वेद-व्यास-स्मृतिः

॥ श्रीगणेशाय नमः ।

॥ प्रथमोऽध्यायः ॥

अथ धर्माचरणादेशप्रयुक्त-वर्णषोडशसंस्कारवर्णनम् ।

वाराणस्यां सुखासीनं वेदव्यासं तपोनिधिम् । पप्रच्छुर्मुनयोऽभ्येत्य धर्मान् वर्णव्यवस्थितान् ॥१ स पृष्टः स्मृतिमान् स्मृत्वा स्मृतिं वेदार्थगर्भिताम् । उवाचाथ प्रसन्नात्मा मुनयः श्रूयतामिति ॥२ यत्र यत्र स्वभावेन कृष्णसारो मृग सदा । चरते तत्र वेदोक्तो धर्मो भवितुमर्हति ॥ ३ श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते । तत्र श्रौतं प्रमाणन्तु तयोर्द्वधे स्मृतिर्वरा ॥४ ब्राह्मणः क्षत्रियोवैश्यस्त्रयो वर्णा द्विजातयः ।

श्रुतिस्मृतिपुराणोक्तधर्मयोग्यास्तु ( ते नराः) नेतरे ॥५ शूद्रोवर्णश्वतेर्थोऽपि वर्णत्वाद्धर्ममर्हति ।

वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना ॥६

॥६

[[१६३२]]

व्यासस्मृतिः ।

विप्रवद्विप्रविन्नासु क्षत्रविन्नासु विप्रवत् । जातकर्माणि कुर्वीत ततः शूद्रासु शूद्रवत् ॥७ वैश्यासु विप्रक्षत्त्राभ्यां ततः शूद्रासु शूद्रवत् । अधमादुत्तमायान्तु जातः शूद्राधमः स्मृतः ॥८ ब्राह्मण्यां शूद्रजनितश्चाण्डालो धर्मवर्जितः । कुमारीसम्भवस्त्वेकः सगोत्रायां द्वितीयकः ॥६ ब्राह्मण्यां शूद्रजनितश्चाण्डालस्त्रिविधः स्मृतः । वर्द्ध की नापितो गोप आशापः कुम्भकारकः ॥ १० वणिक्करातकायस्थ मालाकार कुटुम्बिनः । एते चान्ये च बहवः शूद्रा भिन्नः स्वकर्मभिः । चमकारो भटो भिल्लो रजकः पुष्करो नटः । वरटोमेद चण्डालदास (श) स्वपचकोलकाः ॥ ११ एतेऽन्त्यजाः समाख्याता ये चान्ये च गवाशनाः । एषां सम्भाषणात् स्नानं दर्शनादर्कवीक्षणम् ॥१२ गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्क्रमणेऽन्नाशनं वपनक्रिया ॥ १३ कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः । केशान्तः स्नानमुद्वाहो विवाहामिपरिग्रहः ॥१४ त्रेताग्निसंग्रहश्चेति संस्काराः पोडश स्मृताः । नवताः कर्णवेधान्ता मन्त्रवजं क्रियाः स्त्रियाः ॥१५ विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश । गर्भाधानं प्रथमतस्तृतीये मासि पुंसवः ॥ १६

प्रथमो-

ऽध्यायः ]

गर्भाधानादि षोडशसंस्कारवर्णनम्

सीमन्तश्चाष्टमे मासि जाते जातक्रिया भवेत् । एकादशेऽह्नि नामार्कस्येक्षा मासि चतुर्थके ॥ १७ षष्ठे मास्यान्नमश्नीयाञ्चडाकर्म कुलोचितम् । कृतचूडे च बाले च कर्णवेधो विधीयते ॥ १८ विप्रो गर्भाष्टमे वर्षे क्षत्त्रमेकादशे तथा । द्वादशे वैश्यजातिस्तु व्रतोपनयनक्रिया ॥१६ तस्य प्राप्तव्रतस्यायं कालः स्यात् द्विगुणाधिकः । वेदव्रतच्युतो व्रात्यः स व्रात्यस्तोममर्हति ॥ २० द्वे जन्मनी द्विजातीनां मातुः स्यात् प्रथमं तयोः । द्वितीयं छन्दसां मातुर्ग्रहणाद्विधिवद्गुरोः ॥२१ एवं द्विजातिमापन्नो विमुक्तो वाल्यदोषतः । श्रुतिस्मृतिपुराणानां भवेदध्ययनक्षमः ॥२२ उपनीतो गुरुकुले वसेन्नित्यं समाहितः । विभृयाद्दण्डकौपीनोपवीताजिन मेखलाः ॥२३ पुण्येऽह्नि गुर्वनुज्ञातः कृतमन्त्राहुतिक्रियः । स्मृत्वोङ्कारश्च गायत्रीमारभेद्वेदमादितः ॥२४ शौचाचारविचाराथं धर्मशास्त्रमपि द्विजः ।

पठेत गुरुतः सम्यक् कर्म तद्दिष्टमाचरेत् ॥ २५ ततोऽभिवाद्य स्थविरान् गुरुञ्चैव समाश्रयेत् ।

स्पाध्यायार्थं तदा यत्नः सर्वदा हितमाचरेत् ॥२६

[[१६३३]]

नापक्षिप्तोऽपि भाषेत (विरज्येत ) नोव्रजेत्ताडितोऽपि वा । विद्वेषमथ पैशुन्यं हिंसन वार्कवीक्षणम् ॥२७

[[१६३४]]

व्यासस्मृतिः ।

तौर्यत्रिकानृतोन्मादपरिवादानलक्रियाम् । अञ्जनोद्वर्त्तनादर्शस्रग्विलेपनयोषितः ॥ २८ वृथाटनम सन्तोषं ब्रह्मचारी विवर्जयेत् । ईषञ्चलितमध्याह्न ऽनुज्ञातो गुरुणा स्वयम् ॥२६ आलोलुपश्चरेद्वेक्षं प्रतिषूत्तमवृत्तिषु ।

[ प्रथमो-

सद्यो भिक्षान्नमादाय वित्तवत्तदुपस्पृशेत् ॥३० कृतमाध्याह्निकोऽश्नीयादनुज्ञातो यथाविधि । नाद्यादेकान्नमुच्छिष्टं भुक्त्वा चाऽऽचामितामियात् ॥३१ नान्यद्भिक्षितमादद्यादापन्नो द्रविणादिकम् । अनिन्द्यामन्त्रितः श्राद्ध पैत्र्येऽदद्याद्गुरुचोदितः ॥३२ एकान्न मप्यविरोधे व्रतानां प्रथमाश्रमी । ।

भुक्त्वा गुरुमुपासीत कृत्वा सन्धुक्षणादिकम् ॥३३ समिधोऽनावादधीत ततः परिचरेद्गुरुम् ।

अधीत ( शयीत) गुर्वनुज्ञातः प्रहृश्च ( प्रबुद्धः ) प्रथमं गुरोः ॥ ३४ एवमन्वहमभ्यासी ब्रह्मचारी व्रतभ्वरेत् । हितोपवादः प्रियवाक् सम्यग्गुर्वर्थसाधकः ॥३५ नित्यमाराधयेदेनमा समाप्तेः श्रुतिग्रहात् ।

अनेन विधिनाऽधीतो वेदमन्त्रो द्विजं नयेत् ॥३६ शापानुग्रहसामर्थ्यमृषीणाञ्च सलोकताम् ।

पयोऽमृताभ्यां मधुभिः साज्यैः प्रीणन्ति देवताः ॥ ३७ तस्मादहरहर्वेदमनध्यायमृते पठेत् ।

यदङ्गं तदनध्याये गुरोर्वचनमाचरेत् ॥ ३८

ऽध्यायः ]

विवाहविधिवर्णनम् ।

[[१६३५]]

व्यतिक्रमादसम्पूर्णम नहंकृतिराचरेत । परत्रेह च तद्ब्रह्म अनधीतमपि द्विजम् । यस्तूपनयनादेतदा मृत्योर्व्रतमाचरेत् ॥ ३६ स नैष्ठिको ब्रह्मचारी ब्रह्मसायुज्यमाप्नुयात् । उपकुर्वाणकोयस्तु द्विजः पडिशवार्षिकः ॥४० केशान्तकर्मणा तत्र यथोक्तचरितव्रतः ।

समाप्य वेदान् वेदौ वा वेदं वा प्रसभं द्विजः ॥४१ स्नायीत गुर्वनुज्ञातः प्रवृत्तोदितदक्षिणः ।

इति श्रीवेदव्यासी धर्मशास्त्रे ब्रह्मचर्याधिकारो नाम प्रथमोऽध्यायः ।

॥ द्वितीयोऽध्यायः ॥

अथ विवाह विधिवर्णनम् ।

एवं स्नातकता प्राप्तो द्वितीयाश्रमकाङ्क्षया । प्रतीक्षेत विवाहाथमनिन्द्यान्वयसम्भवाम् ॥१ अरोगादुष्टवंशोत्थामशुल्कादानदूपिताम् । सवर्णामसमानार्षाममातृपितृगोत्रजाम् ॥२ अनन्यपूर्विका लध्वीं शुभलक्षणसंयुताम् । धृताधोवसनां गौरीं विख्यातदशपुरुषाम् ॥३

ख्यातनाम्नः पुत्रवतः सदाचारवतः सतः । दातुमिच्छोदुहितरं प्राप्य धर्मेण चोद्वहेत् ॥४

[[१०३]]

[[१६३६]]

व्यासस्मृतिः ।

[ द्वितीयो-

ब्राह्मोद्वाहविधानेन तदभावेऽपरो विधिः । दातव्यैषा सहक्षाय वयोविद्यान्वयादिभिः ॥५ पितृतत्पितृभ्रातृपु पितृव्यज्ञातिमातृषु । पूर्वाभावे परो दद्यात् सर्वाभावे स्वयं व्रजेत् ॥६ यदि सा दातृवैकल्याद्रजः पश्येत् कुमारिका । भ्रूणहत्याश्च यावत्यः पतितः स्यात्तदप्रदः ॥ ७ तुभ्यं दास्याम्यहमिति ग्रहीष्यामीति यस्तयोः । कृत्वा समयमन्योन्यं भजते न स दण्डभाक् ॥८ त्यजन्नदुष्टां दण्ड्यः स्याद् दूषयंश्चाप्यदूषिताम् । तावन्न दुष्टं दुष्टं च स्वार्थेभ्यो भेदयंश्च तत् । ऊढायां हि सवर्णायामन्या वा काममुद्वहेत् ॥ तस्यामुत्पादितः पुत्रो न सवर्णात् प्रहीयते ॥ १० उद्वहेत् क्षत्रियां विप्रो वैश्याञ्च क्षत्रियो विशाम् । न तु शूद्रां द्विजः कश्चिन्नाधमः पूर्ववर्णजाम् ॥११ नानावर्णासु भार्यासु सवर्णा सहचारिणी । धर्म्या धर्मेषु धर्मिष्ठा ज्येष्ठा तस्य स्वजातिषु ॥ १२ पाटितोऽयं द्विजाः पूर्वमेकदेहः स्वयम्भुवा । पतयोऽर्द्धन चार्द्धन पत्न्योऽभूवन्निति श्रुतिः ॥१३ यावन्न विन्दते जायां तावदर्द्धा भवेत् पुमान् । नार्द्ध प्रजायते सवं प्रजायेतेत्यपि श्रुतिः ॥ १४ गुर्वी सा भूस्त्रिवर्गस्य वोढुं नान्येन शक्यते । यतस्ततोऽन्वहं भूत्वा स्ववशो बिभृयाच्च ताम् ॥१५

ऽध्यायः ] गृहस्थधमवर्णनं, स्त्रीधर्माभिधानञ्च वर्णनम् । १६३७

कृतदारोऽभिपत्नीभ्यां कृतवेश्मा गृहं वसेत् ।

स्वकृत्यं वित्तमासाद्य वैतानाग्निं न हापयेत् ॥ १६ स्मार्त्तं वैवाहिके वह्नौ श्रौतं वतानिकाग्निषु । कर्म कुर्यात् प्रतिदिनं विधिवत् प्रीतिपूर्वतः ॥ १७ सम्यग्धर्मार्थकामेषु दम्पतिभ्यामहर्निशम् । एकचित्ततया भाव्यं समानत्रतवृत्तितः ॥ १८ न पृथग्विद्यते स्त्रीणां त्रिवर्गविधिसाधनम् । भावतो ह्यतिदेशाद्वा इति शास्त्रविधिः परः ॥१६ पत्युः पूर्वं समुत्थाय देहशुद्धिं विधाय च । उत्थाप्य शयनाद्यानि कृत्वा वेश्मविशोधनम् ॥२० मार्जनैर्लेपनैः प्राप्य साग्निशालं स्वमङ्गनम् । शोधयेदग्निकार्याणि स्निग्धान्युष्णेन वारिणा ॥२१ प्रोक्षण्यैरिति तान्येव यथास्थनं प्रकल्पयेत् । द्वन्द्वपात्राणि सर्वाणि न कदाचिद्वियोजयेत् ॥२२ शोधयित्वा तु पात्राणि पूरयित्वा तु धारयेत् । महानसस्य पात्राणि बहिः प्रक्षाल्य सर्वथा ॥२३ मृद्भिश्च शोधयेचुल्लीं तत्राग्निं विन्यसेत्ततः । स्मृत्वा नियोगपात्राणि रसांश्च द्रविणानि च ॥२४ कृतपूर्वाह्नकार्या च स्वगुरूनभिवादयेत् । ताभ्यां भर्तृपितृभ्यां वा भ्रातृमातुलबान्धवैः ॥२५ वस्त्रालङ्काररत्नानि प्रदत्तान्येव धारयेत् । मनोवाक्कमभिः शुद्धा पतिदेशानुवर्तिनी ॥२६

[[१६३८]]

व्यासस्मृतिः ।

[ द्वितीयो-

छायेवानुगता स्वच्छा सखीव हितकर्मसु । दासीवाऽऽदिकार्येषु भार्या भर्तुः सदा भवेत् ॥ २७

ततोऽन्नसाधनं कृत्वा पतये विनिवेद्य तत् ।

वैश्वदेवकृतैरने भजनीयांश्च भोजयेत् ॥ २८

पतिञ्चैतदनुज्ञाता शिप्रमन्वाद्यमात्मना । भुक्त्वा नयेदहः शेषमायव्यय विचिन्तया ॥२६ पुनः सायं पुनः प्रातर्गृहशुद्धिं विधाय च ॥ ३० कृतान्नसाधना साध्वी मुभृशं भोजयेत् पतिम् । नातितृप्त्या स्वयं भुक्त्वा गृहनीतिं विधाय च ॥३१ आस्तीर्य साधुशयनं ततः परिचरेत् पतिम् । सुप्ते पतौ तदभ्यासे स्वपेत्तद्गतमानसा । अनग्ना चाप्रमत्ता च निष्कामा च जितेन्द्रिया ॥ ३२ नोचैर्वदेन परुषं न बहून् पत्युरप्रियम् ।

न केनचित् विवदेव अप्रलापविलापिनी ॥ ३३ नचातिव्ययशीला स्यान्न धर्मार्थविरोधिनी । प्रमादोन्मादरोषेर्ष्यावञ्चनञ्चातिमानिताम् ॥३४ पैशुन्य हिंसाविद्वेषमहाहङ्कारधूर्त्तताः । नास्तिक्यसाहसस्तेयदम्भान् साध्वी विवर्जयेत् ॥३५ एवं परिचरन्ती सा पतिं परमदैवतम् ।

यशः शमिह यात्येव परत्र च सलोकताम् ॥३६ योषितो नित्यकर्मोक्तं नैमित्तिकमथोच्यते ।

रजोदर्शनतोदोषात् सर्वमेव परित्यजेत् ॥३७

ऽध्यायः ] स्त्रीणां नित्यकर्म, सपातिव्रत रजस्वलाधम निरूपणञ्च १६३६

सर्वैरलक्षिता शीघ्रं लज्जिताऽन्तर्गृहे वसेत् । एकाम्बरावृता दीना स्नानालङ्कारवर्जिता ॥३८ मौनिन्यधोमुखी चक्षुष्पाणिपरिचञ्चला । अश्नीयात् केवलं भक्तं नक्तं मृण्मयभाजने ॥३६ स्वपेद्भूमावप्रमत्ता क्षपेदेवमहस्त्रयम् ।

स्नायीत सा त्रिरात्रान्ते सचैलमुदिते रवौ ॥४० विलोक्य भर्तुर्वदनं शुद्धा भवति धर्मतः । कृतशौचा पुनः कर्म पूर्ववञ्च समाचरेत् ॥४१ रजोदर्शनतो याः स्यू रात्रयः षोडशर्त्तवः । ततः पुंबीजमालिष्टं शुद्ध क्षेत्रे प्ररोहति ॥४२ चतस्रश्चाऽऽदिमा रात्री : पर्ववञ्च विवर्जयेत् । गच्छेद्युग्मासु रात्रीषु पौष्णपित्रर्क्षराक्षसान् ॥४३ प्रच्छादितादित्यपथे पुमान् गच्छेत् स्वयोषितः । क्षामाऽलङ्कृदवाप्नोति पुत्रं पूजितलक्षणम् ॥४४ ऋतुकालेऽभिगम्येवं ब्रह्मचर्ये व्यवस्थितः ।

गच्छन्नपि यथाकामं न दुष्टः स्यादनन्यकृत् ॥४५ भ्रूणहत्यामवाप्नोति ऋतौ भार्यापराङ्मुखः ।

सा त्ववाप्याऽन्यतो गर्भ त्याज्या भवति पापिनी ॥४६ महापातकदुष्टा च पतिगर्भविनाशिनी । सद्वृत्तचारिणीं पत्नीं त्यक्त्वा पतति धर्मतः ॥४७ महापातकदुष्टोऽपि नाप्रतीक्ष्यस्तया पतिः ।

अशुद्ध क्षयमादूरं स्थितायामनुचिन्तया ॥४८

[[१६४०]]

व्यासस्मृतिः ।

[ द्वितीयो-

व्यभिचारेण दुष्टानां पतीनां दर्शनादृते । धिक्कृतायामवाच्यायामन्यत्र वासयेत् पतिः ॥४६ पुनस्तामार्त्तवस्नातां पूर्ववद् व्यवहारयेत् । धूर्त्ताश्व धर्मकामघ्नीमपुत्रां दीर्घरोगिणीम् ॥५० सुदुष्टां व्यसनासक्तामहितामधिवासयेत् । अधिविन्नामपि विभुः स्त्रीणान्तु समतामियात् ॥५१ विवर्णा दीनवदना देहसंस्कारवर्जिता ।

पतिव्रता निराहारा शोष्यते प्रोषिते पतौ ॥५२

[[1]]

मृतं भर्त्तारमादाय ब्राह्मणी वह्निमाविशेत् । जीवन्ती चेत्यक्तकेशा तपसा शोधयेद्वपुः ॥ ५३ सर्वावस्थासु नारीणां न युक्तं स्यादरक्षणम् । तदेवानुक्रमात् कार्यं पितृभर्तृसुतादिभिः ॥५४ जाताः सुरक्षिताया ये पुत्रपौत्रप्रपौत्रकाः । ये यजन्ति पितॄन् यज्ञैर्मोक्षप्राप्तिमहोदयः ॥ ५५ मृतानामग्निहोत्रेण दाहयेद्विधिपूर्वकम् ।

दाहयेदविलम्बेन भार्याच्चात्र व्रजेत सा ॥५७

इति श्रीवेदव्यासीये धर्मशास्त्रे स्त्र्यधिकारोनाम द्वितीयोऽध्यायः ।ऽध्यायः ]

सस्नानादिविधि पूर्वाहकृत्यवर्णनम् ।

॥ तृतीयोऽध्यायः ॥

अथ सनादिविधि पूर्वाह्णकृत्यवर्णनम् । नित्यं नमित्तिकं काम्यमिति कर्म त्रिधा मतम् । त्रिविधं ( कम ) तच्च वक्ष्यामि गृहस्थस्यावधार्यताम् ॥१ यामिन्याः पश्चिमे यामे त्यक्तनिद्रो हरिं स्मरेत् । आलोक्य मङ्गलद्रव्यं कर्माssवश्यकमाचरेत् ॥२ कृतशौचो निषेव्याग्निं दन्तान् प्रक्ष्याल्य वारिणा । स्नात्वोपास्य द्विजः सन्ध्यां देवादींश्चैव तर्पयेत् ॥३ जुहोत्यनुदिते भानावित्येक उदिते रवौ । जपेदादित्यदेवत्यान्मन्त्रान्मन्त्रनियोगवित् । वेदवेदाङ्गशास्त्राणि इतिहासानि चाभ्यसेत् । अध्यापयेच्च सच्छिष्यान् सद्विप्रांश्च द्विजोत्तमः ॥४ अलब्धं प्रापयेल्लब्ध्वा क्षणमात्रं समापयेत् । समर्थो हि समर्थेन नाविज्ञातः कचिद्वसेत् ॥५ सरित्सरसि वापीषु गर्तप्रस्रवणादिषु ।

स्नायीत यावदुद्धृत्य पञ्च पिण्डानि वारिणा ॥६ तीर्थाभावेऽप्यशक्त्यां वा स्नायात्तोयैः समाहृतैः । गृहाङ्गणगतस्तत्र यावदम्बरपीडनम् ॥७ स्नानमब्दैवतैः कुर्यात् पावनैश्चापि मानम् । मन्त्रैः प्राणांस्त्रिरायम्य सौरैश्वाकं विलोकयेत् ॥८ तिष्ठन् स्थित्वा तु गायत्रीं ततः स्वाध्यायमारभेत् । ऋचाश्च यजुषां साम्नामथर्वाङ्गिरसामपि ॥

[[१६४१]]

[[१६४२]]

व्यासस्मृतिः ।

इतिहासपुराणानां वेदोपनिषदां द्विजः ।

शक्त्या सम्यक् पठेन्नित्यमल्पमप्यासमापनात् ॥ १० स यज्ञदानतपसामखिलं फलमाप्नुयात् । वेदेभ्योऽन्यत्र संतुष्टः स विप्रः शूद्रतामियात् । तस्मादहरहर्वेदं द्विजोऽधीयीत वाग्यतः ॥११ धर्मशास्त्रेतिहासादि सर्वेषां शक्तितः पठेत् । कृतस्वाध्यायः प्रथमं तर्पयेच्चाथ देवताः ॥१२ जान्वा च दक्षिणं दर्भेः प्रागयैः सयवैस्तिलैः । पुरः क्षिप्तैः कराग्राभ्यां निर्गतैः प्राङ्मुखो द्विजः । एकैकाञ्जलिदानेन प्रकृतिस्थोपवीतकः ॥ १३ समजानुद्वयो ब्रह्मसूत्रहार उदड्मुखः । तिर्य्यग्दभैश्च वामामर्यवैस्तिलविमिश्रितैः ॥१४ अम्भोभिरूत्तर क्षिप्तः कनिष्ठामूलनिर्गतैः । द्वाभ्यां द्वाभ्यामञ्जलिभ्यां मनुष्यांस्तर्पयेत्ततः ॥१५ दक्षिणाभिमुखः सव्यं जान्वा च द्विगुणैः कुशैः । तिलैर्जलेव देशिन्या मूलदर्भाद्विनिःसृतैः ॥ १६ दक्षिणांसोपवीतः स्यात् क्रमेणाञ्जलिभिस्त्रिभिः । सन्तर्पयेद्दिव्यपितृ स्तत्परांश्च पितॄन् स्वकान् ॥१७ स्वधा वर्जन मानेवमेक इच्छन्ति तर्पणे । द्विजतिजीवत्पितृकोऽत्येतानन्यश्च तर्पयेत् । तर्पयेद्दिव्यपितृपितृपूर्वान्पितृत्स्वकान् । मातृमातामहांस्तद्वत्त्रीनेवं हि त्रिभिस्त्रिभिः । मातामहाश्च येऽयन्ये गोत्रिणो दाहवर्जिताः ॥ १८ ताने काञ्जलिदानेन तर्पयेच पृथक् पृथक् । असंस्कृतप्रमीता ये प्रेतसंस्कारवर्जिताः ॥ १६

[[1]]

[ तृतीयो-

Sध्यायः ]

तर्पणविधि वर्णनम् ।

वस्त्रनिष्पीड़नाम्भोभिस्तेषामाप्यायनम्भवेत् । अतर्पितेषु पितृपु वस्त्रं निष्पीड़येच्च यः ॥ २० निराशाः पितरस्तस्य भवन्ति सुरमानुषैः । पयोदर्भस्वधाकार गोत्रनामतिले भवेत् ॥ २१ सुदत्तं तत्पुनस्तेषामेकेनापि वृथा विना । अन्यचित्तेन यद्दत्तं यद्दत्तं विधिवर्जितम् ॥२२ अनासनस्थितेनापि तज्जलं रुधिरायते । एवं सन्तर्पिताः कामैस्तर्पकांस्तर्पयन्ति च ॥ २३ ब्रह्मविष्णुशिवादित्यमित्रावरुणनामभिः । पूजयेल्लक्षितैर्मन्त्रौ जेल मन्त्रोक्त देवताः ॥२४ उपस्थाय रवेः काष्ठां पूजयित्वा च देवताः । ब्रह्माग्नीन्द्रौपधीजी व विष्णुनामहतांसाम् ॥२५ अपां यत्तेति सत्कायं नमस्कारैः स्वनामभिः । कृत्वा मुखं समालभ्य स्नानमेवं समाचरेत् ॥ २६ ततः प्रविश्य भवनमावसथ्ये हुताशने । पाकयज्ञाश्च चतुरो विदध्याद्विधिवद् द्विजः ॥२७ अनाहितावसथ्याग्निरादायान्नं घृतप्लुतम् । शाकलेन विधानेन जुहुया लौकिकेऽनले ॥२८ व्यस्ताभिर्व्याहृतीभिश्च समम्ताभिस्ततः परम् । षभिर्देवकृतस्येति मन्त्रवद्भिर्यथाक्रमम ॥२६ प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाऽऽहुतीः । ओङ्कारपूर्वः स्वाहान्तस्त्यागः स्त्रिविधानतः ॥ ३० भुविदर्भान् समास्तीर्य वलिकर्म समाचरेत् । विश्वेभ्यो देवेभ्य इति सर्वेभ्यो भूतेभ्य एव च ॥३१

[[१६४३]]

[[१६४४]]

व्यासस्मृतिः ।

[ तृतीयो-

भूतानां पतये चेति नमस्कारेण शास्त्रवित् । दद्याद्वलित्रयञ्चाग्रे पितृभ्यश्च स्वधा नमः ॥३२ पात्रनिर्णेजनं वारि वायव्यां दिशि निःक्षिपेत् । उद्धृत्य षोड़शप्रासमात्रमन्नं घृतोक्षितम् । इदमन्नं मनुष्येभ्यो हन्तेत्युक्तया समुत्सृजेत् । गोत्रनामस्वधाकारैः पितृभ्यश्चापि शक्तितः ॥ ३३ षड्भ्योऽन्नमन्वहं दद्यात् पितृयज्ञविधानतः । वेदादीनां पठेत् किञ्चिदल्पं ब्रह्ममखप्तये ॥ ३४ ततोऽन्यदन्नमादाय निर्गत्य भवनाद्वहिः । काकेभ्यः श्वपचेभ्यश्च प्रक्षिपेद्ग्रासमेव च ॥ ३५ उपविश्य गृहद्वारि तिष्ठेद्यावन्मुहूर्तकम् । अप्रमुक्तोऽतिथिं लिप्सुर्भावशुद्धः प्रतीक्षकः ॥ ३६ आगतं दूरतः (श्रान्ते) शान्तं भोक्तुकाममकिञ्चनम् । दृष्ट्वा संमुखमभ्येत्य सत्कृत्य प्रश्रयार्श्वनैः ॥ ३७. पादधावनसम्मानाभ्यञ्जनादिभिरचितः ।

त्रिदिवं प्रापयेत्सद्यो यज्ञस्याभ्यधिकोऽतिथिः ॥३८ कालागतोऽतिथिर्द्दष्टवेदपारो गृहागतः । द्वावेतौ पूजितौ स्वगं नयतोऽधस्त्वपूजितौ । विवाह्यस्नातकक्ष्माभृदाचार्यसुहृत्विजः ॥३६

अर्ध्या भवन्ति धर्मेण प्रतिवर्षं गृहागताः । गृहागताय सत्कृत्य श्रोत्रियाय यथाविधि ॥४०

ऽध्यायः ]

पाकयज्ञादिविधिनिरूपणम् ।

भक्त्योपकल्पयेदेकं महाभागं विसर्जयेत्,

विसर्जयेदनुव्रज्य सुतृप्तश्रोत्रियातिथीन् । मित्रमातुलसम्बन्धिबान्धवान् समुपागतान् ॥४१ भोजयेद् गृहिणो भिक्षां सत्कृतां भिक्षुकोऽर्हति । स्वाद्वन्नमश्नन्नस्वादु ददद्गच्छत्यधोगतिम् ॥४२ गर्भिण्यातुरभृत्येषु बालवृद्धातुरादिषु ।

बुभुक्षितेषु भुञ्जानो गृहस्थोऽश्नाति किल्विषम् ॥४३ नाद्याद्गृध्येन्न पाकान्नं कदाचिदनिमन्त्रितः । निमन्त्रितोऽपि निन्द्येन प्रत्याख्यानं द्विजोऽर्हति ॥ ४४

क्षुद्राभिशस्तवार्धुष्यवाग्दुष्टक्रूर तस्कराः ।

क्रुद्धापविद्धबद्धोप्रवधबन्धनजीविनः ॥४५

शैलूषशौण्डिकोन्नद्धोन्मत्तत्रात्यत्र तच्युताः ।

नग्ननास्तिक निर्लज्जपिशुनव्यसनान्विताः ॥४६

कदर्य्यस्त्रीजितानार्य्यपरवादकृता नराः ।

[[१६४५]]

अनीशा : (अमित्रा) कीर्तिमन्तोऽपि राज देवस्वहारकाः ॥४७

शयनासन संसर्गवृत्तकर्मादिदूषिताः ।

अश्रद्दधानाः पतिता भ्रष्टाचारादयश्च ये ॥४८

अभोज्यान्नाः स्युरन्नादो यस्य यः स्यात्स तत्समः ।

नापितान्वयमित्रार्द्ध सीरिणो दासगोपकाः ॥४६

शूद्राणामप्यमीषान्तु भुक्त्वाऽन्नं नैव दुष्यति ।

धर्मेणान्योन्यभोज्यान्ना द्विजास्तु विदितान्वयाः ॥ ५०

[[१६४६]]

व्यासस्मृतिः ।

स्ववृत्तयोपार्जितं मेध्यम केशकृमिमक्षिकम् । अश्वलीढप्रगोघ्रातमस्पृष्टं शूद्रवाय सेः ॥ ५१ अनुच्छिष्टमसंदुष्टमपर्युषितमेव च ।

[[1]]

[ तृतीयो-

अम्लानवाष्पमन्नाद्यमद्यान्नित्यं सुसंस्कृतम् ॥५२ कृसरापूपसंयावपायसं शष्कुलीति च । नाश्नीयाद् ब्राह्मणो मांसमनियुक्तः कथञ्चन ॥५३ क्रतौ श्राद्ध नियुक्तो वा अनश्नन् पतति द्विजः । मृगयोपार्जितं मांसमभ्यर्च्य पितृदेवताः ॥ ५४ क्षत्रियो द्वादशोनं तत् क्रीत्वा वैश्योऽपि धर्मतः । द्विजोजग्ध्वा वृथामांसं हत्वाऽप्यविधिना पशून् ॥५५ निरयेष्वक्षयं वासमाप्नोत्याचन्द्रतारकम् । सर्वान् कामान् समासाद्य फलमश्रमखस्य च ॥ ५६ मुनिसाम्य मवाप्नोति गृहस्थोऽपि द्विजोत्तमः । द्विजभोज्यानि गव्यानि माहिष्याणि पयांसि च ॥५७ निर्द्दशासन्धिसम्बन्धिवत्सवन्तीपयांसि च ।

अलावुशिग्रुकवकच्छत्राकलशुनानि च ।

पलाण्डुश्वेतवृन्ताकरक्तमूलकमेव च ॥ ५८

गृञ्जनारुणवृक्षासृग्जन्तुगर्भ फलानि च ।

अकालकुसुमादीनि द्विजोजग्ध्वैन्दवं चरेत् ॥५६ वाग्दूषितमविज्ञातमन्यपीड़ित कार्य्यपि । भूतेभ्योऽन्नमदत्वा च तदन्नं गृहिणो दहेत् ॥ ६० हेमराजतकांस्येपु पात्रेष्वद्यात सदा गृही । तद्भावे साधुगन्ध (मेध्य) लोधद्रुमलतासु च ॥ ६१

ऽध्यायः ]

गृहस्थाह्निकवर्णनम् ।

पलाशपद्मपत्रेषु गृहस्थो भोक्तुमर्हति । ब्रह्मचारी यतिश्चैव श्रेयोयोक्तमर्हति ॥ ६२ अभ्युक्ष्यान्नं नमस्कारर्भुवि दद्याद्वलित्रयम् । भूपतये भुवः पतये भूतानां पतये तथा ॥ ६३ अपः प्राश्य ततः पश्चात् पञ्चप्राणाहुतिः क्रमात् । स्वाहाकारेण जुहुयाच्छेषमद्याद्यथासुखम् ॥६४ अनन्यचित्तो भुञ्जीत वाग्यतोऽन्नमकुत्सयन् । आतृप्तेरन्नमश्नीयादक्षुण्णां पात्रमुत्सृजेत् ॥ ६५ उच्छिष्टमन्नमुद्धृत्य ग्रासमेकं भुवि क्षिपेत् । आचान्तः साधुसङ्गेन सद्विद्यापठनेन च ॥६६ वृत्तवृद्ध (पुरावृत्त) कथाभिश्वशेषामतिवाहयेत् । सायं सन्ध्यामुपासीत हुत्वाऽग्नि भृत्यसंयुतः ॥ ६७ आपोशानक्रियापूर्वमश्नीयादन्वहं द्विजः ।

[[१६४७]]

सायमप्यतिथिः पूज्यो होमकालागतो ( द्विजः) ऽनिशम् ॥६८ श्रद्धया शक्तितो नित्यं श्रुतं हन्यादपूजितः । नातितृप्त उपस्पृश्य प्रक्षाल्य चरणौ शुचिः ॥ ६६ अप्रत्यगुत्तरशिराः शयीत शयने शुभे ।

शक्तिमानुचिते काले स्नानं सन्ध्या न हापयेत् ॥ ७० ब्राह्मे मुहूर्त्ते चोत्थाय चिन्तयेद्धितमात्मनः ।

शक्तिमान् मतिमान् नित्यं वृत्तमेतत् समाचरेत् ॥७१

इति वेदव्यासीये धर्मशास्त्रे गृहस्थाह्निकोनाम तृतीयोऽध्यायः ।

[[१६४८]]

व्यासस्मृतिः ।

[ चतुर्थी-

॥ चतुर्थोऽध्यायः ॥

अथ गृहस्थाश्रमप्रशंसापूर्वक तीर्थधर्म वर्णनम् ।

इति व्यासकृतं शास्त्रं धर्मसारसमुच्चयम् । आश्रमे यानि पुण्यानि मोक्षधर्माश्रितानि च ॥ १ गृहाश्रमात् परो धर्मो नास्ति नास्ति पुनः पुनः । सर्वतीर्थफलं तस्य यथोक्तं यस्तु पालयेत् ॥ २ गुरुभक्तो भृत्यपोषी दयावाननुसूयकः ।

नित्यजापी च होमी च सत्यवादी जितेन्द्रियः ॥ ३

स्वदारे यस्य सन्तोषः परदारनिवर्तनम् । ।

अपवादोsपि नो यस्य तस्य तीर्थफलं गृहे ॥४ परदारान् परद्रव्यं हरते यो दिने दिने । सर्व्वतीर्थाभिषेकेण पापं तस्य न नश्यति ॥५ गृहेषु सेवनीयेषु सर्वतीर्थफलं ततः । अन्नदस्य त्रयो भागाः कर्ता भोगेन लिप्यते ॥ ६ प्रतिश्रयं पादशौचं ब्राह्मणानाञ्च तर्पणम् । न पापं संस्पृशेत्तस्य बलिं भिक्षां ददाति यः ॥७ पादोदकं पादवृतं दीपमन्नं प्रतिश्रयम् । यो ददाति ब्राह्मणेभ्यो नोपसर्पति तं यमः ॥८ विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । तावत् पुष्करपात्रेषु पिबन्ति पितरोऽमृतम् ॥६

ऽध्यायः ]

दानधमप्रकरणवर्णनम् ।

[[१६४६]]

यत्फलं कपिलादाने कार्तिक्यां ज्येष्ठपुष्करे ।

तत्फलं ऋषयः (पाण्डव) श्रेष्ठा विप्राणां पादशौ (ध) चने ॥ १०

स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः ।

पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥ ११ मातापित्रोः परं तीर्थं गङ्गा गावो विशेषतः । ब्राह्मणात् परमं तीथं न भूतं न भविष्यति ॥१२ इन्द्रियाणि वशीकृत्य गृह एव वसेन्नरः । तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ १३ गङ्गाद्वारश्च केदारं सन्निहत्यां तथैव च । एतानि सर्वतीर्थानि कृत्वा पापैः प्रमुच्यते ॥१४ वर्णानामाश्रमाणाञ्च चातुर्वर्णस्य (पार्थिव) भो द्विजाः । दानधर्मं प्रवक्ष्यामि यथा व्यासेन भाषितम् ॥१५ यद्ददाति विशिष्टेभ्यो यच्चाश्नाति दिने दिने । तच्च वित्तमहं मन्ये शेषं कस्याभिरक्षति ॥१६ यद्ददाति यदश्नाति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥१७ किं धनेन करिष्यन्ति देहिनोऽपि गतायुषः । यद्वद्ध यितुमिच्छन्तस्तच्छरीरमशाश्वतम् ॥१८ अशाश्वतानि गात्राणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥ १६ यदि नाम न धर्माय न कामाय न कीर्तये । यत्परित्यज्य गन्तव्यं तद्धनं किं न दीयते ॥ २०

[[१६५०]]

व्यासस्मृतिः ।

[ चतुर्थी-

जीवन्ति जीविते यस्य विप्रा मित्राणि बान्धवाः । जीवितं सफलं तस्य आत्मार्थे को न जीवति ॥ २१ क्रिमयः किं न जीवन्ति भक्षयन्ति परस्परम् । परलोकाविरोधेन यो जीवति स जीवति ॥ पशवोऽपि हि जीवन्ति केवलात्मोदरम्भराः ।

कि कायेन सुगुप्तेन (सुपुष्टेन ) वलिना चिरजीविनः ॥२२ प्रासादर्धमपि ग्रासमर्थिभ्यः किं न दीयते । इच्छानुरूपो विभवः कदा कश्य भविष्यति ॥ २३

अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति । दातारं कृपणं मन्ये मृतोऽप्यथं न मुञ्चति ॥ २४ प्राणनाशस्तु कर्तव्यो यः कृतार्थो न सो (र्थः सनो) Sमृतः । अकृतार्थस्तु यो मृत्युं प्राप्तः खरसमोहि सः ॥२५ अनाहूतेषु यद्दत्तं यच दत्तमयाचितम् ।

भविष्यति युगस्यान्तस्तस्यान्तो न भविष्यति ॥२६ मृतवत्सा यथा गौश्च तृष्णा लोभेन दुह्यति । । परस्परस्य दानानि लोकयात्रा न धर्मतः ॥२७ अष्टे चाशुभे (चाश्रुते) दानं भोक्ता चैव न दृश्यते । पुनरागमनं नास्ति तत्र दानमनन्तकम् ॥२८ मातापितृषु यद्दद्याद् भ्रातृषु श्वशुरेषु च । जायापत्येषु यद्दद्यात् सोऽनन्तः स्वर्गसंक्रमः ॥२६ पितुः शतगुणं दानं सहस्रं मातुरुच्यते । भगिन्यां शतसाहस्रं सोदरे दत्तमक्षयम् ॥३० इन्दुक्षयः पिता ज्ञेयो माता चैव दिनक्षयः । संक्रान्तिर्भगिनी चैव व्यतीपातः सहोदरः ॥ अहन्यहनि दातव्यं ब्राह्मणेभ्यो मुनीश्वर । आगमिष्यति यत् पात्रं तत्पात्रं तारयिष्यति ॥३१ऽध्यायः ] दानधर्म प्रकरणे सत्पात्रनिरूपण वर्णनम् ।

किश्विद्वेदमयं पात्रं किञ्चित् पात्रं तपोमयम । पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥ ३२ यस्य चैव गृहे मूर्खो दूरे चाऽपि गुणान्वितः । गुणन्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ ३३ देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।

कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ ३४ ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ३५ सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । भोजने चैव दाने च हन्यात्त्रिपुरुषं कुलम् ॥३६ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । यश्व विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥ ३७ ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः । यश्व विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥ ३८ ब्राह्मणेषु च यद्दत्तं यच्च वैश्वानरे हुतम् ।

तद्धनं धनमाख्यातं धनं शेषं निरर्थकम् ॥ ३६

सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।

सहस्रगुणमाचार्ये ह्यनन्तं वेदपारगे ॥४०

ब्रह्मबीजसमुत्पन्नो मन्त्र संस्कारवर्जितः ।

जातिमात्रोपजीवी च स भवेद् ब्राह्मणः समः ॥४१ गर्भाधानादिभिर्मन्त्रैर्वेदोपनयनेन च ।

नाध्यापयति नाधीते स भवेद् ब्राह्मणब्रुवः ॥४२

[[१०४]]

[[१६५१]]

[[१६५२]]

व्यासस्मृतिः ।

अग्निहोत्री तपस्वी च वेदमध्यापयेच्च यः सकल्पं सरहस्यञ्च तमाचार्यं प्रचक्षते ॥४३ इष्टिभिः पशुबन्धैश्च चातुर्मास्यैस्तथैव च । अग्निष्टोमादिभिर्यज्ञे येन चेष्टं स इ ( यि )ष्टवान् ॥४४ मीमांसते च यो वेदान् पभिरङ्गः सविस्तरैः । इतिहासपुराणानि स भवेद्वेदपारगः ॥४५ ब्राह्मणा येन जीवन्ति नान्यो वर्णः कथञ्चन । ईदृक्पथमुपस्थाय कोऽन्यस्तं त्यक्तुमुत्सहेत् ॥४६ ब्राह्मणः स भवेच्चैव देवानामपि दैवतम् । प्रत्यक्षञ्चैव लोकस्य ब्रह्मतेजो हि कारणम् ॥४७ ब्राह्मणस्य मुखं क्षेत्रं निष्ककरमकण्टकम् । वापयेत्तत्र बीजानि सा कृषिः सार्वकामिकी ॥४८ सुक्षेत्रे वापयेद्वीजं सुपात्रे दापयेद्धनम् ।

सुक्षेत्रे च सुपात्रे च क्षिप्तं नैव विदुष्यति ॥४६ विद्याविनयसम्पन्न ब्राह्मणे गृहमागते ।

क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम् ॥५०

नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्जिते ।

दीयमानं रुदत्यन्नं भयाद्वे दुष्कृतं कृतम् ॥५१ वेदपूर्णमुखं विप्रं सुभुक्तमपि भोजयेत् ।

नच मूर्ख निराहारं षड्रात्रमुपवासिनम् ॥५२

[ चतुर्थी-

यानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भो (भारत) द्विजाः ।

तानि तस्य प्रयोज्यानि न शरीराणि देहिनाम् ॥५३

ऽध्यायः ]

ब्राह्मणप्रशंसनवर्णनम् ।

यस्य देहे सदाऽश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किम्भूतमधिकं ततः ॥ ५४ यद्भुङ्क्ते वेदविद्विप्रः स्वकर्मनिरतः शुचिः । दातुः फलमसङ्ख्यातं प्रतिजन्म तदक्षयम् ॥५५ हस्त्यश्वरथयानानि केचिदिच्छन्ति पण्डिताः । अहं नेच्छामि मुनयः कस्यैताः शस्य सम्पदः ॥ ५६ वेदलाङ्गलकृष्टेषु द्विजश्रेष्ठेषु सत्सु च । यत्पुरा पातितं बीजं तस्यैताः सस्यसम्पदः ॥५७ शतेषु जायते शूरः सहस्रेषु च पण्डितः ॥ ५८ वक्ता शतसहस्रेषु दाता भवति वा न वा । न रणे विजयाच्छूरोऽध्ययनान्न च पण्डितः ॥ ५६ न वक्ता वाक्पटुत्वेन न दाता चार्थदानतः । इन्द्रियाणां जये शूरो धर्मं चरति पण्डितः ॥६० हितप्रियोक्तिभिर्वक्ता दाता सम्मानदानतः ॥ ६१

[[१६५३]]

यद्येक पक्तयां विषमं ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः । वेदेषु दृष्टं ऋषिभिश्व गीतम् तद्ब्रह्महत्यां मुनयो वदन्ति ॥ ६२

ऊपरे वाऽपितं वीजं भिन्नभाण्डेषु गोदुहम् ।

हुतं भस्मनि हव्यश्च मूर्खे दानमशाश्वतम् ॥६३ मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजने ।

[[1]]

अहमेवं न जानामि कां योनिं स गमिष्यति ॥ ६४ शूद्रान्नेनोदरस्थेन यदि कश्चिन्प्रियेत यः ।

स भवेत् च्छ्रकरो नूनं तस्य वा जायते कुलम् ॥६५

[[१६५४]]

व्यासस्मृतिः ।

गृध्रो द्वादश जन्मानि सप्त जन्मानि शूकरः । श्वा चैव सप्त जन्मानि इत्येवं मनुरब्रवीत् ।

अमृतं ब्राह्मणान्नेन दारिद्रं क्षत्रियस्य च ॥ ६६ वैश्यान्नेन तु शूद्रत्वं शूद्रान्नान्नरकं व्रजेत् ।

यश्च भुङ्क्तेऽथ शूद्रान्नं मासमेकं निरन्तरम् ॥६७ इह जन्मनि शूद्रत्वं मृतः श्वा चैव जायते । यस्य शूद्रा पचेन्नित्यं शूद्रा वा गृहमेधिनी ॥ ६८ वर्जितः पितृदेवैस्तु रौरवं याति स द्विजः । भाण्डसङ्करसङ्कीर्णा नानासङ्करसङ्कराः ॥ ६६ योनिसङ्करसङ्कीर्णा निरयं यान्ति मानवाः । पक्तिभेदी वृथापाकी नित्यं ब्राह्मणनिन्दकः ॥ ७० आदेशी वेदविक्रेता पञ्चते ब्रह्मघातकाः ॥७१ इदं व्यासमतं नित्यमध्येतव्यं प्रयत्नतः ।

एतदुक्ताचारवतः पतनं नव विद्यते ॥७२

[ चतुर्थी-

इति श्रीवेदव्यासीये धर्मशास्त्रे गृहस्थाश्रमप्रशंसादिवर्णनो नाम

चतुर्थाऽध्यायः ।

समाप्ता चेयं व्यासस्मृतिः ।

ॐ तत्सब्रह्मणे नमः ।

॥ अथ ॥ 3727 ॥ अथ