॥ श्रीगणेशाय नमः ॥
॥ प्रथमोऽध्यायः ॥
अथ ब्राह्मणादीनां कर्मवर्णनम् ।
स्वम्भुवे नमस्कृत्य सृष्टिसंहारकारिणे । चातुर्वर्ण्य हितार्थाय शङ्खः शास्त्रमथाकरोत् ॥१ यजनं याजनं दानं तथैवाध्यापनक्रियाम् । प्रतिग्रहभ्वाध्ययनं विप्रः कर्माणि कारयेत् ॥२
[[१५१६]]
शङ्खस्मृतिः ।
प्रथमो
दानमध्ययनञ्चैव यजनञ्च यथाविधि ।
क्षत्त्रियस्य तु वैश्यस्य कर्मेदं परिकीर्तितम् ॥३
क्षत्त्रियस्य विशेषेण प्रजानां परिपालनम् ।
कृषिगो (गौ) रक्ष (क्ष्य) वाणिज्यं वैश्यस्य (विशश्च ) परिकीर्तितम् ॥४
।
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ । क्षमा सत्यं दमः शौचं सर्वेषामविशेषतः ॥५ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । तेषां जन्म द्वितीय तु विज्ञेयं मौञ्जिबन्धनम् ॥ आचार्यस्तु पिता प्रोक्तः सावित्री जननी तथा । ब्रह्मक्षत्त्रविशान्चैव मौञ्जिवन्धनजन्मनि ॥७ वृत्त्या शूद्रसमास्तावद्विज्ञेयास्ते विचक्षणैः । यावद्वेदेन जायन्ते द्विजा ज्ञेयास्ततः परम् ॥८
इति शाङ्खीये धर्मशास्त्रे प्रथमोऽध्यायः ।
॥ अथ द्वितीयोऽध्यायः ॥
ब्राह्मणादीनां संस्कारवर्णनम् ।
गर्भस्य स्फुटताज्ञाने निषेकः परिकीर्तितः ।
तत ( पुरा )स्तु स्पन्दनात् कार्यं पुंसवनं विचक्षणैः ॥१
ऽभ्यायः ]
ब्राह्मणादीनां संस्कारवर्णनम् ।
षष्ठेऽष्टमे वा सीमन्तो जाते वै जातकर्म च ।
अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते । नामधेयश्व कर्तव्यं वर्णानाश्च समाक्षरम् । माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलान्वितम् ॥२ वश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् । शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु ॥३ धनान्तं चैव वैश्यस्य दासान्तं वान्त्यजन्मनः । चतुर्थे मासि कतव्यमादित्यस्य प्रदर्शनन ॥४ षष्ठेऽन्नप्रासनं मासि चूडा कार्या यथाकुलम् । गर्भाष्टमेऽदे कर्तव्यं ब्राह्मणस्योपनायनम् ॥५ गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः पोडशाब्दस्तु विप्रस्य द्वाविंशः क्षत्रियस्य तु ॥ ६ विंशतिः सचतुष्का च वैश्यस्य परिकीर्तिता । नाभिभाषेत सावित्रीमतां निवर्तयेत् ॥७ विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्याः सर्वधर्मवहिष्कृताः ॥८ मौञ्जीबन्धो द्विजानान्तु क्रमान्मौञ्जी प्रकीर्तिता । मार्गवैयाघ्रवास्तानि कर्माणि ह्मचारिणाम् ॥६
[[1]]
पर्णपिप्पल बिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः । कणकेशललाटैस्तु (केश देशललाटस्य ) तुल्याः प्रोक्ताः क्रमेण तु ॥ १०
अवक्राः सत्वचः सर्वे नाग्निदग्धास्तथैव च ।
यज्ञो (वस्त्रो, पवीतं कर्पासक्षौमोर्णानां यथाक्रमम् ॥११
[[१९३८]]
शङ्खस्मृतिः ।
आदिमध्यावसानेषु भवच्छन्दोपलक्षितम् । भैक्षस्य वरणं प्रोक्तं वर्णानामनुपूर्वशः ॥ १२
इति शाङ्खीये धर्मशास्त्रे द्वितीयोऽध्यायः ।
[ तृतीयो
॥ अथ तृतीयोऽध्यायः ॥
ब्रह्मचर्याद्याचारवर्णनम् ।
स गुरुर्यः क्रिया कृत्वा वेदमस्मै प्रयच्छति । उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः । आचारमग्निकार्यं च संध्योपासनमेव च । मृतकाध्यापको यस्तु उपाध्यायः स उच्यते ॥ १ माता पिता गुरुश्चैव पूजनीयाः सदा नृणाम् । क्रियास्तथाऽफलाः सर्वा यस्यैतेऽनादृतास्त्रयः । प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः । कुर्वीत प्रयतोभूत्वा (भत्त्या) गुरूणामभिवादनम् ॥२ अनुज्ञातश्च गुरुगा ततोऽध्ययनमाचरेत् । कृत्वा ब्रह्मजलि पश्यन गुरोर्ददनमानतः ॥ ३ ब्रह्मवसाने प्रारम्भे प्रणवञ्च प्रकीर्तयेत् । अनध्यायेष्वध्ययनं वर्जयेच्च प्रयत्नतः ॥ ४
चतुर्द्दशीं पञ्चदशीमष्टमीं राहुसूतकम् ।
कापातं महीकम्पमाशौचं प्रामविप्लवम् ॥५
अभ्यायः ]
ब्रह्मचर्यायाचारवर्णनम् ।
[[१४१६]]
इन्द्रप्रया (i) गं सुरतं घनसंघातनिस्वनम् ।
वाद्य कोलाहलं युद्धमनध्यायान् विवर्जयेत् ॥६ नाधीयीताभियुक्तोऽपि (यानगोन चनौगतः) प्रयत्नान्न च वेगतः ।
देवायतनवल्मीकश्मशानशवसन्निधौ ।
भैक्षचय्र्यान्तथा कुर्याद् व्रह्मणेषु यथाविधि ॥७ गुरुणा चाभ्यनुज्ञातः प्राश्नीयात् प्राङ्मुखः शुचिः । हितं प्रियं गुरोः कुर्यादहङ्कारविवर्जितः ॥८ उपास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् । अभिवाद्य गुरुं पश्चाद् गुरोवचनकृद्भवेत् ॥६
गुरोः पूर्व समुत्तिष्टेच्छयीत चरमं तथा ।
मधुमांसाञ्जनं श्राद्धं गीतं नृत्यश्च वर्जयेत् ॥ १०
॥१०
हिंसापवादवादांश्च (परापवादं च) स्त्रीलीलां च विशेषतः ।
मेखलामजिनं दण्डं धारयेच्च प्रयत्नतः ।
अध. शायी भवेन्नित्यं ब्रह्मचारी समाहितः ॥११
एवं कृत्य ( व्रत )न्तु कुत्र वेदस्वीकरणं बुधः ।
गुरुवे च धनं दत्त्वा (स्नायीततदनुज्ञया) स्नायाश्च तदनन्तरम् ॥ १२
इति शाङ्कीये धर्मशास्त्रे तृतीयोऽध्यायः ।
[[१४२०]]
शङ्खस्मृतिः ।
॥ अथ चतुर्थोsयायः ॥
विवाहसंस्कारवर्णनम् ।
विन्देत विधिवद्भार्यामसमानार्थगोत्रजाम् ।
मातृतः पञ्चमीच्चापि पितृतस्त्वथ सप्तमीम् ॥१
ब्राह्मो दैवस्तथैवाऽऽर्षः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसश्चव पैशाचश्चाट्टमोऽधमः ॥२ एते धर्मास्तु चत्वारः पूर्वं विप्रे प्रकीर्तिताः । गान्धर्वो राक्षसश्चैव क्षत्रियस्य प्रशस्यते ॥ ३
[[1]]
अ (सं) प्रार्थितः प्रयत्नेन ब्राह्मस्तु परिकीर्तितः । यज्ञेषु ऋत्विजे देव आदायार्थस्तु गोद्वयम् ॥४ प्रार्थितः संप्रदानेन प्राजापत्यः प्रकीर्तितः । आसुरे द्रविणादानाद् गान्धवः समयान्मिथः ॥५ राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् । तिस्रस्तु भार्या विप्राय द्वे भाय् क्षत्रियस्य तु ॥६ एकैव भार्या वैश्यस्य तथा शूद्रस्य कीर्तिता ।
[[1]]
ब्राह्मणी क्षत्रिया वैश्या ब्राह्मणस्य प्रकीर्तिताः ॥ ७
क्षत्रिया चैव वैश्या च क्षत्रियस्य विधीयते ।
वैश्यैव भार्या वैश्यस्य शूद्रा शूद्रस्य
शूद्रा शूद्रस्य कीर्तिता ॥८
आपद्यपि न कर्तव्या शूद्रा भाय्र्याद्विजन्मना ।
तस्यां तस्य प्रसूतत्य निष्कृतिनं विधीयते ॥
तपस्वी य (ज्ञ)शशीलश्च स धमभृतां वरः ।
[ चतुर्थी-ऽध्यायः ]
गृहस्थामश्रमवर्णनम् ।
[[१४२१]]
ध्रुवं शूद्रत्वमाप्नोति शूद्रश्राद्ध त्रयोदशे ॥ १०
नीयते तु सपिण्डत्वं येषां (शूद्रः) श्राद्धं कुलोद् (भवः) गतम् । सर्वे शूद्रत्वमायान्ति यदि स्वर्गजितास्तु ते ॥११
सपिण्डीकरणं काय कुलजस्य तथा ध्रुवम् । श्राद्धं द्वादशकं कृत्वा श्राद्ध प्राप्ते त्रयोदशे ॥ १२ सपिण्डीकरणे चाहे न च शूद्र ( कथंचन) स्तथार्हति । तस्मात् सर्वप्रयत्नेन शूद्रां भार्य्या विवर्जयेत् ॥ १३ पाणिग्रह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् । वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ॥१४
सा भार्य्या या (गृहं रक्षा) वहेदग्नि सा भार्य्या या पतित्रता । सा भार्य्या या पतिप्राणा सा भार्य्या या प्रजावती ॥१४
लालनीया सदा भार्य्या ताड़नीया तथैव च ।
।
लालिता ताड़िता चैव त्री श्रीभवति नान्यथा ॥ १५
इती शाङ्खीये धर्मशास्त्रे चतुर्थोऽध्यायः ।
।
॥ पञ्चमोऽध्यायः ॥
पंचमहायज्ञाः गृहाश्रमिणांप्रशंसा - अतिथिवर्णनम् ।
पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च तस्य पापस्य शान्तये ॥ १
[[१४२२]]
शङ्खस्मृतिः ।
पचामो-
पञ्चयज्ञविधानश्च गृही नित्यं न हापयेत् । पञ्चयज्ञविधानेन तत्पापं तस्य नश्यति ॥२ ‘देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च ।
ब्रह्मयज्ञो नृयज्ञश्च पथ्य यज्ञाः प्रकीर्तिताः ॥३ होमो देवोवलिर्भीतः पित्र्यः पिण्ड क्रियास्मृतः । स्वाध्यायो ब्रह्मयज्ञ नृयज्ञोऽतिथिपूजनम् ॥४ वानप्रस्थो ब्रह्मचारी यतिश्चैव तथा द्विजः । गृहस्थस्य प्रसादेन जवन्त्येते यथाविधि ॥५ गृहस्थ एव यजते. गृहस्थस्तप्यते तपः । दाता चैव गृहस्थः स्यात्तस्माच्छेष्ठो गृहाश्रमी ॥६
यथा भर्ता प्रभु स्त्रीणां वर्णानां ब्राह्मणो यथा । अतिथिस्तद्वदेवास्य गृहस्थस्य प्रभुः स्मृतः ॥ ७
न व्रतैर्नोपवासैश्च ( न च यज्ञैः पृथग्विधै) धर्मेण विविधेन च । नारी (राजा) स्वर्गमवाप्नोति प्राप्नोति पति (परिपालनात) पूजनात् ॥८
न स्नानेन न होमेन नैवाग्नि (परिचर्यया, तर्पणात् । ब्रह्मचारी दिवं याति स याति गुरुपूजनात् ॥
नाग्नि (अति) शुश्रूषया क्षान्त्या स्नानेन विविधेन च । वानप्रस्थो दिवं याति याति भोजनवर्जनात् ॥१०
न भैक्ष (दण्डे )र्न च मौनेन शून्यागाराश्रयेण च ।
योगो (यतिः) सिद्धिमवाप्नोति (योगेनाऽऽप्नोत्य नुत्तमाम्)
यथा मैथुनवर्जनात् ॥११
ऽध्यायः ] पंचमहायज्ञाः गृहाश्रमिणां प्रशंसा अतिथिवर्णनम् १४२३
न यज्ञैर्दक्षिणाभिश्च वह्निशुश्रूषया न च ।
गृही स्वर्गमवाप्नोति तथा चातिथिपूजनात् १२ तस्मात् सर्वप्रयत्नेन गृहस्थोऽतिथिमागतम् । आहारशयनाद्येन विधिवत् परि (प्रति पूजयेत् ॥ १३ सायं प्रातश्च जुहुयादग्निहोत्रं यथाविधि । दर्शश्च पौर्णमासश्च जुहुयाश्च यथाविधि ॥१४ यज्ञैर्वा (यजेत ) पशुबन्धेश्च चातुर्मास्यैस्तथैव च । त्रैवार्षिकाधिकान्नेन पिवेत् सोममतन्द्रितः ॥१५ इष्टि वैश्वानरी कुर्य्यात्तथा चाल्पधनो द्विजः ।
न भिक्षेत धनं शूद्रात् सव्वं दद्या (द्भिक्षितम् ) दभीप्सितम् ॥ १६
वृत्तिन्तु न यजेद्विद्वानृत्विजं पूर्वमेव तु ।
।
कर्मणा जन्मना शुद्ध (विधया च वृणीततम्) विद्यात् पात्रं वलीततम् ॥१७
एतैरेव गुणैर्युक्तं धर्मार्जितधनं तथा ।
याजयेत्तु ( याजयीत) सदा विप्रो ग्राह्यस्तस्मात् प्रतिग्रहः ॥ १८
इति शाङ्कीये धर्मशास्त्रे पञ्चमोऽध्यायः ।
॥ षष्ठोऽध्यायः ॥
अथवानप्रस्थधर्मनिरूपणंसन्यासधर्मप्रकरणञ्च ।
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ।
अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥१
[[१४२४]]
शङ्खस्मृतिः ।
पुत्रेषु दारान्निक्षिप्य तया वाऽनुगतो वनम् । अग्नीनुपचरेन्नित्यं वन्यमाहारमाहरेत् ॥२ यदाहारो भवेत्तेन पूजयेत् पितृदेवताः । तेनैत्र पूजयेन्नित्यमतिथिं समुपागतम् ॥३ ग्रामाद हृत्य चाश्नीयादष्टौ ग्रासान् समाहितः । स्वाध्यायश्व सदा कुर्य्याज्जटाश्च विभृयात्तथा ॥४ तपसा शोषयेन्नित्यं स्वयञ्चैव कलेवरम् । आर्द्रवासास्तु हेमन्ते ग्रीष्मे पश्च तपास्तथा ॥५ प्रावृष्याकाशशायी स्यान्नक्काशी च सदा भवेत् । चतुर्थकालिको वास्यात् स्यात्षष्ठकालिक एव वा ॥६ कृच्छ्रर्वाऽपि नयेत् कालं ब्रह्मचर्य्यश्च पालयेत् । एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत् ॥७
इति शाङ्खीये धर्मशास्त्रे षष्ठोऽध्यायः ।
॥ सप्तमोऽध्यायः ॥ अथप्राणायामलक्षणंधारणध्यानयोग निरूपणवर्णनम् ।
कृत्वेष्टिं विधिवत् पश्चात् सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य द्विजो ब्रह्माश्रमी भवेत् ॥१
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवजने ।
अतीते पादसम्पाते नित्यं भिक्षां यतिश्चरेत् ॥२
षष्ठमो-
ब्यायः ] प्राणायामलक्षणं धारण-ध्यानयोगनिरूपणवर्णनम् १४२५
सनागाश्चरेद्वेक्ष्यं (अं) भिक्षितं नानुभिक्षयेत् । न व्यथत तथाऽलाभे यथा लब्धेन वर्तयेत् । नाऽऽस्वादयेत्तथान्नं नाश्नीयात् कस्यचिद्गृहे ॥३ मृग्मयाला पात्राणि यतीनान्तु विनिर्दिशेत् । ते सम्म नाच्छुद्धिरद्भिश्चैव प्रकीर्तिता ॥४ कौपीनाच्छादनं वासो विभृयादसख (व्यथ) श्वरन् । शून्यागारनिकेतः स्याद्यत्र सायं गृहो मुनिः ॥५ दृटिपूतं न्यसेत् पादं वरूपूनं जलं पिवेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत ॥६ चन्दनैर्लिप्यतेऽङ्गं वा भस्म चूर्णैर्विगर्हितैः । कल्याणमप्यकल्याणं तयोरेव न संश्रयेत् ॥७
सर्वभूतहितो मैत्रः समलोष्ट्राश्मकाञ्चनः ।
ध्यानयोगरतो नित्यं भिक्षुर्यायात् ( प्राप्नोति ) परां गतिम् ॥८
जन्मना यस्तु निर्विणो मन्यते ( मरणेन च तथव च ।
आधिभिर्व्याधिभिश्चैव तं देवा ब्राह्मणं विदुः ॥
अशुचित्वं शरीरस्य प्रियस्य च विपर्य्ययः ।
गर्भवासे च वसतिस्तस्मान्मुच्येत नान्यथा ॥१०
जगदेतन्निराक्रन्दं नतु सारमनर्थकम् ।
।
भोक्तव्यमिति नि (र्दिष्टो ) र्विणो मुच्यते नात्र संशयः ॥ ११ प्राणायामै रहेोपान् धारणाभिश्च विलियम् । प्रत्याहारैरसत्सङ्गान् ध्यानेनानेश्वरान् गुणान् ॥१२ सव्याहृतिं सप्रणवां गायत्री शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ १३
[[१४२६]]
शङ्खामृतिः ।
मनसः संयमस्तज्ज्ञैर्धारणेति निगद्यते । संहारश्चेन्द्रियाणाञ्च प्रत्याहारः प्रकीर्तितः ॥ १४ हृदयस्थस्य योगेन देवदेवस्य दर्शनम् ।
सप्तमो-
ध्यानं प्रोक्तं प्रवक्षामि सर्वस्माद्योगतः शुभम् ॥१५ हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि ज्योतींषि (सूर्यश्च ) भूयश्च हृदि सर्वं प्रतिष्ठितम् ॥१६ स्वदेहमरणि कृत्वा प्रणवश्ञ्चोत्तरारणिम् । ध्याननिर्मथनाभ्यान्तु विष्णुं पश्येदुद्धृदिस्थितम् ॥१७ हृद्यर्कश्चन्द्रमाः सूर्यः सोमो मध्ये हुताशनः ।
।
तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितोऽच्युतः ॥ १८ श्रवणोरणीयान् महतो महीया नात्मास्य जन्तोनिहितो गुहायाम् । तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ १६
वासुदेवस्तमोऽन्धानां प्रत्यक्षो नैव जायते । अज्ञानपटसंवीतैरिन्द्रियं विषयेप्सुभिः ॥२०
एष वै पुरुषोविष्णुर्व्यक्ताव्यक्तः सनातनः ।
एव धाता विधाता च पुराणोनिष्कलः शिवः ॥२१ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । मन्त्रैर्विदित्वा न विभेति मृत्योर्नान्यः पन्थाविद्यतेऽयनाय ॥२२
पृथिव्यापस्तथा तेजोवायुराकाशमेव च । पन्चेमानि विजानीयान्महाभूतानि पण्डितः ॥२३ चक्षुः श्रोत्रे स्पर्शनश्च रसना घ्राणमेव च । बुद्धीन्द्रियाणि ज्ञानीयात् पञ्चमानि शरीरके ॥ २४
ऽध्यायः ] धारणादीनां लक्षणम् ध्यानयोगनिरूपणश्च । १४५७
शब्दो रूपं तथा स्पर्शो रसो गन्धस्तथैव च । इन्द्रियस्थान् विजानीयात् पञ्चैव विषयान् बुधः ॥२५ हस्तौ पादावुपस्थश्च जिह्वा पायुस्तथैव च । कर्मेन्द्रियाणि पञ्चैव नित्यं (मस्मिन्) सति शरीरके ॥२६ मनो बुद्धिस्तथैवाऽऽत्मा व्यक्ताव्यक्तं तथैव च । इन्द्रियेभ्यः पराणीह चत्वारि प्रवराणि च ॥ चतुर्विंशत्यथैतानि तत्त्वानि कथितानि च ।
तथाऽऽत्मानं तद्व्यतीतं पुरुषं पश्वविंशकम् ।
।
तन्तु ज्ञात्वा विमुच्यन्ते ये जनाः साधुवृत्तयः ॥२८ इदन्तु परमं शुद्ध (गुह्य) मेतदक्षरमुत्तमम । अशब्दरसमस्पशंमरूपं गन्धवर्जितम् ॥२६ निर्दुःखमसुखं शुद्धं तद्विष्णोः परमं पदम् । अजं निरञ्जनं शान्तमव्यक्तं ध्रुवमक्षरम् । अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम् । विज्ञानसारथिर्यस्तु मनः प्रग्रहबन्धनः ॥३० सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् । बालाग्रशतशो भागः कल्पितस्तु सहस्रधा ॥३१ तस्यापि शतशो भागाज्जीवः सूक्ष्म उदाहृतः ॥ ३२ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्ध रात्मा तथा परः ॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्नं परं किञ्चित् सा काष्ठा सा परा गतिः ॥१३३ ६०
[[१४२८]]
शङ्खस्मृतिः ।
एषु सर्वेषु भूतेषु तिष्ठत्यविरलः सदा ।
दृश्यते त्वग्यूया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥३४ इति शाङ्खीये धर्मशास्त्रे सप्तमोऽध्यायः ।
॥ अष्टमोऽध्यायः ॥ अथनित्यनैमित्तिकादिस्नानानां लक्षणवर्णनम् ।
नित्यं नैमित्तिकं कामं क्रिया मलकर्षणम् । क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ॥१ अस्नातः पुनरानर्हा जप्या मिहवनादिषु । प्रातः स्नानं तदर्थं च नित्यस्नानं प्रकीर्तितम् ॥२ चण्डालशवयूपाद्यं स्पृष्ट्रा स्नानं रजस्वलाम् । स्नानानर्हस्तु यः स्नाति स्नानं नैमित्तिकं च तत् ॥३ पुष्यस्नानादिकं स्नानं दैवज्ञविधिचोदितम् । तद्धि काम्यं समुद्दिष्टं नाकामस्तत्प्रयोजयेत् ॥४ जप्तुकामः पवित्राणि अर्चिष्यन्देवताः पितन् । स्नानं समाचरेद्यस्तु क्रियाङ्गं तत्प्रकीर्तितम् ॥५ मलापकर्षणार्थं तु स्नानमभ्यङ्गपूर्वकम् । मलापकर्षणार्थाय प्रवृत्तिस्तस्य नान्यथा ॥ ६ सरित्सु देवखातेषु तीर्थेषु च नदीषु च । क्रियास्नानं समुद्दिष्टं स्नानं तत्र महाक्रिया ॥ ७ तत्र काम्यं तु कर्तव्यं यथावद्विधिचोदितम् । नित्यं नैमित्तिकं चैव क्रियाङ्गं मलकषेणम् ॥८
।
अष्टमो-
ऽध्यायः ]
क्रियास्नानविधिवर्णनम् ।
[[१४२६]]
तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः । स्नानं तु वह्नितप्तेन तथैव परवारिणा ॥ शरीरशुद्धिर्विज्ञेया न तु स्नानफलं लभेत् । अद्भिर्गात्राणि शुध्यन्ति तीर्थस्नानात्फलं लभेत् ॥ १० सरःसु देवखातेषु तीर्थेषु च नदीषु च ।
स्नानमेव क्रिया तस्मात्स्नानात्पुण्यफलं स्मृतम् ॥११ तीर्थ प्राप्यानुषङ्गेण स्नानं तीर्थे समाचरेत् । स्नानजं फलमाप्नोति तीर्थयात्राफलं न तु ॥ १२ सर्वतीर्थानि पुण्यानि पापघ्नानि सदा नृणाम् । परस्परानपेक्षाणि कथितानि मनीषिभिः ॥ १३ सर्वे प्रस्रवणाः पुण्याः सरांसि च शिलोच्चयाः । नद्यः पुण्यास्तथा सर्वा जाह्नवी तु विशेषतः ॥१४ यस्य पादौ च हस्तौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥१५ नृणां पामकृतां तीर्थे पापस्य शमनं भवेत् । यथोक्तफलदं तीर्थं भवेच्छुद्धात्मनां नृणाम् ॥१६
इति शाङ्खीये धर्मशास्त्रेऽष्टमोऽध्यायः ।
॥ अथ नवमोऽध्यायः ॥ अथ क्रियास्नानविधिवर्णनन् ।
क्रियास्नानं प्रवक्ष्यामि यथावद्विधिपूर्वकम् ।
मृद्भिरद्भिश्च कर्तव्यं शौचमादौ यथाविधि ॥ १
[[१४३०]]
शङ्खस्मृतिः ।
[ नवमो-
जले निमग्न उन्मज्य उपस्पृश्य यथाविधि । जलस्याऽऽवाहनं कुर्यात्तत्प्रवक्ष्याम्यतः परम् । तीर्थ (जल) स्यावाहनं कुर्य्यात् तत्प्रवक्ष्याम्यशेषतः ॥२ प्रपद्ये वरुणं देवमम्भसां पतिमूर्जितम् ।
याचितं देहि मे तीथं सर्वपापापनुत्तये ॥ ३
तीर्थमावाहयिष्यामि सर्वाधविनिषूदनम् ।
सान्निध्यमस्मिन् स्तोये च क्रियतां (भजत्वं) मदनुग्रहात् ॥ रुद्रान् प्रपद्ये वरदान् सर्व्वानप्सु पदस्तथा । सर्व्वानप्सु सदश्चैव प्रपद्ये प्रयतः स्थितः ॥ ५ देवमंशुमदं (देवमप्सु षदं ) बह्नि प्रपद्येऽघनिषूदनम् । आपः पुण्याः पवित्राश्च प्रपद्ये शरणं तथा ॥ ६ रुद्राश्चाग्निश्च सर्पश्च वरुणस्त्वाप एव च । शमयन्त्वाशु मे पापं माथ्य रक्षन्तु सर्वशः ॥ ७ इत्येव मुक्ता कर्तव्य स्ततः संमार्जनं जले । आपोहिष्ठेति तिसृभिर्यथावदनुपूर्वशः ।
हिरण्यवर्णेति ( वदेदग्निश्व) तिसृभिर्ज्जगतीति चतसृभिः । शं नो देवीति तथा शं न आप स्तथैव च ॥८ इदमापः प्रवहते (द्यूतञ्च ) तथा मन्त्र मुदीरयेत् । एवं सम्मार्जनं कृत्वा छन्दश्च देवताः ॥ एवं मन्त्रान्समुच्चार्य च्छन्दांसि ऋषिदेवताः । अघमर्षणसूक्तभ्व प्रपठेत् प्रयतः सदा ।
बन्दोऽनुष्टुप् च तस्यैव ऋषिश्चैवाघमर्षणः ॥ १०
॥१०ऽध्यायः ]
आचमनविधिवर्णनम् ।
देवता भाववृत्तश्च पापक्षये प्रकीर्तितः ॥ ११ ततोऽम्भसि निमग्नः स्यात्ति पठेदघमर्षणम् ।
प्रपद्यान्मूर्द्धनि तथा महाव्याहृतिभिर्जलम् ॥
यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः । तथाऽघमर्षणं सूक्तं सवपापप्रणाशनम् ॥१३
[[१४३१]]
अनेन विधिना स्नात्वा स्नातवान् धौतवाससा । परिवर्जि (र्ति)तवासास्तु (तीर्थं तीरमुपस्पृशेत्) तीर्थनामानि संजपेत् ॥ १४
उदकस्याप्रदानात्तु स्नानशाटी न पीडयेत् । अनेन विधिना स्नातस्तीथस्य फलमश्नुते ॥ १५
इति शाङ्ख धर्मशास्त्रे नवमोऽध्यायः ।
॥ अथ दशमोऽध्यायः ॥
अथाचमनविधिवर्णनम् ।
अतः परं प्रवक्ष्यामि शुभामाचमनक्रियाम् ।
कार्यं कनिष्ठिकामूले तीर्थमुक्तं मनीषिभिः ॥ १ अङ्गुष्टमूले च तथा प्राजापत्यं विचक्षणैः ।
अङ्गुल्य स्मृतं दिव्यं पित्र्यं तर्जनिमूलकम् [के ] ॥२ प्राजापत्येन तीर्थेन त्रिः प्राश्नीयाज्जलं द्विजः ।
द्विः प्रमृज्य मुखं पश्चात्खान्यद्भिः समुपस्पृशेत् ॥३
[[१४३२]]
शङ्खस्मृतिः ।
हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । तालुगाभिस्तथा वंश्यः शूद्रः स्पृष्टाभिरन्ततः ॥४ अन्तजानुः शुचौ देशे प्राङ्मुखः सुसमाहितः । उदङ्मुखो वा प्रयतो दिशश्वानवलोकयम् ॥५ अद्भिः समुद्धृताभिस्तु हीनाभिः फेनबुदबुदैः । वह्निना चाप्यतप्राभिरक्षाराभिरुपस्पृशेत् । तजन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम् । अङ्गुष्ठमध्यायोगेन स्पृशेन्नत्रद्वयं ततः ॥ ७ अङ्गुष्ठानामिकाभ्यां तु श्रवणौ समुपस्पृशेत् । कनिष्ठाङ्गुष्ठयोगेन स्पृशेत्स्कन्धद्वयं ततः ॥८ सर्वासामेव योगेन नाभि च हृदयं तथा । संस्पृशेच्च तथा मूर्ध्नि एष आचमने विधिः ॥ त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः । ब्रह्मा विष्णुश्च रुद्रश्च भवन्तीत्यनुशुश्रुम ॥१० गङ्गा च यमुना चैव प्रीयेते परिमार्जनात । नासत्यदस्रौ प्रीयेते स्टे नासापुटद्वये ॥११ स्पृष्टे लोचनयुग्मे तु प्रीयेते शशिभास्करौ । कर्णयुग्मे तथा स्पृष्ठे प्रीयेते अनिलानलौ ॥१२ स्कन्धयाः स्पर्शनादश्य प्रीयन्ते सर्वदेवताः । मूर्ध्नः संस्पर्शनादस्य प्रीतस्तु पुरुषो भवेत् ॥१३ विना यज्ञोपवीतेन तथा मुक्तशिखो द्विजः । अप्रक्षालितपादस्तु आचान्तोऽप्यशुचिर्भवेत् ॥१४
[ दशमी-
ऽध्यायः ]
अघमर्पणविधिवर्णनम् ।
[[९४०३३]]
बहिर्जानुरुपस्पृश्य एकहस्तार्पितैर्जलैः ।
सोपानत्क (समलाभिस्तथा तिष्ठन्नेव शुद्धिमवाप्नुयात् ॥१५ आचम्य च पुराप्रोक्तं तीर्थसमाजनं तु यत् । उपस्पृशेत्ततः पश्चान्मत्रेणानेन धर्मतः ॥ १६
अन्तश्चरति भूतेषु गुहायां विश्वतोमुखः ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥१७ आचम्य च ततः पश्चादादित्याभिमुखो जलम् ।
उदु
त्यं जातवेदसमिति मन्त्रेण निक्षिपेत् ॥ १८ एष एव विधिः प्रोक्तः संध्ययोश्च द्विजातिषु । पूर्वी संध्यां जपंस्तिष्ठेदासीनः पश्चिमां स्तथा ॥ १६ ततो जपेत्पवित्राणि पवित्रं वाऽथ शक्तितः । ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुयुः ॥२० सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम । येषां जपैश्च होमैश्च पूयन्ते मानवाः सदा ॥२१
इति शाहू धर्मशास्त्रे दशमोऽध्यायः ।
॥ अथ एकादशोऽध्यायः ॥
अथाघमर्षण विधिवर्णनम् ।
अघमर्पणं देवकृतं शुद्धवत्यस्तरत्समाः ।
कूष्माण्ड्यः पावमान्यश्च सावित्र्यश्च तथैव च ॥१
शङ्खस्मृतिः ।
[ द्वादशो-
ज्य [ त्रि ] भिष्टुं द्रुपदा चैव स्तोमानि व्याहृतिस्तथा । भारुण्डानि च सामानि गायत्री चौशनं [त्र्यौशनसं] तथा ॥२
पुरुषत्रतं च भाषं च तथा सोमव्रतानि च । अब्लिङ्गं बाहस्पत्यं च वाक्सूत्रममृतं तथा ॥ ३ शतरुद्रीयमथर्वशिर त्रिसुपर्ण महाव्रतम् ।
सूक्तमश्वसूक्तं च इन्द्रसूक्तं च सामनी ॥४ त्रीण्याज्यदोहानि रथंतरं च अमिब्रतं वामदेवत्रतं च । एतानि गीतानि पुनन्तिजन्तुञ्जतिस्मरत्वं लभते यदीच्छेत् ॥५
इति शाङ्क धर्मशास्त्रे एकादशोऽध्यायः ।
॥ द्वादशोऽध्यायः ॥
अथ गायत्रीजप विधिवर्णनम् ।
इति वेदपवित्राण्यभिहितानि, एभ्यः सावित्री विशिष्यते ॥ १ नास्त्यघमर्षणात्परमन्तर्जले ॥२
न सावित्र्या समं जप्यं न न व्याहृतिसमं हुतम् ॥ ३
॥३
कुशमय्यामासीनः कुशोत्तरीयवान्कुशपवित्रपाणिः प्राङ्मुखः सुर्याभिमुखो वाऽक्षमालामुपादाय देवता ध्यायी जपं कुर्यात् ॥४ सुवर्णमणिमुक्तास्फटिकपद्माक्षरुद्राक्षपुत्रजीवकानामन्यतमेना-
ssदाय मालां कुर्यात् ॥५
॥५
कुशमन्थि कृत्वा वामहस्तोपयमैर्वा गणयेत् ॥६
श्रन्यभ्यः ] गायत्रीजपफलं, गायत्रीहोमाद्भीष्टसिद्धिवर्णनभ्व १४३५
आदौ देवता ऋषिच्छन्दः स्मरेत् ॥७
ततः सप्रणवां सव्याहृतिकामादावन्ते च शिरसा गायत्रीमावर्तयेन अथास्याः सविता देवता, ऋषिविश्वामित्रो गायत्री छन्दः ॥
ॐकारः प्रणवाख्यः ॥१०
ॐ भूः ।
ॐ
[[1]]
भुवः । ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः ।
ॐ सत्यमिति व्याहृतयः ॥११
ओमापो ज्योतीरसोमृतं ब्रह्म भूर्भुवः स्वरोमिति शिरः ॥ १२ भवन्ति चात्र श्लोकाः ॥ १३
सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ।
ये जपन्ति सदा तेषां न भयं विद्यते क्वचित् ॥१४ शवं जात्वा तु सा देवी दिनपापप्रणाशिनी । सहस्रं जप्त्वा तु तथा पातकेभ्यः समुद्धरेत् ॥१५ दशसहस्रं जप्त्वा तु सर्वकल्मषनाशिनी । सुवर्णस्तेयकृद्विप्रो ब्रह्महा गुरुतल्पगः ॥ १६ सुरापश्च विशुध्येत लक्षजाप्यान्न संशयः । प्राणायामत्रयं कृत्वा स्नानकाले समाहितः ॥१७ अहोरात्र कृतात्पापात्तत्क्षणादेव मुच्यते । सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश ॥ १८ अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः । हुता देवी विशेषेण सर्वकामप्रदायिनी ॥ १६ सर्वपापक्षयकरी वरदा भक्तवत्सला ।
'
}, '
शान्तिकामस्तु जुहुयात्सावित्रीमक्षतैः शुचिः ॥२०
[[१४३६]]
शङ्खस्मृतिः ।
हन्तुकामोऽपमृत्युं च घृतेन जुहुयात्तथा ।
श्रीकामस्तु तथा पद्म बिल्वैः काञ्चनकामुकः ॥२१ ब्रह्मवर्चसकामस्तु पयसा बहुयात्तथा । घृतप्लुतैस्तिलैर्वह्नि जुहुयात्सुसमाहितः ॥ २२ गायत्र्ययुतहोमाच्च सर्वपापैः प्रमुच्यते
पापात्मा लक्षहोमेन पातकेभ्यः प्रमुच्यते ॥२३ अभीष्टं लोकमाप्नोति प्राप्नुयात्काममीप्सितम् । गायत्री वेदजननी गायत्री पापनाशिनी ॥२४ गायत्र्या परमं नास्ति दिवि चेह च पावनम् । हस्तत्राणप्रदा देवी पततां नरकार्णवे ॥२५ तस्मात्तामभ्यसेन्नित्यं ब्राह्मणो नियतः शुचिः । गायत्रीजाप्यनिरतं हव्यकव्येषु भोजयेत् ॥ २६ तस्मिन्न तिष्ठते पापमबिन्दुरिव पुष्करे ॥२७ जपे [ध्ये ] नैव तु संसिध्येद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्रह्मण उच्यते ॥२८ उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः । नोचैर्जपं बुधः कुर्यात्सावित्र्यास्तु विशेषतः ॥२६ सावित्रीजाप्यनिरतः स्वर्गमाप्नोति मानवः । गायत्रीजप्यनिरतो मोक्षोपायं च विन्दति ॥३० तस्मात्सर्वप्रयत्नेन स्नातः प्रयतमानसः । गायत्री तु जपेद्भक्त्या सर्वपापप्रणाशिनीम् ॥३१
इति शाङ्ख धर्मशास्त्रे द्वादशोऽध्यायः ।
[ द्वादशो-
ऽध्यायः ]
[[१४३७]]
॥ त्रयोदशोऽध्यायः ॥ अथ तर्पणविधिवर्णनम् ।
स्नातः कृतजप्यस्तदनु प्राङ्मुखो दिव्येन तीर्थेन देवानुदकेन तर्पयेत् ॥ १
अथ तर्पणविधिः ॥२
ॐ भगवन्तं शेषं तपयामि ॥३
कालाग्निरुद्रं तु ततो रुक्मभौमं तथैव च । श्वेतभौमं ततः प्रोक्तं पातालानां च सप्तकम् ॥४ जम्बूद्वीपं ततः प्रोक्तं शाकद्वीपं ततः परम् । गोमेद पुष्करे तद्वच्छाकाख्यं च ततः परम् ॥५ शावरं ततः स्वधामानं ततो हिरण्यरोमाणं ततः कल्पस्थायिनो लोकांस्तर्पयेत् ॥६
लवणोदकं ततः क्षीरोदं ततो घृतोदं नत इक्षुदं ततः स्वादूदं तत इति सप्तसमुद्रकं प्रत्यूषं पुरुषसूक्तेनोदकाअलीन्दद्यात्, पुष्पाणि च तथा भक्तया ॥ ७ अथ कृतापसव्योदक्षिणामुखोऽन्तर्जानुः पित्र्येण पितृणां यथाश्राद्धं प्रकाममुदकं दद्यात् ॥८ सौवर्णेन पात्रेण राजतेनौदुम्बरेण खड्गपात्रेणान्य पात्रेण वोदकं पितृतीर्थ स्पृशन्दद्यात् ॥
पित्रे पितामहाय प्रपितामहाय माझे पितामयै प्रपितामह्यं मातामहाय [?] प्रमातामहाय मात्रे [?]
मातामधे प्रमातामह्यं सप्तमात्पुरुषात्पितृपक्षे यावतां नाम
[[१४३८]]
शङ्खस्मृतिः ।
[ चतुर्दशो-
जानीयात्पितृपक्षाणां तर्पणं कृत्वा गुरूणां मातृपक्षाणां
तर्पणं कुर्यात् ॥१०
मातृपक्षाणां तर्पणं कृत्वा संबन्धिबान्धवानां कुर्यात्,
तेषां कृत्वा सुहृदां कुर्यात् ॥११
भवन्ति चात्र श्लोकाः ॥१२
विना रौप्यसुवर्णेन विना ताम्रतिलेन च । विना दर्भेश्व मन्त्रश्च पितृणां नोपतिष्ठते ॥१३ सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण च । दत्तमक्षय्यतां याति पितृणां तु तिलोदकम् ॥१४ हेम्ना तु सह यद्दत्तं क्षीरेण मधुना सह । तदप्यक्षय्यतां याति पितणां तु तिलोदकम् ॥१५ कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितणां प्रीतिमावन् ॥१६ स्नातः संतर्पणं कृत्वा पितृणां तु
कृत्वा पितृणां तु तिलाम्भसा । पितृयज्ञमवाप्नोति प्रीणाति च पितॄंस्तथा ॥१७
इति शाहू धर्मशास्त्रे त्रयोदशोऽध्यायः ।
॥ अथ चतुर्दशोऽध्यायः ॥
अथ श्राद्ध ब्राह्मणपरीक्षावर्णनम् ।
ब्राह्मणान्न परीक्षेत दैवे कर्मणि धर्मवित् ।
पित्र्ये कर्मणि संप्राप्ते युक्तमाहुः परीक्षणम् ॥१,
ऽध्यायः ] श्राद्ध वर्ज्यब्राह्मणाः, पक्तिपावन ब्राह्मणनिरूपणम् १४३६
ब्राह्मणा ये विकर्मस्था बैडालव्रतिकास्तथा । ऊनाना अतिरिक्ताङ्गा ब्राह्मणाः पङ्क्तिदूषकाः ॥२ गुरूणां प्रतिकूलाश्च वेदाग्न्युत्सादिनश्च ये । गुरूणां त्यागिनचैव ब्राह्मणाः पङ्क्तिदूषकाः ॥ ३ अनध्यायेष्वधीयानाः शौचाचारविवजिताः । शूद्रान्नरससंपुष्टा ब्राह्मगा पक्तिदूषकाः ॥४ षडङ्गवित्ति सुपर्णो वह वृचो ज्येष्ठसामगः । त्रिणाचिकेतः पञ्चामि ब्रह्मणाः पङ्क्तिपावनाः ॥५ ब्रह्मदेयानुसंतानो ब्रह्मदेयाप्रदायकः । ब्रह्मदेयापतिर्यश्च ब्राह्मणाः पक्ति पावनाः ॥६ भृग्यजु पारगो यश्च साम्नां यश्चापि पारगः । अथर्वाङ्गिरसो ध्येता ब्राह्मणः पङ्क्तिपावनः ॥ ७ ॥७ नित्यं योगरतो विद्वान्समलं ष्टाश्मकाञ्चनः । ध्यानशीलो यतिर्विद्वान्ब्राह्मणः पङ्क्तिपावनः ॥८ द्वौदेवे प्राङ्मुखौ त्रीन्वा पित्र्ये चोदङ्मुखांस्तथा । भोजयेद्विविधा विप्रानेकैकमुभयत्र वा ॥ भोजयेदथ वाऽप्येकं ब्राह्मणं पक्तिपावनम् । दवे कृत्वा तु नवेद्य पश्चाद्वह्नौ तु तत्क्षिपेत् ॥१० उच्छिष्टसंनिधौ कार्य पिण्डनिर्वपणं बुधै । अभावे च तथाकार्यसनिकायं यथाविधि ॥ ११ श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविविर्जितः । उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् ॥१२
[[१४४०]]
शङ्खस्मृतिः ।
[ पञ्चदशो-
अन्यत्र पुष्पमूलेभ्यः पीठकेभ्यश्च पण्डितः । भोजयेद्विविधान्विप्रान्गन्धमाल्य समुज्ज्वलान् ॥१३ यत्किचित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा । अनिवेद्य न भोक्तव्यं पिण्डमूले कदाचन ॥१४ उग्रगन्धान्यगन्धानि चैत्यवृक्षभवानि च । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥ १५ तोयोद्भवानि देयानि रक्तान्यपि विशेषतः । ऊर्णासूत्रं प्रदातव्यं कार्पासमथवा नवम् ॥ १६ दशां विवर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजाम् । घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः ॥१७ धूपार्थं गुग्गुलुं दद्याद् घृतयुक्तं मधूत्कटम् । चन्दनं च तथा दद्यात्पिष्टा च कुङ्कुमं शुभम् ॥१८ भूतृणं सुरसं शिशुं पालकं सिन्धुकं तथा । कूष्माण्डालाबुवार्ताककोविदरांश्च वर्जयेत् ॥ १६ पिप्पलीं मरिचं चैव तथा वै पिण्डमूलकम् । कृतं च लवणं सवं वंशाग्र तु विवर्जयेत् ॥२० राजमाषान्मसूरांच कोद्रवान्कोरदूषकान् । लोहितान्वृक्षनिर्यासान् श्राद्धकर्मणि वर्जयेत् ॥२१ आम्रमामलकीमिक्षं मृद्वीकादधिदाडिमान् । विदार्यश्चैव रम्भाद्या दद्याच्छ्राद्ध प्रयत्नतः ॥ २२ धानालाजे मधुयुते सक्तशर्करया सह ।
दद्याच्छ्राद्ध प्रयत्नेन शृङ्गाटकविसेतकान् ॥२३ऽध्यायः ]
श्राद्धप्रकरणवर्णनम् ।
भोजयित्वा द्विजान्भक्त्या स्वाचान्तान्दत्तदक्षिणान् । अभिवाद्य पुनर्विप्राननुत्रज्य विसर्जयेत् ॥२४ निमन्त्रितस्तु यः श्राद्ध मैथुनं सेवते द्विजः ।
श्राद्धं दत्त्वा च भुक्तत्वा च युक्तः स्यान्महतैनसा ॥२५ कालशाकं सशल्कांश्च मांसं वाध्रीणसस्य च । खड्गमांसं तथाऽनन्तं यमः प्रोवाच धर्मवित् ॥ २६ यद्ददाति गयाक्षेत्रे प्रभासे पुष्करे तथा । प्रयागे नैमिषारण्ये सर्वमानन्त्यमश्नुते ॥२७ गङ्गायमुनयोस्तीरे पयोष्ण्यामरकण्टके । नर्मदायां गयातीरे सर्वमानन्त्यमुच्यते ॥२८ वाराणस्यां कुरुक्षेत्रे भृगुतुङ्गे महालये । सप्तवेण्यृषि कूपे च तदण्यक्षय्यमुच्यते ॥ २६ म्लेच्छदेशे तथा रात्रौ संध्यायां च विशेषतः । न श्राद्धमाचरेत्प्राज्ञो म्लेच्छदेशे न च व्रजेत् ॥३० हस्तिच्छायासु यद्दत्तं यद्दत्तं राहुदर्शने । विषुवत्ययने चैव सर्वमानन्त्यमुच्यते ॥३१ प्रोष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं तु कर्तव्यं मधुना पायसेन वा ॥ ३२ प्रजां पुष्टिं यशः स्वर्गमारोग्यं च धनं तथा । नृणां श्राद्धः सदा प्रीताः प्रयच्छन्ति पितामहाः ॥ ३३ इति शाङ्खे धर्मशास्त्रे चतुर्दशोऽध्यायः ।
[[१४४१]]
[[१४४२]]
शङ्खस्मृतिः ।
[ पञ्चदशी-
॥ पचदशोऽध्यायः ॥
अथ जननमरणाशौचवर्णनम् ।
जनने मरणे चैव सपिण्डानां द्विजोत्तमः । त्र्यहाच्छुद्धिमवाप्नोति योऽग्निवेदसमन्वितः ॥१
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
[[1]]
नामधारक विप्रस्तु दशाहेन विशुध्यति ॥२ क्षत्रियो द्वादशाहेन वैश्यः पक्षेण शुध्यति । मासेन तु तथा शूद्रः शुद्धिमाप्नोति नान्तरा ॥३ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति । अजातदन्तबाले तु सद्यः शौचं विधीयते ॥४ अहोरात्रात्तथा शुद्धिर्बाले स्वकृतचूडके । तथैवानुपनीते तु त्र्यहाच्छुध्यन्ति बान्धवाः ॥५ अनूढानां तु कन्यायां तथैव शूद्रजन्मनाम् । अनूढ भायैः शूद्रस्तु षोडशाद्वत्सरात्परम् ॥६ मृत्युं समधिगच्छेश्चेन्मासात्तस्यापि बान्धवाः । शुद्धिं समभिगच्छेयुर्नात्र कार्या विचारणा ॥७ पितृवेश्मनि या कन्या रजः पश्यत्य संस्कृता । तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥८ हीनवर्णा तु या नारी प्रमादात्प्रसवं ब्रजेत् । प्रसवे मरणे तज्जमाशौचं नोपशाम्यति ॥
ऽध्यायः ]
अशौचप्रकरणवर्णनम् ।
।
समानं खल्वशौचं तु प्रथमेन समापयेत् । असमानं द्वितीयेन धर्मराजवचो यथा ॥ १० देशान्तरगतः श्रुत्वा कुल्यानां मरणोद्भवौ । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥११ अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् । तथा संवत्सरेऽतीते स्नान एव विशुध्यति ॥ १२ अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च । परपूर्वासु च स्त्रीपु त्र्यहाच्छुद्धिरिष्यते ॥१३ मातामहे व्यतीते तु आचार्ये च तथा मृते । गृहे दत्तासु कन्यासु मृतासु च त्र्यहस्तथा ॥ १४ निवासराजनि प्रेते जाते दौहित्र के गृहे । आचार्यपत्नीपुत्रेषु प्रेतेषु दिवसेन च ॥१५ मातुले पक्षिणीं रात्रिं शिष्यत्विग्बान्धवेषु च । सब्रह्मचारिण्येकाहमनूचाने तथा मृते ॥ १३ एकरात्रं त्रिरागं च षड्रात्रं मासमेव च । शूद्रे सपिण्डे वर्णानामाशौचं क्रमशः स्मृतम् ॥१७ त्रिरात्रमथ षड्रात्रं पक्षं मासं तथैव च । वैश्ये सपिण्डे वणानामाशौचं क्रमशः स्मृतम् ॥१८ सपिण्डे क्षत्रिये शुद्धिः षड्रात्रं ब्राह्मणस्य तु । वर्णानां परिशिष्टानां द्वादशाहं विनिर्दिशेत् ॥१६ सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः । दशरात्रेण शुध्येयुरित्याह भगवान्यमः ॥२०
[[६१]]
[[१४४३]]
[[१४४४]]
शङ्खस्मृतिः ।
भृग्वग्न्यनशनाम्भोभिमृ तानामात्मघातिनाम् । पतितानां च नाशौचं शस्त्र विद्युद्धताश्च ये ॥२१
यतिव्रतिब्रह्मचारिनृपकारुकदीक्षिताः ।
नाशौच भाजः कथिता राजाज्ञाकारिणश्च ये ॥२२ यस्तु भुङ्क्ते पराशौचे वर्णी सोऽप्यशुचिर्भवेत् । अशौचशुद्धौ शुद्धिश्च तस्याप्युक्ता मनीपिभिः ॥ २३ पराशौचे नरो भुक्ता कृमियोनौ प्रजायते । भुक्त्वाऽन्नं म्रियते यस्य तस्य योनौ प्रजायते ॥ २४ दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म च । प्रेतपिण्डक्रियावर्जमाशौचे विनिवर्तते ॥२५
इति शाङ्ख धर्मशास्त्रे पञ्चदशोऽध्यायः ।
॥ अथ पोडशोऽध्यायः ॥ अथद्रव्यशुद्धिः मृण्मयादिपात्रशुद्धिवर्णनम् । मृण्मयं भाजनं सर्वं पुनः पाकेन शुध्यति । मद्यैर्मूः पुरीषैश्च ष्ठीवनैः पूयशोणितैः ॥ १ संस्पृष्टं नैव शुध्येत पुनः पाकेन मृण्मयम् । एतैरेव तथा स्पृष्टं ताम्रसौवर्णराजतम् ॥२ शुध्यत्यावर्तितं पश्चादन्यथा केवलाम्भसा । आम्लोदकेन ताम्रस्य सीसस्य त्रणस्तथा ॥३
[ षोडशो-
ऽध्यायः ] द्रव्यशुद्धिः मृन्मयादिपात्रशुद्धिवर्णनम् । १४४५
क्षारेण शुद्धिः कांस (स्य ) स्य लोहस्य च विनिर्दिशेत् ।
मुक्तामणिप्रवालानां शुद्धिः प्रक्षालनेन तु ॥४
॥४
अब्जानां चैव भाण्डानां सर्वस्याश्ममयस्य च ।
शाकवजं मूलफलविदलानां तथव च ॥५ मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि । उष्णाम्भसा तथा शुद्धिं सस्नेहानां विनिर्दिशेत् ॥६ शयनासनयानानां स्फ्यशूर्पशकटस्य च ।
शुद्धिः संप्रोक्षणाद्यज्ञे कटमि (टान) न्धनयोस्तथा ॥७ मार्जनाद्वेश्मनां शुद्धिः क्षितेः शोधस्तु तत्क्षणात् । संमार्जितेन तोयेन वाससां शुद्धिरिष्यते ॥ बहूनां प्रोक्षणाच्छुद्धिर्धान्यादीनां विनिर्दिशेत् । प्रोक्षणात्संहतानां च दारवाणां च तत्क्षणात् ॥ सिद्धार्थकानां कल्केन शृङ्गदन्तमयस्य च । गोवालैः फलपात्राणामस्थनां शृङ्गवतां तथा ॥ १० निर्यासानां गुडानां च लवणानां तथैव च । कुसुम्भकुङ्कुमानां च ऊर्णाकार्पासयोस्तथा ॥११ प्रोक्षणात्कथिता शुद्धिरित्याह भगवान्यमः । भूमिष्ठमुदकं शुद्धं शुचि तोयं शिलागतम् ॥१२ वर्णगन्धरसैद्धैर्वजितं यदि तद्भवेत् ।
शुद्ध नदीगतं तोयं सर्वदैव तथाऽऽकरः ॥ १३
॥
शुद्धं प्रसारितं पण्यं शुद्ध े चाजाश्वयोर्मुखे ।
। '
- मुखवज तु गौः सुद्धा मार्जारवाssक्रमे शुचिः ॥ १४
-
॥
[[१४४६]]
शङ्खस्मृतिः ।
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमण्डलुः
आत्मनः कथितं शुद्धं न शुद्ध हि परस्य च ॥१५ नारीणां चैव वत्सानां शकुनीनां शुनां मुखम् । रात्रौ प्रस्रवणे वृक्षे मृगयायां सदा शुचि ॥ १६ शुद्धा भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला । देवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ॥ १७ रथ्याकर्दमतोयेन ष्ठीवनाद्येन वाऽप्यथ । नाभेरूध्वं नरः स्पृष्टः सद्यः स्नानेन शुध्यति ॥ १८ कृत्वा मूत्रं युरीषं वा स्नात्वा भोक्तमनास्तथा ।
[ षोडशो-
भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भोऽवगाह्य च ॥१६ रथ्यां वाऽऽक्रम्य वाऽऽचामेद्वासो विपरिधाय च । कृत्वा मूत्रपुरीषं च लेपगन्धापहं द्विजः ॥२० उद्घृतेनाम्भसा शौचं मृदा चैव समाचरेत् । मेहने मृत्तिकाः सप्त लिङ्ग द्वे परिकीर्तिते ॥२१ एकस्मिन्विशतिर्हस्ते द्वयोर्ज्ञेयाश्चतुर्दश ।
तिस्रस्तु मृत्तिका देयाः कृत्वा नखविशोधनम् ॥२२
।
तिस्रस्तु पादयोर्ज्ञेयाः शौचक्रामस्य सर्वदा । शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥२३ त्रिगुणं च वनस्थानां यतीनां तु चतुर्गुणम् । मृत्तिका च विनिर्दिष्टा त्रिपर्वाऽऽपूर्यते यथा ॥२४
इति शाङ्ख
े धर्मशास्त्रे षोडशोऽध्यायः ।
ऽध्यायः ]
क्षत्रियादिवधे गवाद्यपहारेवतवर्णनम् ।
[[१४४७]]
॥ अथ सप्तदशोऽध्यायः ॥
अथ क्षत्रियादिवधे गवाद्यपहारे - वतवर्णनम् ।
www
।
नित्यं त्रिषवणस्नायी कृत्वा प्रर्णकुटीं वने । अधः शायी जटाधारी पर्णमूलफलाशनः ॥ १ ग्रामं विशेच्च भिक्षार्थं स्वकर्म परिकीर्तयन् । एककालं समश्नीयाद्वर्षे तु द्वादशे गते ॥ २ हेमस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनैतेन शुध्यन्ते महापातकिन स्त्विमे ॥ ३ यागस्थं क्षत्त्रियं हत्वा वेश्यं हत्वा च याजकम् । एतदेव व्रतं कुर्यावात्रेयी विनिषूदकः ॥४ कूटसाक्ष्यं तथैवोक्त्वा निक्षेपमपहृत्य च । एतदेव व्रतं कुर्यात्यक्त्वा च शरणागतम् ॥५ आहिताग्नेः स्त्रियं हत्वा मित्रं हत्वा तथैव च । हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् ॥ वनस्थं च द्विजं हत्वा पार्थिवं च कृतागसम् । एतदेव व्रतं कुर्याद् द्विगुणं च विशुद्धये ॥७ क्षत्त्रियस्य च पादोनं वधेऽधं वैश्यधातने । अर्धमेव सदा कुर्यात्स्त्रीवधे पुरुषस्तथा ॥८ पादं तु शूद्रहत्यायामुदस्यागमने तथा । गोवधे च तथा कुर्यात्परदारगतस्तथा ॥६
[[१४४८]]
शङ्खस्मृतिः ।
पशून्हत्वा तथा ग्राम्यान्मासं कृत्वा विचक्षणः । आरण्यानां बधे तद्वत्तदर्धं तु विधीयते ॥ १० हत्वा द्विजं तथा सर्पजलेशय बिलेशयान् । सप्तरात्रं तथा कुर्याद् व्रतं ब्रह्मणस्तथा ॥ ११ अनस्थनां शकटं हत्वा सास्थनां दशशतं तथा । ब्रह्महत्याव्रतं कुर्यात्पूर्ण संवत्सरं नरः ॥१२ यस्य यस्य च वर्णस्य वृत्तिच्छेदं समाचरेत् । तस्य तस्य वधे प्रोक्तं प्रायश्चित्तं समाचरेत् ॥१३ अपहृत्ये तु वर्णानां भुवं प्राप्य प्रमादतः । प्रायश्चित्तं वधे प्रोक्तं ब्राह्मगानुमतं चरेत् ॥ १४ गोजाश्वस्यापहरणे मणीनां रजतस्य च । जलापहरणे चैव कुर्यात्संवत्सरत्रतम् ॥१५ तिलानां धान्यवस्त्राणां मद्यानामामिपस्य च । संवत्सराधं कुर्वीत व्रतमेतत्समाहितः ॥१६
तृणेक्षुकाष्ठतक्राणां रसानापहारकः ।
मासमेकं व्रतं कुर्याद् गन्धानां सर्पिषां तथा ॥ १७
लवणानां गुडानां च मूलानां कुसुमस्य च । मासाधं तु व्रतं कुर्यादेतदेव समाहितः ॥१८ लोहानां वैदलानां च सूत्राणां चर्मणां तथा । एकरात्रव्रतं कुर्यादेतदेव समाहितः ॥१६ भुक्त्वा पलाण्डु लशुनं मद्यं च कवकानि च । नारं मलं तथा मांसं विवराहं खरं तथा ॥२०
[ सप्तदशो-
Sध्यायः ] विवत्सादीनां क्षीरपानेशूद्रादीनामन्नभोजने - व्रतवि० १४४६
गौधेरकुञ्जराष्ट्रं च सवपञ्चनखं तथा ।
क्रव्यादं कुवकुटं ग्राम्यं कुर्यात्संवत्सरं व्रतम् ॥ २१ भक्ष्याः पञ्चनखारत्वेते गोधाकच्छपशल्लकाः । खड्गश्च शशकश्चैव तान्हत्वा च चरेद्व्रतम् ॥२२ हंसं मद्गुं बकं काकं काकोलं खञ्जरीटकम । मत्स्यादांश्च तथा मत्स्यान्वलाकं शुकसारिके ॥२३ चक्रवाकं एवं कोकं मण्डूकं भुजगं तथा । मासमेकं व्रतं कुर्यादेतच्चैव न भक्षयेत् ॥२४ राजीवान्सिंहतुण्डाश्च सशल्कांश्च तथैव च । पाठीनरोहितौ भक्ष्यो मत्स्येषु परिकीर्तितौ ॥ २५ जलेचरांश्च जलजान्मुखाग्रनखविष्किरान् । रक्तपादाञ्जालपादान्सप्ताहं व्रतमाचरेत् ॥ २६ तित्तिरं च मयूरं च लावकं च कपिञ्जलम् । वार्षीणसं वतकं च भक्ष्यानाह यमस्तथा ॥२७ भुक्त्वा चोभयतोदन्तं तथैकशफदंष्ट्रिणः ।
तथा भुक्त्वा तु मांसं वै मासाधं व्रतमाचरेत् ॥ २८ स्वयं मृतं वृथा मांसं माहिपं त्वाजमेव च ।
गोश्च क्षीरं विवत्सायाः संधिन्याश्च तथा पयः ॥ २६ संधिन्यमेध्यं भक्षित्वा पक्षं तु व्रतमाचरेत् । क्षीराणि यान्यभक्ष्याणि तद्विकाराने बुधः ॥ ३० सप्तरात्रं व्रतं कुर्याद्यदेतत्परिकीर्तितम् । लोहितान्वृक्ष निर्यासान्चनप्रभवांस्तथा ॥३१
[[१४५०]]
शङ्खस्मृतिः ।
[ सप्तदशो-
केवलानि च शुक्तानि तथा पर्युषितं च यत् । गुडयुक्तं तथा भुक्त्वा त्रिरात्रं च व्रती भवेत् ॥ ३२ दधि भैक्ष्यं च शुक्त (क्त) षु यच्चान्यदधिसंभवम् । गुडशुक्तं तु भक्ष्यं स्यात्ससर्पिष्कमिति स्थितिः ॥ ३३ यवगोधूमजाः सर्वे विकाराः पयसश्च ये । राजवाडवकुल्यं च भक्ष्यं पर्युषितं भवेत् ॥३४
सजीव पक्कमांसं च सर्वं यत्नेन वर्जयेत् । सजीवपक्कमांसं
संवत्सरं व्रतं कुर्यात्प्राश्यैताऽज्ञानतस्तु तान् ॥३५
।
शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः । चिकित्सकस्य क्षुद्रस्य तथा स्त्रीमृगजीविनः ॥ ३६ ष ( प ) ण्डस्य कुलटायाश्च तथा बन्धनचारिणः । बद्धस्य चैव चोरस्य अवीरायाः स्त्रियस्तथा ॥३७ चर्मकारस्य वेणस्य क्लीवस्य पतितस्य च । रुक्मकारस्य धूर्तस्य तथा वार्धुषिकस्य च ॥ ३८ कदर्यस्य नृशंसस्य वेश्यायाः कितवस्य च । गणान्न भूमिपालान्नमन्न’ चैव श्वजीविनाम् ॥३६ मौञ्जिकान्न सूतिकान्न’ भुक्त्वा मासं व्रतं चरेत् । शूद्रस्य सततं भुक्त्वा षण्मासान्त्रतमाचरेत् ॥४० वैश्यस्य तु तया भुक्त्वा त्रीन्मासान्त्रतमाचरेत् । क्षत्रियस्य तथा भुक्त्वा द्वौमासौ व्रतमाचरेत् ॥ ४१ ब्राह्मणस्य तथा भुक्त्वा मासमेकं व्रतं चरेत् । अपः सुराभाजनस्थाः पीत्वा पक्षं व्रतं चरेत् ॥४२Sध्यायः ] मद्यभाण्डागतशूद्रोच्छिएका कोच्छिष्टादीनां वृतवर्णनम् १४५१
मद्यभाण्डगताः पीत्वा सप्तरात्रं व्रतं चरेत् । शूद्रोच्छिष्टाशने मासं पक्षमेकं तथा विशः ॥ ४३ क्षत्त्रियस्य तु सप्ताहं ब्रह्मणस्य तथा दिनम् । अग्रश्राद्धाशने विद्वान्मासमेकं व्रती भवेत् ॥ ४४ परिवित्तिः परिवेत्ता च यया च परिविन्दति । व्रतं संवत्सरं कुर्युर्दाटयाजकपञ्चमाः ॥४५ काकोच्छिष्टं गवाऽऽघातं भुक्त्वा पक्षं व्रती भवेत् । दूषितं केशकीटेच मूषिकालाङ्गलेन च ॥४६ मक्षिकामशकेनापि त्रिरात्रं तु व्रती भवेत् । वृथा कृसरसंयावपायसापूपशष्कुलीः ॥ ४७
भुक्त्वा त्रिरात्रं कुर्वीत व्रतमेतत्समाहितः । नील्या चैव क्षतो विप्रः शुना दष्टस्तथैव च ४८ त्रिरात्रं तु वतं कुयात्पुंश्चलीदशनक्षतः । पादप्रतापनं कृत्वा वह्निं कृत्वा तथाऽप्यधः ॥४६ कुशैः प्रमृज्य पादौ च दिनमेकं व्रती भवेत् । नीलीवस्त्रं परी (रि) धाय भुक्त्वा स्नानार्हणस्तथा ॥५० त्रिरात्रं च वतं कुर्य्याच्छित्त्वा गुल्मलतास्तथा । अध्यास्य शयनं यानमासनं पादुके तथा ॥५१
पलाशस्य द्विजश्रेष्ठस्त्रिरात्रं तु व्रती भवेत् । वाग्दुष्टं भावदुष्टं च भाजने भावदृषिते ।
भुक्त्वाऽन्नं ब्राह्मणः पश्चात्त्रिरात्रं तु वती भवेत् ॥ ५२
[[१४५२]]
शङ्खस्मृतिः ।
[ सप्तदशो-
क्षत्त्रियस्तु रणे दत्त्वा पृष्टं प्राणपरायणः । संवत्सरवतं कुर्याच्छित्त्वा वृक्षं फलप्रदम् ॥५३ दिवा च मैथुनं गत्वा स्नात्वा नग्नस्तथाऽम्भसि । नग्नां परस्त्रियं दृष्टा दिनमेकं व्रती भवेत् ॥५४ क्षिप्त्वाऽग्नावशुचि द्रव्यं तदेवाम्भसि मानवः । मासमेकं व्रतं कुर्यादुपक्रुध्य तथा गुरुम् ॥५५ पीतावशेषं पानीयं पीत्वा च ब्राह्मणः कचित् । त्रिरात्रं तु वतं कुर्याद्वामहस्तेन वा पुनः ॥५३ एकपक्त्युपविषेषु विषमं यः प्रयच्छति । स च तावदसौ पक्षं कुर्यात्तु ब्राह्मणो व्रतम ॥५७ धारयित्वा तुलाचार्यं विपमं करयेद्वणिक् । सुरालवणमद्यानां दिनमेकं व्रती भवेत् ॥५८ मांसस्य विक्रयं कृत्वा कुर्याचिव महाव्रतम् । विक्रीय पणिना मद्यं तिलस्य च तथाऽऽचरेत् ॥ ५६ हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः । दिनमेकं व्रतं कुर्यात्प्रयतः सुसमाहितः ॥ ६० प्रेतस्य प्रेतकार्याणि अकृत्वा धनहारकः । वर्णानां यद्वतं प्रोक्तं तद्वतं प्रयतश्चरेत् ॥ ६१ कृत्वा पापं न गृहेत गुह्यमानं विवर्धते । कृत्वा पापं बुधः कुर्यात्पदोऽनुमतं वृतम् ॥६२ तस्करश्वापदाकीर्णे बहुव्यालमृगे वने ।
न वतं ब्राह्मणः कुर्यात्प्राणवाधाभयात्सदा ॥६३
ऽध्यायः ] अघमर्षण, पराक,
वारुणकृच्छ्र, अतिकृच्छ्र,
सान्तप- १४५३
नादिव्रतं ।
सर्वत्र जीवनं रक्षेज्जीवन्पापमपोहति ।
वतैः कृच्छश्च दानैश्च इत्याह भगवान्यमः ॥ ६४ शरीरं धर्मसर्वस्वं रक्षणीयं प्रयत्नतः । शरीरात्स्रवते धर्मः पर्वतात्सलिलं यथा ॥ ६५ आलोच्य धर्मशास्त्राणि समेत्य ब्राह्मणैः सह । प्रायश्चित्तं द्विजो दद्यात्स्वेच्छया न कथंचन ॥ ६६
इति शाङ्खो धर्मशास्त्रे सप्तदशोऽध्यायः ॥
॥ अथाष्टादशोऽध्यायः ॥
अघमर्षण, पराक, कृच्छ, अतिकुड़, सान्तापनादिवतम् ।
त्र्यहं त्रिषवणस्नायी स्नाने स्नानेऽघमर्पणम् । निमग्नस्त्रिः पठेदासु न भुञ्जीत दिनत्रयम् ॥१ वीरासनं च तिष्ठत गां दद्याच्च पयस्विनीम । अघमर्पणमित्येतदूवतं सर्वाघनाशनम् ॥२ त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्तम ॥३ त्र्यहमुष्णं पिवेत्तोयं व्यहमुष्णं घृतं पिवेत् । त्र्यहमुष्णं पयः पीत्वा वायुभक्षत्र्ययहं भवेत् ॥४ तप्तकृच्छ्रं विजानीयाच्छ्रीतैः शीतमुदाहृतम् । द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ विधिनोदक सिद्धानि मासमश्नीत यत्नतः ।
स कृत्वा सोदकान्मासं कृच्छ वारुणमुच्यते ॥ ६
[[१४५४]]
शहस्मृतिः ।
[ अष्टादशो
बिल्वैरामलकैर्वाऽपि पद्माक्षैरथवा शुभैः ।
मासेन लोकेऽतिकृच्छ्रः कथ्यते बुद्धिसत्तमैः ॥७ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ सांतपनं स्मृतम् ॥८ एतैस्तु व्यहमभ्यस्तं महासांतपनं स्मृतम् ।
पिण्याकं [ क] वामतक्राम्बुसक्तूनां [?] पूतिवासरम् ॥६ उपवासान्तराभ्यासात्तुलापुरुष उच्यते । गोपुरीषाशनो भूत्वा मासं नित्यं समाहितः ॥१० व्रतं तु यावकं कुर्यात्सर्वपापापनुत्तये ।
ग्रासं चन्द्रकलावृद्धया प्राश्नीयाद्वर्धयन्सदा ॥ ११ । हासयेच कलाहानौ वतं चान्द्रायणं चरेत् । मुण्डत्रिषवणस्नायी अधः शायी जितेन्द्रियः ॥१२ स्त्रीशूद्र पतितानां च वर्जयेत्परिभाषणम् । पवित्राणि जपेच्छक्त्या जुहुयाच्चैव शक्तितः १३ अयं विधिः स विज्ञेयः सर्वकृच्छ्रषु सर्वदा । पापात्मानस्तु पापेभ्यः कृच्छ्रः संतारिता नराः ॥ १४ गतपापादिकं यान्ति नात्र कार्या विचारणा । शङ्खपोक्तमिदं शास्त्रं योऽधीते बुद्धिमान्नरः ॥ सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ १६
इति शाङ्ख धर्मशास्त्रेऽष्टादशोऽध्यायः ॥ समप्ताचेयं शङ्खस्मृतिः ।
ॐ तत्सद्ब्रह्मार्पणमस्तु ।
ॐ तत्सब्रह्मणे नमः ।
॥ अथ ॥
-
लिखितस्मृतिः
अथेष्टापूर्तकर्म, वृपोत्सर्गफल, गयापिण्डदान,
षोड़श श्राद्धानि वर्णनम् ।
इष्टापूर्ते तु कर्तव्ये ब्राह्मणेन प्रयत्नतः । इष्टेन लभते स्वर्ग पूर्ते मोक्षमवाप्नुयात् ॥१ एकाहमपि कर्तव्यं भूमिष्ठमुदकं शुभम् । कुलानि तारयेत्सप्त यत्र गौर्वितृषी (पा) भवेत् ॥ २ भूमिदानेन ये लोका गोदानेन च कीर्तिताः । तल्लोकान्प्राप्नुयान्मर्त्यः पादपानां प्ररोपणे ॥३ वापीकूपतडागानि देवतायतनानि च । पतितान्युरेद्यस्तु स पूर्तफलमश्नुते ॥४ अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥५ इष्टापूर्ते द्विजातीनां सामान्यो धर्म उच्यते । अधिकारी भवेच्छुद्रः पूर्ते धर्मे न वैदिके ॥ ६
[[१४५६]]
लिखितस्मृतिः ।
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥७ देवतानां पितॄणां च जले दद्याजलाञ्जलीन् । असंस्कृतमृतानां च स्थले दद्याजलाञ्जलिम् ॥८ एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृपः । मुच्यते प्रेतलोकात्तु पितृलोकं स गच्छति ॥६ एव्या वहवः पुत्रा यग्रेकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृपमुत्सृजेत् ॥ १० वाराणस्यां प्रविष्टस्तु कदाचिन्निष्क्रमेद्यदि । हसन्ति तस्य भूतानि अन्योन्यं करताडनः ॥११ गयाशिरे तु यत्किचिन्नाम्ना पिण्डं तु निर्वपेत् । नरकस्था दिवं यान्ति स्वगस्था मोणमाप्नुयुः ॥१२ आत्मनो वा परस्यापि गयाकूपे यतस्ततः । यन्नाम्ना पातयेत्पिण्डं तं नयेद् ब्रह्म शाश्वतम् ॥१३ लोहितो यस्तु वर्णेन शङ्खवर्णखुरः स्मृतः । लाङ्गूलशिरसोश्चैव स वै नीलवृषः स्मृतः ॥ १४ नवश्राद्ध त्रिपक्षं च द्वादशैव तु मासिकम् । षण्मासौ (से) चाssब्दिकं चैव श्राद्धान्येतानि षोडश ॥१५
यस्यैतानि न कुर्वीत एकोद्दिष्टानि पोडश । पिशाचत्वं स्थिरं तस्य दत्तः श्राद्धशतैरपि ॥ १६ सपिण्डीकरणादृध्वं प्रतिसंवत्सरं द्विजः । मातापित्रोः पृथक्कुर्यादेकोद्दिष्टं मृतेऽहनि ॥१७
उदककुम्भदानं, अरिस्थानं, अपुत्रिणामे कोदिश्राद्धवर्णनम् । १४५७
वर्षे वर्षे तु कर्तव्यं मात्रापित्रोस्तु संततम् । अदैवं भोजयेच्छाद्धं पिण्डमेकं तु निवपेत् ॥१८ संक्रान्त परागे च सर्वोत्सव महालये । निर्वाप्यास्तु त्र्यः पिण्डा एकतस्तु क्षयेऽहनि ॥१६ एकोद्दिष्टं परित्यज्य पार्वणं कुरुते द्विजः ।
अकृतं तद्विजानीयात्स मातृ [ता ] पितृघातकः ॥२० अमावास्या [यां तु] क्षयो यस्य प्रेतपक्षेऽथ वा यदि । सपिण्डीकरणादृध्वं तस्योक्तः पार्वणो विधिः ॥ २१ त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते । अहन्येकादशे प्राप्ते पार्वणं तु विधीयते ॥२२
यस्य संवत्सरादर्वाक्सपिण्डीकरणं स्मृतम् । प्रत्यहं तत्सोदकुम्भं दद्यात्संवत्सरं द्विजः । पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः ॥ २३ पितामह्याऽपि तत्तस्मिन्सत्येवं तु क्षयेऽहनि ।
तस्यां सत्यां प्रकर्तव्यं तस्याः श्वश्त्रेति निश्चितम् ॥२४ विवाहे चैव निरृत्ते चतुथऽहनि रात्रिपु ।
एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके ॥२५ स्वगोत्राद्यश्यते नारी उद्वाहात्सप्तमे पदे । भर्तृगोत्रेण कर्तव्यं [व्या] दानं पिण्डोदकक्रियाः ॥२६ द्विमातुः पिण्डदानं तु पिण्डे पिण्डे द्विनामतः । षण्णां देयास्त्रयः पिण्डा एवं द ता न मुह्यति ॥२७
[[१४५८]]
लिखितस्मृतिः ।
अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदृष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ २८ अग्नौकरणशेषं तु विश्वेदेवादि हूयते ।
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ॥२६ यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ॥ ३० अजस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे । रजते च सुवर्णे च नित्यं वसति पावकः ॥ ३१ यत्र यत्र प्रदातव्यं श्राद्ध कुर्वीत पार्वणम् । तत्र मातामहानां च कर्तव्यमुभयं सदा ॥ ३२ अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा । एभ्य एव प्रदातव्यमेकोद्दिष्टं न पार्वणम् ॥३३ यस्मिन्दराशिगते सूर्ये विपत्तिः स्याद्विजन्मनः । तस्मिन्नहनि कर्तव्यं दानं पिण्डोदकक्रिया ॥३४ वर्षवृद्ध्याभिषेकादि कर्तव्यमधिकेन तु । अधिमासे तु पूर्वं स्याच्छ्राद्धं संवत्सरादपि ॥ ३५ स एव हेयोद्दिष्टस्य येन केन तु कर्मणा । अभिघातान्तरं कार्यं तत्रैवाहः कृतं भवेत् ॥ ३६ शालाग्नौ पच्यते ह्यन्नं लौकिके वाथ संशयः । यस्मिन्नेव पचेदन्नं तस्मिन्होमो विधीयते ॥३७ वैदिके लौकिके वाऽपि नित्यं हुत्वा ह्यतन्द्रितः । वैदिके स्वर्गमाप्नोति लौकिके हन्ति किल्विषम् ॥ ३८
[[1]]
दर्भकृष्णाजिनादीनांनिर्माल्यताभावं श्राद्ध मृन्मयपात्रे १४५६
अन्नदानेनिषेधः ।
अग्नौव्याहृतिभिः पूर्व हुत्वा मन्त्रैस्तु शाकलैः । संविभागं तु भूतेभ्यस्ततोऽश्नीयादनग्निमान् ॥३६ उच्छेषणं तु नोत्तिष्ठेद्ययावद्विप्रविसर्जनम् । ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥४० दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणाश्च विशेषतः । नैते निर्माल्यतां यान्ति नियोक्तव्याः पुनः पुनः ॥४१ पानमाचमनं कुर्यात्कुशपाणिः सदा द्विजः
भुत्तवाऽप्यु (नो)च्छिष्टतां याति एष एव विधिः स्मृतः ॥४२ पान आचमने चैव तर्पणे दैविके सदा ।
कुशहस्तो न दुष्येत यथा पाणिस्तथा कुशः ॥ ४३ वामपाणौ कुशं कृत्वा दक्षिणेन उपस्पृशेत् ।
आच [चा ) मन्ति च ये मूढा रुधिरेणाऽऽचमन्ति ते ॥४४
नीवीमध्येषु ये दर्भा ब्रह्मसूत्रेषु ये कृताः । पवित्रांस्तान्विजानीयाद्यथा कायस्तथा कुशाः ॥४५ पिण्डे कृतास्तु ये दर्भा यैः कृतं पितृतर्पणम् । मूत्रोच्छिष्टपुरीषं च तेषां त्यागो विधीयते ॥ ४६ देवपूर्वं तु यच्छ्राद्धमदेवं चापि यद्भवेत् । ब्रह्मवारी भवेत्तत्र कुर्याच्छ्राद्धं तु पैदकम् ॥४७ मातुः श्राद्ध
ं तु पूर्वं स्यात्पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् । ४८ क्रतुर्दक्षो वसुः सत्यः कालकामौ धुरिलोचनौ । पुरूरवार्द्रवाश्चैव विश्वेदेवाः प्रकीर्तिताः ॥४६
[[६२]]
[[१४६०]]
लिखितस्मृतिः ।
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः । ये यत्र विहिताः श्राद्ध सावधाना भवन्तु ते ॥५० इप्रिश्राद्ध क्रतुर्दक्षो वसुः सभ्यश्च वैदिके । कालः कामो ग्निकार्येषु काम्येषु धुरिलोचनौ ॥५१ पुरूरवाद्रवश्चैव पार्वणेषु नियोजयेत् ॥५२ .यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता । नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥५३ अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥ ५४ मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः । द्वितोयं तु पितुरतस्यास्तृतीयं तु पितुः पितुः ॥५५ मृण्मयेषु च पात्रे पु श्राद्ध े यो भोजयेत्पितॄन् । अन्नदाता पुरोधाच भोक्ता च नरकं व्रजेत् ॥५६
अलाभे मृण्मयं दद्यादनुज्ञातस्तु तैर्द्विजैः ।
[[1]]
घृतेन प्रोक्षणं कुर्यान्मृदुः पात्रं पवित्रकम् ॥५७
श्राद्धं कृत्वा परश्राद्ध यस्तु भुञ्जीत विह्वलः । पतन्ति पितरस्तस्य लुप्तपिण्डोदकक्रियाः ॥ ५८ श्राद्धं दत्त्वा च भुक्त्वा च अध्वानं योऽधिगच्छति । भवन्ति पितरस्तस्य तन्मासं पांसुभोजनाः ॥५६ पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।
दानं प्रतिग्रहं होमं श्राद्धभुक्त्वष्ट वर्जयेत् ॥६०श्राद्ध - परश्राद्धभोक्तृ, श्राद्धकर्तृ, श्राद्धभोक्त, नवश्राद्ध
भुञ्जानस्य वर्णनम् ।
अध्वगामी भवेदश्वः पुनर्भोक्ता च वायसः । कर्मकृज्जायते दासः स्त्रीसङ्गेन च सूकरः ॥ ६१
दशकृत्वः पिवेदा (चा) पः सावित्र्या चाभिन्त्रिताः । ततः संध्यामुपासीत शुध्येत तदनन्तरम् ॥६२. आर्द्रवासास्तु यत्कुर्याद्वहिर्जानु च यत्कृतम् । तत्सर्वं निष्फलं कुर्याज्जपहोमप्रतिहम् ॥६३ चान्द्रायणं नवश्राद्ध पराको मासिके तथा । पक्षत्रये तु कृच्छं स्यात्पण्मासे कृच्छ्रमेव च ॥ ६४ ऊनादिके त्रिरात्रं स्यादेकाहः पुनराब्दिके । शावे मासस्तु भुक्त्वा वा पादकृच्छ्रो विधीयते ॥६- सर्पविप्रहृतानां च शृङ्गिदंष्ट्रिसरीसृपैः । आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत ॥६६ गोभिर्हतं तथोद्वद्ध ब्राह्मगेन तु घातितम् ।
तं स्पर्शयन्ति ये विप्रा गोजाश्वाश्च भवन्ति ते ॥ ६७ अग्निदाता तथा चान्ये पाशच्छंदकराश्च ये । तप्तकृच्छ्र ेण शुध्यन्ति मनुराह प्रजापतिः ॥ ६८ त्र्यहमुष्णं पिबेदा [चा ] पत्त्रयहमुष्णं पयः पिबेत् । त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो दिनत्रयम् ॥६६ गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य च । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥ ७० उद्यताः सह धावन्ते सर्वे ये शस्त्रपाणयः । यद्यकोऽपि हनेत्तत्र सर्वे ते ब्रह्मघातकाः ॥ ७१
[[१४६१]]
[[१४६२]]
लिखिनस्मृतिः ।
बहूनां शस्त्रघातानां यद्येको मर्मघातकः ।
सर्वे ते शुद्धिमि [ मृच्छन्ति स एको ब्रह्मघातकः ॥ ७२ पतितान्नं यदा भुङ्क्ते भुङ्क्ते चाण्डालवेश्मनि । समासार्द्ध चरेद्वारि मासं कामकृतंन तु ॥ ७३ यो येन पतितेनैव संसर्गं याति मानवः । स तस्यैव वतं कुर्यात्त तत्स (संस ) विशुद्धये ॥७४ ब्रह्महा (ह) पातकिस्पर्शे स्नानं येन विधीयते । तेनैवोचिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥ ७५ ब्रह्महा च सुरापायी तथंव गुरुतल्पगः । महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः ॥७६ स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा । कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति ॥ ७७ उच्छिष्टच्छिष्टसंस्पृष्टो ब्राह्मणस्तु कदाचन । तत्क्षणात्कुरुतं स्नानमाचमेन शुचिर्भवेत् ॥७८ कुब्जवामनष (पं) ण्डेषु गद्गदेषु जडेषु च । जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥७६ क्लीबे देशान्तरस्थे पतिते प्रत्रजितेऽपि वा । योगशास्त्राभियुक्तं च न दोषः परिवेदने ॥८० पूरणे कूपवापीनां वृक्षच्छेदनपातने । विक्रीणीते अपि ह्यश्वं गोवधं तस्य निर्दिशेत् ॥८१ पादेऽङ्गरोमवपनं द्विपादे श्मश्रु केवलम् ।
तृतीये तु शिखावजं शिखाछेदश्चतुर्थके ॥८२
कुव्जवामनादिषुपरिवेदनं, गोवधसमं, चण्डालघटोदकपानव० १४६३
चण्डालोदकसंस्पर्शे स्नानं येन विधीयते ।
ते.. वोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥८३ चण्डालघटभाण्डस्थं यत्तोयं पिबते द्विजः । तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥८४ यदि न क्षिपते तोयं शरीरे तस्य जीयेति । प्राजापत्यं न दातव्यं कृच्छ सांतपनं चरेत् ॥८५ चरेत्सतिपनं विप्रः प्राजापत्यं तु क्षत्त्रियः । तदधं तु चरेद्वैश्यः पादं शूद्रे तु दापयेत् ॥८६ रजस्वला यदा स्पृष्टा श्वान सू करवायसैः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ ८७ आजानुतः स्नानमात्रमानाभेस्तु विशेषतः । अत ऊर्ध्वं त्रिरात्रं स्यान्मदिरास्पर्शने मतम् ॥८८ बालश्चैव दशाहे तु पञ्चत्वं यदि गच्छति । सद्य एव विशुध्येत नाशौचं नोदकक्रिया ॥८६ शावसूतक उत्पन्ने सूतकं तु यदा भवेत् । शावेन शुध्यते सूतिर्न सूतिः शावशोधिनी ॥१० षष्ठेन शुध्येत काहं पञ्चमे त्व (य) हमेव तु । चतुर्थे सप्तरात्रं स्यात्त्रिपुरुषं दशमेऽहनि ॥ ६१ मरणारब्धमाशौचं संयोगो यस्य नामिभिः । आदाहात्तस्य विज्ञेयं यस्य वैतानिक विधिः ॥ ६२ आममासं घृतं क्षौद्रं स्नेहाश्च फलसंभवाः ।
अन्त्यभाण्डस्थिता ह्येते निष्क्रान्ताः शुचयः स्मृताः ॥६३
[[१४६४]]
शङ्खलिखितस्मृतिः ।
मार्जनीरजमेष (पा) ण्डं स्नानवस्त्रघटोदकम् । नवाम्भसि तथा चैव हन्ति पुण्यं दिवाकृतम् ॥६४ दिवा कपित्थच्छायायां रात्रौ दधिशमीषु च । धात्रीफलेषु सवत्र अलक्ष्मीसते सदा ॥६५ यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः । तत्र तत्र तिलैर्होमो गायत्र्यष्टशपं जपेत् ॥६६
इति लिखितर्षिप्रोक्तं धर्मशास्त्रं समाप्तम् । समाप्तेयं लिखितस्मृतिः ।
ॐ तत्सद्ब्रह्मणे नमः ।
॥ अथ ॥