बृहद्योगियाज्ञवल्क्यस्मृतिः

प्रथमोऽध्यायः

तत्रादौ मन्त्रयोगनिर्णयवर्णनम मिथिलास्थं महात्मानं सर्वयोगीश्वरेश्वरम् । भगवन्तं याज्ञवल्क्यं मुनिसङ्घैः समावृतम् ॥ १ ॥ जनकाद्यं नृपवरैः शिष्यैश्चान्यैर्मुमुक्षुभिः ।

[[3]]

योगसिद्ध स्तथान्यैश्च संवृतं ब्रह्मवादिभिः ॥ २ ॥

सुखासीनं मुनिवरं ध्यानयोगपरायणम् ।

सर्वसंशयच्छेत्तारं

ब्रह्मकल्पं महामुनिम् ॥ ३ ॥

तं पृच्छन्ति महात्मानमृपयः संशितव्रताः । संसारतारणार्थाय गुह्यं ब्रह्म सनातननम् ॥ ४ ॥ भगवन् सर्वयोगीश ब्रूहि नः संशयो महान् । यः सारः सर्ववेदानां वेदान्तानां तथैव च ॥ ५॥ सिद्धान्तानां च सर्वेषां स्मृतीनां च महामुने । चतुर्दशानां विद्यानां यस्तु सारः प्रकीर्तितः ॥ ६ ॥ आत्मज्ञानं परं यश्च यज्ज्ञात्वामृतमश्नुते । ओंकारं व्याहृतींश्चैव गायत्रीं तच्छिरस्तथा ॥ ७ ॥ १४१

*૨૪૮

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ प्रथमो-

प्राणायामं तथा ध्यानं संध्योपासनमेव च । मार्जनाभ्युक्षणे स्नानं तथैवान्तर्जलं उपम् ॥ ८ ॥ गायत्र्याश्चैव माहात्म्यं जपयज्ञप्रयोजनम् । उपस्थानं तथार्कस्य साध्यमपि चैव हि ॥ ६ ॥ तस्या (स्य) चान्तर्गतो ह्यात्मा कथं विज्ञायते तु सः । त्वं हि जानासि तत्त्वेन स्वेन योगबलेन च ॥ १० ॥ यजूंष्यभ्यस्यमानेन पुरस्ताद्भास्क रोह्ययम् । साक्षाद्भगवता दृस्तेन पृच्छामहे वयम् ॥११॥ आर्षं छन्दश्च मन्त्राणां दैवत्यं ब्राह्मणं तथा । विनियोगं च मन्त्राणामोंकारादेश्च यद्विभो ॥१२॥ किमुक्त’ भवतीत्येतज्ज्ञातेऽज्ञाते च किं भवेत् । ब्राह्मण्यं च भवेत् केन किं वा नित्यमुपास्यते ॥ १३॥ किं वा सत्यं भवेद्ब्रह्म संध्या येन उपास्यते । कथं संमार्जनं कुर्यान्मन्त्रैर्वरुणदेव तैः अन्तर्जलं च कतमैः कतमैः प्राणसंयमम् ।

[[118811]]

सूर्यस्य चाप्युपस्थानं कुर्यान्मन्त्रैः किमात्मकैः ॥ १५ ॥ केनाक्षरेण मन्त्रेण धारणा धार्यते कथम् । किं ध्यानं किं च वं ध्येयं किं लक्ष्यं किं स्वरूपकम् ॥ १६३ ॥ यच्चोपास्य विमुच्येत तत् परं ब्रूहि नो विभो । होमकाले तथानौ तु मध्ये किं परिचिन्तयेत् ॥ १७॥ यस्य चैवाहुतिं दद्यात् किं ते (तत्) ब्रह्म किमात्मकम् । तथान्नयज्ञकाले तु स्वदेहे चिन्तयेत् कथम् ॥ १८ ॥

ऽध्यायः ]

मन्त्रयोगनिणयवर्णनम्

का विद्या का ह्यविद्या च किं वा निःश्रेयसं परम् । किमधीयीत वैं विप्र एतत् सर्वं वदस्व नः ॥ १६ ॥

एतच्छ्र ुत्वा तु वचनं मुनीनां भावितात्मनाम् । तथा राजर्षीणां च स्वशिष्याणां तथैव च ॥२२॥ ब्राह्मणानां हितार्थाय सर्वयोगविदां वरः । आविष्कर्तमनाः प्रश्न विस्तरेण महामतिः ॥२॥

भगवान याज्ञवल्क्यस्तु प्रत्युवाच मुनिस्तदा । श्रयतां संप्रवक्ष्यामि यत् मारं ज्ञानमुत्तमम् ॥२२॥ वेदान्ताभिहितं यच स्मृतिसिद्धान्तयोरपि । तत् सर्वं संप्रवक्ष्यामि योगसारसमुच्चयम् ॥२३॥

येन यत् क्रियते कर्म नैत्यकं यद्विजातिभि । ब्राह्मण्यं लभते येन ब्रह्मसायुज्यतां व्रजेत् ॥२४॥ ओंकारो व्याहृतयश्च गायत्री सशिरस्तथा । वैदिकं च तथा कर्म अलिङ्ग चाघमर्पणम् ॥२५॥

प्राणायामस्तथा संध्या

सर्वमेव हि कर्तत्र्यं

आषं छन्दश्च दैवत्यं

मार्जनान्तर्जलं जपः ।

ब्राह्मणैत्रह्मचिन्तकैः ॥२६॥

विनियोगस्तथैव च ।

वेदितव्यं प्रयत्नेन ब्राह्मणेन विपश्चिता ॥२७॥ अविदित्वा तु यः कुर्याद्याजनाध्ययनं जपम् । होममन्तर्जलादीनि तस्य चाल्पं फलं भवेत् ।

आपद्यते स्थाणुगर्ते स्वयं वाऽपि प्रमी (ली) यते ॥२८॥

[[૨૨]]

[[२२५०]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ प्रथमो-

यातयामानि च्छन्दांसि भवन्त्यल्पफलान्यपि । अन्तर्जलादिके जप्ये इतरेपामजानताम् ॥२६॥ नाधिकारोस्ति मन्त्राणामेवं श्रुतिनिदर्शनम् । अल्पमात्रं फलं तस्य होमादन्तर्जलाज्जपान ॥३०॥ स्वाध्यायाद्याजनाच्चैव भवतीह न संशयः । यस्तु जानाति तत्त्वेन आर्प छन्दश्च दैवतम् ॥३१॥ विनियोगं ब्राह्मणं च मन्त्रार्थं ज्ञानकर्मणी ।

एकैकस्या ऋचः सोऽपि वन्द्यो ह्यतिथिवद्भवेत्

॥३२॥

देवतायाश्च सायुज्यं गच्छत्यत्र न

संशयः ।

पूर्वोक्त ेन विधानेन ऋप्यादीन् वेत्ति

यो द्विजः ॥३३॥

अधिकारो भवेत्तस्य रहस्येषु च

कर्मसु ।

मन्त्रे मन्त्रे प्रयत्नेन ज्ञातत्र्यं ब्राह्मणेन तु ॥३४॥

विज्ञाते परिपूणं तु स्वाध्याय फलमश्नुते । छन्दांस्ययातयामानि भवन्ति सफलान्यपि श्रेयश्च लभते सोऽपि धर्ममायुश्च विन्दति ।

॥३५॥

दिव्यं वर्षसहस्रं तु स्वस्थानमृपिभिः सह ॥३६॥ संतिष्ठते तु तैः साधं तत्तुल्यो वेह जायते ।

फलं चैवापवादं च एवं वृड्डा

ज्ञातव्यं हि प्रयत्नेन ब्राह्मणेन

येन यदृषिणा ’ सिद्धिः प्राप्ता

मन्त्रेण तस्य तन

विधानतः ॥३७॥

विशेषतः ।

च येन वै ॥ ३८॥

च येन

प्रोक्तमृषिभावस्तदार्षकम् ।

छादनाच्छन्द उद्दिष्टमाकृतेर्वाससी यथा ॥ ३६॥

ऽध्यायः ]

ओंकारनिर्णयवर्णनम्

आत्मा संवादितो देवैर्मृत्युभीतैश्च वै पुरा । आदित्यैर्वसुभी रुद्रस्तेन च्छन्दांसि तानि वै ॥४०॥ यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवता तु या ।

पुराकल्पे समुद्दिष्टा मन्त्राः कर्मार्थसिद्धये ।

तदाकारं भवेत्तस्य दैवतं देवतोच्यते

[[118211]]

अनेनेदं तु कर्तव्यं विनियोगः स उच्यते

[[118211]]

निरुक्तं यत्र मन्त्रस्य समुत्पत्तिः प्रयोजनम् ।

[[२२५१]]

प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं तदिहोच्यते

एतत् पञ्चविधं योगं जपकाले हानुस्मरेत् ।

॥४३॥

होमे चान्तर्जले योगे स्वाध्यायें यजने तथा ॥४४॥ इति (श्री) बृहद्योगियाज्ञवल्क्ये (मन्त्रयोगनिर्णयो नाम)

प्रथमोऽध्यायः ॥१॥

अथ द्वितीयोऽध्यायः ओंकार निर्णयवर्णनम

प्रणवाद्याः स्मृता मन्त्राश्चतुर्वर्गफलप्रदाः ।

तम्माश्च निःसृताः सर्वे प्रलीयन्ते च तत्र वै

मङ्गल्यः पावनो धन्यः सर्वकामप्रसाधनः ।

[[11211]]

ओंकारः परमं ब्रह्म सर्वमन्त्रेषु नायकः ॥२॥

प्रजापतेर्मुखोत्पन्नस्तपः सिद्धस्य वै पुरा ।

तेनोपात्तमतस्तस्य ब्रह्मा (ब्रह्माऽऽषं) च स्वयंभुवः ॥३॥

[[२२५२]]

·

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ द्वितीयो-

[[11811]]

[[11211]]

॥६॥

गायत्री च भवेच्छन्द अग्निर्देवतमुच्यते । आदौ सर्वत्र युञ्जीत विविधेष्वेव कर्मसु विनियोगः समुद्दिष्टः श्वेतो वर्ण उदाहृतः । त्रिमात्रश्च प्रयोक्तव्यः कर्मारम्भेपु सर्वदा तिस्रः सार्धास्तु कर्तव्या मन्त्रतत्त्वार्थचिन्तकैः । देवताध्यानकाले तु प्लुतं कुर्यान्न संशयः तैलधारावच्छिन्नं दीर्घघण्टानिनादवत् । अवाग्जं प्रणवास्यान्तं यस्तं वेद स वेदवित वक्र तद्भवति ह्यादौ ओंकारं चतुरक्षरम् । ऋजुत्वं संप्रपद्य ेत पदं प्राप्य तु पश्चमम् ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा तस्मादोमित्युदाहृत्य यज्ञदानतप क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१०॥ उद्गीथाक्षरमेद्ब्रह्मविदो ब्रह्मणो योगम् ।

[[11011]]

॥॥

॥६॥

पाशुपताश्च वदन्ति हि सारूपाश्चाध्यात्मतत्वज्ञाः ॥११॥ मात्रास्तिस्त्रो व्यक्ताव्यक्ता तथा परा सूक्ष्मा । अध्यात्मामधिभूतामथाधिदेवीं विजानीयात् ॥१२॥

सिद्वान्तानां तु सर्वेषां वेदवेदान्तयोस्तथा ।

अन्येषामपि शास्त्राणां निष्ठाकारमुच्यते

प्रणवाद्याः स्मृता वेदाः प्रणवे पर्युपस्थिताः ।

वाङ्मयं प्रणवः सर्वं तस्मात् प्रणवमभ्यसेत्

[[112311]]

॥१४॥

ऽध्यायः ]

ओंकारनिर्णयवणनम्

ओंकारः प्रणवस्तारस्त्र्यक्षरस्त्रिगुणः

[[२२५३]]

स्मृतः ।

उद्गीथश्च तथादित्यो हंसो नारायणो विभुः ॥१५॥ सूर्यस्यान्तर्गतं सूक्ष्मं विष्णुं दिव्यं निरञ्जनम् । पर्यायैश्च तथा चान्यैः शास्त्रेभ्यः संप्रगीयते ॥ १६ ॥ ओंकारसंज्ञं त्रिगुणं व्यक्षरं च त्रिदैवतम् । त्रिह्म त्रिरवस्थानं त्रैकाल्यं त्रिप्रतिष्टितम् त्रिप्रज्ञं च त्रिधामं च त्रिरवस्थं त्रिलिङ्गकम त्रिधातुकं समुद्दिष्ट सर्वगं परमेश्वरम सत्वं रजस्तमश्चैव त्रिगुणस्तेन स स्मृतः ।

॥१॥

॥१८॥

1128 11

॥२०॥

अकारश्चाप्युकारश्च मकारश्चाक्षरत्रयम ब्रह्मा विष्णुश्च रुद्रश्च त्रिदैवत्य उदाहृतः । अग्निवायुरविभ्यश्च त्रिमात्र इति संज्ञितः भृग्यजुश्च तथा साम त्रिब्रह्म इति संज्ञितः । भूर्भुवः स्वस्त्र्यवस्थानं हृन्कण्ठं तालुकेति च ॥ २१॥ तुर्ये प्राणे तथाऽऽदित्ये त्रिषु चैव प्रतिष्ठितम् । भूतं भव्यं भविष्यं च त्रैकाल्यं तेन चोच्यते ॥२२॥ अन्तः प्रज्ञो बहिःप्रज्ञो घनप्रज्ञ उदाहृतः ।

गार्हपत्यो दक्षिणाग्निराहवनीयस्त्रिधामकम् शान्तो घोरस्तथा मूढस्त्रिरवस्थ इति स्मृतः ।

॥२३॥

स्त्री पुं नपुंसकं चेति त्रिलिङ्ग इति स स्मृतः ॥२४॥ वातः पित्तं तथा श्लेष्मा त्रिधातुः समुदाहृतः । त्रिप्रकारं विदित्वा तु ओंकार मुच्यते द्विजः

॥२५॥

[[२२५४]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ द्वितीयोएकैका तु भवेन्मात्रा त्रिगुणा सा तु वै पुनः । तासां सर्वं वाङ्मयं यढ़ोतं प्रोतं व्यवस्थितम् ॥२६॥ प्रथमा तस्य अकारो वाक् सत्वं भूहुताशनो विष्णुः । स्थूला जाग्रवृत्तिविज्ञेया योगतत्वज्ञैः ॥२७॥ ब्रह्मान्तरिक्षसंज्ञो मनोरजः सोमसंज्ञक उकारः । मात्रा स्वप्नविकल्पा (वि) सृप्रिंसंज्ञा द्वितीया तु ॥२८॥ रौद्री मकारसंज्ञा प्राणाख्या तामसी तृतीया तु । संइति जगत् समस्तं (सर्व) सौपुम्णाख्या महानिद्रा ॥२६॥ आद्या परतरा सूक्ष्मा शान्ता गान्धर्वनिरवयवा । अनभिलक्ष्या सौम्या मकारसंज्ञा विज्ञानाकाश संबद्धा ॥३० प्रपञ्चो ब्रह्मणश्चोक्तः सार्धमात्रात्रयं बुधैः ।

॥३१॥

अउमिति तित्रो मात्रा मकारश्चार्थमात्रकः तिम्रो मात्रा लयं यान्ति अर्धमात्रे न संशयः । अर्धमात्रात्वमात्रे तु लयं याति निरामये ॥३२॥

अकारे पीड्यमाने तु उकारं प्रतिपद्यते ।

उकारे पीड्यमाने तु मकारं प्रतिपद्यते ॥३३॥ मकारे पीड्यमाने तु अर्धमात्रा तदा भवेत् ।

जिह्वायां पीड्यमानायां निरालम्बं तदा भवेत् ॥३४॥ एकमात्रं द्विमात्रं च त्रिमात्रं कृत्स्नमेव च ।

हस्वदीर्वतं शान्तं शान्तेन मनसोद्धरेत्

॥३५॥

समाहितमना भूत्वा

तत्वध्यानपरायणः ।

ओंकारं यस्त्वभिध्यायेदध्यात्मैक इति स्मृतः

॥३६॥ऽध्यायः ]

ओंकार निर्णयवणनम्

सर्वे वेदा यत्पदमामनन्ति

तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति

[[२२५५]]

तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥३७॥

एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् ।

॥४१॥

एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥३८॥ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥३६॥ ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरम् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥४०॥ आद्यं यदक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । स गुह्योन्यस्त्रिवृद्व दो यो वेदनंस वेदवित् यथा वै शकुना पणं संवृता एव सर्वतः । एवं सर्वास्तु वै वाचः संतीर्णा प्रणवेन तु 118211 क्लेशकर्मविपाकैश्च वासनाभिस्तथैव च । अपरामृष्टमेवाह पुरुषं हीश्वरं श्रुतिः ॥४३॥ वाच्यो यज्ञेश्वरः प्रोक्तो वाचकः प्रणवः स्मृतः । वाचकेन तु विज्ञातो वाच्य एव प्रसीदति ॥४४॥ तदर्थं प्रणवं जप्यं ध्यातव्यं सततं बुधैः ।

ईश्वरः पुरुषाख्यस्तु तेनोपास्तुः (स्तः) प्रसीदति ॥ ४५ ॥

यथा हि गौर्व सकृतं निशम्य

हुङ्कृत्यवत् साभिमुखी प्रयाति ।

[[२२५६]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

ब्रह्मापि तद्वत् प्रणवोपहूतं

[ द्वितीयो-

वक्तारमागच्छति आशु वक्त्रे ॥४६ ॥

द्व े ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च

शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति

अन्त शरीरप्रभवमुदानप्रेरितं च यत् ।

यत् ।

॥४७॥

वागुच्चायं श्रोत्रवृत्ति शब्दब्रह्म तदुच्यते ॥४८ ॥ शब्दब्रह्मात् परं ब्रह्म तस्मिन् क्षीणे यदक्षरम् । तदक्षरं सदा ध्यायेद्यदीच्छेद्योगमात्मनः ॥ ४६ ॥ अकारश्चायुकारश्च मकारो विन्दुरेव च । मात्रास्तद्विनियोगश्च प्रणवः पञ्चलक्षणः ॥५० ॥ ओंकारः प्रणवे योज्यो ब्रह्मणि प्रणवस्तथा । आनन्दं तत् परं ब्रह्म तत् प्रविश्यामृती भवेत् ॥५१॥ वेदादौ यः स्वरः प्रोक्तो वेदान्ते यः प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ ५२ ॥ । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन ॥ ५३ ॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥५४ ॥ स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।

ध्याननिर्मथनाभ्यासाद्द वं

पश्येन्निगूढवत् ॥५५॥

शब्दस्पर्शादिभिश्चैव रसरूपैरलक्षितः ।

देवतायाः परस्यास्तु आलम्बः प्रणवः स्मृतः ॥ ५६ ॥

ऽध्यायः ]

ओंकारनिर्णयवर्णनम्

[[२२५]]

कश्चिदाराधनाकामो विष्णोर्भक्त्या करोति वै । . तदाराधनसिद्धयर्थं प्रतिमां व्यञ्जिकां यथा ॥ ५७॥ धातुदार्वादिपापाणैः कृत्वा भावं निवेशयेत् । भक्त्या श्रद्धादराभ्यां च तस्य विष्णुः प्रसीदति ॥ ५८॥ आर्यः प्रपूजितो यत्र प्रत्यक्षे च फलप्रदः । ओंकारेण तथा ह्यात्मा उपास्तः स प्रसीदति ॥५६ ॥ एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।

एतदालम्बनं ज्ञात्वा ब्रह्मभूयाय कल्पते ॥६०॥ अविग्रहो देवो भावग्राह्यो मनोमयः । तस्योंकारः स्मृतो नाम तेनाहूतः प्रसीदति । तस्मादोमिति पूर्व तु कृत्वा युञ्जीत तत्परः ॥६१ ॥ ब्रह्मविदोऽनेकविधाः सततं येन प्रवर्तन्ते ।

गृढव्रतस्य हि सदा विशुद्रवुद्धः स (सु) गृढ़ठित्तस्य । प्रणवध्यानपरस्य च स (सु) गृढ़तपसो भयं नास्ति ॥६२॥ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ ६३॥ प्रणवे नित्ययुक्तस्य व्याहृतीपु च सप्तसु । त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥६४॥ आद्यास्तु व्याहृतीस्तिस्रो गायत्रीस्वशिरोय (यु) ताम् । ओंकारं विन्दते यस्तु स मुनिर्नतरो जनः ॥ ६५ ॥ एक एव हि विज्ञेयः प्रणवो योगसाधनम् । गृहीतः सप्तसिद्धान्तरैरन्यैश्च ब्रह्मवादिभिः ॥ ६६॥

[[२२५८]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

हिरण्यगर्भः कपिलैरपान्तरतमैस्तथा । सनत्कुमारैब्रह्मिष्ठस्तथा पाशुपतैरपि

[ द्वितीयो-

॥६७॥

पाञ्चरात्रैः सदोद्युक्तः सिद्धान्तैरपि सप्तभिः । भेदैस्त्रिषष्टिभिर्भिन्नमेकैकं नवधा पुनः ॥६८॥ त्रिमात्रं चैव त्रिब्रह्म त्र्यक्षरं प्रणवं प्रभुम् । हिरण्यगर्भा इच्छन्ति योगसाधननिश्चितम्

( … नमुत्तमम् ) ॥६६ ॥

अनिर्वायुस्तथादित्यस्तिस्रो मात्राः प्रकीर्तिताः । ऋग्यजुश्च तथा साम त्रिह्म ेति प्रकीर्तितम् ॥७०॥

अकारश्चाप्युकारश्च मकारश्चाक्षरत्रयम् । ओंकारः परमं धाम ओंकारः परमा गतिः ॥ ७१ ॥ ओंकारं विन्दते यस्तु तस्य जन्म न विद्यते । त्रिप्रज्ञं च त्रिगुणं त्रिकारणमिति कापिलाः ॥ ७२ ॥ व्यक्तोऽव्यक्तस्तथाज्ञश्च त्रिप्रज्ञ इति स स्मृतः । ओंकारस्त्रिगुण सर्व व्यञ्जनं निर्गुणं विदुः ॥७३ ॥ त्रिमुखं च त्रिदैवत्यं त्रिप्रयोजनमेव च । अपान्तरतमैश्चैव ओंकारस्तु प्रकीर्तितः ॥ ७४॥ गार्हपत्यो दाक्षिणाग्निराहवनीयस्तृतीयकः ।

त्रिमुखः स तु विज्ञेयो ब्रह्मविष्णुमहेश्वराः

एतत् त्रिदैवतं ज्ञेयं धर्मश्चैवार्थ एव

च ।

॥७५॥

कामेन सहितौ तौ त्र्यं प्रोक्तं प्रयोजनम् ॥ ७६ ॥

ऽध्यायः ]

ओंकारनिर्णयवर्णनम्

भूर्भुवः स्वरिति चैव चतुर्विंशाक्षरा

गायत्री चतुरो वेदा ओंकारः सर्वमेव तु

ऋग्वेदे स्वरितोदात्त एकाक्षर

[[२२५६]]

तथा ।

॥00॥

उदाहृतः ।

पठ्यते

॥७८ ॥

संशयः ।

॥७६॥

वैस्वयं च तथोदात्तो यजुर्वेदे च

दीर्घप्लुतः सामवेदे ओंकारस्तु न

संक्षिप्तोदात्तमेवाहुरेकाक्षर उदाहृतः

अकारश्च उकारस्तु प्रविष्टो ह्य कदा यदा । अउवर्णसमायोगादोंकारः समपद्यत

अनुस्वारो मकारस्तु ओंकारस्य शिरो यदा ।

प्रकृतिः साधनं कृत्वा व्यञ्जनादौ तु लुप्यते

1120 11

॥ ८१ ॥

नपुंसकस्तथोंकारो वेदानां परिकीर्तितः । अपांतरतमो ज्ञेयो वेदसिद्धान्तयोरपि

त्रिकालं च त्रिलिङ्गं च त्रिसंज्ञं च तथा विदुः । सनत्कुमारमिद्धान्ते ओंकारः समुदाहृतः

भूतं भव्यं

[[112211]]

॥ ८३॥

भविष्यं च कालत्रयमुदाहृतः । स्त्रीपुंनपुंसकश्चैव त्रिलिङ्ग इति स स्मृतः ॥८४ ॥ बहिः संज्ञो मध्यसंज्ञ अन्तःसंज्ञ इति स्मृतः । उद्गीथमक्षरं ह्य ेतदुद्गीथश्च उपास्यते ओमित्युद्गीयते ह्य ेष भूते भव्ये भविष्यति ।

त्रिस्थानं त्रिपदं चैव त्रिसंज्ञं च प्रकीर्तितम् ब्रह्मिष्ठानां भवेदेवं गुह्य पूपनिषत्सु च । हृत्कण्ठतालुकादीनि स्थानानि समुदाहरेत्

[[1]]

॥८५॥ ।

॥८६॥

॥८७॥

[[२२६०]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

जाग्रत् स्वप्नं सुषुप्तं च पदान्येतानि तस्य बहिः संज्ञस्तथान्तश्च घनप्रज्ञः स्वयं विभुः एतदक्षरमोंकारं भूतं भव्यं भविष्यति । त्रिप्रज्ञं त्रिपदं चैव सर्वव्यापि तथोच्यते बहिः प्रज्ञो विभुविश्व अन्तः प्रज्ञस्तु

तु ।

[ द्वितीयो-

॥८८॥

॥८॥

तैजसः ।

घनप्रज्ञस्तथा प्रोक्त एक एव त्रिधा

भवेत्

॥हन

दक्षिणाभिमुखे विश्वो मनस्यन्तस्तु तैजसः ।

॥ ॥

आकाशे तुर्यदप्राज्ञस्त्रिधा देहे व्यवस्थितः

स्थूलो वैश्वानरो नित्यं तेजसोन्तः प्रकृतिभुक् । आनन्दभुक् तथा प्राज्ञ एक एव त्रिधा भवेत्

सत्वाश्चैव प्रयत्न ेन ब्रह्मा (ह्म) भवति मानवः । स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम्

आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं

HIERII

[[112311]]

निबोधत ।

त्रिषुधामसु यद्भोज्यं भोक्ता यस्तु प्रकीर्तितः ॥६४॥ उभयं विन्दते यस्तु स भुञ्जानो न लिप्यते ।

[[1]]

॥ ६ ॥

प्रभवः सर्वभूतानां सतामिति विनिश्चयः ॥५॥ प्रणवः सूयते सवं वेत्ता यः पुरुषः स्मृतः । त्र्यवस्थानं त्रिभोक्तारं त्रिभोज्यं च तथा परम् एवं पाशुपते विद्यात् सिद्धान्ते प्रणवं विभुम् । शान्तं घोरं तथा मृढं त्रिरवस्थानमेव तु शरीरमापः सोमश्च त्रिभोज्यमिति कीर्तितम् ।

[[112011]]

प्राणो ह्यभिस्तथादित्यस्त्रिभोक्ता इति स स्मृतः ॥६॥

ऽध्यायः ]

आंकार निर्णयवणनम्

ओंकारं समभिध्यायेदूहृदि कृत्वा तु धारणाम । ऋषिपुत्रो महातेजा वाग्विशुद्धो महेश्वरः त्रिरात्मा त्रिस्वभावश्च तथा त्रिव्यूह एवं च । पाश्चरात्रे स्मृतो ह्येष भगवद्वाचकः स्मृतः बलं वीर्यं तथा तेजस्त्रिरात्मा इति संज्ञितः ।

ज्ञानैश्वर्यं तथा शक्तिस्त्रिस्वभाव इति स्मृतः सङ्कर्षणोथ प्रद्युम्नो (म्नः) अनिरुद्धस्तथैव च ।

॥६६॥

[[1180011]]

1182 ? 11

त्रिव्यूह इति निर्दिष्ट ओंकारो विष्णुरुययः ॥ १०२॥ भगवद्वाचकः प्रोक्तः प्रकृतेर्वाचकस्तथा ।

२२६१.

व्यक्ताव्यक्तो वासुदेवः प्रभवः प्रलयस्तथा । वाथुलेरेकमात्रम्तु ओंकारः समुदाहृतः ॥ १०३॥ यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति

तत्तं पदं संप्रहेणाभिधास्ये ॥ १०४ ॥

ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।

यः प्रयाति त्यजन देहं स याति परमां गतिम ॥१०५ ॥ एवं त्रिपटिभेदेस्तु सिद्धान्तेषु प्रगीयते ।

स्थूलभेदेन चोंकारश्चतुः परि (प्र) म्तु निष्कलः ॥ १०६ ॥ विष्णुंनिरञ्जनं शान्तमानन्दं सर्वदेहिनाम् ।

अक्षरं तं विजानीयात् स्थूलं च क्षरसंज्ञितम् ॥ १०७ ॥ न च स्थूलं न च ह्रस्वं न च दीर्घं नच प्लुतम् । न लोहितं न कृष्णं च सर्ववर्णविवर्जितम्

[[1180211]]

[[२०६२]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ द्वितीयो-

[[1120811]]

च ।

इन्द्रियैरिन्द्रियार्थैश्च तत्वैश्च परिवर्जितम् । ध्रुवं च शाश्वतं नित्यमचलं लयवर्जितम् अक्षरं चाजरं चैवमनुत्पन्नमनाशि सर्वमात्राविनिर्मुक्तमानन्दं ब्रह्म निष्कलम् ॥ ११० ॥

अघोपमव्यञ्जनमम्वरं

यत्कव्य (ण्ठ) तालव्यमनासिकं च ।

अरेफजातस्वरमोष्ठवर्जितं

तदक्षरं स्वरति स्वयं भवम् ॥ १११ ॥

ओंकारं विपुलमचिन्त्यमप्रमेयं

सूक्ष्माकारं ध्रुवमचलं शिवं पुराणम् ।

तद्विष्णोः पद (प) मुखपङ्कजप्रसूतं

देहान्तः स्थंमनसि च यत् स्थितिं करोति ॥ ११२ ॥

दशनामानि नैरुक्ता ओंकारस्य प्रचक्षते ।

॥११३॥

॥ ११४॥

अन्वर्थं कानि तानीह वेदितव्यानि धीमता ओंकारं प्रणवं चैव सर्वव्यापिनमेव च । अनन्तं च तथा तारं शुम्लं वैद्य तमेव च हंसं तुर्य परं ब्रह्म इति नामानि जानत । निष्कलम्य तु सर्वज्ञः पर्यायेण हि कीर्तितः ॥ ११५ ॥ उच्चार्यमाणः सर्वत्र आपादतलमस्तकम् ।

उन्नामयेच्छरीरं तु ओंकारस्तेन चोच्यते

ऋग्यजुः सामाथर्वाणि देवताश्चाक्षरत्रयम् ।

॥११६॥

शरीरं वाङ्मनश्चैव प्राणनात् प्रणवः स्मृतः ॥११७॥

ऽध्यायः ।

ओंकारनिर्णयवणनम

शरीरं चैव विश्वं च विद्यास्थानानि सर्वशः ।

[[२०६३]]

व्याप्य संतिष्ठते यस्मान सर्वव्यापी ततः स्मृतः ॥११८॥ अनन्तं नयते स्थानं तस्य चान्तो न

ऋषिदेवमनुष्येषु अनन्तम्तेन कीर्तितः सर्वदुखसमुत्थानाद्भवग्राहार्णवाकुलान् ।

चिन्तितस्तारयेद्यम्मात्तेन तारो निगद्यते

लभ्यते ।

वर्णेन च भवेच्छ क्लः शुद्ध च नयते पदम् ।

॥ ?? ॥

॥१२॥

॥१२१॥

त्रिविधं शोषयेत् पापं तेन शुक्ल इति स्मृतः आविष्करोति स यतेज्योतीरूपं वो (र) न्तरे । विद्योतते तमो भित्वा वैद्य तस्तेन कीर्तितः ॥ १२२॥ हृदि ध्यानं सदा यस्मादादित्यग्दीथमेव च । भित्वा शरीरं नयति तस्माद्धं स इति स्मृतः ॥१२३ ॥ जाग्रत् स्वप्नं च सुप्र च तुयं चैव चतुर्थकम् ।

ज्ञातस्तु त्रायते यस्मात तुर्यस्तेन निगद्यते

॥१२४॥

वाङ्मयस्य तु सर्वम्य ब्रह्मणस्त्रिविधम्य च ।

मुखमेतन समुद्दिष्ट शब्दब्रह्ममयं विभुः

[[1182411]]

परं ब्रह्म नयत्येव परब्रह्म इति स्मृतः ।

एवं rahe gमृषिभिश्च तथा परैः

बाष्कलैरेकमात्रम्तु ओंकारः समुदाहृतः ।

॥१२६॥

रुचकायन आचार्यो द्विमात्रं चेच्छते सदा

[[1122011]]

द्विमात्रश्चार्धमात्रस्तु नारदस्य मतेन तु ।

मौद्गलस्य त्रिमात्रस्तु ओंकारो नात्र संशयः । । १२८ ॥

[[१४२]]

[[२२६४]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ द्वितीयो-

वशिष्ठस्य मतेनैव मात्राचात्र चतत्रिका (?) त्रिमात्रो मनुना चोक्तम्तथान्यैऋषिसत्तमैः ॥ १२६॥ पाराशरैश्चतुर्मात्रस्तथा स्वध्यात्मचिन्तकैः ।

ह्रस्वं दीर्घ प्लुतं शान्तं चतुर्धा संप्रकीर्तितम् ॥१३॥ भवेत् कर्मवशादेवमन्यथा तु त्रिरक्षरम

॥ १३२ ॥

भगवान याज्ञवल्क्यम्तु अमात्रं चेच्छते सदा ॥१३॥ यः शब्दमय ओंकार उच्चार्यः स्थल एव सः । अमात्रश्चाप्यनुच्चार्य परोंकारः स उच्यते तिस्रः सार्धास्तथा मात्राः स गृह्णाति यथाक्रमम् । परं ब्रह्म तमेवाहुश्चात्मानं ब्रह्मचिन्तकाः यन पूर्व तु समुद्दिष्टमोंकारा व्यवस्थितम् । अक्षरैश्च पदैश्चैव अतीतं पञ्चमं पदम

॥१३३॥

॥। १३४॥ यं ( यत) प्राप्य विन (नि) वर्तन्ते ओंकारस्य पथि स्थिताः । मनसात्र समाधाय शरीरं लिङ्गमानवम ॥१३५॥ संकल्पं व्यवसायं च अभिमानारूपसंज्ञकम् । चेतनाधिष्ठितं सूक्ष्मं तथा सूक्ष्मैः सहैव तु ॥ १३६ ॥ ओंकार पद्मनालेन हद उद्धत्य योजयेत । परमे व्योमन्यनन्ताको सर्वसङ्कल्पवर्जिते ॥ १३७॥ तम्मिस्तावन्निरोद्धव्यं मनश्चोकारमेव च ।

यावन्निर्मलतां याति एष योग उदाहृतः

मनो युज्यात्तथोंकारे ओंकारं प्रणवे तथा ।

॥१३८॥

प्रणवं ब्रह्मणि स्थाप्य न किञ्चिदपि चिन्तयेत् ॥ १३६ ॥०२६५

ऽध्यायः ]

ओंकारनिर्णयवर्णनम्

प्रणवो विमलः शुद्धो निःशब्दो व्योमसंज्ञकः । तस्मादुत्पद्यते प्राणः पुनस्तत्रैव लीयते

प्रणवे नित्ययुक्तम्य न भयं विद्यते क्वचित् ।

॥१४०॥

दुःखे भयाभिघातार्थे सर्वथा प्रणवं स्मरेत् ॥ १४१ ॥ । प्रणवो ह्यपरं ब्रह्मप्रणवश्च परः स्मृतः ।

प्रणवो ह्यादि सर्गस्य अन्तो मध्यस्तथैव च

॥१४२॥

१४३॥

एवं हि प्रणवं ज्ञात्वा विशन्ति ब्रह्म निष्कलम् । अपूर्वोऽनन्तारोऽवाह्योऽनपरः प्रणवोऽव्ययः प्रणवो हीश्वरो देवो हृदि सर्वस्य धिष्ठितः । सर्वव्यापिनमोंकारं मत्त्वा धीरो न सीदति ॥ १४४ ॥ । अमात्रं च त्रिमात्रं च अद्वैतं ब्रह्म तत् परम् । स्थूलं चाप्यतिसूक्ष्मं च सर्वतः किमपि स्थितम् ॥ १४५ ॥ ओंकारं विन्दते यस्तु स भवेद्वेदविद्विजः ।

यथा पत्रं फलं पुष्पं शकुनैकेन धार्यते ॥१४६॥ तथा जगदिदं सर्वमोंकारेणैव धार्यते ।

जप्येन दहते पापं प्राणायामैस्तथा मलम्

[[1]]

॥280॥

ध्यानेन जन्म निर्घातं धारणाभिश्च मुच्यते । ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ॥१४८॥ स्त्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीयते ।

प्रोक्षणे पोषणे चैव प्रतिष्ठाने प्रतिग्रहे

आश्रावणे वषट्कारे प्रत्याश्रावे जपेऽपि च ।

सामसु ब्रह्ममुरूयेषु ऋग्यजुस्तोत्रशस्त्रयोः

॥ १४६ ॥

॥ १५० ॥

[[२२६६]]

बृहयोगियाज्ञवल्क्यम्मृतिः

सर्वमन्त्रप्रयोगेषु ओमित्यादौ प्रयुज्यते ।

। द्वितीयां-

[[1122211]]

तेन संपरिपूर्णानि यथोक्तानि भवन्ति च सर्वमन्त्राधिराजेन ओंकारेण न संशयः । यदूनं चातिरिक्त च यच्छिद्र ययाज्ञिकम ॥१५२॥ यदमेध्यमशुद्ध वा यातयामंच यद्भवेत् ।

ओंकारेण प्रयुक्तेन सर्व चाविफ (क) लं भवेन ॥ १५३ ॥ अनूनं नातिरिक्तं च अच्छिद्र याज्ञिकं तथा । मेध्यं शुद्धायातयामं पवित्रं मङ्गलं तथा ॥ १५४ ॥ सर्वमङ्गलमाङ्गल्यं सर्वब्रह्ममयं विभुम । पावनं मोक्षदं पुण्यं सर्वदेवमयं विभुम् ॥ १५५॥ विदित्वा मुच्यते क्षिप्रं जन्मसंसारबन्धनात् । मुक्तो न जायते भूयो ब्रह्मभूतः सनातनः ॥ १५६ ॥ एतन संक्षेपतः प्रोक्तमकार गुणवर्णनम् । विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि ॥ १५७॥ योगाचार्येण संचिन्त्य याज्ञवल्क्येन धीमता । ओंकारनिर्णयो प प्रोक्तः शिष्यहितैषिणा ॥ इलोकानां द्वे शते प्रोक्तं निर्णयः समुदाहृतः ॥ १५८॥

इति (श्री) बृहद्योगियाज्ञवल्क्ये

ओंकार निर्णयो (नाम) द्वितीयोऽध्यायः ।

अथ तृतीयोऽध्यायः

व्याहृतिनिर्णयवर्णनम

अतः परं प्रवक्ष्यामि व्याहृतीनां च निर्णयम । सप्त व्याहृतयः प्रोक्ताः पुराकल्पे स्वयंभुवा ॥ १ ॥ तान्येव सप्त च्छन्दांसि लोकाः सम प्रकीर्तिताः । त्रिधा चतुर्धा विज्ञेया ( : ) पंचधा सप्तधा पुनः ॥ २ ॥ भूर्भुवः स्वरिति ज्ञेया अव्यस्तास्ताः प्रकीर्तिताः । पञ्च व्याहृतयः प्रोक्ताः सामगानां च सामसु ॥ ३ ॥ पुरुषं च तथा सत्यं भूर्भुवः स्वस्तथैव च । विद्याप्रकरणापाये यजमानस्तु वै सदा ॥ ४ ॥ सप्त व्याहृतयः प्रोक्ताः प्राणायामेषु नित्यशः । भूर्भुवः स्वर्महर्जनस्तपः सत्यं तथैव च ॥ ५ ॥ भूराद्याश्चैव सत्यान्ता महाव्याहृतयस्तु वै । लोकातास्तु सतते उपर्युपरि संस्थिताः ॥ ६ ॥ चतुर्दशविधं सर्गं दृष्ट्वेदं व्याहृतं स्वयम् । सप्त लोका भविष्यन्ति तस्माव्याहृतयः स्मृतः (ताः) ॥ ७ अव्याहृतमिदं ह्यासीत सदेवासुरमानुपम । संसत्यं व्याहतं पूर्व प्रजापतिरिति श्रुनिः ॥ ८ ॥ भूर्भुवःस्वस्तथा पूर्व स्वयमेव स्वयंभुवा । व्याहता ज्ञानदेहेन तेन व्याहृतयः स्मृताः ॥ ५ ॥

[[२२६८]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ तृतीयो

एतास्तु व्याहृतीः सप्त यः स्मरेत् प्राणसंयमे । उपासितं भवेत्तस्य विश्वं भुवनसप्तकम् ॥१०॥ सर्वेषु चैव लोकेषु कामचारश्च जायते । एषा लोकवती ज्ञेया तनुराधा प्रजापतेः ॥ ११॥ सप्तान्ता देवदेवस्य विष्णोरमिततेजसः । व्याहृतीनां च सर्वासामृषिश्चैव प्रजापतिः ॥१२॥ सप्त च्छन्दांसि यान्यासां तानि सम्यक् प्रकीर्तयेत् । गायत्र्युष्णिगनुष्टुप् च वृहती पक्तिरेव च ॥१३॥ त्रिष्टुप् च जगती चैव छन्दांस्येतानि सप्त वै । अग्निर्वायुस्तथादित्यो बृहस्पत्याप एव च ॥१४॥ इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः । अनादिष्टेषु सर्वेषु प्रायश्चित्तंषु सर्वशः ॥१५॥ प्राणायामप्रयोगे च विनियोग उदहृतः । भवन्ति भूयो भूतानि उपभोगक्षये पुनः ॥ १६॥ कल्पान्ते प्रभोगाय भुवस्तेन प्रकीर्तितम् । शीतोष्णवृष्टितेजांसि जायन्त्येतानि वै ततः ॥१७॥ आलयः सुकृतीनां च स्वर्लोकः समुदाहृतः । अधरोत्तरेभ्यो लोकेभ्यो महांश्च परिमाणतः ॥ १८ ॥ हृदयं सर्वलोकानां

सर्वलोकानां महस्तेन निगद्यते । कल्पदाहे प्रलीनास्तु प्राणिनस्तु पुनः पुनः ॥ १६ ॥ जायन्ते तु पुनः सर्गे जनस्तेन उदाहृतः । सनकाद्यास्तपः सिद्धा ये चान्ये ब्रह्मणः सुताः ॥२०॥

ऽध्यायः ]

अधिकारनिवृत्ताश्च

व्याहृतिनिर्णयवर्णनम

तिष्ठन्त्यस्मिंस्ततस्तपः ।

सत्यं तु सप्तमो लोको ब्रह्मणः सदनं हि तत् ॥२१॥

सर्वेषां चैव देवानां मूर्ध्नि संतिष्ठते सदा । ज्ञानकर्मस्वनुष्ठानात्तथा सत्यस्य भाषणात् ॥२२॥ प्राप्यते चोपभोगार्थं प्राप्य न च्यवते पुनः । सत्यं तु सप्तमो लोकस्तस्मादूध्वं न विद्यते ॥२३॥ आसप्रमात्तु पातालादृर्ध्वमेतदुदाहृतम् ।

अधस्ताद्राजतं ह्यण्डमूर्ध्वमर्धं हिरण्मयम ॥२४॥ प्रधानादेव संभूतं ब्रह्मनीडं हिरण्मयम् । भूराद्यः सप्तभिर्व्याप्तं सत्यान्तैः पुरुषसंमितैः ॥२५॥

अद्धोद्ध छिद्रितं ह्यण्डं सप्तप्रकृतिलौकिकम् । अनन्ताकाशमध्यस्थं जीवभास्करभासितम् ॥२६॥

अजस्य नाभावुद्भूतं यस्मिन् विश्वं प्रतिष्ठितम् ।

महदादि विशेषान्तमव्यक्तं गच्छते लयम्

॥२७॥

स्थिताः ।

अधिकारं विना चैव

ब्रह्मणः

सदृशाश्च ते ॥२८॥

अपुनर्भरणायैव ब्रह्मणः सदने

अव्यक्तं वै दिनस्यान्ते मुच्यन्ते ब्रह्मणा सह ।

विशन्ति परमं धाम पुरुषं भास्करप्रभम् ॥२६॥ व्याहृतीयहरंश्चैव प्राणयदि विमुच्यते ।

विलयं याति च व्यक्तमव्यक्तं पुरुषे क्षणात् ॥३०॥

[[२२६६]]

[[२२७०]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

एष संक्षेपतश्चोक्तः समव्याहृतिनिर्णयः ।

[ चतुर्थी-

यं ज्ञात्वा मुच्यते विद्वान भवग्राहाकुलार्णवात् ॥३१॥ निर्णयो व्याहृतीनां तु श्लोका द्वित्रिंशकस्तथा ॥३२॥ इति (श्री) बृहयोगियाज्ञवल्क्ये व्याहृतिनिर्णयो नाम तृतीयोऽध्यायः ।

अथ चतुर्थोऽध्यायः

गायत्रीनिर्णयवर्णनम

अतः परं प्रवक्ष्यामि गायत्र्या निर्णयं शुभम् । यं ज्ञात्वा याति वै विप्रः सायुज्यं ब्रह्मणा सह आर्ष छन्दश्च देवत्यं विनियोगश्च ब्राह्मणम् । शिरश्चाक्षरदैवत्यमावाहनविसर्जनम

[[11211]]

IRII

[[11811]]

ध्यानं जपप्रयोगश्च येषु कर्मसु यादृशम् । ज्ञातव्यं ब्राह्मणैर्यत्वाद्ब्राह्मण्यं येन वै भवेत् ॥३॥ सविता देवता त्या मुखमग्निस्तदित्यृचः । विश्वामित्र ऋपिश्छन्दो गायत्री तु विधीयते विश्वस्य जगतो मित्रं विश्वामित्रः प्रजापतिः । विनियोग उपनये प्राणायामे तथैव च गायत्री वा इदं सर्वं ब्रह्माण्डं त्राह्मणानि तु । वेदोपनिषच्छाखासु ब्राह्मणानि विधानतः ॥ ६॥

॥५॥

ऽध्यायः ]

गायत्रीनिर्णयवर्णनम

[[२२७१]]

पुराणधर्मशास्त्राणि गायत्र्याः पावनानि तु ।

तम ।

πεπι

कीर्तितानि त्वनेकानि गायत्र्याः पावनानि च ॥७॥ पोडशाक्षरकं ब्रह्म गायत्र्यास्तच्छिरः स्मृतम् । ओमापो ज्योतिरित्येष मन्त्रो यः परिकीर्त्यते ॥८॥ तस्य प्रजापतिश्चर्पिर्यजुश्छन्दो विवर्जि (णि) ब्रह्माग्निवायुसूर्याश्च दैवत्यं समुदाहृतम प्राणस्यायमने चैव विनियोग उदाहृतः । गायत्र्याः शिरसा सार्धमेवं श्रुतिनिदर्शनम् ॥१०॥ तपसा सुसमुद्धत्य आदिसर्गे स्वयंभुवः । ओंकारपूर्वा गायत्री निर्जगाम ततो मुखात् ॥ ११॥ अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्भुर्भुवः स्वरितीति च त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यृचोस्या. सावित्र्याः परमेष्ठी प्रजापतिः ॥१३॥ यथाभिर्वै देवतानामृतूनां कुसुमाकरः ।

॥१२॥

ब्राह्मणो द्विपदानां च गावश्चैव चतुष्पदं (दाम् ) ॥१४॥ तेजस्वीनां सहस्रांशुरिन्द्रियाणां यथा मनः ।

मेरुः शिखरिणां श्रेष्ठो गायत्री छन्दसां तथा ॥ १५॥ यथा मधु च पुष्पेभ्यो घृतान्मण्डं रसात् पयः । एवं हि सर्ववेदानां गायत्री सारमुच्यते ॥१६॥ गायत्री प्रकृतिज्ञया ओंकारः पुरुपः स्मृतः । ताभ्यामुभाभ्यां संयोगात् जगत सर्व प्रवर्तते ॥१७॥

[[२२७२]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ चतुर्थी-

संवत्सरतनुापा अरणीति निगद्यते । चतुर्विंशत्यात्मिकंपा तत्वन (व) त्यपि सा स्मृता ॥१८॥ प्रणवः सर्ववेदानां गायत्री छन्दसामिह ।

अक्षराणि च यान्यस्याः स्मृतान्यङ्गानि तानि तु ॥ १६ ॥ चतुर्विंशति तत्वानि ओंकारः पञ्चविंशकः । चतुर्विंशाक्षरा देवी त्रिपदाष्टाक्षरं पदम ॥२८॥ गेयकाले सामगानां यकारोग्याः प्रजायते । चतुर्विंशः स विज्ञेयो अलक्ष्यः शान्तिमस्तुवः

( चान्तिमस्तु सः ) ॥२१॥

केचिदिच्छन्ति निष्क्रान्तं यकारान्ते प्रतिष्ठितम् ।

अन्तिमो यो भवेद्वर्णो व्यञ्जनं चार्धमात्रिकम्

॥२२॥

तत्तालुनि निचिष्ट तु तुर्याख्यं सोमरूपकम् ।

चतुर्विंशतिसंख्येयमक्षरं ब्रह्म निष्कलम्

॥२३॥

तेनैवारभ्यते देवी तेनैवेषा

समाप्यते ।

सार्धमात्रिकरूपेण ओंकारान्ते व्यवस्थितम्

प्रधानः स तु विज्ञेयस्तत्परः पुरुषः स्मृतः

ओंकारः पूर्वमुच्चार्यो भूर्भुवः स्वस्ततः परम् । गायत्री प्रणवश्चान्ते जपे ह्येवमुदाहृतः श्वेतवर्णा समुद्दिष्टा कौशेयवसना तथा ।

॥२४॥

[[112411]]

॥२६॥

श्वेतैर्विलेपनैः पुष्पैरलङ्कारैश्च भूषिता आदित्यमण्डलान्तस्था ब्रह्मलोकगताथवा ।

[[112011]]

अक्षसूत्रधरा देवी पद्मासनगता शुभा

॥२८॥

ऽध्यायः ]

गायत्रीनिर्णयवर्णनम्

आवाह्य यजुषा तेन तेजोसीति विधानतः ।

एतद्यजुः पुरा

देवेंदर्शनकाङ्क्षिभिः ॥२६॥

तत्रावाह्य जपित्वा तु नमस्कृत्य विसर्जयेत् ।

प्रणवं भूर्भुव स्वश्च अङ्गानि हृदयादयः 113011 त्रिरावर्त्य ततः पश्चादापं छन्दश्च दैवतम् ।

विनियोगस्तथा रूपं ध्यातत्र्यं क्रमशस्तु वै

सर्वावयवसंपूर्णा ध्याता सिद्धिकरी भवेत् ।

॥३१॥

॥३२॥

॥३३॥

षडजश्च ऋपभश्चैव धैवतश्च तृतीयकः त्रिभिः स्वरैर्यदा गीता स्वर्येति ततः स्मृता । भूर्लोकश्चान्तरिक्षं च स्वर्लोकश्च तृतीयकः पदैस्त्रिभिर्यदा त्या (व्या) प्रा त्रिपदेति ततः स्मृता । सविता देवता यस्मात् सावित्री तेन चोच्यते ॥३४॥ गायनं (न्नं) त्रायते यस्मात् गायत्रीति ततः स्मृत. ( ता ) । श्येनो भूत्वाऽऽहरत सोमं त्रिदिवात् स्वेन तेजसा ॥३५॥ छन्दसां पोषणात् तस्मात् गायत्री वा ततः स्मृता । वेदेषु पठ्यते चान्या जप्यकालेऽन्यथा पुनः ॥ ३६ ॥ प्राणायामे तथा ध्याने होमकालेषु चान्यथा । निप्रहे चापि शत्रूणामन्यथा परिपश्यते ॥३७॥ ओंकारं व्याहृतीस्तिस्रः प्रथमं संप्रयोजयेत् । ओंकाराद्या त्रिरावर्त्या वेदस्यारम्भणे तथा ॥८८॥ प्रणवाद्या तु विज्ञेया जध्ये व्याहृतिभिः सह । ताभिस्तु सप्तभिः सार्धं सप्तोंकारसमन्विताम् ॥३६॥

[[२२७३]]

سیاری باشد.

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ चतुर्थी-

शिरसा सहितां देवीं प्राणयामे प्रयोजयेत् । प्रणवव्याहृतिभिः सार्धं खाहान्नां होमकर्मणि ॥४०॥ प्रतिलोमा प्रयोक्तव्या फटकारान्ताऽऽभिचारिके । एवं यस्तु विजानाति गायत्रीं ब्राह्मणस्तु सः ॥ ४१ ॥ अन्यथा शूद्रधर्मा स्याद्वं दानामपि पारगः । तस्मात सर्वप्रयत्नेन ज्ञातव्या ब्राह्मणेन सा ॥ ४२ ॥ व्याहृत्योंकारसहिता सशिराश्च यथार्थतः । सशिराचं व गायत्री येविरवधारिता ॥४३॥ ते जन्मबन्धनिर्मुक्ताः परं ब्रह्म विशन्ति वै । पोडशाक्षर कं ब्रह्म गायत्री सशिरास्तथा ॥४४ ॥ सकृदावर्तयेद्यस्तु सर्वपापैः प्रमुच्यते ।

सोंकारं चतुरावत्यां विज्ञेया सा शताक्षरा ॥४५ ॥ शताक्षरा (i) समावर्त्य चतुर्वेदफलं लभेत् । ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ॥ ४६ ॥ त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणो मुखम । योधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ॥१७॥ स ब्रह्म परमभ्येति वायुभूतः स्वमूर्तिमान् । एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् ॥४८॥ सन्ध्ययोरुभयोर्विप्रो वेदपुण्येन युज्यते । सहस्रकृत्वस्त्वभ्यम्य बहिरेनन त्रिकं द्विजः ॥१६॥ महतोज्ज्येनसो मासान त्वचेवाहिविमुच्यते । सप्तावृत्या पुनेद्देहं दशभिः प्रात्यते दिवम् ॥३०॥

।ऽध्यायः ]

गायत्री निर्णयवर्णनम

२२७%

विशावृत्या तु सा देवी नयते हीश्वरालयम् । अटोत्तरशतं उत्पा तरते जन्मसागरम ॥३१॥ तीर्णो भूयो न पश्येत जन्ममृत्युं सुदारुणम् । गायत्री जपते यस्तु सोमवद्भामते तु सः ॥५२॥ पादार्थ पादमधं वा समस्तामृचमेव वा । सर्वेषां भवपापानां संकरे समुपस्थिते ॥ ५३ ॥ दशसाहस्रिकोऽभ्यामो गायत्र्याः शोधनं परम । रुद्रकूष्माण्डजप्यैश्च जायैः सौराणस्तथा ॥५४॥ ऋषिभिर्विरजाजा यैर्गायत्री च विशिष्यते । ब्रह्महत्यां सुरापानं सुवर्णस्तेयमेव वा ॥ ५५ ॥ गुरुदारागमं चैव जप्येनैव पुनाति सा । यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ॥ ५६ ॥

तत्र तत्र तिलैर्होमो गायत्र्या जपनं तथा ।

वायुभक्षो दिवा तिष्ठत रात्रिं नीत्वाप्सु सूर्यहम् ॥१७। जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधादृते । शतेन गायत्र्याः स्नायान शतमन्तर्जले जपेत् ॥५८॥ अपः शतेन पीत्वा तु सर्वपापैः प्रमुच्यते । सायं प्रातस्तु यः संध्यां मां सेवते द्विजः ॥ ५६ ॥ जपन् वै पावनीं देवीं सावित्रीं लोकमातरम् ।

स तया पावितो देव्या ब्राह्मणो धूतकिल्विषः ॥६०॥ न सीदेत् प्रतिगृह्णानः पृथिवीं च ससागराम् । गोन्नः पितृन्नो मातृघ्नो भ्रणहा गुरुतल्पगः ॥ ६१॥

૨૭.

बृहद्योगियाज्ञवल्क्यम्मृतिः

[ चतुर्थी-

ब्रह्महा हेमहारी च यस्तु विप्रः सुरां पिबेत् । गायत्र्याः शतसाहस्रं जपे भवति वै शुचिः ॥६॥ अक्षराणि च दैवत्यं संप्रवक्ष्याम्यत. परम् । आग्नेयं प्रथमं ज्ञेयं वायव्यं च द्वितीयकम् ॥ ६३॥ तृतीयं सूर्यदेवत्यं चतुथं वैद्यतं स्मृतम् । पञ्चमं यमदैवत्यं वारुणं षष्ठमुच्यते ॥ ६४॥ बार्हस्पत्यं सप्तमं च पार्जन्यमष्टमं विदुः । ऐन्द्रं तु नवमं ज्ञेयं गांधवं दशमं स्मृतम् ॥ ६५॥ पौष्णमेकादशं ज्ञेयं द्वादशं मैत्रवारुणम् । त्वाष्ट्रं त्रयोदशं ज्ञेयं वासवं च चतुदशम् ॥६६॥ मारुतं पञ्चदशकं सौम्यं षोडशकं स्मृतम् । सप्तदशं त्वाङ्गिरसं वैश्वदेवमतः परम् ॥६७॥ आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकम् । सर्वदेवमयं ज्ञेयमेकविंशक्रमक्षरम् रौद्र द्वाविंशकं प्रोक्तं त्रयोविंशं तु ब्राह्मणम् । वैष्णवं तु चतुर्विंशमेता अक्षरदेवताः ॥६६ ॥ जप्यकालेषु संचिन्त्य विष्णुसायुज्यतां व्रजेत् । एतस्यां ज्ञातमात्रायां वाङ्मयं विदितं भवेत् ॥ ७० ॥ उतासितं भवेत् सर्व विश्वं भुवनसप्तकम् । अज्ञात्वा चैव गायत्रीं ब्राह्मण्यात् परिहीयते ॥ ७१ ॥ अपवादेन संयुक्तो भवेच्छु तिनिदर्शनात् ।

॥६८॥

येषां द्विजानां सावित्री नानूच्येत् यथाविधि ॥७२॥

ऽध्यायः ]

गायत्रीनिर्णयवर्णनम्

२२.७७

[[116911]]

तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् । एतया चापि संयुक्तः काले च क्रियया स्वया विप्रक्षत्रियविड्यो निगृह्राणां पतिसाधुषु । (?)

। ओंकारो व्याहृतीः सम सावित्री प्राणसंयमः

॥098।1

संध्या न वन्दिता येन ब्राह्मण्यं तस्य वै कुतः ॥ ७५ ॥ सावित्रीं यो न जानाति वृथा तस्य परिश्रमः । गायत्रीमात्र संतुष्टो वरं विप्रः सुयन्त्रितः

नायन्त्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी ।

॥ ७६ ॥

सारभूतास्तु वेदानां गुह्योपनिषदः स्मृताः ॥७७॥ ताभ्यः सारं तु गायत्री गायत्र्या व्याहृतित्रयम् । व्याहृतिभ्यस्तथोंकारस्त्रिवृद्ब्रह्म

स उच्यते ॥७८ ॥

त्रिवृद्ब्रह्मणि निष्णातः परं ब्रह्माधिमच्छति ।

मधुवत् संभृतं तद्विप्रासो विष्णुना स्वयम् ॥ ७६ ॥ गायत्रीं चैव वेदांश्व तुलया समतोलयत् । एकतश्चतुरो वेदान् गायत्रीमेकतः समा (म् ) ॥८०॥ एषा हि त्रिपदा देवी सर्वब्रह्ममयी शुभा । तपसा महता दृष्टा विश्वामित्रेण धीमता ॥८१॥ संवत्सरं वा पणमासान् यो जपेद्विधिवद्विजः । सोऽचिरात्सर्वकामांश्च प्राप्नुयान्नात्र संशयः ॥ ८२ ॥ गायत्रीनिर्णयश्लोकाः सप्ततिर्नव एव च । इति श्रीबृहद्योगियाज्ञवल्क्ये गायत्रीनिर्णयो (नाम) चतुर्थोऽध्यायः ॥

अथ पञ्चमोऽध्यायः

ओंकार गायत्रीन्यासवर्णनम

[[11211]]

न्यासं तु संप्रवक्ष्यामि ओंकारादि यथायथम् । येन विन्यस्तमात्रेण ब्रह्मीभवति ब्राह्मणः अकारं विन्यसेन्नाभ्यां सत्त्वम्पं निरञ्जनम् । उकारं हृदये तद्राजसं तद्गुणं स्मृतम ॥।

मकारं मूर्ध्नि विन्यस्य तमोमात्रं तृतीयकम् ।

ब्रह्मरूपं तदात्मानं

ध्यायेद्विगतकल्मषम

कुर्याद्वयाहृतिभिर्व्यासं वक्ष्यमाणक्रमेण तु । पूर्वमेव तु याः प्रोक्ता भूरायाम्ते ममामतः

॥३॥

[[11811]]

[[11411]]

॥६॥

भूर्लोकं पादयोमध्ये भुवर्लोकं तु जानुनोः । स्वर्लोकं कटिदेशे तु नाभिदेशे महम्तथा जनलोकं कण्ठदेशे मुखबिम्बे तपस्तथा । भ्र वोर्ललाटसंधौ तु सत्यलोकं प्रतिष्ठितम् । हिरण्मये परे कोशे ध्येयः परमनिष्कलः तत्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः । गायत्री विन्यसेत् पश्चाच्छरीरे चात्मनो बुधः चतुर्विंशतिस्थानेषु पाढ़ो (द) मूर्धान्तमस्तकम् । पादाङ्गुष्ठ तथा गुल्फे जङ्घयोर्जानुनोस्तथा ॥८॥

[[110911]]

ऽध्यायः ]

संध्योपासननिर्णयवर्णनम्

ऊरुभ्यां गुह्यवृषणे कटौ नाभ्यां तथैव च ।

जठरे स्तने च हृदये कण्ठे वक्त्रे च

श्रोत्रे चक्षुभ्रुवोर्मध्ये ललाटे पूर्वके

तालुनि ॥ ६ ॥

मुखे ।

याम्यपश्चिमके चैव उत्तरे च यथाक्रमम् ॥१०॥ अन्तिमं मूर्ध्नि विन्यस्य परब्रह्म स उच्यते । गुह्यं चक्षुपि वक्त्रे च समीके (?) हृदये तथा ॥११॥ पद्भयां नाभ्यां ललाटे तु नवमं मूर्ध्नि विन्यसेत् । इदं न्यासचतुष्कं तु सकृन्न्यस्यति यो द्विजः ॥१२॥ सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमृच्छति ।

इति श्रीबृहद्योगियाज्ञवल्क्ये ओंकारगायत्रीन्यासो (नाम) पञ्चमोऽध्यायः ॥

[[२२७६]]

अथ षष्ठोऽध्यायः

संध्योपासन निर्णयवर्णनम्

अतः परं प्रवक्ष्यामि संध्योपासननिर्णयम् । अहोरात्रकृतान् पापात् यामुपास्य विमुच्यते ॥१॥

संध्या येन न विज्ञाता संध्या येनानुपासिता । जीवमानो भवेच्छूद्रो मृतः श्वा चाभिजायते ॥२॥ नोपतिष्ठति यः पूर्वा नोपास्ते यश्च पश्चिमाम् । स शूद्रवद्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥३॥

[[१४३]]

[[२२८०]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

सर्वावस्थोऽपि यो विप्रः संध्योपासनतत्परः ।

[ षष्ठो-

ब्राह्मण्याच न हीयेत सोऽन्यजन्मगतोऽपि सन् ॥ ४ ॥

ओंकारो व्याहृतीः सम गायत्री

सशिरास्तथा ।

आपोहिष्ठा ऋचस्तिस्त्रः सूक्तं

चैवाघमर्षणम् ॥५॥

आदित्यरक्षणार्थं तु सायंप्रातदिने दिने ।

सृष्ट स्वयंभुवा पूर्व ब्राह्मणानां मुखे स्थितम् ॥६॥ सातत्यं कर्म विप्राणामहोरात्राद्यसो (घनो) दनम् । पापं तु जायते तस्मादनार्नस्तन्न चोत्सृजेन ॥७॥

अनार्तश्चोत्सृजेद्यस्तु स विप्रः शूद्रसंमितः । प्रायश्चित्तीभवेद्विप्रो लोके भवति निन्दितः ॥८॥ यावन्तोस्यां पृथिव्यां तु विकर्मस्था द्विजातयः । तेषां तु पावनार्थाय संध्या सृष्टा स्वयंभुवा ॥ ॥ या संध्या सा तु गायत्री त्रिधा भूत्वा प्रतिष्ठिता । संध्या ह्यपासिता येन तेन विष्णुरुपासितः ॥१०॥ हासवृद्धी तु सततं दिवसानां

यथाक्रमम् ।

[[1]]

संध्या मुहूर्तमात्रं तु हासे वृद्धौ तु सा समा ॥ ११ ॥

त्रिंशत्‌कोख्यस्तु विख्याता मन्देहा नाम राक्षसाः ।

प्रद्रवन्ति

सहस्रांशुमुदयन्तं दिने

दिने ॥ १२ ॥

अहन्यहनि ते सर्वे सूर्यमिच्छन्ति

खादितुम् ।

अथ सूर्यस्य तेषां च युद्धमासीत्

ततो देवगणाः सर्वे ऋषयश्च

संध्येति (संध्यां तु) समुपासीनाः प्रक्षिपन्ति महज्जलम् ॥१४॥

सुदारुणम् ॥१३॥

तपोधनाः ।

ऽध्यायः - ]

संध्योपासननिर्णयवर्णनम्

[[२२८९]]

ओंकारब्रह्मसंयुक्तं गायत्र्या

चाभिमन्त्रितम् ।

तेन दह्यन्ति ते दैत्या

वश्रीभूतेन

वारिणा ॥ १५ ॥

॥१५॥

एतद्विदित्वा यो विप्र उपास्ते

संशितव्रतः ।

मुच्यते ॥१६॥

दीर्घमायुः स विन्देत सर्वपापैश्च

पूर्वा संध्या तु गायत्री सावित्री मध्यमा स्मृता ।

या भवेत् पश्चिमा संध्या सा विज्ञेया सरस्वती ॥१७॥

रक्ता भवति गायत्री सावित्री

श्वेतवर्णिका ।

कृष्णा सरस्वती ज्ञेया संध्यास्तिस्र उदाहृताः ॥१८॥

त्रयाणां चैव देवानां

संगमस्तूभयोर्भवेत् ।

मध्यमायां च संध्यायां सर्वदेवसमागमः ॥१६॥

संधिः सर्वसुराणां च तेन संध्या उदाहृता । गरीयसी हि भूतानां तस्मात्यैत्री ( त्रैती) तनुर्हि सा ॥२०॥ संधिते तु परे सूक्ष्मे निर्गुण गुणबोधिनी । प्रधानपुरुषातीते सा संध्या संधिरुच्यते ॥२१॥ अनूदकी तु या संध्या लेपस्नेहविवर्जिता । संधिनी सर्वभूतानां शोधिनी भवनाशिनी ॥२२॥ हृद्याकाशगता सूक्ष्मा आदित्यरश्मिरेखया । सोमसूर्याग्निसंस्कृत्या अण्डं भित्त्वा विनिर्गता ॥२३॥ बद्धमेतं सुषुम्णायां दीर्घघण्टानिनादवत् । ईश्वरं मनसा ध्यायेदेषा संध्या अनुदकी ॥२४॥ संधौ संध्यामुपासीत नास्तगे नोद्गते रवौ । संध्यात्रयं तु कर्तव्यं द्विजेनात्मविदा सदा ॥२५॥

[[२२८२]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ षष्ठो-

उभे संध्ये तु स्नातत्र्यं ब्राह्मणैस्तु गृहाश्रितैः । तिसृष्वपि च संध्यासु स्नातत्र्यं ब्रह्मवादिना ॥२६॥ कालदोपादसामर्थ्यान्नशक्नोति यदा सौ । तदाऽऽज्ञातो ऋषिभ्यस्तु मन्त्रैस्तु मार्जनम् ॥२७॥

शन्न आपस्तु द्रुपदा आपोहिष्ठाऽघमर्षणः । गतैश्चतुर्भिर्मन्त्रैस्तु मन्त्रस्नानमुदाहृतम्

स्नानमदैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ।

॥२८॥

अघमर्पणसूक्तन अश्वमेधावभृत्समम् ॥२६॥ अप्रायत्ये समुत्पन्ने स्नानमेव तु कारयेत् । पूर्वोद्दिष्टस्तथा मन्त्रैरन्यथा मार्जनं स्मृतम् ॥३०॥ एतच्छ्र ुत्वा तु वचनं याज्ञवल्क्यस्य धीमतः । ऋषयः संयतात्मानः पृच्छन्ति स्नाननिर्णयम् ॥३१॥ इति श्रीबृहद्योगियाज्ञवल्क्ये संध्यानिर्णयो (नाम) षष्ठोऽध्यायः ॥६॥

सप्तमोऽध्यायः

स्नानविधिवर्णनम्

स्नानमदैवतैर्मन्त्रैर्यत्त्वयोक्तं पुराऽनघ । तदाचक्ष्व विशेषेण स्नानस्य तु विधि प्रभो ॥ १ ॥ तांस्तु प्रोवाच प्रीतात्मा याज्ञवल्क्यो महामुनिः । श्रणुध्वं वक्ष्यते म्रानं सर्वपापहरं शुभम् ॥ २ ॥ मृद्गोमयतिलान् दर्भान पुष्पाणि सुरभीणि च । आहरेत स्नानकाले तु स्नानार्थी प्रयतः शुचिः ॥ ३ ॥ गत्वोदकान्तं विधिवत् स्थापयेत तत पृथक् क्षितौ । त्रिधा कृत्वा मृदं तां तु गोमयं च विचक्षणः ॥ ४ ॥ उत्तमाधममध्यानामङ्गानां क्षालनं च तैः । भागैः पृथक् पृथक् कुर्यात् क्षालने मृदसंकरः ॥ ५ ॥ प्रभूते विद्यमाने तु उदके सुमनोहरे । नाल्पोदके द्विजः स्नायान्नदीं श्वो (चो) त्सृज्य कृत्रिमे ॥ ६ ॥ मृद्भिरद्भिश्च चरणौ प्रक्षाल्याचम्य वै शुचिः । उरु हीति ऋचा तोयमुपस्थाय प्रदक्षिणम् ॥ ७ ॥ आवर्तयेत्तदुदकं ये ते शतमिति ह्यचा ।

सुमित्रिया

इत्यञ्जलिमुद्धरेद्दवतं स्मरन ॥ ८ ॥ दुर्मित्रिया इति द्वि (द्व ) ज्यं ध्यायंश्चापः प्रसेचयेत् । मृद्भिरद्भिश्च गात्राणि क्रमशस्त्ववनेजयेत् ॥ ६ ॥

[[२२८४]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ सप्तमो-

एकया च शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि । कटिबस्त्थूरुजङ्घ च चरणौ च त्रिभिस्त्रिभिः ॥ १०॥ प्रक्षाल्य हस्तौ चाचम्य नमस्कृत्य जलं ततः । यत्किंचिदिति मन्त्रेण नमस्येत् प्रयताञ्जलिः ॥११॥ यत्र स्थाने च यत्तीर्थं नदी पुण्यतमा च या । तां ध्यायन् मनसाऽऽवाह्य अन्यत्रेष्ट विचिन्तयेत् ॥१२ गङ्गादिपुण्यतीर्थानि कृत्रिमादिषु संस्मरेत् । उदुत्यमिति प्रविशेज्जलं तु प्राङ्मुखं शुचिः ॥ १३॥ येन देवाः पवित्रेति कुर्यादालम्भनं त्रिभिः । महाव्याहृतिभिः पश्चादाचम्य प्रयतोऽपि सन् ॥१४॥ आलभेद्र मृदाङ्गानि इदं विष्णुरिति त्र्यृचा । भास्कराभिमुखो मज्जेदापो अस्मानिति व्यूचा ॥१५॥ ततो निघृष्य गात्राणि निमज्योन्मज्य वै शनैः । गोमयेन तु यः स्नायादापादतलमस्तकम् ॥१६॥ स स्नातः सर्वतीर्थेषु पूतः संवत्सरं भवेत् । आचम्य गोमयेनातो मानस्तोक्या समालभेत् ॥१७॥ ततोऽभिषिचेन्मन्त्रैस्तु वारुणैश्च यथाक्रमम् । इमं मे वरुणेत्युभ्यां त्वन्न सत्वन्न इत्यपि ॥ १८॥ इदमापउदुत्तम मित्येतन्मुञ्चन्त्ववभृथेति च । अभिषिच्य तथाऽऽत्मानं निमज्याचम्य वै पुनः ॥१६॥ दर्भैश्च पावयेन्मन्त्रैरब्लिङ्गैः पावनैः शुभैः । आपोहिष्ठेति तिसृभिरिदमापो हविष्मतीः ॥२०॥ऽध्यायः ]

स्नानविधिवर्णनम्

[[२२८५]]

त्र्यृचा ।

रसम् ॥२१॥

देवीराप इति द्वाभ्यामापो देवा इति

द्रुपदादिव इत्यृचा शन्नोदेवीरपां

आपो देवीति नवभिः पावमानीभिरेव च ।

पुनन्तु मायि (पि) तर इति पावमानीः प्रयोजयेत् ॥२२॥ चित्पतिर्मेति च शनैः पाव्यात्मानं समाहितः । हिरण्यवर्णा इति च पावमान्यस्तथाऽपराः ॥२३॥ तरत्समाः शुद्धवत्यः पवित्राणि च शक्तितः । वारुणीश्च ऋचः सूक्तं शक्तितश्च प्रयोजयेत् ॥२४॥

जलमध्यस्थितो विप्रः शुद्धभावो हरिं

ओंकारेण व्याहृतिभिर्गायत्र्या च

आदावन्ते च कुर्वीत अभिषेके

अपां मध्यं स्थितस्यैवं मार्जनं तु

स्मरेत् ।

समाहितः ॥२५॥

यथाक्रमम् ।

विधीयते ॥२६॥

अन्तर्जले जपेन्मनस्त्रिः कृत्वस्त्वघमर्षणम् ।

द्रुपदां वा त्रिरभ्यस्येदायं गौरिति वा जपेत् ॥२७॥ हंसः शुचिषदिति च त्रिरावर्त जपेदथ । अन्यानि चैव सूक्तानि स्मार्तदृष्टान्यनुस्मरेत् ॥२८॥ सव्याहृतिं सप्रणवां गायत्रीं त्रिर्जपेदथ ।

आवर्तयेद्वा प्रणवं स्मरेद्वा विष्णुमव्ययम् ॥२६॥

विष्णोरायतनं ह्यापः स एवाप्य (यो) निरुच्यते ।

तस्यैव सूनवत्वेतास्तम्मात्तं ह्यप्सु

नरादापः प्रसूता वैतेन नारा इति

संस्मरेत ॥३०॥

स्मृताः ।

ता एवास्यायनं ह्यापस्तस्मान्नारायणः स्मृतः ॥ ३१ ॥

[[२२८६]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ सप्तमो-

यं (यो ) हि व्रतानां वेदानां यमस्य नियमस्य च । भोक्तारं यज्ञतपसां ध्यायिनां ध्येयमेव च ॥३२॥ ध्यायेन्नारायणं देवं नित्यं स्नानादिकर्मसु । प्रायश्चित्त्यपि सर्वस्मादुष्कृतान् मुच्यते पुमान् ॥३३॥ प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः ॥ ३४॥ तदिष्णोरिति मन्त्रेण मज्जेदप्सु पुनः पुनः । गायत्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै ॥३५॥ पादेन पाणिना वापि यया वस्त्रेण वोदकम् । न हन्यान्नैव रुन्धीत न च प्रक्षोभयेद्विजः

॥३६॥

न कुर्यात् कस्यचित् पीडां मनोवाक्कायकर्मभिः । आचरन्नाऽभिषेकं च कर्माण्यन्यानि नाचरेत् ॥३७॥ स्नात्वैवं वाससी धोते अक्लिष्ट परिधाय च । प्रक्षाल्योरू मृदाद्भिश्च हस्तौ प्रक्षालयेत्ततः अभावे धौतवस्त्रस्य शाणक्षौमाविकानि च ।

॥३८॥

॥३६॥

कुतपं योगपट्टी वा द्विवासा येन वै भवेत् यावद्देवान् ऋषिश्चैव पितृ श्चापि न तर्पयेत् । तावन्नपीडयेद्वस्त्रं येन स्नातो न चोदके ॥४०॥ निष्पीडयति यः पूर्वं स्नानवस्त्रं तु तर्पणात् । निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः ॥४१॥ न क्लिन्नवासाः स्थलगो जपादीन्याचरेद्बुधः । वस्त्रनिष्पीडनं प्रेताः परिचार्य पिबन्ति हि

॥४२॥

[[६]]

[[६]]

Sध्यायः ]

स्नान विधिवर्णनम्

बताते नावासा नैकवासाः समाचरेत् ।

न जीर्णेन न नीलेन परिक्लिन वा जपेत्

वस्त्रनिष्पीडनं तोयं स्नानस्योच्छिष्टभागिनः ।

॥४३॥

भागधेयं श्रुतिः प्राहः तस्मान्निष्पीडयेत् स्थले ॥४४॥ पूर्व निष्पीडनं केचित् प्राग्देवपितृतर्पणात् ।

स्नानवस्त्रस्य नेच्छन्ति तस्मात् पूर्वं न पीडयेत् ॥४५॥

अन्नप्रकरवत्तस्य अपसव्येन पीडयेत् ।

पीडयित्वा ततः पश्चाज्जपं कुर्यात् सुविस्तरम् ॥४६॥ उदके चोदकस्थस्तु स्थलस्थः स्थलके शुचिः । पादौ स्थाप्योभयत्रैव आचम्योभयतः शुचिः ॥४७॥ यत्राशुचिस्थलं वा स्यादुदके देवताः पितॄन् ।

[[1]]

तर्पयेत्तु यथाकाममप्सु सवं प्रतिष्ठितम् ॥४८॥ आचान्तः पुनराचामेन्मन्त्रवत् स्नानभोजने । द्रुपदां वा त्रिरावर्त्य तथाचैवाघमर्षणम्

गायत्री वा त्रिरावर्त्य महाव्याहृतिभिस्तथा ।

सोपांशु प्रणवेनापि आपः पीता अघापहाः

आचम्य पाव्य चात्मानं निरायाम्य (त्रिरायम्य)

[[२२८७]]

[[118211]]

॥५०॥

शनैरसून् ।

अथोपतिष्ठेदादित्यमूर्ध्व पुष्पान्वितं जलम् ॥५१॥ प्रक्षिप्योद्वयमुदुत्यं चित्रं तचक्षुरित्यपि । हंसः शुचिपदेतानि शुभानि पावनानि च

॥५२॥

[[२२८८]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

एतज्जपेदूर्ध्वबाहुः सूर्यमीक्षन समाहितः ।

[ सप्तमो-

गायत्र्या तु यथाशक्ति चोपस्थाय दिवाकरम् ॥ ५३ ॥ विभ्राडित्यनुवाकेन सूक्त ेन पुरुषस्य तु । शिवसंकल्पेन तथा मण्डलब्राह्मणेन तु दिवा कीत्यैस्तथान्यैश्च सौरमन्त्रंश्चशक्तितः ।

जपयज्ञोऽपि कर्तव्यः सर्ववेदप्रणीतकैः

अध्यात्मविद्या विविधा जतव्या जपसिद्धये

पवित्रैर्विविधैश्चान्यैर्गुह्योपनिषदा तथा ।

॥५४॥

॥५५॥

॥ ५६ ॥

॥५८ ॥

प्रदक्षिणं समावृत्य नमस्कृत्योपविश्य च । दर्भेषु दर्भपाणिः स्यात् प्राङ्मुखस्तु कृताञ्जलिः ॥५७॥ स्वाध्यायं च यथाशक्ति ब्रह्मयज्ञार्थमाचरेत् । आदावाराभ्य वेदं तु स्नात्वोपर्युपरिक्रमात् यदधीतेऽन्वहं शक्त्या स स्वाध्याय इति स्मृतः । आकेशादानखाग्राच्च परं संतप्यते तपः ॥५६॥ यस्तु सम्यक् द्विजोऽधीते स्वाध्यायं शक्ति तोन्वहम् । ऋचं यजुर्वा साम वा गाथां हृद्यामथापि वा ॥ ६० ॥ ततः संतर्पयेद वानृषीन् पितृगणांस्तथा । संवत्सरं सावयवं देवीरप्सरसस्तथा ॥ ६१ ॥ ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्र प्रजापतिम् । तथा देवानुगान् नागान् सागरानपि पर्वतान् ॥६२॥ सरितः सरसीश्चैव यक्षान रक्षांसि मानुषान् । पिशाचांश्च सुपर्णाश्च भूतान्यथ पशून्स्तथा ॥६३॥

ऽध्यायः ]

तर्पणविधिवर्णनम्

वनस्पतीनोपधींश्च भूतग्रामं चतुर्विधम् ।

मरीचिरत्र्यङ्गगिरसौ पुलस्त्यं पुलहं क्रतुम् ॥६४॥

प्रचेतसं वशिष्ठं च भृगुं

सनकश्च सनन्दश्च तृतीयश्च

नारदमेव च ।

सनातनः ॥६५॥

कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ।

॥६८॥

[[२२८६]]

एते ब्रह्मसुताः सप्त मनुष्याः परिकीर्तिताः ॥६६॥ ब्रह्माद्यानुपवीती तु देवतीर्थेन तर्पयेत् । निवीती कायतीर्थेन मनुष्यान् सनकादिकान् ॥६७॥ अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । तृप्यतामिति सेक्तव्यं नाम्ना तु प्रणवादिना आवाह्य पूर्ववन्मन्त्रैरास्तीर्य च कुशान् शुचीन् । प्राग ेषु सुरान् सर्वान् दक्षिणाग्रेषु वै पितृन् ॥ ६६॥ नासनस्तु ( आसीनस्तु) स्वधाकारैर्गोत्रेण तु समाहितः । दक्षिणे पितृतीर्थेन पितृणां तृप्तिमावहन् ॥ ७०॥ सव्यं जानु ततोऽन्वाच्य पाणिभ्यां दक्षिणामुखः ।

तल्लिङ्ग स्तर्पयेन्मन्त्रैः सर्वान् पितृगणांस्तथा ॥७१॥

मातामहांश्च सततं

श्रद्धया

तर्पयेद्बुधः ।

प्राचीनावीत्युदकं च प्रसिञ्चेद्

यद्यद्ध.तं निषिचेत्तु तिलान्

तिलान्वितम् ॥ ७२ ॥

संमिश्रयेज्जले ।

अतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः ॥७३॥ दक्षिणे पितृतीर्थेन जलं सिञ्चेद्यथाविधि । दक्षिणेनैव गृह्णीयात् पितृतीर्थसमीपतः 110811

[[૯૦]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

पञ्च तीर्थानि विप्रस्य करें तिष्ठन्ति

[ सप्तमो-

दक्षिणे ।

सौमिकम् ॥७५॥

ब्राह्म दैवं तथा पैत्रं प्राजापत्यं तु अङ्गुष्ठमले ब्राह्म तु देवं ह्यङ्गुलमूर्धनि । प्राजापत्यं तु मूले स्यात् मध्ये सौम्यं प्रतिष्ठितम् ॥७६॥ अङ्गुष्ठस्य प्रदेशिन्या मध्ये पित्र्यं प्रकीर्तितम् । तिलानामप्यभावे तु सुवणं रजतान्वितम् ॥७७॥ तदभावे निषिञ्चत्तु दममंत्रेण वाग्यतः ।

व्यवाडनलः सोमो यमश्चैवार्यमा तथा 110211 अग्निष्वात्तान सोमपाश्च तथा बर्हिषदः पितृन् । यदिस्याञ्जीवत्पितृक एतान दिव्यान् पितृस्तथा ॥ ७६ ॥ येभ्यो वापि पिता दद्यात कामतस्तांस्तु तर्पयेत् । एतांश्च वक्ष्यमाणांश्च प्रमीतपितृको द्विजः ॥ ८० ॥ वसून् रुद्रांस्तथादित्यान् नमस्कारस्खधान्वितान् । एते सर्वस्य पितर एप्वायत्ताश्च मानुषाः आचार्यश्च पितृ श्चैव पितृप्रभृतिनामतः । मन्त्रैश्च देयमुदकं पितृणां प्रीतिवर्धनम् ॥८२॥ उदीरतामङ्गगिरस आयं त्वित्यूर्जमित्यपि । । पितृभ्यश्चापि ये चेह मधुवाता इति त्र्युचम् ॥८३॥ पितृन् ध्यायन प्रसिञ्चे’ जपन् मन्त्रान् यथाक्रमम् । तृष्यध्वमिति च त्रिर्वै दद्याच सलिलाञ्जलिम् ॥८४॥ नमो व इति जप्त्वा वै ततो मातामहान् सखीन् । तर्पयेदानृशंस्यार्थ धर्म परममास्थितः ॥८५॥

॥८१॥

ऽध्यायः ]

तर्पणविधिवर्णनम्

मातृर्मातृष्वसृः श्वश्रूर्मातुलानि (न) पितृष्वसृः ।

[[२२६]]

दुहितृ (तृ)श्च स्वस ( स ) श्चैव ज्ञात्यृत्विविवष्यबान्धवान् ८

नामतस्तु स्वधाकारैस्तपयेदनुपूर्वशः ।

सवर्णेभ्यो जलं देयं नासवर्णे

कथंचन 112011

पूर्वजांश्च पितृस्तर्प्य ततोन्येषां प्रदीयते ।

नास्तिक्यभावाद्यश्चापि न तर्पयति वै पितृन् ॥८८॥

पिवन्ति देहनिःस्त्रावं पितरोऽस्य जलार्थिनः ।

तम्मात् स्नानं प्रशंसन्ति श्रद्धाश्रद्धयापि वा

विदित्वैव सदा स्नायान विधिनानेन

कुर्यादहरहः श्राद्धमन्नाद्यं नोदकेन

तृप्त्यर्थं वै पितृणां तु आत्मनः श्रेय

नित्यशः ।

॥८॥

वा ॥६॥

इच्छता ।

यदेव तर्पयेदद्भिः पितृन् स्नात्वा द्विजोत्तमः ॥ ६१ ॥ तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् ।

निष्पीड्य स्नानवस्त्रं तु आचम्य प्रयतः शुचिः ॥१२॥

सुराणामर्चनं कुर्याद्ब्रह्मादिनाममत्सरः ।

ब्राह्मवैष्णवरौद्रश्च

सावित्रैमैत्रवारुणैः ॥६३॥

तलिङ्ग रर्चयेन्मन्त्रैः सर्वान देवान समाहितः । ध्यात्वा प्रणवपूर्वं तु देवतं तु समाहितः ॥६४॥ नमस्कारेण पुष्पाणि विन्यसेच्च पृथक् पृथक् । आवाहनादिकं कर्म यन्न प्रोक्तं मया त्विह ॥ ६५ ॥ तत् सर्वं प्रणवेनैव कर्तव्यं चक्रपाणिनः ॥ ६६ ॥

[[२२६२]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ सप्तमो-

दद्यान् पुरुषसूक्त ेन यः पुष्पाण्यप एव वा । अर्चितं स्याज्जगदिदं तेन सवं चराचरम् ॥६७॥

विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकरः । तस्मात पूज्यतमं नान्यमहं मन्ये जनार्दनात् ॥६८॥ विष्णुं वा भास्करं वापि सर्वदैव समर्चयेत् । सावित्र्यै च हविर्दद्यात् यथाशक्ति समाहितः ॥६६॥ ततोवलोकयेदकं हँसः शुचिषदित्यृचा । स याति ब्रह्मसदनं स्नात्वेक्षेयोनया रविम् ॥१००॥ अदृश्रमस्येति मन्त्रैरुपस्थाय दिवाकरम् । संवर्चसेति पाणिभ्यां तोयेनाविमृजेन्मुखम् ॥१०१॥ स्वयंभूरित्युपस्थाय सूर्यस्येति प्रदक्षिणा । समावृत्य नमस्कुर्याद्दिशो दिग्देवता अपि । ब्रह्मणे नये पृथिव्यै औषधिभ्यस्तथैव च ॥ १०२ ॥ वाचि ( चे च) वाचस्पतये विष्णवे मह्ते तथा । एताभ्यो देवताभ्यश्च नमस्कारादि वै जलम् ॥१०३॥ दत्त्वा नमस्येत् क्रमशस्त्वन्ते वै सर्वकर्मणाम् । नमोऽद्धयो नमोऽपांपतये वरुणाय नमो नमः ॥ १०४ ॥ इत्युक्त्वापो नमस्कृत्यावनौ देवांश्च नामतः । इदमापः प्रवहता ( त ) धाम्नो धाम्नस्तथैव च ॥ १०५॥ एवं संपूज्य देवेशं क्षणं ध्यात्वा निरञ्जनम् । विमोचनार्थं तीर्थस्य आप्यायस्वेति वै जपेत् ॥ १०६ ॥

[[२२६३]]

ऽध्यायः ]

तपणविधिवणनम्

देवा गातुविद इति कृत्वा जप्यनिवेदनम् । प्रक्षाल्य तीर्थदेशं तु गत्वा स्वं कम आचरेत् ॥१०७॥ उपस्थानादिर्यस्तासां मन्त्रवान कीर्ततो विधिः । निवेदनान्तं तत् स्नानमित्याहु ह्मवादिनः ॥ १०८ ॥ परकीयनिपानेषु यदि स्नायात् कदाचन । सप्त पिण्डान् समुद्धत्य ततः स्नानं समाचरेत् ॥१०६ ॥ अनुद्धत्य तु यः स्नायान् परकीयजलाशये । वृथा भवति तत् स्नानं कर्तुः पापेन लिप्यते ॥११०॥ स्रवन्त्यादिष्वथाचम्य सोपानत्को ह्यसंस्पृशन् । आगतः सोदपात्रस्तु यत्नेन शुचिरेव सः ॥ १११ ॥ तेनोदकेन द्रव्याणि प्रोक्ष्याचम्य पुनर्गृहे । ततः कर्माणि कुर्वीत नित्यं वै यानि कानि चित् ॥ ११२ ॥ पात्रादिरहितं तोयमुद्ध तं सव्यपाणिना । । न तेनाभ्युक्षणं कुर्याद्वस्त्रनिष्पीडनेन

कुर्याद्वस्त्रनिष्पीडनेन च ॥ ११३ ॥ । सौवणं राजतं ताम्रं मुख्यं पात्रं प्रकीर्तितम् । तदलाभे मृदं पात्रं स्रवते यन्न धारितम् ॥११४॥ स्नात्वैवं सर्वभूतानि तर्पयेयोन्वहं द्विजः । स गच्छति परं स्थानं तेजोमूर्तिरनामयम् ॥ ११५ ॥ स्नानमूलाः क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम् । तस्मात् स्नानं निषेवेत श्रीपुष्टयारोग्यवर्धनम् ॥११६ ॥ प्रातरुत्थाय यो विप्रः संध्यास्नायी सदा भवेत् । सप्तजन्मकृतं पापं त्रिभिर्वर्षैर्व्यपोहति ॥११७॥

[[२२६४]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ सप्तमो-

उषस्युपसि यत् स्नानं संध्यास्वनुदिते रखौ । प्राजापत्येन तत्तुल्यं महापातकनाशनम् ॥११८॥ त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः । समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ॥११६ ॥ वृथा उष्णोदकस्नानं वृथा जप्यमवैदिकम् । वृथा त्वश्रोत्रिये दानं वृथा भुक्तममाक्षिकम् ॥१२०॥ अस्नात्वा नाचरेत् कर्म जपहोमादि किंचन । लालास्वेदसमाकीर्णः शयनादुत्थितः पुमान् ॥१२१॥ क्लिद्यन्ति हि प्रसुतस्य इन्द्रियाणि सवन्ति च । अङ्गानि समतां गच्छन्त्युत्तमान्यधमैः सह ॥ १२२ ॥ अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येव दिवारात्रौ प्रातः स्नानं विशोधनम् ॥१२३॥ तस्मात् प्रातः प्रशंसन्ति स्नानमेव हि नित्यशः । कालमालम्व्य कर्तव्यं मध्यमे सवने तथा ॥ १२४ ॥ सवनत्रयं तु यः कुर्यात् स्नानमेव हि नित्यशः । स गच्छति परं स्थानं ब्रह्मणः सदनं द्विजः ॥ १२५॥ मनः प्रसादजननं रूपसौभाग्यवर्धनम् ।

शोकदुःस्वप्रहृत् स्नानमोजः प्रह्लादनं तथा ॥ १२६॥ स्नान होम जपातिथ्यं नाचरेच्छक्तिमांस्तु यः । वृथा हि जीवितं तस्य परलोकात् स. हीयते ॥ १२७॥ स्नानं दानं जपो ध्यानं पितृदेवार्चनं तथा । पावनानि मनुष्याणां दुष्कृतस्येह कर्मणः ॥ १२८॥ऽध्यायः ]

जप विधिवर्णनम्

[[२२६५]]

जपस्येह विधिं वक्ष्ये यथा काय विधानतः । ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ॥ सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ १२६ ॥ जप्येनैव हि संसिध्येन ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १३०॥ न च क्रमन्न विहसन्न पार्श्वमवलोकयन । ना (नो) पाश्रितो न जल्पंश्च न प्रावृत्य शिरस्तथा ॥ १३१ ॥ न पढ़ा पदमाक्रम्य न चैव हि यथा करे (रौ ) । न चासमाहितमना न च संश्रावयन जपेत् ॥ १३२॥ प्रच्छन्नानि च दानानि ज्ञानं च निरहङ्कृतम् । जप्यानि च सुगुप्तानि तेषां फलमनन्तकम् ॥ १३३॥ मानसः शान्तिकजप उपांशुः पौष्टिकः स्मृतः । सशब्दश्चाभिचारश्च जपस्तु त्रिविधः स्मृतः ॥ १३४॥ तिष्ठश्चेद्वीक्ष्यमाणोर्कमासीनः प्राङ्मुखो जपेत् । प्रागग्रषु कुशेष्वेवमासीनश्चासने शुभे ॥ नात्युच्छ्रिते नातिनीचे दर्भपाणिः सुसंयतः ॥ १३५॥ विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ १३६ ॥ स्फाटिकेन्द्राक्षरुद्राक्षपुत्रजीवसमुद्भवैः ।

अक्षमाला तु कर्तव्या प्रशस्ता ह्युत्तरोत्तरा ॥ १३७॥ कोट्या स्यात्तु भवेद्बुद्धिरनन्ता चात्र संज्ञया । जपस्य क्रियमाणस्य तस्माच्छ्रेष्ठा परा परा ॥ १३८ ॥

[[१४४]]

[[२२६६]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ सप्तमो-

अभावादक्षमालायाः कुशग्रन्थाऽथ पाणिना । जप एव हि कर्त्तव्य एकाग्रमनसा तथा ॥ १३ ॥ ध्यायेश्च मनसा मन्त्रं जिह्वौष्ठौ न विचालयेत् । न कम्पयेच्छिरोग्रीवं दन्तान्नैव प्रकाशयेत् ॥ १४० ॥ यक्षराक्षसभूतानि सिद्धविद्याधरोरगाः ।

हरन्ति प्रसभं यस्मात्तम्माद्गु समाचरेत् ॥१४९॥ जलान्ते वाग्न्यगारे वा जपेद्दे वालये तथा । पुण्यतीर्थे गवां गोष्ठ सिद्धक्षेत्रेऽथवा गृहे ॥ १४२ ॥ । गृहे कगुणं प्रोक्तं नद्यां तु द्विगुणं स्मृतम् । गवां गोष्ट दशगुणमग्न्यगारे दशाधिकम् । सिद्धक्षेत्रेषु तीर्थेषु देवतायाश्च संनिधौ । सहस्रं शतकोटीनामनन्तं विष्णुसंनिधौ ॥ १४३ ॥

॥ ॥ शाकयावकभैक्ष्याणि पयोमूलफलानि च । विसशृङ्गाटशालूक (कं) हविष्यान्नानि यानि तु । दधि सर्पिस्तथा ह्यापः प्रशस्ता ह्युत्तरोत्तरम् ॥ १४४॥ चरवो ह्युपवासश्च भैक्ष्यं नक्तमयाचितम् । एतान्येव व्रतान्याहुः शस्तानि जपकर्मणि ॥ १४५ ॥ जपकाले न भाषेत त्रतहोमादिकेषु च । एतेष्वेवावशक्तं तु यद्यागच्छेद् द्विजोत्तमः । अभिवाद्य ततो विप्रं योगक्षेमं च कीर्तयेत् ॥ १४६ ॥ स्त्रीशूद्रपतितांश्चैव पाषण्डिनं रजस्वलाम्॥

जपकाले न भाषेत व्रतहोमादिकेषु च ॥१४७॥

ऽध्यायः ]

जपविधिवर्णनम

यदि वाग्यमलोपः स्याज्जपादिपु कथञ्चन ।

व्याहरेद्वष्ण मन्त्रं स्मरेद्वा विष्णुमव्ययम् ॥ १४८ ॥ तूष्णीमासीत तु जपंश्चाण्डालपतितादिकान् । दृष्ट्वा तीर्थमुपस्पृश्य भाष्य स्नात्वा पुनर्जपन् ॥१४६॥ आचम्य प्रयतो भूत्वा जपेदशुचिदर्शने ।

[[२२६७]]

सौरान मन्त्रान् यथोत्साहं पावमानीश्च शक्तितः ॥ १५० ॥ रौद्रपित्र्यासुरान मन्त्रान् राक्षसानाभिचारिकान् । व्याहृत्यालभ्य चात्मानमपः स्पृष्टवान्यदाचरेत् ॥ १५१ ॥ एतान् व्याहृत्य रौद्रादीनस्पृष्ट वाऽशं जलं द्विजः । ऊर्ध्वं यत् कुरुते कर्म तद्भवत्ययथायथम्

स्पर्शेनाद्भिर्दूषिताभिरुद्ध ताभिश्च मानवः ।

॥१५२॥

स्नानमाचरनुष्णाभिर्न विशुद्धयति कर्हिचित् ॥१५३॥ अग्राह्यस्त्वमिमा ह्यापो नद्याः प्रथमवेगगाः ।

प्रक्षोभिताश्च केनापि याश्च तीर्था द्विनिः सृताः ॥ १५४॥ । अगम्यागमनात् स्तेयात् पापेभ्यश्च प्रतिग्रहात् । रहस्याचरितात् पापात्मुच्यते स्नानमाचरन् ॥१५५॥ प्रकतुमसमर्थश्चेत् जुहोतियजतिक्रियाः ।

स्नानध्यानजपैर्होमैरात्मानं शोधयेद्बुधः

यदैव कुरुते स्नानं विशुद्ध नान्तरात्मना ।

॥१५६॥

ते नैव सर्वमाप्नोति विधिं यज्ञक्रियाफलम् ॥१५७७ ब्रह्मक्षत्रविशां चैव मन्त्रवत् स्नानमिष्यते ।

तूष्णीमेव तु शूद्रस्य सनमस्कारकं स्मृतम् ॥१५८॥

[[२२६८]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ सप्तमो-

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दमः शमार्जवं दानं सर्वेषां धर्मसाधनम् । गृहीत्वा यमधनुर्वै नियमज्याततं दृढम् । संदधीत दमशरं स्वर्गलक्ष्ये प्रयत्नतः ॥१५६॥ यस्येदमायुधं नास्ति स्वर्गसाधनमुत्तमम् ।

अपि जन्मसहस्र ेण न साधयति तत् परम् ॥ १६० ॥ एष वोऽभिहितः कृत्स्नः स्नानस्य परमां विधिः । गुणाश्च तस्याऽऽचरतो दोषाश्चैवानिषेवणात् ॥ १६२ ॥ असामर्थ्याच्छरीरस्य कालशक्तिव्यपेक्षया । मन्त्रस्नानादिकान सप्त केचिदिच्छन्ति सूरयः ॥१६२ ॥ मान्त्रं भौमं तथाऽऽग्न ेयं वायव्यं दिव्यमेव च । वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात् ॥ १६३ ॥ आपोहिष्ठति वै मन्त्रं मृदालम्भश्च पार्थिवम् । आमयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ॥ १६४ ॥ यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते । वारुणं चावगाहस्तु मानसं विष्णुचिन्तनम् ॥ १६५॥ शस्तं स्नानं यथोद्दिष्ट मन्त्रस्नानक्रमेण तु । कालदोषादसामर्थ्यात् सर्वं तुल्यफलं स्मृतम् ॥ १६६॥ मानसं प्रणवस्नानं केचिदिच्छन्ति सूरयः ।

[[1]]

आत्मतीर्थप्रशंसायां व्यासेन पठितं यतः । । १६७॥ योऽसौ विस्तरशः प्रोक्तः स्नानस्य विधिरुत्तमः । अशक्तस्तु न कुर्याद्वै तत्रायं विधिरुच्यते ॥ १६८॥ ।

ऽध्यायः ]

जपविधिवर्णनम्

[[२२६६]]

स्नानमन्तर्जले चैव मार्जनाचमने तथा ।

जलाभिमन्त्रणं चैव तीर्थस्य परिकल्पनम् ॥१६६॥

अघमर्षणसूक्त ेन त्रिरावृत्तेन नित्यशः ।

अन्यांश्च वारुणान् मन्त्रान् कामतः संप्रयोजयेत् ॥ १७० ॥

यथाकालं यथादेशं ज्ञात्वा ज्ञात्वा विचक्षणः । स्नानाचरणमित्येतत् समुद्दिष्ट महात्मभिः । वारुणानथवा मन्त्रान् कामतः संप्रयोजयेत् ॥ १७१ ॥ अघमर्षणसूक्तस्य ऋषिश्चैवाघमर्षणः ।

अनुष्टुप् च भवेच्छन्दो भाववृत्तं च दैवतम् ॥ १७२ ॥

अश्वमेघावभृथके विनियोगस्तु कल्पितः ।

सर्वपापापनोदार्थं

स्मृतिकारैरुदाहृतम् ॥१७३॥

ननु भूताण्डपिण्डस्य स्थित्युत्पत्तिलयं तथा ।

सूक्ते ऽस्मिन् व्याहृतं सर्वमेतन्मन्त्रार्थमस्य वै ॥१७४॥

हत्वा लोकानपीमांस्त्रीस्त्रिः पठेदधमर्पणम् ।

यथाश्वमेधावभृथमेवं

तन्मनुरब्रवीत् ॥१७५॥

अहं तु परमेत्युक्तस्त्रिरह्नो ह्य् पपन्नयः । (?)

मुच्यते पातकैः सर्वैर्जप्त्वा त्रिरधमर्पणम् ॥१७६॥

यथाश्वमेधः क्रतुराट् सर्वपापप्रणोदनः ।

तथाऽघमर्षणं सूक्तं

सर्वपापप्रणोदनम् ॥ १७७॥

सिंधुद्वीपो भवेदाषं गायत्री च्छन्द एव हि ।

आपस्तु दैवतं प्रोक्तं विनियोगस्तु मार्जने ॥१७८॥

[[२३००]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ सप्तमो-

सर्वत्र मार्जनं कर्म अब्लिङ्गानामुदाहृतम् । कोकिलो राजपुत्रश्च द्रुपदामामुच्यते ॥ १७६ ॥ अनुष्टुभं भवेच्छन्द आपश्चैव तु दैवतम् । सौत्रामण्यवभृथ के स्नाने तद्विनियोजनम् ॥१८०॥ द्रुपदा नाम सावित्री यजुर्वेदे प्रतिष्ठिता । अन्तर्जले त्रिरावर्त्य ब्रह्महत्यां व्यपोहति ॥१८१॥ आपः पुण्याः समादाय त्रिः पठेद्द्द्रुपदामृचम् । तत्तोयं मूर्ध्नि विन्यस्य सर्वपापैः प्रमुच्यते ॥ १८२ ॥ । एवं ज्ञात्वा तु मन्त्राणां विनियोगं द्विजोत्तमाः । संध्यां यद्वदुपासीत तथा सवं निबोधत ॥ १८३॥ ऐशान्यभिमुखो भूत्वा शुचिः प्रयतमानसः । आचान्तः पुनराचामेद्दतमित्यभिमन्त्रय च ॥ १८४॥ आन्तरं शुध्यति ह्य ेवमन्नपानमलीकृतम् ।

त्रिरावर्त्य तु सावित्रीं प्रणवं व्याहृतीस्तथा ॥१८५॥ मार्जनं च तथा कृत्वा आपोहिष्ठेति मार्जयेत् । सार्धामृचं तु प्रक्षिप्य ऊध्वं सार्द्धामधः क्षिपेत् ॥ १८६॥ अधोभागविसृष्टाभिः कलुषं याति संक्षयम् । सर्वतीर्थाभिषेकश्च ऊर्ध्वं संमार्जनाद्भवेत् ॥ १८७॥ अघमर्षणसूक्तेन मार्जनं कारयेत्ततः । शन्न आपश्च द्रुपढ़ां कामतः संप्रयोजयेत् ॥ १८८ ॥ ओंकारपूर्वा गायत्री अब्लिङ्गान्यघमर्षणम् ।

ज्ञातव्यं ब्रह्म चैतद् पुरा दृष्ट स्वयंभुवा ॥१८६॥

ऽध्यायः ]

प्राणायामवर्णनम्

एवं समार्जनं कृत्वा बाह्यशुद्धयर्थमात्मनः ।

अथाभ्यन्तरशुद्धयर्थं प्राणायामान् समाचरेत् ॥ १६०॥

इति श्रीबृहद्योगियाज्ञवल्क्ये स्नानतर्पणसंध्योपासनजपादिविधि ( निर्णयो नाम) सप्तमोऽध्यायः ॥७॥

[[२३०१]]

अथ अष्टमोऽध्यायः

प्राणायामवर्णनम्

अत ऊर्द्ध प्रवक्ष्यामि प्राणायामस्य लक्षणम् । प्रत्याहारं तथा ध्यानं यथावदनुपूर्वशः । । उच्यमानं निबोधध्वं संक्षेपेण द्विजोत्तमाः

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते गायत्री शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् ।

प्रतिप्रणव संयुक्ता

त्रिरयं प्राणसंयमः

भूर्भुवः स्वर्महर्जनस्तपः सत्यं तथैव च ।

प्रत्योंकारसमायुक्त

तत्सवितुर्वरेणियम्

॥ १ ॥

॥२॥

॥३॥

॥४॥

ओमापो ज्योतिरित्येतच्छिरः पश्चात् प्रयोजयेत् ॥५॥

एष मन्त्रप्रयोगस्त्रिः प्राणायामे निबोधत ।

त्रिरावर्तनयोगात्तु प्राणायामस्तु शब्दितः ॥ ६ ॥

[[२३०२]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ अष्टमो-

त्रिविधं केचिदिच्छन्ति तथा च नवधा परे । मृदुमध्याधिमात्रत्वादेकैकं त्रिविधं भवेत् ॥ ७ ॥ ओंकारं व्याहृतीः समं गायत्री सशिरास्तथा । प्राणायामोऽयं मनुना वेदेषु कथितः पुरा ॥ ८ ॥ पूरकः कुम्भकश्चैव रेचकस्तदनन्तरम् । प्राणायामस्त्रिधा ज्ञेयः कनीयोमध्यमोत्तमः ॥ ६ ॥ पूरकः कुम्भको रेच्यः प्राणायामस्त्रिलक्षणः । ( कन्यस मध्यममुख्या इति त्रयं प्रोच्यते तज्ज्ञेः )॥१०॥ ( द्वादशमात्रः प्रथमो मध्यम उक्तस्तथातद्विगुणः । ) ( उत्तम उक्तस्त्रिगुणः मात्राभेदाः प्रकीर्तितास्तज्ज्ञैः ॥११॥ अङ्गुलिमोक्षत्रितयं जानूर्वोः परिमार्जनमथापि ।

तत् कालत्रयमपि तज्ज्ञा मात्रासंज्ञां प्रशंसन्ति ॥१२॥ गोदोहमनपाको वा इषुक्षेपो थापि वा । घण्टायाः स्तनितं वाऽपि ह्यतिमात्रा उदाहृताः ॥१३॥ देशकालानुसारेण सेव्यमानः शनैर्यदा । स्वेदकंपादि जनयेदतिमात्रस्तदा भवेत् ॥ १४ ॥ निरोधकाले प्राणस्य मात्राः संकल्पयेत् कथम् । तस्मात् स्मृतिप्रतिष्ट तत् कल्पयित्वा तु योगिभिः ॥१५ आदिप्रयत्नं प्रथमं द्वितीयं यत्र चेतसि ।

तृतीयं तु

समुद्दिष्टमुद्वयं तमसस्परि ॥ १६ ॥

पूर्वोक्तस्य तु मन्त्रस्य यथासंख्यं प्रकीर्तयेत् ।

मात्रायोगा यथोक्तांस्तु कृता एव भवन्ति च ॥१७॥

ऽध्यायः ]

प्राणायामनिर्णयवर्णनम्

एतन्मात्राप्रयोगेण प्राणायामत्रयस्य

[[२३०३]]

च ।

ग्रहणं धारणोत्सर्गं यथासंख्येन कारयेत् ॥१८॥

वाह्यस्थित नासपुटेन वायु-

माकृष्य तेनैव शनैः समन्तात् ।

नाडीश्च सर्वाः प्रतिपृरयेत्तु

स पूरको नाम मरुन्निरोधः ॥१६॥

न रेचको नैव च पूरकोऽयं

नासाग्रचारी स्थित एव वायुः ।

सुनिश्चितं धार्य यथाक्रमेण

निष्क्राम्य

कुम्भाख्यमेतत् प्रवदन्ति तज्ज्ञाः ॥२०॥

नासाविवरादशेपं

प्राणं बहिः शून्यमिवानिलेन ।

निरुच्छ्रवसंस्तिष्ठति चोद्ध (रुद्ध) वायुः

स रेचको नाम महानिरोधः ॥२१॥

नासिकाकृष्ट उच्छ्वासो ध्मातः पूरक उच्यते ।

कुम्भको निश्चलश्वासो मुच्यमानस्तु रेचकः ॥२२॥

नीलोत्पलदलश्यामं नाभिमध्ये

चतुर्भुजं महात्मानं पूरकेणैव

प्रतिष्ठितम् ।

चिन्तयेत् ॥२३॥

कुम्भकेन हृदि स्थाने ध्यायेच कमलासनम् ।

ब्रह्माणं रक्तगौराङ्ग चतुर्वक्त्रं पितामहम् ॥२४॥

रेचकेनेश्वरं ध्यायेल्ललाटस्थं

त्रिलोचनम् ।

शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम् ॥२५॥

[[२३०४]]

यदा

बृहद्योगियाज्ञवल्क्यस्मृतिः

निरोधसंयोगाद्दं वतात्रय चिन्तन त् ।

[ अष्टमो-

अन वयोरपां योगादात्मा शुद्धयत वै त्रिभिः ॥२६॥ निरोधाज्जायते वायुर्वायोरग्निश्च जायते । अग्नरापोभिजायन्ते ततोऽन्तः शुद्धयते त्रिभिः ॥२७॥ सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ।

अपि भ्रणहनं मासान पुनन्त्यहरहः कृताः ॥२८॥ प्राणायामा ब्राह्मणेन त्रयोऽपि विधिवत् कृताः । व्याहृतिप्रणवः सार्द्धं (धं) विज्ञेयं परमं तपः ॥२६॥ दह्यन्तं ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्तं दोपाः प्राणस्य निग्रहात् ॥३०॥

अह्ना रात्र्या च यान् जन्तून् हिनस्त्यज्ञानतो यतिः । तेषां स्नात्वा विशुद्धयथं प्राणायामान् पडाचरेत् ॥३१॥ प्राणायामै दहेोपान् धारणाभिश्च किल्विषम् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥३२॥ यथा पर्वतधातूनां दोपान् दहति पावकः । एवमन्तर्गतं चैनः प्राणायामेन दह्यते ॥३३॥ विरजं चतुर्गुणं कृत्वा नियतात्मा जितेन्द्रियः । प्राणायामैश्चतुर्भिस्तु मुच्यते ह्य् पपातकात् ॥३४॥ मन्त्रैहों में मर्जिनाभ्युक्षणैश्च प्राणायामैर्योगसिद्धिजयन्ति । निर्धूतपापा विरजा विशुद्धा

योगाग्निना दग्धबीजा ब्रजन्ति ॥ ३५ ॥प्राणायामप्रत्याहारनिर्णयवर्णनम्

Sध्यायः ]

प्राणायामशतं

कार्य सर्वपापप्रणाशनम् ।

[[२३०५]]

उपपातकजातीनामनादिष्टस्य चैव हि ॥३६॥ यदहा कुरुते पापं कर्मणा मनसा गिरा । त्रिकाल संध्याकरणान प्राणायामैर्व्यपोहति ॥३७। ब्रह्महा च सुरापश्च अगम्यागमने रतः । सुवर्णस्तेय चौरश्च गोनो विस्रम्भघातकः ॥ ३८॥ शरणागतधाती च कूटमाक्षी कार्यकृत् । एवमादिष्वथान्येषु पापेष्वभिरताश्चिरम ॥३६॥ प्राणायामशतं कुर्युः सूर्यस्योदयनं प्रति । निर्मला : स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥४०॥ सूर्यस्योदयनं प्राप्य निर्मला गतकिल्विषाः । भवन्ति भारकराकारा विधूमा इव पावकाः ॥ ४१ ॥ ध्यानेन सदृशं नास्ति शोधनं पापकर्मणाम् । श्वपाकेष्वपि भुञ्जानो ध्यायी नैव तु लिप्यते ॥४२॥ पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणोऽन्तिकं । रेचनेन तृतीयेन प्राप्नुयादैश्वरं पदम् ॥४३॥

न येन सक्त न करस्थांश्च प्राणा (ण)

प्राणेनाप्यपानेन वेगाद्वायुं

शनैर्नासापुटैर्वायुमुत्सृजेन्न च

न कम्पयेच्छरीरं तु स योगी

समुत्सृजेत् ।

योगेन चालयेत् ॥४४॥ वेगतः ।

परमो मतः ॥ ४५ ॥

प्राणस्यायमनं कृत्वा आचमेत् प्रयतोऽपि सन् । आन्तरं स्विद्यते यस्मात्तस्मादाचमनं स्मृतम् ॥४६ ॥

[[२३०६]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

एवं त्रिविधमुद्दिष्टं प्राणायामस्य लक्षणम् ।

[ अष्टमो-

स्मृतिदृष्टुं भवेदेतत् सिद्धान्ते त्वेतदन्यथा ॥४७॥ मात्राप्रमाणयोगेन प्राणापाननिरोधनात् ।

ओंकारेणैव कर्तव्यः प्राणायामो यथोदितः ॥४८॥ मात्रायोगप्रमाणेन प्रणवं परिचिन्तयेत् । मृदुमध्योत्तमत्वाच्च त्रिविधः सोऽपि कथ्यते ॥ ४६ ॥ एवं तु त्रिविधं कृत्वा प्राणायामं विधानतः । प्रत्याहारं ततः पश्चाच्चिन्तयेत्तन्निबोधत ॥ ५०॥ वायुर्बाह्यो यथा देहे गृहीतस्तन्न (तः स तु ) कोष्ठगः । शनैः शनैर्निरोद्धव्यः प्रत्याहारः स उच्यते ॥ ५१ ॥ इन्द्रियाणां तु सर्वेषां या वृत्तिस्तु प्रकीर्तिता । मनसा प्रतिहतंत्र्या प्रत्याहारस्ततः स्मृतः ॥५२॥ सर्वाङ्गाणि यथा कूर्मो दृष्ट्वा संकोचयेत् क्षणात् । तथेन्द्रियाणीन्द्रियार्थात् तानि प्रत्याहरेद्बुधः ॥ ५३ ॥ संकल्पोऽध्यवसायश्च अभिमानस्तथैव च । तथैव वायवः सूक्ष्मा निरोद्धव्याः प्रयत्नतः ॥ ५४ ॥ अतीतानागतेभ्यश्च कामेभ्यस्तु पुनः पुनः । एकत्र धारयेद्यस्तु सोऽमृतत्वाय कल्पते ॥५५॥ शतत्रयं तु श्लोकानामष्टात्रिंशाधिकं तथा । स्नानस्य निर्णयः प्रोक्तः शिष्याणां हितकाम्यया ॥ ५६ ॥ इति श्रीबृहद्योगियाज्ञवल्क्ये प्राणायामप्रत्याहारनिर्णयो

( नाम ) अष्टमोऽध्यायः ॥

अथ नवमोऽध्यायः

ध्यानविधिवर्णनम्

ध्यानस्य तु विधिं वक्ष्ये शृण्वन्तु ऋषयः सदा । एभ्यस्तु पुनरावृत्तिः कदाचिदिह दृश्यते ॥ १ ॥ ध्यानं कृत्वा चतुर्थं तु न भूयो जन्म चाप्नुयात् । ततः सम्यक् प्रवक्ष्यामि प्राणायामचतुर्थकम् ॥ २ ॥ बाह्यस्तु विषयाक्षेपचित्तविक्षेपवर्जितः ।

मानसे विमले शान्ते स्थितं विष्णुं हृदि क्षिपेत् ॥ ३ ॥ तद्वयानं तत्तु वै योगो मोक्षमार्गप्रसाधकम् । ओं भूर्भुवः स्वर्महर्जनस्तपः सत्यमित्येवं ब्रह्मवैदिकम् ॥

एतदुच्चार्य वै विप्रः परे धानि नियोजयेत् । हृद्यमिश्चैव वायुश्च जीवेशः समुदाहृतः ॥ ५ ॥ एषां ह्यन्तःशरीरस्थं ओंकारेणोपलक्ष्यते । ओंकारं पद्मनालेन उद्धृत्योपरि योजयेत् ॥ ६ ॥ आ(अ) प्राणाच्छ्रन्यभूतं तु चेतोङ्ग जीवसंज्ञकम् । जप ( जाय ) ते तु यतस्तस्मात् पुनस्तत्र निवेशयेत् ॥ ७ ॥

घण्टाशब्दवदोंकारमुपासीत समाहितः ।

पुरुषं निर्मलं शुद्ध पश्यत्यत्र न संशयः ॥ ८ ॥ कुण्डलाकृतिसंस्थानं प्रसुप्तोरगसंनिभम् ।

तन्मध्ये संस्थितो ह्यात्मा धामात्मा बिन्दुलक्षणः ॥ ६ ॥

[[२३०८]]

बृहयोगियाज्ञवल्क्यस्मृतिः

[ नवमो-

वक्रं तु भवति ह्यादौ ओंकारं चतुरक्षरम् ।

जुत्वं संप्रपद्येत पदं प्राप्य तु पञ्चमम् ॥१०॥ मध्यमस्तु भवेद्विन्दुर्मूर्धन्येवावतिष्ठते ।

तत्र वाचो निवर्तन्ते सर्वे वर्णास्तथैव च ॥११॥ तस्मात् सर्वे प्रसूयन्ते वर्णास्तत्र विशन्ति च । वर्णात्मा हीनवर्णस्तु सर्ववर्णेषु जीवनम् ॥१२॥ न घोषं नैव चाघोषं दन्तोष्ठ्यं नैव तालुजम् । न मूर्धन्यं च चान्तःस्थं न स्वरं व्यञ्जनं न च ॥ १३॥ न कत्र्यं (य) नैव चोप्माणं न वर्ग न विसर्गिणम् । जिह्वामूलमुपध्मानमनुस्वारं न चैव हि ॥ १४॥ हृद्याकाशनिविष्टस्तु सोऽक्षरत्वं निगच्छति । अक्षराणि त्रिपष्टिर्वै स्थानयोगाद्भवन्ति हि ॥ १५ ॥ एतत्तु परमं ध्येयं व्योममध्ये व्यवस्थितम् । व्योम्नश्चोपरि मध्यस्थमनन्ताकाशमव्ययम् ॥ १६ ॥ यस्याकाशमयं कौष्टमनन्तं परमालयम् । संयोगश्चेतनोऽस्माकं प्रकाशश्चाग्निसूर्ययोः ॥ १७ ॥ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकम् ॥१८॥ अन्तरेऽस्मिन्निमे लोका अन्तर्विश्वमिदं जगत् । अयं च मूलकं ब्रह्म सर्वेषां चान्तरिस्थतम् ॥ १६ ॥ न तद्भासयते सूर्यो न शशाङ्को न

पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥२०॥

ऽध्यायः ]

ध्यानविधिवर्णनम

तस्मादंशं विनिष्क्रान्तं जीवभूतं सनातनम् 1

ब्रह्मणः परमं ब्रह्म ज्योतिषां ज्योतिरुत्तमम् ॥२१॥

हृदये सर्वभूतानां जीवभूतः स तिष्ठति ।

स एव भगवान् विष्णुर्वेदान्तैरुपगीयते

ईश्वरं पुरुषाख्यं तु सत्यधर्माणमव्ययम् ।

મારા

भर्गाख्यं विष्णुसंज्ञां तु यं ज्ञात्वाऽमृतमश्नुते ॥२३॥ हृद्व्योम्नि तपते प बाह्य सूर्यस्य चान्तरे । अग्नौ ह्यधूमके ह्येष ज्योतिश्चित्रतरङ्गवत् ॥२४॥ हृद्याकाशे तु यो जीवः साधकैरुपगीयते ।

॥२६॥

स एवाऽऽदित्यरूपेण वहिस्तम ( नभ) सि राजते ॥२५॥ तस्य चान्तर्गतं धाम सूक्ष्मं प्राकाश्यमेव च । स चात्मा सर्वभूतानां चेतोमात्रस्वरूपकः एकधा यो विजानाति ज्ञात्वा चैनमुपासते । स परं विद्यते व्योम ब्रह्माणं समुपाश्नुते (?) ॥२७॥ ज्ञानकर्मसमायोगात् परमाप्नोति पूरुषम् ।

पृथग्भावं न सिध्येत उभे तस्मात् समाश्रयेत् ॥२८॥

ज्ञानं प्रधानं न तु कर्महीनं ।

कर्म प्रधानं न तु बुद्धिहीनम् ॥

तस्माद्द्द्वयोरेव भवेत सिद्धि ।

र्न ह्येोकपक्षो विहगः प्रयाति ॥२६॥

गवां सर्पिः शरीरस्थं न करोत्यङ्गपोषणम् ।

निःसृतं कर्मचरितं पुनस्तस्यैव भेषजम् ॥२०॥

[[२३०६]]

[[२३१०]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ नवमो-

एवं सति शरीरस्थः सर्पिवत् (र्वत) परमेश्वरः । विनाचोपासनाद्ददेव न करोति हितं नृपु ॥३१॥ कर्माणि विनाशीनि बीजवन प्रभवन्ति च ।

तानि योगाग्निदग्धानि न प्ररोहन्ति वै पुनः ॥३२॥

एतस्मात् कारणाद्वयानं धारणां प्राणसंयमम् ।

कुर्याद्यत्नेन योगज्ञः

कर्मसंन्यास चिन्तनम् ॥३३॥

परिज्ञानाद्भवेन्मुक्तिरेतदालस्यक्षणम् ।

कामक्लेशभयाचैव कर्म नेच्छन्त्यपण्डिताः ॥३४॥ यमैश्च नियमैश्चैव आसने. प्राणसंयमैः ।

प्रत्याहारेण ध्यानेन धारणाभिः समाधिना ॥३५॥ अष्टाङ्गेन तु योगेन उपास्यात्मा विमुच्यते । अणिमादि तथैश्वर्यं प्रत्यक्षं जायते ध्रुवम् ॥३६॥ प्रणवव्याहृतिभ्यां च सावित्र्या त्रितयेन च ।

उपास्यं त्रितयं ब्रह्म आत्मा ह्यत्र प्रतिष्ठितः ॥३७॥ विद्या जपश्च चिन्ता च एतद्धि त्रितयं स्मृतम् । एतेन त्रितयेनाथ उपास्यात्मा विमुच्यते ॥३८॥ प्रणवाद्या भवेद्विद्या प्राणायामस्तपः स्मृतम् ।

ध्यानं च धारणा चैव चिन्ता ह्येषा उदाहृता ॥३६॥ सावित्र्याश्चैव माहात्म्यं ज्ञात्वा चैव यथार्थतः । तस्यां यदुक्तं चोपास्य ब्रह्मभूयाय कल्पते तच्छदोन तु यच्छन्दो वोद्धव्यः सततं बुधैः ।

[[118011]]

उदाहृते तु तच्छदे यच्छन्द उदितो भवेत् ॥४१ ॥

ऽध्यायः ]

गायत्री व्याख्यान वर्णनम्

॥४२॥

देयस्य सवितुर्यश्च भर्गमन्तर्गतं विभुम् । । ब्रह्मवादिन एवाहुर्वरेण्यं तच धीमहि चिन्तयामो वयं भगं धियो यो नः प्रचोदयात् । धर्मार्थकाममोक्षेषु बुद्धिवृत्तीः पुनः पुनः ॥४३॥ बुद्ध बौधियिता यस्तु चिदात्मा पुरुषो विराट् । सवितुस्तद्रेण्यं तु सत्यधर्माणमीश्वरम् 118811 हिरण्यवर्णं पुरुषं ध्यायेम विष्णुसंज्ञकम् । भेति भासयते लोकान् रेतिरञ्जयते प्रजाः गइत्यागच्छतेऽजस्त्रं भरगा (णा) द्भर्ग उच्यते ।

॥४५॥

[[२३११]]

अग्नीषोमात्मकं बिभ्रद्वश्वरूपेण कर्मणा

॥४६ ॥

जगदाधानसिद्धयर्थं सूर्यात्मा जगतोऽपि च ।

शश्वत्प्रसूयणात् सूर्यः पावनात् पवनः स्मृतः

॥89।1

आप्यायनात्तु वरुणः श्रेष्ठत्वादिन्द्र एव सः ।

भौमान्तरिक्षं दिव्यं च आ (अ) प आहू

रविन्धनम् ॥४८॥

॥४६॥

एता गभस्तिभिः पीता दीप्यन्ते रविमण्डले । एतैः पर्यायशब्दस्तु एक एव सदोच्यते भ्राजते च यदा भर्गः पुरुषत्वाच्च पूरुषः । सर्वात्मा सर्वभावस्तु आत्मा तेन निगद्यते ॥५०॥ तत्सवितुर्वरेण्यं च चेतनात्मा महेश्वरः ।

आ (अ) पः संक्षिप्य सवितुस्ततः सर्गः प्रवर्तितः ॥ ५२ ॥ १४५

[[२२१२]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

सर्वेपामेव भूतानामापोज्योतिरिहोच्यते ।

[ नवमो-

भ्ररज पाके भवेद्वातुर्यस्मात् पाचयते ह्यसौं ॥२२॥ भ्राजते दीप्यते यस्माज्जगदन्ते हरत्यपि । कालाग्निरूपमास्थाय सप्तार्चिः सप्तरश्मिभिः भ्राजते स्वेन रूपेण तस्माद्भर्ग इति स्मृतः ।

॥५३॥

दीव्यते क्रीडते यस्माद्योतते रोचतं दिवि ॥५४॥ तस्माद्देव इति प्रोक्तस्तूयते सर्वदैवतैः ।

[[112411]]

सविता सर्वभूतानां सर्वभावान् प्रसूयते सवनात् पावनाञ्चैव सवित। तेन चोच्यते । वरेण्यं वरणीयं च जन्मसंसारभीरुभिः ॥५६॥ आदित्यान्तर्गतं भर्गः सेव्यते वै मुमुक्षुभिः ।

जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च

[[112011]]

ध्यानेन पुरुपो यस्तु द्रष्टव्यः सूर्यमण्डले । मन्त्रोर्थमपि वेदादौ स्थापयत्येवमेव हि ॥ ५८ ॥ हिरण्मयेन पात्रेण सत्यस्याऽपिहितं मुखम् ।

तत्वं पूपन्नपावृणु सत्यधर्माय दृष्टये

योऽसावादित्ये पुरुषः सोऽसावहम् ।

॥५६॥

कवि पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ॥ ६०॥ सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् । भर्गस्तु पुरुषो ह्यात्मा ईश्वराख्यः शुचिस्तथा ॥ ६१ ॥ हिरण्यगर्भो विष्णुश्च शुक्लश्चैव ह्यलिङ्गगकः । ईशिता सर्वभूतानां कर्मदोषाशयैरपि ॥६२॥

ऽध्यायः ]

अध्यात्म निर्णयवर्णनम

न परामृश्यते यस्माद्विशेषादीश्वरः स्मृतः ।

[[२३१३]]

शोधनाच्छुद्ध नाचैव अक्लिन्नत्वाच्छुचि स्मृतः ॥ ६३॥ । हिरण्मयस्य गर्भोऽभूत हिरण्यस्य च गर्भजः । तस्माद्धिरण्यगर्भेति पुराणे विनिगद्यते ॥६४॥ हैरण्यमण्ड संदीप तपोज्ञानात्तु वै पुरा ।

एक द्वादशधा गर्भमदितिर्विष्णुमजीजनत् ॥६५॥ तम्यांल्वा (ल्व) हृस्थितो मेरुरुदुरात सप्त सिन्धवः । पर्वताश्च जरायूत्था नद्यो धमनिसंज्ञिकाः ॥६६॥ दिवरच पृथवी चैव कपाले द्वं व्यवस्थिते । मध्येऽन्तरिक्षमभवत् त्रैलोक्यस्यैप संभवः

॥६॥

एते ण्डकपाले द्वं अपां मध्ये निवेशिते । एकोऽधस्तात् समभवन् द्वितीयं नन्दनं वनम् ॥६८ ॥ तन्मध्याद्यः शिशुर्जातो मातण्डः सवितेति सः । सर्वाणि चास्य भूतानि ह्युपासन्ते समन्ततः ॥ ६६॥ एतस्य ब्रह्मणान्यस्तं स्तूयते स (सा) र्वलो (लौ) किकम् । रौद्र (द्र) तेजः स्वकीयं च अग्नीपोमौ तथैव च ॥७०॥ द्वादशानां तु यत्तंजस्तदेकस्य निवेशितम् । पौरपं चैव यद्धाम परमं हात्र तिष्ठति ॥७२॥ अमृतं चैव मृत्युश्च प्राकृतं वैकृतं तथा ।

द्विधा गर्भो भवत्येष हिताय जगतोऽस्य च ॥७२॥ वेदाश्चैवात्र चत्वारस्तपन्ते मण्डले स्थिताः ।

ऋग्यजुः साममूर्तिस्तु रश्मयस्तस्य शब्दिताः ॥७३॥

[[२३१४]]

बृहद्योगिंयाज्ञवल्क्यस्मृतिः

[ नवमो-

रसानि यानि मेध्यानि रश्मिभिः संप्रकर्षति ।

[[1]]

दिव्या शिवतमा ह्यापः सौम्यास्ताः संभवन्ति हि ॥।७४ ॥ अक्षेत्रेभ्यश्च एतेभ्यो ह्यमेध्याद् गृह्यते रसः (?) अर्थवाङ्गगिरसेभ्यश्च संभवेद्वं कृतं जगत्

अश्माशनिरवश्याया नागकूष्माण्डराक्षसाः ।

॥७५॥

सुरमानवाः ॥७६॥

स्तेनास्तेन हि जीवन्ति सौम्येन सुरमानवाः अन्नदः सर्वभूतानां भूर्भुवः स्वर्निवासिनाम् ।

॥७८॥

ह [वृ) ष्टिप्रकाशे (शा) वश्यायनीहाराशनिमान्तैः ॥ ७७ ॥ तामसान् यक्षभूतानि नागकूष्माण्डनै तान् । तदन्नेन बिभयेकोऽमृतवृष्टया चराचरान् एष धाता विधाता च ब्रह्मा विष्णुर्महेश्वरः । धनदः पावकः कालो वरुणेन्द्रानिलाः शशी ॥७६॥ मित्रो धाता भगस्त्वष्टा पूषार्यमांशुरेव च । पर्यायनामभिश्चैष एक एव निगद्यते 112011 विशनात् सवभूतानां विष्णुरित्यभिधीयते ।

पश्यते सर्वभूतानां कर्म एष शुभाशुभम् विन्दते पूर्वदेहस्थं विपाकं वै शुभाशुभम् ।

॥८१॥

तस्माद्धाता विधाता च कीर्त्यते वेदचिन्तकैः ॥८२॥

बृहत्वाद् बृंहणत्वाश्च सामऋग्यजुषां तथा ।

त्रयाणां धारणाच्चैव ब्रह्मा तेन निगद्यते

रोदनाद्रावणाद्रागाद्र हण द्रुद्र

॥८३॥

उच्यते ।

॥८४॥

महानीशश्च भूतानां महेश्वर इति स्मृतःऽध्यायः ]

अध्यात्मनिर्णयेसूर्योपस्थानवर्णनम्

सहस्रकरपन्मूर्तिदृश्यते सर्वतो यतः । सर्वस्यैवोपरिष्टस्य पूरणात् पुरुषः स्मृतः

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।

॥८५॥

॥८६॥

आदित्याज्जायते वृष्टिवृष्टरन्नं ततः प्रजाः सविता श्रियः प्रसविता धनदस्तेन चोच्यते । वायुः कर्म च कालौ च शुद्ध : कतृ णि देहिनाम् ॥८७ ॥ पावयेद्रश्मिभिः सर्व पावकस्तेन चोच्यते ।

सूर्य आत्मा तु जगतः प्राणाख्यो हृदि संस्थितः ॥८८ll सर्वात्मा कथ्यते तज्ज्ञैर्जीवभूतः सनातनः । द्वितीयेन तु रूपेण साक्षिवत्तिष्ठते तु सः ॥८६॥ आदानात् सर्वभूतानामादित्य इति कीर्तितः । आर्यः स्वाम्यस्य जगतो ह्यर्यमा तेन चोच्यते ॥ ६०॥ संरक्षिता च भूतानां सविता तेन स स्मृतः ।

भगसंज्ञा धनस्योक्ता स ददाति ततो भगः

विश्वेषां कर्मणां कर्त्ता विश्वकर्मा ततः स्मृतः । करैर्भासयते विश्वं भास्करस्तेन चोच्यते

॥६॥

॥६२॥

पुष्णाति हि जगत् सर्वं पूषा तेन निगद्यते । अंशुभिर्व्याप्यते विश्वमंशुस्तेन उदाहृतः ॥६३॥ निमेषादि क्षणः कालस्तस्मादुत्पद्यते यदा (तः) । कालकर्ता ततो ज्ञेयः कालाख्यो विष्णुरव्ययः ॥६४ ॥ सहस्रच्छिद्रसंकीर्ण आपो रेतोमया घटे ।

हिरण्मयेन्तरे तिष्ठन रविस्तेन निगद्यते

॥६५॥

[[२३१५]]

[[२३१६]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ नवमी-

॥६६॥

॥६७॥

इडासुषुम्णे द्व े नाड्यौ रश्मिसंज्ञे व्यवस्थिते । पाचिकाप्यायिके ह्यते अभिपोमात्के स्मृत एतौ तु पार्श्वगौ ज्ञेयौ पंथानौ ह्यग्निहोत्रणाम् । देवपित्रात्मकौ तौ शाश्वतौ जगतः समौ तयोर्मध्ये अमा पा यत्र संतिष्ठते शशी । कलावशिष्टो भूयोऽपि वृद्धिं गच्छति भास्करात ॥१८॥ तत्र तत् परमं धाम उदधेरिव निःसृतम् । यस्मिल्लवणवद्योगी विशत्येवैकतां गतः सा सूर्ये चैव हृदये परे ब्रह्मणि संस्थिता ।

॥६६॥

तया गच्छन्ति विद्वांसो ब्रह्मत्रह्मविदो जनाः ॥ १००॥ ये ह्य पासन्तं अरण्ये

श्रद्धायुक्ता ये

शांता विद्वांसो ब्रह्मचर्यं चरन्ति । ते सूर्यस्य द्वारेण विरजाः प्रयान्ति

यत्रासौ तिष्ठति पुरुषोऽव्ययात्मा ॥ १०१ ॥

हन्त्यज्ञानं ततो हंस अश्रान्तपरिवर्तनात् । एवं पर्यायशब्दस्तु एक एव निगद्यते

ऋग्यजुः साममूर्तिस्तु विम्बं यस्य त्रयीमयम् ।

[[1180211]]

ऋग्भिस्तु तपते प्रातर्मध्याह्न यजुभिस्तथा ॥ १०३॥ सामभिश्चापराह्न वैं अथर्वाङ्गिरसो निशि ।

चोऽस्य मण्डलं ह्य ेतत् सामान्यर्चीषि यानि तु ॥ १०४॥ ।

यजुः शुक्ला च गुह्या च तनुः सूक्ष्मा च मण्डले । यश्च मण्डलमध्यस्थो यं च वेत्थ हुताशने

॥१०५॥

ऽध्यायः ]

अध्यात्मनिर्णयेसूर्यसमाराधनवर्णनम्

पुरुपं मण्डलान्तस्थं दीप्तिमन्तं हिरण्मयम् । ज्वालासहस्रसंकीर्णमग्निरूपं समन्ततः

[[२३१७]]

॥। १०६ ॥

स सूर्ये ज्योतिरित्युक्तं वहिस्तेजो विनिर्गतम् । पुरुपान्तर्गतं सूक्ष्मं शुक्लाच्छुक्लतरं हि तत् ॥१७॥ भूर्भुवः स्वरिति यः सूर्ये ज्योतिरितीति च । अग्निहों (हो) तनुष पुरुषाकृतिमण्डले ॥१०८॥ ओमापो ज्योतिरित्येतद्यजुश्चात्र प्रतिष्ठितम् । अष्टपादं शुभं हंस (सं) त्रिमात्रमजमव्ययम् ॥ १०६॥ त्रिरात्मानं तैजसं च सर्वं पश्येत्तमव्ययम् । तस्य तद्ध, दयावस्थं ज्योतिः सूर्यः स उच्यते ॥ ११० ॥ शुक्लं तत् पुरुपं ज्ञेयमलिङ्ग ज्योतिरूपकम् । सत्यधर्माण (णं) भर्ग तु ईश्वरं विष्णुसंज्ञकम ॥ १११ ॥

॥ तस्मिन् प्रतिष्ठितं सर्वं त्रयस्त्रिंशद्गुणं हि तत् । अग्निमध्यगतं चैव अग्नौ ज्योतिरुदाहृतम् अग्नावग्मिः स एवोक्तस्तस्य चैवात्र हूयते ।

॥ ११२ ॥

अग्निहोत्रं च सम्प्राप्त चिन्तयेच्च कमानसम् ॥ ११३॥ लेलिह्यमानं संदीप निर्धूमं पावकः (कं) सदा । ज्योतिश्चित्रतरं तत्तद्वाह्य वह्निसंज्ञकम ॥ ११४॥ । तदाऽस्य मध्यगं ध्यायेत् पुरुषं चाप्यलिङ्गकम् । स सत्यज्योतिर्ब्रह्मा च आदित्यश्च निगद्यते ॥ ११ ॥ ब्रह्मभूतं हि संचिन्त्य जुहुयात् सुसमाहितः । अवमृज्य ततो हस्तावद्भिरामणिबन्धनात्

॥ ११६॥

[[२३१८]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

दीर्घं प्रणवमुच्चार्य चित्तं तत्र निवेश्य च ।

[ नवमो-

यजुषा मनसा चैव जुहुयाद्विधिवद् बुधः ॥ ११। ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।

॥ ११६ ॥

ब्रह्मव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥११८॥ ज्योतिषां ज्योतिरित्याहुः सत्यं सत्येषु चैव हि । ब्रह्मणः परमं ब्रह्म आदित्यादित्य एव हि एवं यः कुरुते विप्रः अग्निहोत्रमतन्द्रितः । शासितं ज्ञानकर्मभ्यामभिसंध्य फलेन च स दग्धकिल्बिषो भूत्वा वैश्वानरसमप्रभः । विशते पुरुषं दिव्यं शुक्लीभूत्वा ह्यलिङ्गकम् ॥१२१॥ अणिमाद्यस्तु संयुक्तस्तेनैव सह मोदते ।

[[1132011]]

न च्यवते न व्यथते पुनर्वा जायते न च ॥ १२२ ॥ एवंविधं चिन्तयेत्तु आत्मयज्ञे ह्युपस्थिते । जीवं वैश्वानरं ध्यायेद्ध, दये पद्मसंपुटे उदरे गार्हपत्योऽग्निः पृष्ठदेशे तु दक्षिणः ।

॥१२३॥

आस्ये आहवनीयोऽग्निस्त्रिधा ह्येवं निवेशयेत् ॥ १२४॥ शून्योऽग्निः सत्यसंज्ञस्तु मूर्धन्येवाश्रितः सदा ।

यः पञ्चाग्नीनिमान् वेद आहिताग्निः स उच्यते ॥ १२५॥ केशबर्हि ( : ) समाच्छन्नमुरोवेद्यां प्रतिष्ठितम् । चेतोत्माधाममात्रं तु निर्भासं चात्मभासकम् ॥ १२६ ॥ एतद्धि सोममध्यस्थममृतं ज्योतिरूपकम् । हृदिस्थः सर्वभूतानां चेतनः श्रुयते ह्यसौ ॥१२७॥

ऽध्यायः ]

अन्नमहत्त्ववर्णनम्

[[२३१६]]

पञ्चमण्डलमध्यस्थो द्रष्टव्यो योगचक्षुषा । रविमध्ये स्थितः सोमः सोममध्ये हुताशनः ॥१२८॥

तेजोमध्ये स्थितः सत्यः सत्यमध्ये स्थितोऽच्युतः ।

अग्निमध्ये रविस्थानं रविमध्ये च चन्द्रमाः

तस्यमध्ये कुसं (?) विद्यात्ततः सृष्टिः प्रजायते ।

॥। १२६॥

॥ १३१॥

सूयं भित्त्वा यथा चन्द्रश्चन्द्रमाश्च तथामृतम् ॥१३०॥ तत्रस्थं च शुभं वणं तद्द्द्रष्ट वाप्यमृती भवेत् । अन्न प्राणो मनश्चैव विज्ञानानन्द एव च

प्राणो व्यानो ह्यपानश्च समानोदान एव च । शब्दः स्पर्शस्तदा रूपं रसो गन्धश्च पञ्चमम् ॥ १३२॥ पञ्चमध्यगतः षष्टो भुङ्क्त े देहगतान् गुणान् ॥१३३॥ शब्दादीनां च पञ्चानामुपलब्धिस्तु या स्थिता । चेतसा यस्तु गृह्णाति वुद्धयवस्थितमीश्वरम् ॥ १३४॥ पुरुपाख्यः स विज्ञेयो भो भावः स उच्यते । अव्यक्तेन च रूपेण वैश्वानरमुखेन च ॥ १३५ ॥ अन्नं रसमयं कृत्स्नं प्रकृत्याऽऽपादितं च यत् । सवं प्रत्युपभोगार्थं वर्तते परमात्मनः ॥ १३६ ॥ त्रिविधान्नं त्रिधा भोक्ता वेदितव्यं प्रयत्नतः । शरीरमापः सोमश्च त्रिविधं ह्यन्नमुच्यते ॥१३७॥ प्राणस्त्वग्निस्तथाऽऽदित्यस्त्रिभोक्ता एवमेव तत् ।

अमृतं कल्पयित्वा च यदन्नं समुपागतम् ॥१३८॥

[[२३२०]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

प्राणाग्निहोत्रविधिना भोज्यं तद्वघापहम् ।

महाव्याहृतिभिश्चैवमभिमन्त्र्य पुनस्ततः

उच्छिष्टमिष्टोपहतमित्यनेनाभिमन्त्रयेत् ।

[ नवमो-

॥१३६॥

आपोशानं (न) क्रियापूर्व जुहुयाद्वायवे हविः ॥ १४०॥ प्राणो व्यानस्तथाऽपानः समानोदान एव च ओंकारपूर्वाः स्वाहान्ताः पञ्च दद्यात्तथाऽऽहुतीः ॥ १४१ ॥ वाग्यतः शेषमश्नीयाद्भुत्वाऽचम्य पुनः पुनः । प्राणोनिर्विश्व इत्याभ्यां प्रत्याहारं विचिन्तयेत् ॥१४२॥ ओं प्राणोग्निपरात्मानं पञ्चवायुभिरावृतः ।

स ईशः सर्वजगतः प्राणः प्रीणाति विश्वभृत् ॥ १४३ ॥ विश्वोसि वैश्वानर विश्वरूप

त्वं विश्वमाधारयसि याजमानः ।

विश्वं च पीत्वाहुतयश्च यत्र

प्रादेशमात्रः पुरुषः स्मृतस्तु सः ॥ १४४ ॥

एषा विश्वभृतीनां तनुर्विष्णोः सनातनी ।

अन्नरूपेण विज्ञेया ययेदं धार्यते जगत् ॥१४५॥

अन्नकामेन संसृष्ट ब्रह्मणा चाखिलं जगत् ।

तस्मादन्नात् परं तत्त्वं न भूतं न भविष्यति ॥ १४६ ॥ अन्नार्थी पवते वायुरन्नार्थी ज्वलतेऽनलः ।

अन्नार्थी चाप्ययं सूर्यो रसान गृह्णाति रश्मिभिः १४७ ॥ यथा हि क्षुधिता बाला मातरं पर्युपासते ।

एवं सर्वाणि भूतानि आत्मयज्ञ ( न्यन्न ) मुपासते ॥ १४८॥

ऽध्यायः ]

अन्नमहत्त्ववर्णनम्

यो ह्यविद्वान् समश्नाति अन्नं मोहसमन्वितः । भस्मनीव हुतं हव्यं तद्वदन्नममन्त्रकम

॥ १४६॥

[[२३२१]]

एवं ज्ञात्वा तु यो विप्रो विधिनान्नं समश्नुते । आत्मानं च तथान्नं च दातारं चैव तारयेत् ॥ १५०८॥ तर्पितं च भवेत्तंन विश्वं भुवनसप्रकम् । दैव्ये पित्र्ये च यद्दत्तं तदक्षय्यं भवत्यपि

एवं हि सर्वभावस्थं विदित्वा परमेश्वरम् ।

॥ १५१ ॥

काष्ठादौ हि तृणान्ते च पाषाणान्तर्गतेऽपि च । ॥१५२॥ ब्रह्मादिस्तम्बपर्यन्तमेवं व्याप्य स तिष्ठति ।

पापाणमणि धातूनां तेजोरूपेण संस्थितः ॥ १५३॥ वृक्षोषधितृणानां च रसरूपेण तिष्ठति ।

तन्मात्रभूतो भूतानां विश्वरूपेण संस्थितः

॥ १५४॥

एवं वेत्ति य आत्मानमेकधा संप्रतिष्ठितम् । ज्ञात्वा चोपासते सम्यक् सोऽमृतत्वाय कल्पते ॥ १५५ ॥ आदित्ये हृदये चैवनौ व्योम्नि तथा परे ।

एक एव भवेदात्मा पञ्चधाऽवस्थितस्तु सः आदित्ये चैव हृदये चैकीभूतं विचिन्तयेत् । सर्वोपनिषदां चैव उपास्यैपा उदाहृता आदित्यो ब्रह्म इत्येतन्मित्राद्य ुपनिषत्सु च । छान्दोगे वृहदारण्ये तैत्तिरीये तथैव च

एतदेव मनुप्रोक्तं देवानां चोपजीवनम् ।

॥१५६ ॥

[[1122011]]

॥ १५८॥

पार्श्वे बाह्य तथा पृष्ठे चौरस्य परिकल्पिता ॥ १५६ ॥

[[२३२२]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

अन्तरिक्षमवश्चैव पुत्राश्चास्य

[ नवमो-

मरीचयः ।

112 & 011

ऋग्वेदोथ यजुर्वेदः सामवेदो ह्यथर्वणः

कल्पभाष्यपुराणानि उपवेदास्तथैव च । गुह्योपनिषदश्चैव सुपुष्पाणि ( पुप्फुसाः )

परिकीर्तिताः ॥ १६१॥

ऋचो यजूंषि सामानि मधून्येतानि कुर्वते । तद्वदैः संभृतं दिव्यं रसं तदमृतं मधु ॥१६२॥ वसवश्च तथा रुद्रा मरुतोङ्गिरसादयः । पूर्वादिदिग्विभागेन स्वकीयैः सवनैः स्थिताः ॥ १६३॥ मुखमेकं समालोक्य रथनीडे स्थिता विभोः । तृप्तिं समधिगच्छन्ति नाश्नन्ति न पिबन्ति च ॥ १६४ ॥ । नीडमध्यगतं सूर्यं न च पश्यन्ति चक्षुषा ॥ १६५… अर्चीपि केवलान्येव उच्चरन्ति मुहुर्मुहुः ।

संर (ल) क्षयन्ति कुहरे नीडान्तःस्थं घटोपमम् ॥ १६६ ॥ हृद्याकाशगतो यो हि पद्मसंपुटमध्यगः । अनन्ता रश्मयस्तस्य दीपवद्यो स्थितो हृदि ॥ १६७ ॥ सिताऽसिताः कद्रनीलाः कपिलाः पीतलोहिताः । ऊर्ध्वमेकः स्थितस्तेषां यो भित्वा सूर्यमण्डलम् ॥ १६८ ॥ ब्रह्मलोकमतिक्रम्य ते यान्ति परमां गतिम्

यदस्य स्याद्रश्मिशतमूर्ध्वमेव (क ) मवस्थितः ॥ १६६ ॥ तेन देवनिकायानां स्वधामानि प्रपद्यते

ये चैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः

मृदुप्रभाः ॥ १७० ॥

ऽध्यायः ]

अध्यात्मवर्णनम्

इह कर्मप्रभोगाय तै संसरति सोऽवशः ।

एतद्यो न विजानाति मार्गद्वितयमात्मनः

[[२३२३]]

॥ १७१ ॥

दंदशूकः पतङ्गो वा भवेत् कीटोऽथवा क्रिमिः । अलाबुतन्तुसदृशं शिराजालं तु संततम् ॥१७२॥ सपद्मसंपुढं चित्रं छिद्रितं कर्णिकोज्वलम् ।

तस्य मध्यगतो ह्यात्मा रश्मिभिः परिवारितः ॥ १७३ ॥ प्रदीपतापप्रकाश्यै ( शै) रवाप्नोति न चान्तरम् । अङ्गुष्ठपरिमाणं च ज्वलते स्वेन तेजसा ॥ १७४॥ प्रादेशमात्रं तपते वितस्ति च प्रकाशते । तत्प्रदेशस्थितो ह्यास्मा चेतनः सर्वतो विभुः ॥१७५॥

तत्त्वानि तत्र वै देवे तिष्ठन्त्यत्र समन्ततः । आध्यायन्ते च तेनैव दशनान्नात्र

संशयः ॥ १७६ ॥

न च पश्यन्ति पुरुषं ह्यन्तस्थं परमं विभुम् ।

तं चिन्तयेत् समाधिस्थो यं ज्ञात्वा विप्रमुच्यते ॥ १७७॥ मुक्तो न जायते भूयः प्राप्य विष्णोः परं पदम् । ध्यानेन सदृशं नास्ति शोधनं पापकर्मणाम् ॥ १७८ ॥ श्वपाकेश्वपि भुञ्जानो ध्यायी नैव तु लिप्यते । ध्यानमेव परं ब्रह्म ध्यानमेव परं तपः ॥१७६॥ ध्यानमेव परं शौचं तद्धाम (द्वयानं) परमं स्मृतम् । सर्वपापप्रसक्तोऽपि ध्यायेन्निमिषमच्युतम् ॥१८०॥ पुनस्तपस्वी भवति पङ्क्तिपावनपावनः ।

ध्यानमेव प्रवक्ष्यामि करणैः क्रियते यथा ॥ १८२॥

[[૨૬૪]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ नवमो-

बुद्ध यहंकारमनसां विपयानिन्द्रियाण्यपि । एकस्थाननिरोधन ध्यानमित्यभिधीयते ॥१८२॥ इन्द्रियाणीन्द्रियार्थाश्च बुद्धावंव निवेशयेत् ।

मनो बुद्धिरहंकारो भूतानि प्रकृतावपि ॥ १८३॥ प्रधानं पुरुषं योज्यं स न्यासः परिकीर्तितः । इन्द्रियेभ्यः परे ह्यर्था अर्थेभ्यः परमं मनः ॥ १८४॥ मनसश्च परा बुद्धिर्बुद्धं रात्मा महान् परः ।

॥१८५॥

महतः परमव्यक्तमव्यक्तात् पुरुषः परः पुरुपान्न परं किञ्चित् सा काष्ठा सा परा गतिः । ऐशान्यभिमुखो भूत्वा उपविश्याऽसने शुभे ॥ १८६॥ नात्युच्छ्रिते नातिनीचे चैलाजिनकुशोत्तरे । ततोपविश्य सुमु (सु) खं गुरुं चादौ नमस्य च ॥ १८७॥ पद्मासनं च बध्वा वै दीर्घं प्रणवमुच्चरेत् । ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम् ॥१८८॥ उत्तानं किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा । निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत् ॥ १८६॥ तालुस्थाऽचलजिह्वश्च संवृतास्यः सुनिश्चलः । संनियम्येन्द्रियग्रामं पाषाण इव निश्चलः ॥१६॥ द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ।

ततो ध्येयः स्थितो योऽसौ हृदये दीपवत् प्रभुः ॥ १६२॥ धारयेत्तत्र चात्मानं धारणं धारयेद्बुधः ।

मोहजालमपास्याथ पुरुषो दृश्यते हि यः ॥ १६२॥ऽध्यायः ]

अध्यात्मनिर्णयवर्णनम्

सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रधा ।

द्वासप्ततिसहस्राणि

हृदयादभिनिःसृताः ॥ १६३ ॥ ।

हिता नाम हि ता नाड्यस्तासां मध्ये शशिप्रभम् ।

मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ॥ १६४ ॥ स ज्ञेयस्तं विदित्वेह पुनराजायते न तु । अन्तर्धानं स्मृतिः कान्तिर प्रिश्रोत्रज्ञता परा ॥ १६५ ॥ निजं कार्यं समुत्सृज्य परकायप्रवेशनम् । अर्थानां छन्दतः सृष्टियोगसिद्धस्तु लक्षणम् ॥ १६६ ॥ सिद्ध योगे त्यजन् देहममृतत्वाय कल्पते । श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्वयानं विशिष्यते ॥ १६७॥ ध्यानात् कर्मफलत्यागस्यागाच्छान्तिरनुत्तमा । ध्यानप्रकरणं ह्येतत् षडशीत्यधिकं शतम् ॥ १६८ ॥

इति श्रीबृहद्योगियाज्ञवल्क्ये अध्यात्मनिर्णयो नाम

नवमोऽध्यायः ॥६॥

[[२३२५]]

अथ दशमोऽध्यायः

सूर्योपस्थानवर्णनम्

माजनं प्राणसंरोधो ध्यानं च समुदाहृतम् ।

उपस्थानं प्रवक्ष्यामि सूर्यस्य क्रियते यथा ॥ १॥

स्नामब्दैवतैर्मन्त्रैर्मार्जनं

प्राणसंयमः ।

सूर्यस्या चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥२॥ उदुत्यं चित्रमित्याभ्यां प्रक्षिपेदुदकाञ्जलिः । गायत्र्यास्तु जपं कृत्वा पूर्वमेव यथाविधि उपस्थानं स्वकैर्मन्त्रैरादित्यस्य तु कारयेत् । वक्ष्यमाणः प्रयत्नेन सूर्यस्य विषयाद्बुधः

[[11311]]

॥४॥

उदुत्यं चित्रं देवानामुद्वयं तमसः

परि ।

तक्षर्देव इति च जपं कुर्यात्त वै

ऋचा

॥५॥

उदगादित्ययं मन्त्र आकृष्णेनेति वै ऋचा ।

[[1]]

इष्ट मनः प्रयुञ्जीत भक्त्या तानि जपेत् सदा ॥६॥ एतैर्मन्त्रैः प्रयुञ्जीत शक्त्याऽन्यानि जपेत् सदा । दश त्रिंशत् शतं वापि गायत्र्याः परिवर्त्तयेत् ॥७॥ अहोरात्रं कृतं ह्य ेनस्तत् सर्वं विप्रणश्यति । पूर्वी संध्यां जपंस्तिष्ठेन्नैशमेनो व्यपोहति ॥८॥ पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् । जपिनां होमिनां चैव ध्यायिनां तीथसेविनाम् ॥६॥

ऽध्यायः ]

सूर्योपस्थाननिर्णयवर्णनम

न पर्युषन्ति पापानि ये च स्नाताः शिरोत्रतैः ।

नास्ति गङ्गासमं तीर्थं न देवः

केशवात् परः ॥१०॥

गायत्र्यास्तु परं जप्यं न भूतं न भविष्यति ।

[[२३२७]]

॥१०॥ •

सहस्रपरमां देवीं शतमध्यां दशावराम् ॥११॥ गायत्रीं च जपन् विप्रो न स पापेन लिप्यते । पूर्वा संध्यां जपंस्तिष्ठेत् सावित्रीमर्कदर्शनात् । पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥१२॥ ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥१३॥ विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।

उपांशुः स्याच्छतगुणः साहम्रो मानसः स्मृतः 113811 जपेनैव हि संसिद्धयेद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ।

॥१५॥

धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥१६॥

गायत्रीजप्यनिरता ब्राह्मणा ब्रह्मचिन्तकाः ।

सूर्योपस्थाननिरतास्तस्य

सायुज्यभागिनः ॥१७॥

एवंविधास्तु ये संध्यामुपतिष्ठन्ति ते द्विजाः ।

नोदकस्य तु विक्षेपात् संध्या भवति सिद्धिदा ॥१८॥

ओंकारस्य तु गायत्र्या व्याहृतीनां शिरस्यपि ।

प्राणायामस्य संध्याया आत्मज्ञानस्य चैव हि

॥१६॥

॥ १६ ॥

[[१४६]]

[[२३२८]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[. दशमो-

मार्जनस्य च जप्यस्य ब्रह्मणः परिचिन्तनात् । चतुर्णा चैव वेदानां साङ्गानां पारगो भवेत् ॥२०॥ स भवेत् सर्वविद्यानां पारगो नात्र संशयः ॥ ४ ॥ इति श्रीबृहद्योगियाज्ञवल्क्ये सूर्योपस्थाननिर्णयो नाम दशमोऽध्यायः ॥१०॥

अथ एकादशोऽध्यायः

योगधर्मवर्णनम्

सर्वधर्मान् परित्यज्य योगधर्मं समाचरेत् । सर्वे धर्माः सदोषास्तु पुनरुत्पत्तिकारकाः ॥ १॥ नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २ ॥ यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ३ ॥ आत्मज्ञानं हि यो वेत्ति स सर्वज्ञः स सर्वकृत् । एवं ज्ञात्वा प्रयत्नेन योगयुक्तः सदा भवेत् ॥ ४ ॥ अकृतान्येव यज्ञाश्च दानानि च तपांसि च । तेषां फलं तु संयोज्य लोकान् सोमानव (नु ?) क्रमात् ॥५॥ भुक्त्वा गच्छति तत्स्थानं यद् गत्वा न निवर्तते । पुरुषो भुनक्ति भोगाननौपम्यान् गुणोदयान् ॥ ६ ॥

[[1]]

ऽध्यायः ]

योगधर्मवर्णनम

सर्गप्रलयकाले तु न नश्येन्न भवेत्तु सः । ऋचोऽक्षरे परमे व्योम्नि

यस्मिन् देवा अधिविश्वे निषेदुः ॥

यस्तं न वेद किमृचा करिष्यति

यत्तद्विदुस्त इमेसमासते ॥ ७ ॥

रथ्याघोषेण संतुष्टो वाक्प्रलापरतः सदा । रात्रिदिवं प्रलपते मत्तो मार्जारवद्यथा ॥ ८ ॥ वेदादौ यो भवेद्वर्णः पञ्चवणसमन्वितः ।

तस्यान्ते तु पदं षष्ठं तज्ज्ञात्वा वेदविद्भवेत् ॥६॥ अगतिं च गतिं चैव भूतानां विन्दते तु यः । प्रकृतीनां विकाराणां स

भवेद्वेदपारगः ॥१०॥

पारं गतस्तु तत्त्वानां तत्त्वातीतं तु वेत्ति यः । स पारग इति प्रोक्तो न स्वाध्यायस्य पारगः समाम्नायैकदेशं तु गुह्योपनिषदादि च । विन्दते पठते चैव ह्यनुतिष्ठति कर्मणा

॥। ११॥

॥ १२ ॥

स मे बहुमते (तो) भाति बहुविद्यासुशोभितः । स मुक्तिभाक् स एवैकः श्रद्धायुक्तो जितेन्द्रियः ॥ १३॥ षडङ्ग’ षट्पदं वर्णं हृत्पद्मस्थं तु वेद यः । षडङ्गवित् स विज्ञेयो नाङ्गयागी षडङ्गवित् ॥१४॥ केवलं लोकवृत्यर्थं पठितं वृत्तिहेतुकम् । कदर्थयति वेदांश्च कुप्रतिप्रयाजनैः

॥१५॥

[[२३२६]]

[[२३३०]]

बृहयोगियाज्ञवल्क्यस्मृतिः

असंयमेन येऽधीता न त्रायन्ति कदाचन ।

ॠगेका संयमस्थेन अधीता पारयत्यपि आमपात्रे यथान्यस्तमापो मधु घृतं पयः ।

[ एकादशो-

॥१६॥

नश्यन्ति पात्र दौर्बल्यात्ते रसास्तस्य भाजनम् ॥१७॥ एवं ह्मपात्रसंयोगात्तधीतं विनश्यति । पात्रदोषेण संदुष्टमपवित्रं भविष्यति

न वेदपलमाश्रित्य पापं कर्म समाचरेत् ।

॥१८॥

अज्ञानाद्धि कृतं पापं वेदाभ्यासेन शुद्धयति ॥१६॥

आचरहीनं न पुनन्ति वेदा ।

यद्यप्यधीताः सह पभिरङ्गः ॥

छन्दांस्येनं मृत्युकाले त्यजन्ति ।

नीडं शकुन्ता इव जातपक्षाः ॥२०॥

गायत्रीमात्र संतुष्टः श्रेयान विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी ॥२१॥ न विद्यया केवलया तपसा वा पवित्रता ।

यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥२२॥ यथा रथो विनाश्वैः स्यादश्वाश्च रथिना विना । एवं तपो ह्यविद्यस्य विद्या चाप्यतपस्विनः ॥२३॥ यथान्नं मधुसर्पिभ्या संयुक्त स्वादुतां व्रजेत् । एवं विद्यातपोयोगैर्ब्राह्मणः पात्रतां व्रजेत् ॥२४॥ द्विविधं तु समुद्दिष्ट गुह्यं ब्रह्म सनातनम् । स्थलसूक्ष्मं च बोद्धव्यं ब्राह्मणेन प्रयत्नतः ॥ २५ ॥

ऽध्यायः ]

·

योगधर्मवर्णनम

ऋचो यजूंषि चान्यानि सामानि विविधानि च । एवं ज्ञेयत्रिवृद्धदो यो वेदैनं स वेदवित् ॥२६॥ आद्य यत व्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । स तु ज्ञेयस्त्रिवृद्व दो यो वेदैनं स वेदवित् ॥२७॥ पलालधान्यशूकादि तुषकणसमन्वितम् ।

यन स्थूलं तादृशं ज्ञेयं सूक्ष्मं नण्डुलवत् स्मृतम् ॥२८॥ वाक्प्रपञ्च तु यत् स्थूलं शब्दब्रह्म महत्तरम् । त्रिवर्गफलदं ज्ञेयं यदि सम्यगधीयते ॥२६॥

वेदोऽधीतो ददच्छुद्धिं भ्रंशितो नरकप्रदः । न्यायेनेष्टो ददत् स्वगं पुनरावृत्तिकारकम् ॥३०॥ सूक्ष्मं तत् परमं गुह्यं त्र्यं ब्रह्म सनातनम् । वेदवेदान्तयोः सारं त्रिविधं ब्रह्मणो मखम् ॥३१॥ मोक्षदं तु समुद्दिष्ट

ं विदितं नात्र संशयः । षट्कर्मणामनुष्ठानादाश्रमाणां च सेवनात् ॥३२॥ तपसा वा सुतीव्रंण सर्वविद्याविवेचनात् । मोक्षावाप्तिस्तु न भवेदृते ज्ञानाश्च कर्मणः इज्याचारो दमोऽहिंसा दानं स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् चत्वारो वेदधर्मज्ञा यत्र त्रैविध (द्य) मेव वा । स. ब्रते यः स धर्मः स्यादेको वाध्यात्मवित्तमः ॥३५॥ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठाः नरेषु ब्राह्मणाः स्मृताः ॥३६॥

॥३३॥

॥३४॥

[[२३३१]]

[[२३३२]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

ब्राह्मणे तु विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् ।

[ एकादशी-

॥३७॥

तद्वय सर्वविद्यानां प्राप्यते ह्यमृतं ततः

॥३८॥

प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् । निःश्रेयसकरं ज्ञेयं द्विजानामिह सर्वशः

॥३६॥

कर्मणां समनुष्ठानमाश्रमाणां च सेवनम् । पुत्रदारादिसंसक्तिः प्रवृत्तं कर्म चोच्यते ॥४०॥ नियमानामनुष्ठानं सम्यगात्मविचिन्तनम् ।

सुतादिष्वनभिष्वङ्गो निवृत्तं कर्म वैदिकम् ॥४१॥

प्रवृत्तं सेवमानस्तु स्वर्गलोके महीयते ।

निवृत्तं सेवमानस्तु ब्रह्मभूयाय कल्पते

न तमः कारणं

किञ्चिद्योगधर्मे प्रवर्तते ।

[[118211]]

आनन्तर्यात् प्रमाणं तु सर्वमेतदकारणम् ॥४३॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा । आत्मज्ञानेन मुच्यन्ते यत्र तत्राऽऽश्रमे रताः ॥४४॥ स्वकर्मणामनुष्ठानात् सम्यगात्मनि दर्शनात् । वेदान्तानां परिज्ञानाद् गृहस्थोऽपि हि मुच्यते ॥ ४५ ॥ यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमेवार्च्य सिद्धि प्राप्नोति मानवः कर्मसंन्यासयोगेन ब्राह्मणः सिद्धिमाप्नुयात् ।

॥४६॥

कमणां नियतानां तु त्यागो नैव विधीयते ॥४७॥

ऽध्यायः ]

योगधर्मवर्णनम्

[[1]]

॥४८॥

तेवां कर्मफलत्यागः स त्याग इति कीर्त्यते । ब्रह्मप्रधानकर्मस्था न सीदन्ति कदाचन मृत्तोयैः शुद्धयतेशोध्यं नदी वेगेन शुद्धयति । रजसा स्त्री मनोदुष्टाः संन्यासेन द्विजोत्तमाः ॥४६॥ गण्डोपलादयो भूत्वा पदमन्यद्विगच्छति ।

ध्यानेनात्मनि संपश्येद् गतिमस्यान्तरात्मनः ॥५०॥ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥॥५१॥ ध्यानेनात्मनि पश्येच सर्वाश्च सुसमाहितः । पश्यन् हि योगयुक्तात्मा मुनिर्मोक्षपरायणः ॥ ५२॥ वं संनिवेशयेत् खेषु चेष्टनस्पर्शनेऽनिलम् । पक्तियोः परं तेजः स्नेहयोगश्च मूर्तिषु ॥ ५३॥ वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ।

[[२३३३]]

मनसीन्दु दिशः श्रोत्रे क्रान्ते विष्णु बले हरम् ॥५४॥

सर्वेषामणीयांसमणोरपि ।

प्रशासितारं

रुक्माभं स्वप्नवीगम्यं विद्यात्तं पुरुषं परम् ॥५५॥ एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।

इन्द्रमेके परे प्राणमपरे ब्रह्मशाश्वतम्

॥५६॥

इति श्रीबृहद्योगियाज्ञवल्क्ये ( योगधर्मनिर्णयोनाम)

एकादशोऽध्यायः ॥ ११॥

L

अथ द्वादशोऽध्यायः

विद्याऽविद्यानिर्णयवर्णनम्

न वेदशास्त्रादन्यत्तु किश्चिच्छास्त्रं हि विद्यते । सवं विनिःसृतं शास्त्रं वेदशास्त्रात् सनातनात् ॥१॥ दुर्बोधं तु भवेद्यस्मादध्येतु नैव शक्यते । तस्मादुद्धत्य सर्वं हि शास्त्रं तु ऋषिभिः कृतम् ॥२॥ पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥३॥ सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा । अतिप्रमाणान्येतानि हेतुभिर्न विचालयेत् सांख्यस्य कर्ता कपिलः परमार्थः स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः पञ्चरात्रस्य सर्वस्य वक्ता नारायणः स्वयम् । अपांतरतमश्चैव वेदाचार्यः स उच्यते

प्राचीनगर्भ तमृषिं प्रवदन्ति हि केचन ।

॥४॥

॥५॥

॥६॥

उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणः सुतः

[[11011]]

प्रोक्तवानिदमत्युग्रं ज्ञानं पाशुपतं हरः ।

अत तु ये केचिद्वं दशास्त्राण्यनेकशः ॥८॥॥ऽध्यायः ]

विद्याऽविद्यानिर्णयवर्णनम्

बौद्धः कापिलकुहको लोकायतिकभिन्नकाः । वेदबाह्यास्तथान्ये तु तामसा अशिवास्तु ते ॥६॥ नैरात्म ( त्म्य) वादकुहकैमिथ्यादृष्टान्तहेतुभिः । वेदशास्त्रं तु बाधन्ते पौरुषेयास्तु ते स्मृताः आसुरेयाः पाशुपता बृहस्पतिकृतास्तु ये ।

॥१०॥

[[२३३५]]

शुक्रं रूपं समास्थाय देवानां हितकाम्यया ॥११॥ प्रजापतिकृताश्चान्ये असुराणां प्रमोहनाः । येनेदं वाङ्मयं दुग्धमधर्मे विफलीकृतम् ॥१२॥ आत्मानं भूषयेन्नित्यं भोजनाच्छादनादिभिः । स्वदेहमेव दैवत्यमन्यन्नैवात्र विद्यते 112311 असत्यमप्रतिष्ठं च जगदाहुरनीश्वरम् ।

अयं लोकोस्ति न परः पुनः संभवनं

कुतः ॥१४॥

जलबुद्बुदवच्चायं संभवेच्च पुनः पुनः ।

प्रलीयते ॥ १५॥

जाति प्राधान्यकं नास्ति एकजातिसमुद्भवः ।

स्वेच्छयोत्पद्यते चैव स्वेच्छया च

न वेदा नैव यज्ञाश्च न दानं न

तपांसि च

॥१६॥

न कार्यं नैव चाकार्यं सवं

कुर्यादशङ्कया ।

एतदासुरकं भावं समाश्रित्य

विनश्यति

॥१७॥

नैयायिकार्थमालोक्य तथाहीश्वरकारणम् ।

प्रतिष्ठानानि वेदस्य एते तर्का उदाहृताः

प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।

[[118211]]

त्रयं सुविदितं कार्यं

धर्मशुद्धिमभीप्सता ॥ १६ ॥

[[२३३६]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ द्वादशो-

यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥२०॥ तस्माद्वेदाते नान्यदध्येतव्यं द्विजन्मना । वेदबाह्य तु यत् किञ्चिन्नाध्येतव्यं कदाचन ॥२१॥ या वेदबाह्याः स्मृतयो याः काश्चन कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥२२॥ उत्पाद्यन्ते व्ययन्ते च यानि तानि तु कानिचित् । एतान्यर्वाकालिकानि निष्फलान्यवृतानि च ॥२३॥ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।

स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥२४॥ मूलस्तम्भो भवेद्व ेदः शाखाश्चान्यानि यानि तु । मूले ह्य पासिते सम्यक् फलं भवति नान्यथा ॥२५॥ उच्छिन्नशाखा याः काश्चित्तथा वेदान्तराणि च । अन्तर्धानगतानीह स्मृत्वा तु स्मृतयः कृताः ॥२६॥ एकमेव हि विज्ञेयं श्रुतिस्मृतिविचक्षणैः । तस्मात्तुल्यबलत्वात्तु विकल्पश्च क्वचित् स्मृतः ॥२७॥ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥२८॥ योऽवमन्येत ते तूभे हेतुशास्त्राश्रयो द्विजः । स विद्वद्भिर्बहिः कार्यो नास्तिको वेदनिन्दकः ॥२६॥ हेतुशास्त्राणि योऽधीते वेदवाह्यो भवेद्विजः ।

तेन नास्तिक्यभावेन सर्वे (वं) मन्येत सोऽन्यथा ॥३०॥

ऽध्यायः ]

विद्याऽविद्यानिर्णयवर्णनम्

तीथं दानं व्रतं यज्ञा वेदा विप्राश्च देवताः ।

[[२३३७]]

स्वर्गापवर्गहेतूनि कुया पश्यतेऽनृतम् ॥३१॥ नास्तिक्यभावान्मूढात्मा पापेषु कुरुते मतिम् । श्रुतिस्मृत्युदितं त्यक्त्वा ततो नरकमृच्छति ॥३२॥ अज्ञानतमसाऽन्धानां भ्रामितानां कुदृष्टिभिः । न प्रत्यक्षं भवेत्तेषां वेदविद्यान्तरं तु यत् ॥३३॥ वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतिः (तीः) । अधीत्य ब्राह्मणः पूर्वं शक्तितोऽन्यांश्च संपठेत् ॥३४॥ आत्मज्ञाननिमित्तं तु सिद्धान्तानि विचिन्तयेत् । केवलानि तु योऽधीते वेदवाह्यो भवेद् द्विजः ॥३५॥ वेदान्तान्यः पठेद्विप्रश्चतुरश्चानुपूर्वशः ।

तथा शाखोपशाखानि गुह्यान्यादेशकानि च ॥ ३६ ॥ सर्ववेदप्रणीतानि मन्त्रांश्चापि पवित्रकान् ।

सर्वविद्भवेद्विप्रो वेदवेदान्तपारगः ॥३॥ तथा चात्मगुणैर्युक्त आत्मोपासनतत्परः । वेदतुल्यो भवेत् सोऽपि ऋषितुल्यो द्विजोत्तमः ॥३८॥ एकेनापि भवेत्तेन सर्वधर्मविनिश्वयः । पङ्क्ति पावयते चैव उद्धरिष्यत्यनुग्रहात् ॥३६॥ अनन्तं चाप्रमेयं च वेदशास्त्रं सनातनम् । वेदितव्यं प्रयत्नेन सर्ववर्गफलप्रदम् ॥४०॥ वेदमेव समभ्यस्येद्व दृदश्चक्षुः सनातनम् । भूतं भव्यं भविष्यं च सवं वेदप्रतिष्ठितम् ॥४१॥

[[२३३८]]

बृहद्योगियाज्ञवल्क्यस्मृतिः

[ द्वादशो-

अनन्तं चाप्रमाणं च सर्वं वेदात् प्रसिध्यति । इति संचिन्त्य मुनिना वेदाचार्येण धीमता ॥ याज्ञवल्क्येन विप्राणां त्रयीमार्गः प्रदर्शितः ॥४२ ॥ येन गच्छन्ति विद्वांसः सत्पथा ब्रह्मणोऽन्तिकम् । असत्पथेन विप्रस्य गमनं हि विरुध्यते ॥४३॥ वेदान्तानां हि सर्वेपां या निष्ठा समुदाहृता । उपास्या याहशी चैव मुनिना समुदाहृता ॥४४॥ ओंकारस्याथ गायत्र्या व्याहृतीनां शिरस्य च । स्नानस्य चैव संध्यायाः प्राणायामस्य चैव हि ॥४५ ॥ प्रत्याहारस्य ध्यानस्य मार्जनान्तर्जलस्य च । उपस्थानस्य होमस्य आत्मज्ञानस्य यो विधिः ॥ ४६ ॥ विद्याऽविद्याविचारं च त्रयीविद्याभिशंसनम् । तत् सर्वं मुनिना प्रोक्तं विप्राणां हितकाम्यया ॥४७॥ य इदं धारयेद्विप्रः स्वधीतं श्रुणुयाच्च यः । मया स ते तु यः प्रोक्त (?) सोऽमृतत्वाय कल्पते ॥४८ ॥ सर्वाणि भूतानि ममान्तराणि सर्वेषु भूतेष्वहमन्तरस्थः । पश्यन्ति ये योगविदो मनुष्यास्तेषां प्रदेयं न तु

योऽन्यथा स्यात् ॥४६॥

इति श्रीबृहद्योगियाज्ञवल्क्ये ( विद्याऽविद्या-

निर्णयो नाम ) द्वादशोऽध्यायः ।

॥ श्रीगणेशाय नमः ॥

अथ