–::-
श्रीगणेशाय नमः ।
प्रथमोऽध्यायः ।
अथ नानाविध प्रायश्चित्तवर्णनम् ।
अथातो यमधर्मस्य प्रायश्चित्तं व्याख्यास्यामः । चतुर्णामपि वर्णानां प्रायश्चित्तं प्रकल्पयेत् ॥१ ब्राह्मणस्तु शुना दष्टो जम्बूकेन वृकेण वा । उदिते प्रहनक्षत्रे दृष्ट्वा सद्यः शुचिर्भवेत् ॥२ जलाग्निबन्धन भ्रष्टाः प्रव्रज्यानाशकच्युताः । विषप्रपन्नगात्राश्च शस्त्राघातहताश्च ये ॥ ३ नवैते प्रत्यवसिताः सर्वधर्मबहिष्कृताः । चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन च ॥४
[[२१०२]]
बृहद्यमस्मृतिः ।
उभयावसिताः पापा ये शामशबलाच्युताः । इन्दुद्वयेन शुध्यन्ति दत्त्वा धेनुं तथा वृपम् ॥५ गोब्राह्मणहतं द धं मृतमुद्रन्धनेन तु ।
पाशं छित्त्वा ततस्तस्य तप्तकृच्छ्रद्वयं चरेत् ॥६ कृमिभिर्ब्रह्मसंयुक्तं मक्षिकैश्चोपघातितम् ।
कृच्छ्राधं संप्रकुर्वीत शक्त्या दद्यात्तु दक्षिणाम् ॥७ चाण्डालभाण्डसंस्पृष्टं पीत्वा भूमिगतं जलम् ।
[ प्रथमो-
गोमूत्रयावकाहारः षड्रात्रेण विशुध्यति ॥८
चाण्डालघट भाण्डस्थं यस्तोयं पिबति द्विजः । तत्क्षणात्क्षिपते यस्तु प्राजापत्येन शुध्यति ॥ यदि न क्षिपते तोयं शरीरे यस्य जीर्यति । प्राजापत्यं न दातव्यं कृच्छ्र सांतपनादिकम् ॥१० चरेत्सांतपनं विप्रः प्राजापत्यं तु क्षत्त्रियः । तदधं तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥११ चाण्डालान्नं भक्षयित्वा तद्वत्सलिलमेव च । मासं कृच्छ्र चरेद्विप्रश्चान्द्रायणमथापि वा ॥ १२ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्र सांतपनं स्मृतम् ॥१३ चाण्डालमूर्तिका ये च ये च संकीर्णयोनयः । तेषां दत्त्वा च भुक्तत्रा च तप्तकृच्छ्रं समाचरेत् ॥१४ चाण्डालिकासु नारीषु द्विजो मैथुनकारकः । कृत्वाऽघमर्षणं पक्षं शुध्यते च पयोत्रतात् ॥१५
इति श्रीयाम्ये धर्मशास्त्रे प्रथमोऽध्यायः ।
ऽध्यायः ]
चान्द्रायणविधिवर्णनम् ।
द्वितीयोऽध्यायः ।
[[२१०३]]
अथ चान्द्रायणविधिवर्णनम् ।
नटां (टी) शैलूषिकां चैव रजकीं वेणुजीविनीम् । गत्वा चान्द्रायणं कुर्यात्तथा चर्मोपजीविनीम् ॥१ कापालिकान्नभोक्तृणां तनयागामिनां तथा । अज्ञानात्कृच्छ्रमुद्दिष्टं ज्ञात्वा चैव व्रतद्वयम् ॥२ सुरायाः संप्रपानेन गोमांसभक्षणे कृते । तप्तकृच्छ चरेद्विप्रो मौञ्जीहोमेन शुध्यति ॥ ३ गोक्षत्त्रियं तथा वैश्यं शूद्रं चाप्यनुलोमजम् । ज्ञात्वा विशेषेण ततश्वरेच्चान्द्रायणं व्रतम् ॥४ कुक्कुटाण्डकमात्रं तु ग्रासं च परिकल्पयेत् । अन्यथाभावदोषेण नवमेऽति च शुध्यति ॥५ एकैकं वर्धयेद्मासं शुक्ले कृष्णे च ह्रासयेत् । अमायां तु न भुञ्जीत एष चान्द्रायणो विधिः ॥ ६ प्रायश्चित्तमुपक्रम्य कर्ता यदि विपद्यते ।
पूतस्तदहरेद्वा ऽ (वा) पि इह लोके परत्र च ॥७ यावदेकः पृथग्भाव्यः प्रायश्चित्तं न सेवते । अप्रशस्ता न ते स्पृश्यास्ते सर्वऽपि विगर्हिताः ॥८ अभोज्याश्चाप्रतिग्राह्या असंपङ्क्त्या विवाहिकाः । पूयन्ते तु व्रते चीर्णे सर्वे ते रिक्थभागिनः ॥
[[१३२]]
इति श्रीयाम्ये धर्मशास्त्रे द्वितीयोऽध्यायः ।
[[२१०४]]
बृहद्यमस्मृतिः ।
[ तृतीयो-
तृतीयोऽध्यायः ।
अथ प्रायश्चित्तवर्णनम् ।
ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च ।
प्रायश्चित्तं चरेभ्राता पिता वान्योऽपि बान्धवः ॥ १ अतो बालतरस्यापि नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥२ अशीत्यधिकवर्षाणि बालो वाऽप्यून षोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥ ३ पितृव्यभ्रातृभार्या च भगिनीं मातुरेव च । श्वश्रं पितृष्वसारं च तप्तकृच्छ्रं समाचरेत् ॥४ राज्ञीमाचार्यशिष्यां वा उपाध्यायस्य योषितः । एता गत्वा स्त्रियो मोहात्षण्मासं कृच्छ्रमाचरेत् ॥५ द्वौ मासौ भक्ष्यभोज्यं च द्वौ मासौ यावकेन तु । द्वौ मासौ पश्चगव्येन षण्मासं कृच्छ्रमाचरेत् ॥६ मातरं गुरुपत्नीं च स्वसारं दुहितां तथा । गत्वा तु प्रविशेदग्निं नान्या शुद्धिर्विधीयते ॥७ अस्तं गते यदा सूर्ये चाण्डालमृतुमत्त्रियः । संस्पृशेत्तु यदा कश्चित्प्रायश्चित्तं कथं भवेत् ॥८ जातरूप्यं सुवणं तु दिवाऽऽहृतं च यज्जलम् । तेन स्नात्वा च पीत्वा च गामालभ्य विशुष्यति ॥ दासनापितगोपालकुलमित्रार्घसीरिणः ।
।
एते शूद्रास्तु भोज्यान्ना यश्चाऽऽत्मानं निवेदयेत् ॥१०ऽध्यायः ] कन्याया रजोदर्शने मात्रादीनां नरकप्राप्तिः । २१०५
असच्छूद्रेषु अन्नाद्यं ये भुञ्जन्त्यबुधा द्विजाः । प्रायश्चित्तं तथा प्राप्तं चरेचान्द्रायणव्रतम् ॥११ यः करोत्येकरात्रेण वृषलीसेवनं द्विजः । तद्भक्षणे जपेन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥१२ वृषलीं यस्तु गृह्णाति ब्राह्मणो मदमोहितः । सदा सूतकिता तस्य ब्रह्महत्या दिने दिने ॥१३ वृषलीगमनं चैव मासमेकं निरन्तरम् ।
इह जन्मनि शूद्रत्वं पुनः श्वानो भविष्यति ॥ १४ वृषलीफेनपीतस्य निःश्वासोपगतस्य च । तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ १५ अग्रे माहिषकं दृष्ट्रा मध्ये च वृषलीपतिम् । अन्ते वार्धुषिकं दृष्टा निराशाः पितरो गताः ॥ १६ महिषीत्युच्यते भार्या सा चैव व्यभिचारिणी । तान्दोषान्क्षमते यस्तु स वै माहिषकः स्मृतः ॥ १७ पितुर्गेहे तु या कन्या पश्यत्यसंस्कृता रजः । भ्रूणहत्या पितुस्तस्य (स्याः) कन्या सा वृषली स्मृता ॥ १८ यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः । असंभाष्यो पाङ्क्तेयः स विप्रो वृषलीपतिः ॥ १६ प्राप्ते तु द्वादशे वर्षे कन्यां यो न प्रयच्छति ।
मासि मासि रजतस्याः पिता पिबति शोणितम् ॥२०
अष्टवर्षा भवेद्रौरी नववर्षा च रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥२१
[[२१०६]]
बृहद्यमस्मृतिः ।
माता चैव पिता चैव ज्येष्ठभ्राता तथैव च । त्रयस्ते नरकं यान्ति दृष्ट्रा कन्यां रजस्वलाम् ॥२२ समघं धनमुत्सृज्य मह (हा ) धं यः प्रयच्छति । स वै वार्धुषिको ज्ञेयो ब्रह्मवादिषु गर्हितः ॥ २३ शुक्रक्षयकरा वन्ध्या त्याज्येति परिकीर्तिता । तस्यास्तु यो भवेद्धर्ता तं तु विद्यादजाविकम् ॥२४ दूराच्छ्रान्तं भयग्रस्तं ब्राह्मणं गृहमागतम् ।
[ तृतीयो-
अनर्चयित्वा यो भुङ्क्ते तत्क्षणेऽस्त्रौ विधी ( ही ) यते ॥२५ अजाविको माहिषश्च तथा च वृषलीपतिः । तृणाग्रेणापि संस्पृष्ट्रा सवासा जलमाविशेत् ॥२६ यावदुष्णं भवेदन्नं यावद्भुञ्जन्ति वाग्यताः । पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥२७ हविर्गुणा न वक्तव्याः पितरो यान्त्यतर्पिताः । पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥ २८ यावतो प्रसते ग्रासान्हव्यकव्येष्वमन्त्रितः । तावतो प्रसते प्रेत्य दीप्तान्प्रासानयोमयान् ॥२६ आसनेष्वासनं दद्यान्न तु हस्ते कदाचन । हस्तेष्वासनदाने च निराशाः पितरो गताः ॥ ३० आसने पादमारूढो वस्त्रस्यार्धमधः कृतम् ।
।
मुखेन धमितं भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥ ३१ अङ्गुल्यां यः पवित्राणि कृत्वा गन्धान्समर्च (प) येत् । पितॄणां नोपतिष्ठेत राक्षसैर्विप्रलुप्यति ॥३२
Sध्यायः ] श्राद्धे वर्जनीयब्राह्मणाः, सत्पात्रलक्षणवर्णनम् । २१०७
हसन्प्रासं च यो भुङ्क्ते सशब्दं सेङ्गितं तथा । लेहिनं वर्तितं चैव पडते पङ्क्तिदूषकाः ॥३३ वित्री कुष्ठी तथा शूली कुनखी श्यावदन्तकः । रोगी होनातिरिक्ताङ्गः पिशुनो मत्सरी तथा ॥ ३४ दुर्भगो हि तथा षण्ढः पाखण्डी वेदनिन्दकः । हैतुकः शूद्रयाजी च अयाज्यानां च याजकः ॥३५ नित्यं प्रतिग्रहे लुब्धो याचको विषयात्मकः । श्यावदन्तोऽथ वैद्यश्च असदालापकस्तथा ॥३६ एते श्राद्ध
े च दाने च वर्जनीयाः प्रयत्नतः । तथा देवलकश्चैव भृतको वेदविक्रयी ॥३७ एते वर्ज्याः प्रयत्नेन एत्रमेव यमोऽब्रवीत् । निराशाः पितरस्तस्य भवन्ति ॠणभागिनः ॥ ३८ अथ चेन्मत्र (न्त्र) विद्युक्तो वैष्णवो ज्ञानवान्हि सः । हव्यकव्ये नियोक्तव्य इति प्राह स्वयं यमः ॥३६ तस्मात्सर्वप्रत्नेन श्राद्ध यज्ञे च कर्मणि । अदृष्यं चैव विप्रेन्द्रं योजनीयं (येत्तु) प्रयत्नतः ॥ ४० तथैव मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । वर्जितं च यमः प्राह पक्तिपावन एव सः ॥४१ निर्मत्सरः सदाचारः श्रोत्रियो ब्रह्मविद्युवा । विद्याविनयसंपन्नः पात्रभूतो द्विजोत्तमः ॥४२ वेदान्तविज्ज्येष्ठसामा अलुब्धो वेदतत्परः । योजनीयः प्रयत्नेन दैवे पित्र्ये च कर्मणि । यदत्तं च हुतं तस्मै हानन्तं नात्र संशयः ॥४३
।
- २१०८
बृहद्यमस्मृतिः ।
उच्छिष्टोच्छिष्टसंस्पृष्टः गुना शूद्रेण वा द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥४४ उच्छिष्टभाजनं येन विप्रेण चान्नवर्जितम् । स्पष्टं तेन प्रमादाच्च प्राजापत्यं समाचरेत् ॥४५ उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणो ब्राह्मणेन हि । दशरुद्री जपेत्पश्चाद्गायत्र्या शोधनं परम् ॥४६ उच्छष्टोच्छिष्टसंस्पृष्टः क्षत्त्रियो वैश्य एव च । प्रमादोच्छिष्ट संस्पृष्टः शूद्रेण तु यदा द्विजः ॥ ४७ उपोष्य रजनी रजनीमेकां पश्चगव्येन शुध्यति । श्वानकुक्कुटमार्जाराः काको वा स्पृशते यदि ॥४८ उच्छिष्टं तं द्विजं यस्तु अहोरात्रेण शुध्यति । पञ्चगव्येन शुद्धिः स्यादित्याह भगवान्यमः ॥ ४६ रंजस्वलां स्पृशेद्यस्तु त्रिरात्रं तत्र कारयेत् । उपोष्य द्विजसंस्कारं पञ्चगव्येन शुध्यति ॥ ५० उदक्या दृष्टिपातेन श्रुतशब्देन चैव हि । स्नानं देवार्चनं दानं हवनं च प्रणश्यति ॥५१ रक्तवस्त्रस्य विक्रेता लाक्षारजकमे (ए)व च । वेणुजीवन कैवर्ततक्षचर्मोपजीविनः ॥५२ एतेषां स्पर्शनात्पापं तथा चैव तु मोहितः । प्रतिमहाश्च विप्रो वै नरकं प्रति गच्छति ॥ ५३ उदक्याः स्पर्शने चैव ब्राह्मणो वै प्रमादतः । षड्रात्रोपोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥५४
[ तृतीयो-
ऽध्यायः] अभक्ष्यभक्षणादिविषये - रजस्वलास्पर्शे प्रायश्चित्तानि २१०६
सूतके वर्तमानेऽपि दासवर्गस्य का क्रिया । स्वामितुल्यं भवेत्तस्य सूतकं तु प्रशस्यते ॥ ५५ यन्न कारयते तत्तन्नान्यं प्रत्यत्रवीद्यमः । विवाहोत्सवयज्ञेषु कार्ये चैवमुपस्थिते ॥५६
"
रजः पश्यति या नारी तस्य कालस्य का क्रिया । विपुले च जले स्नात्वा शुकुवासास्त्वलंकृता ॥ ५७ आपोहिष्ठेत्यगभिषिक्ताऽऽयं गौरिति वा ऋचः (चा) । पूजान्ते होमयेत्पश्चाद् घृताहुत्या शताष्टकम् ॥५८ गायत्र्या व्याहृतिभिश्च ततः कर्म समाचरेत् । यावद्विजा न चार्च्यन्ते अन्नदान हिरण्यकैः ॥५६ तावचीर्णव्रतस्यापि तत्पापं न प्रणश्यति ॥ ६०
यद्देहकं काकबलाकचिल्लामेध्येन लिप्तं तु भवेत्कदाचित् । श्रोत्रे मुखे वा परिमस्तके वा ज्ञा (स्ना) नेन लेपोपहतस्य शुद्धिः ॥
अभक्ष्याणामपेयानामलेह्यानां च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥६२ पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः । एतेषामुदकं पीत्वा पञ्चगव्येन शुध्यति ॥ ६३ स्त्रीणां रजस्वलानां च स्पर्शश्चैव भवेद्यदि । चतुर्णामपि वर्णानां प्रायश्चित्तं कथं भवेत् ॥ ६४. स्पृष्ट्रा रजस्वलाऽन्योन्यं सगोत्रा चान्यगोत्रका । कामादकामतो वाऽपि त्रिरात्राच्छुद्धिरिष्यते ॥ ६५
'
[[२११०]]
बृहद्यमस्मृतिः ।
स्पृष्ट्रा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्त्रिया तथा । अर्धकृच्छ्रं चरेत्पूर्वा पादकृच्छ्रं तथोत्तरा ॥ ६६ स्पृष्ट्रा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यिनी तथा । पादहीनं चरेत्पूर्वा पादमेकं तथोत्तरा ॥ ६७ स्पृष्ट्रा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रणी तथा । कृच्छ्र ेण शुध्यते शूद्रो ब्राह्मी दानेन शुध्यति ॥ ६८ विप्रः स्पृष्टो निशायां तूदक्याया पतितेन वा । दिवाऽऽनीतेन तोयेन स्नापयेदग्निसंनिधौ ॥६६ दिवा चैवार्कसंस्पृष्टं रात्रौ नक्षत्रदर्शनात् । संध्ययोरुभयोर्वाऽपि पवित्रं सर्वदा जलम् ॥७०
इति श्रीयाम्ये धर्मशास्त्रे तृतीयोऽध्यायः ।
[ चतुर्थी-
चतुर्थोऽध्यायः ।
अथ गोवधप्रायश्चित्तवर्णनम् ।
स्वातं (स्वातं) वापी तथा कूपपाषाणे शस्त्रघातिते । यष्ट्या तु घातिते चैव मृत्पिण्डान्येव साधयेत् (1) ॥१ गोवधे चैव यत्पापं बलीवर्दस्य चैव हि ।
प्रायश्चित्तं भवेतत्र स्त्रिया वा पुरुषस्य वा ॥२ खाते च पतिता या गौः कूपे वा चावटेऽपि वा ।
आशा (शै) वालकुडे (ण्डे) वाऽपि शस्त्रघातेन चैव हि ॥३
ऽध्यायः ]
गोवधप्रायश्चित्तवर्णनम् ।
यष्ट्या तु पतिता या गौर्बलीवर्दो मृतोऽपि वा । वत्सो वत्सतरो वाऽपि प्रायश्चित्ती भवेन्नरः ॥४ नारी वाऽपि कुमारो वा प्रायश्चित्ताद्विशुध्यति । पापी प्रख्यापयेत्पापं दत्त्वा धेनुं तथा वृषम् ॥५ प्रच्छन्नपापिनो ये स्युः कृतघ्ना दुष्टचारिणः । नरकेषु च पच्यन्ते यावदाभूतसंप्लवम् ॥६ तस्माच्च पापिना ग्राह्यं प्रायश्चित्तं यथा तथा । प्रमादाश्च हता येन कपिला वा तथेतरा ॥७ यथा ब्रह्मवधे पापं कपिलाया वधे तथा । बलीवर्देऽपि च तथा प्रायश्चित्तं समं स्मृतम् ॥८ रोधने बन्धने चैव मृत्पिण्डन (व) गोमये । उत्कृष्टेनापि गोहन्ता प्रायश्चित्तेन शुध्यति ॥ मुष्ट्या वा निहता या गौः शकटे धा (वा) रिपङ्कयोः । गोवर्तपतिता गावः श्वनद्यामुत्तरेऽपि वा ॥ १० एतत्ते कथितं सर्वं गवां च (वि) घातमुत्तमम् । यत्र यत्र म्रियेद्गौश्च प्रायश्चित्तं पृथक् पृथक् ॥११ वने च पतिता या गौः पामरत्राट ( स ) शङ्किता । मृता चैव यदा सा गौः प्रायश्चित्ती भवेच्च सः ॥१२ प्रेषितः पुरुषो वाऽपि प्रायश्चित्तं च यत्स्मृतम् । आब्दिकं चैव शूद्रस्य वैश्यस्य द्विगुणं भवेत् ॥१३ त्रिगुणं क्षत्रियस्यैव विप्रस्यैव चतुर्गुणम् ।
गोष्ठे निवसनं कार्यं गोघ्नोऽहमिति वाचयेत् ॥१४
[[२१११]]
[[२११२]]
बृहद्यमस्मृतिः ।
[ चतुर्थी-
कष्टेन वतमानोऽपि कालेनैव शुचिर्भवेत् ।
गवां मध्ये वसेद्रात्रौ दिवा गा वै ह्यनुत्रजेत् ॥१५ न स्त्रीणां वपनं कुर्यान्न च गोत्रजनं स्मृतम् । न च गोष्ठे वसेद्राजौ न कुर्याद्वैदिकी श्रुतिम् ॥१६ सर्वान्केशान्समुच्छ्रित्य च्छेदयेदङ्गुलद्वयम् ।
एष ए ( वमे) व तु नारीणां शिरोमुण्डापनं स्मृतम् ॥१७ सूतके मृतके चैव विधि प्रब्रूहि नो यम । जातके वर्तमानेऽपि मृतकं च यदा भवेत् ॥१८ को विधिः स विनिर्दिष्टः कथयस्व यथातथम् । एवमुक्तो हि भगवान्यमः प्राह यथातथम् ॥१६ जातके नैव मृतकं क्षयं याति न संशयः । पूर्वत्रतमनिर्दिष्टं मया च सूतकं भवेत् ॥२० सूतकेन न लिप्येत इति प्राह स्वयं यमः । सूतकेन न लिप्येत व्रतं संपूर्णतां व्रजेत् ॥२१ श्राद्धं दानं तपो यज्ञो देवताराधनं तथा । ब्रह्महा च सुरापश्च स्वर्णस्तेयी गुरुगुहः ॥२२ संसर्गी पञ्चमो ज्ञेयस्तत्समो नात्र संशयः । एतेषु द्वादशाब्दं च प्रायश्चित्तं विधीयते ॥ २३ तथा पातकिनां चैव षडब्दं चैव संस्मृतम् । उपपातकिनां चैव त्रिपभ्वाब्दं विधीयते ॥२४ प्राजापत्यैस्त्रिभिः कृच्छ्रं कृच्छ्र ं वै द्वादशाब्दिकम् । एकभक्तं तथा नक्तमुपवासमथापि वा ॥ २५
ऽध्यायः ] धर्मशास्त्रमज्ञात्वा प्रायश्चित्तदापमेपिर्णवः । २११३
एतद्दिनचतुष्केण पादकृच्छ्रश्च जायते । ।
त्रिपादकृच्छ्रो विज्ञेयः पापक्षयकरः स्मृतः ॥२६ धर्मशास्त्रानुसारेण प्रायश्चित्तं मनीषिभिः । दातव्यं पापमुक्त्यर्थं प्राणिनां पापकारिणाम् ॥२७ अनुतापाद्य (पो यदा पुंसां (सो) भवेद्वै पापिनः किल । प्रायश्चित्तं तदा देयमित्याह भगवान्यमः ॥२८ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्रायश्चित्ती भवेत्पूतस्तत्पापं पर्षदं व्रजेत् ॥२६ तस्माच्छास्त्रानुसारेण प्रायश्चित्तं विधीयते । अष्टशाल्यां मृता ये च ये च स्त्रीसूतके मृताः ॥३० दंष्ट्राभिर्भक्षिता ये च ये च आत्महनो जनाः । अष्टशाल्यां मृतो विप्रः प्रायश्चित्तं तु बन्धुभिः ॥ ३१ कार्यं तु आब्दिकं चैव तथा स्त्रीणां च दापयेत् । शुद्धयथं नान्यथा भाव्यमित्याह भगवान्यमः ॥ ३२ दुर्मृत्युमरणं प्राप्ता येऽप्यधोगतिमागताः । तेषां शुद्धयर्थमेवात्र द्विश्यब्दं हि विशिष्यते ॥३३ ब्राह्मणक्षत्त्रियविशां शूद्राणां चान्त्यजातिनाम् । तारतम्येन दातव्यमिति प्राह स्वयं यमः ॥ ३४ पतितानां च विप्राणां तथा स्त्रीणां विगर्हितम् । कथं शुद्धिर्भवेत्तासां तेषां चैव विशेषतः ॥३५ व्यभिचारादृतौ शुद्धिः स्त्रीणां चैव न संशयः । गर्भे जाते परित्यागो नान्यथा मम भाषितम ॥३६
[[२११४]]
वृहद्यमस्मृतिः ।
[ चतुर्था-
दुष्टस्त्रीदर्शनेनैव पितरो यान्त्यधोगतिम् ।
घृतं योन्यां क्षिपेद्घोरं परपुंसगता हि या ॥ ३७
हवनं च प्रयत्नेन गायत्र्या चायुतत्रयम् । ब्राह्मणान्भोजयेत्पश्चाच्छतमष्टोत्तरेण हि ॥३८ विधवा चैव या नारी पुंसोपगत से विनी । त्याज्या सा बन्धुभिश्चैव नान्यथा यमभाषितम् ॥३६ पतितस्य च विप्रस्य अनुतापरतस्य च । पापाञ्चैव निवृत्तस्य प्रायश्चिती भवेत्तदा ॥४० तारतम्येन दातव्यं प्रायश्चित्तं यथाविधि । सकामो हि यदा विप्रः पापाचारपरो भवेत् ॥४१ दृष्ट्वा ( दिष्ट्या ) निवृत्तपापौघः प्रायश्चित्ती तदाऽति । तथा क्षत्रियवैश्यौ वा शूद्रो वाऽपि यथाक्रमात् ॥४२ विधवागमने पापं सकृच्चैव तु यद्भवेत् ।
असकृच्च यदा ज्ञात्वा प्रायश्चित्तं प्रवर्तते ॥४३ असकृद्गमनाच्चैव चरेच्चान्द्रायणद्वयम् ।
सकृद्रगने यत्पापं प्राजापत्यद्वयेन हि ॥४४ पुनर्भूर्विकृता येन कृता विप्रेण चैव हि । विना शाखाप्रभेदेन पुनर्भूर्भण्यते हि सा ॥४५ सवर्णश्च सवर्णायामभिषिक्तो यदा भवेत् । ब्राह्मणः कामलुब्धोऽपि श्राद्ध े यज्ञे च गर्हितः ॥४६ क्षत्त्रियो ब्राह्मणीसक्तः क्षत्त्रियां विश एव वा । वैश्याया गमने शूद्रः पतिताया भवान्यथा ॥४७ऽध्यायः ]
सत्पात्र ब्राह्मणलक्षणवर्णनम् ।
[[२११५]]
प्रातिलोम्ये महत्पापं प्रवदन्ति मनीषिणः । प्रायश्चित्तं चाऽऽनुलोम्ये न भवत्येव चान्यथा ॥ ४८ मानसं वाचिकं चैव कायिकं पातकं स्मृतम् । तस्मात्पापाद्विशुद्धयर्थं प्रायश्चित्तं दिने दिने ॥ ४६ प्रातः संध्यां सनक्षत्रामुपास्या मे (सी) व यत्नतः । मध्याह े च तथा रौद्री सायं चैव तु वैष्णवीम् ॥५० त्रिविधं पापशुद्धयर्थं संध्योपासनमेव च । संध्याहीनो हि यो विप्रः स्नानहीनस्तथैव च ॥ ५१ स्नानहीनो मलाशी स्यात्संध्याहीनो हि भ्रूणहा ।
नैशं पा (नश्येत्पा) पं हि यां ध्यात्वा उ ( तुरु) पासनपरो हि सः ॥ ब्रह्मलोकं व्रजत्येव नान्यथा यमभाषितम् ।
विद्यातपोभ्यां संयुक्तः शान्तः शुचिरलम्पटः ॥५३ अलुब्धाह्लादनिष्पापा भूदेवा नात्र संशयः । पात्रीभूताश्च विज्ञेया विप्रास्ते नात्र संशयः ॥५४ तेभ्यो दत्तमनन्तं हि इत्याह भगवान्यमः । कुकर्मस्थास्तु ये विप्रा लोलुपा वेदवर्जिताः ॥५५ संध्याहीना भ्रष्टाः पिशुना विषयात्मकाः ।
तेभ्यो दत्तं निष्फलं स्यान्नात्र कार्या विचारणा ॥५६ प्रतिग्रहे संकुचिता यदान्यातयविधृता ।
भूमिदर्शनात्पापमोचकाकृतत्रेताद्वापरे कलौ नौववरोषितः ॥ राजप्रतिग्रहात्सवं ब्रह्मवर्चसमेव च ।
नश्यतीति न संदेह इत्याह भगवान्यमः ॥५८
[[२११६]]
बृहद्यमस्मृतिः ।
राज्ञां प्रतिग्रहस्त्याज्यो लोकत्रयजिगीषुभिः । राज्ञः प्रतिग्रहाश्चैव ब्राह्मण्यं हि विलुप्यते ॥५६ गावो दूरप्रचारेण हिरण्यं लोभलिप्सया ।
[ पञ्चमो-
स्त्री विनश्यति गर्वे ( मैं )ण ब्राह्मणो राजसेवया ॥ ६० सेवकाचापि विप्राणां राज्ञां सुकृतनामभिः ।
कुम्भीपाकेषु पच्यन्ते यावदाभूतसंप्लवम् ॥६१ असेव्यासेविनो विप्रा अयाज्यानां च याजकाः । अपाङ्क्ता (त्या)स्ते च विज्ञ ेयाः सर्वधर्मबहिष्कृताः ॥ ६२
इति श्रीयाम्ये धर्मशास्त्रे चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः ।
अथ श्राद्धकाले पत्न्यां रजस्वलायां निर्णयः । अतः परं प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः । सर्वेषामन्त्यजातीनां वर्णादीनां यथाक्रमम् ॥१ स्त्रीसंपर्कादिकं सवं जातमन्त्यजसंज्ञकम् । योनिसंकरजं सर्वं वर्णतश्चापि सर्वशः ॥२ विप्रक्षत्त्रियविट्शूद्रा वर्णिजात्येष्वनुक्रमात् ।
एते ब्राह्मणकुत्साः स्युस्तस्माद्ब्राह्मण (य)मुत्तमम् ॥३ वेदाचाररतो विप्रो वेदवेदाङ्गपारगः । तैरप्यनुष्ठितो धर्म उक्तचैव विशेषतः ॥४
कार्ये चैव विशेषेण त्रिभिर्वर्णैरतन्द्रितः ।
बलाद्दासीकृता ये च म्लेच्छचाण्डालदस्युभिः ॥५
Sध्यायः ] अपुत्रस्य दायादाभिधानं, भागनिर्णयं, विवादादि २११७
निर्णयश्च ।
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् । प्रायश्चित्तं च दातव्यं तारतम्येन वा द्विजैः ॥६ श्राद्धकाले यदा जाता पत्नी यस्य रजस्वला । प्रसूता वा न कार्ये च दैविकं पैतृकं तथा ॥७ ब्राह्मणा मन्त्रिताश्चैव क्षणिता वा प्रयत्नतः । उद्दिश्य पितृपाकं च कार्य पैतृकमेव तत् ॥८ अशौचं न भवत्येव नात्र कार्या विचारणा । प्रस्थाने वा पिता तस्य पश्वत्वं च गतो भवेत् ॥६ श्राद्धादिकं तु पुत्रेण अज्ञातेन कृतं यदा ।
कन्याप्रदानसमये श्रुतं च पि (तवान्पि) तरं मृतम् ॥१० कन्यादानं च तत्कार्यं वचनाद्भवते (ति) क्षमः । पितुः पात्रादिकं कर्म पश्चात्सवं यथाविधि ॥ ११ अज्ञानाश्च कृतं सवं दैविकं पैतृकं च यत् । जातके सू(मृ)तके वाऽपि तत्सर्वं सफलं भवेत् ॥ १२ ( व्यासेनोक्तस्मृतौ स्वकीये अज्ञानात्पितरि मृते यदा ज्ञातुसदैवकार्यं पितृकमेव वा ) ॥१३
अनेके यस्य ये पुत्राः संसृष्टा हि भवन्ति च । ज्येष्ठेन हि कृतं सर्वं सफलं पैतृकं भवेत् ॥१४
वैदिकं च तथा सर्वे भवत्येव न संशयः । पृथक्पिण्डं पृथक्श्राद्धं वैश्वदेवादिकं च यत् ॥१५ भ्रातरश्च पृथक्कुर्युर्नाविभक्ताः कदाचन ।
अपुत्रस्य च पुत्राः स्युः कर्तारः सांपरायणाः ॥१६
[[२११८]]
बृहद्यमस्मृतिः ।
सफलं जायते सर्बमिति शातातपोऽब्रवीत् ।
न च दत्तो अ ( sta) हीनो ऽतिस्नेहेन च तथाऽपरः ॥१७ बलाद्गृहीतो बद्धश्च बन्धुभिर्दत्त एव च ।
भ्रातुः पुत्रो मित्रपुत्रः शिष्यश्वव तथौरसः ॥ १८ अपुत्रस्य च विज्ञेया दायादा नात्र संशयः । नवैते पुत्रवत्पाल्याः परलोकप्रदा हामी ॥१६ औरसेन समाज्ञेया वचसोद्दालकस्य च । इदानीं भागनिर्णेयमृषिः शातातपोऽब्रवीत् ॥२० ज्येष्ठेन वा कनिष्ठेन विभागस्य विनिर्णयः । समभागप्रदाता च अपुत्रेभ्यो न संशयः ॥ २१ समभागो ग्रहीतव्यः पुत्रमत्या सदैव हि । पितृभ्यो भ्रातृपुत्रेभ्यो दायादेभ्यो यथाक्रमात् ॥२२ अधिकस्य च भागौ द्वावितरेभ्यः समासतः । आधौ प्रतिग्रहे क्रान्ते पूर्वा तु बलवत्तरा ॥२३ सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया । समविद्योत्तरं चैव प्रत्यवस्कन्दनं तथा ॥२४ पूर्व न्यासविधिश्चैव उत्तरः स्याच्चतुर्विधः । साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ॥ २५ पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः । असाक्षिव्यवहारेषु दिव्यं देयं यथाविधि ॥२६
इति श्रीयाम्ये धर्मशास्त्रे पञ्चमोऽध्यायः ॥ समाप्तेयं बृहद्यमस्मृतिः ।
-::::——
[[१३३]]
- श्रीगणेशाय नमः +
॥ अथ ॥