*:–
॥ श्रीगणेशाय नमः ॥
अथ प्रथमोऽध्यायः ।
अथ धर्मजिज्ञासा, धर्माचरणस्यफलं, धमलक्षणं, अर्यावर्त, पंचमहापातकवर्णनम् ।
अथातः पुरुषनिःश्रेयसाथ धर्मजिज्ञासा ॥१
ज्ञात्वा चानुतिष्ठन्धार्मिकः प्रशस्यतमो भवति लोके, प्रेत्य च स्वर्ग लोकं समश्नुते ॥२ श्रुतिस्मृतिविहितो धर्मः ॥३
तदलाभे शिष्टाचारः प्रमाणम् ॥४
शिष्टः पुनरकामात्मा ॥५
अगृह्यमाणकारणो धर्मः ॥६
आर्यावर्तः प्रागादर्शात्प्रत्यक्चालक व नादुदकपारियात्राद्द-
आर्यावर्तलक्षणं, एनस्विनिरूपणं, पंचमहापातकवर्णनम् । १४६६
[[1]]
[[1]]
क्षिणेन हिमवत उत्तरेण च विन्ध्यस्य ॥७
तस्मिन्देशे ये धर्मा ये चाऽऽचारास्ते सवत्र प्रत्येतव्याः ॥८ न त्वन्ये प्रतिलोमकल्पधर्माणः ॥
एतदार्यावर्तमित्याचक्षते ॥१० गङ्गायमुनयोरन्तरे ज्येके ॥११
यावद्वा कृष्णमृगो विचरति तावद्द्ब्रह्मवर्चसमित्यन्ये ॥ १२ अथापि भाल्लविनो निदाने गाथा मुदाहरन्ति ॥ १३ पश्चात्सिन्धुर्विहरिणी सूर्यस्योदय पुरः । यावत्कृष्णोऽभिधावति तावद्वै ब्रह्मवर्चसम् ॥१४ त्रैविद्यवृद्धा यं ब्रूयुर्धमं धर्मविदो जनाः ।
पवने पावने चैव स धर्मो नात्र संशय इति ॥ १५ देशधर्म जातिध में कुलर्धान्श्रुत्यभावादब्रवीन्मनुः ॥१६ सूर्याभ्युदितः सूर्याभिनिर्मुक्तः कुनखी श्यावदन्तः परिवित्तिः परिवेत्ताऽयं दिधिषूपतिर्वीरा ब्रह्मोज्झ इत्येनस्विनः ॥ १७
पश्च महापातकान्याचक्षते ॥१८
गुरुतल्प सुरापानं भ्रूणहत्या ब्राह्मणसुवर्णापहरणं-
पतितसंयोगश्च ॥ १६ ब्राह्मण वा यौनेन वा ॥२०
अथाप्युदाहरन्ति ॥ २१
संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनाध्यापनाद्यौनान्न तु यानासना शना ] दिति ॥ २२ योऽग्रीनपविध्येद्गुरुं च यः प्रतिजघ्नुयान्नास्तिकोनास्तिकवृत्तिः सोमं च विक्रीणीयादित्युपपातकानि ॥२३
[[१४७०]]
वसिष्ठस्मृतिः ।
[ प्रथमो-
तिस्रो ब्राह्मणस्य भार्या वर्णानुपूर्व्येण,
द्वे राजन्यस्य, एकैका वैश्यशूद्रयोः ॥२४
शूद्रामध्येके, मन्त्रवजं तद्वत् ॥ २५ तथा न कुर्यात् ॥२६ अतो हि ध्रुवः कुलापकर्षः प्रेत्य चास्वर्गः ॥ २७
विवाहाः ॥२८
ब्राह्मो दैव आर्षो गान्धर्वः क्षात्रो मानुषश्चेति ॥२६
इच्छत उदकपूर्वं यां दद्यात्स ब्राह्मः ॥३०
यज्ञतन्त्रे वितत ऋत्विजे कर्म कुर्वते कन्यां दद्यादलंकृत्य यं दैवमित्याचक्षते ॥ ३१ गोमिथुनेन चाऽऽर्षः ॥ ३२ सकामां कामयमानः सदृशीं यो निमु (रु) ह्यात्स गान्धर्वः ३३ यां बलेन सहसा प्रमथ्य हरन्ति स क्षात्रः ॥३४ पणित्वा धनक्रीतां स मानुषः ॥ ३५
तस्माद् दुहितृमतेऽधिरथं शतं देयमितीह क्रयो विज्ञायते ३६ या पत्युः क्रीता सत्यथान्यैश्चरतीति ह चातुर्मास्येषु ॥३७ अथाप्युदाहरन्ति - ३८
विद्या प्रनष्टा पुनरभ्युपैति जातिप्रणाशे त्विह सर्वनाशः । कुलापदेशेन योऽपि पूज्यस्तस्मात्कुलीनां स्त्रियमुद्वहन्ति इति ॥३६
यो वर्णा ब्राह्मणस्य वशे वर्तेरन् ॥४०
तेषां ब्राह्मणो धर्मान्प्रब्रूयात् ॥४१
तं राजा चानुशिष्यात् ॥ ४२
राजा तु धर्मेणानुशासयत्पष्ठं षष्ठं धनस्य हरेत् ॥४३
अन्यत्र ब्राह्मणात् ॥४४ऽध्यायः ] उपपातकं, ब्राह्मविवाह,
ब्राह्मणादिवर्णमाचारश्वनिरूपणम् १४७१
इष्टापूर्तस्य तु षष्ठमंशं भजतीति ह ब्राह्मणां वेदभाद्यं करोति, ब्राह्मण आपद उद्धरति तस्म त्राह्मणोऽनाद्यः ॥४५ सोमोऽस्य राजा भवतीति ह प्रेत्य चाऽऽभ्युदयिकमिति ह विज्ञायते ॥४६
इति वासिष्ठे धर्मशास्त्रे प्रथमो ध्यायः ।
अथ द्वितीयोऽध्यायः ।
अथ ब्राह्मणादीनां प्रधानकर्मणि - पातित्यहेतवः कृषिधर्मनिरूपणम् ।
चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः ॥ १
यो वर्णा द्विजातयो ब्राह्मक्षत्रियवैश्याः ॥२ तेषां मातुरग्रेऽधिजननं द्वितीयं मौञ्जीबन्धने ॥३ तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥४ वेदप्रदानात्पितेत्याचार्यमाचक्षते ॥५ अथाप्युदाहरन्ति ॥ ६
द्वयमु वै ह पुरुषस्य रेतो ब्राह्मणस्योर्ध्व नाभेरर्वाचीनमन्यद्यद्यदूध्वं नाभेस्तेनास्यानौरसी प्रजा जायते ॥ ७ यदुपनयति जनन्यां जनयति यत्साधू करोति ॥८ अथ यदर्वाचीनं नामेस्तेनेहास्यौरसी प्रजा जायते ॥६ तस्माच्छोत्रिय मनूचानमप्रजोऽसीति न वदन्तीति ॥१० हारीतोऽप्युदाहरति ॥११
[[१४७२]]
वसिष्ठस्मृतिः ।
न विद्यते कर्म किंचिदामौञ्जिबन्धनात् ।
[ द्वितीयो-
वृत्त्या शूद्रसमो ज्ञेयो यावद्वेदे न जायत इति ॥ १२ अन्यत्रोदककर्मस्वधापितृसंयुक्तेभ्यः ॥ १३
विद्या ह वै ब्राह्मगमाजगाम गोपाय मां शेवधिस्तेऽहमस्मि । असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा स्याम् ॥ यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचय. पपन्नम् । यस्तेन द्रुह्येत्कतमञ्च नाह तस्मै मां ब्रूया निधिपाय ब्रह्मन् १५ य आतृणन्त्यवितथेन कर्मणा बहुदुःखं कुर्वन्नमृतं संप्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमश्च नाह ॥ १६ अध्यापिता ये गुरु नाऽऽद्रियन्ते विप्रा वाचा मनसाकर्मणा वा ।
यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् १७ दहत्यग्निर्यथा कक्षं ब्रह्मपृष्ठमनादृतम् ।
न ब्रह्म तस्मै प्रब्रूयाच्छक्यं मानमकुर्वत इति ॥ १८
षट्कर्माणि ब्राह्मणस्य ॥१६
स्वाध्यायाध्ययनमध्यापनं यजनं याजनं दानं प्रतिग्रहश्वेति ।
त्रीणि राजन्यस्य ॥२१
अध्ययनं यजनं दानं च शस्त्रेण च प्रजापालनंस्त्रधर्मस्तेन जीवेत् ॥ २२
एतान्येव त्रीणि वैश्यस्य, कृषिर्वाणिज्यं पाशुपाल्यं कुसीदं च
एतेषां परिचर्या शूद्रस्य ॥ २४
अनियता वृत्तिः ॥२५
अनियतकेशवेशाः सर्वेषां मुक्तशिखावर्जम् ॥२६
ऽध्यायः ] वार्धुषिकान्नभक्षणे, ब्राह्मणराजन्ययोर्निषेधः
[[१४७३]]
अजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिमातिष्ठेरन् ॥२७ न तु कदाचिज्ज्यायसीम ॥२८
वैश्यजीविकामास्थाय पण्येन जीवतोऽश्मलवण मणिशाणकौशेयक्षौमाजिनानि च तान्तवं रक्तं सर्व च कृतान्नं पुष्पफलमूलानि च गन्धरसा उदकं चौषधीनां रसः सोमश्च शस्त्रं च क्षीरं विषं मासं च सविकारमयस्त्रपु जतु सीसं च ॥२६ अथाप्युदाहरन्ति ॥३०
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणाः क्षीरविक्रयात् इति ॥३१ ग्राम्यपशूनामेकशफाः केशिनश्च सर्वे चाऽऽरण्याः पशवोवयांसि दंष्ट्रिणश्च ॥३२
धान्यानां तिलानाहुः ॥३३ अथाप्युदाहरन्ति ॥ ३४
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः
कृमिभूतः स विष्ठायां पितृभिः सह मज्जति इति ॥ ३५ कामं वा स्वयं कृग्योत्पाद्य तिलान्विक्रीणीरन् ॥३६ तत्मात्साण्डाभ्यां सनस्योताभ्यां प्राक्प्रातराशात्कर्षी स्यात् ३७ निदाघेऽपः प्रछच्छेत् ॥३८
नानिपीडयलॉङ्गलं प्रवीरवत्सुशेवं सोमपित्सरु तदुद्वपति-
G
गामवि चाजानश्वानश्वतरखरोष्ट्रांश्च प्रफव्यं च
पीवरी प्रस्थावद्रथवाहनमिति ॥ ३६
लाङ्गलं प्रवीरवद्वीरवत्सुमनुष्यवदनडुद्वत्सुशेवं-
कल्याणनासिकं कल्याणी ह्यस्य ।
[[१४७४]]
वसिष्ठस्मृतिः ।
[ द्वितीयो-
नासिका नासिकयोद्वपति दूरेऽपविध्यति, सोमपित्सरु सोमो ह्यस्य प्राप्नोति, सत्सरु तदुद्वति, गां चावि चाजानश्वानश्व - तरखरोष्ट्रांश्च प्रफव्यं च पीवरीं दर्शनीयां कल्याणीं च प्रथमयुवतीम् ॥४०
कथं हि लाङ्गलमुद्वपेदन्यत्र धान्यविक्रयात् ॥४१
रसा रसैर्महतो हीनतो वा निमातव्या न त्वेव लवणं रसैः ॥४२ तिलतण्डुल पक्कान्नं विद्यान्मनुष्याश्च विहिताः परिवर्तकेन ॥ ४३ ब्राह्मणराजन्यौ वार्धुषान्नंनाद्याताम् ॥४४
अथाप्युदाहरन्ति ॥४५
समघं धान्यमुद्धृत्य महाघं यः प्रयच्छति । स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥
ब्रह्महत्यां च वृद्धिं च तुलया समतोलयत् । अतिष्ठदु हा कोट्यां वार्धषिः समकम्पत इति ॥४६ कामं वा परिलुप्तकृत्याय पापीयसे दद्याताम् ॥४७ द्विगुणं हिरण्यं त्रिगुणं धान्यम ॥४८
धान्येनैव रसा व्याख्याताः ॥४६
पुष्पमूलफलानि च ॥५०
तुलाधृतमष्टगुणम् ॥५१ अथाप्युदाहरन्ति ॥५२ राजानुमतभावेन द्रव्यवृद्धि विनाशयेत् ॥५३ पुना राजाऽभिषेकेण द्रव्यवृद्धिं च वर्जयेत् । ।
द्विकं त्रिकं चतुष्कं च पञ्चमं च शतं स्मृतम् ॥५४ मासस्य वृद्धि गृह्णीयाद्वर्णानामनुपूर्वशः ।
[[1]]
Sध्यायः ] अश्रोत्रियादीनां शूद्रसधर्मत्वमाततायिवधवर्णनञ्च १४७५
वसिष्ठवचनप्रोक्तां वृद्धिं वार्धुपिके शृणु ।
पञ्च माषास्तु विंशत्या एवं धर्मो न हीयते ॥५५
इति वासिष्ठे धर्मशास्त्रे द्वितीयोऽध्यायः ।
अथ तृतीयोऽध्यायः ।
अथाश्रोत्रियादीनांशूद्रसधर्मत्वमाततायिवधवर्णनम् ।
अश्रोत्रिया अननुवाक्या अनग्नया वा शूद्रसधर्माणो भवन्ति ॥ १
मानवं चात्र श्लोकमुदाहरन्ति ॥ २
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम ।
स जीवन्नेव
शूद्रत्वमाशु गच्छति सान्वयः ॥ ३ नानृग्ब्राह्मणो भवति न वणिहून कुशीलवः । न शूद्रप्रेषणं कुर्वन्न स्तेनो न चिकित्सकः ॥४ अत्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः ॥ ५ चत्वारोऽपि त्रयो वाऽपि यद् त्र यर्वेदपारगाः । स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥६, अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥७ यद्वदन्ति तमोमूढा मूर्खा धर्ममतन्द्रियम् । तत्पापं शतधा भूत्वा तद्वक्तृनधिगच्छति ॥८
[[६३]]
॥
[[१४७६]]
वसिष्ठस्मृतिः ।
[ तृतीयो-
श्रोत्रियायव देयानि हव्यकव्यानि नित्यशः । अश्रोत्रियाय दत्तं हि पितृन्नेति न देवताः ॥६ यस्य चैव गृहे मूर्खो दूरे चैव बहुश्रुतः । बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥१० ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ११ यत्र काष्ठमयो हस्ती यश्च चर्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥१२ विद्वद्भोज्यान्यविद्वांसो येषु राष्ट्रपु भुञ्जते । तान्यनावृष्टिमृच्छन्ति महद्वा जायते भयम् इति ॥१३ अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा-
तद्धरेदधिगन्त्रे पष्ठमंशं प्रदाय ॥१४
ब्राह्मणश्चेदधिगच्छेत्पट्कर्मसु वर्तमानो न राजा हरेत् ॥१५ आततायिनं हत्वा नात्र प्राणच्छेत्तुः किंचित्किल्विपमाहुः ॥ १६ पविधा द्याततायिनः ॥ १७
अथाप्युदाहरन्ति ॥१८
अनिदो गरदश्वव शस्त्रपाणिधनापहः । क्षेत्रदारहरचैव पंडते ह्याततायिनः ॥ १६ आततायिनमायान्तमपि वेदान्तपारगम । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥२० स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा स स्यान्मन्युस्तं मृत्युमृच्छति ॥२१
।
ऽध्यायः ] आचार्यलक्षणम्, श्वहतमृगादीनां शुचित्ववर्णनम् १४७७
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णवांश्चतुर्मेधा वाजसनेयी षडङ्गविद्ब्रह्म देयानुसंतानश्छन्दोगो ज्येष्ठसामगो मन्त्रब्राह्मणविद्यः स्वधर्मानधीते यस्य दशपुरुपं मातृपितृवंशः श्रोत्रियी विज्ञायते विद्वांसः स्नातकाचैते पङ्क्तिपावना भवन्ति ॥ २२ चातुर्विग्रं विकल्पी च अङ्गविद्धर्मपाठकः ।
आश्रमस्थास्त्रयो मुख्याः परिषत्स्याद्दशावरा ॥२३ उपनीय तु यः कृत्स्नं वेदमध्यापयेत्स आचार्यः ॥२४ यस्त्वेकदेशं स उपाध्यायो यश्च वेदाङ्गानि ॥२५
आत्मत्राणे वर्णसंकरे वा ब्राह्मणवैश्यौ शस्त्रमाददीयाताम् ॥२६
क्षत्त्रियस्य तु तन्नित्यमेव रक्षणाधिकारात् ॥२७
प्राग्वोदग्वाऽऽसीनः प्रक्षाल्य पादौ पाणी-
चाऽऽमणिबन्धनात् ॥ २८
अङ्गुष्ठमूलस्योत्तर तो रेखा ब्राह्मं तीर्थं तेन त्रिराचामेदशब्दवद्विः- ( दोपावद्भिः ) परिमृज्यात् ॥२६
खान्यद्भिः संस्पृशेत् ॥३०
मूर्धन्यपो निनयेत् ॥ ३१
सव्ये च प्रणौ, व्रजस्तिशयानः प्रणतो वा नऽऽचामेत् ॥३२
हृदयङ्गमाभिरद्भिरबुदबुदाभिरफेनाभिर्ब्राह्मणः
कण्ठगाभिः क्षत्त्रियः शुचिः ॥३३
वैश्योऽद्भिः प्राशिताभिस्तु स्त्रीशूद्रं स्पृष्टाभिरेव च ॥ ३४ पुत्रदारादयोऽपि गोस्तर्पणाः स्युः ॥ ३५
न वर्णगन्धरसदुष्टाभिर्याश्च स्युरशुभागमाः ॥ ३६
[[१४७८]]
वसिष्ठस्मृतिः ।
न मुख्याविप उच्छिं कुर्वन्त्यनङ्ग श्लिष्टाः ॥ ३७
सुप्त्वा भुक्त्वा पीत्वा क्षुत्वा रुदित्वा स्नात्वा चाऽऽचान्तः पुनराचामेत् ॥ ३८
वासश्च परिधायौष्ठौ च संस्पृश्य यत्रालोमकौ न श्मश्रुगतो लेपः ॥ ३६
[ तृतीयो-
दन्तवद्दन्तसक्तेषु यच्चा(य) न्तर्मुखे भवेत् । आचान्तस्यावशिष्टं स्यान्निगिरन्नेव तच्छुचिः ॥४० परानथाऽऽचामयतः पादौ या विप्रुषो गताः । भूम्यास्तास्तु समाः प्रोक्तास्ताभिर्नोच्छिष्टभाग्भवेत् ॥४१ प्रचरन्नभ्यवहार्येपूच्छिष्टं यदि संस्पृशेत् ।
भूमौ निक्षिप्य तद्द्रव्यमाचान्तः प्रचरेत्पुनः ॥४२ यद्यन्मीमांस्यं स्यात्तत्तदद्भिः संस्पृशेत् ॥४३ वहताश्च मृगा वन्याः पातितं च खगः फलम । बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् ॥४४ प्रसारितं च यत्पण्यं ये दोषाः स्त्रीमुखेषु च । मशकैर्मक्षिकाभिच निलीयोनो (येवो) पहन्यते ॥४५ क्षितिस्थाश्चैव या आपो गवां तृप्तिकराश्च याः । परिसंख्याय तान्सर्वाञ्छ्रचीनाह प्रजापतिः । इति ॥४६ लेपगन्धापकर्षणे शौचममेध्यलिप्तस्याद्भिर्मृदा च ॥४७ तैजसमृण्मयदारवतान्तवानां भस्मपरिमार्जनप्रदाहतक्षण निर्णेजनानि ॥४८
तैजसवदुपलमणीनां मणिवच्छशुक्तीनां दारुवदस्थ्नां रज्जविदलचर्मणां चैलवच्छौचम् ॥४६
[[१४७६]]
ऽध्यायः ] अनेकशुद्धिः, शूद्रस्यासंस्कारे हेतुवर्णनम् ।
गोवालैः फलमयानां गौरसर्पपकल्केन क्षौमजानाम् ॥५०
भूम्यास्तु संमार्जनप्रोक्षणोपलेपनोल्लेख नैयथास्थानं दोषविशेषात्प्रायत्यमुपति ॥ ५१
अथाप्युदाहरन्ति ॥५२
खननाद्दनाद्वर्षाद्गोभिराक्रमणादपि ।
चतुर्भिः शुध्यते भूमिः पञ्चमाच्चोपलेपनात् । इति ॥५३ रजसा शुध्यते नारी नदी वेगेन शुध्यति । भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति ॥५४
मद्यत्रैः पुरीपर्वा श्लेष्मपूयाश्रुशोणितैः ।
।
संस्पृष्टं नैव शुध्येत पुनः पाकेन मृण्मयम् ॥५५ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥५६ अद्भिरेव काञ्चनं पूयते, तथा राजतम् ॥५७ अङ्गुलिकनिष्ठिकामूले दैवं तीर्थम् ॥५८
अङ्गुल्य मानुपम् ॥५६ पाणिमध्य आग्नेयम् ॥ ६० प्रदेशिन्यङ्गष्ठयोरन्तरा पित्र्यम ॥६१
रोच (त) त इति सायं प्रातरनीन्य (न) भिपूजयेत् ॥६२ स्वदितमिति पित्र्येषु ॥६३ संपन्नमित्याभ्युदयिकेषु ॥ ६४
इति वासिष्ठे धर्मशास्त्रे तृतीयोऽध्यायः ।
[[१४८०]]
वसिष्ठरमृतिः ।
[ चतुर्थी-
अथ चतुर्थोऽध्यायः ।
अथ मधुपर्कादिषु पशुहिंसनवर्णनम् ।
प्रकृतिविशिष्टं चातुर्वर्ण्य संस्कारविशेपाच्च ॥ १ ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत, इति निगमो भवति ॥ २
गायत्र्या छन्दसा ब्राह्मणमसृजत्त्रिनुभा राजन्यं, जगत्या वैश्यं, न केनचिच्छन्दसा शूद्रमित्य संस्कार्यो विज्ञायते ॥ ३ सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं च ॥४ पितृदेवतातिथिपूजायां पशुं हिस्यात् ॥५ मधुपर्केच यज्ञे च पितृदैवतकर्मणि ।
अत्रैव च पशुं हिस्यान्नान्यथेत्यत्रवीन्मनुः ॥६ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्माद्यागे वधोऽवधः ॥ ७ अथापि ब्राह्मणाय वा राजन्याय वाऽभ्यागताय वा महोक्षं वा महाजं वा पचेदेवमस्याऽऽतिथ्यं कुर्वन्तीति ॥८ उदकक्रियामशौचं च द्विवपत्प्रभृति मृत उभयं कुर्यात् ॥६ दन्तजननादित्येके ॥१०
शरीरमग्निना संयोज्यानवेक्ष्यमाणा अपोऽभ्यवयन्ति ॥११ सव्येतराभ्यां पाणिभ्यामुदकक्रियां कुर्वन्ति ॥१२
अयुग्मा दक्षिणामुखाः ॥१३ऽध्यायः ]
शावाशौचनिरूपणवर्णनम् ।
[[१४८१]]
पितॄणां वा एषा दिकू, या दक्षिणा ॥१४
गृहान्त्रजित्वा प्रस्तारे त्र्यहमनश्नन्त आसीरन् ॥१५
अशक्तौ क्रीतोत्पन्नेन वर्तेरन्दशाहं शावमाशौचं सपिण्डेषु
विधीयते ॥ १६
मरणात्प्रभृति दिवसगणना सपिण्डता तु सप्तपुरुषं विज्ञायते ॥
अप्रत्तानां स्त्रीणां त्रिपुरुपं त्रिदिनं विज्ञायते ॥१८
प्रत्तानामितरे कुर्वीरंस्तांच (?) तेपां जननेऽप्येवमेव निपुणां शुद्धिमिच्छतां मातापित्रोबींज निमित्तत्वात् ॥१६
अथाप्युदाहरन्ति ॥२०
नाशौचं सूतके पुंसः संसगं चेन्न गच्छति ।
रजस्तत्राशुचि ज्ञेयं तच पुंसि न विद्यते इति ॥ २१
तच्चेदन्तः पुनरापतेच्छेपेण शुध्येरन् ॥ २२
,
रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिर्ब्राह्मणो दशरात्रेण पञ्चदशरात्रेण भूमिपो विंशतिरात्रेण वैश्यः शूद्रो मासेन शुध्यति ॥ २३
अत्राप्युदाहरन्ति ॥२४
आशौचे यस्तु शूद्रम्य सूतके वाऽपि भुक्तवान् । स गच्छेन्नरकं घोरं तिर्यग्योनिषु जायते इति ॥ २५ अनिर्दशाहे पक्कान्नं नियोगाद्यस्तु भुक्तवान् । कृमिभूत्वा स देहान्ते तद्विद्या मुपजीवति ॥ २६
द्वादश मासान्द्वादशार्धमासान्वाऽनश्नन्संहितामधीयानः पूतो भवतीति विज्ञायते ॥२७
[[१४८२]]
वसिष्ठस्मृतिः ।
[ पञ्चमो-
ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रमाशौचं
सद्यः शौचमिति गौतमः ॥२८
देशान्तरस्थे प्रेत ऊध्वं दशाहाच्छ त्वैकरात्रमाशौचम् ॥२०
आहिताग्मिश्चेत्प्रवसन्म्रियेत पुनः संस्कारं कृत्वा - शववच्छौचमिति गौतमः ॥३०
यूपचि (य) तिश्मशानरजस्वला सूतिकाशुचीनुपस्पृश्य सशिरा अभ्युपेयादप इति ॥३१
इति वासिष्ठे धर्मशास्त्रे चतुर्थोऽध्यायः ।
अथ पञ्चमोऽध्यायः ।
अथायीधर्मवर्णनम् ।
अस्वतन्त्रा स्त्री पुरुषप्रधाना ॥ १
अनमिकाऽनुदक्या वा अनृतमिति विज्ञायते ॥२
अथाप्युदाहरन्ति ॥३
पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥४
तस्या भर्तुरभिचार उक्तः प्रायश्चित्त रहस्येषु ॥५ मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ६
ऽध्यायः ]
आत्रेयीधर्मवर्णनम् ।
"
[[१४८३]]
त्रिरात्रं रजस्वलाऽशुचिर्भवति सा नाज्ज्यान्नाभ्यज्यान्न सु स्नायात्, अधः शयीत, दिवा न स्वप्यात्, नाग्निं स्पृशेत्, न रज्जुं सृजेत, न दन्तान्धावयेत् न मांसमश्नीयात्, न ग्रहानिरीक्षेत न हसेन्न किंचिदाचरेत, अखर्वेण पात्रेण पिबेत, अञ्जलिना वा पिवेत्, लोहितायसेन वा ॥७ विज्ञायते हीन्द्रस्त्रिशीर्षाणं त्वाष्ट्रं हत्वा पाप्मगृहीतो महत्तमाधर्मसंबद्धोऽहमित्येवमात्मानममन्यत, तं सर्वाणि भूतान्यभ्याक्रोशन्, भ्रणहन् गहन्त्र णहन्निति, स स्त्रिय उपाधावत्, अस्यै मे ब्रह्महत्यायै तृतीयं भागं प्रतिगृह्णीतेति गत्वैवमुवाच, ता अब्रुवन् , किं नोऽभूदिति, सोब्रवीद्वरं
་
वृणीध्वमिति, ता अब्रुवन्नृतौ प्रजां विन्दामह इति, कामं मा विजानीमो संभवाम इति, यथेच्छया आप्रसवकालात्पुरुषेणसहमैथुनभावेन सम्भवाम इति चैपोस्माकं वरस्तथेन्द्रेणोक्तास्ताः प्रतिजगृहुम्तृतीयं भ्रूणहत्यायाः ॥८
सैपा भ्रूणहत्या मासि माझ्याविर्भवति ॥
तस्माद्रजस्वलान्न’ नाश्नीयात ॥१०
अतश्च भ्रूणहत्याया एवैपा रूपं प्रतिमुच्याऽऽस्ते कञ्चुकमिव ॥ तदाहुर्ब्रह्मवादिनः ॥ १२
अञ्जनाभ्यञ्जनमेवास्या न प्रतिग्राह्यम् ।
तद्धि स्त्रिया अन्नमिति ॥ १३
तस्मात्तस्यास्तत्र न च मन्यन्ते ॥ १४
आचारायाश्च योपित इति सेयमुपयाति ॥ १५
[[१४८४]]
वसिष्ठस्मृतिः ।
उदयास्त्वासते येषां ये च केचिदनग्नयः । कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिण इति ॥ १६ गृहस्थाः श्रोत्रियाः पापाः सर्वे ते शूद्रधर्मिणः ।
इति वासिष्ठे धर्मशास्त्रे पञ्चमोऽध्यायः ।
।
[ षष्ठो-
॥ षष्ठोऽध्यायः ॥
अथाचारप्रशंसा, हीनाचारम्यनिन्दावर्णनम् । आचारः परमो धर्मः सर्वे पामिति निश्चयः । हीनाचारपरीतात्मा प्रेत्य चेह विनश्यति ॥१ नैनं तपांसि न ब्रह्म नाग्निहोत्रं न दक्षिणाः । हीनाचारमितो भ्रष्टुं तारयन्ति कथंचन ॥२
आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह पभिरङ्गः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥३ आचारहीनस्य तु ब्राह्मणस्य वेदाः पडङ्गास्त्वखिलाः सयज्ञाः । कां प्रीतिमुत्पादयितुं समर्था अन्धस्य द्वारा इव दर्शनीयाः ॥४ नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । द्वेष्य (अ)क्षरे सम्यगधीयमाने पुनानि तद्वह्म यथावदिष्टम् ॥५
दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ ६ आचारात्फलते धर्ममाचारात्फलते धनम् । आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥७
Sध्यायः ] नद्यादिषुमूत्रपुरीपोत्सग, शौचमृत्तिकाप्रमाणव० १४८५
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥८ आहारनिहारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः । वाग्बुद्धिकार्याणि तपस्तथैव धनायुपी गुप्ततमे तु कार्ये ॥ उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः । रात्रौ कुर्याद्दक्षिणास्य एवं ह्यायुर्न हीयते ॥१० प्रत्यग्निं प्रति सूर्यं च प्रति गां प्रति च द्विजम् । प्रति सोमोदकं संध्यां प्रज्ञा नश्यति मेहतः ॥ ११ न नद्यां मेहनं कार्य न भस्मनि न गोमये । न वा कृष्ठे न मार्गे च नोप्ते क्षेत्र न शादवले ॥१२ छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्प्राणवावाभयेषु च ॥ १३ उद्धृताभिरद्भिः कार्यं कुर्यात्स्नानमनुद्धृताभिरपि ॥ १४ आहरे मृत्तिकां विप्रः कूलात्मसिकतां तथा । अन्तर्जले देवगृहे वल्मीके मूपकस्थले ।
।
कृतशौचावशिष्टा च न ग्राह्याः पञ्च मृत्तिकाः ॥१५ एका लिङ्गे करे तिम्र उभाभ्यां द्वे तु मृत्तिके । पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ १६ एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । वानप्रस्थस्य त्रिगुणं यतीनां च चतुर्गुणम् ॥१७
अष्टौ प्रासा मुनेर्भक्तं वानप्रस्थस्य पोडश ।
।
द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः ॥ १८
।
[[१४८६]]
वसिष्ठस्मृतिः ।
[ षष्ठो-
अनड्वान्ब्रह्मचारी च आहिताग्निश्च ते त्रयः । भुञ्जाना एव सिध्यन्ति नपां सिद्धिरनश्नताम् ॥१६ योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् ।
विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥२०
ये शान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः । प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥२१
नास्तिकः पिशुनश्चैव कृतघ्नो दीर्घरोपकः ।
चत्वारः कर्मचाण्डाला जन्मतश्चापि पञ्चमः ॥२२ दीर्घवैरमसूया च असत्यं ब्रह्मदूपणम् ।
पैशुन्यं निर्दयत्वं च जानीयाच्छद्रलक्षणम् ॥२३
किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम । पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥२४ शूद्रान्नरसपुष्टाङ्गो ह्यधीयानोऽपि नित्यशः । जुह्वन्वाऽपि जपन्वाऽपि गतिमूध्या न विन्दति ॥ २५ शूद्रान्नेनोदरस्थेन यः कश्चिन्प्रियते द्विजः ।
स भवेत्सूकरो ग्राम्यस्तस्य वा जायते कुले ॥ २६ शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति ।
यस्यान्नं तस्य ते पुत्रा न च स्वर्गार्हको भवेत् ॥२७
स्वाध्यायोत्थं योनिमन्तं प्रशान्तं वैतानस्थं पापभीरु बहुज्ञम् । स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्षान्तं तादृशं पात्रमाहुः ॥
आम (ताम्र ) पात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु । विनश्येत्पात्र दौर्बल्यात्तच्च पात्रं रसाश्च ते ॥२६
ऽध्यायः ] सत्पात्रलक्षण, मञ्जलिनाजलंनपिवे,
दाचार निरूपणच १४८७
एवं गां च हिरण्यं च वस्त्रमश्वं महीं तिलान् । अविद्वान्प्रतिगृह्णानो भस्मी भवति दारुवत् ॥३० नाङ्गनखवादनं कुर्यान्नखैश्च भोजनादौ ॥३१ न चापोऽञ्जलिना पिबेत् ॥ ३२
न पादेन पाणिना वा जलमभिहन्यान्न जलेन जलम् ॥३३ नेष्टकाभिः फलानि पातयेत् ॥ ३४
न फलेन फलं न कल्को न कुहको भवेत् ॥३५
न म्लेच्छभाषां शिक्षेन ॥ ३६
अथाप्युदाहरन्ति ॥३७
न पाणिपादचपलो न नेत्रचपलो भवेत् । न चाङ्गचपलो विप्र इति शिष्टस्य गोचरः ॥ ३८ पारम्पर्यागतो येषां वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रतिप्रत्यक्ष हेतवः ॥ ३६ यन्न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित् ब्राह्मण इति ॥४० इति वासिष्ठे धर्मशास्त्रे षष्ठोऽध्यायः ।
॥ सप्तमोऽध्यायः ॥
अथ ब्रह्मचारिधर्मवर्णनम् ।
चस्वार आश्रमा ब्रह्मचारी (रि) गृहस्थवानप्रस्थ परिव्राजकाः ॥ १
[[१४८८]]
वसिष्ठस्मृतिः ।
[ सप्तमो-
तेषां वेदमधीत्य वेदौ वा वेदान्वाऽविशीर्णब्रह्मचर्या-
यमिच्छेत्तमावसेत् ॥२
ब्रह्मचार्याचार्य परिचरेत् ॥ ३ आ शरीरविमोक्षात ॥४
आचार्ये प्रमीतेऽग्निं परिचरेत् ॥ ५
विज्ञायते हि तवाग्निराचार्य इति ॥ ६
संयतवाक्चतुर्थपष्टाष्टमकालभोजी भैक्षमाचरेत् ॥७ गुर्वधीनो जटी (टि)लः शिखाजटो वा गुरुं गच्छन्तमनुगच्छेत् ॥ आसीनं च तिष्टञ्छयानं चाऽऽसीन उपासीत ॥ आहूताध्यायी सर्व लब्धं निवेद्य तदनुज्ञया भुञ्जीत ॥१० खट्वाशयनदन्तप्रक्षालनाञ्जनाभ्यञ्जनोपानच्छत्रवर्जी तिष्ठेदहनि रात्रावासीत ॥ ११
त्रि. कृत्वोऽभ्युपेयादपोऽभ्युपेयादप इति ॥ १२
इति वासिष्ठे धर्मशास्त्रे सप्तमोऽध्यायः ।
अथाष्टमोऽध्यायः । गृहस्थधर्मवर्णनम् ।
गृहस्थो विनीतक्रोधहर्षो गुरुणाऽनुज्ञातः स्नात्वाऽसमानार्षा-
मस्पृष्टमैथुनां यवीयसीं सदृशीं भार्या विन्देत ॥१
(न) पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुभ्यः ॥२ वैवाद्यमग्निमिन्धीत ॥ ३ सायमागतमतिथिं नावरुन्ध्यात् ॥४
ऽध्यायः ]
गृहस्थ धर्मवर्णनम् ।
[[१४८६]]
नास्यानश्नन्गृहे वसेत् ॥५
यस्य नाश्नाति वासार्थी ब्राह्मणो गृहमागतः ।
सुकृतं तस्य यत्किंचित्सर्वमादाय गच्छति ॥ एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥७ नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा ।
काले प्राप्ते अकाले वा नास्यानश्नन्गृहे वसेत् ॥८ श्रद्धाशीलोऽस्पृहयालुरलमग्न्याधेयाय नानाहिताग्निः स्यात् ॥
अलं च सोमपानाय नासोमयाजी स्यात् ॥ १० युक्तः स्वाध्याये प्रजनने यज्ञे च ॥११
गृहेष्वभ्यागतं प्रत्युत्थानासनशयनवाक्सूनृतानसूयाभिर्मानयेत् ॥ १२
यथाशक्ति चान्नेन सर्वभूतानि ॥१३
गृहस्थ एव यजते गृहस्थस्तप्यते तपः । चतुर्णामाश्रमाणां तु गृहस्थस्तु विशिष्यते ॥ १४ यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् ॥१५ यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षवः ॥१६ नित्योदकी नित्ययज्ञोपवीतो नित्यस्वाध्यायी पतितान्नवर्जी । ऋतौ च पच्छन्विधिवच जुन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥१७
इति वासिष्ठे धर्मशास्त्रेऽमोऽध्यायः ।
[[१४६०]]
वसिष्ठस्मृतिः ।
॥ अथ नवमोऽध्यायः ॥ वानप्रस्थधर्मवर्णनम् ।
[ दशमो-
वानप्रस्थो जटिलश्चीराजिनवासा ग्रामं च न प्रविशेत् ॥ १ न फालकृष्टमधितिष्ठेत् ॥२
अकृष्टं मूलफलं संचिन्वीत ऊर्ध्वरेताः क्षमाशयः ॥३ मूलफल भैक्षेणाऽऽश्रमागतमतिथिमभ्चययेत् ॥४ दद्यादेव न प्रतिगृह्णीयात् ॥५
त्रिषवणमुदकमुपस्पृशेत् ॥६
श्रावणकेनाग्निमाधायाऽऽहितामिः स्यादुवृक्षमूलिकः ॥७
उध्वं पद्भ्यो मासेभ्योऽनग्निरनिकेतः ॥८
दद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यमानन्त्यम् ॥६
इति वासिष्ठे धर्मशास्त्रे नवमोध्यायः ।
अथ दशमोऽध्यायः ।
अथ यतिधर्मवर्णनम् ।
परिव्राजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत ॥१
अथाप्युदाहरन्ति ॥२
अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः । तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥ ३ अभयं सर्वभूतेभ्यो दत्त्वा यस्तु निवर्तते । हन्ति जातानजातांश्च द्रव्याणि प्रतिगृह्य च ॥४ऽध्यायः ]
यतिधर्मवर्णनम् ।
संन्यसेत्स्वकर्माणि वेदमेकं न संन्यसेत् । वेदसंन्यसनाच्छूद्रस्तस्माद्वेदं न संन्यसेत् ॥५ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । उपवासात्परं भैक्षं दया दानाद्विशिष्यते ॥६
[[१४६१]]
मुण्डोऽममोपरिग्रहः सप्तागाराण्यसंकल्पितानि चरेद्भक्ष्यं (क्ष) विधूमे सन्न मुसले ॥७
एकशाटीपरिवृतोऽजिनेन वा गोप्रलूनैस्तृणैर्वेष्टितशरीरः स्थण्डिलशाय्यनित्यां वसतिं वसेत्, ग्रामान्ते देवगृहे शून्या-
गारे वृक्षमूले वा मनसा ज्ञानमधीयानः ॥८ अरण्यनित्यो न ग्राम्यपशूनां संदर्शने विहरेत् ॥ ६ अथाप्युदाहरन्ति ॥१०
।
अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । अष्मात्मचिन्तागतमानसस्य ध्रुवा नावृत्तिरुपेक्षकस्य इति ॥ ११
अव्यक्तलिङ्गो व्यक्ताचारः, अनुन्मत्त उन्मत्तवेषः ॥ १२ अथाप्युदाहरन्ति ॥१३
न शब्दशास्त्राभिरतस्य मोक्षो न चापि लोकग्रहणे रतस्य । न भोजनाच्छादनतत्परस्य न चापि रम्यावसथ प्रियस्य ॥१४ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
अनुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥१५ अलाभे न विषादी स्याल्लाभश्चैनं न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥१६
[[६४]]
[[१४६२]]
वसिष्ठस्मृतिः ।
[ एकादशी
न कुट्यां नोदके सङ्ग े न चैले न त्रिपुष्करे ।
नागारे नाऽऽसने नान्ने (नान्ते) यस्य वै मोक्षवित्तमः । इति ॥१७
ब्राह्मणकुले वा यल्लभेत तद्भुञ्जीत,
सायं प्रातर्मधुमांसपरिवर्जम् ॥१८
यतीन्साधून्वा गृहस्थान्सायं प्रातश्च तृप्येत् ॥ १६
ग्रामे वा वसेत् ॥ २०
।
अजिह्मोऽशरणोऽसंकुसुको न चेन्द्रियसंयोगं कुर्वीत केनचित् ॥ उपेक्षकः सर्वभूतानां हिंसा नुग्रहपरिहारेण ॥ २२ पैशुन्यमत्सराभिमानाहंकाराश्रद्धानार्जवात्मस्तव परगर्हादम्भलोभमोहक्रोधासूयाविवर्जनं सर्वाश्रमिणां धर्म इष्टः ॥२३ यज्ञोपवीत्युदककमण्डलुहस्तः शुचिर्ब्राह्मणो वृषलान्नपानवर्जी न हीयते ब्रह्मलोकाद्ब्रह्मलोकादिति ॥२४
इति वासिष्ठे धर्मशास्त्रे दशमोऽध्यायः ।
अथैकादशोऽथायः ।
अथ वैश्वदेवातिथिश्राद्धादीनां वर्णनम् ।
षडर्हा भवन्ति, ऋत्विग्विवाह्यराजा (ज) पितृव्यस्नातक-
मातुलाश्च ॥१.
वैश्वदेवस्य सिद्धस्य सायं प्रातर्गृह्माग्नौ जुहुयात् ॥२ गृहदेवताभ्यो बलि हरेत् ॥३
ऽभ्यायः ]
वैश्वदेवातिथिश्राद्धादीनां वर्णनम् ।
[[१४६३]]
श्रोत्रियायाऽऽगताय भागं दत्त्वा ब्रह्मचारिणे वाऽनन्तरं
पितृभ्यो दद्यात् ॥४
ततोऽतिथिं भोजयेत्, श्रेयांसं श्रेयांसमानुपूर्व्येण, स्वगृह्याणां
कुमारबालवृद्धतरुणप्रभूतस्ततोऽपरान्गृह्यान् ॥५ श्वचण्डालपतितवायसेभ्यो भूमौ निर्वपेत् ॥ ६ शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्यात् ॥७ शेषं दंपती भुञ्जीयाताम् ॥८
सर्वोपयोगेन पुनः पाकः ॥
यदि निरुप्ते वैश्वदेवेऽतिथिरागच्छेद्विशेषेणास्मा अन्नं कारयेत् ॥ १०
विज्ञायते हि ॥ १४
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहं तस्मादप आनयन्त्यन्नं वर्षाभ्यस्तां हि शान्ति जना विदुरिति ॥१२
तं भोजयित्वोपासीताऽऽसीमान्तमनुव्रजेत्,
अ (आ) नुज्ञानाद्वा ॥१३
अपरक्ष ऊर्ध्वं चतुर्थ्याः पितृभ्यो दद्यात्पूर्वेद्युर्ब्राह्मणान्संनिपात्य यतीन्गृहस्थान्साधून्वा परिणतवयसोऽविक स्थाञ्छ्रोत्रियानशिष्यानन्तेवासी (सि) नः शिष्यानपि गुणवतो भोजयेत् ॥१४ विलग्नशुक्लक्की बान्धश्यावदन्तकुष्टिकुन खिवजंम् ॥१५
अथाप्युदाहरन्ति ॥१६
अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अद्रूष्यं तं यमः प्राहः पक्तिपावन एव सः ॥ १७
[[१४६४]]
वसिष्ठस्मृतिः ।
[ एकादशी-
श्राद्धे नोद्वासनीयानि उच्छिष्टान्या दिनक्षयात् । श्वोतन्ते हि सुधाधारास्ताः पिबन्त्यकृतोदकाः ॥ १८ उच्छिष्टं न प्रमृज्यात्तु यावन्नास्तमितो रविः । क्षीरधारास्ततो यान्ति अक्षय्याः पङ्क्तिभागिनः ॥ १६ प्राक्संस्कारप्रमीतानां स्ववंश्यानामिति श्रुतिः । भागधेयं मनुः प्राह उच्छिष्टच्छेषणे उभे ॥ २० उच्छेषणं भूमिगतं विकिरं लेपनोदकम् । अन्नं प्रेतेषु विसृजेदप्रजानामनायुषाम् ॥२१ उभयोः शाखयोर्मुक्तं पितृभ्योऽन्नं निवेदितम् । तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ॥२२ तस्मादशून्यहस्तेन कुर्यादन्नमुपागतम् ।
भो (भा) जनं वा समालभ्य तिष्ठतोच्छेषणे उभे ॥२३ द्वै देवे पितृकृत्ये त्रीने केकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ २४ सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । पञ्चैतान्विस्तरो हन्ति तस्मात्तं परिवर्जयेत् ॥ २५ अपि वा भोजयेदेकं ब्राह्मणं वेद पारगम् । श्रतशीलोपसंपन्नं सर्वालक्षणवर्जितम् ॥२६ यद्येकं भोजयेच्छ्राद्ध देवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥ २७ देवतायतने, कृत्वा ततः श्राद्ध प्रवतंयेत् । प्रास्येदमौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे ॥२८
ऽध्यायः ] श्राद्ध भोजनसमये भोक्यन्नगुण त्याज्यवर्णनम् २४६५ ( अग्रे-कुतपकालः, उपनयनकालः, दण्डादिधारणविधिश्च )
यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः । तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥२६ हविर्गुणा न वक्तव्याः पितरो यावदतर्पिताः पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥ ३० नियुक्तस्तु यदा श्राद्ध देवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावन्नरकमृच्छति ॥३१ त्रीणि श्राद्ध पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥३२ दिवसस्याष्टमे भागे मन्दी भवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम् ॥३३ श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ ३४ यस्ततो जायते गर्भो दत्त्वा भुक्त्वा च पैतृकम् । न स विद्यां समाप्नोति क्षीणायुश्चैव जायते ॥३५ पितापितामहश्चैव तथैव प्रपितामहः । उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥३६ मधुमांसैश्च शाकैश्च पयसा पायसेन वा ।
एष नो दास्यति श्राद्धं वर्षासु च मघासु च ॥३७ संतानवर्धनं पुत्रमुद्यतं पितृकर्मणि । देवब्राह्मणसंपन्नमभिनन्दन्ति पूर्वजाः ॥३८ तन्वन्ति पितरस्तस्य सुकृष्टरिव कर्षकाः । यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिणः ॥३६
[[१४६६]]
वसिष्ठस्मृतिः ।
[ एकादशो-
श्रावण्याग्रहायण्योश्चान्वष्टक्यां च पितृभ्यो दद्यात्, द्रव्यदेशब्राह्मणसंनिधाने वा न कालनियमः ॥४० अवश्यं च ब्राह्मणोऽग्नीनादधीत, दर्शपूर्णमासाग्रयणेष्टिचातुर्मास्यपशु सोमैश्च यजेत नैयमिकं ह्येतदृणसंस्तुतं च ॥४१ विज्ञायते हि त्रिभिणैर्ऋ णवान्त्राह्मणो जायत इति ॥ ४२ यज्ञेन देवेभ्यः, प्रजया पितृभ्यो ब्रह्मचर्येण ऋषिभ्य इत्येष वाऽनृणो यज्वा यः पुत्री ब्रह्मचयवानीति ॥ ४३ गर्भाष्टमेषु ब्राह्मणमुपनयीत, गर्भादेकादशेषु राजन्यं, गर्भाद्वादशेषु वैश्यम् ॥४४
पालाशो बैल्वो वा दण्डो ब्राह्मणस्य, नैयग्रोधः क्षत्त्रियस्य वा औदुम्बरो वा वैश्यस्य ॥४५
[ केशसंमितो ब्राह्मस्य, ललाटसंमितः क्षत्त्रियस्य, घ्राणसंमितो वैश्यस्य ॥४६
मौजी ब्राह्मणस्य, धनुर्ज्या क्षत्त्रियस्य, शणतान्तवी वैश्यस्य ] ४७ कृष्णाजिनमुत्तरीयं ब्राह्मणस्य, रौखं क्षत्रियस्य, गव्यं व (ब) स्तजिनं वा वैश्यस्य ॥४८
शुक्लमहतं वासो ब्राह्मणस्य, माञ्जिष्ठं क्षत्रियस्य, हारिद्र् कौशेयं वश्यम्य, सर्वषां वा तान्तवमरक्तम् ॥४६
भवत्पूर्वा ब्राह्मणो भिक्षां याचेत, भवन्मध्यां राजन्यो, भवदन्त्यां वैश्यः ॥५०
आ षोडशाद्वाह्मस्य नातीतः कालः ॥ ५१ आ द्वाविंशात्क्षस्त्रियस्य ॥५२
ऽध्यायः ] स्नातकत्रतं, वस्त्रादिधारण विधिवर्णनम् ।
आ चतुर्विंशाद्वैश्यस्य ॥५३
अत उर्ध्वं पतितसावित्रीका भवन्ति ॥ ५४
नेतानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्विवाहयेयुः ॥५५ पतितसावित्रीक उद्दालकत्रतं चरेत् ॥५६
[[१४६७]]
द्वौ मासौ यावकेन वतयेत्, मासं पायसा, अर्धमासमामिक्षयाऽष्टरात्रं घृतेन षड्रात्रमयाचितेन, त्रिरात्रमन्भक्षोऽहोरात्रमुपवसेत् ॥५७
अश्वमेधावभृथं गच्छेत् ॥५८
व्रात्यस्तोमेन वा यजेद्वा यजेदिति ॥ ५६
इति वासिष्ठे धर्मशास्त्रे एकादशोऽध्यायः ।
॥ अथ द्वादशोऽध्यायः ॥
अथ स्नातकव्रतं, वस्त्रादिधारण विधि वर्णनम् ।
अथातः स्नातकव्रतानि ॥१
स न कंचिद्याचेतान्यत्र राजान्तेवासिभ्यः ॥२ क्षुधा परीतस्तु किंचिदेव याचेत, कृतमकृतं वा क्षेत्रं गामजाविकमन्ततो हिरण्यं धान्यमन्नं वा, न तु स्नातकः क्षुधाऽवसीदेदित्युपदेशः ॥३
न मलिनवाससा सह संवसेत, न रजस्वलाया, नायोग्यया, न कुलं कुलं स्यात् ॥४
[[१४६८]]
वसिष्ठस्मृतिः ।
[ द्वादशो-
वत्सन्तीं विततां नातिक्रामेत् ॥५
नोद्यन्तमादित्यं पश्येत् ॥६
नास्तमयन्तम् ॥७
नाप्सु मूत्रपुरीषे कुर्यात् ॥८
न निष्ठीवेत् ॥६
परिवेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात् ॥१०
उदङ्मुखश्वाहनि, नक्तं दक्षिणामुखः ।
संध्यामासीतोत्तरामुदाहरन्ति ॥ ११
स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् ।
अप्सु
।
यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥१२
पाणौ च काष्ठे च कथितं पावके शुचिः । तस्मादुदकपाणिभ्यां परिमृज्यात्कमण्डलुम् ॥१३ पर्यनिकरणं वेतन्मनुराह प्रजापतिः ।
कृत्वा चावश्यकर्माणि आचामेच्छौचवित्तमः । इति ॥ १४
प्राङ्मुखोऽन्नानि भुञ्जीत ॥ १५
तूष्णीं साङ्गुष्ठं कृत्स्नप्रासं प्रसेत ॥१६
न च मुखशब्दं कुर्यात् ॥१७
ऋतुकालगामी स्यात्पर्ववजं स्वदारेषु ॥ १८ अतिर्यगुपेयात् ॥ १६
( तीर्थमुपेयात्) । अथाप्युदाहरन्ति ॥ २०
यस्तु पाणिगृहीताया आस्ये कुर्त्रीत मैथुनम् । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ २१
ऽध्यायः ]
स्नातकाचारवर्णनम् ।
या स्यादनित्यचारेण रतिः साधर्मसंश्रिता ॥ २२
अपि च काठके विज्ञायते ॥२३
[[१४६६]]
अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयीरन्निति स्त्रीणामिन्द्रदत्तो वर इति ॥ २४
न वृक्षमारोहेत् ॥२५
न कूपमवरोहेत् ॥२६
नाग्निं मुखेनोपधमेत् ॥ २७
नामि ब्राह्मणं चान्तरेण व्यपेयात् ॥ २८
नाग्न्योर्न ब्राह्मणयोर [न] नुज्ञाप्य वा, भार्यया सहनाश्नीयादवीर्यवदपत्यं भवतीति वाजसनेयके विज्ञायते ॥ २६ नेन्द्रधनुर्नाम्ना निर्दिशेत् ॥३०
मणिधनुरिति ब्रूयात् ॥३१
पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥ ३२
नोत्सङ्गे भक्षयेन्न संध्या [ यां ] भुञ्जीत ॥३३
वैणवं दण्डं धारयेद्रुक्मकुण्डले च ॥३४
न बहिर्मालां धारयेदन्यत्र रुक्ममय्याः ॥ ३५ सभाः समवायांश्च वर्जयेत् ३६
अथाप्युदाहरन्ति ॥३७
अप्रामाण्यं च वेदानामार्षाणां चैव कुत्सनम् । अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः । इति ॥ ३८
नावृतो यज्ञं गच्छेत् ॥ ३६
यदि वजेत्प्रदक्षिणं पुनराव्रजेत् ॥४०
[[१५००]]
वसिष्ठस्मृतिः ।
अधिवृक्षसूर्यमध्वानं न प्रतिपद्येत ॥४१
नावं च सांशयिकीं नाधिरोहेत [त् ] ॥४२ बाहुभ्यां न नदीं तरेत् ॥४३
[ त्रयोदशो-
उत्थायापररात्रमधीत्य न पुनः प्रति संविशेत् ॥४४ प्राजापत्ये मुहूर्ते ब्राह्मणः कांश्चिन्नियमाननुतिष्ठेदनुतिष्ठेदिति ॥४५
इति वासिष्ठे धर्मशास्त्रे द्वादशोऽध्यायः ॥
॥ अथ त्रयोदशोऽध्यायः ॥ अथोपाकर्मविधिः, वेदाध्ययनस्यानध्यायनिरूपणम् ।
अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रोष्ठपद्यां वाऽग्निमुपसमाधाय कृताधानो जुहोति देवेभ्य ऋषिभ्यश्छन्दोभ्यश्चेति ॥ १
ब्राह्मणान्स्वस्तिवाच्य दधि प्राश्य ततोऽध्यायानुपाकुर्वीरन् ॥२ अर्धपञ्चममासानर्धषष्ठान्वाऽत ऊध्वं शुक्लपक्षेष्वधीयीत,
कामं तु वेदाङ्गानि ॥३ तस्यानध्यायाः ॥४ संध्यास्तमिते संध्यास्वन्तःशवदिवाकीर्त्येषु नगरेषु कामं गोमयपर्युषिते परिलिखिते वा श्मशानान्ते शयानस्य श्राद्धिकस्य ॥५ऽध्यायः ] उपाध्यायार्चादीनां गुरुत्वमितिनिरूपणम् । १५०१
मानवं चात्र श्लोकमुदाहरन्ति ॥६ फलान्यपस्तिलान्भक्षा इति ॥७
धावतः पूतिगन्धप्रभृतावीरिणे, वृक्षमारूढस्य नावि सेनायां च भुक्त्वा चाऽऽर्द्रपाणेर्वाणशब्दे चतुर्दश्याममावास्यायामष्टम्यामष्टकासु प्रसारितपादोपस्थकृतस्थोपाश्रितस्य च गुरुसमीपे मैथुनव्यपेतायां वाससा मैथुनव्यपेतेनानिर्गिक्तेन ग्रामान्ते छर्दितस्य मूत्रितस्योश्चारितस्य भृग्यजुषां च साममशब्दे वाऽजीर्णे निर्घाते भूमिचलने चन्द्रसूर्योपरागे दिङ्नादपर्वतनादकम्पप्रपातेषूपलरुधिरपांशुवर्षेष्वाकालिकम् ॥८ उल्काविद्युत्समासे त्रिरात्रम् ॥६ उल्का विद्युत्सज्योतिषम् ॥१०
अपर्तावाकालिकमाचार्ये प्रेते त्रिरात्रमाचार्यपुत्रशिष्य भार्यास्वहोरात्रम् ॥११
ऋत्विग्योनिसंबन्धेषु च गुरोः पादोपसंग्रहणं कार्यम् ॥ १२
ऋत्विक्श्वशुरपितृव्यमातुलाननवरवयसः
प्रत्युत्थायाभिवदेत् ॥१३
ये चैव पादप्रायास्तेषां भार्या गुरोश्च मातापितरौ यो विद्यादभिवन्दितुमहमयं भो इति ब्रूयाद्यश्च न विद्यात्प्रत्यभिवादमामन्त्रिते स्वरोऽन्त्यः प्लवते संध्यक्षरमप्रगृह्य मायावभावं चाऽऽपद्यते यथा भो भाविति ॥ १४ पतितः पिता परित्याज्यो माता तु पुत्रे न पतति ॥ १५
[[१५०२]]
वसिष्ठस्मृतिः ।
[ त्रयोदशो-
अत्राप्युदाहरन्ति ॥ १६
उपाध्यायादशाऽऽचार्य आचार्याणां शतं पिता ।
पितुर्दशशतं माता गौरवेणातिरिच्यते
भार्याः पुत्राश्च शिष्याश्च संतुष्टाः पापकर्मभिः ।
परिभाष्य परित्याज्याः पतितो योऽन्यथा त्यजेत् ॥१८ ऋत्विगाचार्यावयाजकानध्यापको हेयावन्यत्र हानात्पतति ॥ १६
पतितोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः ॥२० सा हि परगामिनी तामरिक्थामुपेयात् ॥ २१ गुरोर्गुरौ संनिहिते गुरुवद्वृत्तिरिष्यते । गुरुवद्गुरुपुत्रस्य वर्तितव्यमिति श्रुतिः ॥ २२
शस्त्रं विषं सुरा चाप्रतिग्राह्याणि ब्राह्मणस्य ॥२३ विद्यावित्तत्रयः संबन्धकर्म च मान्यम् ॥२४
पूर्वः पूत्र गरीयान्स्थ विरवालातुर भारिकस्त्रीचक्रीवतां पन्थाः समागमे परस्मै देयः ॥२५
राजकस्नातकयोः समागमे राज्ञा स्नातकाय देयः ॥२६
सर्वैरेव च वध्वा ऊह्यमानायै ॥ २७
तृणभूम्यग्न्युदकवाक्सूनृतनासूयाः सतां गृहे नोच्छिद्यन्ते कदाचन कदाचनेति ॥२८
इति वासिष्ठे धर्मशास्त्रे त्रयोदशोऽध्यायः ।
ऽध्यायः ] चिकित्सकादीनामन्नभोज नेनिषेधवर्णनम् ।
॥ चतुर्दशोऽध्यायः ॥
अथ चिकित्सकादीनामन्नभोज ने निषेधवर्णनम् ।
अथातो भोज्याभोज्यं च वर्णयिष्यामः ॥ १ चिकित्सकमृगयुपुंश्चलीदण्डिकस्तेनाभिशस्त षण्डपतिता-
नामन्नमभोज्यम् ॥२
[[१५०३]]
कदर्य दीक्षितबद्धातुर सोमविक्रयितक्षकरजकशौण्डिकसूचकवार्धुषिक चर्मावकृत्तानां शूद्रस्य चास्त्रभृतश्चोपपत्ते (ते) यश्चोवार्धुषिकचर्मावकृत्तानां,
पपत्ति (ति) मन्यते, यश्च गृहान्दहेत्, यश्च वधार्ह
नोपहन्यात्को भक्ष्यत इति ॥ ३
वाचाऽभिघुष्टं गणान्नं गणिकान्नं चेति ॥४
अथाप्युदाहरन्ति ॥५
नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः ।
भार्याजितस्य नाश्नन्ति यस्य चोपपतिर्गृहे, इति ॥ ६ एधोदकयवसकुशलाजाभ्युद्यतयानावसथशफरीप्रियङ्गुग्गन्धमधुमांसानीत्येतेषां प्रतिगृह्णीयात् ॥७ अथाप्युदाहरन्ति ॥ २
गुर्वर्थं दारमुज्जिहीषन्नर्चिष्यन्देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः, इति ॥६
न मृगयोरिषुचारिण परिवर्जमन्नम् ॥१०
विज्ञायते ह्यगस्त्यो वर्षसाहस्रिके सत्रे मृगयां चकार,
तस्याऽऽसंस्तु रसमयाः पुरोडाशा मृगपक्षिणां प्रशस्तानाम् ॥११
[[१५०४]]
वसिष्ठस्मृतिः ।
[ चतुर्दशो-
अपि ह्यत्र प्राजापत्याच्छ्लोकानुदाहरन्ति ॥ १२ उद्यतामाहृतां भिक्षां पुरस्तादप्रचोदिताम् । भोज्यां प्रजापतिर्मेने अपि दुष्कृतकारिणः ॥ १३ श्रद्दधानस्य भोक्तव्यं चोरस्यापि विशेषतः । न त्वेव बहुयाज्यस्य यश्चोपनयते बहून् ॥१४ न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥१५ चिकित्सकस्य मृगयोः शल्यहस्तस्य पापिनः । ष ( प ) ण्डस्य कुलटायाश्च उद्यताऽपि न गृह्यते इति ॥ १६ उच्छिष्टमगुरोरभोज्यं, स्वमुच्छिष्टोपहतं च ॥१७ यदशनं केशकीटोपहतं च ॥ १८
कामं तु केशकीटानुद्धृत्याद्भिः प्रोक्ष्य भस्मनाऽवकीर्य
वाचा प्रशस्तमुपभुञ्जीत ॥ १६
अपि ह्यत्र प्राजापत्या
लोकानुदाहरन्ति ॥२०
त्रीणि देवाः पवित्राणि ब्राह्मनामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच वाचा प्रशस्यते ॥२१ देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च । काकैः श्वभिश्व संस्पृष्टमन्नं तन्न विसर्जयेत् ॥ २२
।
तस्मादन्नमपोद्धृत्य शेषं संस्कारमर्हति । द्रवाणां प्लावनेनैव घनानां प्रोक्षणेन तु । मार्जार मुखसंस्पृष्टं शुचि एव हि तद्भवेत् ॥ २३
ऽध्यायः
काकादिसंस्पृष्टान्नस्य पर्युषिताद्यन्नस्यचशुद्धिः । १५०५ अन्नं पर्युषितं भावदुष्टं सकृल्लेखं पुनः सिद्धमाममांसं पक्वं च कामं तु दध्ना घृतेन वाऽभिघारितमुपयुञ्जीत ॥२४ अपि ह्यत्र प्राजापत्या लोकानुदाहरन्ति ॥२५ हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ॥२६ प्रदद्यान्न तु हस्तेन नाऽयासेन कदाचन, इति ॥ २७ लशुनपलाण्डुकेमुकगृञ्जन श्लेष्मातकवृक्ष निर्यासलोहितब्रश्वनश्वकाकावलीढशूद्रोच्छिष्टभोजनेषु कृच्छ्रातिकृच्छ्र इतरेऽप्यन्यत्र मधुमांसफलविकर्षेष्वग्राम्यपशव (शु) विषयः २८ संधिनीक्षीरमवत्साक्षीरं गोमहिष्यजानामनिर्दशाहानामन्तनब्युदकमपूपधानाकरम्भसक्तुवटक तैलपाय सशाकानि शुक्तानि वर्जयेत्, अन्यांश्च क्षीरयवपिष्टविकारान् ॥२६ श्वाविच्छल्लकशशकच्छपगोधाः पञ्चनखानां भक्ष्याः ॥३० अनुष्ट्रा पशूनामन्यतोदन्ताश्च मत्स्यानां वा चेटगवयशिशुमारनक्रकुलीरा विकृतरूपाः ॥ ३१ सर्पशीर्षाश्च ॥ ३२ गौरगवयशरभाश्चानुदिष्टाः ॥३३
तथा धेन्वनडुहौ मेध्यौ वाजसनेयके विज्ञायेते ॥३४ खडूगे तु विवदन्त्य (न्तेऽ ) ग्राम्यसूकरे च ॥ ३५ शकुनानां च विषुविष्किरजालपादाः ॥३६
कलविङ्कप्लवहंसचक्रवाकभासवायसपारावतकुक्कुटसारङ्ग-
पाण्डुकपोतकौश्चक्रकरकङ्कगृध्रश्येनबकबलाकमद्गुटिट्टिभ-
मान्धालनक्तंचरदार्वाघाटचटकरैलातहारीतखञ्जरीटग्राम्य-
[[१५०६]]
वसिष्ठस्मृतिः ।
। पश्वादशो-
कुक्कुटशुकसारिकाकोकिलक्रव्यादा ग्रामचारिणश्चप्राम-
चारिणश्चेति ॥ ३७
इति वासिष्ठे धर्मशास्त्रे चतुर्दशोऽध्यायः ।
अथ पञ्चदशोऽध्यायः ।
दत्तकप्रकरणवर्णनम् ।
शोणितशुक्रसंभवः पुरुषो मातापितृनिमित्तकः ॥१ तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः ॥२
न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा ॥ ३
स हि संतानाय पूर्वेषाम् ॥४
न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद् भर्तुः ॥ ५ पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि चाऽऽवेद्य निवेशनस्य मध्ये व्याहृतिभिर्हुत्वा दूरेवान्धवं बन्धुसंनिकृष्टमेष प्रतिगृह्णीयात् ॥६
संदेहे चोत्पन्ने दूरे बान्धवं शूद्रमिव स्थापयेत् ॥७ विज्ञायते ह्येकेन हूंत्रायत इति ॥८
तस्मिंश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्येत, चतुर्थभागभागी स्याद्दत्तकः ॥
ऽध्यायः ] चरितव्रतानां पतितानां प्रत्युद्धार विधिवर्णनम् । १५०७
यदि नाऽऽभ्युदयिकेषु युक्तः स्याद्वेदविप्लविनः सव्येन पादेन प्रवृत्ताग्रान्दर्भा लोहितान्वोपस्तीर्य पूर्णपात्रमस्मै निनयेत् ॥ १०
निनेतारं चास्य प्रकीर्णकेशान् ज्ञातयोऽन्वालभेरन्नपसव्यं कृत्वा गृहेषु स्वैरमापद्येरन्नत उध्वं तेन धर्मयेयुस्तद्धर्माणस्तं धर्मयन्तः ॥११
पतितानां तु चरितव्रतानां प्रत्युद्धारः ॥१२
अथाप्युदाहरन्ति ॥१३
अग्रेऽभ्युद्धरतां गच्छेत्क्रीडन्निव हसन्निव । पश्चात्पातयतां गच्छेच्छोचन्निव रुदन्निव इति ॥१४ आचार्यमातृपितृहन्तारस्तत्प्रसादाद्भयाद्वा, एषा ( तेषां ) प्रत्यापत्तिः ॥१५
पूर्णाब्दात्प्रवृत्ताद्वा काञ्चनं पात्रं माहेयं वा पूरयित्वाऽऽपोहिष्ठेति मन्त्रेणाद्भिरभिषिञ्चति ॥१६
सर्व एवाभिषिक्तस्य प्रत्युद्धार : ( प्रत्युद्वीर ) पुत्रजन्मना व्याख्यातो
व्याख्यात इति ॥१७
इति वासिष्ठे धर्मशास्त्रे पञ्चदशोऽध्यायः ।
[[६५]]
[[१५०८]]
षोडशो-
वसिष्ठस्मृतिः ।
॥ अथ षोडशोऽध्यायः ॥
व्यवहारविधिवर्णनम् ।
तत्रादौ राजमन्त्रिणो धर्माः ।
अथ व्यवहाराः ॥ १
राजमन्त्री सदःकार्याणि कुर्यात् ॥२ द्वयोर्विवदमानयोर्न पक्षान्तरं गच्छेत् ॥३ यथासनमपराधो ह्यन्ते नापराधः (१) ॥४
समः सर्वेषु भूतेषु यथासनमपराधो (?) ह्याद्यवर्णयोविद्यान्ततः ( विधानतः) ॥५
संपन्नं च रक्षयेद्राजा बालधनान्यप्राप्तव्यवहाराणां
प्राप्तकाले तु तद्वत् ॥ ६
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । धनस्वीकरणं पूर्वं धनी धनमवाप्नुयात् इति ॥७ मार्गक्षेत्रयोर्विसर्गे तथा परिवर्तनेन तरुण (ऋण) गृहे-
ष्वर्थान्तरेषु त्रिपादमात्रम् ॥८
गृहक्षेत्रविरोधे सामन्तप्रत्ययः ॥
सामन्तविरोधे लेख्यप्रत्ययः ॥१०
प्रत्यभिलेख्यविरोधे ग्रामनगरवृद्धश्रेणीप्रत्ययः ॥११ अथाप्युदाहरन्ति ॥१२
पैतृकं (य एक) क्रीतमाधेयमन्वाधेयं प्रतिग्रहम् । यज्ञादुपगमो वेणिस्तथा धूमशिखाऽष्टमी, इति ॥१३ तत्र भुक्तानुभुक्तदशवर्षम् ॥१४
ऽध्यायः ]
साक्षिप्रकरणवर्णनम् ।
[[१५०६]]
अन्यथाऽप्युदाहरन्ति ॥१५
आधिः सीमा बालधनो निक्षेपोपनिधिः स्त्रियः ।
राजस्वं श्रोत्रियद्रव्यं न संभोगेन हीयते ॥ १६
प्रहीणद्रव्याणि राजगामीनि भवन्ति ॥ १७
ततोऽन्यथा राजा मन्त्रिभिः सह नागरैश्च कार्याणि कुर्यात् ॥१८
वेधसो वा राजा श्रेयान्गृध्रपरिवारं स्यात् ॥ १६
गृध्रपरिवारं वा राजा श्रेयान् ॥२०
गृध्र परिवारं स्यान्न गृधो गृधपरिवारं स्यात्परिवाराद्धि दोषाः प्रादुर्भवन्ति स्तेयहारविनाशनं तस्मापूर्वमेव परिवारं पृच्छेत् ॥२१
अथ साक्षिणः ॥२२
श्रोत्रियो रूपवान्ळीलवान्पुण्यवान्सत्यवान्साक्षिणः सर्वेषु सर्व एव वा ॥ २३
स्त्रीणां तु साक्षिणः स्त्रिय कुर्याद्विजानां सदृशा द्विजाः ।
शूद्राणां सन्तः शूद्राश्च अन्त्यानामन्त्ययोनयः ॥ २४
अथाप्युदाहरन्ति ॥२५
प्रतिभाव्यं वृथादान माक्षिकं सौरिकं च यत् । दण्डशुल्कावशिष्टं च न पुत्रो दातुमर्हति इति ॥ २६ ब्रूहि साक्षिन्यथातत्त्वं लम्बन्ते पितरस्तव । तव वाक्यमुदीक्षाणा उत्पतन्ति पतन्ति च ॥ २७ नमो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुले गच्छेद्यः साक्ष्यमनृतं वदेत् ॥२८
।
[[१५१०]]
वसिष्ठस्मृतिः ।
पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥२६
सप्तदशो-
व्यवहारे मृते दारे प्रायश्चित्तं कुलस्त्रियः । तेषां पूर्वपरिच्छेदाच्छिद्यन्तेऽत्रापवादिभिः ॥३० उद्वाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥३१ स्वजनस्यार्थे यदि वाऽर्थहेतोः पक्षाश्रयेणैव वदन्ति कार्यम । ते शब्दवंशस्य कुलस्य पूर्वान्स्वर्गस्थितांस्तानपि पातयन्ति. अपि पातयन्ति ॥ ३२
इति वासिष्ठे धर्मशास्त्रे षोडशोऽध्यायः ।
॥ अथ सप्तदशोऽध्यायः ॥
पुत्रिणां प्रशंसावर्णनम् ।
ऋणमस्मिन्संनयति अमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येचज्जीवतोमुखम् ॥१
अनन्ताः पुत्रिणां लोका नापुत्रस्य लोकोऽस्तीति श्रूयते ॥ २ प्रजाः सन्त्वपुत्रिण इत्यभिशापः ॥३
प्रजाभिरग्ने अमृतत्वमश्यामित्यपि निगमो भवति ॥४ पुत्रेण लोकाञ्जयति पौत्रेणाऽऽनन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याऽऽप्नोति विष्टपम् इति ॥५ऽध्यायः ]
औरस पुत्रादीनां लक्षणवर्णनम् ।
[[१५११]]
क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवदन्ते ॥६ तत्रोभयथाऽप्युदाहरन्ति ॥ ७
यद्यन्यो गोषु वृषभो वत्सानां जनयेच्छतम् ।
गोमिनामेव ते वत्सा मोघं स्यन्दितमार्षभम् इति ॥८ अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्रे पर (रे) वीजानिअवाप्सुः ।
न जनयितुः पुत्रो भवति स्वं (सं) पराये मोघं वेत्ता कुरुते तन्तुमेतमिति ॥
बहूनामेकजातानामेकश्चेत्पुत्रवान्नरः ।
सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ॥ १०
बह्वीनामेकपत्नीनामेका पुत्रवती यदि ।
।
सर्वास्तास्तेन पुत्रेण पुत्रवत्य इति श्रुतिः ॥ ११ द्वादश इत्येव पुत्राः पुराणदृष्टाः ॥१२ स्वयमुत्पादितः स्वक्षेत्रे संस्कृतायां प्रथमः ॥१३ तदलाभे नियुक्तायां क्षेत्रजो द्वितीयः ॥ १४ तृतीयः पुत्रिका विज्ञायते ॥ १५
अभ्रातृका पुंसः पितॄनभ्येति प्रतीचीनं गच्छति पुत्रत्वम् ॥१६ तत्र श्लोकः ॥१७
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥ १८
पौनर्भवश्चतुर्थः ॥ १६
॥
या कौमारं भर्तारमुत्सृज्यान्यैः सह चरित्वा तस्यैव
कुटुम्बमाश्रयति सा पुनर्भूर्भवति ॥२०
[[१५१२]]
वशिष्ठस्मृतिः ।
सप्तदशो-
या च क्लीबं पतितमुन्मत्तं वा भर्तारमुत्सृज्यान्यं
पतिं विन्दते मृते वा सा पुनर्भूर्भवति ॥ २१
कानीनः पञ्चमः ॥ २२
या पितृगृहेऽसंस्कृता कामादुत्पादयेत्, मातामहस्य पुत्रो भवतीत्याहुः ॥ २३ अथाप्युदाद्वरन्ति ॥२४
अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः ।
पुत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् इति ॥ २५ गृहे च गूढोत्पन्नः षष्ठः ॥२६
इत्येते दायादा बान्धवास्त्रातारो महतो भयादित्याहुः ॥२७ अथादायादबन्धूनां सहोढ एव प्रथमो, या गर्भिणी संस्क्रियते तस्यां जातः सहोढः पुत्रो भवति ॥२८ दत्तको द्वितीयो, यं मातापितरौ दद्याताम् ॥२६ क्रीतस्तृतीयस्तच्छुनःशेपेन व्याख्यातम् ॥३०
हरिश्चन्द्रो ह वै राजा सोजीगर्तस्य सोयवसेः पुत्रं चिक्राय ॥ ३१
स्वयमुपागतश्चतुर्थः, तच्छुनःशेपेन व्याख्यातम् ॥
शुनःशेपो वै यूपेन नियुक्तो देवतास्तुष्टाव, तस्येह देवताः पाशं विमुमुचुः तमृत्विज ऊचुममैवायं पुत्रोऽस्त्विति, तान्ह न संपेदे, ते संपादयामासुरेष एव यं कामयेत तस्य पुत्रोऽस्त्विति, तस्य ह विश्वामित्रो होताऽऽसीत्तस्य पुत्रत्वमियाय ॥ ३३
अपविद्धः पञ्चमो यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात् ३४
ऽध्यायः ]
भ्रातृणां दायविभाग वर्णनम् ।
( विवाहात्प्राक् कन्यायाः रजोदर्शने पितुर्दोषः ) शूद्रापुत्र एव षष्ठो भवतीत्याहुः ॥ ३५ इत्येतेऽदायादा बान्धवाः ॥३६ अथाप्युदाहरन्ति ॥३७
[[१५१३]]
यस्य पूर्वेषां (वर्णानां ) षण्णां न कश्चिद्दायादः स्यादेते तस्य दायं
हरेरन्निति ॥ ३८
अथ भ्रातॄणां दायविभागः ॥ ३६
द्वयशं ज्येष्ठो हरेत्, गवाश्वस्य चानुदशमम् ॥४०
अजावयो गृहं च कनिष्ठस्य ॥४१
कार्ष्णायसं गृहोपकरणानि च मध्यमस्य ॥ ४२ मातुः पारिणेयं स्त्रियो विभजेरन् ॥४३
यदि ब्राह्मणस्य ब्राह्मणक्षत्रियावैश्यासु पुत्राः स्युस्त्र्यंशं ब्राह्मण्याः पुत्रो हरेद्वयशं राजन्यायाः पुत्रः सममितरे विभजेरन् ॥४४
येन चैषां स्वयमुत्पादितं स्याद्वयशमेव हरेत् ॥४५
अनंशास्त्वाश्रमान्तरगताः ॥४६
क्लीबोन्मत्तपतिताश्च ॥४७
भरणं कीबोन्मत्तानाम् ॥४८
प्रेतपत्नी षण्मासान्त्रतचारिण्यक्षारलवणं भुञ्जानाऽधः शयीतोध्वं षड्भ्यो मासेभ्यः स्नात्वा श्राद्धं च पत्ये दत्त्वा विद्याकर्मगुरुयोनिसंबन्धान्संनिपात्य पिता भ्राता वा
नियोगं कारयेत्तपसे ॥४६
न सोन्मत्तामवशां व्याधितां वा नियुञ्ज्यात् ॥५०
[[१५१४]]
वसिष्ठस्मृतिः ।
[ सप्तदशो-
ज्यायसीमपि षोडश वर्षाणि, न चेदामयावी स्यात् ॥ ५१ प्राजापत्ये मुहूर्ते पाणिग्राहवदुपचरेत् ॥ ५२
अन्यत्र संप्रहास्यवाक्पारुष्य दण्डपारुष्याश्च ॥५३ प्रासाच्छादन स्नानानुलेपनेषु प्राग्गामिनी स्यात् ॥५४ अनियुक्तायामुत्पन्न उत्पादयितुः पुत्रो भवतीत्याहुः ॥ ५५ स्याच्चेन्नियोगिनो रिक्थम् ॥५६
लोभान्नास्ति नियोगः ॥५७
प्रायश्चित्तं वाऽप्यपदिश्य नियुञ्ज्यादित्येके ॥ ५८ कुमाय तुमती त्रीणि वर्षाण्युपासीतोध्वं त्रिभ्यो वर्षेभ्यः
पतिं विन्देत्तुल्यम् ॥५६
अथाप्युदाहरन्ति ॥६०
पितुः प्रमादात्तु यदाह कन्या वयः प्रमाणं समतीत्य दीयते । साहन्ति दातारमुदीक्षमाणा कालातिरिक्ता गुरुदक्षिणेव ॥ ६१ प्रयच्छेन्नग्निकां कन्यामृतुकालभयात्पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ॥ ६२
यावश्च कन्यामृतवः स्पृशन्ति तुल्यैः सकामामभियाच्यमानाम् । भ्रूणानि तावन्ति हतानि ताभ्यां मातापितृभ्यामिति धर्मवादः अद्भिर्वाचा च दत्तायां म्रियेताऽऽदौ वरो यदि । न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा ॥६४ बलात्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ ६५
[[૩]]
।
ऽध्यायः ] पुत्ररहितस्य मृतस्य धनभाजने क्रम वर्णनन् । १५१५
प्राणिग्रहे मृते बाला केवलं मन्त्रसंस्कृता ।
सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति ॥६६
प्रोषितपत्नी पञ्च वर्षाण्युपासीतोध्वं पञ्चभ्यो वर्षेभ्यो भर्तृसकाशं गच्छेत् ॥६७
यदि धर्मार्थाभ्यां प्रवासं प्रत्यनुकामा न स्याद्यथा प्रेत एवं वर्तितव्यं स्यात् ॥ ६८
एवं ब्राह्मणी पञ्च प्रजाताऽप्रजाता चत्वारि, राजन्या प्रजाता पश्चाप्रजाता त्रीणि, वैश्या प्रजाता चत्वार्यप्रजाता द्वे, शूद्रा प्रजाता त्रीण्यप्रजातैकम् ॥६६ अत ऊर्ध्वं समानोदक पिण्डजन्मर्षिगोत्राणां पूर्वः पूर्वो गरीयान् ॥७०
न तु खलु कुलीने विद्यमाने परगामिनी स्यात् ॥७१ यस्य पूर्वेषां षण्णां न कश्चिदायादः स्यात्सपिण्डाः पुत्रस्थानीया वा तस्य धनं विभजेरन् ॥७२ तेषामलाभ आचार्यान्तेवासिनौ हरेयाताम् ॥७३ तयोरलाभे राजा हरेत् ॥७४
न तु ब्राह्मस्य राजा हरेत् ॥७५
ब्रह्मस्वं तु विषं घोरम् ॥७६
न विषं विषमित्याहु र्ब्रह्मस्त्रं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् इति ॥ ७७
त्रैविद्यसाधुभ्यः संप्रयच्छेत्संप्रयच्छेदिति ॥७८
इति वासिष्ष्ठे धर्मशास्त्रे सप्तदशोऽध्यायः ।
[[१५१६]]
वसिष्ठस्मृतिः ।
॥ अथाष्टादशोऽध्यायः ॥
चाण्डालादिजात्यन्तरनिरूपणम् ।
[ अष्टादशो-
शूद्रेण ब्राह्मण्यामुत्पन्नश्चण्डालो भवतीत्याहू राजन्यायां वैणो
वैश्यायामन्त्यावसायी ॥१
वैश्येन ब्राह्मण्यामुत्पन्नो रामको भवतीत्याहुः,
राजन्यायां पुल्कसः ॥२
राजन्येन ब्राह्मण्यामुत्पन्नः सूतो भवतीत्याहुः ॥३
अथाप्युदाहरन्ति ॥४
छिन्नोत्पन्नास्तु ये केचित्प्रातिलोम्यगुणाश्रिताः । गुणाचारपरिभ्रंशात्कर्मभिस्तान्विजानीयुः, इति ॥५ एकान्तरद्व्यन्तरत्र्यन्तरानुजाता ब्राह्मणक्षत्रियवैश्यै– रम्बष्ठोग्रनिषादा भवन्ति ॥६
शूद्रायां पारशवः पारयन्नेव जीवन्नैव शवो भवतीत्याहुः ॥७
शव इति मृताख्या ॥८
।
एके वै तच्छमशानं ये शूद्रास्तस्माच्छूद्रसमीपे नाध्येतव्यम् ॥६ अथापि यमगोताञ्छ्लोकानुदाहरन्ति ॥ १०
श्मशानमेतत्प्रत्यक्षं ये शूद्राः पापचारिणः । तस्माच्छूद्रसमीपे तु नाध्येतव्यं कदाचन ॥ ११ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धम न चास्य व्रतमादिशेत् ॥ १२ यश्चास्योपदिशेद्धमं यश्चास्य व्रतमादिशेत् । सोऽसंवृतं तमो घोरं सह तेन प्रपद्यते इति ॥ १३
ऽध्यायः ]
राजधर्माभिधानवर्णनम् ।
[[१५१७]]
व्रणद्वारे कृमिर्यस्य संभवेत कदाचन ।
प्राजापत्येन शुध्येत हिरण्यं गौर्वासो दक्षिणा, इति ॥१४ नाग्नि चित्वा रामामुपेयात् ॥१५
कृष्णवर्णा या रामा रमणायैव न धर्माय न धर्मायेति ॥ १६
इति वासिष्ठे धर्मशास्त्रेऽष्टादशोऽध्यायः ।
॥ अथैकोनविंशोऽध्यायः ॥
अथ राजधर्माभिधानवर्णनम् ।
स्वधर्मो राज्ञः पालनं भूतानां तस्यानुष्ठानात्सिद्धिः ॥ १ भयकारुण्यहानं जरामयं (यं) वै तत्सत्रमाहुर्विद्वांस्तस्माद् - गार्हस्थ्यानैयमिकेषु पुरोहितं दध्यात् ॥२
विज्ञायते ॥३
ब्रह्मपुरोहितं राष्ट्रमृध्नोतीति ॥४
उभयस्य पालनादसामर्थ्याच्च देशधर्म जातिकुलधर्मान्सर्वानेवैताननुप्रविश्य राजा चतुरो वर्णान्स्वधर्मे स्थापयेत् ॥५ तेष्वपचरत्सु दण्डं धारयेत् ॥६
दण्डस्तु देशकालधर्मेवयोविद्यास्थानविशेषैहिंसाक्रोशयोः
कल्प्य आगमाद्द्द्दृष्टान्ताच्च ॥७
पुष्पफलोपगान्पादपान्न हिंस्यात्कर्षणकरणार्थं चोगहन्यात् ॥८
गार्हस्थ्याङ्गानां च मानोन्माने रक्षिते स्याताम् ॥६
[[१५१८]]
वसिष्ठस्मृतिः ।
[ एकोनविंशो-
अधिष्ठानान्ननीहारः स्वार्थानां,
मानमूल्यमात्रं नैहारिकं स्यात् ॥ १०
॥१०
महामहयोः स्थानात्पथः स्यात् (?) ॥११
संयाने दशवाहवाहिनी द्विगुणकारिणी स्यात् ॥१२
प्रत्येकं प्रयास्यः पुनान् (?) ॥१३
पुंसां शतावराध्यं चाऽऽहवयेदव्यर्थाः स्त्रियः स्युः ॥१४ कराष्ठीलामाषः शरमध्यापः पादः कार्षापणाःस्युर्निरुदकस्तरोमोध्योऽकरः श्रोत्रियोराजपुमाननाथप्रब्रजितबालवृद्धतरुणप्रजाताः प्राग्गामिकाः कुमार्यो मृतपत्न्यश्च ॥१५ बाहुभ्यामुत्तरञ्छतगुणं दद्यात् ॥१६ नदीकक्षवनदाहशैलोपभोगा निष्कराःस्युस्तदुपजीविनो
वा दद्युः ॥ १७
प्रतिमासमुद्वाहकरं त्यागमयेद्राजनि च प्रेते दद्यात्प्रासङ्गिकम् ॥
एतेन मातृवृत्तिर्व्याख्याता ॥१६
राजमहिष्याः पितृव्यमातुलान्राजा बिभृयात्तद्वनंश्चान्यांश्च ॥
राजपत्न्यो ग्रासाच्छादनं लभेरन् ॥२१
अनिच्छन्त्यो वा प्रव्रजेरन् ॥२२
कीबोन्मत्तान्राजा बिभृयात्, तद्गामित्वाद्रिक्थस्य ॥२३ शुल्के चापि मानवं श्लोक मुदाहरन्ति ॥ २४
॥
न भिन्नकार्षापणमस्ति शुल्के न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रब्रजिते न यहे, इति ॥ २५ स्तेनोऽनुप्रवेशान्न दुष्यते शस्त्रधारी सहोढो व्रणसंपन्नो
ऽध्यायः ] अदण्ड्यदण्डने पुरोहितादेः प्रायश्चित्तम् । १५१६
व्यपदिष्टस्त्वकेषां दण्ड्योत्सर्गे राजैकरात्रमुपवसेत्त्रिरात्रं
पुरोहितः ॥२६
कृच्छ्रम दण्ड्यदण्डने पुरोहितत्रिरात्रं राजा ॥२७
अथात्युदाहरन्ति ॥२८
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी ।
।
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्विषम् ॥२६
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३० एनो राजानमृच्छति उत्सृजन्तं सकिल्बिषम् । तं चेद्धातयते राजा हन्ति धर्मेण दुष्कृतम्, इति ॥ ३१ राज्ञामत्ययिके कार्ये सद्यः शौचं विधीयते ।
तथाऽनात्ययिके नित्यं काल एवात्र कारणम्, इति ॥ ३२
यमगीतं चात्र श्लोकमुदाहरन्ति ॥३३
नात्र दोषोऽस्ति राज्ञां वै व्रती (ति) नां न च (मंत्रिणां ) सत्रिणाम् ।
ऐन्द्रस्थानमुपासीना ब्रह्मभूता हि ते सदा, इति ॥ ३४ इति वासिष्ठे धर्मशास्त्रे एकोनविंशोऽध्यायः ।
[[१५२०]]
वसिष्ठस्मृतिः ।
॥ अथ बिंशोऽध्यायः ॥
अथ प्रायश्चित्तप्रकरणवर्णनम् ।
अनभिसंधिकृते प्रायश्चित्तमपराधे ॥१
अभिसंधिकृतेऽप्येके ॥२
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः, इति ॥ ३ तत्र च सूर्याभ्युदितः सन्नहस्तिष्ठेत् ॥४
सावित्रीं च जपेत् ॥५
एवं सूर्याभिनिर्मुक्तो रात्रावासीत ॥ ६
॥६
कुनखी श्यावदन्तस्तु कृच्छ्र ं द्वादशरात्रं चरेत् ॥७ परिवित्तिः कृच्छ्र द्वादशरात्रं चरित्वा निविशेत, तां चैवोपयच्छेत् ॥८
[ विंशो-
अथ परिविविदानः कृच्छ्रातिकृच्छौ चरित्वा तस्मै दत्त्वा पुनर्निर्वि (वि) शेत, तामेवोपयच्छेत् ॥६
अग्रेदिधिषूपतिः कृच्छ्र द्वादशरात्रं चरित्वा निविशेततां चैवोपयच्छेत् ॥१०
दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्निविशेत् (त) ॥११
वीरहणं परस्ताद्वक्ष्यामः ॥१२
ब्रह्मघ्नः कच्छ्रं द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत
वेदमाचार्यात् ॥१३ऽध्यायः ]
प्रायश्चित्तप्रकरणवर्णनम् ।
[[१५२१]]
गुरुतल्पगः सवृषणं शिश्नमुत्कृत्याञ्जलावाधाय दक्षिणामुखो
गच्छेत् ॥१४
यत्रैव प्रतिहन्यात्तत्र तिष्ठेदाप्रलयम् ॥१५
निष्कालको वा घृताभ्यक्तस्तप्तां सूर्मी परिष्वजेन्मरणात्पूतो भवतीति विज्ञायते ॥१६
आचार्यपुत्रशिष्यभार्यासु चैवम् ॥१७
योनिषु च गुर्वीं सखीं गुरुसखीमपपात्रां पतितां च गत्वा कृच्छ्राब्दपादं चरेत् ॥ १८
एतदेवचाण्डालपतितान्नभोजनेषु ततः पुनरुपनयनं, वपनादीनां तु निवृत्तिः ॥ १६
मानवं चात्र श्लोकमुदाहरन्ति ॥२०
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । एतानि तु निवर्तन्ते पुनः संस्कारकर्मणि, इति ॥२१ मत्या मद्यपाने त्वसुरायाः सुरायाश्चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतं प्राश्य पुनः संस्कारश्च ॥२२
मूत्रशकृच्छुकाभ्यवहारेषु चैवम् ॥२३
मद्यभाण्डे स्थिता आ ( अ ) पो यदि कश्विदुद्विजः पिबेत् । पद्मोदुम्बरबिल्वपलाशानामुदकं पीत्वा त्रिरात्रेणैव शुध्यति ॥ अभ्यासे तु सुराया अग्निवर्णां तां द्विजः
पिबैन्मरणात्पूतो भवतीति ॥२५
भ्रूणहनं वक्ष्यामो ब्राह्मणं हत्वा भ्रूणहा भवत्यविज्ञातं
गभमविज्ञाता हि गर्भाः पुमांसो भवन्ति ॥ ॥२६
[[१५२२]]
वसिष्ठस्मृतिः ।
तस्मात्पुंस्कृत्याऽऽजुह्वतीति, भ्रूणहाऽग्निमुपसमाधाय
जुहुयादेताः ॥२७
[ विंशो
लोमानि मृत्युर्जुहोमि लोमभिर्मृत्युं वासय, इति प्रथमाम् ॥२८ त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वासय, इति द्वितीयाम् ॥२६ लोहितं मृत्योर्जुहोमि लोहितेन मृत्युं वासय इति तृतीयाम् ॥ मांसं मृत्योर्जुहोमि मांसेन मृत्युं वासय, इति चतुर्थीम् ॥३१ नावानि मृत्योर्जुहोमि स्नावभिर्मृत्युं बासय, इति पञ्चमीम् ३२ मेदो मृत्योर्जुहोमि मेदसा मृत्युं वासय, इति षष्ठीम् ॥३३ अस्थीनि मृत्योर्जुहोमि अस्थिभिर्मृत्युं वासय, इति सप्तमीम् ॥ मज्जानं मृत्योर्जुहोमि मज्जा (ज) भिमृत्युं वाशय, इत्यष्टमीमिति । । राजार्थे ब्राह्मणार्थे वा सङ्ग्रामेऽभिमुखमात्मानं घातयेत्त्रिरजितो वाऽपराद्धः पूतो भवतीति ॥ ३६ विज्ञायते हि ॥३७
निरुक्तं ह्येनः कनीयो भवतीति ॥ ३८
अथाऽऽप्युदाहरन्ति ॥ ३६
पतितं पतितेत्युक्त्वा चौरं चौरति वा पुनः ।
वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेत् इति ॥४० एवं राजन्यं हत्वाऽष्टौ वर्षाणि चरेत्, षड्वैश्यं, त्रीणि शूद्रं. ब्राह्मणीं चाऽऽत्रेयीं हत्वा सवनगतौ च राजन्यवैश्यौ ॥४१ आत्रेयीं वक्ष्यामो रजस्वलामृतुस्नातामात्रेयीमाहुः ॥४२ अत्र ह्येष्यदपत्यं भवतीति ॥४३
अनात्रेयीं राजन्यहिंसायां राजन्यां वैश्यहिंसायां वैश्यां शूद्रहिंसायां शूद्रां हत्वा संवत्सरम् ॥४४
ऽध्यायः ] ब्राह्मण सुवर्णहरणे प्रायश्चित्तवर्णनम् । १५२३ ब्राह्मणसुवर्णहरणे प्रकीर्यं केशान्राजानमभिधावेत्स्तेनोऽस्मि भोः शास्तु मां भवानिति ।
तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनाऽऽत्मानं प्रमापयेन्मरणात्पूतो भवतीतिविज्ञायते ॥४५
निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्यात्मानमभिदाहयेन्मरणात्पूतो भवतीति विज्ञायते ॥४६ अथाप्युदाहरन्ति ॥४७
पुराकालात्प्रमीतानां पापा (आनाकविधि) द्विविधकर्मणाम् ।
पुनरापन्नदेहानामङ्गं भवति तच्छृणु ॥४८
स्तेनः कुनखी भवति श्वित्री भवति ब्रह्महा ।
सुरापः श्यावदन्तस्तु दुश्चर्मा गुरुतल्पग, इति ॥४६ पतितसंप्रयोगं च ब्राह्मण वा यौनेन वा यास्तेभ्यः
सकाशान्मात्रा उपलब्धास्तासां परित्यागस्तैश्च न संवसेदुदीचीं दिशं गत्वाऽनश्नन्संहिताध्ययनमधीयानः पूतो भवतीति
विज्ञायते ॥५०
अथाऽप्युदाहरन्ति ॥५१
शरीरपरितापेन तपसाऽध्ययनेन च ।
मुच्यते पापकृत्पापाद्दानाश्चापि प्रमुच्यते, इति
विज्ञायते विज्ञायत इति ॥ ५२
इति वासिष्ठे धर्मशास्त्रे विंशोऽध्यायः ।
[[६६]]
[[१५२४]]
वसिष्ठस्मृतिः ।
[ एकविंशो-
॥ अथैकविंशोऽध्यायः ॥
ब्राह्मणीगमने शूद्रवैश्य क्षत्रियाणां प्रायश्चित्तवर्णनम् ।
॥१
शूद्रश्चेद्ब्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येत् ॥१ ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां कृष्णं खरमारोप्य महापथमनुसंधाजयेत्पूता भवतीति विज्ञायते ॥२
वैश्यश्चेद्ब्राह्मणीमधिगच्छेलोहितदर्भेर्वेष्टयित्वा वैश्यमन्नौ
प्रास्येत् ॥ ३
ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां गौरं खरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥४ राजन्यचेदुब्राह्नणीमभिगच्छेच्छ र पत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत्, ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां श्वेतं खरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥ ५
एवं वैश्यो राजन्यायां शूद्रश्च राजन्यावैश्ययोः ॥ ६ मनसा भर्तुरतिचारे त्रिरात्रं यावकं क्षीरौदनं वा भुञ्जानाऽधः शयीतोध्वं त्रिरात्रादप्सु निमग्नायाः सावित्र्यष्टशतेन शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ॥७
वाक्संबन्ध एतदेव मासं चरित्वोध्वं मासादप्सु निमग्नायाः सावित्र्याश्चतुर्भिरष्टशतैः शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ॥८
ऽध्यायः ]
गोवधाद्यनेक प्रायश्चित्तवर्णनम् ।
[[१५२५]]
व्यवाये तु संवत्सरं घृतपटं धारयेत् ॥६
गोमयगर्ते कुशप्रस्तरे वा शयीतोध्वं संवत्सरादप्सु निमग्नायाः सावित्र्यष्टशतेन शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ॥१०
व्यवाये तीर्थगमने धर्मेभ्यस्तु निवर्तते ।
[[1]]
चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या ॥११ पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥१२
या ब्राह्मणी सुरापी न तां देवाः पतिलोकं नयन्ति । इहैव सा चरति क्षीणपुण्याऽप्सु लुग्भवति शुक्तिका वा ॥ १३ ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण संगताः ।
अप्रजाता विशुष्यन्ति प्रायश्चित्तेन नेतराः ।
प्रतिलोमं चरेयुस्ताः कृच्छ्र चान्द्रायणोत्तरम् ॥१४
पतिव्रतानां गृहमेधिनीनां सत्यव्रतानां च शुचिव्रतानाम् । तासां तु लोकाः पतिभिः समाना गोमायुलोका व्यभिचारिणीनाम्
पतत्यधं शरीरस्य यस्य भार्या सुरां पिबेत् । पतितार्धशरीरस्य निष्कृति र्न विधीयते ॥ १६
ब्राह्मणश्चेदप्रेक्षापूर्व ब्राह्मणदारानभिगच्छेद निवृत्तधर्मकमणः कृच्छ्रो निवृत्तधर्मकर्मणोऽतिकृच्छ्रः ॥१७
एवं राजन्यवैश्ययोः ॥ १८
गां चेद्धन्यात्तस्याश्वमेणाऽऽद्रेण परिवेष्टितः षण्मासान्कृच्छ्र (च्छू')
तप्तकृच्छ्र वा तिष्ठेत् ॥ १६ तयोर्विधिः ॥२०
[[५२६]]
वसिष्ठस्मृतिः ।
[ एकविंशो
त्र्यहं दिवा भुङ्क्ते नक्तमश्नाति वे त्र्यहम् । त्र्यहमयाचितव्रतत्र्यहं न भुङ्क्त इति कृच्छ्रः ॥२१ त्र्यहमुष्णं पिबेदा (चा) परत्र्यहमुष्णं पयः पिबेत् ।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥२२ इति तप्तकृच्छ्रः ॥२३
ऋषभवेहतौ च दद्यात् ॥२४
अथाप्युदाहरन्ति ॥२५
त्रय एव पुरा रोगा ईर्ष्या अनशनं जरा । पृषद्धस्तनयं हत्वा अष्टानवतिमाहरेत् ॥२६
इति श्वमार्जारनकुलसर्पददु रमूषकान्हत्वा कृच्छं द्वादशरात्रं चरेत्किंचिद्दद्यात् ॥२७
अनस्थिमतां तु सत्त्वानां गोमात्रं राशि हत्वा कृच्छं द्वादश रात्रं चरेत्किंचिद्दद्यात् ॥ २८
अस्थिमतां त्वेकैकम् ॥२६
योऽग्नीनपविध्येत्कृच्छं द्वादशरात्रं चरित्वा पुनराधानं कारयेत् ॥३०
गुरोश्चालीकनिर्बन्धः सचैलं स्नातो गुरु प्रसादयेत्प्रसादात् पूतो भवतीति विज्ञायते ॥ ३१
नास्तिकः कृच्छं द्वादशरात्रं चरित्वाविरमेन्नास्तिक्यात् ॥३२ नास्तिकवृत्तिस्त्वतिकृच्छम् ॥३३
एतेन सोमविक्रयी व्याख्यातः ॥ ३४
ऽध्यायः ]
अयाज्ययाजनादि प्रायश्चित्तवर्णनम् । १५२७
वानप्रस्थो दीक्षाभेदे कृच्छं द्वादशरात्रं चरित्वा महाकक्षे (क्षं)
वर्धयेत् ॥३५
भिक्षुकैर्वा (को वा ) नप्रस्थवल्लोभवृद्धिवजं स्वशास्त्रसंस्कारश्च
स्वशास्त्रसंस्कारश्चेति ॥ ३६
इति वासिष्ठे धर्मशास्त्रे एकविंशोऽध्यायः ।
॥ द्वाविंशोऽध्यायः ॥
अथायाज्ययाजनादि प्रायश्चित्तवर्णनम् ।
अथ खल्वयं पुरुषो मिथ्या व्याकरोत्ययाज्यं वा याजयति अप्रतिग्राह्यं वा प्रतिगृह्णाति अनन्नं वाऽश्नाति अनाचरणीयमेवाचरति तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते, न कुर्यादित्या हुने हि कर्म क्षीयत इति कुर्यादित्येव तस्माच्छ्र ुतिनिदर्शनात्तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजत, इति ॥ १
वाचाऽभिशस्तो गोसवेनाग्निष्टुता यजेत ॥२
तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानमुपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दः संहिता मधून्यघमर्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजनि (न) रौहिणे सामनी कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि ॥ ३
[[१५२८]]
वसिष्ठस्मृतिः ।
[ त्रयोविंशो-
अथाप्युदाहरन्ति ॥४
वैश्वानरीं व्रातपती पवित्रेष्टिं तथैव च ।
सकृदृतौ प्रयुञ्जानः पुनाति दशपुरुषम् इति ॥५ उपवासन्यायेन पयोत्रतता फलभक्षता प्रसृतयावको हिरण्यप्राशनं सोमपानमिति मेध्यानि ॥६
सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या हृदास्तीर्थान्यृषि - निवासगोष्ठपरिष्कन्धा इति देशाः ॥७
संवत्सरो मासश्चतुर्विंशत्यहो द्वादशाहः षडहत्र्यहोऽहोरात्र इति
कालाः ॥८
एतान्येवानादेशे विकल्पेन क्रियेरन्, एन.सु गुरुपु गुरूणि लघुपु लघूनि ॥६
कृच्छ्रातिकृच्छौ चान्द्रायणमिति सर्वप्रायश्चितिः सर्वप्रायश्चित्तिरिति ॥१०
इति वासिष्ठे धर्मशास्त्रे द्वाविंशोऽध्यायः ।
॥ अथ त्रयोविंशोऽध्यायः ॥
अथ ब्रह्मचारिणः स्त्रीगमने प्रायश्चित्तवर्णनम् । ब्रह्मचारी चेतिस्त्रयमुपेयादरण्ये चतुष्पथे लौकिकेऽग्नौ रक्षोदैवतं गर्दभं पशुमालभेत, नैर्ऋतं वा चरु निर्वपेत्, तस्य जुहुयात्कामाय स्वाहा, कामकामाय स्वाहा, निर्ऋत्यै स्वाहा रक्षोदेवताभ्यः स्वाहेति ॥१
Sध्यायः ] रेतसः प्रयत्नोत्सर्गादिविषये प्रायश्चित्तवर्णनम् । १५२६
एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु वा समावर्तनात्तिर्यग्योनिव्यवाये ॥२
शुकुमृषभं दद्यात् ॥३
गां गत्वा शूद्रावघेन दोषो व्याख्यातः ॥४
ब्रह्मचारिणः शवकर्मणो व्रतान्निवृत्तिरन्यत्र मातापित्रोः ॥५ स चेद्व्याधीयीत कामं गुरोरुच्छिष्टं भेषजार्थं सवं प्राश्नीयात्। । गुरुप्रयुक्तश्चेन्द्रियेत त्रीकृच्छ्रांश्चरेद्गुरुः ॥७
ब्रह्मचारी चन्मांसमश्नीयादुच्छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत् ॥८
श्राद्धसूतक भोजनेषु चैवम् ॥६
[[५]]
अकामतोपनतं मधु वाजसनेयके न दुष्यतीति विज्ञायते ॥१० य आत्मत्याग्यभिशस्तो भवति सपिण्डानां प्रेतकर्मच्छेदः ॥११ काष्ठजललोष्टजलपाषाणशस्त्र विषरज्जुभिर्य आत्मानमवसादयति, स आत्मा भवति ॥१२
अथाप्युदाहरन्ति ॥१३
य आत्मत्यागिनः कुर्यात्स्नेहात्प्रेतक्रिया द्विजः । स तप्तकृच्छ्रसहितं चरेच्चान्द्रायणत्रतम्, इति ॥१४
चान्द्रायणं परस्ताद्वक्ष्यामः ॥१५
आत्महननाध्यवसाये त्रिरात्रम् ॥१६
जीवन्नात्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत्, त्रिरात्रं ह्युपवसेनित्यं स्निग्धेन वाससा प्राणानात्मनि चाऽऽयम्य त्रिः
पठेदधमर्षणमिति ॥१७
[[१५३०]]
वसिष्ठस्मृतिः ।
अपि वैतेन कल्पेन गायत्री परिवर्तयेत् ।
[ त्रयोविंशो-
अपि वाऽग्निमुपसमाधाय कूष्माण्डैर्जुहुताद् घृतम् ॥१८ यच्चान्यन्महापातकेभ्यः सर्वमेतेन पूयत इत्यवाप्याचामेत् ॥१६ अग्निश्व मा मन्युश्चेति प्रातर्मनसा पापं ध्यात्वों पूर्वाः सत्यान्ता व्याहृतीर्जपेदधमर्षणं वा पठेत् ॥२०
मानुषास्थि स्निग्धं स्पृष्ट्रा त्रिरात्रमाशौचमस्निग्धे त्वहोरात्रम् ॥२१ शवानुगमने चैवम् ॥२२
अधीयानानामन्तरागमने त्वहोरात्रमभोजनम्, त्रिरात्रमभोजनम्, त्रिरात्रमभिषेको विवासश्चान्योन्येन ॥२३
श्वमार्जारनकुलशीघ्रगाणामहोरात्रम् ॥२४
श्वकुक्कुटग्राम्यसूकर कङ्कगृध्रभासपारावतमानुषकाकोलूकमांसादने सप्तरात्रमुपासो निष्पुरीषभावो घृतप्राशः पुनः
संस्कारश्च ॥ २५
ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य ततः शुचिः, इति ॥ २६ कालोऽग्निर्मनसः शुद्धिरुदकार्कावलोकनम् ।
अविज्ञानं च भूतानां षड्विधा शुद्धिरिष्यते इति ॥२७ श्वाचाण्डालपतितोपस्पर्शने सचैलं स्नातः सद्यः पूतो भवतीति विज्ञायते ॥२८
पति तचाण्डालशववहने त्रिरात्रं वाग्यता अनश्नन्त आसीरन्, सहस्रपरमं वा तदभ्यसन्तः, पूता भवन्तीति विज्ञायते ॥ २६ऽम्यायः ] णहत्यायां प्रायश्चित्तान्तरकथनं, कृच्छ्र विधिवर्णनथ्य १५३१
एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच्च पूता भवन्तीति विज्ञायते ॥३० एतेनैवाभिशस्तो व्याख्यातः ॥३१
अथापरं भ्रूणहत्यायां द्वादशरात्रमव्भक्षो द्वादशरात्रमुपवसेत् ॥ ब्राह्मणमनृतेनाभिशं (श) स्य पतनीयेनोपपतनीयेन वा मास-
मब्भक्षः शुद्धवतीरावर्तयेत् ॥ ३३ अश्वमेधावभृथे वा गच्छेत् ॥३४
एतेनैव चाण्डालीव्यवायो व्याख्यातः ॥ ३५ अथापरः कृच्छ्रविधिः साधारणो व्यूढः ॥ ३६
अहः प्रातरहर्नक्तमहरेकमयाचितम् । अहः पराकं तत्रैकमेवं चतुरहौ परौ ॥३७ अनुग्रहार्थ विप्राणां मनुधैर्मभृतां वरः । बालवृद्धातुरेष्वेवं शिशुकृच्छ्रमुवाच ह ॥ ३८ अथ चान्द्रायणविधिः ॥ ३६
सासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश । प्रासापचयभोजी स्यात्पक्षशेषं समापयेत् ॥४० एवं हि शुक्लपक्षादौ ग्रासमेकं तु भक्षयेत् । प्रासोपचयभोजी स्यात्पक्षशेषं समापयेत् ॥४१ अत्रैव गायेत्सामानि अपि वा व्याहृतीर्जपेत् । एष चान्द्रायणो मासः पवित्रमृषिसंस्तुतः ॥४२ अनादिष्टेषु सर्वेषु प्रायश्चित्तं विधीयते विधीयत इति ॥ ४३
इति वासिष्ठे धर्मशास्त्रे त्रयोविंशोऽध्यायः ।
[[१५३२]]
·
वसिष्ठस्मृतिः ।
॥ अथ चतुर्विंशोऽध्यायः ॥
अथ कृच्छ्रातिकृच्छ्र विधिवर्णनम् ।
अथातिकृच्छः - ॥१
[ पचाविंशो
त्र्यहं प्रातस्तथा सायमयाचितं पराक इति कृच्छ्रः ॥२ यावत्सकृदाददीत तावदश्नीयात्पूर्ववत्सोऽतिकृच्छ्रः ॥३
अब्भक्षः स कृच्छ्रातिकृच्छः ॥४
कृच्छ्राणां व्रतरूपाणि ॥५
श्मश्रुकेशान्वापयेद्भ्रुवोऽक्षिलोमशिखावजं नखान्निकृत्यैकवासा अनिन्दितभोजी सकृद्भक्षमनिन्दितं त्रिषवणमुदकोपस्पर्शी दण्डी कमण्डलुः स्त्रीशूद्रसंभाषणवर्जी स्थानासनशीलोऽहस्तिष्ठेद्रात्रावासीतेत्याह भगवान्वसिष्ठः ॥६
स तद्यदेतद्धर्मशास्त्रं नापुत्राय नाशिष्याय नासंवत्सरोषिताय
दद्यात् ॥७
सहस्रं दक्षिणा ऋषभैकादश गुरुप्रसादो वा गुरुप्रसादो वेति ॥८
इति वासिष्ठे धर्मशास्त्रे चतुर्विंशोऽध्यायः ।
॥ अथ पथ्यविंशोऽध्यायः ॥
रहस्यप्रायश्चित्तवर्णनम् ।
अविख्यापितदोषाणां पापानां महतां तथा ।
सर्वेषां चोपपापानां शुद्धिं वक्ष्याम्यशेषतः ॥ १
ऽध्यायः ]
रहस्यप्रायश्चित्तवर्णनम् ।
अहिताग्नेर्विनीतस्य वृद्धस्य विदुषोऽपि वा । रहस्योक्तं प्रायश्चित्तं पूर्वोक्त मितरे जनाः ॥२ प्राणायामैः पवित्रैश्च दानैह मैजपस्तधा । नित्ययुक्ताः प्रमुच्यन्ते पातकेभ्यो न संशयः ॥ ३ प्राणायामान्पवित्राणि व्याहृतीः प्रणवं तथा । पविप्रपाणिरासीनो ब्रह्म नैत्यकमभ्यसेत ॥४ आवर्तयेत्सदा युक्तः प्राणायामान्पुनः पुनः । आलोमाप्रान्नखाग्राश्च तपस्तप्यतु उत्तमम् ॥५ निरोधाज्जायते वायुर्वायोरग्निर्हि जायते । तापेनाऽऽपोऽथ जायन्ते ततोऽन्तः शुध्यते त्रिभिः ॥६ न तां तीव्रेण तपसा न स्वाध्यायैर्न चेज्यया । गतिं गन्तुं द्विजाः शक्ता योगात्संप्राप्नुवन्ति याम् ॥७ योगात्संप्राप्यते ज्ञानं योगो धर्मस्य लक्षणम् । योगः परं तपो नित्यं तस्माद्युक्तः सदा भवेत् ॥८ प्रणवे नित्ययुक्तः स्याद्व्याहृतीषु च सप्तसु । त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥६ प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः । वाङ्मयं प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् ॥१०
एकाक्षरं परं ब्रह्म पावनं परमं स्मृतम् ।
सर्वेषामेव पापानां संकरे समुपस्थिते ॥ ११
अभ्यासोदशसाहस्रः सावित्र्याः शोधनं महत् ॥१२
[[१५३३]]
[[१५३४]]
वसिष्ठस्मृतिः ।
[ षडूविशो-
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते स उच्यत इति ॥
इति वासिष्ठे धर्मशास्त्रे पश्वविंशोऽध्यायः ।
॥ अथ षड् विंशोऽध्यायः ॥
अथ साधारणपापक्षयोपायाभिधानवर्णनम् ।
प्राणायामान्धारयेत्त्रीन्यो यथाविध्यतन्द्रितः । अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥ १ कमणा मनसा वाचा यदह्ना कृतमैनसम् । आसीनः पश्चिमां संध्यां प्राणायामैर्व्यपोहति ॥२ कर्मणा मनसा वाचा यद्राच्या कृतमैनसम् । उत्तिष्ठन्पूर्वसंध्यां तु प्राणायामैर्व्यपोहति ॥ ३ प्राणायामैर्य आत्मानं संयम्याऽऽस्ते पुनः पुनः । संदध्याच्चाधिकैर्वाऽपि द्विगुणैर्वा परं तु यः ॥४ सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥५ जप्त्वा कौत्समपेत्येतद्वासिष्ठं चेत्यृचं प्रति । सावित्रं शुद्धवत्यश्च शुरापोऽपि विशुध्यति ॥ ६ सकृज्जप्त्वाऽस्यवामीयं शिवसंकल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥७
ऽध्यायः ] साधारणपापक्षयोपायाभिधानवर्णनम् ।
हविष्यन्तीयमभ्यस्य नतमंह इतीति च सूक्तं च पौरुषं जप्त्वा मुच्यते गुरुतल्पगः ॥ ८ अपिवाऽप्सु निमज्जानस्त्रिर्जपेदघमर्षणम्। यथाश्वमेधावभृथस्तादृशं मनुरब्रवीत् ॥६ आरम्भयज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥ १० ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥११ जप्येनैव तु संसिध्ये ब्राह्मणो नात्र संसयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १२ जापिनां होमिनां चैव ध्यायिनां तीर्थवासिनाम् । न परिवसन्ति पापानि ये च स्नाताः शिरोत्रतैः ॥१३ यथाऽग्निर्वायुना धूतो हविषा चैव दीप्यते ।
एवं जप्यपरो नित्यं ब्राह्मणः संग्रहीष्यते ॥ १४ स्वाध्यायाध्यायिनां नित्यं नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ॥१५ सहस्रपरमां देवीं शतमध्यां दशावराम् । शुद्धिकामः प्रयुञ्जीत सर्वपापेष्वपि स्थितः ॥ १६ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपैर्होमैर्द्विजोत्तमः ॥ १७ यथाऽश्वा रथहीनाः स्यू रथो वाऽश्वैर्विना यथा । एवं तपस्त्वविद्यस्य विद्या वाऽप्यतपस्विनः ॥ १८
[[१५३५]]
[[१५३६]]
वसिष्ठस्मृतिः ।
यथाऽन्नं मधुसंयुक्तं मधु वाऽन्नेन संयुतम् । एवं तपश्च विद्या च संयुक्तं भेषजं महत् ॥ १६ विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनैत्यकम् । सदाऽपि पापकर्माणमेनो न प्रतियुज्यत, एनो न प्रतियुज्यत । इति ॥२०
इति वासिष्ठे धर्मशास्त्रे षडविंशोऽध्यायः ॥
[ सप्तविंशो-
॥ सप्तविंशोऽध्यायः ॥
अथ वेदाध्ययन प्रशंसावर्णनम् ।
[[7]]
यद्यकार्यशतं सायं कृतं वेदश्च धार्यते । सर्व तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् ॥१ यथा बातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् । तथा दहति वेदाग्निः कर्मजं दोषमात्मनः ॥२
हत्वाऽपि स इमाल्लोकान्भुञ्जानोऽपि यतस्ततः । ॠग्वेदं धारयन्विप्रो नैनः प्राप्नोति किंचन ॥३ न वेदबलमाश्रित्य पापकर्मरतिर्भवेत् । अज्ञानाश्च प्रमादाच्च दह्यते कर्म नेतरत् ॥४
तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः ।
ऋचमेकां च योऽधीते तच्च तानि च तत्समम् ॥५
ऽध्यायः ]
आहारशुद्धिनिरूपणम् ।
[[१५३७]]
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥६ वेदाभ्यासोऽन्वहं शक्तया महायज्ञक्रियाक्रमः । नाशयत्याशु पापानि महापातकजान्यपि ॥७ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । तद्धि कुर्वन्यथाशक्त्या प्राप्नोति परमां गतिम् ॥८ याजनाध्यापनाद्यौनात्तथैवा सत्प्रतिग्रहात् । विप्रेषु न भवेद्दोषो ज्वलनार्कसमो हि सः ॥६ शङ्कास्थाने समुत्पन्ने अभोज्याभोज्यसंज्ञके । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ १० अक्षारलवणां रूक्षां पिबेद्ब्राह्मीं सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पं (पीं) च ब्राह्मणः पयसा सह ॥ ११ पालाश बिल्वपत्राणि कुशान्पद्मानुदुम्बरान् । क्वाथयित्वा पिवेदापत्रिरात्रेणैव शुध्यति ॥१२ गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥ १३ गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा । पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ॥१४ यवान्विधिनोपयुञ्जानः प्रत्यक्षेणैव शुध्यति । विशुद्धभावे शुद्धाः स्युरशुद्ध तु सरागिणः ॥१५ हविष्यान्प्रातराशांस्त्रीन्सायमाशांस्तथैव च । अयाचितं तथैव स्यादुपवासत्रयं भवेत् ॥१६
।
[[१५३८]]
वसिष्ठस्मृतिः ।
अथ चेत्त्वरते कर्तुं दिवसं मारुताशनः ।
[ अष्टाविंशो-
रात्रौ जलाशये व्युष्टः प्राजापत्येन तत्समम् ॥१७ सावित्र्यष्टसहस्रं तु जपं कृत्वोत्थिते वौ । मुच्यते पातकैः सर्वैर्यदि नो ब्रह्महा भवेत् ॥ १८ यो वै स्तेनः सुरापो वा भ्रूणहा गुरुतल्पगः । धर्मशास्त्रमधीत्यैव मुच्यते सर्वपातकैः ॥ १६ दुरितानां दुरिष्टानां पापानां महतां तथा । कृच्छं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥२० एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । अमावास्यां न भुञ्जीत एवं चान्द्रायणो विधिरेवं चान्द्रायणो विधिरिति ॥ २१
इति वासिष्ठे धर्मशास्त्रे स्रप्तविंशोऽध्यायः ॥
॥ अथाष्टविंशोऽध्यायः ॥
स्वयं विप्रतिपन्नादीनां दूषितस्त्रीणां त्यागाभावकथम् ।
[[1]]
न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा । नापोऽऽपो मूत्रपुरीषेण नाग्निर्दहनकर्मणा ॥१ स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता । बलात्कारोपभुक्ता वा चोरहस्तगताऽपि वा ॥ २
ऽध्यायः ] स्त्रीणां पतनहेतवः सववेदपवित्राभिधानवर्णनम् १५३६
न त्याज्या दूषिता नारी नास्यास्त्यागो विधीयते । पुष्पकालमुपासीत ऋतुकालेन शुध्यति ॥ ३ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥४ पूर्व स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः । गच्छन्ति मानुषान्पश्चान्नैता दुष्यन्ति धर्मतः ॥५ तासां सोमोऽदद (दा) च्छौचं गन्धवः शिक्षितां गिरम् । अग्निश्च सर्वभक्षत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥६ त्रीणि स्त्रियः (याः) पातकानि लोके धर्मविदो विदुः । भर्तुर्वधो भ्रूणहत्या स्वस्य गर्भस्य पातनन् ॥७ वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने । स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥८ अजाश्वा मुखतो मेध्या गावो मेध्यास्तु पृष्ठतः । ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः ॥ सर्वत्रेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥१० अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः ।
कूष्माण्डानि पावमान्यो दुर्गा सावित्रिरेव च (?) ॥११ अभीषङ्गाः पदस्तोमाः सामानि व्याहृतिस्तथा (?) ।
भारुण्डानि च सामानि गायत्रं रैवतं तथा ॥१२ पुरुषत्रतं न्यासं च तथा देवव्रतानि च ।
अब्लिङ्गं बार्हस्पत्यं च वाक्सूक्तं मध्वृचस्तथा ॥१३
[[६७]]
[[१५४०]]
वसिष्ठस्मृतिः ।
शतरुद्रियमथर्वशिरस्त्रिसुपणं महाव्रतम् ।
[ अष्टाविंशो-
गोसूक्तं चाश्वसूक्तं च शुद्धः शुद्ध ेति सामनी ॥१४ त्रीण्याज्यदोहानि रथंतरं च अग्नेर्व्रतं वामदेव्यं बृहच ।
एतानि जप्तानि पुनन्ति जन्तूञ्जा तिस्मरत्वं लभते यदीच्छेत् ॥१५ अग्नेरपत्यं पथमं सुवणं भूवैष्णवी सूर्यसुताश्च गावः । तासामनन्तं फलमश्नुवीत यः काञ्चनं गां च महीं च दद्यात् ॥ १६
उपरुन्धन्ति दातारं गौरश्व कनकं क्षितिः ।
अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्रा निराकृतेः ॥ १७
॥१७
वैशाख्यां पौर्णमास्यां च ब्राह्मणान्सप्त पञ्च वा । तिलान्क्षौद्रेण संयुक्तान् कृष्णान्वा यदि वेतरान् ॥ १८ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥१६ सुवर्णनाभं कृत्वा तु सखुरं कृष्णमार्गणम् । तिलैः प्रच्छाद्य यो दद्यात्तस्य पुण्यफलं शृणु ॥ २१ ससुवर्णगुहा तेन सशैलवनकानना ।
चतुर्वक्त्रा भवेद्दत्ता पृथिवी नात्र संशयः ॥ २१ कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्वं तरति दुष्कृतमिति सर्व तरति दुष्कृतमिति ॥ २२
इति वासिष्ठे, धर्मशास्त्रेऽष्टाविंशोऽध्यायः ॥
…..ऽध्यायः ]
दानादीनां फलनिरूपणवर्णनम्
॥ अथैकोनत्रिंशोऽध्यायः ॥
अथ दानादीनां फलनिरूपणम् ।
दानेन सर्वकामानवाप्नोति ॥ १
चिरजीवित्वं ब्रह्मचारी रूपवान् ॥२
अहिंस्युपपद्यते स्वर्गम् ॥३
अग्निप्रवेशाद्ब्रह्मलोकः ॥४ मौनात्सौभाग्यम् ॥५
[[१५४१]]
नागाधिपतिरुदकवासात् ॥६ नीरुजः क्षीणकोशः ॥७
तोयदः सर्वकामसमृद्धः ॥८ अन्नप्रदाता सुचक्षुः ॥ स्मृतिमान् मेधावी सर्वतोऽभयदाता ॥१०
गोप्रयुक्ते सर्वतीर्थोपस्पर्शनम् ॥ ११
शय्यासनदानादन्तःपुराधिपत्यम् ॥ १२
छत्रदानाद्गृहलाभः ॥ १३ गृहप्रदो नगरमाप्नोति ॥ १४
उपानत्प्रदाता यानमासादयति ॥१५
अथाप्युदाहरन्ति - ॥१६
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्षि (शि) तः । अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ १७ विप्रायाऽऽचमनार्थं तु दद्यात्पूर्णं कमण्डलुम् । प्रेत्य तृप्तिं परां प्राप्य सोमपो जायते पुनः ॥ १८ अनडुहां सहस्राणां दानानां धुर्यवाहिनाम् । सुपात्रे विधिदत्तानां कन्यादानेन तत्समम् ॥१६
[[१५४२]]
वसिष्ठस्मृतिः ।
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।
आदिदानं हिरण्यानां विद्यादानं ततोऽधिकम् ॥२०
आत्यन्तिकफलप्रदं मोक्षसंसारमोचनम् । योगिनां संमतं विद्वानाचारमनुवर्तते ॥ २१
श्रद्दधानः शुचिर्दान्तो धारयेच्छृणुयादपि ।
विहाय सर्वपापानि नाकपृष्ठ महीयत, इति नाकपृष्ठ महीयत इति ॥ २२
इति वासिष्ठ धर्मशास्त्रे एकोनत्रिंशोऽध्यायः ॥
॥ अथ त्रिंशोऽध्यायः ॥
अथ प्राणाग्निहोत्रविधिवर्णनम् ।
धम चरत माऽधर्मं सत्यं वदत नानृतम् । दीघ पश्यत मा ह्रस्वं परं पश्यत माऽपरम् ॥१ ब्राह्मणो भवत्यग्निरग्निर्वै ब्राह्मण इति श्रुतेः ॥ २ तच्चकथम् ॥ ३ तत्र सदो ब्राह्मणस्य शरीरं वेदिः संकल्पो यज्ञः पशुरात्मा रशना बुद्धिः सदो मुखमाहवनीयं नाभ्यामुदरोऽग्निर्गार्हपत्यः प्राणोऽध्वर्युरपानो होता व्यानो ब्रह्मा समान उद्गाताऽऽत्मेन्द्रियाणि यज्ञपात्राणि य एवं विद्वानिन्द्रियैरिद्रियार्थ जुहोतीति ॥ ४ अपि च काठके विज्ञायते ॥५
[ त्रिंशो-
ऽध्यायः ]
प्राणाग्निहोत्र विधिवर्णनम् ।
[[१५४३]]
अथाप्युदाहरन्ति - ॥६
पाति त्राति च दातारमात्मानं चैव किल्विषात् ।
वेदेन्धनसमृद्धषु हुतं विप्रमुखाग्निषु ॥७
न स्कन्दते न व्यथते नैनमध्यापतेच्च यत् ।
।
वरिष्ठमग्निहोत्रात्तु ब्रह्मणस्य मुखे हुतम् ॥८ ध्यानाग्निः सत्योपचयनं क्षान्त्या पुष्टिश्रवं त्रिः पुरोडाशमहिंसा च संतोषो यूपः कृच्छ्रं भूतेभ्योऽभयदाक्षिण्यं स्मृतिं कृत्वा क्रतुं मानसं याति क्षयं बुधः ॥६ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
जीवनाशा धनाशा च जीर्यतोऽपि न जीर्यति ॥ १०
च
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
॥१०
याऽसौ प्राणान्तिको व्याधिस्तां तृष्णां त्यजतः सुखमिति । ४१ नमोस्तुऽस्तु मित्रावरुणयोरुर्वश्यात्मजाय शतयातदे
वसिष्ठाय वसिष्ठायेति ॥ १२
इति वासिष्ठ धर्मशास्त्रे त्रिंशोऽध्यायः ॥
समाप्ताचेयं वशिष्ठस्मृतिः ।
ॐ तत्सत् ।
sereas
॥ अ
॥ 3727 ॥