प्रजापतिस्मृतिः

श्रीगणेशाय नमः ।

अथ ब्रह्माणं प्रति रुचेः प्रश्नः, श्राद्धकालाभिधानश्च

पितुर्वाक्यार्थकारी च रुचिः प्रम्लोचया सह । नमस्योवाच देवेशं ब्रह्माणं जगतः पतिम् ॥ १

ब्रह्मन्विधे विरिष्वेति धातः शंभो प्रजापते । त्वत्प्रसादादिमं धर्मं जग्राह पितृवाक्यतः ॥२ अनया सह तीर्थेषु मया श्राद्धान्यनेकशः । कृतानि पितृतुष्ट्यर्थं धनार्थं पुत्रकाम्यया ॥३

मृतयश्च पुराणानि त्वया दृष्टान्यनेकशः । दृष्टस्त्वनेकधा धातः श्राद्धकल्पः सविस्तरः ॥४

श्राद्धप्रकरणवर्णनम् ।

[[१६६५]]

तथाऽप्यसंशयापन्नं क्रियमाणविधिं वद । येन विज्ञानमात्रेण न मुह्येऽहं कदाचन ॥५ चतुर्णामपि वेदानां शाखाः सन्ति सहस्रशः । अज्ञानादल्पशास्त्रार्था मोहयन्ति पदे पदे ॥६ करिमन्काले च कर्तव्यं कर्ता श्राद्धस्य कीदृशः । द्रव्यं देशः पाककर्ता कदा विप्रानिमन्त्रयेत् ॥७ ब्राह्मणाः कीदृशास्तत्र नियमास्तत्र कीदृशाः । श्राद्धोपहारपात्राणि भक्ष्यं तत्कालदेवता ॥८

ततः श्राद्धेषु के मन्त्राः पदार्थादिक्रमः कथम् । आसनावाहनान्यर्धोऽग्नौ होमः पात्रा (त्र) लम्भनम् ॥६ विप्रभोज्यं पिण्डदानं क्षमापनविधिक्रमम् । “श्वदेवं भृत्यभोज्यं वद सायंतनं विधिम् ॥१०

ब्रह्मोवाच-

पितरस्तव तुष्टा वै रुचे शृणु महामते ।

मालिन्यां रौच्यनामा वै त्वत्तः पुत्रो भविष्यति ॥ ११

नदीं तर्तमनाः पारं पराचारस्य वि (वे ) त्ति कम (कः ) । त(क)ल्पशास्त्र(स्त्राणि)स्मृतयः श्राद्धकल्पा बुधैर्द्विजाः कृताः) ॥

ममापि संशयस्तत्र श्राद्धकल्पाम्बुधौ रुचे ।

तथाऽपि शास्त्राण्यालोच्य वक्ष्ये निःसंशयं वचः ॥१३ शास्त्रनिष्ठैः शुक्रवाक्यैर्मुह्यन्ति द्विजसत्तमाः ।

भवन्ति बलिनस्तस्माद्राक्षसा बलहारिणः ॥१४

[[१६६६]]

प्रजापतिस्मृतिः ।

निरस्य शुक्रवाक्यानि (णि) सिद्धान्तस्मृति निश्चयम् । श्राद्धकल्पस्य वक्ष्येऽहं भक्त्या तुष्टो रुचे तव ॥१५ त्वया पृष्टं कदा श्राद्धं रुचे प्रम्लोचया सह । शृणु संक्षेपतो वच्मि कालकर्ता ह्यनुक्रमात् ॥१६ वृद्धौ क्षयेऽह्नि ग्रहणे युगादौ महालये श्राद्धममासु तीर्थे ।

सूर्यक्रमे पर्वसु वैधृतौ च रुचौ व्यतीपातगतेऽष्टकासु ॥ १७ द्रव्यस्य संपत्सु मुन्यं (नी) न्द्रसङ्गे काम्येषु मन्वादिषु सद्व्रते स्यात् । छायासु मातंगभवासु नित्यं श्राद्धस्य कालः स च सर्वदोक्तः ॥ १८ वृद्धौ प्राप्ते च यः कुर्याच्छ्राद्धं नान्दीमुखं पुमान् । तस्याऽऽरोग्यं यशः सौख्यं विवर्धन्ते धनप्रजाः ॥ १६ श्राद्धं कृतं येन महालयेऽस्मिन्पित्रोः क्षयाहे ग्रहणे गयायाम् । किमश्वमेधैः पुरुषैरनेकैः पुण्यैरिमैरन्यतमैः कृतैः किम् ॥२०

दर्शश्राद्ध’ च यः कुर्याद् ब्राह्मणैर्ब्रह्मवादिभिः । पितरस्तेन तुष्टा वै प्रयच्छन्ति यथेप्सितम् ॥२१ माघे पञ्चदशी कृष्णा नभस्ये च त्रयोदशी । तृतीया माधवे शुक्ला नवम्यूर्जे युगादयः ॥२२

भाद्रे कलिर्द्वापरे चैव माघे त्रेतातृतीया नवमी कृते च ।

युगादयः पुण्यतमा इमाश्च दत्तं पितॄणां किल चाक्षयं स्यात् २३

यावदायाति तत्पर्व वर्धते द्विगुणक्रमम् ।

दिने दिनेऽखिलं दानं दत्तं वैधृतपर्वणि ॥ २४ संक्रान्तौ च व्यतीपाते मन्वादिषु युगादिषु । श्रद्धया स्वल्पमात्रं च दत्तं कोटिगुणं भवेत् ॥ २५

श्राद्धप्रकरणवर्णनम् ।

पूर्वजान्मनुजान्देवान्सत्ति द्रव्ये न वै यजेत् ।

[[१६६७]]

मन्दाग्नि रामयावी च दरिद्रश्च प्रजायते ॥२६ छायासु सोमोद्भवजासु पुण्यं देवार्चनं गोतिलभूप्रदानम् । करोति यो वै पितृपिण्डदानं दूरे न तस्यास्ति विभोर्विमानम् ॥२७ चन्द्रग्रहे लक्षगुणं प्रदत्तं विवधते कोटिगुणं रविग्रहे । गजाश्वभूरुक्मतिलाज्ययोषिद्दानस्य संख्या न मयाऽत्र गण्यते ॥ २८

पितॄणां नरकस्थानां जलं तीर्थस्य दुर्लभम् ।

तेन संतर्पिताः सर्वे स्वर्गं यान्तीति मद्वचः ॥२६ अष्टकासु च सर्वासु तथा चान्वष्टकासु च । पिण्डदानं प्रकर्तव्यमक्षय्यतृप्तिकारकम् ॥३० अष्टकासु च सर्वासु साग्निकनंवदेवतम् । पित्राद्यं मातृमध्यं च कर्तव्यं न निरग्निकैः ॥ ३१ महायज्ञरतः शान्तो लौकिकाग्नि च रक्षयेत् । धर्मशास्त्रोक्तमार्गी या स साग्निकसमो मतः ॥ ३२ इष्टे गृहसमायाते पूज्ये यज्वनि मन्त्रदे । वेदज्ञैः सर्वशास्त्रज्ञैरृ ष्यन्त्यखिलपूर्वजाः ॥३३ व्रतस्थो व्रत सिद्धयर्थं श्राद्धं कुर्यादपिण्डकम् । विना श्राद्ध ेन यत्कर्म तत्सर्वं निष्फलं भवेत् ॥३४ सपिण्डदानं सौभाग्यं काम्यश्राद्ध त्रिपौरुषम् । कार्यं भार्यासु तेनॅतत्सर्वकामफलप्रदम् ॥३५ नित्यश्राद्ध सदा कार्यं पितॄणां तृप्तिहेतुकम् । स विष्णुरिति विज्ञेयो नित्यं प्रीणाति पूर्वजान् ॥ ३६

[[१०५]]

[[१६६८]]

प्रजापतिस्मृतिः ।

!!

श्राद्धान्यनेकशः सन्ति पुराणोक्तानि वै रुचे ! । फलप्रदानि सर्वाणि तेषामग्यो महालयः ॥ ३७ सत्यवाक् शुद्धचेता यः सत्यव्रतपरायणः । नित्यं धर्मरतः शान्तः स भिन्नालापवर्जितः ॥ ३८ अद्रोहोऽस्तेयकर्मा च सर्वप्राणिहिते रतः । स्वस्त्रीरतः सविनया (यो ) नयचक्षुर कर्कशः ॥ ३६ पितृमातृवचः कर्ता गुरुवृद्धपराष्ट्रि (ति) कः । श्रद्धालुर्वेदशास्त्रज्ञः क्रियावान्भैक्ष्य (क्ष) जीवकः ॥४० स तु श्राद्धं यदा कुर्यात्पत्रपाकेन सद्विजैः । तदा श्राद्धसहस्त्रैयेत्प्रीतिस्तज्जायते भृशम् ॥४१ तिर्यङ्मनुष्ययोनौ हि को भेदः क्षुत्तृषा समाः । सत्यवाङ्मानुषो धर्मः सुखं दुखं समं स्मृतम् ॥४२ भैक्ष्यं (क्षं) द्रव्यं हि विप्राणां क्षत्रियाणां प्रजार्पितम् । वैश्यानां कृषिवाणिज्यं शूद्राणां सेवयाऽऽगतम् ॥४३ धनं पवित्रं विप्राणामस्ति तीथसमर्पितम् । तर्पयेत्तेन वै देवान्मृतान्पितृगणातिथीन् ॥४४ स्वस्ति वाच्य द्विजैर्नीतं धनं दुष्टप्रतिग्रहम् । अग्नितीर्थेषु पतितं सद्यो याति पवित्रताम् ॥४५

अयाचितं धनं पूतं शुक्लवृत्त्या समागतम् । विवाहलब्धं वेजिनं (विजितं ) पैत्रं (पित्र्यं ) शिष्य निवेदितम् ॥४६

ब्राह्मणः क्षत्त्रियविशां जीव्यवृत्ति समाश्रयेत् ।

स्ववृत्ते रुपहानित्वान्न श्ववृत्त्या (ति) कदाचन ॥४७

श्राद्धपाकास्त्रीणामभिधानम् ।

वर्णानां तु त्रिधा वृत्तिरुत्तमा मध्यमाऽधमा । ह्रास पुण्यफलांशस्य क्रमात्तद्धनदानलः (तः ) ॥४८ धनं चिकित्सासंबन्धि ग्रामयाच (ज) कगायिनी (नाम्) । कथं त्व (या) च समानीतमग्राह्यं पितृकर्मणि ॥४६ चित्रकृन्नटवेश्यानां धारकार (रे) क्षमदिनाम् । स्वस्त्या अपि न तद्ग्राह्यं धनं कथककूटयोः ॥५० मूल्येश्चिकित्सां कुरुते कथां चित्रां तनोति यः । गीतं गायति भृत्यथं विप्रः सन्प्लवगो मतः ॥ ५१ युगधर्मेण वर्णानां धनं ग्राह्यं द्विजातिभिः । प्रकृतिना परिस्वस्त्या न्यायागतमथो यदि ॥५२ सरित्समुद्रतोयैक्ये वापीकूप सरित्तटे । देवजुष्टे च संप्राप्ते देशे श्राद्ध गृहान्तरे ॥ ५३ धात्रीबिल्ववटाश्वत्थमुनिचंत्य गजावि (न्विना । श्राद्ध’ छायासु कर्तव्यं प्रासादाद्रौ महावने ॥५४ न गहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहे तिष्ठति सा यावत्तावत्तीर्थसमं गृहम् ॥५५ पत्नी पार्क यदा कुर्यात्पुत्रः पुष्पकुशान्हरेत् । किं गयायां यदि श्राद्धं स्वकाले स्वगृहे भवेत् ॥५६ स्वगोत्रा सुभगा नारी भ्रातृभर्तृसुतान्विता । गुरुशुश्रूषणोपेतापित्रन्नं कर्तुमर्हति ॥५७ आचार्यानी मातुलानी पितृमातृस्वसा स्वसा । एता विधवा कुर्युः पितृपाकं सुता स्नुषा ॥५८

[[१६६६]]

[[१६७०]]

प्रजापतिस्मृतिः ।

बहुप्रजास्तु या नार्यो भ्रातृवत्यः कुलोद्भवाः । पश्चाशत्परितोऽब्दानां यदि वा विधवा अपि ॥ ५६ पितृव्यभ्रातृजायाश्च मातरः पितृमातरः ।

कुर्युः

सदा पित्र (त्र्यं) मृदु (दु) शीला च गोत्रिणी ॥६० सितार्द्रवाससा युक्ता मुक्तकेशा विकचुकी । शिरोस्नाता व्याधिता स्त्री पाकं कुन्नि पैतृकम् ॥ ६१ भ्राता पितृव्यो भ्रातृव्यः स्वसृपुत्रः स्वयं पचेत् । पित्रानं (ताऽन्नं) च सुतः शिष्यो दौहित्रो दुहितुः पतिः ॥६२ अक्रोधनैः शौचपरैरिति गाथामुदीरयन् । सायमामन्त्रयेद्विप्राच्छाद्ध देवे च कर्मणि ॥ ६३ निमन्त्रणं स्वयं दद्याद्भाव (त) शिष्यः सुता अपि । न स्त्रीबालै स्वगोत्र. न्यन ख्याप्यं न च दूरतः ॥ ६४ देवे वृद्धौ तोर्थकाम्यनदोत्पन्न. (न) समागते । न दुष्यति मनः स्थैर्यात्प्रातः सद्योनिमत्रणम् ॥६५ प्रसाद्यतामितोत्युक्त्वा द्वित्रिर्देयं निमन्त्रणम् । यत्स्वीकृतं स्त्रिया सम्यक्सत्यं वितथमन्यथा ( ) ॥६६ यतोनामगृहस्थानां प्राघूर्णब्रह्मचारिणाम् ।

सर्वदानं मन्त्रणं बन्धुभृत्यबालसुहृस्त्रिया ( ) ॥६७ अदैवान्तरतः श्रद्धदम्पत्यङ्गी वृथा भवेत् (!) निमन्त्रणं भवेद्यस्य लोभात्काकत्वमाप्नुयात् ॥ ६८ निमन्त्रणेऽप्रयातत्र्यं तं नियुक्तो लघुर्व्रजेत् (!) ।

सर्वेदानलघोज्यष्ठौ वथापाकी तु वा यतः (!) ॥६६ब्राह्मण निमन्त्रणम् श्राद्धार्ह ब्राह्मणानां निरूपणम् । १६७१

(ह्म)

ब्रह्मकमरताः शान्ता अपापा अग्निसंश्रिताः । कर्मनिष्ठास्तपोनिष्ठा वेदार्थज्ञाः कुलोद्भवाः ॥ ७० मातृपितृपराश्चैव ब्राहृम्यै (झ) वृत्त्युपजीविनः । अध्यापको ब्रह्मविदो ब्राह्मणाः श्राद्धसंपदि ॥ ७१ स्वकीयशाखिनो मुख्याः श्राद्धे वेदविदां वर ! । पङ्क्तिपावनाः सर्वेषामेको वै सामविद्भवेत् ॥७२ गुरुश्वशुरजामातृदौहित्रभगिनीसुताः ।

आसनार्हाः पितृश्राद्ध योग्याः पूज्याश्च मातुलाः ॥७३ भार्या रजस्वला यस्य हृता त्यक्त्वा दिवं गता । अश्राद्धार्हाः सर्वध्यास्य मृतनुकं गर्भदूषिता ( ! ) ॥७४ योऽभार्यः सन्बलं चेतः संयम्याविधरो भवेत् । क्रियापरः श्रुतेर्वेत्ता श्राद्धे वै भोजयेत्पितुः ॥७५ श्रुतिज्ञं कुलजं शान्तं प्रजावन्तं जितेन्द्रियम् । मृतभार्यमपि श्राद्ध भोजयेदविशङ्कितः ॥ ७६ अप्रजो मृतपत्नीकः सवकर्मसु गर्हितः ।

छन्दो विनाऽपि न स्थेयं दिनमेकं विनाऽऽश्रमम् ॥७७ यस्य पुत्राः सदाचाराः श्रुतिज्ञा धर्मसंमुखाः । पितृभक्तिरता दान्ता न वैधव्यं (धुर्य) मृतस्त्रियि ॥७८ तुरीये धाम्नि यस्तिष्ठेत्संधौ मध्यनिशि क्षणम् । अनार्योऽप्यनपत्योऽपि श्राद्ध पुण्यैरवाप्यते ॥७६ षोडशाब्दात्परं श्राद्ध विप्राणां सप्तसप्तकैः । भोजयेत्पितृकार्यार्थे ततोऽन्यान्देवकर्मणि ।

[[१६७२]]

प्रजापतिस्मृतिः ।

न पुत्रपुत्री तदपत्यभार्या न बन्धुरङ्गीकृतचित्तधारणम् ।

संप्राप्य धत्र्य (धुर्य) मनङ्गसंभवो यस्तिष्ठति व्यक्ततया स वर्ज्यः ॥८९

रोगी हीनातिरक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥८२ भृतकाध्यापकः कुष्ठी कन्यादूष्यभिशस्तकः । क्लीबान्धमूकबधिराः कुजशी (नख ) वृषलीपतिः ॥ ८३

परपूर्वापति स्तेनः कदुष्टश्च निन्दितः ।

भोक्तारः षोडशे यस्य (ये च) ते वर्ज्या द्रव्यलोभतः ॥८४ वृषोत्सर्गस्य कर्तारो वजनीयाः सदैव हि । पितुर्गृहेषु या कन्या रजः पश्यत्य संस्कृता ॥८५ सा कन्या वर्षाली ज्ञेया तत्पतिर्वा षलीपतिः । महिषीत्युच्यते भार्या सा चैव व्यभिचारिणी ॥८६

तान्दोषान्क्षमते यस्तु स वै माहिपकः स्मृतः । अज्ञानादथ वा लोभान्मोहाद्वाऽपि विशेषतः ॥८७ समघ योऽन्नमादाय महार्घं तु प्रयच्छति । स वै वार्धुषिको नाम अनर्ह सर्वकर्मसु ॥८८ वृषोत्सर्गस्य कर्तारं यदि पश्यन्ति पूर्वजाः । रौरवं नरकं यान्ति कुम्भीपाकं सुदारुणम् ॥८६

कालालकं वार्धुषिकं मध्ये च वृपलीपतिम् ।

श्राद्धं माहिषकं दृष्ट्रा निराशा यान्ति पूर्वजाः ॥६०

यो लोभादसवर्णानामाद्यश्राद्धान्यनुक्रमात् ।

स षोडशकं ( शं) वृषोत्सगं कुर्यात्कालालकः स्मृतः ॥ ६१

श्राद्धकृन्नियमनिरूपणम् ।

[[१६७३]]

अथ श्राद्ध नियमानाह-

दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । दानं प्रतिग्रहो होमः श्राद्धभुगष्ट वर्जयेत् ॥ ६२ श्राद्ध

े निमन्त्रितो विप्रो वर्जयेत्स्त्रीनिषेवणम् । पूर्वेद्युश्च परेद्युश्च वर्जयेद्भोजनद्वयम् ॥६३ नीचसंभाषणं याज्यं दिवानिद्रां प्रतिग्रहम । क्षौममुष्णोदकैः स्नानं वर्जयेच्छाद्धकृद् धवम् ॥६४

न च सीमान्तरं गच्छेन्न श्मशानं जिनालयम् । श्राद्धकृत्सर्वदा पश्येन्नोदक्याः (क्यां) श्वपचं शवम् ॥६५ श्रीखण्डं दर्भसूत्रं यवतिलतुलसीशतपवित्रा (शातपत्रं च ) कर्ता धूपं (पो) दीपोदपात्रं कुसुम्भ (म) फलजत्यं (लं) पत्रभूम्भोम (म्यास) नानि । श्रीशः शाल्वे च पागे द्विजमधुसकृदाच्छिन्न हे माघेपात्राण्यन्नंश्राद्धोपहारः सुतगृहगृहणीशुभवासांसि कालः ॥६६

श्रीखण्डमर्चयेच्छ्रं ष्ठं सकर्पूरं सकेसरम् । पूर्वजानां तु देवानां नान्यन्मलयजादिकम्॥६७ मन्त्रपूता हरिद्वर्णाः प्रातर्विप्रसमुद्धृताः । गोकर्णमात्रा दर्भाः स्युः पवित्रा पुण्यभूमिजाः ॥६८ शुकुः कृष्णः कृष्णतरश्चतुर्थी जर्तिलस्तिलः । उत्तरोत्तरतः श्राद्ध पितृणां तृप्तिकारकाः ॥६ तुलस्यः सर्वदेवानां समञ्जर्यः शुभावहाः ।

पूर्वजानां यथा प्राप्ता सैकोद्दिष्टे विमञ्जरी ॥१००

[[१६७४]]

प्रजापतिस्मृतिः ।

अगस्त्यं भृङ्गिराजं च तुलसी शतपत्रिका । तिलं च तिलपुष्पं च षडेते पितृवल्लभाः ॥१०१ त्रिगुणं सूत्रमादाद्यात्प्रतिपिण्डं नवोद्गतम् । सामगानां तु संलग्नं सर्वेषामेकतन्तुना ॥१०२ धूपं (पो) गुग्गुलुना कार्य (र्यो) दीपस्तैलघृतेन तु । तुलसीशतपत्राभ्यां पूजनं पितृवल्लभम् ॥१०३ चम्पको दमनः कुन्दकल्म (र) वीरोऽथ केतकी । जातिदर्शनमात्रेण निराशा यान्ति पूर्वजाः ॥ १०४ अनन्तर्गर्भिणं सायं कौशं द्विदलमेव च । प्रादेशमात्रं सर्वत्र पवित्रं सर्वकर्मसु ॥ १०५

वासश्चतुर्विधं प्रोक्तं त्वक्सूत्रं कृमिरोमजम् ।

उत्तरोत्तरतः श्रेष्ठं प्रक्षाल्यं श्राद्धकर्मणि ॥ १०६

धौतं सप्ताष्टहस्तैः स्यादुत्तरीयं तदर्धकम् ।

वाससी सर्वदाचा (घा) र्ये दग्धरूर्या (क्षा) द्रवर्जिते ॥१०७ त्यजेत्पर्युषितं पुष्पं त्यजेत्पर्युषितं जलम् ।

न त्यजेज्जाह्नवीतोयं तुलसीदलपङ्कजम् ॥१०८ गोमयेनोपलिप्ता भूः पवित्रा सर्वकर्मसु ।

गोमूत्रेणोक्षिता तीर्थे विष्णुपादाम्बुसेविता ॥ १०६ पात्राण्यर्घ्याणि ख (खा) ड्गानि हेमरूप्यमृदामपि ।

उ ( औ) दुम्बराणि प (पा)र्णानि देवत्वे (कृ) त्योद्भवानि च ॥ ११० हेमरूप्यमये पात्रे पिण्डत्रयं विनिक्षिपेत् ।

शौल्वे कांस्ये खाड्गपात्रे न च मृण्मयकाष्ठजे ॥१११

श्राद्धोपदेयानि श्राद्धोपासनीयानि पात्राणि वर्णनम् । १६७

पाकपात्राणि शौल्वानि सर्वधातुमयानि वा । सर्वेभ्यो मृण्मयं श्रेष्ठममिपूत जलाप्लुतम् ॥११२

लोहपात्रेषु यत्पक्वं तदन्नं काकमांसवत् ।

भुक्त्वा चान्द्रायणं कुर्याच्छाद्ध नान्येषु कर्मसु ॥ ११३

ताम्रपात्रे न गोक्षीरं पचेदन्नं न लोहजे । क्रमेण घृततैलाक्ते ताम्रलोहे न दुष्यतः ॥११४ रौप्यमानि पात्राणि नव्यसौराष्ट्रजानि वा । पत्रावल्यः पवित्राः स्युविप्राणां श्राद्ध भोजने ॥ ११५ कांस्यखर्परशुक्राश्ममृत्काष्ठफललोहजंः ।

[[1]]

नाssचामेद्वैकृतैः पाशैः श्राद्ध वै चर्मवारिणा ॥ ११६ औदुम्बरेण पात्रेण कुर्यादाचमनक्रियाम् । तारताम्रसुवर्णांशैर्मिश्रधातुसमुद्भवैः ॥११७ कांस्यपात्राच्च्युतं वारि स्नाने च देवतार्चने । श्वानमूत्रसमं तोयं पुनः स्नानेन शुध्यति ॥ ११८ नीवारा माषमुद्गाश्च गोधूमाः शालयस्तथा । यवाश्च चणकाश्चैव श्राद्ध भक्ष्यास्तथा तिलाः ॥ ११६ कदलीकन्दफलकं धात्री बिल्वी च तूलकाः । कारक द्रोणपुष्पी च तण्डुली चक्रवर्तिका ॥ १२० उपोदकी चर्मफलं कोशातक्याः फलं शमी । जीवन्ती तुण्डिकाऽम्लीका कालशाकस्तथाऽऽर्द्रकम् ॥१२१ उर्वारुक्षीरिणी पीलुद्राक्षाम्रकदलीफलम् ।

बीजपूरं कलिम्बुनि चर्भदं जानि चिर्भटम् (1) ॥ १२२

[[१६७६]]

प्रजापतिस्मृतिः ।

कर्कोटकं कारवेल्लं सूरागं मृष्टपिण्डिकाः । कोटिभण्टं तत्त्रिविधं निशाचिह्नी च वासुकः (?) ॥१२३

मरीचं हिङ्गु तैलानि सद्द्रव्याण्यविदाहि च ।

श्राद्ध ष्वेतानि मुख्यानि तथा लवणजीरकैः ॥ १२४

॥ गवां क्षीरं दधि घृतं क्षौद्रभिक्षुरसं तथा ।

शकरा गुडमत्स्यण्डी तथा मृष्टफलानि च ॥ १२५ श्यामाकान्कोद्रवान्कड्गून्कलञ्जान्राजमाषकान् । निष्पावकान्कदम्बानि वर्जयेच्छाद्धकर्मणि ॥ १२६ कलिङ्गं चैव वृन्ताकं कूष्माण्डं रक्तनीलकम् । हस्तीमुण्डफलं मर्ज्यमलाबु च तुषाम्रकम् ॥१२७ करीरजं कुमारीजं सार्षपं राजिकोद्भवम् । वर्जयेत्पितृकार्येषु वल्लकौ सुम्भपर्परौ ॥१२८ क्षीरं दधि घृतं तक्रमविच्छागसमुद्भवम् । माहिषं च दधि क्षीरं श्राद्ध वज्यं प्रयत्नतः ॥ १२६ माहिषं मृतवत्सागोः सूतिकागोश्च वजयेत् (?) ॥१३० मिश्रितं धेनुपयसा सापत्यमहिषीपयः । मेध्यमभ्युक्षितं गा ( ये ) तद्गायत्र्या सर्वकर्मसु ॥१३१ क्षरं कठिनपक्वं स्याह्याघसं स्याद्विलेपकम् । पीशी (रं) द्रवरूपं तत्क्षीरे यन्त्रिविधामता (१) ॥१३२ पितृमानवदेवानां पाशीरक्षीरपायसैः (१) । जायते परमा तृप्तिः समध्वाज्यैः सशर्करैः ॥ १३३

श्राद्ध ऽत्याज्यवस्तु वर्णनम् ।

पायसं शूद्रतो ग्राह्यं यद्यम्बुरहितं भवेत् । नव्यमृत्पात्रपक्वं चेत्पित्रर्थेऽपि न दुष्यति ॥ १३४ पायसं सक्तवो धानास्तिलपिष्टं तथौषधम् । साम्बून्येतानि गृह्णीयादपि शूद्रान्न दुष्यति ॥ १३५ क्रीतं विप्रघृतं नीत्वा यदि विप्रांश्च भोजयेत् । दाता भोक्ता च विक्रेता पूर्वजाश्च पतन्ति ते ॥ १३६ लावण्य ( क्य) तित्तिरिशकुन्तकपिञ्जलानां

भारण्डसारसमसू (यू) र [क] वी (की) रकाण (णाम) । धूम्यारकारिकुटरीदहनाटभार-

[[१६७७]]

द्वा [जा] ख्यलाटशि (कुर?) री किकिदीविकानाम् ॥ १३७

सारङ्गशम्बरवराहक कृष्णसार

शशसानि (शाशानि ) दुर्लभतमानि सदा पितृणाम् ॥ १३८ खङ्गमांसैयदा पिण्डान्कुर्याद्वा भोजयेद्विजान् । तदा भवति पूर्वेषां तृप्तिर्द्वादशवार्षिकी ॥१३६ खड्गास्थि यदि विद्येत श्राद्धकाले समीपगम् । गयाश्राद्ध ेन सा तृप्तिः पितॄणां सा भवेत्तदा ॥ १४० कथयन्तीति पितरः कुले कश्चिद्भविष्यति ।

यः खड्गमांसपिण्डांश्च कुर्याद्वा पितृभोजनम् ॥ १४१ कूर्चलो विलमण्डश्च गोधा ककृपजाहकः ( ? ) । पञ्च पञ्चनखा ह्येते दुर्लभाः श्राद्धकर्मणि ॥१४२ व्याघेभ्यो मेध्यमांसानि ग्राह्याणि द्रव्यपर्ययैः ।

पित्रथं स्वगृहे हिंसन्खादन्मांसं न पापभाक् ॥१४३

[[१६७८]]

प्रजापतिस्मृतिः ।

विना श्राद्ध विना यज्ञं मधुपर्कविधि विना । पापी स्यात्स्वार्थतः कुर्वञ्जीवघातं बलिं विना ॥ १४४ न जीवेन विना तृप्तिर्जीवस्यापि हि सर्वदा । अतः ससर्ज भगवाञ्जीवो जीवेन हिंस्यते ॥ १४५ प्रवृत्तिर्व ( त्ति व ) चनात्कुर्वन्निवृत्तिर ( 1 ) पि कर्मणाम् । एवं व्यवहरेन्नित्यं गृहस्थोऽपि हि मुच्यते ॥ १४६ न प्रवृत्तेः पुण्यहानिस्तन्निवृत्ते महत्फलम् । तदा दातव्यं धर्मज्ञधर्मकारुण्यसंश्रयः (यैः) ॥१४७ कारुण्यं प्राणिषु प्रायः कर्तव्यं पुण्यहेतवे । अहिंसा परमो धर्मस्तस्मादात्मवदाचरेत् ॥१४८ यज्ञेषु पशुहिंसायां सावर्णिव्यवसायवत् । फलं सहस्रगुणितं हिंस्यो राजा भवेदनु ॥ १४६ कारुण्यात्सर्वभूतेषु आत्मवंतः सतः सतः । उक्तकर्मसु सर्वत्र तदामांसनिषेधनम् ॥१५० मद्यमप्यानृ (प्यमृतं श्राद्ध कलौ तत्तु विवर्जयेत् । मांसान्यपि हि सर्वाणि युगधर्मक्रमाद्भवेत् ॥ १५१ अतो माखा (पा) नमेवैतन्मांसार्थे ब्रह्मणा कृतम् । पितरस्तेन तृप्यन्ति श्राद्ध कुर्व (र्या) न तद्विना ॥१५२ यथा बलिष्ठं मांसत्वान्माखा (पा) न्नपि तत्समम् । सौगन्धिकं च स्वादिष्ठं मधुरं द्रव्यभेदतः ॥ १५३ भक्ष्यं भक्ष्यविधौ यत्त गर्हितं तद्विवर्जयेत् । अभक्ष्यमपि भक्ष्यं स्याद्देशधर्मेण वै मुने ॥ १५४

श्राद्धकालाभिधानवर्णनम् ।

[[१६७६]]

अथ (थ) शब्दस्तु रवि भागे जव्यान्ते राजवर्जिते (!) । वाजं देयं प्रयत्नेन कथि (अर्थ)भ्यो वज्र मिश्रितम् ॥१५५ त्रिमुहूर्तस्तु प्रातः स्यात्तावानेव तु संगवः । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्नस्तथंव च ॥१५६ सायं तु त्रिमुहूर्तः स्यात्पभ्वधा काल उच्यते ! अतोऽपराह्नः पूर्वेषां भोज्यकाल उदाहृतः ॥१५७ आरम्भं कुतपं (पे) कुर्याद्रौहिणं तु न लङ्घयेत् । एतत्पञ्चमुहूर्तान्तः श्राद्धकाल उदाहृतः ॥ १५८ मुहूर्तास्तत्र विज्ञेया दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ १५६ विवृद्धा यत्र पुरतः कुतपस्पर्शिनी तिथिः ।

श्राद्ध े सांवत्सराङ्कोच निर्णयोऽयं कृतः सदा ॥ १६० आषाढ्याः पञ्चमे पक्षे यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि तेषु दत्तं महाफलम् ॥ १६१ चतुर्दश्यां समारम्भः पौर्णमासादि पार्वणः । प्रातरन्तमजस्रं स्यादस्यान्तः पार्वणो विधिः ॥ १६२ ब्राह्मान्मुहूर्तादारभ्य कुर्यान्मासार्धयामतः ।

श्राद्ध महालयं नाम तत्तु तीर्थवदाचरेत् ॥ १६३ पक्षेऽपरे च भरणी महती सा प्रकीर्तिता । तस्यां श्राद्धं प्रकुर्वीत गया श्राद्धसमं फलम् ॥१६४ नन्दायां भार्गवदिने मप्रा (घा) सु च युगादिषु ।

पिण्डपातं प्रकुर्वीत ज्येष्ठपुत्रो विनश्यति ॥ १६५

[[१६८०]]

प्रजापतिस्मृतिः ।

पौर्णमास्यादिसंयोगे योऽधिकुर्यान्महालयम् । पिण्डदाननिषिद्ध ेऽपि न निषिद्ध कदाचन ॥१६६ महालये त्रयोदश्यां भवेद्यदि पितुर्दिनम् ।

पिण्डदानं विप्रभोज्यं श्राद्धं तत्स्याद्गयासमम् ॥१६७ पक्षश्राद्ध वा पञ्चमीप्रभृती (ति) स्यान्महालये । पितुः पितामहस्याप्य (पि) प्रपितामहमृद्दिने ॥ १६८ कालो ह्यनन्तरूपस्तु कालो वै परमेश्वरः । तस्मात्काले प्रसन्नेन कर्तव्यं कर्म निश्चितम् ॥१६६ गर्भस्थोऽपि [च] दौहित्रो अश्वयुक्प्रतिपहिने । कुर्यान्मातामह श्राद्ध पितरौ यदि जीवतः ॥ १७० आश्वप्रतिपदि श्राद्ध’ नन्दीश्राद्धवदिष्यते (१) । नात्यं सपाकशुद्धिः (?) स्यादा मध्याह्नाद्विशिष्यते ॥ १७१ सूतकादिनिमित्तेन द्रव्याभावादिभेदतः ।

स्थितं महालयं कुर्याद्यावद्वश्चिकदर्शनम् ॥१७२ कन्यागते सवितरि पितरो यान्ति वै गुरु [गृह] म् । तिष्ठन्त्याकाङ्क्षिणस्तावद्यावद्वश्चिकदर्शनम् ॥१७३ कन्दमूलफलैर्वाऽपि कर्तव्यं पितृतर्पणम् ।

अन्यथा दारुणं शापं दत्त्वा यान्ति बुभुक्षिताः ॥१७४ एकोद्दिष्टं तु मध्याह्न दिवसस्य विधीयते ।

आद्ये आधे मुहूर्ते वा या ] मस्य पिण्डदानं च भोजनम् ॥ १७५

पितृक्षयाहे संप्राप्ते यदि कश्चिन्महालयः ।

तदा क्षयाहः कर्तव्योऽपरेऽहनि महालयम् [यः ] ॥१७६श्राद्ध ब्राह्मगसंख्यां, पार्वणादि श्राद्धवर्णनम् । १६८१

पूर्वाह्न कानि [ मि] कं श्राद्धं कुर्यान्नान्दीमुखं तथा । माध्याह्निकं यदा कुर्यान्नित्यश्राद्धं तदा भवेत् ॥१७७ द्वौ दे दे वे च त्रयः पित्र्य एकैकमुभयत्र वा । मातामहानामप्येवं तन्त्रं वा वश्वदैविकम् ॥१७८ इष्टिश्राद्ध ऋतुदक्षौ काम्ये च ध्वनिरो[धुरिलो चनौ । पुरुरवार्द्रवसंज्ञौ [तु] पार्वणे समुदाहृतौ ॥१७६ सापिण्डे कालकामा (मौ तौ वृद्धौ सत्यवसू स्मृतौ । यज्ञे च बहवः सन्ति श्राद्ध श्राद्ध पृथक्पृथक् ॥१८० पितरश्च पितामहास्तथा च प्रपितामहाः ।

एवं पार्वणसंज्ञा च तथा मातामहेष्वपि ॥ १८१ एषां पत्न्यः क्रमाद् ग्राह्यास्तिस्रस्तिस्रश्च पार्वणे । उक्तानि चत्वार्यतानि पार्वणानि न पञ्चमम् ॥ १८२ वृद्धौ द्वादशदैवत्यान्न चैवान्वष्टकासु च [?] । षड्दर्शे त्रीणि यज्ञे च एक एव क्षयेऽह्नि ॥ १८३ पार्वणं च क्षयाहे स्याद्वद्धौ स्यान्नवदैतम् । दर्श षडदेवतं श्राद्ध काम्ये पौरुषं भवेत् ॥ १८४ वसुरुद्रादित्या अमी इज्यन्ते सहमेलने । चतुर्थस्यानिवृत्तिः स्यादाद्यतो भवेदिति ॥ १८५ श्राद्ध स्त्रीपुंसयोः कार्यमेकोद्दिष्टम संततेः ।

अतः संततिमन्तोऽमी इज्यन्ते बहुभिः सह ॥ १८६ आब्रह्मस्तम्बपर्यन्तं पूर्वजाः सन्ति ये कुले । ।

तृप्ता भवन्ति ते सर्वे पुत्रहस्तेन नान्यथा ॥ १८७

[[૯૮૨]]

प्रजापतिस्मृतिः ।

अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । येन केनाप्युपायेन पुत्रमुत्पादयेत्सुधीः ॥१८८ सैकोद्दिष्टं दैवहीनं यतः पुत्रो न विद्यते । आयान्ति पुत्रिणः पूर्वे देवर्षिपितृवेष्टिताः ॥ १८६ दर्शे द्वे पार्वणे कार्ये मातुर्मातामहस्य च ।

क्षयाहे च पितुर्मातुः पार्णवं (पार्वणं) पार्वणं कृतम् ॥ १६०

अम्बष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् । पित्रादौ मातृमध्यस्थं ततो मातामहान्तिकम् ॥१६१ अन्वष्टक्ये पितृभ्यश्च ततस्त्रीभ्यश्च दैवतम् । ताभ्यस्त्वदैवतं वद्धौ तेभ्यश्चापि सदैवतः (१) ॥ १६२ मातरः प्रथमं पूज्याः पितरश्च ततः परम् । मातामहश्च तदनु वृद्धिश्राद्ध त्वयं क्रमः ॥ १६३ पार्वणानि मयोक्तानि विपरीतानि तानि ते । अथर्वणास्तर्पयन्ति तद्वेदोक्तमतं यथा ॥ १६४ अतिथि श्राद्धरक्षार्थमते (न्ते) विष्णुस्वरूपिणम् । निवेशये वि (द्विष्णुसमं ब्राह्मणं वेदपारगम् ॥१६५ कव्यवाहादयो येऽमी विद्यन्ते ये च पूर्वजाः । सर्वेषामेव वर्णानां श्राद्ध तृप्यन्ति देवताः ॥ १६६ साक्षाद्विष्णुर्धर्मराजः श्राद्धदेवश्च कथ्यते ।

विश्वे देवाः पितृतिथिः सवं विष्णुरिति स्मृतम् ॥ १६७ पूर्वजास्तुष्टिनायान्ति दाता भोक्ता न संशयः ॥ १६८

इति प्रजापतिस्मृतिः समाप्ता ।

ॐ तत्सत्

ॐ तत्सद्द्ब्रह्मणे नमः ।

॥ अथ ॥