अङ्गुलीभि स्त्रिभिः पुण्यं प्राश्नीयात्प्राङ्मुखः पुनः । यथा च वर्धते सोमो ग्रसते च तथा पुनः ॥२७

ऽध्यायः ]

चान्द्रायणविधिवर्णनम् ।

तथा पिण्डाश्च वर्धन्ते हसन्ते च दिने दिने । त्रिकालस्नानमस्योक्तं द्विकालमथवा सकृत् ॥२८ ब्रह्मचारी सदा चापि न च वस्त्रं प्रपीडयेत् । स्थाने च दिवसे तिष्ठेत् रात्रौ वीरासनं व्रजेत् ॥२६ भवेत् स्थण्डिलशायी वा ह्यथवा वृक्षमूलकः । वल्कलं यदि वा क्षौमं शाणङ्कः र्पासकन्तथा ॥ ३० आच्छादनं भवेत्तस्य वस्त्रार्थं पुरुषषंभ ! । एवञ्चन्द्रायणे पूर्ण मासस्यान्ते प्रवृत्तिमान् ॥३१ ब्राह्मणान् भोजयेद्भक्त्या दद्याच्चैव तु दक्षिणाम् । चान्द्रायणेन चीर्णेन यत्कृतम्न्तेन दुष्कृतम् ॥३२ तत्सव तत्क्षणादेव भस्मीभवति काष्ठवत् । ब्रह्महत्याथ गोहत्या सुवर्णस्तैन्यमेव तु ॥३३ भ्रूणहत्या सुरापानं गुरोर्दाख्यतिक्रमः । एवमन्यानि पापानि पतनीयानि यानि च ॥३४ चान्द्रायणेन नश्यन्ति वायुना पशवो यथा । अनिर्दशाया गोः क्षीरं मौष्ट्रमाविकमेव च ॥३५

मृतसूतक योश्चान्नं भुक्त्वा चान्द्रायश्चरेत् । मृतसूतकयोश्चान्न सुरामांसामिषं सर्पिर्लाक्षा लवणमेव च ॥३६ तैलं सोमध्य विक्रीणन् द्विजश्चान्द्रायणञ्चरेत् । एकोद्दिष्टञ्च योभुङ्क्ते योभुङ्क्त े वासनस्थितः ॥३७ भिन्नभाण्डेतु योभुङ्क्त द्विजश्चान्द्रायणश्वरेत् । आकाशस्थितहस्तोय आसनस्थस्तथैव च ॥३८

[[२०५१]]

[[५२]]

वृद्धगौतमस्मृतिः ।

परहस्तस्थितश्चैव भुक्त्वा चान्द्रायणञ्चरेत् ।

[[1]]

[ षोड़शो-

आसनस्थश्च योभुङ्क्त े शयनीयगतोऽपि वा ॥ ३६ यो भुङ्क्त े वासनस्थस्तु द्विजश्वान्द्रायणञ्चरेत । यो भुङ्क्त ऽनुपनीतेन यो भुङ्क्त े च स्त्रिया सह ॥४० यो भुङ्क्त े अन्यथा सार्द्ध द्विजश्चान्द्रायणञ्चरेत् । उच्छिष्टं स्थापयेद्विप्रो योमोहाद्भोजनान्तरे ॥४१ दद्याद्वा यदिवा स्नेहा द्विजश्चान्द्रायणश्चरेत् । तुम्बं कोशातकचैव पलाण्डुं गृञ्जनन्तथा ॥४२ छत्राकं लशुनञ्चैव जग्ध्वा चान्द्रायणध्वरेत् । तथा पर्युषितं चान्नं पक्कं परगृहागतम् ॥४३ द्विपक्कञ्च वृथामांसं जग्ध्वा चान्द्रायणञ्चरेत् । उदक्या च शुना वाऽपि चण्डालैर्वा नराधिप । ॥४४

! स्पृष्टमन्नन्तु भुञ्जानो द्विजश्चान्द्रायणञ्चरेत् । एतत्परं हि शुध्यर्थमृषिभिश्चरितव्रतम् ॥४५ पावनं सर्वपापानां पुण्यं पाण्डव ! चोत्तमम् ।

! एतेन वसवो रुद्रा आदित्याश्च दिवङ्गताः ॥४६ एतदाद्यं परं गुह्यं पवित्रं पावनं स्मृतम् । यथोक्तमेतद्यः कुर्यादुद्विजः पापप्रणाशनम् ॥४७ स दिवं याति पूतात्मा निर्मलादित्यसन्निभः ॥४८ इति गौतमीये वैष्णवधर्मशास्त्रे षोड़शोऽध्यायः ।

ऽध्यायः ]

द्वादशमासेषु धर्मकृत्यवर्णनम् ।

[[२०५३]]

सप्तदशोऽध्यायः ।

अथ द्वादशमासेषु धर्मकृत्यवर्णनम् ।

वैशम्पायन उवाच ।

केशवेनैवमाख्याते चान्द्रायणविधिक्रमे ।

पप्रच्छ पुनरप्यन्यान् धर्मान् धर्मात्मजो नृपः ॥ १

युधिष्ठिर उवाच ।

सर्वभूतहिते श्रीमन् ! सर्वभूतनमस्कृत ! ।

सर्वभूतहितं धर्मं सर्वज्ञ ! कथयस्व मे ॥२

यद्दरिद्रजनस्यापि स्वर्गं सुखकरम्भवेत् । सर्वपापप्रशमनन्तच्छृणुष्व युधिष्ठिर ! ॥३ कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः । तेष्वेकभक्तनियमः सर्वेषा मुच्यते मया ॥४ कार्तिके यस्तु वै मासे नन्दया संयतो नरः । एकभुक्त ेन मद्भक्तो मासमेकं तु वर्तते ॥५ जलपानं पिवेन्मासो नान्तराभोजनात्परम् । आदित्यरूपं मांश्चापि नित्यमध्ये समाहितः ॥६ व्रतान्ते भोजयेद्विप्रान् दक्षिणाञ्चापि तत्पुनः । क्रोधलोभविमुक्तस्य तस्य पुण्यफलं शृणु ॥७ विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम् । तत्पुण्यं समनुप्राप्य सूर्यलोके महीयते ॥८

[[२०५४]]

वृद्धगौतमस्मृतिः ।

[ सप्तदशो-

ततश्चापि च्युतः कालान् मानुषेषूपजायते । तत्र प्रकामं क्रीड़ित्वा सर्वलोकेषु पूजितः ॥६ राजराजाञ्चितोविप्रः कोटिधनपतिर्भवेत् । मार्गशीर्षे तु यो मासे एकभुक्तं न वर्तते ॥ १० कामं कोधञ्च लोभञ्च परित्यज्य यथाविधि । स्नात्वा चादित्यरूपं मामर्चयन्ति यतेन्द्रियाः ॥ ११ जपन्न ेव तु गायत्री मामिकां वाग्यतः शुचिः । मासे परिसमाप्ते तु भोजयित्वा द्विजान शुचीन् ॥१२ तानर्श्वयन्ति मद्भक्त्या तस्य पुण्यफलं शृणु । अग्निहोत्रे हुतं पुण्य माहिताग्नेस्तु यद्भवेत् ॥१३ तत्पुण्यफलमाप्नोति यानेनाम्बरयोगिना । सक्षर्षिलोके चरति यथाकामं यथासुखम् ॥१४ ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते । तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति ॥ १५ पौषमासं क्षपेदेक मेकभक्त ेन यो नरः । अर्श्वयेत्तु च मां नित्यं मद्गतेनान्तरात्मना ॥१६ अहिंसासत्यनिरतः कोधहर्षविवर्जितः ।

एवं युक्तस्य राजेन्द्र ! शृणुयाः फलमुत्तमम् ॥१७ विप्रातिथ्यसहस्रे तु यत्पुण्यं समुदाहृतम् । तत्फलं समनुप्राप्तः शक्रलोके महीयते ॥ १८ अवतोर्ण स्ततः कालादिलावर्षेषुजायते ।

तत्र स्थित्वा चिरं कालमिह विप्रो भविष्यति ॥ १६ऽध्यायः ]

द्वादशमासेषु धर्मकृत्यवर्णनम् ।

[[२०५५]]

माघमासन्तथा यस्तु वर्तते चैकभुक्ततः । ।

मदनपरो भूत्वा दम्भक्रोधविवर्जितः ।

मामिका मपि गायत्री सन्ध्यायां तु जपेदुद्विजः ॥२० दत्त्वा तु दक्षिणामन्ते भोजयित्वा द्विजानपि । नमस्करोति तान् भक्त्या मद्गतेनान्तरात्मना ॥२१ त्रिकाल स्नानयुक्तस्य तस्य पुण्यफलं शृणु । नीलकर्णाप्रयुक्तेन यानेन सचरो भवेत् ॥ २२ पितृलोकं पूजयित्वा सेव्यमानोऽप्सरोगणैः । तत्र प्रकामं क्रीड़ित्वा भद्रश्चेषूपजायते ॥२३ तत्र च्युतश्चतुर्वेदी विप्रो भवति भूतले । क्षपेत् फाल्गुनमासं य एकभुक्तेन संयतः ॥२४ नमो ब्रह्मण्यदेवायेत्यजस्रंत्रिर्जपन् सदा । पायसं भोजयेद्विप्रान् व्रतान्ते संयतेन्द्रियः ॥२५ मदनपरः क्रोधलोभमोहविवर्जितः । सदाचारव्रतपरस्तस्य पुण्यफलं शृणु ॥ २६ विमानैः सारसैयुक्तमारूढः कामगं सुखम् । नक्षत्रलोके रमते सर्वनक्षत्रशोभितः ॥२७

ततश्चापि च्युतः कालात् केतुमालेषु जायते । तत्र प्रकामं क्रीड़ित्वा मानुषे नृपतिर्भवेत् ॥ २८

चैत्रमासेषु योमत्य एक भुक्त ेन वर्तते ।

ब्रह्मचारी तु मद्भक्तस्तस्य पुण्यफलं शृणु ॥२६

[[१२६]]

[[२०५६]]

वृद्धगौतमस्मृतिः ।

[ सप्तदशो-

यदग्निहोत्रं यः पुण्यं यथोक्तव्रतचारिणः । तत्पुण्यफलमासाद्य चन्द्रलोके महीयते ॥३० ततोऽवतीर्णो जायेत वपं रमणके पुनः । भुक्त्वा कामन्ततस्तस्मिन्निह राजा भविष्यति ॥ ३१ वैशाखं यस्तु वै मास मेकमुक्तेन वर्तते । द्विजमप्रासने कृत्वा भुञ्जन भूमौ च वाग्यतः ॥३२ नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम् । व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥ ३३ फलं यद्विधिवत्प्रोक्त मग्निष्टोमातिरात्रयोः । तत्पुण्यफलमासाद्य देवलोके महीयते ॥३४ ततो हैमवते वर्षे जायते कालपर्युपान् । तत्र प्रकामं मोदित्वा विप्रः पश्चाद्भविष्यति ॥३५ ज्येष्ठमासे तु भो राजन्नेकभुक्तेन वतते । विप्रमप्रासने कृत्वा भूमौ भुञ्जन् जितेन्द्रियः ॥३६ नमो ब्रह्मण्यदेवायेत्यर्चयन्मां समाहितः । दम्भानृतविनिमुक्तस्तस्य पुण्यफलं शृणु ।

चीर्णे चान्द्रायणे सम्यक् यत्पुण्यं समुदाहृतम् ॥३७

तत्पुण्यफलमासाद्य देवलोके महीयते । अथोत्तरकुरुष्वेव जायते निर्गतस्ततः ॥ ३८

ततश्चापि च्युतः कालादिह लोके द्विजो भवेत् । आषाढमासं यो राजन्नेकभुक्तेन वर्तते ॥३६

ऽध्यायः ]

द्वादशमासेषु धर्मकृत्यवण्नम् ।

ब्रह्मचारी जितक्रोधो मदचनपरायणः ।

विप्रमग्रासने कृत्वा भुञ्जन भूमौ जितेन्द्रियः ॥४० कृत्वा त्रिषवणस्नान मष्टाक्षरविधानतः । व्रतान्ते भोजयेद्विप्रान् पायसेन युधिष्ठिर ! ॥४१

गुड़ौदनेन वा राजंस्तस्य पुण्यफलं शृणु । कपिलाशतदत्तस्य यत्पुण्यं पाण्डुनन्दन ! ॥४२ तत्पुण्यफलमासाद्य देवलोके महीयते । ततोऽवतीर्णः कालेन शाकद्वीपे प्रजायते ॥४३ ततश्चापि च्युतः कालादिह विप्रो भविष्यति । श्रावणं यः क्षपेन्मासमेकं भुङ्क्त े न संशयः ॥ ४४ नमो ब्रह्मण्यदेवायेत्युक्त्वा मा मर्चयेत्सदा । विप्रमप्रासने कृत्वा भूमौ भुजन्यथाविधि ॥४५ पायसेनाचैयन्विप्रान् जितक्रोधो जितेन्द्रियः । लोभमोह विनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥४६ कपिलाशतस्य यत्पुण्यं विधिदत्तस्य वासव ! । तत्पुण्यं समनुप्राप्तः शक्रलोके महीयते ॥४७ ततश्चापि च्युतः कालात् कुशद्वीपे प्रजायते । तत्र प्रकामं क्रीड़ित्वा विप्रो भवति मानुषे ॥४८ यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते 1

ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः ॥४६ विप्रमप्रासने कृत्वा पाकभेदविवर्जितः ।

नमो ब्रह्मण्यदेवायेत्युक्तत्वा सुचरणौ स्पृशेत् ॥५०

[[२०५७]]

[[२०५८]]

वृद्धगौतमस्मृतिः ।

[ सप्तदशो-

तिलान्वाथ घृतं वाऽपि व्रतान्ते दक्षिणां दिशेत । मद्भक्तस्य नरश्रेष्ठ! तस्य पुण्यफलं शृणु ॥ ५१ यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः । तत्पुण्यफलमासाद्य शक्रलोके महीयते ॥५२ ततश्चापि च्युतः कालाज्जायते धनदालये । तत्र प्रकामं क्रीड़ित्वा राजा भवति मानुषे ॥५३ यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते । यद्गायत्रीं जपन्त्रिप्रो मनतेनान्तरात्मना ॥५४ द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टशतन्तु वा । विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः ॥५५ व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु । अश्वमेधेन यत्पुण्यं विधिवत्पाण्डुनन्दन ! ॥५६ तत्पुण्य फलमासाद्य मम लोके महीयते । ततश्चापि च्युतः कालात् श्वेतद्वीपे प्रजायते ॥५७ तत्र भुक्त्वा महान् भोगांस्तत्र विप्रा हि जायते ॥ ५८ इति गौतमीये वैष्णवधर्मशास्त्रे सप्तदशोऽध्यायः ।

ऽध्यायः ]

एकभुक्त पुण्यफलवर्णनम् ।

[[२०५६]]

अष्टादशोऽध्यायः ।

अथैकभुक्त पुण्यफलवर्णनम् ।

युधिष्ठिर उवाच ।

देव ! संवत्सरं पुण्यमेकभुक्तेन यः क्षपेत् । तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव ! ॥१

श्रीभगवानुवाच ।

शृणु पाण्डव ! सत्यं मे वचनं पुण्यमुत्तमम् । यच्छ्र ुत्वा वाथ कृत्वा वा नरः पापैर्विमुच्यते ॥२ एकभुक्तेन वर्तेत नरः संवत्सरन्तु यः । ब्रह्मचारी सदा शान्तो जितक्रोधो जितेन्द्रियः ॥३

शुचिः स्नानरतोऽव्ययः सत्यवागनसूयकः । अर्चत्येव तु मां नित्यं मद्रतेनान्तरात्मना ॥४ सन्ध्ययोस्तु जपेन्नित्यं मद्गायत्रीं समाहितः । नमो ब्रह्मण्यदेवायेत्य सकृन्मां प्रणम्य च ॥५ विप्रमग्रासने कृत्वा पावकं भैक्षमेव वा । भूत्वा तु वाग्यतो भुक्त्वा वाचम्यास्य द्विजन्मनः ॥६ नमोऽस्तु वासुदेवायेत्युक्तत्वा तु चरणं स्पृशेत् ।

मासे मासे समाते तु भोजयित्वा द्विजः शुचीन् ॥७ सम्वत्सरे ततः पूर्णे दद्यात्तु घृतदक्षिणाम् ।

नवनीतमयीं गां वा तिलधेनुमथापि वा ॥८

[[२०६०]]

वृद्धगौतमस्मृतिः ।

[ अष्टाद‍

विप्रहस्तच्युतस्तोयैः सहिरण्यैः समुक्षितः ।

तस्य पुण्यफलं राजन् ! कथ्यमानं मया शृणु ॥ दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोऽपि वा ।

तद्विन्यश्यति तस्याशु नात्र कार्या विचारणा ॥ १०

युधिष्ठिर उवाच ।

सवषामुपवासानां यज्ञे यत सुमहाफलम् । तत्सर्वं श्रेयसे लोकं तद्भवान् वक्तुमर्हति ॥११

श्रीभगवानुवाच ।

श्रृणु राजन् ! यथापूर्वं यथाहीनन्तु भारत ! । कथान्ते कथयिष्यामि मद्भक्तस्य युधिष्ठिर ! ॥१२ यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप ! । उपवासकृतं कुर्यात्त्रिकालवाचयस्तु माम ॥१३ सवं क्रतुफलं लब्ध्वा मम लोके महीयते ॥ १४

युधिष्ठिर उवाच ।

भगवन् ! देवदेवश ! पश्चमी नामका तिथिः । तामहं श्रोतुमिच्छामि कथयस्व ममाच्युत ! ॥१५

श्रीभगवानुवाच ।

पवद्वयञ्च द्वादश्यां श्रवणश्च नराधिप । ।

!

मत्पञ्चमीति विख्याता मत्प्रियश्च विशेषतः ॥१६

तस्माद्भागवतैर्भुक्तैर्मन्निवेशितबुद्धिभिः ।

उपवासस्तु कर्तव्यो मत्प्रियार्थं युधिष्ठिर ! ॥१७

ऽध्यायः ]

उपवासव्रत फलवर्णनम

द्वादश्यामेव वा कुर्यादुपवासमशक्नुवन् ।

तेनाहं परमां प्रीतिं यास्यामि नरपुङ्गव ! ॥१८ अहोरात्रेण द्वादश्यां मागशीर्षे च केशवम । उपोष्य पूजयेद्यो मां सोऽश्वमेधफलं लभेत् ॥१६ द्वादश्यां पौषमासे तु भक्त्या नारायणन्तु माम् । उपोष्य पूज्य सद्यः स वाजपेयफलं लभेत् ॥ २० द्वादश्यां माघमासे तु मामुपोष्य तु माधवम् । पूजयेद्यः समाप्नोति पौण्डरीकफलं नृप ! ॥२१ उपोख्य मां यो वैशाख्यां द्वादश्यां मधुसूदन ! । पूजयन् फलमाप्नोति सोऽग्निष्टोमस्य पाण्डव ! ॥२२ द्वादश्यां ज्येष्ठमासे मां समुपोप्य त्रिविक्रमम । अर्चयेद्यः समाप्नोति गवां मेधफलं नृप ! ॥२३ आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य यत् । पूजयेन्नरमेधस्य तत्फलं प्राप्नुयान्नृप ! ॥२४ द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम् । पूजयेद्यः समाप्नोति पञ्चयज्ञफलं नृप ! ॥२५ मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत् । उपोष्य पुनराप्नोति सौत्रामणिफलं नृप ! ॥२६ द्वादश्या माश्वासे पद्मनाभमुपोष्य माम् । अर्चयेद्यः समाप्नोति गोसहस्रफलं नृप ! ॥२७ द्वादश्यां कार्तिके मासि मां दामोदरसंश्रितम् । उपोष्य पूजयेद्यः स सर्वक्रतुफलं लभेत् । केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन ! ॥२८

[[२०६१]]

[[२०६२]]

वृद्धगौतमस्मृतिः ।

[ अष्टादशो-

फलं यत्पूर्व मुद्दिष्टन्तस्याद्धं लभते फलम् । श्रवणेऽप्येवमेवं मां योऽर्च्चयेद्भक्तिमान्नरः ॥२६ मम सालोक्य मायाति नात्र कार्या विचारणा । मासे मासे समभ्यर्च्चय योनरो मामतन्द्रितः ॥ ३० एवं द्वादशवर्षाणि मद्भक्तो मत्परायणः । अविघ्न ममानस्तु मम सालोक्यमाप्नुयात् ॥ ३१ अभ्यस्येत्प्रीतिमान् सम्यक् द्वादश्यां वेदसंहिताम् । स पूर्वोक्तफलं राजन् ! लभते नात्र संशयः ॥ ३२ गन्धं पुष्पं फलं तोयं पत्रं वा मूलमेव वा । द्वादश्यां मम यो दद्यात्ततो नैवास्ति मत्प्रियः ॥३३ एतेन विधिना सर्वे देवाः शक्रपुरोगमाः । मद्भक्ता नरशार्दूल ! स्वर्गलोकांस्तु भुञ्जते ॥ ३४

वैशम्पायन उवाच ।

एवं वदति देवेशे केशवे पाण्डुनन्दनः ।

कृताञ्जलिपुटं न्यस्त्य मिदं भक्त्या ह्युवाच ह ॥३५ युधिष्ठिर उवाच ।

यज्ञात्मन्यज्ञसम्भूत ! यज्ञनाथ नमोनमः । चतुर्मूर्ते ! चतुर्बाहो ! चतुर्व्यूह ! नमोनमः ॥३६ लोकात्मन् ! लोकनाथेश ! लोकवास ! नमोनमः । सर्वज्ञ ! सर्वलोकेश ! हृषीकेश ! नमोनमः ॥३७ सहस्रशिरसे तुभ्यं सहस्र क्ष ! नमोनमः । पञ्चयज्ञ ! नमस्तेऽस्तु सर्वयज्ञ ! नमोनमः ॥३८

ऽध्यायः ]

युधिष्ठिरकृत विष्णोः स्तुतिवर्णनम् ।

त्रयीमय । त्रयीनाथ ! त्रयीलभ्य । नमोनमः ।

!

सृष्टिसंहारकर्तेति नारसिंह ! नमोनमः ॥३६ भक्तप्रिय ! नमस्तेऽस्तु सोमनाथ ! नमोनमः ।

हयवक्त नमस्तेऽस्तु चक्रपाणे ! नमोनमः ॥४० पञ्चभूत ! नमस्तेऽस्तु पश्चायुध ! नमोनमः ॥४१

वैशम्पायन उवाच ।

भक्तिगद्गदया वाचा स्तुवन्नेव युधिष्ठिरः । गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत् ॥४२ निवार्य च पुनर्वाचा भक्तिनम्रं युधिष्ठिरम् । वक्तुमेव नरश्रेष्ठं धर्मपुत्रं प्रचक्रमे ॥४३

श्रीभगवानुवाच ।

अन्यवत्किमिदं राजन्मां स्तौसि नरपुङ्गव ! । तिष्ठ पृच्छ यथापूर्वं धर्मानेव युधिष्टिर ! ॥४४

युधिष्ठिर उवाच ।

भगवन् ! त्वत्प्रसादं तु स्मृत्वा स्मृत्वा पुनः पुनः । न शान्तिरस्ति देवेश ! नृत्यतीव च मे मनः ॥४५ इदञ्च मम संप्रश्नं वक्तुमर्हसि माधव ! । द्वादश्यां कृष्णपक्षे तु अर्चनीयः कथं भवेत् ॥४६

श्रीभगवानुवाच ।

शृणु राजन् ! यथातथ्यं तत्सर्व कथयामि ते ।

माहात्म्यं कृष्णद्वादश्या मर्चनीयम् फलं मम ॥४७

[[२०६३]]

[[२०६४]]

वृद्धगौतमस्मृतिः ।

[ उनविंशो-

एकादश्या मुपोष्याथ द्वादश्यामचयेत्तु माम् । विप्रानपि यथालाभं भोजयेद्भक्तिमान्नरः ॥ ४८ स गच्छेद्दक्षिणामूर्तिर्माश्च नात्र विचारणा । चन्द्रसालोक्य मथवा ग्रहनक्षत्रपूजितः ॥४६

इति गौतमीये वैष्णवधर्मशास्त्रे अष्टादशोऽध्यायः ।

ऊनविंशोऽध्यायः ।

अथ दानफलवर्णनम् ।

वैशम्पायन उवाच ।

केशवेनंव माख्याते धर्मपुत्रः पुनः प्रभुम् ।

पप्रच्छ दानकालस्य विशेषभ्व विधिं नृपः ॥१

युधिष्ठिर उवाच ।

देवकीफलमाख्यातं विषुवेष्वमरेश्वर ! । सूर्ययज्ञलवे चैव दत्ते दाने च किं फलम् ॥२

श्रीभगवानुवाच ।

शृणुष्व राजन् ! विषुवे सोमार्कग्रहणेषु च । व्यतीपातेऽयने चैव दानं स्यादक्षयन्नृप ! ॥३ राजन्नयनयोर्मध्यं विषुवं संप्रचक्षते ।

समरात्रिदिने तत्र सन्ध्यायां विषुवे नृप ! ॥४ऽध्यायः ]

दानफलवर्णनम् ।

ब्रह्माहं शङ्करश्चापि तिष्ठामः सहिता स्ततः । तस्मिन् मुहूर्ते ते सर्वे चिन्तयन्तः परं पदम् ॥५ शक्रश्च पितरोरुद्रावसवश्चाश्विनौ तथा । साध्या विश्वे सगन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा ॥६ सोमो ग्रहगणश्चव सागराः सरितस्तथा । मरुतोऽप्सरसो नागा यक्षराक्षसगुह्यकाः ॥७ एते चान्ये च राजेन्द्र ! विषुवे संयतेन्द्रियाः । सोपवासाः प्रयत्नेन भजन्ते ध्यानतत्पराः ॥८ अन्न’ गावस्तिलान् भूमिं कन्यादानं तथैव च । गृहमाच्छादनं धान्यं वाहनं शयनं तथा ॥ यच्चान्यच्च मया नोक्तं तत्प्रयच्छ युधिष्ठिर ! । दीयते विषुवे चैव श्रोत्रियेभ्यो विशेषतः ॥ १० तस्य दानस्य कौन्तेय ! क्षयो नैवोपपद्यते । वर्धते हरतः पुण्यं तद्दानं कोटिसम्मितम् । विषुवे स्त्रापनं यस्तु मम कुर्याद्धरस्य वा ॥ ११ अर्थनाश्च यथान्यायं तस्य पुण्यफलं शृणु । दशजन्मकृतं पापं तस्य सद्यो विनश्यति ॥१२ दशाना मश्वमेधाना मिष्टानां लफते फलम् । विमानं दिव्यमारूढः कामरूपी यथासुखम् ॥१३ स याति कामगं लोकं रुद्रलोक मथापि वा । तत्र वै देवगन्धर्वे गीयमानो यथासुखम् । दिव्यवर्षसहस्राणि कोटिमेकन्तु मोदते ॥१४

[[२०६५]]

[[२०६६]]

वृद्धगौतमस्मृतिः ।

ततश्चापि च्युतः कालादिह लोके द्विजोभवेत् । चतुर्णामपि वेदानां पारगो ज्ञानविद्भवेत् ॥१५ चन्द्रसूर्यग्रहे यान्ति मम वा शङ्करस्य वा ।

गायते मम वा राजन् ! जपेद्वा शङ्करस्य वा ॥ १६ शङ्ख कुर्वन्ति नादैश्च कांस्यघण्टाध्वनेरपि । कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं महत् ॥ १७ गान्धर्वै हमजाप्यैश्च शब्दैरुत्कृष्टादिभिः । दुर्बलोऽभिभवेद्राहुः सोमश्च बलवान् भवेत् ॥१८ सूर्येन्दुपप्लवे यद्वै श्रोत्रियेभ्यः प्रदीयते । तत्सहस्रगुणं भूत्वा दातार मुपतिष्ठति ॥ १६ महापातकसंयुक्तो यद्यपि स्यान्नरो नृप ! । निर्लेप स्तत्क्षणादेव तेन दानेन जायते ॥ २० चन्द्रसूर्यप्रकाशेन विमानेन विराजता ।

याति सोमपुरं रम्यं सेव्यमानोऽप्सरोगणैः ॥२१ यावन्नृक्षाणि तिष्ठन्ति गगने शशिना सह । तावत्कालं स राजेन्द्र । सोमलोके महीयते ॥२२

!

ततश्चापि च्युतः कालादिह लोके युधिष्ठिर ! । वेदवेदाङ्गविद्विप्रः कोटीधनपति र्भवेत् ॥२३

युधिष्ठिर उवाच ।

भगवं स्तव गायत्री जप्यते तु कथं नृभिः ।

[ उनविंशो-

किं वा तस्याः फलं देव ! ममाचक्ष्वसिताम्बर ! ॥२४

ऽध्यायः ]

गायत्रीमन्त्रजपफलवर्णनम् ।

[[२०६७]]

श्रीभगवानुवाच ।

द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा । अयने श्रवणे चैव व्यतीपाते तथैव च । अश्वत्थदर्शने चैव तथा मद्दर्शनेऽपि च ॥ २५ जध्यात्तु मम गायत्री मथवाष्टाक्षरन्नृप ! । आजन्म दुष्कृतत्तस्य नाशयेन्नात्र संशयः ॥२६

युधिष्ठिर उवाच ।

अश्वत्थदर्शनं देव ! किं त्वदर्शितसन्निभम् । एतत्कथय देवेश ! परं कौतूहलं हि मे ॥ २७

श्रीभगवानुवाच ।

अहमश्वत्थरूपेण पालयामि जगत्त्रयम् । अश्वत्थो न स्थितो यत्र नाहन्तत्र प्रतिष्ठितः ॥ २८ यत्राहं न स्थितो राजनश्वत्थश्चापि तत्र न । यस्त्वेन मर्च्चयेद्भक्त्या मांस साक्षात्ममार्चति ॥ २६ यस्त्वेनं प्रहरेत्को पान्मामेव प्रहरेत्तु सः । तस्मात्प्रदक्षिणं कुर्यान्नभिवादेन प्रत्यहम् ॥३० गावोविप्रास्तथाश्वत्थो मम रूपं युधिष्ठिर ! । एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित् ॥ ३१ अवमानितं चेत्तु हन्याद्दहत्या सप्तमं कुलम् । अश्वत्थोत्राह्मणोगावो मन्मया स्तारयन्ति हि । तस्मादेतत्प्रयत्नेन राजन् ! पूजितु महसि ॥ ३२

[[२०६८]]

वृद्धगौतमम्मृतिः ।

[ ऊनविंशो-

युधिष्ठिर उवाच ।

ब्राह्मणम्वेन देहेन शूद्रत्वं कथमाप्नुयात् ।

ब्रह्म वा नश्यति कथं तद्देव ! वक्तु मर्हसि ॥३३

श्रीभगवानुवाच ।

अपनानन्तु यो विप्रः कुर्याद् द्वादशवार्षिकम् । स तेनैव शरीरेण शूद्रत्वं याति पाण्डव ! ॥३४ शूद्रग्रामे तथाप्येको वसेद्वा दशवार्षिकम् । ग्रहोक्तमपि कुर्वीत शूद्रत्वं याति वै द्विजः ॥३५ यस्तु राजाश्रयेणैव जीवेद् द्वादशवार्षिकम् । स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगो यदि ॥ ३६ वर्तते नगरे वाऽपि यो वा द्वादशमावसेत् । स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा ॥३७ उत्पादयति यत्पुत्रं शूद्रायां कामतोद्विजः । तस्य कायगतं ब्रह्म सर्वमेव विनश्यति ॥ ३८ मद्यपस्त्रीमुखं मोहादास्वादायति यो द्विजः । तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ ३६ मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप ! । तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥४० यः सोमलतिकां विप्रः केवलं भक्षयेद् वृथा । तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥४१ विप्रत्वं दुर्लभं प्राप्त वै मार्गे रेवमादिभिः । विनाशयन्तु यत्तत्तु तज्जोवापि युधिष्ठिर ! ॥४२

ऽध्यायः ]

नीथलक्षणवर्णनम् ।

C

तस्मात्सर्वप्रयत्नेन मत्प्रियार्थं युधिष्ठिर ! ।

जातिभ्रंशकरं कर्म न कुर्यात् सदृशो द्विजः ॥ ४३ इति गौतमीये वष्णवधर्मशास्त्रे एकोनविंशतिरध्यायः ।

विंशोऽध्यायः ।

अथ तीर्थलक्षणवर्णनम् ।

युधिष्ठिर उवाच ।

देशान्तरे गते विप्रे संयुक्त कालधर्मणा । शरीरनाशे संप्राप्ते वृथा विप्रप्रकल्पना ॥१

श्रीभगवानुवाच ।

श्रूयतामाहिताग्नेस्तु तथावृत्तस्य संस्क्रिया । पलाशवृन्दैः प्रतिमा कर्तव्या कल्पचोदिता ॥२ श्रीणि षष्टिशतान्याहुरस्थीन्यस्य नराधिप ! । तेषां विकल्पना कार्या यथाशास्त्रविनिश्चयम् ॥३ अशीत्यर्थ तु शिरसि ग्रीवा वा दश एव च । वाह्वोश्वापि शतं दद्यादङ्गुलीषु पुनर्दश ।

शिरसि त्रिशतं दद्याज्जाठरे वाऽपि विंशतिम् ॥४ वृषणे द्वादशार्थन्तु शिश्ने चाष्टार्द्धमेव च । दद्यात्तु शतमुर्वोस्तु षष्ठाधं जानुजङ्घन्योः ॥५

[[२०६६]]

[[२०७०]]

वृद्धगौतमस्मृतिः ।

[ विंशो-

दश दद्याच्चरणयोरेषा प्रेतविकल्पना ।

एवं विकल्पनां कृत्वा कुर्याद्विप्रस्तु संस्क्रियाम ॥६

युधिष्ठिर उवाच ।

विशेषतीर्थं सर्वेषां संशुद्वानामनुग्रहात् । भक्तानान्तारणार्थं वै वक्तुमर्हसि धर्मतः ॥७

श्रीभगवानुवाच ।

प्रव (a) शं सर्वतीर्थानां सत्यङ्गायन्ति सामगाः । सत्यमवचनन्तीर्थं हिंसातीर्थं समुच्यते ॥८ दानन्तीर्थ दद्यातीर्थ शीलतीथं युधिष्ठिर ! । अर्थसन्तोषणन्तीर्थं नारीतीथं पतिव्रता ॥ सन्तुष्टो ब्राह्मणस्तीर्थं ज्ञानं वै तीर्थमुच्यते । मद्भक्ताः सततं तीर्थं यतयस्तीर्थमुच्यते ॥१० शरण्यः पुरुषस्तीथमन्नं तत्तीर्थमुच्यते । आतिथेयः परन्तीर्थ मतिथीस्तीर्थमुच्यते ॥ ११ व्रतस्य धारणन्तीर्थ मार्जवन्तीर्थमुच्यते । देवशुश्रूषणन्तीर्थं गुरुशुश्रूषणन्तथा ॥१२ द्विजशुश्रूषणन्तीर्थं तीर्थं ज्ञानस्य धारणम् । दारसन्तोषणं तीर्थङ्गतं सन्तीर्थमुच्यते ॥ १३ ब्रह्मचर्यं परन्तीर्थं त्रेताग्निस्तीर्थमुच्यते । मूलधर्मः स विज्ञेय मनस्तत्रैव वा युतम् ॥१४ गच्छं स्तीर्थानि कौन्तेय । धर्मोधर्मेण वर्तते ।

!

द्विविधन्तीर्थमित्याहुः स्थावरं जङ्गमन्तथा ॥१५

ऽध्यायः ]

रहस्य प्रायश्चित्तवर्णनम् ।

[[२०७१]]

स्थावरजङ्गमं श्रेष्ठं तत्त्वेज्ञानपरिग्रहात् । कर्मणा हि विशुद्धस्य पुरुषस्यैव भारत ! ॥१६ हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते । गुरुतीर्थपरं ज्ञान मतस्तीर्थं न विद्यते ॥१७ ज्ञानतीर्थन्तपस्तीर्थं ब्रह्मतीर्थं सनातनम् । क्षमा तु परमन्तीर्थं सर्वतार्थेषु पाण्डव ! ॥१८ क्षमावतामयं लोकः परश्चैव क्षमावताम् । मानितोऽमानितोवापि पूजितोऽपूजितोऽपि वा । आकृष्टस्ताडितो वाऽपि क्षमावां स्तीर्थमुच्यते ॥१६ क्षमा दमः क्षमा दानं क्षमा सत्यं क्षमा तपः ।

क्षमा हिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः ॥२० क्षमा दया क्षमा यज्ञः क्षमा धैर्ययुतं जगत् ।

क्षमावान् प्राप्नुयात् स्वर्गं क्षमावान् प्राप्नुयाद्यशः ॥ २१ क्षमावान् प्राप्नुयान्मोक्षं क्षमावां स्तीर्थमुच्यते ॥२२

आत्मा नदी भारत ! पुण्यतीथं नत्वा तीर्थं सर्वतीर्थ प्रधानः । श्रुत्वा तीर्थं सर्वमात्मन्यथोः स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ॥२३

आचारवक्त्रान्तरगात्रशोभिना सत्यप्रसन्नेन मनोहरेण ।

ज्ञानाम्बुना स्नाति च योहि नित्यं किन्तस्य भूयः सलिलेन कृत्यम् ॥२४

युधिष्ठिर उवाच ।

भगवन् ! सर्वपापघ्नं प्रायश्चित्तमनुत्तमम् ।

त्वद्भक्तस्य नरश्रेष्ठ ! मम वक्तुं त्वमर्हसि ॥२५

[[१३०]]

[[२०७२]]

वृद्धगौतमस्मृतिः ।

रहस्यमिदमत्यर्थं न श्राव्यं पापकर्मणाम् । अवैष्णवानामश्राव्यं प्रायश्चित्तं ब्रवीमि ते ॥ २६ वामनं ब्राह्मणं दृष्ट्रा महतेनान्तरात्मना । नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत् ॥२७ प्रदक्षिणन्तु त्रिः कुर्यात् पुनरष्टाक्षरेण तु । तेन तुष्टो नरश्रेष्ठ ! तत्पापं क्षपयाम्यहम् ॥२८ पोत्रघृष्टां वराहस्य मृत्तिकां शिरसा वहन् । प्राणायामशतं कृत्वा नरः पापैर्विमुच्यते ॥ २६ दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गमेव च ।

प्रातः स्नातो नदीं गत्वा मम सूक्तेन शंसतः ॥ ३० सलिलेन तु यः स्नायात् सतिलेन रविग्रहे । तस्य यत्सञ्चितं पापन्तत्क्षणादेव नश्यति ॥३१ मस्तकानि सृतैस्तोयैः कपिलाया युधिष्ठिर ! । गोमूत्रेणापि यः स्नायाद्गौहिंस्यान् ममवादिनः ॥ ३२ विप्रपादच्युतैर्वापि तोयैः पापं प्रणश्यति । नमस्यैयस्तु मद्भक्त्या शिशुमारप्रजापतिम् ॥३३ चतुर्दशाङ्गयुक्तस्य तस्य पापं प्रणश्यति । ततश्चतुर्दशाङ्गानि शृणु तस्य नराधिप ! ॥३४

शिरो धर्मो हनू ब्रह्म यज्ञमुत्तरदक्षिणौ ।

हृदयन्तु भवेद्विष्णुहस्तौ स्यातान्तथाश्विनौ ।

अत्रिमध्यं भवेद्राजन् ! लिङ्गं संवत्सरो भवेत् ॥ ३५

[ विंशो-

ध्यायः ]

रहस्य प्रायश्रित्तवर्णनम् ।

[[२०७३]]

मित्रावरुणकौ पादौ पुच्छमूलं हुताशनः ।

ततः पश्चाद्भवेदिन्द्रः ततः पश्चात्प्रजापतिः ॥३६ अभयञ्च ततः पश्चात् स एव ध्रुवसंज्ञितः । एतान्यङ्गानि सर्वाणि शिशुमारप्रजापतेः ॥३७ पिवेत्तु पञ्चगत्र्यं यः पौर्णमास्यामुपोषितः । तस्य नश्यति तत्सर्वं यत्पापं पूर्वसंज्ञितम् ॥३८ अथव ब्रह्मकूचन्तु समन्त्रं तु पृथक् पृथक् । मासि मासि पिवेद्यस्तु तस्य पापं प्रणश्यति ॥३६ पात्रश्च ब्रह्मकूर्चस्य शृणु मन्त्रश्च भारत ! । पलाशं पद्मपत्रं वा ताम्रं वाथ हिरण्मयम् ॥४० सादयित्वा तु गृह्णीयान्तत्तु पात्रमुदाहृतम् । गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् ॥४१ आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । आज्यं शुक्रमसीत्येव देवस्येति कुशोदकम् । आपोहिष्ठेति संगृह्य यवचूर्णं यथाविधि ॥४२ ब्रह्मणे च तथाहुत्वा समिद्धे तु हुताशने । आलोभ्य प्रणवेनैव निर्मथ्य प्रणवेन तु ॥ ४३

उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन तु । महतापि स पापेन त्वचेवाहिर्विमुच्यते ॥ ४४ इन्द्रान इति यः पादं पठेद्यः संहितामिमाम् । अन्तर्जलेऽथवादित्ये तस्य पापं प्रणश्यति ॥४५

[[२०७४]]

वृद्धगौतमस्मृतिः ।

[ एकविंशो-

मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः ।

न स पापेन लिप्येत पद्मपत्रमिवाम्भसा ॥४६

इति गौतमीये वैष्णव धर्मशास्त्रे रहस्य प्रायश्चित्तं नाम विंशोऽध्यायः ।

एकविंशोऽध्यायः ।

अथ भक्त्यार्चन विधिवर्णनम् ।

युधिष्ठिर उवाच ।

कीदृशा ब्राह्मणाः पुण्या भावसिद्धाः सुरेश्वर ! । तत्कर्म सफलं वेति कथयस्व ममाच्युत ! ॥ १

श्रीभगवानुवाच ।

शृणु पाण्डव ! तत्सव ब्राह्मणानां यथाक्रमम् । सफलं निष्फलब्चेति तेषां कर्म ब्रवीमि ते ॥२ त्रिदण्डधारणं मौनं जटाधारणमुण्डनम् । वल्कलाजिन सर्वशो व्रतचर्याभिषेचनम् ॥३ अग्निहोत्रं वनेवासः स्वाध्यायो ध्यानसंस्क्रिया । सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः ॥४ अग्निहोत्रं पृथा राजन् ! वृथा वेदास्तथैव च । शीलो देवास्तु तुष्यन्ति श्रूयतां तत्र कारणम् ॥५२०७५

ध्यायः ]

भक्त्याचन विधिवर्णनम् ।

क्षान्ती दान्ती जितक्रोधी जितात्मानं जितेन्द्रियम् । तमेव ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः ॥ ६ अग्निहोत्रव्रतपरान् स्वाधायनिरतान शुचीन् । उपवासरतान् दान्ता स्तान्देवा ब्राह्मणा विदुः ॥ ७ न जातिः पूज्यते राजन् ! गुणाः कल्याणकारकाः । चण्डालमपि वृत्तस्थं तन्देवा ब्राह्मणं विदुः ॥८ मनः शौचं कर्मशौचं कुलशौचञ्च भारत ! । शरीरशौचं वाक्शौचं शौचं पञ्चविधं स्मृतम् ॥ पथ्वष्वेषु च शौचेपु धृतिशौचं विशिष्यते । हृदयस्य तु शौचेन स्वगं गच्छन्ति मानवाः ॥ १० अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रये । वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः ॥११ यस्य वेदश्रुनिर्नष्टा कर्षकचापि यो द्विजः । विकर्मस्थोऽपि कौन्तेय ! स वै वृषल उच्यते ॥१२ वृषो धर्मो हि विज्ञेयस्तस्य यः कुरुते लयम् । विषदन्तं विदुर्देवा निन्दितं श्वपचादपि ॥१३ स्तुतिभिः ब्रह्मपूर्वाभिर्यश्चन्द्रं स्तौति मान्नृप ! ।

न च मां स्तौति पापात्मा स मामाक्रोशते भृशम् ॥१४ श्वच्छ्रितौ च यथा क्षीरं ब्रह्म वै वृषले तथा । अदुष्टो दुष्टतामेति शुना स्पृष्टं हविर्यथा ॥ १५ अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरम् । धमशास्त्रपुराणानि विद्या होताश्चतुर्दश ॥ १६

[[२०७६]]

[ एकविंश-

वृद्धगौतमस्मृतिः ।

यान्युक्तानि मया सम्यक् विद्याजन्मानि भारत ! ।

उत्पन्नानि पवित्राणि पावनार्थन्तथैव च ॥ १७ तस्मात्तानि न शूद्राय स्पृष्टव्यानि युधिष्ठिर ! । सर्व तच्छूद्रसंस्पृष्टं न पवित्रं न संशयः ॥ १८ लोके त्रीण्यपवित्राणि पञ्चामेध्यानि भारत ! । वा शूद्रश्च श्वपाकश्वत्यपवित्राणि पाण्डव ! ॥१६ देवलः शुक्रकीटो यूप उदक्या वृषलीपतिः । पञ्चैते स्युरमेध्याश्च न स्पृष्टव्याः कथञ्चन ॥२० पृष्टृतान्यष्ट वै विप्रः सचैलो जलमाविशेत् । मद्भक्तान् शूद्रसामान्यादवमन्यन्ति ये नराः । नरकेष्वेव तिष्ठन्ति वर्षकोटि नराधमाः ॥ २१ चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् । अवमन्य पतत्येव नरके रौरवे नरः ॥२२ मम मद्भक्तभक्तेषु सम्मतिर्ह्यधिका भवेत् । तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ॥२३ कीटपक्षिमृगाणाञ्च मयि सन्न्यस्तचेतसाम् । ऊष्वमेव गति विद्धि किं पुनर्ज्ञानिनान्नृप ! ॥२४ पत्रं वाप्यथवा पुष्पं फलं वा तोयमेव वा । ददाति मम शूद्रोऽपि शिरसा धारयामि तम् ॥२५ विप्रानेवार्चयेद्भक्त्या शूद्रः प्राणैश्च मत्प्रियः । तेपान्तेनैव रूपेण पूजां गृह्णामि भारत ! ॥२६

ऽध्यायः ]

शूद्रधर्मवर्णनम्

वेदोक्तेनैव मार्गेण सर्वभूतहृदि स्थितम् ।

मामर्चयन्ति ये विप्राः सायुज्यं यान्ति ते मम ॥२७

परित्राणाय भक्तानां प्रादुर्भावः कृतोमया । प्रादुर्भावाकृतिः काचिदर्चयेत्तां युधिष्ठिर ! । आसामन्यातमं मूर्ति यो भक्त्या च समर्चति ॥ २८ तेनैव परितुष्टोऽहं भविष्यामि न संशयः । मृदा च मणिरत्नैश्च ताम्रण रजतेन वा ॥२६ कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा । पुण्यं दशगुणं दद्यादेतेषामुत्तमोत्तमम ॥३० जयकामोऽर्चयेद्राजा विद्याकामो द्विजोत्तमः । वैश्योऽपि धनकामस्तु शूद्रः पुण्यफलप्रियः ॥ ३१ सर्वकामाः स्त्रियो वाऽपि सर्वान् कामान्नवा’ नुयुः ॥ ३२

इति गौतमीये वैष्णव धर्मशास्त्रे भक्त्यार्चनविधिर्नाम एकविंशोऽध्यायः ।

द्वाविंशोऽध्यायः ।

अथ शूद्रधर्मवर्णनम् ।

युधिष्ठिर उवाच ।

कीदृशानान्तु शूद्राणां नानुगृहासि वार्चनम् ।

उद्वेग स्तत्र कस्मात्तु तद् ब्रवीहि सुरोत्तम । ॥ १

[[२०७७]]

[[२०७८]]

वृद्धगौतमस्मृतिः ।

[ द्वाविंशो

श्रीभगवानुवाच ।

अवृतेनाप्यभक्तेन स्पृष्ट्रा शूद्रेण याचना ।

तां वर्जयामि यत्नेन श्वपाकविहितामिव ॥ २ त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन । दिवा वा यदि वा रात्रा वुद्विग्नं कुरु लाघवात् ॥ ३ न भवेद्देवदैत्येभ्यो रक्षोभ्यश्चैव यो नृप ! । शूद्रवक्त्राचिताद्वेदाद्भयन्तु सुमहन्मम । तस्मात्सप्रणवं शूद्रोमन्त्रं मे नैव कीर्तयेत् ॥४ प्रणवं हि परं ब्रह्म नित्यं ब्रह्मविदो विदुः । द्विजशुश्रूषणं धर्मं शूद्राणां भक्तितो मयि ॥५ ते न गच्छन्ति वें स्वर्ग चिन्तयन्तो हि मां सदा । द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति ॥ ६ द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः । रागो द्वेपश्च मोहश्च पारुण्यवानृशंसता ॥७ शाम्यश्च दीर्घवैरत्व मतिमान मनार्जवम् । अनृतञ्चापवादञ्च पैशुन्यमतिलोभता ॥८ हिंसा स्तेया मृषावादो वञ्चना रोषलोलुता । अबुद्धिता च नास्तिक्यं भयमालस्यमेव च ॥ अशौचत्वञ्च कृतज्ञत्वं दम्भता स्तम्भ एव च । निकृतिश्वाप्यवज्ञानं ज्ञातके शूद्रमाविशेत् ॥ १० दृष्ट्वा पितामहः शूद्रमभिभूतन्तु तामसैः । द्विजशुश्रूषणं धर्मं शूद्राणान्तु प्रयुक्तवान् ॥११

ऽध्यायः ]

वृथा

भगवद्भक्तवर्णनम् ।

नश्यन्ति तामसा भावाः शूद्रस्य मयि भक्तितः । पत्रं पुष्पं फलं तोयं यो मे भक्तया प्रयच्छति ॥ १२ तदहं भक्तिदत्तं यन्मूर्ध्ना गृह्णामि रुद्रतः । चण्डालो वा प्रियः कश्चित् सर्वपापसमन्वितः ॥ १३ यदि मां सततं ध्यायेत् स पापेभ्यः प्रमुच्यते । विद्याविनयसम्पन्ना ब्राह्मणा वेदपारगाः ॥१४ मयि भक्तिन्न कुर्वन्ति चण्डालसदृशा हि ते । वृथा दत्तं वृथा जप्तं वृथाचेष्टं वृथाहुतम् ॥१५

तीर्थ तु दत्तं स्याद् यो न भक्तो मयि द्विजः । यत्कृतञ्च हुतच्चापि यदिष्टं दत्तमेव वा ॥ १६ अवैष्णवोक्तं तत्सर्वं राक्षसा एव भुञ्जते । स्थावरो जङ्गमो वाऽपि सर्वभूतेषु पाण्डव ! ॥१७ समत्वेन दयां कुर्यान्मद्भक्तो मित्रशत्रुषु । आनृशंस्य महिंसा च दया सत्यं तथार्जवम् ॥१८ अद्रोहं मम भक्तानाम्भूतानामभय न्नृप ! । इत्येवमादयो ब्रूयान्मद्भक्त्या श्रद्धयान्वितः ॥ १६ तस्याक्षयो भवेल्लोकः श्वपाकस्यापि पार्थिव ! । किं पुनर्ये समचन्ति मद्भक्तविधि पूर्वकम् ॥२० मद्भक्ता मगतप्राणाः स्तुवन्ति ये तु मां सदा । बहुवर्षसहस्राणि तपस्तप्यति यो नरः ॥२१ नासौ तत्पदमप्नोति मद्भक्तैर्यदवाप्यते । मामेव तस्माद्राजर्षे ! ध्याहि नित्यमतन्द्रितः ॥२२

[[२०७६]]

[[२०८०]]

वृद्धगौतमस्मृतिः ।

अवाप्स्यसि ततः सिद्धिं निश्चयं हि अनुत्तमाम् । अपार्थकं प्रभाषन्ते शूद्रा भागवता इति ॥ २३

न शूद्रा भगवद्भक्ता विप्रा भागवता स्मृताः । द्वादशाक्षरतत्त्वज्ञ श्चतुर्व्यूहविधानवित् ॥२४ अच्छिद्रः पञ्च कालज्ञः सर्व भागवताः स्मृताः । ऋग्वेद यजुषो होता यजुषाध्वर्युरेव च ॥ २५ सामवेदेन चोद्गाता पुण्येनाभिस्तुवन्ति माम् । अथर्वशिरसा चैव नित्यमाथर्वणं द्विजाः ॥२६

स्तुवन्ति सततं ये च ते हि भागवता स्मृताः । वेदाधीनाः सदा यज्ञा यज्ञाधीनाश्च देवताः ॥२७

देवता ब्राह्मणाधीना स्तस्माद्विप्रास्तु देवताः । अनाश्रिताश्रयन्नास्ति मुख्यमाश्रय माश्रयेत् ॥२८ रुद्रं समाश्रिता देवा रुद्रो ब्रह्माण माश्रितः । ब्रह्मा मामाश्रितो राजन्नाहं किञ्चिदुपाश्रितः ॥२६ ममाश्रयो न किश्चित्तु सर्वेषा माश्रयोऽस्म्यहम् । एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम् ॥३०

धर्मप्रिय ! ब्रुवे राजन्नित्यमेव समाचर ।

!

इदं पवित्र माख्यानं पुण्यं वेदेन सम्मितम् ॥३१

यः पठेन्मामकं धर्म महन्यहनि भारत ! धर्मोऽपि वर्धते तस्य बुद्धिश्चापि प्रसीदति । पापक्षय मुपैत्येव कल्याणञ्च विवर्धते ॥३२

[ द्वाविंशो-

ऽध्यायः ]

धमशास्त्रश्रवण महत्त्ववर्णनम् ।

एतत्पुण्यं पवित्रच पापनाशन मुत्तमम् ।

श्रोतव्यं श्रद्धया युक्तै मद्भक्तेश्च विशेषतः ॥ ३३ श्रावयेद्यस्त्विदं भक्त्या प्रयतोऽथ शृणोति वा । स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा ॥३४ यश्वेदं श्राववेच्छ्राद्धं भक्तो मत्परायणः । पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ॥३५

वैशम्पायन उवाच ।

प्रहृष्टः सुमना भूत्वा चिन्तयेताद्भुतां कथाम् ॥३६ पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः । देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा ॥ ३७ भूता यक्षा ग्रहाश्चैव गुहाका भुजगा स्तथा । बालखिल्या महात्मानो मुनय स्तत्त्वदर्शिनः ॥ ३८ तथा भागवताश्चैव पञ्चकालरता स्तथा । कौतूहलसमायुक्ता भगवद्भक्तिमागताः ॥३६ श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम् । विमुक्तपापाः पूतास्ते संपूता स्तत्क्षणेन तु ॥ ४० प्रणम्य शिरसा विष्णुं प्रसादसुमुखेक्षणः । यथागतं ययुर्देवाः सिद्धाश्वर्षिगणैः सह ॥४१ गतेषु तेषु सर्वेषु केशवः केशिहा तदा ।

[[२०८१]]

विसृज्य पाण्डवान् सर्वान् प्रणतान् द्वारकां ययौ ॥४२ ततः प्रणम्य गोविन्दं तदा प्रभृति पाण्डवाः । कपिलाद्यानि दानानि दश विष्णुपरायणाः ॥ ४३

[[२०८२]]

वृद्धगौतमस्मृतिः ।

[ द्वाविशो-

मधुसूदनवाक्यानि स्मृत्वा चैव पुनः पुनः । मनसा पूजयामासु हृदिस्थं पञ्च पाण्डवाः ॥४४ युधिष्ठिरोऽपि धर्मात्मा हृदि कृत्वा जनार्दनम् । तद्भक्त स्तन्मना युक्त स्तद्याजी तत्परोऽभवत् ॥४५ एवमेतत्पुरावृत्तं वैष्णवं धर्मशासनम् ।

मया ते कथितं राजन् ! पवित्रं पापनाशनम् ॥४६ चिन्तयस्त्र सदा विष्णु मप्रमत्तः कुरूद्वह ! । लोका गच्छन्ति नान्येन तद्विष्णोः परमं पदम् ॥४७

इति वृद्धगौतमीये वैष्णवधर्मशास्त्रे द्वाविंशतितमोऽध्यायः ।

समाप्ताचेयं वृद्धगौतमस्मृतिः ।

ॐ तत्सत् ।

अथ