श्रीगणेशाय नमः ।
॥ प्रथमोऽध्यायः ॥
अथाचाराध्यायः - उपोद्घातप्रकरणवर्णनम् । योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥ १ मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वात्रवीन्मुनीन् । यस्मिन् देशे मृगः कृष्ण स्तस्मिन् धर्म्मान्निबोधत ॥२ पुराणन्यायमीमांसा धर्म्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ३ मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोङ्गिराः । यमापस्तम्बसम्बर्त्ता कात्यायनवहस्पती ॥४ पराशरख्या सशङ्खलिखिता दक्षगौतमौ । शातातपो वशिष्ठश्च धर्मशास्त्र प्रयोजकाः ॥५ देशकाल उपायेन द्रव्यं श्रद्धा समन्वितम् । पात्रे प्रदीयते यत्तत् सकलं धर्म्मलक्षणम् ॥६
[[७८]]
।
[[१२३६]]
याज्ञवल्क्यस्मृतिः ।
[ प्रथमो-
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक् सङ्कल्पजः कामो धम्र्ममूलमिदं स्मृतम् ॥७ इज्याचारदमाहिंसादानं स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥८ चत्वारो वेदधम्मज्ञाः पर्षत् त्रैविद्यमेत्र वा । सा ब्रूते यं स धर्मः स्यादेको वाध्यात्मवित्तमः ॥
अथब्रह्मचारिप्रकरणवर्णनम् ।
ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निपकादि श्मशानातास्तेषां वै मन्त्रतः क्रियाः ॥ १० गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा । षष्ठेऽमे वा सीमन्तः प्रसवे जातकम्मं च ॥ ११ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूड़ा कार्य्या यथ कुलम् ॥१२ एवमेनः शमं याति बीजगर्भसमुद्भवम् ।
तू णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥ १३ गर्भाष्टमे वादे ब्राह्मणस्योपनायनम् । राज्ञामेकादश सैके विशामेके यथाकुलम् ॥१४ उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ! वेदमध्यापयेदेनं शौचाचाराश्च शिक्षयेत् ॥ १५ दिवासन्ध्यासु कर्णस्थ ब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेदक्षिणामुखः ॥१६
ऽध्यायः ] आचाराध्यायःब्रह्मचारिप्रकरणवर्णनम् ।
[[१२३७]]
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्ध, तेज्जलेः ।
गन्धलेपक्षयकरं कुर्याच्छौचमतन्द्रितः ॥ १७
अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मण तीर्थेन द्विजो नित्यमुपस्पृशेन ॥ १८ कनिष्ठादेशिन्यङ्गुष्ठमूल्यान्ययं करस्य च । प्रजापति पितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥१६ त्रिः प्राश्यापो द्विरुनमृज्यात खान्यद्भिः समुपस्पशेत् । अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुवुः ॥२० हृत्कण्ठतालुगाभिस्तु यथा संख्यं द्विजातयः । शुद्धयरन स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ २१ स्नानमदैवतैर्मन्त्रैमज्जैिनं प्राणसंयमः ।
।
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जप ॥२२ गायत्री शिरसा सार्द्ध जपेद् व्याहृतिपूर्विकाम् । प्रतिप्रणव संयुक्त त्रिरयं प्राणसंयमः । २३ प्राणानायम्य सम्प्रोक्ष्य त्र्यचेनाब्दैवतेन तु । जपन्नासीत सावित्रीं प्रत्यगातारकोदयात २४ सन्ध्यां प्राक् प्रातरेवं हि तिष्ठ दासूर्यदर्शनात् । अग्निकाय्यं ततः कुर्यात् सन्ध्ययोरुभयोरपि । २५ ततोऽभिवादयेद् वृद्धान सावमिति ब्रुवन् । गुरुञ्चैवा’ युपासीत स्वाध्यायार्थं समाहित. ॥ २६ आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् ।
हितं चास्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥२७
[[१२३८]]
याज्ञवल्क्यस्मृतिः ।
[ प्रथमो-
कृतज्ञोऽद्रोही मेवावी शुचि (कुल्योऽनसूयका): कल्याणसूचकाः ।
·
अध्याप्याः धर्म्मतः साधुशक्ताप्रज्ञानवित्तदाः ॥ २८ दण्डाजिनोपवीतानि मेखलाञ्चैव धारयेत् । ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवत्तये ॥२६ आदिमध्यावसानेषु भवच्छदोपलक्षिता । ब्राह्मणक्षत्त्रियविशां भैक्षचर्या यथाक्रमम् ॥३० कृतामिकार्य्या भुञ्जीत वाग्यतो गुर्व्वनुज्ञया । आपोशानक्रियापूवं सत्कृत्यान्नमकुत्सयन् ॥३१ ब्रह्मचये स्थित मन्नमद्यादनापदि ।
ब्राह्मणः काममश्नीयाच्छ्राद्ध व्रतमपीडयन् ॥३२ मधुमांसाञ्जनोच्छिशुतस्त्रीप्राणिहिंसनम् । भास्करालोकनालीलपरिवादांश्च वर्जयेत् ॥३३ स गुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृत ॥३४ एकदेशमुपाध्याय ऋत्विग् यज्ञकृदुच्यते । एते मान्या यथ पूर्वमेभ्यो माता गरीयसी ॥ ३५ प्रतिवेदं ब्रह्मचय्यं द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तश्चैव पोडशे ॥३६ आ पोडशाब्दाद् द्वाविंशाश्चतुर्विंशात्र वत्सरात् । ब्रह्मसत्त्रविशां काल औपनायनिकः परः ॥ ३७ अत ऊद्ध पतन्त्येते सर्वधर्मवहिष्कृताः ।
सावित्रीपतिता व्रात्या व्र. त्यस्तोमादृते क्रतोः ॥ ३८
ऽध्यायः ] आचाराध्यायः ब्रह्मचारिप्रकरणवर्णनम् ।
मातुर्यदये जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्त्रियविशस्तन्म देते द्विजाः स्मृताः ॥ ३६ यज्ञानां तपसाञ्चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः ॥४० मधुना पयसा चैव स देवां स्तर्पयेद् द्विजः । पितृश्च मधुसर्पिर्भ्यामृचोऽधीते तु योऽन्वहम् ॥४१ यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृते । प्रीणाति देवानाज्येन मधुना च पितृस्तथा ॥४२ स तु सोमघृतेदेवां स्तयेोऽन्वहं पठेत् । सामानि तृप्ति कुर्याच्च पितॄणां मधुसर्पिषा ॥४३ मेदसा तर्पयेदवानथर्वाङ्गिरसः पठन् ।
पितॄंश्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥ ४४ वाकोवाक्यं पुराणश्च नाराशंसीश्च गाथिकाः । इतिहासां तथा विद्यां योऽधीते शक्तितोऽ वहम ॥४५ मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् ।
करोति तृप्तिञ्च तथा पितृगां मधुसर्पिषा ॥४६ ते तृप्तास्तयन्त्येनं सर्वकामफलैः शुभैः ।
यं यं क्रतुमधीये च तस्य तस्यानुयात् फलम् ॥४७ त्रिर्वित्तपूर्ण पृथिवीदानस्य फलमश्नुते ।
तपसश्च परस्येह नित्यं स्वाध्यायवान् द्विजः ॥४८ नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ ।
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥४६
[[१२३६]]
[[१२४०]]
याज्ञवल्क्यस्मृतिः ।
अनेन विधिना देहं साधयन् विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेहा जायते पुनः ॥ ५०
अथ विवाहप्रकरणवर्णनम् ।
। प्रथमो-
गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया । वेदं नि वा पारं नीत्वाप्युभयमेव वा ॥ ५१ अविलुत्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् । अनन्यपूर्वेकां कान्तामसपिण्डा यवीयसीम ॥५२ अरोगिणी भ्रातृमतोमसमानर्विगोत्रजाम् । पश्चनत् सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥५३ दश रु विख्याताच्छ्रोत्रियाणां महाकुलात् । स्फीतादपि न सञ्चारिरोगदोषसमन्वितत् ॥५४ एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । यन्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥ ५५ यदुच्यते द्विजाजीनां शूद्राद्दारोपसंग्रहः । न तन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ॥५६ तिस्रोवर्णानुपूर्येण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्त्रियविशां भार्या स्त्रा शूद्रजन्मनः ॥ ५७ ब्राह्म विवाह आहूय दीयते शक्त्यलङ्कृता । तज्ज्ञ पुनात्युभयत. पुरुषानेकविंशतिम् ॥५८ यज्ञस्थऋत्विजे दैव आदायाषेस्तु गोद्वयम् । चतुदश प्रथमजः पुनात्युत्तरजश्च षट् ॥५६ इत्युक्त्वा चरतां धर्म सह या दीयतेऽर्थिने । स कायः पावयत्पद्यः षट्षड्वंश्यान् सहात्मना ॥ ६०ऽध्यायः ] आचाराध्यायः विवाहप्रकरणवर्णनम् । १२४१
आसुरो द्रविणादानाद् गान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥ ६१ पाणिग्रह्यः सवर्णासु गृह्णीयात् क्षत्त्रिया शरम् । वश्या प्रतोदमादद्यादने त्वजन्मनः ॥६२ पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थ परः परः ॥ ६३ अप्रयच्छन् समाप्नोति भ्रूणहत्या मृतावृतौ । गम्यन्त्वभावे दातॄणां कन्या कुर्यात् स्वयम्वरम् ॥६४ सकृन् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् । दत्तामपि हरेनू पर्वाच्छ यांचेवर आव्रजेत् ॥ ६५ अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् । अदुष्टाञ्च त्यजन् कन्यां दूपयंश्च मृषा शतम् ॥ ६६ अक्षता वा क्षता चैव पुनर्भः संस्कृता पुनः । स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥६७ अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त मृतावियात् ॥ ६८ आगर्भ सम्भवाद् गच्छंत् पतितस्त्वन्यथा भवेत् । अनेन विधिना जातः क्षेत्रजः स भवेत् सुतः ॥ ६६ हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामध शय्यां वासयेद् व्यभिचारिणीम् ॥७० सोमः शौचं ददौ तासां गन्धर्वाश्च शुभां गिरम् । पावकः सर्वभक्ष्यत्वं मेध्या वै योषितो ह्यतः ॥ ७१
याज्ञवल्क्यस्मृतिः ।
[ प्रथमो-
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।
।
गर्भभर्तृवधादौ च तथा महति पातके ॥७२ सुरापी व्याधिता धूर्त्ता वन्ध्यार्थघ्न्यप्रियम्वदा । स्त्रीप्रसूवाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ ७३ अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् । यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्द्धते ॥७४ मृते जीवति वा पत्यौ या नान्यमुपगच्छति । सेह कीर्तिमवाप्नोति मोदते चोमया सह ॥ ७५ आज्ञासम्पादिनीं दक्षां वीरसूं प्रियवादिनीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥७६ स्त्रीभिर्भर्तृवचः कार्यमेषधर्मः परः स्त्रियाः । आ शुद्धः संप्रतीक्ष्यो हि महापातकदूषितः ॥७७ लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
।
यस्मात्तस्मात् स्त्रियः सेव्या भर्त्तव्याश्च सुरक्षिताः ॥७८ षोडशनिशाः स्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्यः श्चतस्रस्तु वर्जयेत् ॥७६
पर्वाण्याद्याश्चतस्रस्तु
एवं गच्छन् स्त्रियं क्षामां मघां मूल वर्जयेत् । शस्त इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥८० यथा कामी भवेद्वापी स्त्रीणां वरमनुस्मरन् । खदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ ८१ भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुर देवरैः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥८२
ऽध्यायः ] आचाराध्यायः वर्णजातिविवेकवर्णनम् । १२४३
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । कुर्याच्छशुरयोः पादवन्दनं भर्तृतत्परा ॥८३ क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥८४ रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास्तु वार्द्धके । अभावे ज्ञातयस्तेषां स्वातन्त्र्यं न क्वचित् स्त्रियाः ॥८५ पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः ।
हीना न स्याद्विना भर्त्रा गर्हणीयान्यथा भवेत् ॥८६ पतिप्रियहिते युक्ता स्वाचारा संयतेन्द्रिया । इह कीर्तिमवाप्नोति प्रेत्य चानुपमं सुखम् ॥८७ सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत् । सवर्णासु विधौ धर्मे ज्येष्ठया न विनेतराः ॥८८ दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् ॥८६
अथ वर्णजातिविवेकवर्णनम् ।
[[१]]
सवर्णेभ्यः सवर्णासु जायन्ते वै सजातयः । अनिन्द्येषु विवाहेषु पुत्राः सन्तानवर्द्धनाः ॥६० विप्रान्मूर्द्धाभिषिक्तो हि क्षत्रियाणां विशः स्त्रियाम् । अम्बष्ठ. शू निषादो जातः पारशवोऽपि वा ॥ वैश्यशूद्योस्तु राजन्यान्माहिष्योप्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्यां विन्नास्त्रेषविधिः स्मृतः ॥६२ ब्राह्मण्यां क्षत्रियात सूतो वैश्याद्वैदेहकस्तथा । शूद्राज्जातस्तु चाण्डालः सर्वधर्मवहिष्कृतः ॥१३
[[१२४४]]
याज्ञवल्क्यस्मृतिः ।
क्षत्रिया मागधं वैश्याच्छूद्रात् क्षत्तारमेव तु । शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥६४ माहिष्येण करण्यान्तु रथकारः प्रजायते । असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥६५ जात्युत्कषों युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्मणां साम्यं पूर्ववशोत्तराधरम ॥६६
अथ गृहस्थधर्मप्रकरणवर्णनम ।
कर्म स्मात्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहते वाऽपि श्रौतं वैतानिकाग्निषु ॥८७ शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः । प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् ॥८८ हुत्वाग्नीन् सूर्य देवत्यान् जपेन्मन्त्रान् समाहितः । वेदार्थानधिगच्छेत शास्त्राणि विविधानि च ॥ उपेयादीश्वरच्चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान् पितृचैव तर्पयेदये तथा ॥ १०० वेदाथर्वपुराणानि सेतिहासानि शक्तित ।
जपयज्ञप्रसिद्वय व विद्याध्वाध्यात्मिकीं जपेत् ॥ १०१
बलिकर्मस्वधा होमस्वध्यायातिथिसत्क्रियाः ।
भूतपित्रमर ब्रह्म मनुष्याणां महामखाः ॥१०२ देवेभ्यश्च हुतादन्नाच्छेषाद् भूतवलि हरेत् । अन्नं भूमौ श्वचण्डालवायोभ्यश्चैव निक्षिपेत् ॥१०३ अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् । स्वाध्यायमन्वहं कुर्यात् न पचेदन्नमात्मनः ॥ १०४
[ प्रथमो-
ऽध्यायः ]
आचारध्या य गृहस्थधर्मप्रकरणवर्णनम् । १२४५ बालं सु(स्व) वासिनीवृद्धगर्भिण्यातुरकन्यकाः । सम्भोज्यातिथिभृत्यश्च दम्पत्योः शेषभोजनम ॥१०५
आपोशानेनोपरिष्टादधस्तादश्नता तथा ।
अनग्नममृतञ्चैव कार्यमन्नं द्विजन्मना ॥१०६ अतिथित्वेऽपि वर्णभ्यो देयं शक्तयानुपूर्वशः । अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १०७ सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । भोजयेच्चागतान् काले सखिसम्बन्धिवान्धवान् ॥१०८ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् । सत्क्रियाश्वासनं स्वादु भोजनं सुनृतं वचः ॥ १०६ प्रतिसम्वसरं त्वर्ध्याः स्नातकाचार्यपार्थिवाः । प्रियो विवाह्यश्च तथा यज्ञं प्रत्यत्विजः पुनः ॥ ११० अध्वनीनोऽतिथिज्ञेयः श्रोत्रियो वेदपारगः । मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ १११ परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते । वाक्पाणिपादचापल्यं वर्जयेचातिभोजनम् ॥ ११२ अतिथिं श्रोत्रियं तृप्तमासीमान्तादनुत्रजेत् । अहः शेषं सहासीत शिप्रैरिप्रैश्च बन्धुभिः ॥ ११३ उपास्य पश्चिमां सन्ध्यां हुत्वाग्नीं स्तानुपास्य च । भृत्यः परिवृतो भुक्ता नातितृप्त्योऽथ संविशेत् ॥ ११४ ब्राह्मे मुहूर्त उत्थाय चिन्तयेदात्मनोहितम् । धर्मार्थकामान् स्त्रे काले यथाशक्ति न हापयेत् ११५
[[१२४६]]
याज्ञवल्क्यस्मृतिः ।
विद्याकर्मवयोबन्धुवित्तैर्मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्द्धक्ये मानमर्हति ॥ ११६ वृद्धभारिनृपस्नातस्त्री रोगिवरचक्रिगाम । पन्थादेयोनृपस्तेषां मान्यः स्नातस्तु भूपतेः ॥११७ इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥ ११८ प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
॥
कुसीदकृषिवाणिज्यं पासुपाल्यं विशः स्मृतम् ॥ ११६ शूद्रस्य द्विजशुश्रूषा तयाऽजीवन् वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद् द्विजातिद्दितमाचरन् ॥१२० भार्यारतिः शुचिर्भृत्यभर्ता श्राद्धक्रियारतः । नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥१२१ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
दानं दया दमः क्षान्तिः सर्वेषां धर्मसाधनम् ॥१२२ वयोबुद्धयर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत् सदृशीं वृत्तिमजिह्मामशठां तथा ॥ १२३ त्रैवार्षिकाधिकान्नो यः स तु सोमं पिवेद्विजः ।
[ प्रथमो-
प्राक्सौमिकाः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥१२४ प्रतिसम्बत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याप्रयेणेष्टिश्च चातुर्मास्यानि चैत्र हि ॥१२५ एषामसम्भवे कुर्यादिष्टिं वैश्वानरी द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १२६
ऽध्यायः ] आचाराध्यायः स्नातकधर्मप्रकरणवर्णनम् । १२
चण्डालो जायते यज्ञकारणाच्छद्रभिक्षिता ।
यज्ञार्थं लब्धमददद्भासः काकोऽपि जायते ॥ १२७ कुसूल कुम्भीधान्यो वा त्र्यैहिकोऽश्वस्तनोपि वा । जीवेद्वापि सिलोच्छेन श्रेयानेषां परः परः ॥ १२८
अथ स्नातकधर्मप्रकरणवर्णनम् ।
न स्वाध्याय विरोध्यथं मीहेत न यतस्ततः । न विरुद्ध प्रसङ्गन सन्तोषो च सदा भवेत् ॥ १२६
॥
राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा । दम्भितुकपापण्डि विकवृत्तींश्च वर्जयेत् ॥ १३० शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । न भाय्य दर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥ १३१ न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । नाहितं नानृतं चैव न स्तेनः स्यान्नवार्द्ध षिः ॥ १३२ दाक्षायणी ब्रह्मपूत्री वेणुमान् सकमण्डलुः । कुर्यात्प्रदक्षिणं देवमृद्गो विप्रवनस्पतीन् ॥ १३३ न तु मेहेन्दो च्छायावर्त्मगोष्ठाम्बुभस्मसु । न प्रत्यर्कामिगोसोमसन्ध्याम्बु स्त्री द्विजन्मनः ॥ १३४ नेक्षेताकं न नग्नां स्त्रीं न च संस्पृष्टमैथुनाम् ।
नच मूत्रपुरीषं वा नाशुचीराहुतारकाः ॥ १३५ अयं मे वत्र इत्येवं सर्वमन्त्रमुदीरयन् ।
वर्षत्यप्रावृतो गच्छेत् स्वप्यात् प्रत्यक शिरा न च ॥ १३६ ष्ठीवनासृक् शकृन्मूत्ररेतस्यप्सु न निक्षिपेत् । पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥१३७
[[१२४८]]
याज्ञवल्क्यस्मृतिः ।
जलं पिबेन्नाञ्जलिना शयानं न प्रबोधयेत् ।
[ प्रथमो-
नाक्षैः क्रीडेन्न धर्मनैर्व्याधितेन संविशेत् ॥ १३८ विरुद्ध वर्जयेत् कर्म्म प्रेतधूमं नदीतरम् ।
केशभस्म तुषाङ्गार कपालेषु च संस्थितिम् ॥ १३६ नाचक्षीत धयन्तीं गां नाद्वारेण विशेत् कचित् । न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छा स्त्रवर्तिनः ॥ १४० प्रतिग्रहे सूनिचक्रिश्वजिवेश्या नराधिपाः । दुष्टा दशगुणं पूर्वात् पूर्व्वादेते यथोत्तरम् ॥१४१ अध्यायानामुपाकर्म्म श्रावण्यां श्रवणेन वा ।
हस्तेनौ भावे वा पञ्चम्यां श्रावणस्य तु ॥ १४२ पौपमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते च्छन्दसां कुर्यात्तदुत्सर्गं विधिं वहिः ॥ १४३ त्र्यहं प्रतेष्वनध्यायः शिष्यत्विग्गुरुबन्धुषु । उपाकम्मैणि चोत्सगं स्वशाखाश्रोत्रिये मृते ॥१४४ सन्ध्यागर्जितनिर्घात भूकम्पोल्का निपातने । समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ १४५ पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके । ऋनुसन्धिषु भुक्ता वा श्राद्धिकं प्रतिगृह्य च ॥१४६ पशुमण्डूक-नकुलमार्जारश्वाहि-मूषिकैः ।
कृतेऽरे त्वहोरात्रं शत्रु ( शक्त) पाते तथोच्छ्रये ॥ १४७ श्वक्रोष्टु गर्दभोलूकसामवाणार्त निःस्वने । अर्मेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥१४८
ऽध्यायः ] आचाराध्यायः स्नातकधर्मप्रकरणवर्णनम् । १२४६
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । भुक्तार्द्रपाणिरम्भोऽन्तरर्द्ध रात्रेऽतिमानते ॥ १४६ पांशुवर्षे दिशां दाहे सन्ध्यानीहारभीतिषु । धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १५० खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतां स्तात्कालिकान् विदुः ॥ १५१ देवत्रिक स्नातकाचार्य्य राज्ञां छायां परस्त्रियाः । नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥१५२ विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियमाकांक्षेन्न कश्चिन्ममणि स्पृशेत् ॥१५३ दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् । श्रुतिस्मृत्युदितं सम्यक् नित्यमाचारमाचरेत् १५४ गोब्राह्मणानलान्नानि नोच्छिष्टानि पदास्पृशेत् ।
न निन्दा ताड़ने कुर्य्यात्सुतं शिष्यच्च ताडयेत् ॥१५५ कर्म्मणा मनसा वाचा यत्नाद्धम्मं समाचरेत् । अस्वग्यं लोकविद्विष्टं धर्म्ममप्याचरेन्न तु ॥ १५६ मातृपित्र तिथिभ्रातृज्ञातिसम्बन्धिमातुलः । वृद्धबालातुराचार्य वैद्य संश्रितबान्धवैः ॥ १५७ ऋत्विक्पुरोहितापत्य भार्य्यादास सनाभिभिः ।
विवादं वर्जयित्वा तु सर्व्वा लोकान् जयेद् गृही ॥ १५८
पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिषु । स्नायान्नदी देवखातगर्त्त प्रस्रवणेषु च ॥ १५६
[[१२५०]]
याज्ञवल्क्यस्मृतिः ।
परशय्यासनोद्यानगृहयानानि वर्जयेत् ।
अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि ॥ १६० कदर्य्यवद्धचौराणां क्लोवरङ्गवतारिणाम् । वैणाभिशस्तत्रादूर्धषिगणिकागणदीक्षिणाम् ॥ १६१ चिचित्सकातुरक्रुद्धपुंश्चली मत्तविद्विषाम् । क्रूरोप्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥१६२ अवीरस्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकम्मरतुन्न त्रायश्वजीविनाम् ॥ १६३ नृशंसराज रजककृतघ्नवधजीविनाम् । चैलधावसु (धा)राजीविसहोपपतिवेश्मनाम् ॥१६४ पिशुनानृतिनोश्चैव तथा चाक्रिकवन्दिनाम् । एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥१६५
अथ भक्ष्याभक्ष्यप्रकरणवर्णनम् ।
अनचितम् वृथामांसं केशकीटसमन्वितम् । शुक्तं पर्य्यसितोच्छिउं श्वस्पृष्टं पतितेक्षितम् ॥ १६६
उदक्यारपृष्टसंघुष्टं पर्य्यायान्नञ्च वर्जयेत् ।
गोत्रातं शकुनांच्छिउं पद स्पृष्टञ्च कामतः ॥ १६७ शूद्रेषु दासगोपाल कुलमित्रार्द्ध सीरिणः । भोज्यान्नानापितश्चैव यश्चात्मानं निवेदयेत् ॥१६८ अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । अस्नेहा अपि गोधूमयवगोरस विक्रियाः ॥ १६६ सन्धिन्यनिर्द्दशाऽवत्सगोः पयः परिवर्जयेत् । औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकम् ॥ १७०
[ प्रथमो-ऽध्यायः ]
आचाराध्यायःभक्ष्याभक्ष्यप्रकरणवर्णनम् १२५१
देवतार्थं हविः शिशुं लोहितान् ब्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि करकाणि च ॥ १७१ क्रव्याद पक्षिदात्यूह शुकप्रत्युद टिट्टिभान् । सारसैकशफान् हंसान् सर्वाश्च ग्रामवासिनः ॥ १७२
कोयष्टिप्लवचक्रावलाकवकविष्किरान्
।
वृथाकृषरसंयावपायसापूपशष्कुलीः ॥ १७३
कलविङ्क सकाकोलं कुररं रज्जुदालकम् । जालपादान् खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥ १७४ चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥ १७५ पलाण्डु विड्वराहश्च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनञ्चव जग्ध्वा चान्द्रायणं चरेत् ॥१७६ भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः । शशश्च मत्स्येष्वपि हि सिंहतुण्डक रोहिताः ॥ १७७ तथा पाठीनराजीवसशल्काश्च द्विजातिभिः । अतः शृणुत मांसस्य विधि भक्षणवर्जने ॥ १७८ प्राणात्यये तथा श्राद्धे प्रोक्षितं द्विजकाम्यया ।
देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक् । १७६
वसेत् स नरके घोरे दिनानि पशुरोमभिः ।
सम्मितानि दुराचारो योहन्त्यविधिना पशून् ॥ १८० सर्व्वान् कामानवाप्नोति वाजिमेधफलं तथा । गृहेऽपि निवसन् विप्रो मुनिमांसस्य वर्जनात् ॥१८१
[[७६]]
॥
[[१२५२]]
याज्ञवल्क्यस्मृतिः ।
अथ द्रव्यशुद्धिप्रकरणवर्णनम् । सौवर्णराजताञ्जानामूर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफलवा सोविदलचर्म्मणाम् ॥ १८२ पात्राणाञ्चमसानाञ्च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुवसस्नेहपात्राण्युष्णेन वारिणा ॥ १८३ सफ्यशूर्पाजिनधान्यानां मुखलोदूखलानसाम् । प्रोक्षणं संहतानाञ्च बहूनां चैव वाससाम् ॥ १८४ तक्षणं दारुशृङ्गास्थनां गोवालः फलसम्भुवाम् । मार्ज्जुनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥१८५ सोपैरुदक गोमूत्रैः शुद्धयाविककौशिकम् । सश्रीफलैरंशुपट्टे सारिष्णैः कुतपन्तथा ॥ १८६ सगौरसर्षपैः क्षौमं पुनःपाकान् महीमयम् । कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखस्तथा ॥ १८७ भूशुद्धिर्मार्जनाद्दाहात् कालाद् गोक्रमणात्तथा । सेका दुल्लेखनाल्लेपात्गृहं मार्जनलेपनात् ॥१८८ गोत्रातेऽन्ने तथा कीट मक्षिका केशदूषिते । सलिलं भस्म मृद्वारि प्रक्षेपव्यं विशुद्धये ॥ १८६ त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
प्रथमो-
भस्माद्भिः कांस्यलौहानां शुद्धिः प्लावो द्रवस्य च ॥ १६० अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धापकर्षणात् । वाक्शस्तमम्बुनिर्णिक्तमज्ञातभ्च सदा शुचि ॥ १६१ शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ १६२
ऽध्यायः ] आचाराध्यायः द्रव्यशुद्धिप्रकरणवर्णनम् । १२५३
रश्मिरमी रजच्छाया गौरश्वो वसुधानिलः । । विप्रुषोमक्षिका स्पर्शे वत्सः प्रस्रवणे शुचिः ॥ १६३ अजाश्वं मुखतो मेध्यं न गौर्न नरजामलाः । पन्थानश्च विशुद्ध्यन्ति सोमसूर्यांशुमारुतैः ॥ १६४ मुखजा विप्रुषोमेध्यास्तथाचमनविन्दवः । श्मश्रु चास्यगतं दन्तसक्तं मुक्ता ततः शुचिः ॥ १६५ स्नात्वा पीत्वा क्षुते सुप्ते भुक्ते रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासोविपरिधाय च ॥ १६६ रथ्याकर्द्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ १६७
अथ दानप्रकरणवर्णनम् ।
तपस्तत्वाऽसृजदुद्ब्रह्मा ब्राह्मणान् वेदगुप्तये । तृप्तवथं पितृदेवानां धर्मसंरक्षणाय च ॥१६८ सर्वस्य प्रभवो विप्राः श्रुताध्ययनशालिनः । तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ॥ १६५ न विद्यया केवलया तपसा वाऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ २०० गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ।
नापात्रे विदुषा किश्चिदात्मनः श्रेय इच्छता ॥ २०१ विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । गृह्णन् प्रदातारमधोनयत्यात्मानमेव च ॥ २०२ दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । याचितेनापि दातव्यं श्रद्धापूतश्च शक्तितः ॥ २०३
॥
[[१२५४]]
याज्ञवल्क्यस्मृतिः ।
हेमशृङ्गी शफैरौप्यैः सुशीला वस्त्रसंयुता ।
[ प्रथमो-
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ २०४ दातास्याः स्वर्गमाप्नोति वत्सराल्लों मसम्मितान् । कपिला चेत्तारयति भूयश्वा सप्तमं कुलम् ॥२०५ स वत्मरोम तुल्यानि युगान्युभयतोमुखीम् । दातास्याः स्वर्गमाप्नोति पूर्णेन विधिना ददत् ॥ २०६ यावद्वत्सस्य पादौ द्वौ मुखं योनौ च दृश्यते । तावद् गौः पृथिवी ज्ञेया यावद् गर्भ न मुवति ॥ २०७ यथा कथञ्चिद्दत्त्वा गां धेनुं वाऽधेनुमेव वा । अरोगामपरिक्कियां दाता स्वर्गे महीयते ॥ २०८ श्रान्तसम्वाहनं रोगि परिचर्या सुरार्श्वनम् । पादशौचं द्विजोच्छिमार्जनं गोप्रदानवत् ॥ २०६ भूदीपाश्वान्न वस्त्राम्भस्तिलसर्पिः प्रतिश्रयान् । नैवेशिकं स्वर्णधुय्यं दत्त्वा स्वर्गे महीयते ॥ २१० गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं (जलं ) शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ २११ सर्वदानमयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।
तदत् समवाप्नोति ब्रह्मलोकमविच्युतम् ॥ २१२ प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ॥ २१२
॥
कुशाः शाकं पयो मत्स्यागन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥ २१४
Sध्यायः ]
आचाराध्यायः श्राद्धप्रकरणवर्णनम् ।
अयाचिता हृतं ग्राह्यमपि दुष्कृतकर्मणः ।
अन्यत्र कुलटापण्डपतितेभ्य स्तथा द्विषः ॥ २१५ देवातिथ्यर्श्वनकृते गुरुभृत्यादिवृत्तये ।
सर्वतः प्रतिगृह्णीयादात्मवृत्तार्थमेव च ॥ २१६
अथ श्राद्धप्रकरणम् ।
अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत् सूर्य संक्रमः ॥ २१७ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिचैव श्राद्धकालाः प्रकीर्तिताः ॥२१८ अभ्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधु त्रिसुपर्णेकः ॥ २१६ ऋत्विक स्वस्त्रीयजामातृयाज्यश्वशुर मातुलाः । तृणाचिकेत दौहित्र शिष्यसम्बन्धिबान्धवाः ॥२२० कर्मनिष्ठा स्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः । पितृमातृपराचैव ब्राह्मणाः श्राद्धसम्पदः ॥ २२१ रोगी हीनातिरिक्ताङ्गः काणः पौनर्भव स्तथा । अवकीर्णि कुण्डगोलौ कुनखी श्यावदन्तकः ॥ २२२ भृतकाध्यापकः (क्रूरः) क्लीवः कन्यादूष्यभिशस्तकः । मित्रध्र के पिशुनः सोमविक्रयी च विनिन्दकः ॥ २२२ मातापितृ गुरुत्यागी कुण्डाशी वृषलात्मजः । परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ॥ २२४ निमन्त्रयीत पूर्वेद्युब्राह्मणानात्मवान् शुचिः । तैश्वापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥२२५
[[१२५५]]
[[१२५६]]
याज्ञवल्क्यस्मृतिः ।
अपराह्ने समभ्यर्थ स्वागतेनागतांस्तु तान् । पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥२२६ युग्मान् दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च । परिश्रिते शुचौ देशे दक्षिणावने तथा ॥ २२७ द्वौ देवे प्राक्त्रयः पित्र्ये उदगेकैकमेव वा । मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ॥ २२८ पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि । आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ॥२२६ यवैरन्ववकीर्याथ भाजने सपवित्रके ।
[ प्रथमो-
शन्नो देव्या पयः क्षिप्त्वा यवोऽसीति यवां स्तथा ॥ २३० या दिव्या इति मन्त्रेण हस्तेष्वध्यं विनिःक्षिपेत् । दवोदकं गन्धमाल्यं धूपं वासः सदीपकम् ॥२३१
तथाच्छादनदानञ्च करशौचार्थमम्बु च ।
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥
द्विगुणांस्तु कुशान् दत्त्वा ह्युशन्तस्तेत्यृचा पितॄन् ॥ २३२
आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ।
यवार्थास्तु तिलैः कार्याः कुर्यादर्ध्यादिपूर्ववत् ॥ २३३
दत्त्वार्ध्यसंस्रवां स्तेपां पात्रे कृत्वा विधानतः । पितृभ्यः स्थानमसीति न्युजं पात्रं करोत्यधः ॥ २३४
अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ २३५
ऽध्यायः ]
आचाराध्यायः श्राद्धप्रकरणवणनम् ।
हुतशेषं प्रदद्यात्तु भाजनेपु समाहितः ।
यथा लाभोपपन्नेषु रौप्येषु तु विशेषतः ॥ २३६ दत्त्वान्नं पृथिवी पात्रमिति पात्राभिमन्त्रणम् । कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठ निवेशयेत् ॥ २३७ सव्याहृतिकां गायत्री मधुवाता इति त्यृचम् ।
जप्त्वा यथा सुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥ २३८ अन्नमिष्टं हविष्यश्च दद्यादक्रोधनोऽत्वरः ।
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वज पन्तथा ॥ २३६ अन्नमादाय तृप्ताः स्थ शेषं चैवानुमन्य च ।
तदन्न’ विकिरेद् भूमौ दद्याच्चापः सकृत् सकृत् ॥ २४० सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् ॥२४१ मातामहानामप्येवं दद्यादाचमनं ततः ।
स्वस्ति वाच्यं ततः कुर्यादक्षय्योदकमेव च ॥ २४२ दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् । वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥२४३ ब्रूयुरस्तु स्वधेत्येवं भूमौ सिञ्चेत्ततो जलम् । विश्वेदेवाश्च प्रीयन्तां विप्रैश्वोक्त इदं जपेत् ॥ २४४ दातारो नोऽभिवर्द्धन्तां वेदः सन्ततिरेव च । श्रद्धा च नो माव्यगमद्रहु देयञ्च नोऽस्त्विति ॥ २४५ अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कश्चन ॥ २४६
[[१२५७]]
[[२५८]]
याज्ञवल्क्यस्मृतिः ।
[ प्रथमो-
इत्युक्ता तु प्रिया वाचः प्रणिपत्य विसर्जयेत् । वाजे वाजे इति प्रीतः पितृपूर्व विसर्जनम् ॥२४७ यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः । पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ २४८ प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् । ब्रह्मचारी भवेत्तान्तु रजनी ब्राह्मणैः सह ॥ २४६ एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् । यजेत दधिकर्कन्धूमिश्रान् पिण्डान् यवैः क्रिया ॥ २५० एकोद्दिष्टं दैवहीनमेकायैकपवित्रकम् । आवाहनानौकरणरहितं ह्यपसव्यवत् ॥२५१
उपतिष्ठतामित्यक्षय्यस्थाने विप्रविसर्जने ।
अभिरम्यतामिति वदेद् ब्रूयुस्तेऽभिरताः स्म ह ॥ २५२ गन्धोदकतिलैर्युक्तं कुर्यात् पात्रचतुष्टयम् । अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ २५३ ये समानाइति द्वाभ्यां शेषं पूर्ववदाचरेत् । एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ॥ २५४ अर्वाक् सपिण्डीकरणं यस्य सम्वत्सराद्भवेत् । तस्याप्यन्न सोदकुम्भं दद्यात् सम्वत्सरं द्विजे ॥२५५ मृतानि तु कर्त्तव्यं प्रतिमासन्तु वत्सरम् । प्रतिसम्वत्सररुचैव आयमेकादशेऽहनि ॥ २५६ पिण्डांस्तु गोऽज विप्रेभ्यो दद्यादौ जलेऽपिवा ।
प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥२५७
ऽध्यायः ]
आचाराध्यायःश्राद्धप्रकरणवर्णनम् । १२५६
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौर भ्रशाकुन च्छागपार्षतैः ॥ २५८ ऐणरौरववा राहशाशैमांसैर्यथाक्रमम् ।
मासवृद्धया हि तृप्यन्ति दत्तैरिह पितामहाः । २५ह
खड्गामिषं महाशल्कं मधु मुन्यन्नमेव च ।
।
॥
।
लोहामिषं महाशाकं मांसं वार्द्धाणसस्य च ॥ २६० यद्ददाति गयास्थश्च सर्वमानन्त्यमुच्यते । तथा वर्षात्रयोदश्यां मघासु च न संशयः ॥ २६१ कन्यां कन्यावेदिनश्च पशून् मुख्यान् सुतानपि । द्यूतं कृषिश्च वाणिज्यं द्विशफैकशफांस्तथा ॥२६२ ब्रह्मवर्च्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके । ज्ञातिश्रेष्ठच सर्वकामानाप्पोति श्राद्धदः सदा ॥२६३ प्रतिपत्प्रभृतिष्वेतान् वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ २६४ स्वर्ग ह्यपत्यमोजश्च शौय्यं क्षेत्रं बलं तथा । पुत्रान् श्रेष्ठ्यश्च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥२६५ प्रवृत्तचक्रताञ्चैव वाणिज्यं प्रभुतां तथा ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ २६६ धनं विद्यां भिषक् सिद्धिं कुप्यं गा अप्यजाविकम् । अश्वानायुश्च विधिवद् यः श्राद्ध सम्प्रयच्छति ॥ २६७ कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ॥ २६८
[[१२६०]]
याज्ञवल्क्यस्मृतिः ।
[ प्रथमो-
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्ध ेन तर्पिताः ॥ २६६ आयुः प्रज्ञां धनं विद्यां स्वर्ग मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः ॥ २७०
દ
अथ विनायकादिकल्पप्रकरणम्
विनायकः कर्मविघ्नसिद्धयथं विनियोजित । गणानामाधिपत्याय रुद्रेण ब्राह्मणा तथा ॥ २७१ तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ २७२
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ।
अन्त्यजैर्गर्दभैरुद्रः सहैकत्रावतिष्ठते ॥ २७३
व्रजन्तश्च तथात्मानं मन्यतेऽनुगतं परः । विमना विफलारम्भः संसीदत्यनिमित्ततः ॥ २७४ तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी न च भर्त्तारमपत्यं नच गर्भिणी ॥ २७५ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा । वणिगलाभं नचाप्नोति कृषिञ्चैव कृषीवलः ॥२७६
स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् । । गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ २७७ सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥२७८ अश्वत्थानाद् गजस्थानाद्वल्मीकात् सङ्गमाद्धदात् । मृत्तिकां रोचनां गन्धान् गुग्गुलुञ्चाप्सु निक्षिपेत् ॥२७६ऽध्यायः ] आचाराध्यायः विनायकादिकल्पप्रकरणवर्णनम् । १२६१
या आहृता एकवर्णैश्चतुर्भिः कलह दात् । चर्मण्यानडुहे रक्त स्थाप्यं भद्रासनं तथा ॥ २८० सहस्राक्षं शतं धारमृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥२८१ भगं ते वरुणो राजा भगं सूर्यो वृहस्पतिः । भगमन्त्रश्च वापुश्च भगं सप्तर्षयो ददुः ॥ २८२ यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद् न्तु ते सदा ॥ २८३ स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण च । जुहुयान्मूर्द्ध नि कुशान् सव्येन परिगृह्य च ॥ २८४ मितश्च संमितश्चैव तथा सालकटङ्कटः । कूष्माण्डो राजपुत्रश्च जपेत् स्वाहासमन्वितैः २८५ नामभिर्बालमन्त्रैश्च नमस्कार समन्वितैः । दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥ २८६ कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान् पक्कांस्तथैवामान मांसमेतावदेव तु ॥ २८७ पुष्पं चित्रं सुगन्धश्च सुराञ्च त्रिविधामपि ।
मूलकं पूरिकापूपांस्तथै (वोड रक) वैरण्डिकाः स्रजः ॥२८८ दध्यन्न पायसञ्चैव गुडपिष्टं समोदकम् ।
एतान् सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ॥ २८६ विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
दूर्वा सर्षप (कल्केन) पुष्पाणां दत्त्वाध्यं पूर्णमञ्जलिम् ॥ २६०
[[१२६२]]
याज्ञवल्क्यस्मृतिः ।
रूपं देहि यशो देहि भाग्यं भगवति । देहि मे । पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे ॥ २६१
ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः । ब्राह्मणान् भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि ॥ २६२ एवं विनायकं पूज्यं ग्रहांश्चैवं विधानतः । कर्मणां फलमाप्नोति श्रियञ्चाप्नोत्यनुत्तमाम् ॥ २६३
आदित्यस्य सदा पूजां तिलकस्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धिमवानुयात् ॥२६४
॥ अथ ग्रहशान्तिप्रकरणम् ।
[ प्रथमो-
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । वृष्ट्यायुः पुष्टिकामो वा तथैवाभिचरन्नरीन् २६५ सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । शुक्रः शनैश्वरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ २६६ ताम्रिकात् स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ । रजतादयसः सीसात् कांस्यात् कार्यग्रहाः क्रमात् ॥ २६७
स्वैर्वर्णैर्वा पटे लेख्या गन्धमण्डलकेषु वा ।
यथावणं प्रदेयानि वासांसि कुसुमानि च ॥ २६८ गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलु ।
कर्तव्या मन्त्र (तन्त्र) वन्तश्च चरवः प्रतिदैवतम् ॥२६ह आकृष्णेन इमं देवा अग्निमूर्द्धा दिवः ककुत् । उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकृर्तिताः ॥ ३०० बृहस्पते अतिअदयस्तथैवान्नात् परिश्रुतः ।
शन्नो देवीस्तथा काण्डात् केतुं कृण्वन्निमाः क्रमात् ॥ ३०१
ऽध्यायः ]
आचाराध्यायः ग्रहशान्तिवर्णनम् ।
[[१२६३]]
अकः पलाशखदिरावपामार्गोऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ ३०२ एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युता ॥ ३०३ गुलौदनं पायसञ्च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हवि (पूपान् ) श्वणं मांसं चित्रान्नमेव च ॥ ३०४ दद्याद् ग्रहक्रमादेतद् द्विजेभ्यो भोजनं बुधः । शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥३०५ धेनुः शङ्ख स्तथानड्डान् हेम वासो हयस्तथा । कृष्णा गौरायसं छाग एता वै दक्षिणाः क्रमात् ॥ ३०६
।
यश्व यस्य यदा दु स्थः स तं यत्नेन पूजयेत् । ब्रह्मणैषां वरो दत्तः पूजिता पूजयिष्यथ ॥३०७ महाधीना नरेन्द्राणा मुच्छयाः पतनानि च । भावाभावौ च जगतस्तस्मात् पूज्यतमाः स्मृताः ॥ ३०८ अथ राजधर्मप्रकरणवर्णनम् ।
महोत्साहः स्थूललक्ष्यः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्वसम्पन्नः कुलीनः सत्यवाकू शुचिः ॥ ३०६
अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिको (दृढभक्तिश्च) व्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥३१०
स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वथ वार्तायां व्यय्याञ्चैव नराधिपः ॥ ३११
स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् । तैः सार्द्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥३१२
[[१२६४]]
याज्ञवल्क्यस्मृतिः ।
पुरोहितञ्च कुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्याश्च कुशलमथर्वाङ्गिरसे तथा ॥ ३१३ श्रौतस्मार्त्त क्रिया हेतोर्वृणुयादृत्विजस्तथा । यज्ञांश्चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ॥३१४ भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च । अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥३१५ अस्कन्नमव्ययश्चैव प्रायश्चित्तैरदूषितम् ।
[ प्रथमो-
अग्नेः सकाशाद्विप्रास्यं पूतं श्रेष्ठमिहोच्यते ॥ ३१६ धर्मेण लब्धुमीहेत लब्धं यत्नेन पालयेत् । पालितं वर्द्धयेन्नीत्या वृद्ध पात्रेषु निःक्षिपेत् ॥ ३१७ दद्याद् भूमिं निबन्धं वा कृत्वा लेख्यञ्च कारयेत् । आगामिभ (क्षु) द्रनृपतिपरिज्ञानाय पार्थिवः ॥ ३१८ पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानञ्च महीपतिः ॥ ३१६ प्रतिग्रहपरीमाणं दानाच्छेदोपवर्णनम स्वहस्तकालसम्पन्न शासनं कारयेत् स्थिरम् ॥ ३२० रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् । तत्र दुर्गाणि कुर्वीत जनकोषात्मगुप्तये ॥ ३२१ तत्र तत्र च निष्णातानध्यक्षान् कुशलान् शुचीन् । प्रकुर्यादायक मन्तव्ययकर्मसु चोद्यतान् ॥३२२ नातः परतरो धर्मो नृपाणां यदुपार्जितम् (रणार्जितम् )। विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं तथा ॥ ३२३
ऽध्यायः ]
आचाराध्याय राजधर्मप्रकरणवर्णनम् । १२६५
य आहवेषु वध्यन्ते भूम्यर्थ मपराङ्मुखाः । अकूटेरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ ३२४ पदानि ऋतुतुल्यानि भग्नेष्वविनिवर्त्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ ३२५ तवाहं वादिनं क्लीवं निर्हेति परसङ्गतम् । न हन्याद्विनिवृत्तञ्च युद्धप्रेक्षणकादिकम् ॥ ३२६ कृतरक्षः सदोत्थाय पश्येदायव्ययौ स्वयम् । व्यवहारांस्ततो दृष्ट्रा स्नात्वा भुञ्जीत कामतः ॥ ३२७ हिरण्यं व्यापृतानीतं भाण्डागारेषु निःक्षिपेत् । पश्येच्चारांस्ततो दूतान् प्रेरयेन्मन्त्रिसंयुतः ॥ ३२८ ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः । बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ ३२६ सन्ध्यामुपास्य शृणुयाच्चाराणां गृढ़भाषितम् । गीतनृत्यैश्च भुञ्जीत पठेत् स्वाध्यायमेव च ॥३३० संविशेत्तूर्य्यघोषेण प्रतिबुध्येत्तथैव च ।
शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकत्तर्व्यतान्तथा ॥३३१ प्रेषयेच्च ततश्चारान् स्वेषु चान्येषु सादरम् । ऋत्विक पुरोहिताचाय्यैराशीर्भिरभिनन्दितः ॥ ३३२ दृष्ट्रा ज्योतिर्विदो वैद्यान् दद्याद् गां काभ्वनं महीम् । नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च ॥३३३ ब्राह्मणेषु क्षमी स्निग्धेष्वजिम्भः क्रोधनोऽरिषु । स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ ३३४
[[१२६६]]
याज्ञवल्क्यस्मृतिः ।
पुण्यात् षड्भागमादत्त न्यायेन परिपालयन् । सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ॥३३५ चाटुतस्करदुवृ त्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः ॥३३६ अरक्ष्यमाणाः कुर्वन्ति यत् किञ्चित् किल्विषं प्रजाः । तस्माच्च नृपतेरद्धं यस्माद् गृह्णात्यसौ करान् ॥३३७ ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् । साधून् सम्पालयेद्राजा विपरीतांस्तु घातयेत् ॥३३८ उत्कोचजीविनो द्रव्यहीनान् कृत्वा प्रवासयेत् । सम्मानदानसत्कारैः श्रोत्रियान् वासयेत् सदा ॥ ३३६ अन्यायेन नृपो राष्ट्रात् स्वकोषं योऽभिवर्द्धयेत् । सोऽचिराद्विगतश्रीको नाशमेति सवान्धवः ॥ ३४० प्रजापीड़नसन्तापसमुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणान् नादग्धा विनिवर्त्तते ॥ ३४१ य एव धम्म नृपतेः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्र वशं नयन् ॥ ३४२ यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ! तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ ३४३ मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्य्याद्यथान्ये न विदुः कर्म्मणामाफलोदयात् ॥ ३४४ अरिमिंत्रमुदासीनोऽनन्तरस्तत् परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरनुक्रमैः ॥ ३४५
प्रथमो
ऽध्यायः ]
आचाराध्यायः राजधर्मप्रकरणवर्णनम् । १२६७
उपायाः साम दानश्च भेदो दण्डस्तथैव ।
सम्यक् प्रयुक्ताः सिद्ध युदण्डस्त्वगतिका गतिः ॥ ३४६ सन्धिभ्व विग्रहं यानमासनं संश्रयं तथा । द्वैधीभावं गुणानेतान् यथावत् परिकल्पयेत् ॥३४७ यदा सम्यग्गुणोपेतं परराष्ट्रं तदा व्रजेत् । परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ ३४८ देवे पुरुषकारे च कर्म्मसिद्धिर्व्यवस्थिता । तत्र दैवमभिव्यक्तं पीरुषं पौर्वदेहिकम् ॥३४६ केचिद्दैवात् स्वभावाच्च कालात् पुरुषकारतः । संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ ३५० यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥३५१ हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत् प्राप्तौ रक्षेत् सत्यं समाहितः ॥ ३५२ स्वाम्यमात्यो जनोदुगं कोषो दण्डस्तथैव च । मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ ३५३ तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ ३५४ स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । सत्यसन्धेन शुचिना सुसहायेन धीमता ॥ ३५५ यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानुषम् । जगदानन्दयेत् सर्वमन्यथा तु प्रकोपयेत् ॥३५६
[[८०]]
[[१२६८]]
याज्ञवल्क्यस्मृतिः ।
[ प्रथमो
अधर्म्मदण्डनं स्वर्गकीर्ति लोकविनाशनम् । सम्यक् च दण्डनं राज्ञः स्वर्गकीर्त्ति जयावहम् ॥३५७
।
अपि भ्राता सुतोऽर्यो वा श्वशुरो मातुलोऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ १५८
यो दण्ड्यान् दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् । इष्टं स्यात् क्रतुभिस्तेन सहस्रशतदक्षिणैः ॥ ३५६ इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । व्यवहारान् स्वयं पश्येत् सभ्यः परिवृतोऽन्वहम् ॥ ३६० कुलानि जातीः श्रेणीश्च गणान् जानपदांस्तथा । स्वधर्म्मचलितान्राजा विनीय स्थापयेत् पथि ॥ ३६१ जालसूर्य्यमरीचिस्थं त्रसरेणूरजः स्मृतम् ।
dsgy लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ ३६२ गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पश्च ते माषस्ते सुवर्णस्तु षोड़श ॥ ३६३ पलं सुवर्णाश्चत्वारः पञ्च वाऽपि प्रकीर्तितम् । द्वे कृष्णले रूप्यमाषोधरणं षोड़शैव ते ॥ ३६४ शतमानस्तु दशभिर्धरणैः पलमेव च ।
निष्कः सुवर्णाश्चत्वारः कार्षिकस्तात्रिकः पणः ॥ ३६५ साशीतिः पणसाहस्री दण्ड उत्तमसाहसः । तदर्द्ध मध्यमः प्रोक्तस्तदर्द्ध मधम स्मृतः ॥ ३६६ धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो बधस्तथा ।
योज्या व्यस्ताः समस्ता वा अपराधवशादिमे ॥ ३६७
ऽध्यायः ] व्यवहाराध्यायः सामान्यन्यायप्रकरणवर्णनम् । १२६६
ज्ञात्वापराधं देशश्च कालं बलमथापि वा ।
वयः कर्म्म च वित्तञ्च दण्डं दण्डेषु पातयेत् ॥ ३६८
इति याज्ञवल्क्यीये धम्मशास्त्रे आचारोनाम प्रथमोऽध्यायः ।
॥ द्वितीयोऽध्यायः ॥
अथ व्यबहाराध्यायः ।
तत्रादौ - सामान्यन्यायप्रकरणम् ।
व्यवहारान् नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह । धम्र्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ १ श्रुताध्ययनसम्पन्ना धर्मज्ञाः सत्यवादिनः । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥२ अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु । सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ३
रागालोभाद्रयाद्वापि स्मृत्यपेतादिकारिणः ।
॥३
सभ्याः पृथक् पृथक् दण्ड्या विवादाद् द्विगुणं (धनम् ) दमम् ॥४
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥५ प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना ।
समामासतदर्द्धा होर्नाम जात्यादिचिह्नितम् ॥६
[[१२७०]]
याज्ञवल्क्यस्मृतिः ।
द्वितीयो-
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ । ततोर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ॥७ तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोन्यथा । चतुष्पाद्व्यवहारोऽयं विवादेपूपदर्शितः ॥८ अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । अभियुक्तश्च नान्येन नोक्तं विप्रकृतं नयेत् ॥ ६ कुर्यात् प्रत्यभियोगच कलहे साहसेषु च । उभयोः प्रतिभूर्ब्राह्यः समर्थः कार्यनिर्णये ॥ १० निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् । मिथ्याभियोगी द्विगुणमभियोगाद्धनं हरेत् ॥११ साहसस्तेयपारुष्यगोभिशायात्यये स्त्रियाम् । विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ १२ देशाद्देशान्तरं याति सृक्कणी परिलेढ़ि च । ललाटं स्विद्यते यस्य मुखं वैवर्णमेति च ॥ १३ परिशुष्यत्स्खलद्वाक्याविरुद्ध बहु भाषते । वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्यपि ॥ १४ स्वभावाद्विकृतिं गच्छेन् मनोवाक्कायकर्मभिः । अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ १५ सन्दिग्धार्थ स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । नचाहूतो वदेत् किश्विद्धीनो दण्ड्यश्च स स्मृतः ॥ १६ साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥१७झध्यायः ] व्यवहाराध्यायः सामान्यन्यायप्रकरणवर्णनम् । १२७१
सपणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत् । दण्डश्च स्वपणं राज्ञे धनिने धनमेव च ॥ १८ छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ १६ निहते लिखितं नैकमेकदेशविभावितः । दाप्यः सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः ॥ २० स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ २१ प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥२२ सर्वेष्वथ विवादेषु बलवत्युत्तरा क्रिया । आधौ प्रतिगृहे क्रीते पूर्वा तु बलवत्तरा ॥२३ पश्यतो ब्रुवतो भूमे र्हानिविंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २४ आधिसीमोपनिःक्षेपजड़बालधनैर्विना । तथोपनिधिराज स्त्रीश्रोत्रियाणां धनैरपि ॥ २५ आध्यादीनां हि हर्त्तारं धनिने दापयेद्धनम् । दण्डभ्च तत्समं राज्ञे शक्त्यपेक्ष मथापि वा ॥२६ आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात्। आगमोऽपि बलं नैव भुक्तिस्तोकापि यत्र नो ॥ २७ आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥२८
[[१२७२]]
याज्ञवल्क्यस्मृतिः ।
योऽभियुक्तः परतः स्यात्तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागमेन विनाकृता ॥२६ आगमेन विशुद्ध न भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥३० नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्वं पूर्व गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥३१ बलोपधिविनिवृत्तान् व्यवहारान्निवर्त्तयेत् । स्त्रीनक्तमन्तरागारवहिः शत्रुकृतां स्तथा ॥ ३२ मत्तोन्मत्तार्त्तव्यसनिबालभीतादि योजितः । असम्बद्धकृतश्चैव व्यवहारो न सिद्ध्यति ॥३३ प्रणष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन्न चेलिङ्गैस्तत्समं दण्डमर्हति ॥ ३४
॥
द्वितीयो-
राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽद्धं द्विजः पुनः । विद्वानशेषमादद्यात् स सर्वस्य प्रभुर्यतः ॥३५ इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ ३६
देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाप्नोति किल्विषं यस्य तस्य तत् ॥३७ इति सामान्यप्रकरणम् ।
ऽध्यायः ] व्यवहाराध्यायः ऋणादानप्रकरणवर्णनम् ।
अथ ऋणदानप्रकरणम् ।
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वणक्रमाच्छतं द्विस्त्रिश्चतुः पञ्चकमन्यथा ॥ ३८
कान्तारगास्तु दशकं सामुद्राविशकं शतम् । दद्युर्वा स्वकृतां वृद्धि सर्वे सर्वासु जातिषु ॥ ३६
सन्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणाः स्मृताः ॥ ४० प्रपन्न साधयन्नथं न वाच्यो नृपतेर्भवेत् । साध्यमानो नृपं गच्छन् दण्ड्यो दाप्यश्च तद्धनम् ॥४१ गृहीता तु क्रमाद्दाप्यो धनिनामधमर्णिकः । दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् ॥४२ राज्ञाधमर्णिकोदाप्यः साधिताद्दशकं शतम् । पञ्चकञ्च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णकः ॥४३ हीनजाति परिक्षीण मृणार्थं कर्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥४४ दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । मध्यस्थस्थापितं तत्स्याद्वर्द्धते न ततः परम् ॥४५ अविभक्तैः कुटुम्बार्थे यदृणञ्च कृतं भवेत् । दस्तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥४६ न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥४७
[[१२७३]]
[[१२७४]]
याज्ञवल्क्यस्मृतिः ।
सुराका मद्यतकृतं दण्डशुक्लाव शिष्टकम् । वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥४८ गोपशौण्डिकशैलुषरजकव्याधयोषिताम् ।
ऋणं दद्यात् पतिस्तेषां यस्मादुवृत्तिस्तदाश्रया ॥४६ प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् । स्वयं कृतं वा यदृणं नान्यत् स्त्री दातुमर्हति ॥५० पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽथवा । पुत्रपौत्रऋणं देयं निहवे साक्षिभावितम् ॥ ५१ ऋक्थप्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य सृक्थिनः ॥५२ भ्रातृणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्य मृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥ ५३ दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥५४ दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपिवा ।
[ द्वितीयो-
न तत् पुत्रा ऋणं दद्युर्दद्यु दनाय ये स्थिताः ॥५५ बहवः स्यूर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् । । एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥५६ प्रतिभूर्दापितो यत्तु प्रकाशं धनिनो धनम् । द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥५७ सन्ततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च । वस्त्रं चतुर्गुणं प्रोक्तं रसश्वाष्टगुणस्तथा ॥ ५८
ऽध्यायः ] व्यवहारध्यायः, उपनिधिप्रकरणवर्णनम् । १२७५
आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते । काले कालकृतं नश्येत् फलभोग्यो न नश्यति ॥५६ गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ हापिते । नष्टो देयो विनष्टश्च देवराजकृतादृते ॥६० आधेः स्वीकरणात् सिद्धीरक्ष्यमाणोऽप्यसारताम् । यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥ ६१ चरित्रवन्धककृतं सवदुद्ध्या दापयेद्धनम् । सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥६२ उपस्थितस्य मोक्तव्य आधिस्तेनोऽन्यथा भवेत । प्रयोजकेऽसति धनं कुले न्यस्याधिमाप्नुयात् ॥ ६३ तत्कालकृतमूल्यो वा तत्र तिष्ठेदवद्धिकः । विनाधारणकाद्वापि विक्रणीत स साक्षिकम् ॥६४ यदा तु द्विगुणीभूतमृणमाधौ तदा खलु । मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ ६५
इति ऋणादानप्रकरणम् ।
अथ उपनिधिप्रकरणम् ।
वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्पितम् ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ ६६
[[१२७६]]
याज्ञवल्क्यस्मृतिः ।
[ द्वितीयो-
न दाप्योऽपहृतं तत्त राजदैविकतस्करैः । भ्रषश्चेन्मार्गितेऽदत्ते दाप्यो दण्डश्च तत्समम् ॥ ६७
आजीवन स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयम् । याचितान्वाहितन्यासनिःक्षेपादिष्वयं विधिः ॥६८
इति उपनिधिप्रकरम् ।
अथ साक्षिप्रकरणम् ।
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मप्रधाना ऋजवः पुत्रवन्ते धनान्विताः ॥ ६६ व्यवराः साक्षिणो ज्ञेयाः पञ्चयज्ञक्रियारताः । यथाजाति यथावर्णं सर्वेसर्वासु वा पुनः ॥ ७० श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजितादयः । असाक्षिणस्तेवचनान्नात्र हेतुरुदाहृतः ॥७१ स्त्रीवृद्धवाल कितवमत्तोन्मत्ताभिशस्तकाः । रङ्गावतारिपापण्डिकूटकृद्विकलेन्द्रियाः ॥७२ पतिताप्तार्थसम्बन्धि सहायरिपुतस्कराः । साहसी दृष्टदोषश्च निर्धूतश्चेत्यसाक्षिणः ॥७३ उभयानुमतः साक्षी भवत्येकोऽपि धर्म्मवित् । सर्वः साक्षी संग्रहणे दण्डपारुष्य साहसे ॥७४
।
ऽध्यायः ] व्यवहाराध्यायः साक्षीप्रकरणविधिवर्णनम् । १२७७
साक्षिणः श्रावयेद्वादिप्रतिवादिसमोपगान् ।
ये पातककृतां लोका महापातकिनान्तथा ॥ ७५
अग्निदानाच्च ये लोका ये च स्त्रीबालघातिनाम् ।
।
तान् सर्व्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् ॥ ७६ सुकृतं यत्त्वया किश्विज्जन्मान्तरशतैः कृतम् ।
तत्सर्वं तस्य जानीहि यं पराजयसि यं मृषा ॥७७
अब्रुवन् हि नरः साक्ष्यमृणं स दशबन्धकम् । राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशकेऽहनि ॥ ७८ न ददाति च यः साक्ष्यं जानन्नपि नराधमः । स कूटसाक्षिणां पापस्तुल्यो दण्डेन चैव हि ॥७६ द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ ८० यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्यथावादिनो यस्य ध्रुवं तस्य पराजयः ॥ ८१ उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः । द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ८२
पृथक् पृथक् दण्डनीयाः कूटकृत् साक्षिणस्तथा । विवादाद्विगुणं द्रव्यं द्रव्यं विवास्यो ब्राह्मणः स्मृतः ॥ ८३
यः साक्ष्यं श्रावितोऽन्येन निहते तत्तमोवृतः । स दाप्योऽष्टगुणं द्रव्यं ब्राह्मणन्तु विवासयेत् ॥८४
[[१२७८]]
याज्ञवल्क्यस्मृतिः ।
वर्णिनान्तु बधो यत्र तत्र साक्ष्यनृतं वदेत् ।
।
तत्पावनाय कर्तव्यश्वरुः सारस्वतो द्विजैः ॥ ८५
इति साक्षिप्रकरणम् ॥
[ द्वितीयो-
॥ अथ लिखितप्रकरणम् ॥
यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यं वा साक्षिमत् कार्य्यं तस्मिन् धनिकपूर्वकम् ॥८६ समामासतदर्द्धाहोनामजातिस्वगोत्र केः । सब्रह्मचारीकात्मीयपितृनामादिचिह्नितम् ॥८७ समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरिलेखितम् ॥८८
साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥८६ अलिपिज्ञ ऋणी यः स्यात् स्वमतं लेखयेत् तु सः । साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपगः ॥ उभयाभ्यर्थितेनेदन्मया ह्यमुकसूनुना ।
लिखितं त्वमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥६० विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितन्तु यत् । तत्प्रमाणं ऋतं लेख्यं बलोपधिकृतादृते ॥ ६१
ऽध्यायः ]. व्यवहाराध्यायः दिव्यप्रकरणविधानवर्णनम् । १२७६
ऋण लेख्यकृतं देयं पुरषस्त्रिभिरेव तु ।
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ १२ देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने दग्धेतथाच्छिन्ने लेख्यमन्यत्तु कारयेत् ॥ ६३ सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्त लिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ॥६४ लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्व दत्त्वा धनं ऋणी । धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥६५ दत्त्वणं पाटयेल्लेख्यं शुद्धय वान्यत्तु कारयेत् । साक्षिमच भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥६
इति लिखितप्रकरणम् ।
अथ दिव्यप्रकरणम् ।
तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥६७ रुच्या वान्यतरः कुर्यादितरो वर्त्तयेच्छिरः । विनापि शीर्षकात् कुर्यान्नृपद्रोहेऽथ पातके ॥६८ सचैलस्नातमाहूय सूर्योदय उपोषितम् ।
कारयेत् सर्वदिव्यानि नृपब्राह्मणसन्निधौ ॥६६
[[१२८०]]
याज्ञवल्क्यस्मृतिः ।
तुला स्त्रीबालवृद्धा (त) न्धपब्राह्मणरोगिणाम् । अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य च ॥ १०० नासहस्राद्धरेत् फालं न विषं न तुलां तथा । नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा ॥१०१ सहस्रार्थे तुलादीनि कोशमप्लेऽपिकारयेत् । पश्चाशद् दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत् ॥ तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो लेखाः कृत्वावतारितः ॥ १०२
त्वं तुले ! सत्यधामासि पुरा देवैर्विनिर्मिता ।
[[1]]
[ प्रथमो-
तत्सत्यं वद कल्याणि । संशयान्मां विमोचय ॥ १०३
!
यद्यरिम पापकृन्मात ! स्ततो मां त्वमधो नय । शुद्धश्वेद् गमयोध्वं मां तुलामित्यभिमन्त्रयेत् ॥ १०४ करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् । संतश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ॥ १०५ त्वमग्ने ! सर्वभूतानामन्तश्चरसि पावक ! । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥ १०६ तस्येत्युक्तवतो लोहं पञ्चाशत्पलिक समम् । अभिवणं न्यसेत्पिण्डं (क्षिप्रं ) हस्तयोरुभयोरपि ॥ १०७ स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत् । षोडशाङ्गुलिकं ज्ञेयं मण्डलं तावदन्तरम् ॥१०८ मुक्ताग्नि मृदितत्रीहिरदग्धः शुद्धिमाप्नुयात् । अन्तरा पतिते पिण्डे सन्देहो वा पुनर्हरेत् ॥ १०६१२८१ :
Sध्यायः ] व्यवहारध्यायः दायविभागप्रकरणवर्णनम् ।
सत्येन माभिरक्ष (स्व) त्वं वरुणेत्यभिशाप्य कम् । नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ ११० समकालमिषु मुक्तमानयेत् यो जवी नरः ।
गते ऽन्यस्मिन्निमग्नाङ्गं पश्येचेच्छुद्धिमा’नुयात् ॥ १११ त्वं विप ! ब्रह्मणः पुत्र ! सत्यधर्मे व्यवस्थितः । त्रायस्वास्मान्मभिशापात् सत्येन भव मेऽमृतम् ॥११२ एव मुक्ता विषं शाङ्गं भक्षयेद्धिमशैलजम् । यस्य बेगैर्विना जीणं तस्य शुद्धिं विनिर्दिशेत् ॥११३ देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् । संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयम् ॥ ११४ अर्वाक् चतुर्दशादहो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ॥ ११५
इति दिव्यप्रकरणम् ।
अथ दाय विभागप्रकरणम् ।
विभागं चेत् पिता कुर्यात् स्वेच्छ्या विभजेत्सुतान् । ज्येष्ठ वा श्रेष्ठभागेन सर्वे वा स्युः समाशिनः ॥११६ यदि दद्यात् समानंशान् पत्न्यः कार्याः समाशिकाः । न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वसुरेण वा ॥ ११७ शक्तस्यानीहमानस्य किश्विद्दत्वा पृथक् क्रिया । न्यूनाधिकविभक्तानां धर्मः पितृकृतः स्मृतः ॥ ११८
[[१२८२]]
याज्ञवल्क्यस्मृतिः ।
विभजेरन् सुताः पित्रोरूध्वं रिक्थमृणं समम् ।
[ द्वितीयो-
मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः ॥ ११६. पितृद्रव्या (विनाशेन) विरोधेन यदन्यत् स्वयमार्जितम् । मैत्रमौद्वाहिकञ्चैव दायादानं न तद्भवेत् ॥१२० क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु यः ।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ १२१ यत्किश्चित् पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ १२२ सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । अनेकपितृकाणान्तु पितृतो भागकल्पना ॥१२३ भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥ १२४ विभक्तेषु सुतो जातः सवर्णायाः विभागभाक् । दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥१२५ पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् । पितुरुद्ध विभजतां माताऽयंशं समाप्नुयात् ॥ १२६ असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादंशाद्दत्वांशं तु तुरीयकम् ॥ १२७ चतुस्त्रिह्येकभागीनाः वर्णशो ब्राह्मणात्मजाः । क्षत्त्रात्रिकभागा विड्जास्तु द्वयेकभागिनः ॥१२८ अन्योन्यापहृतं द्रव्यं विभक्तै यत्र दृश्यते ।
तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः १०६
ऽध्यायः ] व्यवहाराध्यायः दायविभागप्रकरणवर्णनम् । अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ १३० औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ २३१ गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतो मतः । कानीनः कन्यकाजातो मातामहसुतोमतः ॥ १३२ अक्षतायां क्षतायां वा जातः पौनर्भवस्तथा । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ १३३ क्रीतस्तु ताभ्यां विक्रीतः कृत्रिमस्तु स्वयं कृतः । दत्तात्मा तु स्वयं दत्तो गर्भे विन्नः सहोढजः ॥ १३४ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत् सुतः । पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ॥ १३५ सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । जातोऽपि दास्यां शूद्रेण कामतोंऽशहरो भवेत् १३६ मृते पितरि कुयुस्तं भ्रातरस्त्वर्द्धभागिनम् ।
अभ्रातृको हरेत्सर्वं दुहितृणां सुतादृते ॥ १३७
॥ पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥ १३८
एषामभावे पूर्वस्य धनभागुत्तरोत्तरः ।
स्वर्यातस्य पुत्रस्य सर्ववर्णेष्वयं विधिः ॥१३६
वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः ।
क्रमेणाचार्य सच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥१४०
[[८१]]
[[१२८३]]
[[५२८४]]
याज्ञवल्क्यस्मृतिः ।
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।
[ द्वितीयो-
दद्याच्चो पहरेदंशं जातस्य च मृतस्य च ॥ १४१
॥ अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्ट्यपि चादद्यात् संसृष्टो नान्यमातृजः ॥ १४२ क्लीवोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः । अन्धोऽचिकित्स्यरोगी च भर्त्तव्याः स्युर्निरंशकाः ॥१४३
औरसाः क्षेत्रजास्तेषां निर्दोषा भागहारिणः । सुताश्चैषां प्रभर्त्तव्या यावद्वै भर्तृसात्कृताः ॥ २४४ अपुत्रा योषितश्चैषां भर्त्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥ १४५ पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतम् । आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्तितम् ॥१४६ बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव वा । अतीतायामप्रजसि बान्धवास्तदवाप्नुयुः ॥ १४७ अप्रजः स्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्ष्वपि ।
[[1]]
दुहितृणां प्रसूता चेत् शेषेषु पितृगामि तत् ॥१४८ दत्त्वा कन्यां हरन् दण्ड्योऽव्ययं दद्याच्च सोदयम् । मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥१४६ दुर्भिक्षे धर्मकार्ये च व्याधौ सम्प्रतिरोधके । गृहीतं स्त्रीधनं भर्त्ता न स्त्रियै दातुमर्हति ॥ १५० अधिविन्नस्त्रियं दद्यादाधिवेदनिकं समम् ।
।
न दत्तं स्त्रीधनं यम्यै दत्ते त्वद्धं प्रकीर्तितम् ॥१५६
ऽध्यायः ]
व्यवहाराध्याय सीमाविवादप्रकरणम् ।
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः । विभागभावना ज्ञेया गृहक्षेत्रश्च यौतकैः ॥ १५२
इति दायविभागप्रकरणवर्णनम् ।
अथ सीमाविवादप्रकरणवर्णनम् ।
सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । गोपाः सीम्नः कृषाणोऽन्ये सर्वे च वनगोचराः ॥ १५३ नयेयुरेतैः सीमान्तं स्थूलाङ्गारतुषद्रुमैः । सेतुवल्मीकनिम्नास्थिचेत्याद्यैरुपलक्षितम् ॥१५४
सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ १५५ अनृते च पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अभावे ज्ञानचिह्नानां राजा सीम्नः प्रवर्तिता ॥ १५६ आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु ॥१५७ मर्यादायाः प्रभेदे तु सीमातिक्रमणे तथा । क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ १५८ न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः । परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥ १५६
॥
[[१२८५]]
[[१२८६]]
याज्ञवल्क्यस्मृतिः ।
स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्त्तयेत् । उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ १६० फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् ।
[ द्वितीयो-
तं प्रदाप्यः कृष्टफलं (अकृष्टशदं) क्षेत्रमन्येन कारयेत् ॥ १६१
इति सीमाविवादप्रकरणवर्णनम् ।
॥
अथ स्वामिपालविवादप्रकरणवर्णनम्।
भाषानष्टौ तु महिषी शस्यघातस्य कारिणी । दण्डनीया तदद्ध न्तु गौस्तदद्ध मजाविकम् ॥ १६२ भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः । सममेषां विवीतेऽपि खरोष्ट्र’ महिषीसमम् ॥१६३ यावच्छस्यं विनश्येत तावत् क्षेत्री फलम् लभेत्। गोपा (पाल) स्ताड्यस्तु गोमी तु पूर्वोक्तं दण्डमर्हति ॥ १६४ पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति ॥१६५ महोक्षोत्सृष्टपशवः सूतिकागन्तु (कीचगौः) कादयः । पालो येषान्तु ते मोच्या देवराजपरिप्लुताः ॥ १६६ यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत्तथा । प्रमादमृतनष्ट्रांश्च प्रदाप्यः कृतवेतनः ॥ १६७
ऽध्यायः . ] व्यवहाराध्याः अस्त्रामिविक्रय प्रकरणवर्णनम् । १२८७
पालदोषविनाशे च पाले दण्डो विधीयते । अर्द्ध त्रयोदशपणः स्वामिनो द्रव्यमेव ॥ १६८ प्राम्येच्छया गोप्रचारो भूमिराजवशेन वा । द्विजस्तृणैधपुष्पाणि सर्वतः स्ववदाहरेत् ॥ १६६ धनुः शतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् । द्वे शते कर्पटस्य स्यान्नगरस्य चतुः शतम् ॥१७०
इति स्वामिपालविवादप्रकरणवर्णनम् ।
अथास्वामिविक्रयप्रकरणवर्णनम् ।
स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ १७१
नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम् । देशकालातिपतौ च गृहीत्वा स्वयमर्पयेत् ॥१७२ विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ॥१७३ आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धो दमस्तत्र राज्ञो तेनाविभाविते ॥ १७४
हृतं प्रणष्टुं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ १७४
[[१२८८]]
याज्ञवल्क्यस्मृतिः ।
शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् ।
[ द्वितीयो-
अर्वाक् सम्वत्सरात् स्वामी हरेत ( लभेत ) परतो नृप ॥१७५ पणानेकशफे दद्याच्चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पाद्मजापिके ॥ १७७
इत्यस्वामिविक्रयप्रकरणवर्णनम् ।
अथ दत्ताप्रदानिकप्रकरणवर्णनम् ।
स्वं कुटुम्बाविरोधेन देयं दारसुतादृते । नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् ॥१७८ प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः । देयं प्रति श्रुतचैव दत्त्वा नापहरेत् पुनः ॥ १७६
इति दत्ताप्रदानिकंनामप्रकरणवर्णनम् ।
अथ क्रीतानुशयप्रकरणवर्णनम् । दशैकप सप्ताहमा सन्यहार्द्ध मासिकम् । वीजायोबाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥१८० अग्नौ सुवर्णमक्षीणं रजते द्विपलं शतम् । अष्टौ त्रपुणि सीसे च ताम्र पञ्चदशायसि ॥ १८१ शते दश पला वृद्धिरौर्णे कार्पाससौत्रिके ।
मध्ये पचपला सत्रे सूक्ष्मे तू त्रिपला मता ॥ १८२
ऽध्यायः] अभ्युपेत्याशुश्रूपाप्रकरणं संविव्यतिक्रमप्रकरणवर्णनम् १२८६
चार्मिके रोमबद्ध च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिः स्यात् कौशेये वल्कलेषु च ॥१८३ देशं कालभ्व भोगश्च ज्ञात्वा नष्टे बलाबलम् । द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥१८४
इति क्रीतानुशयप्रकरणवर्णनम् ।
अथाभ्युपेत्याशुश्रूषाप्रकरणवर्णनम् ।
बलाद्दासीकृतश्चौरेविक्रीतश्चापि मुच्यते ।
स्वामिप्राणप्रदो भ(भा) क्तत्यागात्तन्निष्कयापि ॥ १८५
प्रव्रज्यावसितो राज्ञो दासश्चामरणान्तिकः । वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥ १८६ कृतशिल्पोऽपि निवसेत कृतकालं गुरोर्गृहे । अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः ॥ १८७
इत्यभ्युपेत्याशुश्रूषाप्रकरणवर्णनम् ।
अथ संविद्व्यतिक्रमप्रकरणवर्णनम् ।
राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यतामिति ॥ १८८ निजधर्माविरोधेन यस्तु सामयिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ १७६
गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ १६०
कर्तव्यं वचनं सर्वैः समूह हितवादिनाम् ।
यस्तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥ १६१
[[१२६०]]
याज्ञवल्क्यस्मृतिः ।
समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
॥
स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ १६२ समूहकार्य प्रहितो यल्लभेत तदर्पयेत् ।
[ द्वितीयो-
एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम् ॥१६३ मर्मज्ञाः (वेदज्ञाः) शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः । कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥१६४ श्रेणिनैगमपाषण्डिगणानामप्ययं विधिः । भेदञ्चैषां नृपो रक्षेत् पूर्ववृत्तिश्व पालयेत् ॥१६५
इति सम्विद्व्यतिक्रमप्रकरणवर्णनम् ।
अथ वेतनादानप्रकरणवर्णनम् ।
गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत् । अगृहीते समं दाप्यो भृत्येरेक्ष्य उपस्करः ॥ १६६ दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः । अनिश्चित्य भृर्ति यस्तु कारयेत् स महीक्षिता ॥ १६७ देशं कालभ्च योऽतीयात् लाभं कुर्याच्च योऽन्यथा । तत्र स्यात् स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ १६८ यो यावत् कुरुते कम तावत्तस्य तु वेतनम् ।
उभयोरप्य (शाठ्यं’) साध्यञ्चेत् साध्ये ( शाठये) कुर्याद्यथाश्रुतम् ॥१६६
अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविघ्नकृञ्चैव प्रदाप्यो द्विगुणां भृतिम् ॥२००ऽध्यायः ] व्यवहाराध्यायः वाक्पारुष्ययप्रकरणवर्णनम् । १२६१
प्रक्रान्ते सप्तमं भागं चतुथं पथि संत्यजन् । भृतिमर्द्ध पथे सर्वां प्रदाप्यस्त्याजकोऽपि च ॥२०१ इति वेतनादानप्रकरणवर्णनम् ।
अथ द्यूतसमाह्वयप्रकरणवर्णनम् ।
ग्लहे शतिकवृद्धस्तु (गलत्सभिकवृद्धिस्तु) सभिकः पञ्चकं शतम् ।
गृह्णीयाद् धूर्तकितवादितराद्दशकं शतम् ॥२०२
स सम्यक् पालितो दद्याद्राज्ञे भागं यथाकृतम् । जितमुद्ग्राहयेज्जेत्रे दद्यात् सत्यं वचः क्षमी ॥२०३ प्राप्ते नृपतिना भागे प्रसिद्ध घूर्तमन्डले ।
जितं ससभिके स्थाने दापयेदन्यथा न तु ॥ २०४ द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः ॥ २०५ द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् ।
एष एव विधिर्ज्ञेयः प्राणिद्यते समाह्वये ॥ २०६३
इति द्यूतसमाह्वयाख्यं प्रकरणवर्णनम् ।
अथ वाक्पारुख्याप्रकरणवर्णनम् ।
सत्यासत्यन्यथास्तोत्रैर्न्यूनाङ्गे न्द्रियरोगिणाम् ।
क्षेपं करोति चेद्दण्ड्यः पणानर्द्ध त्रयोदश ॥२०७
[[१२६२]]
याज्ञवल्क्यस्मृतिः ।
अभिगन्तासि भगिनीं मातरं वा तवेति च । शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥२०८ अर्थोऽधमेषु द्विगुणः परस्त्री पूत्तमेषु च । दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ २०६ प्रतिलोम्यापवादेषु द्विगुणा (चतुः ) त्रिगुणा दमाः । वर्णानामानुलोम्येन तस्मादर्द्धार्द्ध हानतः ॥ २१० बाहुग्रीवा नेत्रसक्थिविनाशे वाचिके दमः । सत्यस्तदर्द्धिकः पादनासाकर्णकरादिषु ॥२९१ अशक्तस्तु वदन्नेवं दण्डनीयः पणान् दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २१२ पतनीये कृते क्षेपे दण्ड्यो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥२१३ त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २१४
इति वाक्पारुष्यप्रकरणवर्णनम् ।
अथ दण्डपारुण्यप्रकरणवर्णनम् ।
असाक्षिकहते चिह्नयुक्तिभिश्चागमेन च ।
द्रष्टव्यो व्यवहारस्तु कूट चिह्नकृताद् भयात् ॥२१५
cr
यत्रनोक्तो दमः सर्वः प्रमादेन महात्मभिः ।
तत्र कार्य परिज्ञाय कर्तव्यं दण्डधारणम् ।
[ द्वितीयो-
Sध्यायः ] व्यवहाराध्यायः दण्डपारुष्यप्रकरणवर्णनम् । १२६३
भस्मपङ्करजःस्पर्श दण्डो दशपणः स्मृतः ।
अमेध्य पाष्णिनिष्ठ्य तस्पर्शने द्विगुणः स्मृतः ॥ २१६ समेष्येवं परस्त्रीषु द्विगुणन्तूत्तमेषु च ।
हीनष्वर्द्ध दमो मोहमदादिभिरदण्डनम् ॥११७
विप्रपीडाकरं छद्यमङ्गमत्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्द्धिकः ॥२१८ उद्गूर्णे हस्तपादे च दशविंशतिको दमौ । परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २१६ पादकेशांशुक करालुञ्छनेषु पणान् दश ।
पीडाकपी (जना) शुकावेष्ट्यपादाध्यासे शतं दमः । २२० शोणितेन विना दुखं कुर्वन् काष्ठादिभिर्नरः । द्वात्रिंशतं पणान् दाप्यो द्विगुणं दर्शनेऽसृजः ॥ २२१ करपाददतोभङ्गे च्छेदने कर्णनासयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २२२ चेष्टाभोजनवाग्रोधं नेत्रादिप्रतिभेदने ।
।
कन्धराबाहुसक्थ्नाञ्च भङ्गे मध्यमसाहसः ॥२२३ एकं घ्नतां बहूनाञ्च यथोक्ताद् द्विगुणो दमः । कलहापहृतं देयं दण्डश्च द्विगुणः स्मृतः ॥ २२४ दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो दण्डश्च यो यम्मिन् कलहे समुदाहृतः ॥ २२५ अभिघाते तथाच्छेदे भेदे कुड्यावपातने ।
पणान् दाप्यः पञ्च दश विंशतिन्तद्वयं तथा ॥२२६
[[१२६४]]
याज्ञवल्क्यस्मृतिः ।
[ द्वितीयो-
दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरन्तथा । षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥२२७
दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
।
दण्डः क्षुद्रपशूनाञ्च द्विपणप्रभृतिक्रमात् ॥ २२८ लिङ्गस्य च्छेदने मृत्यौ मध्यमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥ २२६ प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे । उपजीव्यद्रुमाणाञ्च विंशतेर्द्विगुणो दमः ॥ २३० चैत्यश्मशान सीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥२३१ गुल्मगुच्छक्षुपलताप्रतानौपधिवीरुधाम् । पूर्वस्मृतादर्द्ध दण्डः स्थानेपूतेषु कर्त्तने ॥ २३२
इति दण्डपारुष्यप्रकरणवर्णनम् ।
अथ साहसप्रकरणवर्णनम् ।
सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम् । तन्मूल्याद द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥२३३
यः साहसं कारयति स दाप्यो द्विगुणं दमम् । यश्चैवमुक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥२३४
ऽध्यायः ]
व्यवहाराध्यायः साहसप्रकरणवर्णनम् ।
अर्ध्याक्रोशातिक्रमकृद् भ्रातृभार्याप्रहारदः । सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ २३५
सामन्तकुलिकादीनामपकारस्य कारकः ।
पश्चाशत्पणिको दण्ड एपामिति विनिश्चयः ॥ २३६ स्वच्छन्दं विधवागामी विक्रष्टेऽनाभिधावकः ।
[[१२६५]]
अकारणे च विक्रोटा चाण्डालश्चोत्तमान् स्पृशम् ॥२३७
शूद्रः
प्रव्रजितानाञ्च दैवे पित्र्ये च भोजकः । अयुक्तं शपथं कुर्वन्नयोग्योऽयोग्यकर्मकृत् ॥२३८ वृपक्षुद्रपशूनाञ्च पुंस्त्वस्य प्रतिघातकृत् । साधारणस्यापलापी दासीगर्भविनाशकृत् ॥२३६ पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः । एषामपतितान्योऽन्यत्यागी च शतदण्डभाक् ॥ २४० वसानस्त्रीन् पणान् दण्ड्यो (दाप्या) रजकस्तु परांशुकम् । विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ २४१
पितापुत्रविरोधे तु साक्षिणां त्रिपणो (द्विशतो) दमः । अन्तरे च तयोर्यः स्यात्तस्याप्यष्ट (रातो) गुणो दमः ॥२४२
तुलाशासनमानानां कूटकृन्नाणकश्य च ।
(दत्र)
एभिश्च व्यवहर्ता यः स दाप्यो दण्ड ( द ) मुत्तमम् ॥२४३ अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥२४४ भिषङ मिथ्याचरन् दाप्यस्तिर्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजमानुषेषूत्तमं दमम् ॥ २४५
[[१२६६]]
याज्ञवल्क्यस्मृतिः ।
[ द्वितीयो-
अबन्ध्यं यश्च बध्नाति बन्ध्यं यश्च प्रमुञ्चति । अप्राप्तव्यवहारञ्च स दाप्यो दण्डमुत्तमम् ॥ २४६. मानेन तुलया वाऽपि यो ऽशमष्टमकं हरेत् । दण्डं स दाप्यो द्विशतं वृद्धो हानौ च कल्पितम् ॥ २४७ भेषज स्नेहलवणगन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस्तु पोडश ॥ २४८ मृचर्ममणिसूत्रायः काष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाऽगुणो दमः ॥२४६ समुद्गपरिवर्तञ्च सारभाण्डञ्च कृत्रिमम् ।
आधानं विक्रयं वाऽपि नयतो दण्डकल्पना ॥ २५० भिन्ने पणे तु पञ्चाशत् पणे तु शतमुच्यते । द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ २५१ सम्भूय कुर्वतामर्थं साबाधं कारुशिल्पिनाम् । अर्घस्य ह्रासं वृद्धिं वा साहस्रो दम उत्तमः ॥ २५२ सम्भूय वणिजां पण्यमनर्घेणोपरुन्धताम् । विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ २५३
राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः । क्रयो वा (विक्रयावापि ) निःस्रवस्तस्माद्वणिजां लाभतः स्मृतः ॥ २५४
स्वदेशपण्ये तु शतं वणिग्गृहीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ २५५ पण्योस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । अर्धोऽनुग्रहकृत् कार्यः क्रतुर्विक्रेतुरेव च ॥ २५६
इति साहसप्रकरणवर्णनम् ।
।
Sध्यायः ] विक्रीयासंप्रदानं सम्भूयसमुत्थानप्रकरणञ्च । १२६७
अथ विक्रीया संप्रदानप्रकरणम् ।
गृहीतमूल्यं यः पण्यं क्रेतुर्नव प्रयच्छति ।
सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिशां गते ॥ २५७
विक्रीतमपि विक्रेयं पूर्वक्रेतर्यगृहति ।
हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥ २५८ राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितम्याप्रयच्छतः ॥ २५६ अन्यहस्ते च विक्रीतं दुष्टं वाऽदुष्टवद् यदि । विक्रीणीत दमस्तत्र मूल्यात्तु द्विगुणो भवेत् ॥ २६० क्षयं वृद्धिश्च वणिजा पण्यानां तु विजानता । क्रीत्वा नानुशयः कार्यः कुवन् पभागदण्डभाक् ॥ २६१
इति विक्रीयांसम्प्रदानप्रकरणवर्णनम् ।
अथ सम्भूयसमुत्थानप्रकरणवर्णनम् ।
समवायेन वणिजां लाभार्थं कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा सम्विदाकृता ॥ २६२ प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितम् ।
स तद्दद्याद्विवाच्च रक्षिता दशमांशभाक् ॥ २६३
[[१२६८]]
याज्ञवल्क्यस्मृतिः ।
[ द्वितीयो
अर्धप्रक्षेपणाद्विशं भागं शुल्कं नृपो हरेत् । व्यासिद्धं राजयोग्यश्च विक्रीतं राजगामि तत् ॥ २६४ मिथ्या वदन् परीमाणं शुल्कस्थानादपासरन् । दाप्यस्त्वष्टगुणं यश्च स व्याज क्रयविक्रयी ॥ २६५
तारिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश । ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ॥ २६६ देशान्तरगते प्रेते द्रव्यं दायादवान्धवाः । ज्ञातयो वा हरेयुस्तदागतैस्तैर्विना नृपः ॥ २६७ जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्येन कारयेत् । अनेन विधिनाख्यातमृत्विक कर्षककर्मिणाम् ॥ २६८
इति सम्भूयसमुत्थानप्रकरणवर्णनम् ।
अथ स्तेयप्रकरणवर्णनम् ।
।
ग्राहकैर्गृह्यते चौरो लोफोणाथ पदेन वा । पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ २६६ अन्येऽपि शङ्कया ग्राह्या ज्ञातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ॥ २७० परद्रव्यगृहाणा च प्रच्छका गूढचारिणः । निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः ॥ २७१
ऽध्यायः ]
व्यवहाराध्यायः स्तेयप्रकरणवर्णनम् । १२६६
गृहीतः शङ्कया चौय्र्य्यं नात्मानं चेद्विशोधयेत् ।
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ २७२ चौरं प्रदाप्यापहृतं घातयेद्विविधैवधैः । 1
सचिह्न ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवाशयेत् ॥ २७३ घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते । विवीतभर्त्तुस्तु पथि चौरोद्धर्त्तरवीतके ॥२७४ स्वसीनि दद्याद् ग्रामस्तु पदं वा यत्र गच्छति । पञ्चप्रामी वहिः क्रोशाद्दशग्राम्यथवा पुनः ॥ २७५ वन्दिग्राहांस्तथा वाजिकुञ्जराणाश्च हारिणः । प्रसह्यघातिनश्चैव शूलमारोपयेन्नरान् ॥२७६ उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ । कार्यों द्वितीयेऽपराधे करपादैकहीनको ॥ २७७ क्षुद्रमध्य महाद्रव्यहरणे सारतो दमः ।
देशकालवयः शक्तिं संचिन्त्यं दण्डकर्मणि ॥ २७८ भक्तावकाशाग्न्युदकमन्त्रोपकरणत्र्ययान् ।
दत्त्वा चौरस्य हन्तुर्वा जानतो दण्ड उत्तमः ॥२७६ शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः । उत्तमो वाऽवमो वाऽपि पुरुषस्त्रीप्रमापणे ॥ २८० विप्रदुष्टां (विषप्रदां ) स्त्रियञ्चैव पुरुरगघ्नीमगर्भिणीम् । सेतुभेदकरीचाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ २८१ विषामिदां पतिगुरुनिजापत्यप्रमापिणीम् । विकर्णकरनासोष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २८२
[[८२]]
[[१३००]]
याज्ञवल्क्यस्मृतिः ।
अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥२८३
स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह । मृत्युदेशसमासन्नौं पृच्छेद्वापि जनं शनैः ॥ २८४
क्षेत्रवेश्मवनप्रामविवीतखलदाहकाः ।
[ द्वितीयो-
राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ॥ २८५
इति स्तेयप्रकरणवर्णनम् ।
अथ स्त्रीसंग्रहणप्रकरणवर्णनम् ।
पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः । साद्यौ वा कामजैश्चिह्नः प्रतिपत्तौ द्वयोस्तथा ॥२८६ नीवीस्तनप्रावरण (नाभि सक्थिकेशाभिमर्शनम् । अदेशकालसम्भाषां सहैकस्थानमेव च ॥ २८७
स्त्रीनिषिद्धा शतं दद्याद् द्विशतन्तु दमं पुमान् । प्रतिषेधे द्वयोर्द्दण्डो यथा संग्रहणे तथा ॥२८८
स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । प्रातिलोम्ये वधः पुंसः स्त्रीणां नासादिकर्त्तनम् ॥ २८६
अलङ्कृतां हरन् कन्यामुत्तमस्त्वन्यथाधमम् ।
दण्डं दद्यात् सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २६०ऽध्यायः ] व्यवहाराध्यायः स्त्रीसंग्रहणप्रकरणवर्णनम् । १३०१
सकामास्वनुलोमासु न दोषस्त्वन्यथा ( धमः) दमः । दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥२६१ शतं स्त्री दूषणे दद्याद् द्वे तु मिथ्याभिशंसने ।
पशून् गच्छन् शतं दाप्यों हीनां स्त्रीं गाञ्च मध्यमम् ॥२६२
अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्वपि पुमान् दाप्यः पश्वाशत्पणिकं दमम् ॥ २६३ प्रस दास्यभिगमे दण्डो दशपणः स्मृतः ।
।
। .
बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् ॥ २६४ गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । अगृहीते समं दाप्यः पुमानप्येवमेव च ॥ २६५ अयोनौ गच्छतो योषां पुरुषं वाऽपि मोह्तः । चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे ॥ २६६ अन्त्याभिगमने त्वङ्क्यः कु ( क ) बन्धेन प्रवासयेत् । शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्थ्यागमे वधः ॥ २६७ इति स्त्रीसंग्रह प्रकरणवर्णनम् ।
अथ प्रकीर्णकप्रकरणवर्णनम् ।
ऊनं वाप्यधिकं वाऽपि लिखेद् यो राजशासनम् । पारदारिकचोरौ वा मुच्चतो दण्ड उत्तमः ॥ २६८
[[१३०२]]
याज्ञवल्क्यस्मृतिः ।
[ द्वितीयो
अभक्ष्येण द्विजं दृष्यन् दण्ड्य उत्तमसाहसम् । क्षत्त्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्द्ध किम् ॥२६६ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । त्र्यहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥३०० चतुष्पादकृते दोषो नापेहीति प्रजल्पतः । काष्ठलाष्ट्र पुपाषाणवाहुयुग्य कृ स्तथा ॥३०१ छिन्ननस्येन यानेन तथा भग्नयुगादिना । पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ ३०२ शक्तो मोक्षयन स्वामी दंद्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्विष्टे द्विगुणं ततः ॥ ३०३ जारं (चोर) चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चस्तदेवाष्टगुणीकृतम् ॥३०४ राज्ञो निष्प्रवक्तारं त यैवाक्रोशकारिणम् ।
तन्मन्त्रस्य च भेत्तारं जिह्वां छित्त्वा प्रवासयेत् ॥ ३०५ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा ।
राज (शय्या) यानासनारोढद्दण्ड उत्तम (मध्यम) साहसः ॥ ३०
द्विनेत्रभेदिनो राजद्विष्टा देशकृतस्तथा ।
विप्रत्वेन च शूद्रस्य जीवनोऽष्टशतो दमः ॥ ३०७ दुद्दष्टांस्तु पुनर्दृष्ट्रा व्यवहारान्नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥३०८ यो मन्येताजितोऽस्मीति न्यायेन पि पराजितः । तमायान्तं पुनर्जित्वा दापयेद् द्विगुणं दमम् ॥३०६
ऽध्यायः ]
प्रायश्चित्ताध्यायःअशौचप्रकरणवर्णनम् । १३०३
राज्ञाऽन्यायेन यो दण्डोऽगृहीतो वरुणाय तम् ।
निवेद्य दद्याहिप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥३१०
इति श्रीयाज्ञवल्क्यीये धर्मशास्त्रे व्यवहारोनाम द्वितीयोऽध्यायः ।
॥ तृतीयोऽध्यायः ॥
अथ प्रायश्चित्ताध्यायः ।
तत्रादावशौचप्रकरणवर्णनम् ।
ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः । आ श्मशानादनुव्रज्य इतरो ज्ञातिभिर्मृतः ॥ १ यमसूकं यमीं गाथां जपद्धिलौकिकाग्निना । स दग्धव्य उपेतश्चदाहिताग्न्यावृतार्थवत् ॥२ सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः । अप नः शोशुचदघमनेन पितृदिङ्मुखाः ॥३ एवं मातामहाचार्य ( प्रत्त) प्रेताना मुदकक्रिया । कामोदकं सखिप्रत्तास्वस्रीयश्वशुरत्विजाम् ॥४ सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः । न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा ॥५ पाषण्डमाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः । सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥६
[[१३०४]]
याज्ञवल्क्यस्मृतिः ।
[ तृतीयो-
कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् । स्नातानपवदेयुस्तानितिहासैः पुरातनैः ॥७ मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । यः करोति स संमूढो जलबुद्बुदसन्निभे ॥८ पञ्चधा सम्भृतः कायो यदि पश्चत्वमागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिवेदना ॥ मन्त्री वसुमती नाशमुदधिदैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥१० श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितत्र्यन्तु क्रियाः कार्याः स्वशक्तितः ॥११ इति संश्रुत्य गच्छेयुर्गृहान् बालपुरःसराः । विदश्य निम्बपत्राणि नियताद्वारि वेश्मनः ॥ १२ आचम्याग्न्यादिसलिलं गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य दत्वाश्मनि पदं शनैः ॥१३ प्रवेशनाधिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥१४ आचार्यपत्र पाध्यायान्निर्ह यापि व्रती व्रती । स कटान्नं न चाश्नीयन्नच तंः सह संवसेत् ॥१५ कीत लब्धाशिनो भूमौ स्वपेयुस्ते पृथक् पृथक् । पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥१६ जलमेकाहमाकाशे स्थाप्यं क्षीरञ्च मृण्मये । वैतानोपासनाः कार्याः क्रियाश्च श्रुतिदर्शनात् ॥ १७
ऽध्यायः ]
प्रायश्चित्ताध्यायः अशौचप्रकरणवर्णनम् । १३०५
त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते ।
ऊनद्विवर्षमुभयोः सूतकं मातुरेव हि ॥१८ पित्रोस्तु सूतकं मातुस्तदसृग्दर्शनाद् ध्रुवम् । तदहर्न प्रदूष्येत पूर्वेषां जन्मकारणात् ॥ १६ अन्तरा जन्ममरणे शेषाहोभिर्विशुद्धयति । गर्भस्रावे मासतुल्या निशाः शुद्ध रेनु कारणम् ॥ २० हतानां नृपगोविप्रैरन्वक्ष श्वात्मघातिनाम् । प्रोषिते कालशेष. स्यात् पूर्गे दत्तोदकं शुचिः ॥ २१
ब्राह्मप्यस्य दशाहं तु भवति प्रेतसूतकम् ।
क्षत्त्रस्य द्वादशाहानि विशः पञ्चदशैव तु ।
।
त्रिंशद्दिनानि शूद्रस्य ( प्रेतसूनकमुच्यते) तदद्धं न्यायवर्तिनः ॥ २२
आदन्तजन्मनः सद्य आचूडान्नैशिकी स्मृता ।
त्रिरात्रमात्रता देशाद्दशरात्रमतः परम् ॥२३
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ॥ २४ अनौरसेषु पुत्रेषु भार्य्यास्वन्यगतासु च । निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥२५ गोनृपब्रह्महतानामन्वक्षं चात्मघातिनम् । प्रायानाशक शस्त्राग्निविषाद्यैरिच्छतां स्वयम् । ब्राह्मणेनानुगन्तव्यो न शूद्रो (हि) न (मृत) द्विजः कचित् । अनुगम्याम्भसि स्नात्वा स्पष्टानिं घृतभुक् शुचिः ॥२६
[[१३०६]]
याज्ञवल्क्यस्मृतिः ।
[ तृतीयो-
महीपतीनां नाशौचं हतानां विद्युता तथा । गोब्राह्मणार्थे संग्रामे यस्य नेच्छति भूमिपः ॥ २७ ऋत्विजां दीक्षितानाश्च यज्ञियं कर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥२८ दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्यपि च कष्टायां सद्य शौचं विधीयते ॥ २६ उदक्याशौचिभिः स्नायात् संस्पृष्टस्तैरुपस्पृशेत् । अब्लिङ्गानि जपेच्चैव सावित्रीं मनसा सकृत् ॥३० कालोऽग्निः कर्म मृद्वायुमनोज्ञानं तपो जलम् । पश्चात्तापो निराहारः सर्वे : मी शुद्धिहेतवः ॥ ३१ अकार्यकारिणां दानं वेगो नद्यास्तु शुद्धिकृत । शोध्यस्य मृच्त्र तोयध्व संन्यासो वै द्विजन्मनाम् ॥३२ तपो वेदविदां क्षान्तिर्विषां वर्ष्मणो जलम् । जपः प्रच्छन्नपापानां मनसः सत्यमुच्यते ॥३३ भूतात्मनस्तपोविद्ये बुद्धर्ज्ञानं विशोधनम् । क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धि परमा मता ॥ ३४
इत्याशौचप्रकरणवर्णनम् ।
ऽध्यायः ]
प्रायश्चित्ताध्यायः आपद्धर्मवर्णनम् ।
[[१३०७]]
अथापद्धर्मप्रकरणवर्णनम् ।
क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ।
निस्तीर्य तामथात्मानं पावयित्वा न्यसेत् पथि ॥ ३५
फलोपलक्षौमसोममनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥३६ शस्त्रासवं मधूच्छिष्टं मधु लाक्षाश्च वर्हिषः । मृच्चर्मपुष्प कुतपकेशतक्रविषक्षितीः ॥३७ कौशेयनीलीलवणमांसैकशफसीसकान् ।
शाकाद्रोर्षधिपिण्याकपशुगन्धांस्तथैव च ॥ ३८ वैश्यवृत्यापि जीवन्नो विक्रीणीत कदाचन । धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥ ३६ लाक्षालवणमांसानि पतनीयानि विक्रये । पयोदधि च मद्यञ्च हीनवर्णकराणि च ॥ ४० आपद्गतः सम्प्रगृह्णन भुञ्जानो वा यतस्ततः । न लिप्येतैनसा विप्रोज्ज्वलनार्कसमो हि सः ॥ ४१ कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः । सेवाऽनूपं नृपो भैक्षमापत्तौ जीवनानि तु ॥ ४२ बुभुक्षितत्र्यहं स्थित्वा धान्य (धन) मत्राह्मणाद्धरेत् । प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥ ४३
तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बश्व धर्म्या वृत्ति प्रकल्पयेत् ॥४४
इत्यापद्धर्मप्रकरणवर्णनम् ।
[[१३०८]]
याज्ञवल्क्यस्मृतिः ।
अथ वानप्रस्थधर्मप्रकरणवर्णनम् ।
सुतविन्यस्तपत्नोकस्तया वानुगतो वनम् ।
[ तृतीयो-
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो (क्षमी) व्रजेत् ॥४५ अफालकृटनाग्नींश्च पितृदेवातिथींस्तथा ।
भृत्यांस्तु तर्पयेत् श्मश्रुजटालोमभृदात्मवान् ॥४६ अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य सञ्चयं कुर्यात् कृतमाश्वयुजे त्यजेत् ॥४७ दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् । स्वाध्यायवान् दानशीलः सर्वसत्वहिते रतः ॥४८ दन्तोलूखलिकः कालपक्काशी वाऽश्मकुट्टकः । श्रौतं स्मात्तं फलस्नेहैः कर्म कुर्यात् क्रियास्तथा ॥ ४६ चान्द्रायणं नयेत्कालं कृच्छ व वर्त्तयेत्सदा ।
पक्षे गते वाप्यश्नीयान्मासे वाऽहनि वा गते ॥५० स्वप्याद्भूमौ शुची रात्रौ दिवा संप्रपदेनैयेत् । स्थानासनविहारंवा योगाभ्यासेन वा तथा ॥ ५१ ग्रीष्मे पश्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः । आर्द्रवासास्तु हेमन्ते शक्त्या वाऽपि तपश्चरेत् ॥५२ यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति । अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥५३ अग्नीन् वाप्यात्मसात् कृत्वा वृक्षावासी मिताशनः । वानप्रस्थगृहेष्वेव यात्रार्थं भैक्षमाचरेत् ॥५४
ऽध्यायः ]
प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् । १३०६
ग्रामदाहृत्य वा प्रासानष्टौ भुञ्जीत वाग्यतः । वायुभक्षः प्रागुदीचीं गच्छेदावर्ष्म संक्षयात् ॥५५
इति वानप्रस्थधर्मप्रकरणवर्णनम् ।
अथ यतिधर्मप्रकरणवर्णनम् ।
वनाद् गृहाद्वा कृत्येष्टि सर्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि ॥५६ अधीतवेदो जपकृत् पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृमोक्षं मनः कुर्यात्तु नान्यथा ॥ ५६ सर्वभूतहितः शान्तस्त्रिदण्डी सकम डलुः । एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ॥५८ अप्रमत्तश्चरेद्वैक्षं सायाह्न नाभिलक्षितः । रहिते भिक्षुर्मामे यात्रामात्रमलोलुपः ॥५६ यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च । सलिलैः शुद्धिरेतेषां गोवालैश्चावघर्षणात् ॥ ६० सन्निरुध्येन्द्रियग्रामं रागद्वैपौ विहाय च । भयं हृत्वा च भूतानाममृती भवति द्विजः ॥६१ कर्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः । ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च ॥ ६२ अवेक्ष्योगर्भवासश्च कर्मजा गतयस्तथा ।
आधयो व्याधयः क्लेश जरारूपविपर्ययाः ॥६२
[[१३१०]]
याज्ञवल्क्यस्मृतिः ।
भवो जातिसहस्रेषु प्रियाप्रियविययः ।
[ तृतीयो-
ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः ॥६४ नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः । अतो यदात्मनोऽपथ्यं परस्य न तदाचरेत् ॥६५ सत्यमसत्येयमक्रोधो हीः शौचं धीधृ तिर्दमः । संयतेन्द्रियता विद्या धर्मः सार्व उदाहृतः ॥६६ निःसरन्ति यथा लोहपिण्डात्तस्मात् स्फुलिङ्गकाः । सकाशादत्मनस्तद्वदात्मनः प्रभवन्ति हि ॥६७ तत्रात्मा हि स्वयं किञ्चित् कर्म किश्वित् स्वभावतः । करोति किश्चिदभ्यासाद्धर्माद्धम भयात्मकम् ॥६८ निमित्तमक्षरः कर्त्ता बोद्धा ब्रह्म गुणी वशी । अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥ ६६ सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् । सृजत्येकोत्तर गुणांस्तथादत्ते भवन्नपि ॥ ७० आहुत्याप्यायते सूर्यस्तस्मादुवृष्टिरथौषधः । तदन्नं रसरूपेण शुक्र (क्ल) त्वमुपगच्छति ॥७१ स्त्रीपुंसयोस्तु संयोगे विशुद्ध शुक्रशोणिते । पञ्चधातु स्वयं षष्ठानादत्ते युगपत् प्रभुः ॥७२ इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः । धारणा प्रेरणं दुःखमिच्छाहंकार एव च ॥७३ प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ । तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ॥७४
।१३९१
ऽध्यायः ] प्रायश्चिताध्यायः यतिधर्मप्रकरणवर्णनम् ।
प्रथमे मासि संक्लेदभूतो धातुविमूर्च्छितः । मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गन्द्रियैर्युतः ॥ ७५ आकाशल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् । वायोस्तु स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ॥७६ पित्त त्तु (अग्नेस्तु) दर्शनं पक्तिमौ ण्यं रूपं प्रकाशिताम् । रसात्तु रसनं शैत्यं स्नेह क्लेदं समाद्देवम् ॥७७
भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।
आत्मा गृह्णात्यजः सर्वं तृतीये स्पन्दते ततः ॥७८ दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वाऽपि तस्मात् काय्र्यं प्रियं स्त्रियाः ॥७६ स्थैय्यं चतुर्थं त्वङ्गानां पञ्चमे शोणितोद्भवः । षष्ठे बलस्य वर्णस्य नखरोम्णाञ्च सम्भवः ॥८० मनश्चैतन्ययुक्तोऽसौ नाड़ीस्नायुशिरायुतः । सप्तमे चाष्टमे चंव त्वङ्मांसस्मृतिमानपि ॥८१ पुनर्द्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति । अष्टमे मास्यतो गर्भा जातः प्राणैर्वियुज्यते ॥ ८२ नवमे दशमे वाऽपि प्रबलै सूनिमारुतैः ।
निःसार्य्यते वाण, इव यन्त्रच्छिद्रेण सज्वरः ॥८२ तस्य वो ( षो)ढा शरीराणि षट्त्वचो धारयन्ति च । षड़ङ्गानि तथास्थ्नाश्च सह षष्ठ्या शतत्रयम् ॥८४ स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः । पाणिपादशलाकाश्च तासां स्थानचतुष्टयम् ॥८५
[[१३१२]]
याज्ञवल्क्यस्मृतिः ।
षष्ठ्यङ्गुलीनां द्वे पायोर्गुल्फेषु च चतुष्यम् । चत्वार्य्यर निकास्थीनि जङ्घयोस्तावदेव तु ॥ ८६ द्वे द्वे जानुकपोलोरुफलकां ससमुद्भवे ।
अक्षः स्थालपके श्रोणीफलके च विनिर्दिशेत् ॥८७ भगास्थेकं तथा पृष्ठे चत्वरिंशच्च पञ्च च । ग्रीवा पञ्चदशास्थिः स्याज्जन्वेकैकं तथा हनुः ॥८८ तन्मूले द्वे ललाटास्थिगण्डनासाघनास्थिका । पार्श्वकाः स्थालकैः सार्द्ध मर्वदेश्व द्विसप्ततिः ॥ ८६ द्वौ शङ्खको कपालानि चत्वारि शिरसस्तथा । उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ ६० गन्धरूपरसस्पर्शशब्दाश्च विषयाः स्मृताः ।
॥
।
[ तृतीयो-
नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च ॥ ६१ हस्तौ पायुरुपस्थश्च वाक्पादौ चेति पञ्च वै । कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ॥६२ नाभिरोजो गुढं शुक्रं शोणितं शङ्खकौ तथा । मूर्द्धासकण्ठहृदयं प्राणस्यायतनानि तु ॥ ६३ वपावसावहननं नाभिः क्लोम यकृत् प्लिहा । क्षुद्रान्त्रं वकको वस्तिः पुरीषाधानमेव च ॥६४ आमाशयोऽथ हृदयं स्थूलान्त्रं गुदमेव च । उदरश्च गुदः कोष्ठ्यो विस्तारोऽयमुदाहृतः ॥६५ कनीनिके साक्षिकूटे शष्कुली कणपत्रकौ । कर्णौ शङ्खौ भ्रुवौ दन्तावेष्टावोष्ठौ ककुन्दरौ ॥६६
ऽध्यायः ] प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् ।
वणौ वृषणौ वृक्कौ श्लेष्मसङ्घातजौ स्तनौ । उपजिह्वा स्फिचौ बाहू जङ्घोरुषु च पिण्डिका ॥६७ तालूदरं वस्ति शीषं चिबुके गलशुण्डिके । अवटुश्चैवमेतानि स्थानान्यत्र शरीरके ॥६८ अक्षि (वर्ग) कर्णचतुष्कञ्च पद्धस्तहृदयानि च । नवच्छिद्राणि तान्येव प्राणस्यायतनानि तु ॥६६ शिराः शतानि सप्तैव नवस्नायुशतानि च । धमनीनां शते द्वे च पेशी पञ्चशतानि च ॥ १०० एकोनत्रिंशल्लक्षाणि तथा नवशतानि च । षट्पञ्चाशश्च जानीत शिराधम निसंज्ञिताः ॥ १०१ त्रयोलक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । सतो ( अष्टोत्तरं मर्म्मशतं द्वे च सन्धिशते तथा ॥ १०२ रोम्णां कोट्यश्च पञ्चाशञ्चतस्रः कोट्य एव च । सप्तषष्टिस्तथा लक्षाः सार्द्धाः खेदायनैः सह ॥१०३ वयवीयैर्विगण्य ते विभक्ताः परमाणवः । यद्यःयेकोऽनुवेदेषां भावनाचैव संस्थितिम् ॥१०४ रसस्य नव विज्ञेया जलस्याञ्जलयो दश । सप्तैव तु पुरीषम्य रक्तस्याष्टौ प्रकीर्तिताः ॥ १०५ षट्इलेष्मा पञ्च पित्तश्च चत्वारो मूत्रमेव । वसा त्रयो द्वौ तु मेदो मज्जैकाऽर्द्धन्तु मस्तके ॥१०६ श्लेप्मौज सस्तावदेव रेतसस्तावदेव तु ।
इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्य सौ ॥१०७
[[१३१३]]
[[१३१४]]
याज्ञवल्क्यस्मृतिः ।
द्वासप्तति सहस्राणि हृदयादभिनिःसृता । हिताहितानामनाड्यस्तासां मध्ये शशिप्रभम् १०८ मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः । स शेयस्तं विदिह पुनरायतने न तु ॥ १०६ शेयं चारण्यकमहं यदादित्यादद्वाप्तवान् । योगशास्त्रश्च मत्प्रोक्तं ज्ञेयं योगमभीप्सता ॥ ११० अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
[ तृतीयो-
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत् प्रभुः ॥ १११ यथाविधानेन पठन् साम गायत्यविध्ययम् । सावधानस्तदभ्यासात् परं त्रह्माधिगच्छति ॥ ११२ अपरान्तकमुल्लोयं मद्रकं प्रकरीन्तथा । औवेणकं सरोविन्दुमुत्तरं गीतकानि च ॥ ११२ ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिकाः । ज्ञेयमेतत्तदभ्यासकरणान्मोक्ष संज्ञितम् ॥ ११४ वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्वाप्रयासेन मोक्षमार्गं नियच्छति ॥ ११५ गीतज्ञो यदि (योगेन) गीतेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनेव सह मोदते ॥ ११६ अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् । आत्मनश्च जगत् सर्वं जगतश्चात्मसम्भवः ॥११७ कथमेतद्विमुह्यामः सदेवासुरमानवम् ।
जगदुद्भूतमात्मा च कथं तस्मिन् वदस्व नः ॥ ११८
ऽध्यायः ]
प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् ।
[[१३१५]]
मोहजालमपास्येदं पुरुषो दृस्यते हि यः । सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रशः ॥ ११६ स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः । विराजः सो (म ) ऽन्नरूपेण यज्ञत्वमुपगच्छति ॥ १२० यो द्रव्यदेवतात्यागसम्भूतो रस उत्तमः । देवान् सन्तर्प्य स रसो यजमानं फलेन च ॥ १२१ संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः । ऋग्यजु सामविहितं सौरं धामोपनीयते ॥ १२२ स्वमण्डलाद सौ सूर्यः सृजत्यमृतमुत्तमम् । यज्जन्म सर्वभूतानामशनानशनात्मनाम् ॥१२३ तस्माद (नात) स्नात् पुनर्यज्ञः पुनरनं पुनः क्रतुः । एवमेतदनाद्यन्तं चक्रं सम्पवितते ॥ १२४ अनादिरात्मा सम्भूतिर्विद्यते नान्तरात्मनः । समवायी तु पुरुषो मोहेच्छाद्वेष कर्म्मजः ॥ १२५ सहस्रात्मा मया यो व आदिदेव उद हृतः । मुखबाहूरुपज्जाः स्युस्तस्य वर्णा यथाक्रमात् ॥ १२६ पृथिवी पादतस्तस्य शिरशो द्यौरजायत ।
नस्तः प्राणा दिशः श्रोत्रात् स्पर्शा (त्वचो ) द्वायुर्मुखाच्छिखी ॥१२७
मनसश्चन्द्रमा जातश्चक्षुषश्व दिवाकरः ।
जघनादन्तरिक्षश्व जगच्च सचराचरम् ॥ १२८ यद्येवं स कथं ब्रह्मन् पापयोनिषु जायते । ईश्वरः स कथं भावैरनिष्ठैः संप्रयुज्यते ॥ १२६
[[८३]]
[[१३१६]]
याज्ञवल्क्यस्मृतिः ।
[ तृतीयो-
करणैरन्वितस्यापि पूर्वज्ञानं कथञ्चन ।
वेत्ति सवगतां कस्मात् सर्वगोऽपि न वेदनाम् ॥ १३०
अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्म्मजैः ।
[[1]]
दोषै प्रयाति जीवोऽयं भवं योनि (जाति) शतेषु च ॥१३१
अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् । रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ १३२
विपाकः कर्मणां प्रत्य केषाश्विदिह जायते । इह चामुत्र चैकेषां भावस्तत्र प्रयोजनम् ॥ १३३ परद्रव्याण्यभिध्यायं स्तथा निष्टानि चिन्तयन् । वितथाभिनिवेशी च जायन्ते ऽन्त्यासु योनिषु ॥। १३मृ पुरषोऽनृतवादी च पिशुन पुरुषस्तथा । अनिबद्ध प्रलापी च मृगपक्षिषु जायते ॥१३५ अदत्तादान निरतः परदारोपसेवकः । हिंसकःश्वाविधानेन स्थावरेष्वभिजायते ॥१३६ आत्मज्ञः शौचवान् दान्तातपस्वी विजितेन्द्रियः । धर्मकृद् वेदविद्याभिः सात्त्विको देवयोनिषु १३७ असत्कार्यरतोऽधीर आरम्भी विषयी च यः । स राजसो मनुष्येषु मृतोजन्माधिगच्छति ॥ १३८ निद्रालु क्रूरकृल्लब्ध नास्तिको याचकस्तथा । प्रमादवान् भिन्नवृत्तोभवेत्तिय क्षु तामसः ॥१३६ रजसा तमसा चैव समाविष्टो भ्रमन्निह । भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥१४०
ऽध्यायः ] प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् ।
मलिनो हि यथादर्शा रूपालोकस्य न क्षमः । तथाऽविपककरण आत्मा ज्ञानस्य न क्षमः ॥ १४१ कटूर्वारौ यथाऽपक मधुरः सन् रसोऽपि न । प्राप्यते ह्यात्मनि तथा नापक्ककरणे हाता ॥४२ सर्व्वाश्रयां निजे देहे देही विन्दति वेदनाम् । योगी युक्तश्च सर्वेषां यो नावाप्नोति वेदनाम् ॥१४३ आकाशमंक हि यथा घटादिषु पृथग्भवेत् । तथात्मैकोऽत्यनेकस्तु जलाधारेष्विवांशुमान् ॥१४४ ब्रह्मखानिलतेजांसि जलं भूश्वति धातवः ।
इमे लोका एष चात्मा तस्माच्च सचराचरम् ॥१४५ गृह (मृद्) दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् । करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥१४६ हेममात्रमुपादय रूप्यं ( रूपं ) वा हेमकारकः । निजलालासमायोगात् कोशं वा कोशकारकः ॥ १४७
कारणान्येवमादाय तासु तास्विह योनिषु ।
।
सृजत्यात्मानमात्मा च सम्भूय करणानि च ॥१४८
महाभूतानि सत्यानि यथात्मापि तथैव हि । कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति ॥ १४६ वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।
।
[[१३१७]]
अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ १५० जातिरूपवयोवृत्तिविद्यादिभिरहङ्कृतः ।
शब्दादिविषयो (सक्तः)द्योगं कर्म्मणा मनसा गिरा ॥ १५१
[[१३१८]]
याज्ञवल्क्यस्मृतिः ।
[ तृतीयो-
स सन्दिग्धमतिः कर्मफलमस्ति न वेति वा । विप्लुतः सिद्धमात्मानमसिद्धोऽपि हि मन्यते ॥१५२
मम दारसुनामात्या अहमेषामिति स्थितः । हिताहितेषु भावेषु विपरीतमतिः सदा ॥१५३ शेऽशे प्रकृती चैव विकारे वाऽविशेषवान् । अनाशका (ग्निप्रवेश) नलापातजलप्रपतने द्यमी ॥ १५४ एवं वृत्तोऽविनीतात्मा वितथाभिनिवेशवान् । कर्म्मणा द्वेषमोहाभ्यामिच्छया चैव बध्यते ॥ १५५ आचार्योपासनं वेदशास्त्र (स्यार्थे ) पु विवेकिता । तत्कर्म्मणामनुष्ठानं सङ्गः सङ्गिर्गिरः शुभाः ॥ १५६ ख्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
त्यागः परिग्रहाणाश्च जीर्णकापायधारणम् ॥१५७ विषयेन्द्रियसंरोधस्तन्द्रयालस्यविवर्जनम् । शरीरपरिसं (ख्यानं) स्थानं प्रवृत्तिष्वघदर्शनम् ॥ १५८ नीरजस्तमता सत्त्वशुद्धिर्निःस्पहता शमः । एतैरुपायैः संशुद्धः सत्त्वयुक्तोऽमृतीभवेत् ॥१५६ तवस्मृतेरुपस्थानात् सत्वयोगात् परिक्षयात् । कर्म्मणा सन्निकार्षाच सतां योगः प्रवर्तते ॥ २६० शरीरसंक्षये यस्य मनः सत्त्वस्थमीश्वरम् । अविप्लुतस्मृतिः सम्यक् स जातिस्मरतामियात् ॥१६१ यथा हि भरतो वर्णैवर्तयत्यात्मनस्तनुम् ।
नानारूपाणि कुर्वाणस्तथात्मा कर्मजस्तनुम् ॥१६२
ऽध्यायः ] प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् । १३१६
कालकम्र्मात्मिबीजानां दोषैर्मातुस्तथैव च । गर्भस्य वैकृतं दृटम (ना) महीनादि जन्मतः ॥ १६३ अहङ्कारेण मनसा गत्या कम्फलेन च । शरीरेण च नात्मायं मुक्तपूर्वः कथञ्चन ॥१६४
दाता सत्यः क्षमी प्राज्ञः शुभकर्मा जितेन्द्रियः । तपस्वी योगशीलश्च न रोगैः परिभूयत । वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः । विक्रियापि च प्रैवमकाले प्राणसंक्षयः ॥ १६५ अनन्ता रश्मयस्तस्य दीपवद् यः स्थितो हृदि । सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः ॥ १६६ ऊर्ध्वमेकः स्थित तेषां यो भित्वा सूय्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ॥१६७ यदस्यान्यद्रश्मिशतमूर्द्ध मेव व्यवस्थितम् । तेन देवशरीराणि स धामानि प्रपद्यते ॥ १६८ येऽनेकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः । इह कम्म. पभोगार्थस्तैः संसरति सोऽवशः ॥ १६६ वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च । आध्या गत्या तथागत्या सत्येन ह्यनृतेन च ॥ १७० श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः । निमित्तशकुनज्ञ नैव संयोगजैः फलैः ॥ २७१
तारानक्षत्रसञ्चारैर्जागरैः स्वप्नजैरपि ।
आकाशपवनज्योतिर्जलभूतिमिरैस्तथा ॥ १७२
मन्वन्तरैर्युगप्राप्त्या मन्त्रौषधिबलैरपि ।
[[1]]
वित्तात्मानं विद्यमानं कारणं जगत (सदा) स्तथा ॥ १७३
[[१३२०]]
याज्ञवल्क्यस्मृतिः ।
अहङ्कारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः । इन्द्रियान्तर सभ्वार इच्छाधारणजीविते ॥१७४ स्वर्गः स्वप्नश्च भावानां प्रेणं मनसो गतिः । निमेषश्चंतना यत्न आदानं पाच भौतिकम् ॥ १७५ यत एतानि दृश्यन्ते लिङ्गानि परम त्मनः । तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः ॥ १७६ बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च । अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥ १७७ अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते । ईश्वरः सर्वभूतस्थः सन्नसन् सदसञ्च (सः) यः ॥ १७८ बुद्ध रुत्पत्तिरव्यक्तात्ततं’ ऽङ्कारसम्भवः ।
[ तृतीयो-
तन्मात्रादीन्यहङ्कारा (तस्मात्खादी निजायन्ते) देकोत्तरगुणानि च ॥१७६
शब्दः स्पर्शश्च रूपव रसो गन्धश्व तद्गुणाः ।
यो यस्मान्निःसृतश्चैषां (यो यस्मिन्न तितेरपी) तस्मिन्नेव लीयते ॥ १८०
यथात्मानं सृजत्यात्मा’ तथा वः कथितो मया । विपाकात्त्रिप्रकाराणां कर्मणामीश्वरोऽपि सन् ॥१८१ सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः । रजस्तमोभ्यामाविष्टश्चक्रवद् भ्राम्यते हि सः । १८२ अनादिरादिमांश्चैव स एव (य एप ) पुरुषः परः । लिङ्गन्द्रियग्र ह्यरूपः सविकार उदाहृत ॥ १८३
पितृयाणोऽजवीथ्याश्च यद्गस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रणो यान्ति स्वर्गकामा (प्रजाकाम ) दिवं प्रति ॥ १८४ऽध्यायः ] प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् । १३२१
ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः ।
तेऽपि तेनेव मार्गेण (गच्छन्ति) सत्यत्रतपरायणाः ॥ १८५ तत्राष्टाशीतिसाहस्रा मुनयो गृहमेधिनः । पुनरावर्तिनो वीजभूता धर्मप्रवर्तकाः ॥ १८६३ सप्तरिनागवीथ्य तšवलोकसमाश्रिताः ।
ताव त एव मुनयः सर्वारम्भविवर्जिताः ॥ १८७ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । तत्रैव तावत्तिष्ठन्ति यावदाभूतसंम् ॥१८८ यवो वेदाः पुराणश्च विद्योपनिषदस्तथा ।
श्लोकाः सूत्राणि भाष्याणि यच किञ्चन वाङ्मयम् ॥ १८६ वेदानुवचनं यज्ञो ब्रह्मचर्यं तो दमः ।
श्राद्धोपवासः स्वातन्त्र्यमात्मनो ज्ञानहेतव ॥१६० स ह्या श्रम (निदिध्यास्य ) विजिज्ञास्य समस्तैरेवमेव तु । द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ॥ १६१ य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः । उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ १६२ क्रमात्ते सम्भवन्त्यर्चिरहः शुद्धं तथोत्तरम् । अयनं देवलोकभ्व सवितारं सवैद्यतम ॥१६३ ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् । करोति पुनरावृत्तिस्तेषामिह न विद्यते ॥ १६४ यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः । धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ॥ १६५
।
[[१३२२]]
याज्ञवल्क्यस्मृतिः ।
[ तृतीयो-
पितृलोकं चन्द्रमसं वायुं ( नभो ) वृष्टि जलं महीम् । क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च ॥ १६६ एतद् यो न विजानाति मार्गद्वितयमात्मवान् । दन्दशूकः पतङ्गो वा भवेत् कीटोऽथवा कृमिः ॥ १६७ ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम् । उत्तानं किञ्चिदुन्नम्य मुखं विष्टभ्य चोरसा ॥ १६८ निमीलिताक्षः सत्वस्थो दन्तद न्तानसंस्पृशन् । तालुस्थ चलजिह्वश्व संवृतास्य सुनिश्चलः ॥ १६६ सन्निरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः । द्विगुणं त्रिगुणं वाऽपि प्राणायाममुपक्रमेत् ॥२०० ततो ध्येयः स्थितो योऽसौ हृदये दोपवत् प्रभुः । धारयेत्तत्र चात्मानं धारणां धारयन् बुधः ॥२०१ अन्तर्द्धानं स्मृतिः कान्तिर्दृ ष्टिः श्रोत्रज्ञता तथा । निजं शरीरमुत्सृज्य परकायप्रवेशनम् ॥२०२ अर्थानां छन्दतः सृष्टिर्योगसिद्धस्तु लक्षणम् । सिद्ध योगे त्यजः देहममृतत्वाय कल्पते ॥ २०३ अथवान्यभ्यसन् वेदं न्यस्तकर्मा वने (सुते ) वसन् । अयाचिताशी मितभुक् परां सिद्धिमवाप्नुयात् ॥२०४ न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृत् सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ २०५ इति यति धर्म प्रकरणवर्णनम् ।
ऽध्यायः ] प्रायश्चित्ताध्याये प्रायश्चित्तप्रकरणवर्णनम् । १३२३
अथ प्रायश्चित्तधर्मप्रकरणवर्णनम् ।
महापातकजान् घोरान्नरकान् प्राप्य गर्हितान् । कर्मक्षयात् प्रजायन्ते महापातकिनस्त्विह ॥ २०६ मृगशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ।
खरपुक्क (ल्कस) शवेणनानां सुरापो नात्र संशयः ॥ २०७ कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । तृणगुल्मलतात्वञ्च क्रमशो गुरुतल्पगः ॥ २०८ ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्दकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ २०६
॥ योषेन संवसत्येषां सप्तलिङ्गोऽभिजायते । ( यो येन संविपत्येषां सतल्लिङ्गोऽभिजायते ) अन्नहर्तामयावी स्यान्मूको वागपहारकः ॥२१० धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । तैलहत्तैलपायी स्यात् पूतिवक्तस्तु सूचकः ॥ २११ परस्य योषितं हत्वा ब्रह्मस्वमपहृत्य च ।
अरण्ये निर्ज्ज (ले)ने घारे (देशे) भवति ब्रह्मराक्षसः ॥ २१२
हीनजातौ प्रजायन्ते पररत्नापहारकः ।
पत्रशाकं शिखी हृत्वा गन्ध छन्दरिः शुभान् ॥२१३
मूषिको धान्यहारी स्याद्यानमुष्ट्रः फलं कपिः ।
जलं लवः (अजः पशुं) पयः काको गृहकारी ह्युपस्करम ॥२१४
मधु दंशः पलं गृध्रो गां गोधाग्निं वकस्तथा ।
श्वित्री वस्त्रं श्वा रसन्तु चीरी लवणहारकः ॥ २१५
[[१३२४]]
याज्ञवल्क्यस्मृतिः ।
[ तृतीयो-
प्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्मणि । द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ २१६ यथाकर्मफलं प्राप्य तिर्यक्त्वं कालपर्ययात् । जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुपाधमाः ॥ २१७ ततो निष्कल्मषीभूताः कुले महति भोगिनः । जायन्ते विद्ययोपेता धनधान्यसमन्विताः । २१८ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाञ्चन्द्रियाणां नए पतनमृच्छति ॥२१६ तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥ २२० प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान्नरकान् यान्ति द रुणान् ॥२२१
तामिस्रं लोहशङ्कञ्च महानिरयशल्मली ।
रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥२२२ संघातं लोहितोदञ्च सविषं सम्प्रतापनम् । महानरक काकोलं संजीवनमहा (नदी) पथम् ॥२२३ अवीचिमन्धतामिस्र कुम्भीपाकं तथैव च । असिपत्रवनचैव तपनञ्चैकविंशकम् ॥ २२४
महापातकजैघोरे रुपपातकजै तथा ।
अन्वितायान्त्यचरितप्रायश्चित्ता नराधमाः । २२५
प्रायश्चित्तैरपैत्येनोय दशा नकृतं भवेत् ।
कामतो व्यवहार्यस्तु वचन दिह जायते ॥ २२६
ऽध्यायः ] प्रायश्चित्ताय्याये प्रायश्चित्तप्रकरणवर्णनम् । १३२५
ब्रह्महा मद्यप स्तेनोगुरुतल्पग एव च ।
एते महापातकिनो यश्च तैः (संपिबेत्समाम्) सह संवसेत् ॥ २२७
गुरुणामत्यधिक्षपो वेदनिन्द्या सुहृद्बधः ।
[[1]]
ब्रह्महत्यासमं ज्ञेयमवीतस्य च नाशनम् ॥ २२८ निषिद्धभक्षणं जैाचमुत्कर्षञ्च वचोऽनृतम् । रजस्वलामुखास्वादः सुरापानसमानि तु ॥ २२६ अश्वरत्नमनुष्य स्त्रीभूधेनुहरणं तथा ।
।
निक्षेपस्य च सर्व हि सुवर्णस्तेय सम्मितम् ॥२३० सखिभार्याकुमारीषु स्वयोनिस्वन्त्यजासु च । सगोत्रःसु सुतस्त्रोषु गुरुतल्पसमं स्मृतम् ॥२३१ पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि । मातुः सपत्नीं भगिनीमाचार्य्यतनयां तथा ॥ २३२ आचाय्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः । छित्त्वा लिङ्गं बवस्तस्य सकामायाः स्त्रिया अपि ॥ २३३ गोबधो ब्रात्यया स्तेयमृणानाश्च नरक्रिया । अनाहिताग्निताऽपण्यविक्रयः परिवेदनम् ॥२३४ भृताध्ययनादानं भृतकाध्यापनं तथा ।
पारदाय्यं परिनित्यं बादधुं (घ्यं ) यं लवणक्रिया ॥ २३५ स्त्री शूद्रविट्क्षत्रबधो निन्दित थोपजीवनम् । नास्तिभ्यं व्रतलोपश्च सुतानाञ्चैव विक्रयः ॥२३६ धान्यरूप्यपशु स्तेयमयाज्यानाश्च याजनम् । पितृमातृगुरुत्यागस्तडागारामविक्रयः ॥२३७
[[१३२६]]
याज्ञवल्क्यस्मृतिः ।
कन्यादूषणञ्चैव परिवेदकयाजनम् ।
[ तृतीयो-
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥२३८ आत्मार्थ च क्रियारम्मो मद्यस्त्रीनिषेवणम् । स्वाध्यायामिसुतत्यागो बान्धवत्याग एव च ॥ २३६ इन्धनार्थं द्रुमच्छेदः स्त्रीहिंस्रौपधि जीवनम् । हिंस्रयन्त्रविधानश्च व्यसनान्यात्मविक्रयः ॥२४० असच्छास्त्राधिगमनमाकरेष्वधिकारिता । भार्याया विक्रयश्चैषामेकैकमुपपातकम् ॥२४१ शिरः कपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभु शुद्धिमा नुयात् ॥२४२ ब्राह्मणस्य परित्राणाद्गवां द्वादशकस्य वा । तथाश्वमेधावभृथस्नानाद्वा शुद्धिमाप्नुयात् ॥२४३ दीर्घतीब्रामयग्रस्तं ब्राह्मणं गामथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः ॥ २४४ आनीय विप्रसर्वस्वं हृतं घातित एव वा । तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुद्धयति ॥ २४५ लोमभ्यः स्वाहेत्येवं हि लोमप्रभृति वै तनुम् । मज्जान्तं जुहुयाद्वापि मन्त्रैरेभिर्यथाक्रमम् ॥ २४६ संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् । मृतकल्पः प्रहारार्तो जीवन्नपि विशुद्धयति ॥ २४७ अरण्ये नियतो जल्वा त्रिकृत्वोवेद संहिताम् । मुध्यते वा मिताशीत्वा प्रतिश्रोतः सरस्वतीम् ॥२४८
ऽध्यायः ] प्रायश्चित्ताध्याये प्रायश्चित्तप्रकरण बर्णनम् ।
पात्रे धनं वा पर्याप्त दत्त्वा शुद्धिमवानुयात् । आदातुश्च विशुद्धयर्यमिटिवश्वानरी स्मृता ॥२४६ यागस्थक्षत्रविघाती चरेद्द्ब्रह्मणो व्रतम् । गर्भहा च यथावणं तथात्रेयीनिपूकः ॥२५० चरेद् व्रतमहत्वापि घाताथ चेत् समागतः । द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् ॥ २५१ सुराम्बुघृतगोमूत्रपयसामग्निसन्निभम् । सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ॥ २५२ बालवासा जटी वाऽपि ब्रह्महत्याव्रतश्चरेत् । पिण्याकं वा कणां वाऽपि भक्षयेस्त्रिसमां निशि ॥ २५३ अज्ञानात्त सुरां पीत्वा रेतो विण्मूत्रमेव वा । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ २५४ पतिलोकं न सा याति ब्रह्मणी या सुरां पिवेत् । इहैव सा शुनी गृधी सूकरी चाभिजायते ॥ २५५ ब्राह्मणः स्वर्णहारी तु राज्ञे मूसलमर्पयेत् । स्वकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचिः ॥ २५६ अनिवेद्य नृपे शुद्धय सुरापव्रतमाचरेत् ।
आत्मतुल्यं सुवर्णं वा दद्याद्वा विप्रतुष्टिकृन् ॥ २५७ तप्तेऽयः शयने सार्द्धमायरया योषिता स्वपेत् । गृहीत्वोत्कृत्य वृषणौ नैर्ऋ त्याम्वोत्सृजेत्तनुम् ॥ २५८ प्राजापत्यं चरेत्कृच्छ्रं समां वा गुरुतल्पगः । चान्द्रायणं वा त्रीन्मासानभ्यसन् वेदसंहिताम् ॥ २५६ रजकव्याधशैलूषवेणुचर्मोपजीविनः ।
ब्राह्मण्येतान् यदा गच्छेत् कृच्छ चान्द्रायणं चरेत् ॥ श्वपाकं पुल्कसं म्लेच्छं चण्डालं पतितं तथा ।
एतांस्तु ब्राह्मणी गत्वा चरेचान्द्रायणत्रयम् ॥
[[१३२७]]
[[१३२८]]
याज्ञवल त्यस्मृतिः ।
[ तृतीयो-
एभिरतु संवसेद् (संपिवेद्) यो वै वत्सरं सोऽपि तत्समः । कन्यां समुद्रदेषां सोपवासाम किञ्चनाम् ॥ २६० चान्द्रायणं चरेत् सर्वानपान्निहत्य तु । शूद्रोऽधिकारहीनोऽपि कालेनानेन शुध्यति ॥ २६१ मिथ्याभिशंसिनो दोषो द्विगुणोऽनृतवादिनः । मिथ्याभिशस्तपापञ्च समादत्तं मृषा वरन् ॥२६२ पञ्चगव्यं पिवेद् गोघ्नो मासमासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुद्धयति ॥ २६३ कृच्छ चैवातिकृच्छश्च चरेद्वापि समाहितः । दद्य त्रिरात्रं वोपोष्य वृषभैकादशास्तु गाः ॥ २६४ उपपत शुद्धिः स्यादेव चान्द्रायणेन वा । पयसा वाऽपि मासेन पराकेणाथवा पुनः २६५
भैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् । ब्रह्म इत्याव्रतं वाऽपि वत्सरत्रितयं चरेत् ॥ २६६ वैश्यहाब्दं चरेदेतदद्य । द्वैकशतं गवाम् । षण्मासान् शूद्र हा ह्येतद्दद्याद्ध नुर्दशापि वा ॥ २६७ दुर्वृर्ता ब्रह्मवित्तशूद्रयोषाः प्रमाप्य तु । दृतिं धनुर्वस्तमविक्रमाद्दद्याद्विशुद्धये ॥ २६८ अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतश्चरेत् । अस्थिमतां सहस्रभ्व तथानस्थिमनामनः २६६ मार्जारगोधान कुलमण्डूकश्वपतत्रिणः ।
हत्वा त्र्यहं पिवेत् क्षीरं कृच्छ्र वा पादिकं चरेत् ॥२७०
ऽध्यायः ] प्रायश्चित्ताभ्यये प्रायश्चित्तप्रकरणवर्णनम् । १३२६
गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः खराजमेषेषु वृषो देयः क्रौञ्च त्रिहायनः ॥ २७१ हंसश्येनकपिकव्याज्जलस्थलशिखण्डिनः ।
भासश्च हत्वा दद्याद् गामक्रव्यादस्तु वत्सिकाम् ॥२७२
उरगेष्वायसो दण्डः पण्डके त्रपु ( म षकः ) सीसकम् । (म.षकः) ।
कोले घृतघटो देय उष्ट्र गुञ्जायें शुकम् ॥ २७३ तित्तिरौ तु तिलेद्रोणं गजादीनामशक्नुवन् । दानं दातुध्वरेत् कृच्छ्रमेकैकस्य विशुद्धये ॥ २७४ फलपुष्पान्नर सज सत्वघाते घृताशनम् ।
किञ्चित्सास्थिवधं देयं प्राणायामस्त्वनस्थिके ॥२७५ वृक्षगुल्मलतावीरुच् छेदने जप्यमृशतम् ।
स्यादोषधिवृथाच्छंदे क्षीराशी गोनुगोदिनम् ॥ २७६ पुंश्चलीवानरखरैर्दष्टश्वोष्ट्रादिवायसैः ।
।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ २७७ यन्मेरेत इत्याभ्यां स्कन्नं रेतोऽनुमन्त्रयेत् । स्तनान्तरं वोम्मध्यं तेनानामिकया पृशत् ॥ २७८ मयि तेज इतिच्छायां स्वां दृष्टाम्बुगतां जपेत् । गायत्रीम शुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ २७६ अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् । गर्दभं पशुमालभ्य नैर्ऋत्यं स विशुध्यति ॥ २८० भैक्षाग्निकार्य्यं त्यक्ता तु सप्तरात्रम नातुरः । कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥२८१
[[१३३०]]
- याज्ञवल्क्यस्मृतिः ।
।
उपस्थानं ततः कुर्य्यात् सं मा सिञ्चत्यनेन तु । मधुमांसाशने कार्य्यः कृच्छ्रः शेषव्रतानि च ॥ २८२ प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति । कृच्छत्रयं गुरुः कुर्य्याम्रियेत प्रहितो यदि ॥ २८३ औषधान्नप्रदानाद्यैभिषग्योगाद्युपक्रमैः ।
[[1]]
[ तृतीयो-
क्रियमाणोपकारे तु मृते विप्रे न पातकम् । विपाके गोवृषाणाश्च भेषजामिक्रियासु च ॥ २८४ महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षो मासमासीत स जापी नियतेन्द्रियः ॥ २८५ अभिशस्तो मृषा कृच्छ चरेदाग्नेयमेव वा । निर्वपेच पुरोडाशं वायव्यं पशुमेव वा ॥ २८६ अनियुक्तो भ्रातृजायां गच्छश्चान्द्रायणञ्चरेत् । त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशु यति ॥ २८७ त्रीन् कृच्छानाचरेद् व्रात्ययाजकोऽभिचरन्नपि । वेदप्लावी यवाश्यब्दं त्यक्ता च शरणागतम् ॥२८८ गोष्ठे वसन् ब्रह्मचारी मासमेकं पयोव्रतः । गायत्री जापनिरतो मुच्यते सत्प्रतिग्रहात् ॥ २८६ प्राणायामी जले स्नात्वा खरयानोष्ट्र्यानगः ।
नग्नः स्नात्वा च (सुप्त्वा) भुक्का च गत्वा चैव दिवा स्त्रियम् २६०
गुरु त्वंकृत्य हुंकृत्य विप्रं निर्जित्य वादतः । हत्वावबध्य वा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ २६१ विप्रदण्डोद्यमे कृच्छ्रस्वतिकृच्छ्रो निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते २६२ऽध्यायः ] प्रायश्चित्ताध्याये प्रायश्चित्तप्रकरणवर्णनम् । १३३१
देश कालं वयः शक्ति पापं चावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥ २६३
दासी कुम्भं बहिर्मामान्निनयेयुः स्ववान्धवाः ।
पतितस्य वहिष्कुर्युः सर्वकार्येषु चैव तम् ॥ २६४
चरितव्रत आयाते निनयेरन्नवं घटम् ।
॥
जुगुप्सेरन्न चाप्येनं संपिवेयुश्च सर्वशः ॥ २६५ पतितानामेष एव विधिः स्त्रीणां प्रकीर्तितः । वासो गृहान्तिके देयमन्नं वासः सरक्षणम् ॥ २६६ नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । विशेषपतनीयानि स्त्रीणामेतान्यपि ध्रुवम् ॥ २६७ शरणागतबालस्त्रीहिंसकान् सं (पिवेन्न) वसेन तु । चीर्णव्रतानपि सदा कृतघ्नसहितानिमान् ॥२६८ घटेऽपवर्जिते ज्ञाति मध्यस्थः प्रथमं गवाम् । प्रदद्यात् यवसं गोभिः सत्कृतस्य हि सत्क्रिया ॥ २६६ विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् । अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥ ३०० त्रिरात्रोपोषितो जप्त्वा ब्रह्मा त्वघमर्षणम् । अन्तर्जले विशुध्येत गां दत्त्वा च पयस्विनीम् ॥३०१ लोमभ्यः स्वाहेत्यथवा दिवस मारुताशनः । जले स्थित्वाभिजुहुयाच्चत्वारिंशद्धृताहुतीः ॥ ३०२ त्रिरात्रोपोषितो भू(हु) त्वा कुष्माण्डीभिर्धृतं शुचिः । सुरापः स्वर्णहारी तु रुद्रजापो जले स्थितः ॥३०३
[[८४]]
[[१३३२]]
याज्ञवल्क्यस्मृतिः ।
सहस्रशीर्षा (दि) जापी तु मुच्यते गुरुतल्पगः ।
[ तृतीया-
गौर्देया कर्म्मणोऽस्यान्ते पृथगेभिः पयस्विनी ॥३०४
प्राणायामशतं कायं सर्वपापापनुत्तये ।
उपपातकजाताना (मनिर्दिष्टस्य ) सनादिष्टस्य चैव हि ॥ ३०५
ओङ्काराभिष्टतं सोमसलिलं पावनं पिवेत् ।
॥
कृत्वा तु (कृतोपवासनं रेतोविण्मूत्रप्राशनश्च द्विजात्तमः ॥ ३०६ निशायां वा दिवा वाऽपि यदज्ञानकृतं त्वघम त्रैकाल्य सन्ध्याकरणात्तत् सर्वं विप्रणश्यति ॥ ३०७
शुक्रिया (मन्त्रविशेप) रण्यकजपो गायत्र्याश्च विशेषतः । सर्वपापहरा ह्येते रुद्रैकादशिनी तथा ॥ ३०८ यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः । तत्र तत्र तिलैर्होमो गायत्र्या (जप) वार्चनन्तथा ॥ ३०६ वेदाभ्यासरतं क्षान्तं महा (पंच) यज्ञक्रियारतम् । न श्पृशन्तीह पापानि महापातकजान्यपि ॥ ३१० वायुभक्षो दिवा तिष्ठत्रात्रिं नीत्वाप्सु सूर्यदृक् । जप्पा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाते ॥ ३११
ब्रह्मचय्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता । अहिंसास्तेयमाधुर्य्यदमाश्चेति यमाः स्मृताः ॥ ३१२ स्नानमौनोपवासेज्यास्वाध्यायोपस्थ निप्रहाः ।
नियमागुरुशुश्रूपाशौचाकोधप्रमातृताः ॥ ३१३ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेऽहन्युपवसेत् कृच्छ्रं सान्तपनं चरन् ॥ ३१४
ऽध्यायः ] प्रायश्चित्ताध्याये प्रायश्चित्तप्रकरणवर्णनम् । १३३३
पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं सहासान्तपनः स्मृतः ॥ ३१५ पर्णोदुम्बर राजीव बिल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतेः पर्णकृच्छ्र उदाहृतः ॥ ३१६
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ उदाहृतः ॥३१७ एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ॥ ३१८ यथाकथवित्त्रिगुणः प्राजापत्योऽयमुच्यते
अयमेवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजिनः ॥ ३१६
कृच्छ्रातिकृच्छः पयसा दिवसानेकविंशतिम् ।
द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ ३२० पिण्याका चामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥ ३२१ एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् । तुलापुरुष इत्येष ज्ञेयः पाञ्चदशाह्निकः ॥ ३२२ तिथिवृद्धया चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मितान् । एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरेत् ॥ ३२३ जथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥३२४ कुर्यात्तिषवणस्नायी कृच्छ्र चान्द्रायणं तथा ।
पवित्राणि जपेत् पिण्डान् गायध्या चाभिमन्त्रयेत् ॥३२५
[[१३३४]]
याज्ञवल्क्यस्मृतिः ।
अनादिषु पापेषु शुद्धिश्चान्द्रायणेन तु ।
।
[ तृतीया-
धर्मार्थं यश्वरेदेतचन्द्रस्यैति स लोकताम् ॥ ३२६ कृच्छ्रकृद्धर्म्मकामस्तु महतीं श्रियमाप्नुयात् । यथा गुरुऋतुफलं प्राप्नोति च समाहितः ॥ ३२७ श्रुत्वेमानृपयो धर्मान् याज्ञवल्क्येन भाषितान् । इदमूचुर्महात्मानं योगीन्द्रममितौजसम् ॥३२८ य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः । इहलोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३२६ विद्यार्थी प्राप्नुयाद्विद्यां धनकामोधनन्तथा । आयुस्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥३३० लोकत्रयमपि ह्यस्माद् यः श्राद्ध श्रावयिष्यति । पितॄणां तस्य तृप्तिः स्यादक्षया नात्र संशयः ॥ ३३१ ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् । वैश्योऽपि धान्यधनवानम्य शास्त्रम्य धारणात् ॥३३२ य इदं श्रावयेद्विप्रान् द्विजान् पर्वसु पर्वसु । अश्वमेधफलं तस्य तद्भवाननुमन्यताम् ॥३३३ श्रुत्वतद्याज्ञवल्क्योऽिपि प्रीतात्मा मुनिभाषितम् । एवमस्त्विति होवाच नमस्कृत्य स्वयम्भुवे ॥३३४ इति याज्ञवल्क्यीये धर्मशास्त्रे प्रायश्चित्त प्रकरणनाम
तृतीयोऽध्यायः ।
इति याज्ञवल्क्यस्मृतिः समाप्ता ।
ॐ तत्सत्
॥ अथ ॥
कात्यायनस्मृतिः
॥ श्रीसामवेदाय नमः ॥
प्रथमः खण्डः ।
अथाचाराध्यायः
तत्रादौ यज्ञोपवीतकप्रकरणवर्णनम्।
अथातो गोभिलाक्तानामन्येषां चैव कर्मणाम् । अस्पष्टानां विधि सम्यग्दर्शयिष्ये प्रदीपवत् ॥१ त्रिवृदृर्ध्ववृतं कार्यं तन्तुत्रयमधोवृतम् । त्रिवृत्तञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥ २ पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम । तद्धार्यमुपवीतं स्यान्नातोलम्बं नचोच्छितम ॥३ सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवातश्च यत् करोति न तत्कृतम् ॥४ त्रिः प्राश्यापो द्विरुन्मृज्य मुखमेतान्युपस्पृशेत् ।
आस्यनामाक्षिकणांश्च नाभिवक्षः शिरोंऽशकान् ॥५
[[१३३६]]
कात्यायनस्मृतिः ।
संहताभित्र्यङ्गुलिभिराश्यमेवमुपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैवमुपस्पृशेत् । अङ्गुष्ठानामिकाभ्याञ्च चक्षुः श्रोत्रं पुनः पुनः ॥ ६ कनिष्ठाष्ठयोर्माभि हृदयं तु तलेन वै ।
सर्वाभिस्तु शिरः पश्चाद्वाह चाग्रेण संस्पृशेत् ॥७
॥७
यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते ।
[ प्रथमः
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥८ यत्रदिनियमो न स्याज्जपहोमादिकर्मसु ।
तिस्रस्तत्र दिशः प्रोक्ता ऐन्द्रीसौम्यापराजिताः ॥६
तिष्ठन्नासीनः प्रह्वो वा नियमो यत्र नेहशः । तदासीनेन कर्त्तव्यं न प्रण न तिष्ठता ॥१० गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥११
दृष्टिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिका ह्येतावृद्धौ पूज्याश्वपोश ॥१२ कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥१३
प्रतिमासु च शुभ्रासु लिखित्वा वा पटादिषु । अपिवाक्षतपुजेषु नैवेद्येश्व पृथग्विधैः ॥१४
कुड्यलमां वसोर्द्वारा सप्तधारां घृतेन तु ।
कारयेत् पश्वधारां वा नातिनीचां न चोच्छ्रिताम् ॥१५
खण्डः ]
नित्यनमित्तिक (श्राद्ध) कर्मवर्णनम् ।
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु भक्त्या श्राद्धमुपक्रमेत् ॥१६ अनिष्टा तु पितं च्छाद्धे न कुर्यात कर्म वैदिकम् ।
G
तत्रापि मातरः पूर्व पूजनीयाः प्रयत्नतः ॥ १७ वशिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्योऽत्र निरामिषः । अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ॥१८
इति प्रथमः खण्डः ।
॥ द्वितीयः खण्डः ॥
अथ नित्यनैमित्तिक (श्राद्ध) कर्म वर्णनम् ।
प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा । उपवेश्य कुशान् दद्यादृजुनैव हि पाणिना ॥१ हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः । समूलाः पितृदेवत्याः कल्मापा वैश्वदेविकाः ॥२ हरिता वै सपिञ्जलाः शुष्काः स्निग्धाः समाहिताः । रन्निमात्राः प्रमाणेन पितृतीर्थेन संस्तृताः ॥३ पिण्डार्थं ये स्तृता दर्भास्तर्पणार्थं तथैव च । धृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते ॥४ दक्षिणं पातयेज्जानु देवान् परिचरन् सदा । पातयेदितरज्जानु पितन् परिचरन्नपि ॥५
[[१३३७]]
[[१३३८]]
कात्यायनस्मृतिः ।
निपातो नहि सव्यस्य जानुनो विद्यते क्वचित् । सदा परिचरेद्भक्त्या पितृनप्यत्र देववत् ॥६ पितृभ्य इति दत्तेष उपवेश्य कुशेषु तान् । गोत्रनामभिरामन्त्रय पितृनधं प्रदापयेत् ॥७ नात्रापसव्यकरणं न पित्र्यं तीर्थ मिष्यते । पात्राणां पूरणादीनि देवनेव हि कारयेत ॥८ ज्येष्ठोत्तरकरान् युग्मान करायामपवित्रकान् । कृत्वाध्यं संप्रदातव्यं नैकैकस्यात्र दीयते ॥६ अनन्तर्गर्भिणं सायं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञयं पवित्रं यत्र कुत्रचिन ॥ १४ एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम् । आज्यस्योत्पवनार्थं यत्तदप्येतावदेव तु ॥११ एतत्प्रमाणमेके कौशीमेवाद्रमंजरीम ।
शुष्कां वा शीर्णकुसुमां पिञ्जली परिचक्षते ॥१२ पित्र्यमन्त्रानु द्रवण आत्मालम्भेऽधमेक्षणे । अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणं ॥ १३ मार्जार मशकस्पर्श आकष्ट कोवसम्भवे । निमित्तेष्वेषु सवत्र कम कुर्वन्नपः स्पृशन ॥ १४
इति द्वितीयः खण्डः ।
[ द्वितीयः-
खण्डः ]
त्रिविधक्रियावर्णनम्।
॥ तृतीयः खण्डः ।
अथ त्रिविधक्रियावर्णनम् ।
अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम् ।
अक्रिया च परोक्ता च तृतीया चायथाक्रिया ॥१
स्वशाखाश्रयमुत्सृज्य परशाखाश्रयञ्च यः ।
।
कर्तुमिच्छति दुर्मेधा मोघं तत्तम्य चेष्टितम् ॥२ यन्नाम्नातं स्वशाखायां परोक्तमविरोधि च । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवन ॥ ३ प्रवृत्तमन्यथा कुर्याद्यदि मोहान कथञ्चन । यतस्तदन्यथाभूतं तत एव समापयेत् ॥४ समाप्ते यदि जानीयान्मयैतन्यथाकृतम् । तावदेव पुनः कुर्यान्नवृत्तिः सर्वकर्मणः ॥५ प्रधानम्याक्रिया यत्र साङ्गं तन क्रियते पुनः । तदङ्गस्याक्रियायाश्च नावृत्तिर्नव तत्क्रिया ॥ मधुमध्वितियस्तत्र त्रिर्जपोऽशितुमिच्छताम् । गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्जितः ॥७ नचाश्नत्सु जपेन कदाचिन पितृसंहिताम् । अन्य एव जपः कार्यः सोमसामादिकः शुभः ॥८ यस्तत्र प्रकरोऽन्नस्य तिलवद् यववत्तथा । उच्छिष्मन्निधौ सोऽत्र तृप्तेषु विपरीतकः ॥ सम्पन्नमिति तृप्ताः स्थ प्रश्नस्थाने विधीयते । सुसम्पन्नमिति प्रोक्तं शेषमन्नं निवेदयेत् ॥ १०
[[१३३६]]
[[१३४०]]
कात्यायनस्मृतिः ।
प्रागष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् ।
अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति पात्रतः ॥ ११ द्वियीयञ्च तृतीयञ्च मध्यदेशाप्रदेशयोः । मातामहप्रभृतींस्त्रीनेतेवामेव वामतः ॥ १२ सर्वस्मादन्नमुद्धृत्य व्यञ्जनैरुपसिच्य च ।
।
संयोज्य यवकर्कन्धूदधिभिः प्राङ्मुखस्ततः ॥१३ अवनेजनवत् पिण्डान् दत्त्वा बिल्वप्रमाणकान । तत्पात्रक्षालनेनाथ पुनरण्यवनेजयेन ॥१४
इति तृतीयः खण्डः ।
॥ चतुर्थः खण्डः ॥
अथ श्राद्धप्रकरणवर्णनम् ।
उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः । भवेदधश्चाधराणामधरश्राद्धकर्मणि ॥ १ तस्माच्छ्राद्धषु सर्वेषु वृद्धिमत्स्वितरेषु च । मूलमध्यायदेशेषु ईषत्सक्तांश्च निर्वपेत ॥२
गन्धादीन्निः क्षिपेत्तूष्णीं तत आचामयेद् द्विजान् । अन्यत्राप्येष एव स्याद्यवादिरहितो विधिः ॥३
दक्षिणावने देशे दक्षिणाभिमुखस्य च ।
दक्षिणाग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः ॥४
[ चतुथ्खण्डः ]
श्राद्धप्रकरणवर्णनम् ।
अथाप्रभूमिमा सिञ्चेत् सुसंप्रोक्षितमस्त्विति । शिवा आपः सन्त्विति च युग्मानेवोदकेन च ॥५ सौमनस्यमस्त्विति च पुष्पदानमनन्तरम् । अक्षतश्चारिष्टं चास्त्वित्यक्षतान् प्रतिपादयेत् ॥ ॥६ अक्षय्योदकदानं तु अर्घ्यदानवदिष्यते । षष्ठैव नित्यं तत् कुर्यान्न चतुर्थ्या कदाचन ॥७ अक्षय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य तु निवृत्तिः स्यात् स्वधावाचन एव च ॥८ प्रार्थनासु प्रतिप्रोक्ते सर्वास्येव द्विजोत्तमैः पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृन् ॥६ युग्मानेव स्वस्ति वाच्यमङ्गुष्ठाग्रग्रहं सदा । कृत्वा धुर्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ॥१० एपः श्राद्धविधिः कृत्स्न उक्तः संक्षेपतो मया । ये विन्दन्ति न मुह्यन्ति श्राद्धकर्मसु ते क्वचित् ॥११ इदं शास्त्रच गुह्यश्च परिसंख्यानमेव च ।
वशिष्ठोक्तञ्च यो वेद स श्राद्धं वेद नेतरः ॥१२
इति चतुर्थः खण्डः ।
॥ पञ्चमः खण्डः ॥
अथ श्राद्धप्रकरणवर्णनम् ।
असकृत्वानि कर्माणि क्रियेरन् कर्मकारिभिः ।
प्रतिप्रयोगं नेताः स्युर्मातरः श्राद्धमेव च ॥ १
[[१३४१]]
[[१३४२]]
कात्यायनस्मृतिः ।
[ पञ्चमः
आधाने होमयोश्चैव वैश्वदेवे तथैव च । बलिकर्मणि दर्श च पौर्णमासे तथैव च ॥ २ नवयज्ञे च यज्ञज्ञावदन्त्येवं मनीषिणः । एकमेव भवेच्छ्राद्धमेतेषु न पृथक् पृथक् ॥ ३ नाष्टकासु भवेच्छाद्ध न श्राद्ध श्राद्धमिष्यते । न सोष्यन्तीजातकर्म प्रोषितागतकर्मसु ॥४ विवाहादिः कर्मगणो य उक्तो गर्भाधानं शुश्रुम यस्य चान्ते । विवाहादावेकमेवात्र कुर्याच्छाद्ध नादौ कर्मणः कर्मणः स्यात् ॥५
प्रदोषे श्राद्धमेकं स्याद्गोनिष्कामप्रवेशयोः । न श्राद्ध युज्यते कर्त्तुं प्रथमे पुष्टिकर्मणि ॥ ६ हलाभियोगादिषु तु पट्सु कुर्यात पृथक् पृथक् । प्रतिप्रयोगमध्येवानादावेकन्तु कारयेत ॥७ वृहत्पत्रक्षुद्रपशुस्वस्त्यर्थं परिविन्यतोः । सूर्येन्द्वोः कर्मणी ये तु तयोः श्राद्ध न विद्यते ॥८ न दशाग्रन्थिके चैव विपवद्दष्टकर्मणि । कृमिदष्टचिकित्सायां नैव शेषेषु विद्यते ॥६ गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छ्राद्धमादौ न पृथगादिपु ॥ १० यत्र तत्र भवेच्छ्राद्धं तत्र तत्र च मातरः । प्रासङ्गिकमिदं प्रोक्तमतः प्रकृतमुच्यते ॥११
इति पञ्चमः खण्डः !
खण्डः ]
अनेककमवर्णनम् ।
[[१३४३]]
॥ पष्ठः खण्डः ॥ अथानेककर्मवर्णनम् ।
आधानकाला ये प्रोक्तास्तथा यश्चाग्नियोनयः ।
तदाश्रयोऽग्निमादध्यादग्निमानग्रजी यदि ॥१ दाराधिगमनाधाने यः कुर्यादयजाग्रिमः । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ २ परिवित्तिपरिवेत्तारौ नरकं गच्छतो ध्रुवम । अपि चीर्णप्रायश्चित्तौ पादोनफलभागिनौ ॥३ देशान्तरस्थक्ली वेंकट्टपणान सहोदरान् । वेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः ॥४ जडमूकान्धवधिरकुव्जवामनकुण्ठकान् । अतिवृद्धानभायश्च कृपिसक्तान्नृपस्य च ॥५ धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा । कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति ॥६ धनवार्धुषिकं राजसेवकं कमकस्तथा । प्रोषितञ्च प्रतीक्षेत वर्षत्रयमपि त्वरन् ॥७ प्रोषितं यद्यशृण्वानमादृवं समाचरेत् । आगते तु पुनस्तस्मिन् पाई तच्छुद्धये चरेत् ॥८ लक्षणे प्राग्गतायास्तु प्रमाणं द्वादशाङ्गुलम् । तन्मूलसक्ता योदीची तस्या एतन्नोत्तरम् ॥ उदग्गतायाः संलग्ना : शेपाः प्रादेशमात्रिकाः । सप्तसप्ताङ्गुलस्त्यक्ता कुशेनैव समुल्लिखेत् ॥१०
[[१३४४]]
कात्यायनस्मृतिः ।
मानक्रियायामुक्तायामनुक्ते मानकर्त्तरि ।
मानकृद्यजमानः स्याद्विदुषामेव निश्चयः ॥ ११ पुण्यमेवादधीताग्निं स हि सर्वैः प्रशस्यते । अनदुर्धकत्वं यत्तस्य काम्यैस्तन्नीयते शमम् ॥१२ यस्य दत्ता भवेत् कन्या वाचा सत्येन केनचित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥१३ अनूढैव तु सा कन्यां पञ्चत्वं यदि गच्छति । न तथा व्रतलोपोऽस्य तेनैवान्या समुद्वहेत् ॥१४ अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् । तमग्निमात्मसान कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥ १५
इति पष्ठः खण्डः ।
[ सप्तमः
॥ सप्तमः खण्डः ॥
अथशमीगर्भाद्यनेकप्र रणवर्णनम् ।
अश्वत्था यः शमीगर्भः प्रशस्तोर्वीसमुद्भवः ।
तस्य या प्राङ्मुखी शाखा वादीची वार्ध्वगापि वा ॥१ अरणिस्तन्मयी प्राक्ता तन्मय्येवात्तरारणिः । सारवद्दारवञ्चत्रमे विली च प्रशस्यते ॥ २ संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते । अलाभे त्वशमीगर्भादुद्धरेदविलम्बितः ॥३ चतुर्विंशतिरङ्गुष्ठदैर्घ्यं षडपि पार्थिवम् ।
चत्वार उच्छये मानमरण्याः परिकीर्तितम् ॥४
ग्वण्डः ]
सयज्ञस्रुवसमिधलक्षणवर्णनम् ।
॥६
अष्टाङ्गुलः प्रमस्थः स्याच्चत्रं म्याद्वादशाङ्गुलम् । ओवीली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ॥५ अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्र यत्रोपदिश्यते । तत्र तत्र वृहत्पर्वग्रन्थिभिर्मिनुयात् सदा ॥६ गोवालेः शणसंमिश्रैस्त्रिवृत्तममलात्मकम् । व्यामप्रमाणं नेत्रं स्यात् प्रमथ्यस्तेन पावकः ॥७ मूर्द्धाक्षिकर्णवक्ताणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राप्येतानि द्वयङ्गुष्ठं वक्ष उच्यते ॥८ अङ्गुष्ठमात्रं हृदयं त्र्यङ्गुष्ठमुदरं स्मृतम् । एकाष्ठा कटिज्ञेया द्वौ वस्ति द्वौ च गुह्यकम् ॥ ऊरू जङ्घ च पादौ च चतुथ्येकैर्यथाक्रमम् । अरण्यवयवाह्येते याज्ञिकैः परिकीर्तिताः ॥१० यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते । अस्यां यो जायते वह्निः स कल्याणकृदुच्यते ॥११ अन्येषु ये तु मथ्नन्ति ते रोगभयमाप्नुयुः । प्रथमे मन्थने त्वेष नियमो नोत्तरेषु च ॥ १२ उत्तरारणिनिष्पन्नः प्रमन्थः सर्वदा भवेत् । योनिसङ्करदोषेण युज्यते ह्यन्यमन्थकृत् ॥१३ आर्द्रा सशुषिरा चैव घूर्णाङ्गी पाटिता तथा । न हिता यजमानानामरणिश्चोत्तरारणिः ॥ १४
इति सप्तमः खण्डः ।
[[१३४५]]
[[१३४६]]
कात्यायनस्मृतिः ।
[ अष्टमः
॥ अष्टमः खण्डः ।
अथ सयज्ञम्रवसमिधलक्षणवर्णनम् ।
परिधायाहतं वासः प्रावृत्य च यथाविधि । विभृयात् प्राङ्मुखो यन्त्रमावृता वक्ष्यमाणया ॥१ चत्रवृध्ने प्रमन्थानं गाढं कृत्वा विचक्षणः । कृत्वोत्तराप्रामरणिं तद्वृध्नमुपरिन्यसेत् ॥२ चत्राधेः कीलकायस्था मोविलीमुद्गग्रकाम् । विष्टम्भाद्धारयेद्यन्त्रं निष्कम्पं प्रयतः शुचिः ॥३ त्रिरुद्वेष्ट्याथ नेत्रेण चत्रं पत्न्यो हतांशुकाः । पूर्व मथ्नन्त्यरण्यान्त्याः प्राच्यग्नेः स्याद्यथा च्युतिः ॥४ नैकयापि विना कार्यमाधानं भायया द्विजैः । अकृतं तद्विजानीयात् सव्र्व्वान्वाचारभन्ति यत् ॥५ वर्णज्यैष्ठ्यन वह्वीभिः सवर्णाभिश्च जन्मतः । कार्य्यममिच्युतेराभिः साध्वीभिर्मथनं पुनः ॥ ६ नात्र शूद्र प्रयुञ्जीत न द्रोहपकारिणीम् । नचैवाव्रतस्थां नान्यपुंसा च सह सङ्गताम् ॥७ ततः शक्ततरा पश्चादासामन्यतरापिवा । उपेतानां वान्यतमा मन्थेदग्नि निकामतः ॥८ जातस्य लक्षणं कृत्वा तं प्रणीय समिध्य च । आधाय समिधं चैव ब्रह्माणं चोपवेशयेत् ॥
ऽध्यायः ]
सयज्ञस्रुवसमिधलक्षणवर्णनम् ।
[[१३४७]]
ततः पूर्णाहुति हुत्वा सर्वमन्त्रसमन्विताम् ।
।
गां दद्याद् यज्ञवास्त्वन्ते ब्रह्मणे वाससी तथा ॥ १० होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः । पाणिरेवेतरस्मिंस्तु स्रुचैवात्र तु हूयते ॥११ खादिरो वाऽथ पालाशो द्विवितस्तिः स्रुवः स्मृतः । स्रुग्वाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः ॥ १२ सुवा घ्राणवत् खातं द्वष्ठपरिमण्डलस्थलम् । जुह्वाः शराववत् खातं सनिव्र्व्वाहं पडलं कुर्य्यात् ॥१३ तेषां प्राक्शः कुशैः कार्य्यः संप्रमार्गोजुहषता । प्रतापनश्च लिप्तानां प्रक्षाल्योणेन वारिणा ॥१४ प्राचं प्राश्वमुदगग्ने रुद्गग्रं समीपतः । तत्तथासादयेद् द्रव्यं यद्यथा विनियुज्यते ॥१५ आज्यं हव्यमनादेशे जुहोति च विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥१६ नाङ्गादधिका ग्राह्या समित् स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न संकीटा न पाटिता ॥ १७ प्रादेशान्नाधिका नो न तथा न स्याद्विशाखिका । न सपर्णा न निव्वय्र्या होमेषु च विजानता ॥ १८ प्रादेशद्वय मिश्रमस्य प्रमाणं परिकीर्तितम् । एवंविधाः स्युरेवेह समिधः सर्वकर्मसु ॥ १६ समिधोऽष्टादशेध्मस्य प्रवदन्ति मनीषिणः । दर्शे च पौर्णमासे च क्रियास्वन्यासु विंशतिः २०
[[८५]]
[[१३४८]]
[ नवमः-
कात्यायनस्मृतिः ।
समिदादिषु होमेषु मन्त्रदेवतवर्जिता ।
॥
पुरस्ताश्चोपरिष्टाच्च हीन्धनार्थं समिद्भवेत् ॥२१ इध्मोऽप्येधार्थमाचार्यैर्हबिराहुतिषु स्मृतः ।
यत्र चास्य निवृत्तिः स्यात्तत् स्पष्टीकरवाण्यह्यम् ॥२२ अङ्गहोमस मित्तन्त्रसोष्यन्त्याख्येषु कर्मसु । येषां चैतदुपर्युक्तं तेषु तत्सदृशेषु च ॥ २३ अक्षभङ्गादिविपदि जलहोमादिकर्मणि । सोमाहुतिषु सर्वासु नैतेष्विध्म विधीयते ॥२४
इति अष्टमः खण्डः ।
॥ नवमः खण्डः ॥
अथ सन्ध्याकालाद्युद्दिश्य कर्मवर्णनम् ।
सूर्येऽस्तशैलमप्राप्ते षट्त्रिंशद्भिः सदाङ्गुलैः । प्रादुष्करणमग्नीनां प्रातर्भासाच दर्शनात् ॥ १ हस्तादूत्रं रविर्यावत् गिरिं हित्वा न गच्छति । तावद्धो मविधिः पुण्यो नात्येत्युदितहोमिनाम् ॥२ यावत् सम्यग् न भाव्यन्ते नभस्पृक्षाणि सर्वतः । न च लौहित्यमापैति तावत् सायश्च हूयते ॥३ रजोनीहारधूमाभ्रवक्षाप्रान्तरिते खौ । सन्ध्यामुद्दिश्य जुहुयाद् हुतमस्य न लुप्यते ॥४
[[1]]
खण्डः ]
सन्ध्याकालाद्युद्दिश्य कर्म वर्णनम् ।
॥७
[[१३४६]]
न कुर्यात् क्षिप्रहोमेषु द्विजः परिसमूहनम । विरुपाक्षश्च न जपेत् प्रवदञ्च विवर्जयेत् ॥५ पर्युक्षणश्च सर्वत्र कर्त्तव्यमदितेन्विति । अन्तं च वामदेवस्य गानं कुर्य्यादृचस्त्रिधा ॥६ अहोमकेष्वपि भवेद् यथोक्तं चन्द्रदर्शनम् । वामदेव्यं गणेष्वन्तं कल्पान्ते वैश्वदेविके ॥७ यान्यधस्तरणान्तानि न तेषु स्तरणं भवेत् । एककाय्यर्थिसाध्यत्वात् परिधीनपि वर्जयेत् ॥८ वहिः पर्य्यक्षणं चैव वामदेव्यजपस्तथा । क्रत्वाहृतिषु सर्वासु त्रिकमेतन्न विद्यते ॥६ हविष्येषु यवामुख्यास्तदनु त्रीहयः स्मृताः । माषको द्रवगौरादिसर्व्वालाभेऽपि वर्जयेत् ॥ १० पाण्याहृतिर्द्वादशपर्वपारिका कंसादिना चेत् स्रुवमात्रपावका । देवेन तीर्थेन च हूयते हविः स्वङ्गारिणि स्वर्चिपि तच्च पावके ॥ ११
योऽनर्चिपि जुहोत्यग्नौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयावी च दरिद्रश्च स जायते ॥ १२ तस्मात् समिद्ध होतव्यं नासमिद्ध कदाचन । आरोग्यमिच्छतायुश्च श्रियमात्यन्तिकीम्पराम् ॥१३ होतव्ये चहुत चैव पाणिसूर्परफ्यदारुभिः । न कुर्यादभिधमनं कुर्याद्वा व्यजनादिना ॥१४ मुखनेके धमन्त्यभि मुखाद्ध्येषोऽभ्यजायत । नाभि मुखनेति च यल्लौकिके योजयन्ति तत् ॥१५ इति नवमः खण्डः ।
[[१३५०]]
कात्यायनस्मृतिः ।
॥ दशमः खण्डः ॥
अथ प्रातःकालिकस्नानादिक्रियावर्णनम् । यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः । दन्तान् प्रक्षाल्य नद्यादौ गृहे चेत्तदमन्त्रवत् ॥१ नारदाद्युक्तवाक्षं यदाष्टाङ्गुलमपाटितम् । सत्वचं दन्तकाष्ठं स्यात्त इमेण प्रधावयेत् ॥ २ उत्थाय नेत्रे प्रक्षाल्य शुचिर्भूत्वा समाहितः । परिजप्य च मन्त्रेण भक्षयेद्दन्तधावनम् ॥३ आयुर्बलं यशोवर्थः प्रजाः पशून् वसूनि च । ब्रह्मप्रज्ञाभ्व मेधाश्व त्वन्नो देहि वनस्पतं ॥४ यव्यद्वयं श्रावणादि सर्व्वा नद्यो रजस्वलाः । वासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः ॥५ धनुःसहस्राण्यष्टौ तु गतिर्यासां न विद्यते । न ता नदीः शब्दवहा गर्त्तान्ताः परिकीर्तिताः ॥ उपाकर्म्मणि चोत्सर्गे प्रेतस्नाने तथैव च । चन्द्रसूर्य्यग्रहे चैव रजोदोषो न विद्यते ॥७ वेदाश्छन्दांसि सर्व्वाणि ब्रह्माद्याश्च दिवौकसः । जलार्थिनोऽथ पितरो मरीच्याद्यास्तथयः ॥८ उपाकमणि चोत्सर्गे नानाथं ब्रह्मवादिनः । यियासूननुगच्छन्ति सन्तुष्टाः स्वशरीरिणः ॥ समागमस्तु यत्रैषां तत्र इत्यादयोमलाः ।
नूनं सर्व्वे भयं यान्ति किमुतकं नदीरजः ॥१०
दक्षमः-खण्डः ] प्रातः कालिकस्नानादिक्रियावर्णनम् ।
ऋषीणां सिच्यमानानामन्तरालं समाश्रितः । संपिबेद् यः शरीरेण पषेन्मुक्तजलच्टाः ॥ ११ विद्यादीन् ब्राह्मणः कामान् वरादीन् कन्यका ध्रुवम् । आमुष्मिकान्यपि सुखान्याप्नुयात् स न संशयः ॥ १२
अशुध्यशुचिना दत्तमाममन्तर्जलादिना । अनिर्गतदशाहास्तु प्रेता रक्षांसि भुञ्जते ॥ १३ स्वर्धन्यम्भः समानि स्युः सर्वाण्यम्भांसि भूतले । कूपस्थान्यपि सोमार्कग्रहणे नात्र संशयः ॥ १४
इति दशमः खण्डः ।
[[१३५१]]
इति कर्मप्रदीपपरिशिष्ठे कात्यायनविरचिते प्रथमः प्रपाठकः ।
॥ एकादशः खण्डः ॥
अथ सन्ध्योपासनविधिवर्णनम् ।
अत ऊर्ध्वं प्रवक्ष्यामि सन्ध्योपासनकं विधिम् । अनर्हः कर्मणां विप्रः सन्ध्याहीनो यतः स्मृतः ॥ १ सव्ये पाणौ कुशान् कृत्वा कुर्यादाचमनक्रियाम् । हस्वाः प्रचरणीयाः स्युः कुशा दीर्घास्तु वर्हिषः ॥२ दर्भाः पवित्रमित्युक्तमतः सन्ध्यादिकर्मणि । सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः ॥ ३
[[१३५२]]
कात्यायनस्मृतिः ।
रक्षयेद्वारिणात्मानं परिक्षिप्य समन्ततः ।
शिरसो मार्जनं कुर्यात् कुशैः सोदकविन्दुभिः ॥४ प्रणवो भूर्भुवः स्वश्च सावित्री च तृतीयका । अब्दैवत्यं व्यचचैव चतुर्थमिति मार्जनम् ॥५ भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्ययाः । महर्जनस्तपः सत्यं गायत्री च शिरस्तथा ॥ ६ आपोज्योतीरसोमृतं ब्रह्मभूर्भुवः खरतिशिरः । प्रतीप्रतीकं प्रणवमुच्चारयेदन्ते च शिरसः ॥ ७ एता एतां सहानेन तथैभिर्द्दशभिः सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥८ करेणोद्धृत्य सलिलं घ्राणमासज्य तत्र च । जपेदनायता सुर्वा त्रिः सकृद्वाघमर्षणम् ॥६ उत्थायार्क प्रतिप्रोहेत्त्रिकेणाञ्जलिनाम्भसः । उच्चित्रमृग्द्वयेनाथ चोप तिष्ठेदनन्तरम् ॥ १० सन्ध्याद्वयेऽप्युपस्थानमेतदाहुर्मनीषिणः ।
[ एकादशः-
मध्ये वह उपर्यस्य विभ्राडादीच्छया जपेत् ॥ ११ तदसंसक्तपाणिर्वा एकापादर्द्ध पादपि । कुर्यात् कृताञ्जलिर्वापि उद्वाहुरथापि वा ॥ १२ यत्र स्यात् कृच्छ्रभूयस्त्वं श्रेय सोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तत्र कृच्छाच्छ्र यो ह्यवाप्यते ॥ १३ तिष्ठेदुदयनात् पूर्वा मध्यमामपि शक्तितः । आनीतोडुद्गमाश्चान्त्यां सन्ध्यां पूर्वात्रकं जपन् ॥१४
खण्डः ]
सर्पणविधिवर्णनम् ।
एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यत्र तिष्ठति । यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ॥१५ सन्ध्यालोपाञ्च चकितः स्नानशीलश्च यः सदा । तं दोषानोपसर्पन्ति गरुत्मन्तमिवोरगाः ॥२६ वेदमादित आरभ्य शक्तितोऽहर हर्ज्जपेत् । उपतिष्ठेत्ततो रुद्रसर्वाद्वा वैदिकाज्जपात् ॥१७
इति एकादशः खण्डः ।
॥ द्वादशः खण्डः ॥ अथ तर्पणविधिवर्णनम् ।
अथाद्भिस्तर्पयेद्देवान् सतिलाभिः पितृनपि ।
नमोऽन्ते तर्पयामीति आदावोमीति च ब्रुवन् ॥१
[[१३५३]]
ब्रह्मा विष्णुं रुद्रं प्रजापतिं वेदान् देवांश्छन्दांस्यृषीन् पुराणानाचार्यान् गन्धर्वानितरान्मासं संवत्सरं सावयवं देवीरप्सरसो देवानुगान्नागान् सागरान् पर्वतान् सरितो दिव्यान् मनुष्यानितरान् मनुष्यान् यक्षान् रक्षांसि सुपर्णान् पिशाचान् पृथिवीमोषधीः पशून् वनस्पतीन् भूतग्रामं चतुर्विधमित्युपवीत्यथप्राचीनावीती यमं यमपुरुषान् कव्यवाड़नलं सोमं यममर्य्यमणमनिष्वात्तान् सोमपीथान् वर्हिषदोऽथ स्वान् पितॄन् सकृत् सकृन्मातामाहांश्चेति प्रतिपुरुषमभ्यस्ये ज्येष्ठभ्रातृश्वशुरपितृव्यमातुलांश्च पितृवंशमातृवंशौ ये चान्ये मत्त उदक महन्ति तांस्तर्पयामीत्ययमवसानाञ्जलिरथ श्लोकाः १.२
[[१३५४]]
कात्यायनस्मृतिः ।
[ त्रयोदशः
छायां यथेच्छेच्छरदातपातः परः पिपासुः क्षुधितोऽलमन्नम् । बालो जनित्रीं जननी च बालं योषित् पुमांसं पुरुषश्च योषाम् ॥३
तथा सर्वाणि भूतानि स्थावराणि चराणि च । विप्रादुदकमिच्छन्ति सर्वाभ्युदयकृद्धि सः ॥४ तस्मात् सदैव कर्तव्यमकुर्वन्महतैनसा । युज्यते ब्राह्मणः कुर्वन्विश्वमेतद्विभर्त्ति हि ॥५ अल्पत्वाद्धोमकालस्य बहुत्वात् स्नानकर्मणः । प्रातर्न तनुयात् स्नानं होमलोपो हि गर्हितः ॥
इति द्वादशखण्डः ।
॥ त्रयोदशखण्डः ।
अथ पञ्चमहायज्ञविधिवर्णनम् ।
पञ्चानामथ सत्राणां महतामुच्यते विधिः ।
यैरिष्टा सततं विप्रः प्राप्नुयात् सद्म शाश्वतम् ॥१
देवभूतपितृब्रह्ममनुष्याणामनुक्रमात् । महासत्राणि जानीयात् एवेह महामखाः ॥२ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो वलिभतो नृयज्ञो ऽतिथिपूजनम् ॥२ श्राद्ध वा पितृयज्ञः स्यात् पित्र्यो बलिरथापि वा । यश्व श्रुतिजयः प्रोक्तो ब्रह्मयज्ञः स वोच्यते ॥४ स चार्वाक् तपणात् कायः पश्चाद्वा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यत्रर्ती निमित्तकात् ॥५ अप्येकमाशयेद्विप्रं पितृयज्ञार्थसिद्धये ।
॥५
अदेवं नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ॥६
खडः ]
पञ्चमहायज्ञविधिवर्णनम् ।
अप्युद्धृत्य यथाशक्त्या किश्विदन्नं यथाविधि । पितृभ्योऽथ मनुष्येभ्यो दद्यादहरहर्द्विजे ॥७
[[१३५५]]
पितृभ्य इदमित्युक्ता स्वधाकारमुदीरयेत् । इन्तकारं मनुष्येभ्यस्तदर्द्ध निनयेदपः ॥८ मुनिभिर्द्विरसनमुक्तं विप्राणां मर्त्यवासिनां नित्यम् । अनि च तथा तमस्विन्यां सार्द्धप्रथमयामान्तः ॥ सायं प्रातर्वैश्वदेवः कर्तव्यो बलिकर्म च । अनश्नतापि सततमन्यथा किल्विषी भवेत् ॥ १० अमुष्मै नम इत्येवं बलिदानं विधीयते । बलिदानप्रदानार्थं नमस्कारः कृतो यतः ॥ ११ स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । स्वधाकारः पितॄणाभ्यहन्तकारो नृणां कृतः ॥ १२ स्वधाकारेण निनयेत् पित्र्यं बलिमतः सदा । तदध्येके नमस्कारं कुर्वते नेति गौतमः ॥१३ नावराद्धर्यावलयो भवन्ति महामार्जारश्रवणप्रमाणात् । एकत्र चेदविकृष्टा भवन्तीतरेतरसंसक्ताश्च ॥१४
इति त्रयोदशखण्डः ।
॥ चतुर्दशखण्डः ॥
अथ ब्रह्मयज्ञविधिवर्णनम् ।
अथ तद्विन्यासोवृद्धिपिण्डानिवोत्तरांश्चतुरोवली निदध्यात पृथिव्यै वायवे विश्वेभ्यो देवेभ्यः प्रजापतय इति सव्यत
[[१३५६]]
कात्यायनस्मृतिः ।”
ག
[ चतुवंशः
एतेषामेकैकमद्भ्य ओषधिवनस्पतिभ्य आकाशाय कामायेत्येतषामपि मन्यव इन्द्राय वासुकये ब्रह्मण इत्येतेषामपि रक्षोजनेभ्य इति सर्वेषां दक्षिणतः पितृभ्य इति चतुर्दश नित्या आशस्य प्रभृतयः काम्याः सर्वेषामुभयतोऽद्भिः परिषेकः पिण्डवश्च पश्चिमा प्रतिपत्तिः ॥१
न स्यातां काम्यसामान्ये जुहोति बलिकर्मणी । पूर्वं नित्य विशेषोक्तं जुहोति बलिकमणोः ॥२ कामान्ते च भवेयातां न तु मध्ये कदाचन । नैकस्मिन् कर्मणि तते कर्माण्यत्तायते यतः ॥ ३ अग्न्यादिर्गोतमाद्युक्तो होमः शाकल एव च । अनाहिताग्नेरप्येष युज्यते बलिभिः सह ॥४ स्पृष्ट्रापो वीक्षमाणोऽग्निं कृताञ्जलिपुटस्ततः । वामदेव्यजपात् पूर्वं प्रार्थये विनोदयम् ॥१ आरोग्यमायुरैश्वय्यं धीधृतिः शं बलं यशः । ओजो वच्चेः पशून् वीयं ब्रह्म ब्रह्मण्यमेव च ॥ ६ सौभाग्यं कमसिद्धिभ्व कुलज्यैष्ठच सुकर्तृताम् । सर्वमेतत् सर्वसाक्षिन् द्रविणोदरिरीहिणः ॥७
न ब्रह्मयज्ञादधिकोऽस्ति यज्ञो न तत्प्रदानात् परमस्ति दानम् । सर्वे तदन्ताः क्रतवः सदानानान्तो दृष्टः कैश्चिदस्य द्विकस्य ॥८
ऋचः पठन् मधुपयः कुल्याभिस्तर्पयेत् सुरान् । घृतामृतौधकुल्या भिर्यंष्यपि पठन् सदा ॥६॥
खण्डः ]
ब्रह्मयज्ञविधिवर्णनम् ।
सामान्यपि पठन् सोमघृत कुल्याभिरन्वहम् । मेदः कुल्याभिरपिच आथर्वाङ्गिरसः पठन् ॥ १० मांसक्षीरौदनमधुकुल्याभिस्तर्पयेत् पठन् ।
वाकोवाक्यं पुराणानि इतिहासानि चान्वहम ॥११.
गादीनामन्यतममेतेषां शक्तितोऽन्वहम् ।
पठन् मव्वाज्यकुल्याभिः पितृनपि च तर्पयेत् ॥ १२ ते तृप्तास्तर्पयन्त्येनं जीवन्तं प्रेतमेव च । कामचारी च भवति सर्वेषु सुरसद्मसु ॥१३ जुर्व्वप्येनो न तं स्पृशेत पंक्तिञ्चैव पुनाति सः । यं यं क्रतुञ्च पठति फलभाक्तस्य तस्य च । वसुपूर्णा वसुमती त्रिर्दानफलमाप्नुयात् । ब्रह्मयज्ञादपि ब्रह्म दानमेवातिरिच्यते ॥१५
इति चतुर्दशखण्डः ।
[[१३५७]]
॥ पञ्चदशखण्डः ॥
अथ यज्ञविधिवर्णनम् ।
ब्रह्मणो दक्षिणा देया यत्र या परिकीर्तिता ।
कर्मान्तेऽनुच्यमानापि पूर्णपात्रादिका भवेत् ॥ १.
॥१ यावता बहुभोक्तस्तु तृप्तिः पूर्णेन विद्यते ।
नावरार्द्धथमतः कुर्यात् पूर्णपात्रमिति स्थितिः ॥ २
[[१३५८]]
कात्यायनस्मृतिः ।
विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्द्ध हरो भवेत् ।
स्वयञ्चेदुभयं कुर्यादन्यस्मै प्रातिपादयेत् ॥ ३ कुलविंजमधीयानं सन्निकृष्टं तथा गुरुम् ।
॥८
[ पश्चदशः
नातिक्रामेत् सदा दित्सन् य इच्छेदात्मनो हितम् ॥४ अहमस्मै ददामीति एवमाभाष्य दीयते । नैतावपृष्ट्रा ददतः पात्रेऽपि फलमस्ति हि ॥५ दूरस्थाभ्यामपि द्वाभ्यां प्रदाय मनसा वरम् । इतरेभ्यस्ततो देयादेष दानविधिः परः ॥६ सन्निकृटमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । यद्ददाति तमुल्लङ्घय ततस्तेयेन युज्यते ॥७ यस्य त्वेक गृहे मूर्खो दूरस्थ व गुणान्वितः । गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥८ ब्राह्मणाभिक्रमो नास्ति विप्रे वेदविवज्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ आज्यस्थाली च कर्तव्या तैजसद्रव्यसम्भवा । महीमयी वा कर्तव्या सर्वास्वाज्याहुतीषु च ॥ १० आज्यस्थाल्याः प्रमाणं तु यथाकामन्तु कारयेत् । सुदृढामत्रणां भद्रामाज्यस्थालीं प्रचक्षते ॥११ तिर्यगृद्ध समिन्मात्रा दृढा नातिवृहम्मुखी । मृन्मय्यौदुम्बरी वाऽपि चरुस्थाली प्रशस्यते ॥१२ स्वशाखोक्तः प्रसुस्विन्नो दग्धोऽकठिनः शुभः । नचातिशिथिलः पाच्यो न चख्धारसस्तथा ॥ १३
खण्डः ]
श्राद्ध तिथि विशेषेणविधिवर्णनम् ।
[[१३५६]]
॥१७
इध्मजातीयमिध्मार्द्ध प्रमाणं मेक्षणं भवेत् । वृत्तं चाङ्गुष्ठपृथ्वप्रमवदानक्रियाक्षमम् ॥१४ एषैव दव यस्तत्र विशषस्तमहं ब्रुवे । दवीं द्वयलपृथ्वमा तुरीयो नन्तमेक्षमम् ॥१५ मुषलोलूखले वार्क्षे स्वायते सुदृढे तथा । इच्छाप्रमाणे भवतः शूपं वैनवमेव च ॥ १६ दक्षिणं वामतो वाद्यमात्माभिमुखमेव च । करं करस्य कुर्वीत करणे न्यश्वकर्मणः ॥ १७ कृत्वाग्न्यभिमुखौ पाणी स्वस्थानस्थौ सुसंयतौ । प्रदक्षिणं तथासीनः कुर्यात् परिसमूहनम् ॥१८ बाहुमात्राः परिधय ऋजवः सत्वचोऽत्रणाः ।
यो भवन्ति शीर्णाप्रा एकेषान्तु चतुर्दिशम् ॥१६ प्रागप्रावभितः पश्चादुदप्रमथवापरम् । न्यसेत् परिधिमन्यब्चेदुदगमः स पूर्वतः ॥ २० यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् । यवानामिव गोधूमा व्रीहीणामिव शालयः ॥ २१
इति पञ्चदशखण्डः ।
॥ षोड़शखण्डः ॥
अथ श्राद्धतिथि विशेषेणविधिवर्णनम् ।
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः ॥ १
[[१३६०]]
कात्यायनस्मृतिः ।
। षोडशः
यदा चतुर्दशीयामं तुरीयमनुपूरयेत् ।
अमावास्या श्रीयमाणा तदैव श्राद्धमिष्यते ॥ २ यदुक्तं यदहस्त्वेव दर्शनं नैति चन्द्रमाः । अनयापेक्षया ज्ञेयं क्षीणे राजनि चेत्यपि ॥ ३ यञ्चोक्तं दृश्यमानेऽपि तच्चतुर्द्दश्यपेक्षया । अमावास्यां प्रतीक्षेत तदन्ते वापि निर्वपेत् ॥४ अष्टमेऽशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः । अमावास्याष्टमांशे च पुनः किल भवेदणुः ॥५ आग्रहायण्यमावास्या तथा ज्यैष्ठस्य या भवेत् । विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः ॥६
अत्रेन्दुराधे प्रहरेऽवतिष्ठते चतुर्थभागो न कलावशिष्टः । तदन्त एव क्षयमेति कृत्स्नमेवं ज्योतिश्चक्रविदोवदन्ति ॥ ७
यस्मिन्नब्दे द्वादशैकश्च यव्य-
स्तस्मिंस्तृतीयया परिदृश्यो नोपजायते ।
एवं चारं चन्द्रमसो विदित्वा
क्षीणे तस्मिन्नपराह्न च दद्यात् ॥८
सम्मिश्रा या चतुर्दश्या आमावास्या भवेत् कचित् । खर्वितां तां विदुः केचिद् गताध्वामिति चापरे ॥ वर्द्धमानाममावास्यां लभेचेदपरेऽहनि ।
यामांस्त्रीनधिकान् वापि पितृयज्ञरततो भवेत् ॥१०॥ पक्षादावेव कुर्व्वीत सदा पक्षादिकं चरुम् ।
पूर्वाह्न एव कुर्वन्ति विद्ध ऽप्यन्ये मनीषिणः ॥११खण्डःः ] श्राद्ध तिथिविशेषेण विधिवर्णनम् ।
स्वपितुः पितृकृत्येषु ह्यधिकारो न विद्यते ।
न जीवन्तमतिक्रम्य किचिदद्यादिति श्रुतिः ॥ १२ पितामहे प्रियति च पितुः प्रेतस्य निर्वपेत् । पितुस्तस्य च वृत्तस्य जीवेचेत् प्रपितामहः ॥१३ पितुः पितुः पितुश्चैव तस्यापि पितुरेव च । कुर्यात् पिण्डत्रयं यस्य संस्थितः प्रपितामहः ॥१४ जीवन्तमति दद्याद्वा प्रेतायान्नोदके द्विजः । पितुः पितृभ्यो वा दद्यात् स्वपितेत्यपरा श्रुतिः ॥१५ पितामहः पितुः पश्चात् पञ्चत्वं यदि गच्छति । पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोड़शम ॥१६ नैतत् पौत्रेण कर्त्तव्यं पुत्रवांश्चेत् पितामहः । पितुः सपिण्डनं कृत्वा कुर्यान्मासानुमासिकम् ॥१७ असंस्कृतौ न संस्कायौं पूर्वी पौत्रप्रपौत्रकैः ।
।
पितरं तत्र संस्कुर्यादिति कात्यायनोऽब्रवीत् ॥१८ पापिष्ठमति शुद्ध ेन शुद्धं पापीकृतापि वा । पितामहेन पितरं संस्कुर्यादिति निश्चयः ॥ १६ ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते ।
।
व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ॥ २० मातुः सपिण्डीकरणं पितामह्या सहोदितम् । यथोक्तेनैव कल्पेन पुत्रिकया न चेत् सुतः ॥२१ न योषिद्भ्यः पृथग् दद्यादव सानदिनादृते । स्वभर्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता ॥ २२
[[१३६१]]
[[१३६२]]
कात्यायनस्मृतिः ।
मातुः प्रथमतः पिण्डं निर्व्वपेत् पुत्रिकासुतः । द्वितीयन्तु पितुस्तस्यास्तृतीयन्तु पितुः पितुः २३
इति षोडशखण्डः
[ सप्तदशमः
॥ सप्तदशखण्डः ॥
अथ श्राद्धवर्णनम् ।
पुरतो यात्मनः कुर्युः सा पूर्वा परिकीर्त्यते । मध्यमा दक्षिणेनास्यास्तद्दक्षिणत उत्तमा ॥१ वाय्वग्निदिङ्मुरवान्तः स्ताः कार्य्याः सार्द्धाङ्गुलान्तराः । तीक्ष्णान्ता यवमध्याश्च मध्यं नाव इवोत्किरेत् ॥ २ शङ्कुश्च खादिरः कार्यो रजतेन विभूषितः । शङ्कुश्चैवोपवेषश्च द्वादशाङ्गुल इष्यते ॥३ अग्न्याशामैः कुशै. काय्यं कर्षूणां स्तरणं धनैः । दक्षिणान्तं तदप्रैस्तु पितृयज्ञे परिस्तरेत् ॥४ स्थगरं सुरभि ज्ञेयं चन्दनादि विलेपनम् । सौवीराञ्जनमित्युक्तं पिञ्जलीनां यदञ्जनम् ॥ स्वस्तरे सर्व्वमासाद्य यथावदुपयुज्यते । देवपूर्वं ततः श्राद्धमत्वरः शुचिरारभेत् ॥६ आसनाद्यर्घ पर्य्यन्तं वशिष्ठेन यथेरितम्
कृत्वा कर्म्माथ पात्रेषु उक्तं दद्यात्तिलोदकम् ॥७
खण्डः ]
श्राद्ध (पितृयज्ञ) वर्णनम ।
तूष्णीं पृथगपो दत्त्वा मन्त्रेण तु तिलोदकम । गन्धोदकञ्च दातव्यं सन्निकर्षक्रमेण तु ॥८ आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् । पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च ॥ कुलालचक्रनप्पिन्नमासुरं मृणमयं स्मृतम् ।
ह
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत् ॥१० गन्धान् ब्राह्मणसान् कृत्वा पुष्पाण्यनुभवानि च । धूपञ्चैवानुपूर्वेण ह्यग्नौ कुर्य्यादनन्तरम् ॥११ अकौ करणहोमश्च कर्त्तव्य उपवीतिना । प्राङ्मुखनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः ॥ १२ अपसव्येन वा काय दक्षिणाभिमुखेन च । निरुप्य हविरन्यस्मा दन्यस्मै न हि यते ॥१३ स्वाहा कुर्य्यान्न चात्रान्ते न चैव जहुयाद्धविः । स्वाहाकारेण हुत्वानौ पश्चान्मन्त्रं समापयेत् ॥१४ पित्र्ये यः पंक्तिमूर्द्धन्यस्तस्य पाणावनग्निमान् । हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रपु निःक्षिपेत् ॥१५ नोकर्याद्रोममन्त्राणां पृथगादिषु कुत्रचित् । अन्येपाञ्चाविकृष्णानां कालेनाचमनादिना ॥१६ सव्येन पाणिनेत्येवं यदत्र समुदीरितम् । परिग्रहणमात्रन्तत् सव्यस्यादिशति व्रतम् ॥१७ पिब्जुल्याद्यभिसंगृह्य दक्षिणेनेतरात् करात् । अन्वारभ्य च सव्येन कुर्यादुल्लेखनादिकम् ॥१८
[[८६]]
।
[[१३६३]]
[[१३६४]]
कात्यायनस्मृतिः ।
यावदर्थमुपादाय हविषोऽर्भकमर्भकम् ।
चरुणा सह सन्नीय पिण्डान् दातुमुपक्रमेत् ॥१६ पितुरुत्तर कष्वंशे मध्य मे मध्यमस्य तु । दक्षिणे तत्पितुश्चैव पिण्डान् पर्वणि निर्वपेत् ॥२० वाममावर्त्तनां केचिदुद्गन्तं प्रचक्षते ।
ः।
[ अष्टादशः
सवा गौतमशाण्डिल्यौ शाण्डिल्यायन एव च ॥ २१ आवृत्य प्राणमायम्य पितॄन् ध्यायन् यथार्थतः । जपंस्तेनैव चावृत्य ततः प्राणं प्रमोचयेत् ॥ २२ शाकश्च फाल्गुनाष्टम्यां स्वयं पत्न्यपि वा पचेत् । यस्तु शाकादिको होमः कार्योऽपूपाष्टकावृतः ॥ २३ अन्वाष्टक्यं मध्यमायामिति गोभिलगोतमौ । वार्कपण्डिश्च सर्वासु कौत्सो मेनेऽकासु च ॥२४ स्थालीपाकं पशुस्थाने कुर्याद्यद्या नुकल्पितम् । श्रपयेत्तं सवत्सायास्तरुण्यागोः पयस्तथा ॥ २५
इति सप्तदशः खण्डः ।
॥ अष्टादशः खण्डः ॥
अथ विवाहाग्निहोमविधानवर्णनम् ।
सायमादि प्रातरन्तमेकं कर्म प्रचक्षते ।
दर्शान्तं पौर्णमासाद्यमेकमेव मनीषिणः ॥ १
खण्ड. ]
विवाहामिहोमविधानवर्णनम् ।
ऊध्वं पूर्णाहुतेर्दर्शः पौर्णमासोऽपि वाग्रिमः ।
य आयाति स होतव्यः स एवादिरिति श्रुतिः ॥ २ ऊर्ध्वं पूर्णाहुतेः कुर्यात् सायं होमादनन्तरम् । वैश्वदेवन्तु पाकान्ते बलिकमसमन्वितम् ॥३ ब्राह्मणान् भोजयेत पश्चादभिरूपान् स्वशक्तितः । यजमानस्ततोऽश्नीयादिति कात्यायनोऽब्रवीत् ॥४ वैवाहिकेम कुर्वीत सायंप्रातस्त्वतन्द्रितः ।
चतुर्थीकर्म कृत्वैतदेतच्छायायनेर्मतम् ॥५
[[१३६५]]
ऊर्ध्वं पूर्णाहुतेः (सायंहोमात्यये ) प्रातहुँ त्वा तां सायमाहुतिम ।
प्रातर्होमस्तदेव स्यादेप एवोत्तरो विधिः । ६
पौर्णमासात्यये हव्यं होता वा यदहर्भवेत् । तदहज्र्ज्जुहुयादेवममावास्यात्ययेऽपि च ॥७ अहूयमानेऽनश्नंश्चेन्नयेत् कालं समाहितः । सम्पन्न तु यथा तत्र हूयते तदिहोच्यते ॥८ आहुताः परिसंख्याय पात्रे कृत्वाहुतीः सकृत् । मन्त्रेण विधिवद् हुत्वाधिकमेवापरा अपि ॥ यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् । चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा ॥ १० अपि वाज्ञातमित्येषा प्राजापत्यापि चाहुतिः । होतव्या त्रिविकल्पो. यं प्रायश्चित्तविधिः स्मृतः ॥११ यद्यनिरग्निनान्येन सम्भवेदाहितः क्वचित् ।.
अग्नये विविचय इति जुहुयाद्वा घृताहुतिम् ॥१२
[[१३६६]]
कात्यायनस्मृतिः ।
[ अष्टादशः
अग्नयेऽप्सुमते चैव जुहुयाद्वैद्युतेन चेत् । अग्नये शुचये चैव जुहुयाच्चेद नग्निना ॥१३ गृहदाहाग्निनाग्निस्तु यद्रव्यः क्षामवान् द्विजैः । दावाग्निना च संसर्गा हृदयं यदि तप्यते ॥१४ द्विर्भूतो यदि संसृज्येत संसृहमुपशामयेत् । असंसृष्टं जागरये गिरिशमैवमुक्तवान् ॥१५ न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वकां समिदाहुतिम् । स्वगर्भ (स्वभगः)सत्क्रियार्थाश्च यावच्चासौ प्रजायते ॥१६ अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः । न हि पित्रा समानीतः पुत्रस्य भवति कचित् ॥१७ यस्याग्नावन्यहोमः स्यात् स वैश्वानरदैवतम् । चरु निरुप्य जुहुयात प्रायश्चित्तं तु तस्य तत् ॥१८ परेणाग्नौ हुते स्वार्थ परस्याग्नौ हुते स्वयम् । पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च ॥ १६ अनिष्टा नवयज्ञेन नवान्नप्राशने तथा । भोजने पतितान्नस्य चरुश्वानरो भवेत् ॥२० स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु । पिण्डानोद्वहनात्तेपां तत्याभावे तु तत्क्रमात् ॥ २१ भूतप्रवाचने पत्नी यद्यसन्निहिता भवेत् । रजोरोगादिना तंत्र कथं कुर्वन्ति याज्ञिकाः ॥२२ महानसेऽन्नं या बुर्यात् सवर्णा तां प्रवाचयेत् । प्रणवाद्यपि वा कुर्यात् कात्यायनवचो यथा ॥ २३
खण्डः ]
सकर्तव्यता स्त्रीधर्मवर्णनम् ।
याज्ञवास्तुनि मुष्ट्याञ्च स्तम्बे दुर्भवदौ तथा । दर्भ संख्या न विहिता विष्टरास्तरणेषु च ।
इत्यष्टादृशः खण्ड ।
[[१३६७]]
॥ एकोनविंशतिः खण्डः ॥
अथ सकतव्यता स्त्रीधर्मवर्णनम
निःक्षिप्याग्नि स्वदारेषु परिकल्प्यार्त्विजं तथा । प्रवसेत् कार्यवान् विप्रो मृपव न चिरं कचित् ॥१ मनसा नैत्यकं कर्म प्रवसन्नप्यतन्द्रितः । उपविश्य शुचिः सर्वं यथाकालमनुद्रवेत् ॥२ पत्न्या चाप्यवियोगिया शुश्रूष्योऽग्निर्विनीतया । सौभाग्यवित्तावेधव्यकामया भर्तृभक्तया ॥३ या वा म्याद्वीरसूगसामाज्ञासम्पादिनी प्रिया । दक्षा प्रियंवदा शुद्धा तामत्र विनियोजयेत् ॥४ दिनत्रयेण वा कर्म यथा ज्यैष्ठं स्वशक्तितः ।
विभज्य सद् वा कुर्युयथाज्ञान (मशाठ्यवन् ) व शास्त्रवत् ॥५ स्त्रीणां सौभाग्यतो ज्यैष्ठं विद्ययैव द्विजन्मनाम ।
नहि ख्यात्या न तपसा भर्त्ता तुष्यति योषिताम् ॥६ भर्त्तुरादेशवर्त्तिन्या यथोमा बहुभिर्त्रतैः ।
अग्निश्च तोषितोऽमुत्र सा स्त्री सौभाग्यमाप्नुयात् ॥७
[[१३६८]]
कात्यायनस्मृतिः ।
[ एकोनविंशः
विनयावनताऽपि स्त्री भर्त्तुर्या दुर्भगा भवेत । अमुत्रोमाग्निभतृणामवज्ञातिकृता तथा ॥८ श्रोत्रियं सुभगां गाव साग्निमग्निचितिं तथा । प्रातरुत्थाय यः पश्येदापद्भ्यः स प्रमुच्यते ॥ पापिष्ठ दुभगामन्त्यं नग्नमुत्कृत्तनासिकम् । प्रातरुत्थाय यः पश्येत् स कालरुपयुज्यते ॥ १० पतिमुल्लङ्घय मोहात् स्त्री कंकं न नरकं व्रजेत् । कृच्छ्रान्मनुष्यतां प्राप्य किं किं दुःखं न विन्दति ॥ ११ पतिशुश्रूषयैव स्त्री कान्न लोकान् समश्नुते । दिवः पुनरिहायाता सुखानामम्बुधिभवेत् ॥१२ सदारोऽन्यान् पुनर्दारान् कथञ्चित् कारणान्तरात् । य इच्छंदग्निमान् कर्तुं होमोऽस्य विधीयते ॥ १३ स्वेऽग्नावेव भवेद्धोमो लौकिके न कदाचन । न ह्याहिताग्नेः खं कर्म लौकिकेऽग्नौ विधीयते ॥१४ षडाहुतिकमन्येन जुहुयाद् ध्रुवदर्शनात् ।
न ह्यात्मनोऽर्थं स्यात्तावद्यावन्न परिणीयते ॥१५ पुरस्तात् त्रिविकल्पं यत् प्रायश्चित्तमुदाहृतम् । तत्षडाहुतिकं शिप्रैयज्ञविद्भिः प्रकीर्तितम् ॥१६
एकोनविंशतितमः खण्डः
इति कात्यायन (वा - गोभिले) विरचिते कर्मप्रदीपे द्वितीयः प्रपाठकः ।
खण्डः ] द्वितीयादिस्त्रीकृतेसतिबैदिकाग्निवर्णनम् ।
॥ अथ विंशः खण्डः ॥
अथ द्वितीयादिस्त्रीकृतेस तिवैदिकाग्निवर्णनम् ।
असमक्षन्तु दम्पत्योर्हतव्यं नत्विगादिना । द्वयोरप्यसमक्षं हि भवेद् हुतमनर्थकम् ॥१ विहायामि सभार्यश्चेत सीमामुल्लङ्घय गच्छति । होमकालात्यये तस्य पुनराधानमिष्यते ॥२ अरण्योः क्षयनाशाग्निदाहेष्वग्नि समाहितः । पालयेदुपशान्तेऽस्मिन् पुनराधानमिष्यते ॥ ३ ज्येष्ठा चेद्बहुभार्यस्य अतिचारेण गच्छति । पुनराधानमत्रक इच्छन्ति न तु गौतमः ॥४ दाहयित्वाग्निभिर्भार्या सदृशीं पूर्वसंस्थिताम् । पात्रश्चाथाग्निमादध्यात् कृतदारोऽविलम्बितः ॥५
एवंवृत्तां सवर्णा स्त्रीं द्विजातिः पूर्वसारिणीम् । दायित्वाग्निहोत्रेण यज्ञपात्रेश्च धर्मवित ॥६ द्वितीयाञ्चैव यः पत्नीं दहेद्वैतानिकाग्निभिः । जीवत्यां प्रथमायान्तु ब्रह्मघ्नेन समं हि तत् ॥७ मृतायान्तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् । ब्रह्मोज्यं तं विजानीयाद् यश्च कामात् समुत्सृजेत् ॥८ मृतयामपि भय्यायां वैदिकाग्नि न हि त्यजेत् । उपाधिनापि तत् कर्म यावज्जीवं समापयेत् ॥
[[१३६६]]
[[१३७०]]
कात्यायनस्मृतिः ।
रामोऽपि कृत्वा सौवर्णी सीतां पत्नीं यशस्विनीम् ।
ईजे यज्ञैर्बहुविधैः सह भ्रातृभिरच्युतः ॥ १०
यो दहेदग्निहोत्रेण स्वेन भाय्या कथञ्चन ।
[ विशः
सा स्त्री सम्पद्यते तेन भार्या वास्य पुमान् भवेत् ॥ ११ भाय्र्या मरणमापन्ना देशान्तरगतापि वा । अधिकारी भवेत्पुत्रो महापातकिनि द्विजे ॥१२ मान्या चेन्द्रियते पूर्वं भार्या पतिविमानिता । श्रीणि जन्मानि सा पुंस्त्वं पुरुषः स्त्रीत्वमर्हति ॥१३ पूर्वैव योनिः पूर्वावृत् पुनराधानकर्मणि । विशेषोऽत्राग्न्युपस्थान माज्याहुत्यष्टकं तथा ॥ १४ कृत्वा व्याहृतिहोमान्तमुपतिष्टेत पावकम् । अध्यायः केवलाग्नेयः कस्तेजा मिरमानसः ॥ १५ अग्निमीले अग्न आयाह्यग्न आयाहि वीतये तिस्रोऽग्निर्ज्योतिरित्यग्नि दूतमग्ने मृडेति च ॥ १६ इत्यष्टावाहुतीहुत्वा यथाविध्यनुपूर्वशः । पूर्णाहुत्यादिकं सर्वमन्यत् पूर्ववदाचरेत् ॥१७ अरण्योरल्पमप्यङ्कं यावत्तिष्टति पूर्वयोः ।
।
न तावत् पुनराधानमन्यारण्योर्विधीयते ॥ १८ विनष्टं स्रुक् एवं न्युब्जं प्रत्यषस्थलमुदर्शिपि । प्रत्यगग्रश्च मुषलं प्रहरेज्जातवेदसि ॥१६
इति विंशः खण्डः ।खण्डः ]
मृतदाहसंस्कारवर्णनम् ।
॥ अथैकविंशः खण्डः ॥
अथ मृतदाहसंस्कारवर्णनम् ।
।
स्वयं होमासमर्थस्य समीपमुपसर्पणम् । तत्राप्यसक्तस्य सतः शयनाच्चोपवेशनम् ॥१ हुतायां सायमहुत्यां दुर्बलचंद् गृही भवेत् । प्रातर्होमस्तदेव स्याज्जीवेच्चच्छः पुन नैं वा ॥२ दुर्बलं स्नापयित्वा तु शुद्धचैलाभिसंवृत्तम् । दक्षिणाशिरसं भूमौ वर्दिष्मत्यां निवेशयेत् ॥३ घृतेनाभ्यक्तमाप्लाव्य सवस्त्रमुपवीतिनम । चन्दनोक्षितसर्वाङ्गं सुमनोभिर्विभूषितम ॥४ हिरण्यशकलान्यस्य क्षिप्त्वा छिद्रेषु सप्तसु । मुखेष्वथापिधायैनं निर्हरेयुः सुतादयः ॥५ आमपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम् । एकोऽनुगच्छेत्तस्यार्द्ध मर्द्धपश्युत्सृजेद्भुवि ॥ ६ ऊर्द्ध मादहनं प्राप्त आसीनो दक्षिणामुखः । सव्यं जान्वाच्च्य शनकैः सतिलं पिण्डदानवत् ॥७ अथ पुत्रादिनाप्लुत्य कुर्याद्दारुचयं महत् । भूप्रदेशे शुचौ देशे पश्चाञ्चित्यादिलक्षणे ॥८ तत्रोत्तानं निपात्यैनं दक्षिणा शिरसं मुखे ।
आज्यपूर्णा म्रुचं दद्याद् दक्षिणायां नसि स्रुवम् ॥६ पादयोरधरां प्राचीमरणीमुरसीतराम ।
पार्श्वयोः शूर्पचमसे सव्यदक्षिणयोः क्रमात् ॥१०
[[१३७१]]
[[१३७२]]
कात्यायनस्मृतिः ।
मुषलेन सह न्युब्जमन्तरूर्वोरुलूखलम् । चत्रौवीलीकमत्रैवमनश्रुनयनोविभीः ॥११ अपसव्येन कृत्वैतद्वाग्यतः पितृदिङ्मुखः । अथाग्निं सव्यजान्वक्तो दद्याद्दक्षिणतः शनैः ॥१२ अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः । असौ स्वर्गाय लोकाय स्वाहेति यजुरीरयन् ॥१३ एवं गृहपतिर्दग्धः सवं तरति दुष्कृतम् ।
[ द्वाविंशः
यश्चैनं दाहयेत् सोऽपि प्रजां प्राप्नोत्यनिन्दिताम् ॥१४ यथा स्वायुधधृक् पान्थो ह्यरण्यान्यपि निर्भयः 1 अतिक्रम्यात्मनोऽभीष्टं स्थानमिष्टांश्च विन्दति ॥ १५ एवमेषोऽग्निमान् यज्ञपात्रायुधविभूषितः । लोकानन्यानतिक्रम्य परं ब्रह्मैव विन्दति ॥ १६
इत्यैकविंशः खण्डः
॥ अथ द्वाविंशः खण्डः ॥ अथ दाहसंस्कारवर्णनम् ।
अथानवे (पे) क्षयेत्पापः सर्व एव शवस्पृशः । स्नात्वा सचैलमाचम्य दद्यरस्योदकं स्थले ॥१ गोत्रनामानुवादान्ते तर्पयामीत्यनन्तरम् । दक्षिणाग्रान् कुशान् कृत्वा सतिलन्तु पृथक् पृथक् ॥ एवं कृतोदकान् सम्यक् सर्वान् शाद्वलसंस्थितान् । आप्लुत्य पुनराचान्तान् वदेयुस्तेऽनुयायिनः ॥ ३
खण्डः ] विदेशस्थमृतपुरुषाणां दाह संस्कारवर्णनम् । १३७३
मा शोकं कुरुतानित्ये सर्वस्मिन् प्राणधर्मणि ।
धर्म
॥५
कुरुत यत्नेन यो वः सह गमिष्यति ॥४ मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम । यः करोति स संमूढो जलबुदबुदसन्निभे ॥५ मन्त्री वसुमती नाशमुदधिदैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥६ पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ७ सर्वेऽक्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥८ श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः प्रयत्नतः ॥ एवमुक्ता व्रजेयुस्ते ग्रहांलघुपुरःसराः । स्नानाग्निस्पर्शनाज्याशैः शुध्येयुरितरे कृतैः ॥ १०
इति द्वाविंशः खण्डः ।
॥ अथ त्रयोविंशः खण्डः ॥
अथ विदेशस्थमृतपुरुषाणां दाहसंस्कारवर्णनम् ।
एवमेवाहिताग्नेषु पात्रन्यासादिकं भवेत् । कृष्णाजिनादिकश्चात्र विशेषः सूत्रचोदितः ॥१
विदेशमरणेऽस्थीनि ह्याहृत्याभ्यज्य सर्पिषा ।
दाहयेदूर्णयाच्छाद्य पात्रन्यासादि पूर्ववत् ॥२
[[१३७४]]
कात्यायनस्मृतिः ।
[ त्रयोविंशः
अस्थ्नामलाभे पर्णानि सकलान्युक्तयावृता । भर्ज्जयेदस्थिसंख्यानि ततः प्रभृति सूतकम् ॥३ महापातकसंयुक्तो दैवात् स्यादग्निमान् यदि । पुत्रादिः पालयेदग्नि युक्त आदोप संक्षयात् ॥४ प्रायश्चित्तं न ( ततः ) कुर्याद्यः कुर्वन् वा म्रियते यदि । गृह्यं निर्वापयेच्छौतमश्व (न्यश्चे) स्येत् सपरिच्छदम् ॥५ सादयेदुभयं वाप्सु ह्यद्भोग्निरभवद्यतः । पात्राणि दद्याद्विप्राय दहेदप्स्वेव वा क्षिपेत् ॥६ अनयैवावृता नारी दुग्धव्या या व्यवस्थिता । अग्निप्रदानमन्त्रोऽस्या न प्रयोज्य इति स्थितिः । अग्निनैव दद्देद्वार्यां स्वतन्त्रां पतितां न चेत् । तदुत्तरेण पात्राणि दाहयेत पृथगन्तिके ॥८ अपरेद्यस्तृतीये वा अनां सञ्चयनं भवेत् । यस्तत्र विधिरादिष्ट ऋषिभिः सोऽघुनोच्यते ॥ स्नानान्तं पूर्ववत् कृत्वा गव्येन पयसा ततः । सञ्चयाम्थीनि सर्वाणि प्राचीनावीत्यभापयन् ॥१० शमीपलाशशाखाभ्यामुद्धृत्योद्धृत्य भस्मतः । आज्येनाभ्यज्य गव्येन सेचयेद् गन्धवारिणा ॥११ मृतापत्रसंपुटं कृत्वा सूत्रेण परिवेष्ट्ा च ।
श्रभ्रं
:1
- खात्या शुचौ भूमौ निखनेदक्षिणामुखः ॥१२ पूरयित्वावढं पङ्कपिण्डशैबालसंयुतम् ।
दत्वोपरि समं शेषं कुर्यात् पूर्वाह्नकर्मणा ॥१३
खण्डः ]
सूतके कर्मत्याज्यवर्णनम् ।
[[१३७]]
एवमेवागृहीताग्नेः प्रेतस्य विधिरिष्यते ।
स्त्रीणामिवाग्निदानं स्यादथातोऽनुक्तमुच्यते ॥१४
इति त्रयोविंशः खण्डः ।
॥ चतुर्विंशः खण्डः ॥
सूतकेकमत्यागः षोडशश्राद्ध विधानवर्णनश्च । सूतके कर्मणां त्यागः सन्ध्यादीनां विधीयते । होमः श्रौते तु कर्तव्यः शुष्कान्ने नापि वा फलैः ॥ १ अकृतं हावयेत् स्मार्तं तदभावे कृताकृतम् । कृतं वा हावयेदन्नमन्वारम्भविधानतः ॥२ कृतमोदनशक्तादि तण्डुलादि कृताकृतम् । व्रीह्यादि चाकृतं प्रोक्तमिति हव्यं त्रिधा बुधैः ॥ ३ सूतके च प्रवासे वा चाशक्तौ श्राद्ध भोजने । एवमादिनिमित्तेषु हावयेदिति योजयेत् ॥४ न त्यजेत् सूत के कर्म ब्रह्मचारी स्वकं कचित् । न दीक्षण्यात् परं यज्ञे न कृच्छ्रादि तपश्चरन् ॥५ पितर्य्यपि मृते नेपा दोपो भवति कर्हिचित् । आशौचं कर्मणोऽन्ते स्यात्र्यहं वा ब्रह्मचारिणः ॥६ श्राद्धमग्निमतः कार्य्या दाहादेकादशेऽहनि । प्रत्याब्दिकं तु कुर्वीत प्रमीतानि सर्वदा ॥ ७ द्वादश प्रतिमास्यानि आद्यं पाण्मासिके तथा ।
सपिण्डीकरणञ्चैव एतद्वै श्राद्धषोड़शम् ॥८
॥७
[[१३७६]]
कात्यायनस्मृतिः ।
[ पञ्चविंशः
एकाहेन तु षण्मासा यदा स्ह्यु रपि वा त्रिभिः । न्यूनाः संवत्सराचैव स्यातां षाण्मासिके तथा ॥ यानि पञ्चदशायानि अपुत्रस्येतराणि तु । एकस्मिन्नहि देयानि सपुत्रस्यैव सर्वदा ॥१० न योषायाः पतिर्दद्यादपुत्राया अपि कचित् । न पुत्रस्य पिता दद्यान्नानुजस्य तथाग्रजः ॥ ११ एकादशेऽह्नि निर्वर्त्य अवग्दर्शाद् यथाविधि । प्रकुर्वीताग्निमान् पुत्रो मातापित्रोः सपिण्डताम् ॥१२ सपिण्डीकरणादूर्द्ध्वं न दद्यात् प्रतिमासिकम् । एकोद्दिष्टेन विधिना दद्यादित्याह गौतमः ॥ १३ कर्षसमन्वितं मुक्ता तथाद्यं श्राद्धषोड़शम् ।
प्रत्यादिकञ्च शेषेषु पिण्डाः स्युः षडिति स्थितिः ॥१४ अर्घेऽक्षय्योदके चैव पिण्डदानेऽवनेजने ।
तन्त्रस्य तु निवृत्तिः स्यात् स्वधावाचन एव च ॥ १५ ब्रह्मदण्डादियुक्तानां येषां नास्त्यग्निसत्क्रिया । श्राद्धादिसत्क्रियाभाजो न भवन्तीह ते कचित् ॥१६ इति चतुर्विंशः खण्डः ।
॥ पञ्चविंशः खण्डः ॥
नवयोनविना नवान्नभोजने प्रायश्चित्तवर्णनम् । मन्त्रान्नायेऽग्न इत्येतत् पञ्चकं लाघवार्थिभिः । पठ्यते तत्प्रयोगे स्यान्मन्त्राणामेव विंशतिः ॥ १
खण्डः ] नवयज्ञेन विना नवान्न भोजने प्रायश्चित्तवर्णनम् । १३७७
अग्नेः स्थाने वायुचन्द्रसूर्यावहुवदूह्य च । समस्य पञ्चमीसूत्रे चतुश्चतुरितिश्रुतेः ॥२ प्रथमे पञ्चके पापी लक्ष्मीरिति पदं भवेत् । अपि पञ्चसु मन्त्रेषु इति यज्ञविदो विदुः ॥ ३ द्वितीये तु पतिघ्नी स्यादपुत्रेति तृतीयके । चतुर्थे त्वपसव्येति इदमाहुतिविंशकम् ॥४ धृतिहोमे न प्रयुञ्ज्याद्योनामसु तथाष्टसु । चतुर्थ्यामन्य इत्येतद्गोनामसु हि हूयते ॥५ लताम्रपल्लवो वुध्नः शुङ्गेति परिकीर्त्यते । पतिव्रता व्रतवती ब्रह्मबन्धु स्तथाऽश्रुतः ॥ 116 शिलाट नीलमित्युक्तं ग्रथ्नः स्तवक उच्यते । कपुष्णिकाभितः केशान् मूर्ध्नि पश्चात् कपुच्छलम् ॥७ श्वाविच्छलाका शललो तथा वीरतरः शरः । तिलतण्डुलसम्पक्कः कृषरः सोऽभिधीयते ॥८ नामधेये मुनिवसुपिशाचाबहुवत् सदा । यक्षाश्च पितरो देवा यष्टव्यास्तिथिदेवताः ॥ आग्नेयाद्येऽथ सार्पाद्ये विशाखाद्ये तथैव च । आषाढाचे धनिष्ठाद्ये अश्विन्याद्ये तथैव च ॥१०
द्वन्द्वान्येतानि बहुवदृक्षाणां जुहुयात् सदा । द्वन्द्वद्वयं विवच्छेद्यमवशिष्टान्यथैकवत् ॥ ११ देवतास्वपि हूयन्ते बहुवत् (सर्प्यपि त्रयः ) सार्वपित्तयः । देवाश्च वसवश्चैव द्विवदेवाश्विनौ सदा ॥१२
[[१३७८]]
कात्यायनस्मृतिः ।
ब्रह्मचारी समादिष्टो गुरुणा व्रतकर्मणि । वाढमोमिति वा ब्रूयात्तत्तथैवानुपालयेत् ॥१३ सशिखं वपनं कायमास्नानादुद्ब्रह्मचारिणा । आशरीरविमोक्षाय ब्रह्म न चेद्भवेत् ॥१४ वपनं नास्य कतव्यमर्वा गौदानकव्रतात् । व्रतिनो वत्सरं यावत्यण्मासानिति गौतमः ॥ न गात्रोत्सादनं कुर्यादनापदि कदाचन । जलक्रीडामलङ्कारान् व्रती दण्ड इवावेत् ॥१५ देवतानां विपयांस जुहोतिपु कथं भवेत् । सर्व प्रायश्चित्तं हुत्वा क्रमेण जुहुयात पुनः ॥ १६ संस्कारा अतिपद्येरन् स्वकालाङ्केत् कथञ्चन । हुत्वैतदेव कर्तव्या ये तूपनयनादधः ॥ १७ अनिष्टा नवयज्ञेन नवान्नं योत्यकामतः । वैश्वानरश्वरुस्तस्य प्रायश्चितं विधीयते ॥ १८
इति पञ्चविशतिखण्डः
॥
॥ पड़विंशः खण्डः ॥
नवयज्ञकालाभिधानवर्णनम ।
चरुः समशनीया यस्तथा गोयज्ञकमणि । वृषभोत्सर्ज्जने चैव अश्वयज्ञे तथैव च ॥ १ श्रावण्यां वा प्रदोपं यः कृष्यारम्भे तथैव च । कथमेतेषु निर्वापाः कथञ्चैव जुहोतयः ॥२ देवता सङ्ख्या ग्राह्या निर्वापास्तु पृथक् पृथक् । तूष्णीं द्विरेव गृह्णीयाद्धोमश्चापि पृथक् पृथक् ॥ ३
[ पड़विंशः
खण्डः ] अन्वाहायलक्षणम् होमद्वयात्ययादौपुनराधानवर्णनम् १३७६
यावता होमनिवृत्तिर्भवेद्या यत्र कीर्तिता । शेषं चैव भवेत् किश्वित्तावन्तं निर्वपेच्चरुम् ॥४ चरौ समशनीये तु पितृयज्ञे चरौ तथा । होतव्यं मेक्षणेनान्य उपस्तीर्णाभिघारितम् ॥५ कालः कात्यायनेनोक्तो विधिश्चैव समासतः । वृषोत्सर्गे यतो नाऽत्र गोभिलेन तु भाषितः ॥६ पारिभाषिक एव स्यात् कालो गोवाजियज्ञयोः । अन्यस्मादुपदेशात्तु स्वस्तरारोहणस्य च ॥७ अथवा मार्गपाल्येऽह्नि कालो गोयज्ञकर्मणः । नीराजनेऽह्नि वाश्वानामिति तन्त्रान्तरे विधिः ॥ ८ शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते ।
धान्यपाकवशादन्ये श्यामाकोवनिनः स्मृतः ॥६ आश्वयुज्यां तथा कृप्यां वास्तुकर्मणि याज्ञिकाः । यज्ञार्थतस्त्ववेत्तारो होममेवं प्रचक्षते ॥१०
द्वे पञ्च द्वे क्रमेणता हविराहुतयः स्मृताः ।
शेषा आज्येन होतव्या इति कात्यायनोऽब्रवीत् ॥११ पयोयदाज्यसंयुक्तं तत् पृषातकमुच्यते ।
दध्येके तदुपासाद्य कर्तव्यः पायसश्चरुः ॥१२ श्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः । यत्राश्वौषधयः सप्त विपदं घ्नन्ति धारिताः ॥१३ संस्काराः पुरुषस्यैते स्मर्यन्ते गौतमादिभिः । अतोऽकादयः कार्याः सर्वे कालक्रमोदिताः ॥१४
[[८७]]
[[१३८०]]
कात्यायनस्मृतिः ।
सकृदप्यष्टकादीनि कुर्यात् कर्माणि यो द्विजः ।
स
पंक्तिपावनो भूत्वा
[ सप्तविंशः
भूत्वा लोकान् प्रति घृतश्च्युतः ॥१५
एकाहमपि कर्मस्थो योनिशुश्रूषकः शुचिः । नयत्यत्र तदेवास्य शताहं दिवि जायते ॥ १६ यस्त्वाधायाग्निमाशास्य देवादीन्नभिरिवान । निराकर्तामरादीनां स विज्ञेयो निराकृतिः ॥१७
इति षडूविंशः खण्डः ।
॥ अथ सप्तविंशः खण्डः ॥
अथ प्रायश्चित्तवर्णनम् ।
यच्छाद्ध कर्मणामादौ या चान्ते दक्षिणा भवेत् । आमावास्यं द्वितीयं यदन्वाहाय्यं तदुच्यते ॥ १ एकसाध्येष्ववर्हिः षु न स्यात् परिसमूहनम् । नोदगासानञ्चैव क्षिप्रहोमादि ते मताः ॥२ अभावे ब्रीहियवयोर्द्दध्ना वा पयसापि वा । तदभावे यवाग्वा वा जुहुयादुदकेन वा ॥ ३ रौद्रन्तु राक्षसं पित्र्यमासुरं चाभिचारिकम् । उक्ता मन्त्रं स्पृशेदाप आलभ्यात्मानमेव च ॥४ यजनीयेऽह्नि सोमश्चेद्वारुण्यां दिशि दृश्यते । तत्र व्याहृतिभिर्हुत्वा दण्डं दद्यात् द्विजातये ॥५खण्डः
]
प्रायश्चित्तवर्णनम् ।
लवणं मधु मांसभ्य क्षारांशो येन हयते । उपवासे न भुञ्जीत नोरुरात्रौ न किश्चन ॥ ६ स्वकाले सायमाहुत्या अप्राप्तौ होतृहव्ययोः । प्राक्प्रातराहुतेः कालः प्रायश्चित्ते हते सति ॥ ७ प्राक्सायमाहुतेः प्रातर्होमकालानतिक्रमः । प्रापौर्णमासाद् दर्शस्य प्राग्दर्शादितरस्य तु ॥८ वैश्वदेवे त्वतिक्रान्ते अहोरात्रमभोजनम् । प्रायश्चित्तमथो हुत्वा पुनः सन्तनुयाद् व्रतम् ॥ होमद्वयात्यये दर्शपौर्णमासात्यये तथा । पुनरेवाग्निमादध्यादिति भार्गवशासनम् ॥१० अनृचो माणवो ज्ञेय एणः कृष्णमृगः स्मृतः । रुरुगौरमृगः प्रोक्तस्तम्बलः शोण उच्यते ॥११ केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसंमितो राज्ञः स्यात्तु नाशान्तिको विशः ॥१२ ऋजवस्ते तु सर्वे स्युरत्रगाः सौम्यदर्शनाः । अनुद्वेगकरा नृणां सत्वचोऽनग्निदूषिताः ॥१३ गौर्विशिष्टतमा विप्रैर्वेदेष्वपि निगद्यते ।
।
न ततोऽन्यद्वरं यस्मात्तस्माद् गौवर उच्यते ॥ १४ येषां व्रतानामन्तेषु दक्षिणा न विधीयते । वरस्तत्र भवेद्दानमपि वाच्छादयेद् गुरुम् ॥१५ अस्थानोच्छासविच्छेदघोषणाध्यापनादिकम् ।
प्रामाणिकं श्रुतौ यत् स्याद्यातयामत्वकारि तत् ॥१६
[[१३८१]]
[[१३८२]]
कात्यायनस्मृतिः ।
[ अष्टाविंशतिः
प्रत्यब्दं यदुपाकर्म सोत्सर्ग विधिवद् द्विजैः । क्रियते छन्दसां तेन पुनराप्यायनं भवेत् ॥ १७ अयातयामैश्छन्दोभिर्यत कर्म क्रियते द्विजैः । क्रीडमानैरपि सदा तत्तेषां सिद्धिकारकम् ॥१८ गायत्रीभ्व सगायत्रां वार्हस्पत्यमिति त्रिकम् । शिष्येभ्योऽनूच्य विधिवदुपाकुर्यात्ततः श्रुतिम ॥१६ छन्दसामेकविंशानां संहितायां यथाक्रमम् । न च्छन्दस्काभिरेवाभिर्राद्याभिर्होम इष्यते ॥२० पर्वभिश्चैव गानेषु ब्राह्मणेषूत्तरादिभिः । अङ्गेषु चर्चामन्त्रेषु इति पष्टिर्जुहोतयः ॥ २१
इति सप्तविंशतिः खण्डः ।
॥ अथाष्टाविंशतिः खण्डः ॥
अथ प्रायश्चित्तवर्णनमुपाकर्मणः फलनिरूपणवर्णनम् ।
अक्षतास्तु यवाः प्रोक्ता भ्रष्टाधाना भवन्ति ते । भ्रष्टास्तु व्रीहयो लाजा घटाः पण्डिक उच्यते ॥ १ नाधीयीत रहस्यानि सोत्तराणि विचक्षणः । नचोपनिषदश्चैव षण्मासान् दक्षिणायनात् ॥ २ उपाकृत्योदगयने ततोऽधीयीत धर्मवित् । उत्सर्गश्वक एवैषां नैष्ट्य’ प्रौष्ठपदेऽपि वा ॥ ३
खण्डः ] सूतकादिनाश्रवणाकमलोपे कर्मविशेषाभिधानम् । १३८३
प्रायश्चित्तवर्णनम् ।
अजातव्यञ्जना लोम्नी न तया सह संविशेत् । अयुगूः काकबन्ध्याया जातां तां न विवाहयेत् ॥४ संसक्तपदविन्यासस्त्रिपदः प्रक्रमः स्मृतः । स्मार्त्त कर्मणि सर्वत्र श्रते त्वध्वर्युणोदितः ॥५ यस्यां दिशि वलिं दद्यात्तामेवाभिमुखो वलिम् । श्रवणाकर्मणि भवेन्यञ्च कर्म न सर्वदा ॥६ बलिशेपस्य हवनमग्निप्रणयनन्तथा ।
प्रत्यहं न भवेयातामुल्मुकन्तु भवेत् सदा ॥७ वृपान्तकप्रेक्षणयोर्नवस्य हविपस्तथा ।
शिस्य प्राशने मन्त्रस्तत्र सर्वेऽधिकारिणः ॥८ ब्राह्मणानामसान्निध्ये स्वयमेव प्रपातकम् । अवेक्षेद्धविपः शेषं नवयज्ञेऽपि भक्षयेत् ॥ सफला बदरीशाखा फलवत्यभिधीयते । धना विधिकताशङ्काः स्मृता जातशिलास्तु ताः ॥ १०
नष्टो विनष्टो मणिकः शिलानाशे तथैव च । तदैवाऽऽहृत्य संस्कार्यो न क्षिपेदाग्रहायणीम् ॥११
॥ श्रवणाकर्म लुमञ्चेत् कथञ्चित् सूतकादिना । आग्रहायणिकं कुर्याद्वलिवज मशेषतः ॥१२ ऊर्ध्वं स्वस्तरशायी स्यान्मासमर्द्ध मथापि वा । सप्तरात्रं त्रिरात्रं वा एकां वा सद्य एव वा ॥१३ नोदध्वं मन्त्रप्रयोगः स्यान्नाग्न्यगारं नियम्यते । नाहतास्तरणञ्चैव न पाश्वच्चापि दक्षिणम् ॥१४
[[१३८४]]
कात्यायनस्मृतिः ।
दृढश्वेदाग्रहायण्यामावृत्तावपि कर्मणः ।
[ एकोनत्रिंशः
कुम्भौ मन्त्रवदासिञ्चेत् प्रतिकुम्भमृचं पठेत् ॥१५ अल्पानां यो विघातः स्यात् स वाधोबहुभिः स्मृतः । प्राणसम्मित इत्यादि वाशिष्ठं बाधितं यथा ॥ १६ विरोधो यत्र वाक्यानां प्रामाण्यं तत्र भूयसाम । तुल्यप्रमाणकत्वे तु न्याय एवं प्रकीर्तितः ॥ १७ त्रयम्बकं करतलमपूपा मण्डकाः स्मृताः । पालाशा गोलकाचैव लोहचणञ्च चीवरम् ॥१८ स्पृशन्ननामिकाग्रेण कचिदालोकयन्नपि । अनुमन्त्रणीयं सर्वत्र सदैवमनुमन्त्रयेत् ॥१६
इत्यष्टविंशतिः खण्डः ।
॥ अथैकोनत्रिंशः खण्डः ॥
अथ श्राद्धवर्णनम् ।
शालनं दर्भकूर्चेन सर्वत्र स्रोतसां पशोः । तूष्णीमिच्छाक्रमेण स्याद्वपार्थे पार्णदारुणी ॥१ सप्त तावन्मूर्द्ध न्यानि तथा स्तनचतुष्टयम् । नाभिः श्रोणिरपानश्च गोस्रोतांसि चतुर्दश ॥२ क्षुरोमांसावदानार्थः कृत्स्ना स्विष्टकृदावृता । वपामादाय जुहुयात्तत्र मन्त्रं समापयेत् ॥ ३
खण्डः
]
श्राद्धवर्णनम् पश्वङ्गानांनिरूपणवर्णनम् ।
[[१३८५]]
हृज्जिह्वा क्रोडमस्थीनि यकृ. वृक्कौ गुदं स्तनाः । श्रोणिस्कन्धसदापार्श्वे पश्वङ्गानि प्रचक्षते ॥४ एकादशानामङ्गानामवदानानि सङ्ख्यया । पार्श्वस्य वृक्कसक्थ्नोश्च द्वित्वादाश्वतुदेश ॥५ चरितार्था श्रुतिः कार्या यस्मादप्यनुकल्पतः । अतोह्यार्चेन होमः स्याच्छागपक्षे चरावपि ॥ ६ अवदानानि यावन्ति क्रियेरन् प्रस्तरेपशोः । तावतः पायसान् पिण्डान् पश्वभावेऽपि कारयेत् ॥७ औदनव्यञ्जनार्थन्तु पश्वभावेऽपि पायसम् । सद्रवं श्रपयेत्तद्वदन्वष्टक्येऽपि कर्मणि ॥८ प्राधान्यं पिण्डदानस्य केचिदाहुर्मनीषिणः । गयादौ पिण्डमात्रस्य दीयमानत्वदर्शनात् ॥६ भोजनस्य प्रधानत्वं वदन्त्यन्ये महर्षयः ।
[[୯]]
ब्राह्मणस्य परीक्षायां महा (यज्ञ) यत्नप्रदर्शनात् ॥१० आमश्राद्धविधानस्य विना पिण्डैः क्रियाविधिः । तदालभ्याप्यनध्यायविधानश्रवणादपि ॥ ११ विद्वन्मतमुपादाय ममाप्येतद्वृदि स्थितम् ।
प्राधान्यमुभयोर्यस्मात्तस्मादेष समुच्चयः ॥ १२ प्राचीनावीतिना कार्य पित्र्येषु प्रोक्षणं पशोः । दक्षिणोद्वासनान्तश्च चरोर्निर्वपणादिकम् ॥१३ सन्नपश्वावदानानां प्रधानार्थो न हीतरः ।
प्रधानं हवनञ्चैव शेषं प्रकृतिवद्भवेत् ॥१४
[[१३८६]]
कात्यायनस्मृतिः ।
[ एकोनत्रिंशः
द्वीपमुन्नतमाख्यातं शादा चैवेष्टका स्मृता ।
।
कीलिनं सजलं प्रोक्तं दूरखातोदको मरुः ॥१५ द्वारगवाक्ष : सन्दर्भः कर्द्दमभित्यन्तकोण वा । वेधैश्वानष्टं वास्तुघोरं विद्वन्मनाक्रान्तमार्यैश्च (?)॥१६ वशङ्गमाविति ब्रीहीञ्छेषश्चेति यवांस्तथा । असावित्यत्र नामोक्ता जुहुयात् क्षिप्रहोमवत् ॥१७ साक्षतं सुमनोयुक्तमुदकं दधिसंयुतम् ।
अध्यं दधिमधुभ्याञ्च मधुपर्को विधीयते ॥ १८ कांस्येनैवार्हणीयस्य निनयेदर्घ्यमञ्जलौ ।
कांस्यापिधानं कांस्यस्थं मधुपर्क समर्पयेत् ॥१६
इति कात्यायनविरचिते ( गोभिलप्रोक्तं) कर्मप्रदीपे तृतीयः प्रपाठकः ।
इत्यैकोनत्रिंशः खण्डः ।
समाप्ता चेयं कात्यायनस्मृतिरितिलेख्यं नास्त्यत्र
तस्मादयं ग्रन्थः समाप्तो नवेत्यत्र संदेहः ।
ॐ तत्सत् ।
11 3727 11