…
श्रीगणेशाय नमः ।
-::::-
अथ वश्वदेवमकृत्वैव भुञ्जानस्य काकयोनिवर्णनम् ।
वासुदेवं नमस्कृत्य शङ्खस्य लिखितस्य च ।
धर्मशास्त्रं प्रवक्ष्यामि दध्नि चैव घृतं यथा ॥ १
[[1]]
[[1]]
वश्वदेवमकृत्वैवभुञ्जानस्यकाकयोनिवर्णनम् ।
वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः । सर्वे ते वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः ॥२ अकृते वैश्वदेवे तु ये भुञ्जन्ति द्विजातयः । वृथा ते तेन पाकेन काकयोनिं व्रजन्ति वै ॥ ३ अन्नं व्याहृतिभिहुत्वा तथा मन्त्रैस्तु शाकलैः । अन्नं विभज्य भूतेभ्यस्ततो ऽश्नीयाद नग्निमान् ॥४ यो दद्यादव लिकटेशः सांनाय्यं वा निवर्तते । दृष्टो वाऽदृष्टपूर्वा वा स यज्ञः सार्वकामिकः ॥५ इष्टो वा यदि वा मूर्खो द्वेष्यः पण्डित एव वा । प्राप्तस्तु वैदेवान्ते सोऽतिथिः स्वर्गसंक्रमः ॥६. दातारः किं विचारेण गुणवान्निर्गुणी भवेत् । समं वर्षति पर्जन्यः सस्यादपि तृणादपि ॥ ७ यान्प्रासान्क्षुधितो भुङ्क्ते ते ग्रासाः क्रतुभिः समाः । ग्रासे तु हयमेधस्य फलं प्राप्नोति मानवः ॥८ अद्भिश्वाऽसनवाक्यैश्च फलैः पुत्रैर्मनोरमै ।
तृणैरञ्जलिभिश्चैव देवांस्तृप्येत्पुनः पितृन् ॥ पितॄनभ्यर्चयेद्यस्तु तस्य नास्ति सुपंयमः । इदं तु परमं गुह्यं व्याख्यातमनुपूत्रशः ॥ १० स्वल्पग्रन्थप्रभूतार्थ शङ्खन लिखितेन च । यथा हि मृण्मयं पात्रं दुष्टं दोषशतैरपि ॥ ११ पुनर्दाहेन शु येत धर्मशास्त्रस्तथा द्विजाः । धर्मशास्त्रप्रदीपोऽयं धार्यः पथानुदेशिकः ॥ १२
[[१४६५]]
[[१४६६]]
शङ्खलिखित स्मृतिः ।
निष्यन्दं सर्वशास्त्राणां व्याधीनामिव भेषजम् ॥१३ परपाकनिवृत्तस्य परपाकरतस्य च ।
अपचस्य तु भुक्त्वाऽन्नं द्विजश्चान्द्रायणं चरेत् ॥१४ परान्नन तु भुक्तेन मैथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्तते ॥१५ अन्नात्तेजो मनः प्राणाश्चक्षुः श्रोत्रं यशो बलम् । वृतिं श्रुतिं तथा शुक्रं परान्नं वर्जयेद् बुधः ॥ १६ परान्नं परवस्त्रं च परयानं परस्त्रियः । परवेश्मनि वासश्च शक्रस्यापि श्रियं हरेत् ॥ १७ आहिताग्निस्तु यो विप्रो मत्स्यमांसानि भोजयेत् । कालरूपी कृष्णसर्पो जायते ब्रह्मराक्षसः ॥ १८ आहिताग्निस्तु यो विप्रः शूद्रान्नानि च भुञ्जते । पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽनयः ॥ १६ एतदर्थं विशेषेण ब्राह्मणान्पालयेन्नृपः ॥२० प्रत्यूषे च प्रदोषे च यदधीये (यी) त ब्राह्मणः । तेन राष्ट्रं च राज्यं च वर्धते ब्रह्मतेजसा ॥२१ अयं वृक्षस्य राजानो मूलं वृक्षस्य ब्राह्मणाः । तस्मान्मूलं न हिसीयान्मूलादमं प्ररोहति ॥२२ फलं वृक्षस्य राजानः पुष्पं वृक्षस्य ब्राह्मणाः । तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलम् ॥२३ गावो भूमिः कलत्रं च ब्रह्मस्वहरणं तथा । यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातकम् ॥२४
अतिथिपूजनं, परान्नमोजनं, राजप्रशंसा, ब्राह्मणप्रशंसनवर्णनम् १४६७
दुर्बलानामनाथानां बालवृद्धतपस्विनाम् ।
अन्यायैः परिभूतानां सर्वषां पार्थिवो गतिः ॥ २५ राजा पिता च माता राजा च परमो गुरुः । राजा च सर्वभूतानां परित्राता गुरुर्मतः ॥२६ दावाग्निदवदग्धानां राजा पूर्णमिवाम्भसा ॥२७ पक्षिणां बलमाकाशं मत्स्यानामुदकं बलम् । दुर्बलस्य बलं राजा बालस्य रुदितं बलम् ॥२८ बलं मूर्खस्य मौनत्वं तस्करस्यानृतं बलम् । एते राजबलाः सर्वे यज्ञेन परिरक्षिताः ॥ २६ दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिना । राजा दहति दण्डेन विप्रो दहति मन्युना ॥३८ मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः । चक्रात्तीक्ष्णसरो मन्युस्तस्माद्विप्रान्न कोपयेत् ॥३१
अग्निदग्धं प्ररोहेत सूर्य दग्धं तथैव च ।
दण्ड्यस्तु संप्ररोहेत ब्रह्मशापहतो हतः ॥३२
इति शङ्खलिखितस्मृतिधर्मशास्त्रं समाप्तम् ।
ॐ तत्सत् ।
ॐ तत्सद्द्ब्रह्मणे नमः ।
अथ