लघुयमस्मृतिः

॥ श्रीगणेशाय नमः ॥

-::::-

अथ नानाविध प्रायश्चित्तवर्णनम् ।

श्रुत्यस्मृत्युदितं धर्मं वर्णानामनुपूर्वशः । प्राब्रवीदृषिभिः पष्टो मुनीनामग्रणीर्यमः ॥१ यो भुञ्जानोऽशुचिर्वाऽपि चण्डालं पतितं स्पृशेत् । क्रोधादज्ञानतो वाऽपि तस्य वक्ष्यामि निष्कृतिम् ॥२ षड्रात्रं वा त्रिरात्रं वा यथासंख्यं समाचरेत् । स्नात्वा त्रिषवणं विप्रः पञ्चगव्येन शुध्यति ॥ ३ भुञ्जानस्य तु विप्रस्य कदाचित्स्रवते गुदम् । उच्छिष्टत्वेऽशुचित्वे च तस्य शौचं विनिर्दिशेत् ॥४

·

[[२०६२]]

लघुयमस्मृतिः ।

पूर्व कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥५ निगिरन्यदि मेहेत भुक्त्वा वा मेहने कृते । अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषाऽऽहुतीः ॥६ यदा भोजनकाले स्यः शुचिर्ब्राह्मणः क्वचित् । भूमौ निधाय तद्ग्रासं स्नात्वा शुद्धिमवाप्नुयात् ॥७ भक्षयित्वा तु तद्ग्रासमुपवासेन शुध्यति । अशित्वा चैत्र तत्सर्वं त्रिरात्रेणैव शुध्यति ॥८ अश्नतश्चेद्विरेकः स्यादस्वस्थ स्त्रिशतं जपेत् । स्वस्थस्त्रीणि सहस्राणि गायत्र्याः शोधनं परम् ॥६ चण्डालः श्वपचः स्पृष्टो विण्मूत्रे तु कृते द्विजः । त्रिरात्रं तु प्रकुर्वीत भुक्त्वोच्छिष्टः षडाचरेत् ॥ १० उदक्यां सूतिकां वाऽपि संस्पृशेदन्त्यजो यदि । त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ॥११ रजस्वला तु संस्पृष्टा श्वमातङ्गादिवायसैः । निराहारा शुचिस्तिष्ठत्कालस्नानेन शुध्यति ॥ १२ रजस्वले यदा नार्यावन्योन्यं स्पृशते (तः) कचित् । शुन्यतः पश्चगव्येन ब्रह्मकूर्चेन चोपरि ॥१३ उच्छिष्टेन च संस्पृष्टा कदाचित्स्त्री रजस्वला । कृच्छ्र ेण शुद्धिमाप्नोति शूद्रा दानोपवासतः ॥१४ अनुच्छिष्टेन संस्पृष्टे स्नानं येन विधीयते । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥ १५

नानाविध प्रायश्चित्तवर्णनम् ।

ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु स्त्रियं गत्वा शौचं मूत्रपुरीषवत् ॥ १६ उभावप्यशुची स्यातां नी शयनं गतौ । शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥१७ भर्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती ।

दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना ॥१८ त्यजन्तोऽपतितान्बन्धून्दण्ड्या उत्तमसाहसम् । पिता हि पतितः कामं न तु माता कदाचन ॥ १६ आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः । मृतोऽमेध्येन लेप्तव्यो जीवतो द्विशतं दमः ॥२० दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पणिकं दमम् । प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम् ॥२१

जलाद्युद्बन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः । विषप्रपतनप्रायशस्त्रघातहताश्च ये ॥२२ नवते प्रत्यवसिताः सर्वलोक बहिष्कृताः । चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥ २३ उभयावसितः पापः श्यामाच्छबलकाच्च्युतः । चान्द्रायणाभ्यां शुध्येत दत्त्वा धेनुं तथा वृषम् ॥२४ श्वशृगालप्लवङ्गाद्यैर्मानुषैश्च रतिं विना ।

दष्टः स्नात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु ॥ २५ अज्ञानाद्ब्राह्मणो भुक्त्वा चण्डालान्न ं कदाचन । गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥ २६

[[२०६३]]

[[२०६४]]

लघुयमस्मृतिः ।

गोब्राह्मणगृहं दग्ध्वा मृतं चो (तश्वो) दून्धनादिना । पाशांश्छित्त्वा तथा तस्य कृच्छ्रमेकं चरेद्विजः ॥२७

चण्डालपुक्कसानां च भुक्त्वा गत्वा च योषितम् ।

कृच्छ्राब्दमाचरेऽज्ञानादज्ञानादैन्दवद्वयम्

॥२८

कापालिकान्नभोक्तॄणां तन्ना रीगामिनां (णां) तथा । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥२६ अगम्यागमने विप्रो मद्यगोमांसभक्षणे ।

तप्तकृच्छ्रपरिक्षिप्तो मौर्वी (जी) होमेन शुध्यति ॥ ३० महापातककर्तारश्वत्वारोऽप्य विशेषतः ।

अग्निं प्रविश्य शुध्यन्ति स्थित्वा वा महति क्रतौ ॥ ३१ रहस्यकरणेऽप्येवं मासमभ्यस्य पूरुषः । अघमर्षणसूक्तं वा शुध्येदन्तर्जले स्थितः ॥ ३२ रजकश्चर्मकारश्च नटो बुरुड एव च ।

कैवर्त मेदभिल्लाच सप्तैते अन्त्यजाः स्मृताः ॥३३ भुक्त्वा चैषां स्त्रियो गत्वा पीत्वाऽपः प्रतिगृह्य च । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥३४ मातरं गुरुपत्नी च स्वसृदुहितरौ स्नुषाम् । गत्वैताः प्रविशेदमि नान्या शुद्धिर्विधीयते ॥ ३५ राज्ञां (ज्ञीं) प्रत्रजितां धात्रीं तथा वर्णोत्तमामपि । कृच्छ्रद्वयं प्रकुर्वीत सगोत्रामभिगम्य च ॥ ३६ अन्यासु पितृगोत्रासु मातृगोत्रगतास्वपि । परदारेषु सर्वेषु कृच्छ्र सांतपनं चरेत् ॥३७नानाविध प्रायश्चित्तवर्णनम् ।

वेश्याभिगमने पापं व्यपोहन्ति द्विजातयः ।

पीत्वा सकृत्सुतप्तं च पञ्चरात्रं कुशोदकम् ॥३८ गुरुतल्पतं केचित्केचिद्ब्रह्महणो व्रतम् । गोघ्नस्य केचिदिच्छन्ति केचिचैवावकीर्जिनः ॥३६ दण्डादूर्ध्वप्रहारेण यस्तु गां विनिपातयेत् । द्विगुणं गोत्रतं तस्य प्रायश्चित्तं विनिर्दिशेत् ॥४०

अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रप्रमाणकः । सार्द्रश्च सपलाशश्च गोदण्डः परिकीर्तितः ॥४१ गवां निपातने चैव गर्भोऽपि संपतेद्यदि । एकैकशश्चरेत्कृच्छ्रं यथापूर्वं तथा पुनः ॥४२ पादमुत्पन्नमात्रे तु द्वौ पादौ गात्रसंभवे । पादोनं कृच्छ्रमाचष्टे हत्वा गर्भमचेनतम् ॥४३ अङ्गप्रत्यङ्गसंपूर्ण गर्भे रेतः समन्विते । एकैकशश्चरेत्कृच्छ्रमेषा गोघ्नस्य निष्कृतिः ॥ ४४ बन्धने रोधने चैव पाषाणे वा गवां रुजा । संपद्यते चेन्मरणं निमित्ती नैव लिप्यते ॥४५ मूर्च्छितः पतितो वाऽपि दण्डेनाभिहतस्तथा । उत्थाय षट्पदं गच्छेत्सप्त पञ्च दशापि वा ॥४६ ग्रासं वा यदि गृह्णीयात्तोयं वाऽपि पिबेद्यदि । पूर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते ॥४७ काष्ठलेोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि ।

प्रायश्चित्तं कथं तत्र शास्त्रे शास्त्रे निगद्यते ॥४८

[[२०६५]]

[[२०६६]]

लघुयमस्मृतिः ।

काष्ठे सांतपनं कुर्यात्प्राजापत्यं तु लोष्टके ।

तप्तकृच्छ्रं तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ॥४६ औषधं स्नेहमाहारं ददगोब्राह्मणेषु तु ।

दीयमाने विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥५० तैलभैषज्यपाने च भेषजानां च भक्षणे । निःशल्यकरणे चैव प्रायश्चित्तं न विद्यते ॥ ५१ वत्सानां कण्ठवन्धेन क्रियया भेषजेन तु । सायं संगोपनाथं च न दोषो रोधबन्धयोः ॥५२ पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम् । त्रिपादे तु शिखावर्जं मूले सर्व समाचरेत् ॥ ५३ सर्वान्केशान्समुद्धृत्य च्छेदयेदङ्गलद्वयम् । एवमेव हि नारीणां मुण्डमुण्डापनं स्मृतम् ॥५४ न स्त्रिया वपनं कार्य न च वीरासनं तथा । न च गोष्ठं निवासं च (सश्च ) न गच्छन्तीमनुव्रजेत् ॥५५ राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्दिशेत् ॥५६ केशानां रक्षणार्थं च द्विगुणं व्रतमादिशेत् । द्विगुणे तु व्रते चीर्णे द्विगुणैव तु दक्षिणा ॥५७ द्विगुणं चेन्न दत्तं च केशांश्च परिरक्षयेत् । पापं न क्षीयते हन्तुर्दाता च नरकं व्रजेत् ॥ ५८ अश्रौतस्मार्तविहितं प्रायश्चित्तं वदन्ति ये । तान्धर्मविघ्नकर्तृ श्च राजा दण्डेन पीडयेत् ॥५६

"

इष्टापूत्तयोः फलकथनं, पञ्चगव्यविधानश्च ।

न चेत्तान्पीडयेद्राजा कथंचित्काममोहितः । तत्पापं शतधा भूत्वा तमेव परिसर्पति ॥ ६० प्रायश्चित्तं ततश्वीर्ण कुर्याद्ब्राह्मणभोजनम् । विंशतिं गा वृषं चैव दद्यात्तेषां च दक्षिणाम् ॥ ६१ कृमिभिर्व्रण संभूतैर्मक्षिकाभिश्च पातितैः ।

कृच्छ्रार्ध संप्रकुर्वीत शक्त्या दद्याच्च दक्षिणाम् ॥६२ प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान् । सुवर्णमाषकं दद्यात्ततः शुद्धिर्विधीयते ॥६३ चण्डालश्वपचः स्पृष्ठे निशि स्नानं विधीयते । न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुध्यति ॥ ६४ अथ वसेद्यदा रात्रावज्ञानादविचक्षणः ।

तदा तस्य तु तत्पापं शतधा परिवर्तते ॥६५ उद्गच्छन्ति हि नक्षत्राण्युपरिष्टाच्च ये ग्रहाः । संस्पृष्ठे रश्मिभिस्तेषामुदके स्नानमाचरेत् ॥६६ कुड्यान्तर्जलवल्मीकमूषिकोत्करवर्त्मसु ।

श्मशाने शौचशेषे च न ग्राह्याः सप्त मृत्तिकाः ॥६७ इष्टापूर्त तु कर्तव्यं ब्राह्मणेन प्रयत्नतः ।

इष्टेन लभते स्वर्ग पूर्ते मोक्षं समश्नुते ॥ ६८ वित्तापेक्षं भवेदिष्टं तड़ागं पूर्तमुच्यते । आरामश्च विशेषेण देवद्रोण्यस्तथैव च ॥ ६६ वापीकूपतडागानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥७०

[[२०६७]]

[[२०६८]]

लघुयमस्मृतिः ।

शुक्लया मूत्रं गृहीयात्कृष्णाया गोः शकृत्तथा । ताम्रायाश्च पयो ग्राह्यं श्वेताया दधि चोच्यते ॥ ७१ कपिलाया घृतं ग्राह्यं महापातकनाशनम् ।

सर्वतीर्थे नदीतोये कुशैद्रव्यं पृथक्पृथक् ॥७२

आह्वय प्रणवेनैव ह्युत्थाप्य

प्रणवेन च ।

प्रणवेन समालोड्य प्रणवेन त संपिबेत् ॥७३

तु

पालाशे मध्यमे पर्णे भाण्डे ताम्रमये तथा । पिबेत्पुष्करपर्णे वा ताम्र वा मृण्मये शुभे ॥७४ सूतके तु समुत्पन्ने द्वितीये समुपस्थिते । द्वितीये नास्ति दोषस्तु प्रथमेनैव शुध्यति ॥ ७५ जातेन शुध्यते जातं मृतेन मृतकं तथा । गर्भसंस्रवणे मासे त्रीण्यहानि विनिर्दिशेत् ॥७६ रात्रिभिर्मासतुलाभिगंर्भस्रावे विशुध्यति । रजस्युपरते साध्वी स्त्रानेन स्त्री रजस्वला ॥७७ सगोत्रादुभ्रश्यते नारी विवाहात्सप्तमे पदे । स्वामिगोत्रेण कर्तव्यास्तस्याः पिण्डोदकं (क) क्रियाः ॥७८ द्वे पितुः पिण्डदानं (ने) स्यात्पिण्डे पिण्डे द्विनामता । पण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति ॥७६ स्वेन भर्चा सह श्राद्ध

ं माता भुक्वा सदैवतम् । पितामह्यपि स्वेनैव स्वेनैव प्रपितामही ॥८० वर्षे वर्षे तु कुर्वीत मातापित्रोस्तु सत्कृतिम् ।

तु

अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥८१

अस्थिसंचयनकालादिवर्णनम् ।

नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् । पावणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥८२ ग्रहोपरागे संक्रान्तौ पर्वोत्सवमहालये । निर्वपेत्त्रन्नरः पिण्डानेकमेव मृतेऽहनि ॥ ८३ अनूढा न पृथक्कन्या पिण्डे गोत्रे च सूतके । पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः ॥८४ येन येन तु वर्णेन या कन्या परिणीयते ।

तत्समं सूनकं याति तथा पिण्डोदकेऽपिच ॥ ८५ विवाहे चैव संवृत्ते चतुर्थेऽहनि रात्रिषु । एकत्वं सा व्रजेद्भर्तुः पिण्डे गोत्रे च सूतके ॥८६ प्रथमेऽह्नि द्वितीये वा तृतीये वा चतुर्थके । अस्थिसंचयनं कार्य बन्धुभिर्हितबुद्धिभिः ॥८७ चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा । अस्थिसंचयनं प्रोक्तं वर्णानामनुपूर्वशः ॥८८ एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते ॥ ८६ गङ्गातोयेषु यस्यास्थि प्लवते शुभकर्मणः । न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कथंचन ॥६० यावदस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति । तावद्वर्ष सहस्राणि स्वर्गलोके महीयते ॥ ६१ नाभिमात्रे जले स्थित्वा हृदयेनानुचिन्तयेत् । आगच्छन्तु मे पितरो गृहन्त्वेताञ्जलाञ्जलीन् ॥६२

[[२०६६]]

[[२१००]]

लघुयमस्मृतिः ।

[[1]]

हस्तौ कृत्वा सुसंयुक्तौ पूरयित्वा जलेन च । गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् ॥६३ आकाशे च क्षिपेद्वारि वारिस्थो दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणा दिक्तथैव च ॥६४ आपो देवगणाः प्रोक्ता आपः पितृगणास्तथा । तस्मादप्सु जलं देयं पितॄणां हितमिच्छता ॥६५ दिवा सूर्यांशुभिस्तप्तं रात्रौ नक्षत्र मारुतैः । संध्ययोरायुभाभ्यां च पवित्रं सर्वदा जलम् ॥६६ स्वभावयुक्तमव्याप्तममेध्येन सदा शुचि । भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम् ॥६७ देवतानां पितॄणां च जले दद्याज्जलाञ्जलीन् । असंत्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलीन् ॥६८ श्राद्ध हवनकाले च दद्यादेकेन पाणिना । उभाभ्यां तर्पणे दद्यादिति धर्मों व्यपस्थितः ॥ ६६

इति लघुयमप्रणीतं धर्मशास्त्रं समाप्तम् ।

समाप्तेयं यमस्मृतिः ।

ॐ तत्सद्ब्रह्मणे नमः ।

॥ अथ ॥