लघ्वाश्वलायनस्मृतिः

ःःःःःःःः–

॥ श्रीगणेशाय नमः ॥

॥ प्रथमोऽध्यायः ॥

तत्र प्रथममाचारप्रकरणवर्णनम् ।

आश्वलायनमाचार्यं नत्वाऽपृच्छन्मुनीश्वराः । द्विजधर्मान्वदास्माकं स्वर्गप्राप्तिकरान्मुने । इति तद्वचनं श्रुत्वा स धर्मान्मुनिरब्रवीत् ॥१ धर्मान्वः पुरतो वक्ष्ये ध्यात्वाऽहं भो मुनीश्वराः । लोकस्य च हितार्थाय ब्रह्ममार्गरतस्य च ॥ २

स्नानं सन्ध्या जपो होमः स्वाध्यायाभ्यसनं तथा । माध्याह्निकी क्रिया पञ्चयज्ञाद्यतिथिपूजनम् ॥३

[[१०६]]

[[१६८४]]

लघ्वाश्वलायनस्मृतिः ।

दानशिष्टप्रतिग्राहौ पोष्यवर्गः सहाशनम् । सत्कथाश्रवणं सायंसंध्याहोमादिकं च हि ॥४ शयनं च यथाकाले धर्मपत्न्या सह गृही । ब्रह्मचारी स्वधर्मस्थो गुरुसेवापरो वसेत् ॥५ यजनं याजनं चैव वेदस्याध्ययनं च हि । अध्यापनं तथा दानं प्रतिग्रहमि (इ) होच्यते ॥६ एतानि ब्राह्मणः कुर्यात्षट्कर्माणि दिने दिने । अतः प्रातः समुत्थाय चिन्तयेदात्मनो हितम् ॥७ निर्गुणं निरहंकारं नारायणमनामयम् । सगुणं च श्रिया युक्तं देवं देवीं सरस्वतीम् ॥८ यथाविधि ततः कुर्यादुत्सर्गं मलमूत्रयोः ।

ब्रह्मचारी गृहस्थश्च शौचमद्भिर्मृदाऽऽचरेत् ॥६ एका लिङ्ग करे तिस्रः करयोर्मृ द्वयं गुदे । पश्च वामे दश प्रोक्ताः करे सप्ताथ हस्तयोः ॥ १० एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । वानप्रस्थस्य त्रिगुणं यतेश्चैव चतुर्गुणम् ॥११ स्वपादं पाणिना विप्रो वामेन क्षालयेत्सदा । शौचे दक्षिणपादं तु पश्चात्सव्यकरावुभौ ॥१२ शौचं विना सदाऽन्यत्र सव्यं प्रक्षाल्य दक्षिणम् । एवमेवाऽऽत्मनः पादौ परस्याऽऽदौ तु दक्षिणम् ॥१३ गण्डूषैः शोधयेदास्यमाच (चा) मेद्दन्तधावनम् । काष्ठैः पर्णैस्तृणैर्वाऽपि केचित्पर्णः सदा तृणैः ॥१४

[ प्रथमो-

ऽध्यायः ]

ब्रह्मचारिगृहस्थधर्मवर्णनम् ।

नवमी द्वादशी नन्दा पर्व चार्वमुपोणम् । श्राद्धाहं च परित्यज्य दन्तधावनमाचरेत् ॥१५ आचम्याथ द्विजः स्नायान्नद्यां वा देवनिर्मिते । तीर्थे सरोवरे चैव कृपे वा द्विजनिर्मिते ॥१६ त्रिराप्लुत्य समाचम्य शिखाबन्धं समाचरेत् । प्राणानायम्य संकल्प्य त्रिवारं मज्जयेत्पुनः ॥ १७ आचम्य वारुणं जाप्यं जपेत्सूक्तं च मार्जनम् । कुर्यादापो हि सूक्तेन ऋतमित्यघमर्षणम् ॥ १८ मार्जयेदथ चाङ्गानि गायत्र्या चाभिमन्त्रितम् । मस्तके च मुखे बाह्रोह दये पृष्ठदेशके ॥१६ ब्रह्मादयश्च ये देवाः कृष्णद्वेपायनादयः । सोम इत्यादयः प्रोक्ताः पितरो जलतर्पणे ॥ २० यन्मया दूषिषं तोयं शारीरमलसंभवम् ।

तस्य पापस्य शुद्धयर्थं यक्ष्माणं तर्पयाम्यहम् ॥२१ स विप्रः स शुचिः स्नातो ह्यस्पर्शस्पर्शनं विना । कालत्रयेऽपि कर्माः स्वाध्यायनिरतोऽपि च ॥२२ अशक्तश्वेज्जलस्नाने मन्त्रस्नानं समाचरेत् । आपोहिष्ठादिभिर्मन्त्रैस्त्रिभिश्चानुक्रमणे तु ॥२३ पच्छः पादशिर हृत्सु शिरोहत्पत्सु चार्धतः । हृत्पादमस्तकेष्येवं प्रत्युचा माजयेदथ ॥२४ मस्तके मार्जनं कुर्यात्पादैः प्रणवसंयुतैः । बाह्यशुद्धिरनेन स्यादन्तः शुद्धिरथोच्यते ॥ २५

[[1]]

[[१६८५]]

[[१६८६]]

लघ्वाश्वलायनस्मृतिः ।

प्रणवेन पिबेत्तोयं गायत्र्या चाभिमन्त्रितम् ।

सद्यस्तेन भवेच्छुद्धः स्नातोऽपि हि सरित्सु च ॥ २६ समाहितमना भूत्वा ब्राह्मण. सर्वदाऽपि हि । स्मरन्नारायणं शुद्धो धारयेदम्बरं शुचि ॥ २७

[ प्रथमो-

परिधाने सितं शस्तं वासः प्रावरणे तथा । पट्टकूलं तथा लाभे ब्राह्मस्य विधीयते ॥ २८ आविकं त्रसरं चैव परिधाने परित्यजेत् । शस्तं प्रावरणे प्रोक्तं स्पर्शदोषो न हि द्वयोः ॥२६ भोजनं च मलोत्सर्गं कुर्वते सरावृताः । प्रक्षाल्य त्रसरं शुद्धं दुकूलं च सदा शुचि ॥ ३० प्रावृत्य परिधायाथ प्राङासीनः समाचरेत् । कुशपाणिर्द्विराचान्तस्तीरे सलिलसंनिधौ ॥३१ प्रणवेन द्विराचामेदक्षिणेन तु पाणिना । उभौ हस्तौ च गल्लौ द्वावोष्ठौ पाणिद्वयं स्पृशेत् ॥३२ पादद्वयं शिरश्वाऽऽस्यं नासारन्ध्र च चक्षुषी । श्रोत्रे नाभि च हृद्देशं शिरश्वांसौ स्पृशेत्क्रमात् ॥ ३३ प्राणानायम्य संकल्प्य ततः संध्यामुपास्महे ( सयेत् ) ॥३४ आप इत्यादिभिः पादैर्नवभिर्मार्जनं चरेत् ।

जलं यस्य क्षयायेति प्रक्षिपेत महीतले ॥३५ आपो जनयथानेन स्वशिरः परिषचयेत् । सूर्यश्चेत्यनुवाकेन प्रातःकाले पिबेदपः ॥३६

ऽध्यायः ] स्नानवस्त्राचमनपूर्वक संध्योपासन विधिवर्णनम् १६८७

आपः पुनन्तु मध्याह्न सायमग्निश्च मन्त्रतः । आचम्याथ पुनश्चाप इत्येभिनवभिः क्रमात् ॥३७ ॠगन्ते मार्जनं कुर्याद्विधिनाऽनेन बह वृचः । ऋतं चत्यभिमन्त्रयापः समाघ्राय क्षिपेदधः ॥ ३८ ऋतं चंति त्र्यृचं वाऽपि जात्वा तदनवेक्षितः । समाचम्य ततस्तिष्ठेद्दिशश्चाभिमुखो वेः ॥ ३६ जलमञ्जलिनाऽऽदाय गायत्र्या चाभिमन्त्रयेत् । दद्यादर्घ्यत्रयं तिष्ठंस्त्रिषु कालेषु बह वृचः ॥४० प्रातर्मध्याह्नयोरप्सु क्षिपेत्सायं महीतले । मध्याह्न तु विशेषोऽयं प्रदद्याद्धं स इत्यूचा ॥४१ आकृष्णेन द्वितीयायं गायत्र्या च तृतीयकम् । उपतिष्ठन्समाचम्य तिष्ठेदभिमुखो वेः ॥४२ उदु त्यं चित्रमित्येतज्जपेत्सूक्तद्वयं च हि । तुस्तेन भवेत्सूर्यः स आत्मा जगतो हि वै ॥४३ तेनैव सूक्तजाप्येन हरेरर्चन कृद्भवेत् ।

आच (चा) मेदुपविश्याथ प्राणायामत्रयं चरेत् ॥४४ ध्यात्वा देवीं कुमारीं च तत्तत्कालानुरूपिणीम् । जपेत्प्रणवपूर्वाभिर्व्याहृतीभिः सहैव तु ॥४५ तिसृभिर्भःप्रभृतिभिर्गायत्री ब्रह्मरूपिणीम् । ब्रह्मचारी गृहस्थश्च शतमष्टोत्तरं जपेत् ॥४६ कालत्रयेऽप्यशक्तश्वेदष्टाविंशतिमेव वा ।

ततः कुर्यादुपस्थानं जातवेदस इत्यूचा ॥४७

.१६८८

लघ्वाश्वलायनस्मृतिः ।

[ प्रथमो

तच्छंयोरनुवाकेन शान्त्यर्थं जप ईरितः ।

प्रागादि च दिशं नत्वा मन्त्रस्थाश्चैव देवताः ॥४८ स्तुत्वा नत्वा ततः संध्यां सा मां संध्याऽभिरक्षतु । ब्रह्माणं हरिमीशानं तत्तच्छक्ति क्रमेण तु ॥ ४६ : नत्वा स्वयमथाऽऽत्मानं (मुक) गोत्रोऽहमभिवादयेत् । अग्नेरुद्धरणं कुर्यात्पूवमेवोदयाद्रवेः ॥५० आदित्यमुदितं पश्येन्नत्वा होमान्तिकं व्रजेत् । आदित्येऽभ्युदिते चैव प्रातह मो विधीयते ॥ ५१ आहिताग्निस्तथैकाग्निः स्वस्वोक्तविधिना तथा । ध्यात्वा समिध्य चाभ्यर्च्य स्वस्थानस्थं हुताशनम् ॥५२

संस्कुर्यात्साग्निना हौम्यं पय आदि कुशेन च । मन्त्रणानेन सूर्याय स्वाहेति जुहुयादथ ॥५३ द्वितीयामाहुतिं तद्वत्प्रजापतिपदं स्मरेत् । स्वाहान्तां चाऽऽहुतिं हुत्वा तथेदं न ममाच्चरेत् । सर्वत्रैवाहिोमोऽयं विधिः सकृदाहृतः ॥५४ उक्त्वेदं परिषिच्यामि तमग्नि परिपंचयेत् । जलेनं वाऽऽज्य होमे तु यत्र चैतदुदीरितम् ॥५५ सूर्यो न इति सूक्तेन कुर्यात्प्रातरुपासनम् । उपासनं च सूर्यस्य प्रजापतिरतः परम् ॥५६ अग्ने त्वं चाग्न आयूंषि सायमग्नेरुपासनम् । कुर्यात्तिष्ठन्नुपस्थानं पूर्ववश्च प्रजापतेः ॥ ५७

ऽध्यायः ] गायत्रीमन्त्र जपपूर्वक प्रातर्होमविधिवर्णनम् । १६८६

प्रातः सायं जपेन्मन्त्रमों च मे स्वर इत्यथ । अभिवाद्य जपेद्देवीं विभूर्ति चव धारयेत् ॥५८ विभूतिधारणे मानस्तोकेऽयं मन्त्र उच्यते । बृहत्सामेति वा होमे नैत्यके च महामखे ॥ ५६ कमकाले तु सर्वत्र स्मरेद्विष्णुं हविर्भुजम् । तेन स्यात्कर्म संपूर्ण तस्मै सर्वं निवेदयेत् ॥ ६० अग्निसंरक्षणे शक्तियस्य चैव न वर्तते । तदाऽरण्यामजस्त्राग्निं स्थापयेद्विधिपूर्वकम् ॥६१ समित्प्रतपनेऽयं ते योनिर्मन्त्र उदीरितः । या ते अग्ने भवेन्मन्त्रः पाण्यारोपे स्मृतो बुधैः ॥ ६२

मन्त्रेणान्वाहिते वह्नावजस्राग्निं क्षिपेदथ ॥६३

होमकालः प्रपद्येत पुनचैवं विधीयते ।

उपस्थानादिकं चैव सर्व पूर्ववदाचरेत् ॥ ६४

॥६४

कालद्वये यदा होमं द्विजः कर्तुं न शक्यते । सायमाज्याहुतिं चैव जुहुयात्प्रातराहुतिम् ॥६५ सायंकाले समस्तं स्यादाज्याहुतिचतुष्टयम् । हुत्वा कुर्यादुपस्थानं समस्येत्यग्निसूर्ययोः ॥ ६६ होमश्चेत्पुरतः काले प्राप्तः स्यात्काल उत्तरः । हुत्वा व्याहृतिभिश्चाऽऽज्यं कुर्याद्धोमद्वयं च हि ॥६७ विच्छिन्न वह्निसंधानमपराह्ने विधीयते ।

सायमौपासनं कुर्यादस्तादुपरि भास्वतः ॥ ६८

[[१६६०]]

लघ्वाश्वलायनस्मृतिः ।

[ प्रथमोनैव गच्छेद्विना भाय सीमामुल्लङ्घ्य योऽग्निमान् । यत्र तिष्ठति वै भार्या तत्र होमो विधीयते ॥ ६६ गत्वा भायां विना होमं सीमामुल्लध्य यो द्विजः । कुरुते तत्र चेन्मोहाद्भुतं तस्य वृथा भवेत् ॥७० यथा जातोऽग्निमान्विप्रस्तन्निवासालये सदा । तस्या एवानुचारेण होमस्तत्र विधीयते ॥ ७१ धर्मानुचारिणी भार्या सवर्णा यत्र तिष्ठति । कुर्यात्तत्राग्निहोत्रादि प्रवदन्ति महर्षयः ॥ ७२ ततश्चैवाभ्यसेद्वेदं शिष्यानध्यापयेदथ । पोष्यवर्गार्थमन्नादि याचयेत यथोचितम् ॥७३ माता पिता गुरुर्भार्या पुत्रः शिष्यस्तथैव च । अभ्याश्रितोऽतिथिश्चैव पोष्यवर्ग इति स्मृतः ॥७४ मध्याह्न े च पुनः स्नायाद्धौतशुक्लाम्बरावृतः । श्रुत्युक्तविधिनाऽऽचम्य प्राङासीनः कुशासने ॥७५ गायत्र्याऽपश्चतसृणां पादे व्याहृतयः स्मृताः । सप्त मन्त्रशिरोमन्त्राः षड्भिराचमनं स्मृतम् (?) ॥७६ गायत्र्याश्च पिबेत्पादैरापो हि नवभिः स्पृशेत् । व्याहृतिभिः शिरोमन्त्रैरङ्गानि ब्रह्मयज्ञके ॥७७ पाणिगण्डूषकावोष्ठौ पाणिपादौ शिरो मुखम् । नासाबिलेऽक्षिणी श्रोत्रे नाभिहृन्मस्तकेंऽसकौ ॥७८ आद्यन्तौ प्रणवौ मन्त्रौ परतः पृष्ठतौ भौ । ब्रह्मको मध्यतो मन्त्रो गायत्र्या शिरसः स्मृतः ॥७६ऽध्यायः ] मध्याह्नस्नानादि विधिपूर्वक ब्रह्मयज्ञविधान वर्णनम् १६६१

कम्बले वाऽजिने पीठे कुशासनविनासने । न कुर्यादुपविष्टो वै ब्रह्मयज्ञं द्विजाचनम् ॥८० न कुर्यात्तर्पणं श्राद्धं धृत्वा भालेऽनुलेपनम् । कदाचित्कुरुते मोहान्नरकं प्रतिपद्यते ॥ ८१ दक्षिणं चोपविश्योरु’ वामगुल्फोपरि न्यसेत् । वामोरौ दक्षिणं गुल्फं तच्चोपस्थमुदीरितम् ॥८२ प्राणानायम्य संकल्प्य कुशपाणिधरः करम् । कृत्वा तु सव्यमुत्तानं न्यसेदुपरि दक्षिणम् ॥८३ सव्यस्य पाणेरङ्गुष्ठप्रदेशिन्योस्तु मध्यतः । दक्षिणस्याङ्गुलीर्न्यस्य चतस्रोऽङ्गुष्ठवर्जिताः ॥८४ तथा सव्यकराङ्गुष्ठं दक्षिणाङ्गुष्ठवेष्टितम् । संबद्धमेवं कुर्वीत न्यसेद्दक्षिणसक्थिनि ॥८५ प्राग द्वे पवित्रे तु धृत्वाऽन्त. संपुटौ करौ । संन्यसेदक्षिणे जानौ ब्रह्मयज्ञं समाचरेत् ॥८६ ॐ पूर्वा व्याहृतीस्तिस्रः स्वरतः सकृदुच्चरेत् । गायत्रीमुञ्चरेत्सम्यक्पादमर्धमृचं क्रमात् ॥८७ ऋषिदेवतच्छन्दांसि प्रणवं ब्रह्मयज्ञके ।

मन्त्रादौ नोच्चरेच्छाद्ध यागकालेऽपि चैव हि ॥८८ अग्निमील इषे त्वादि वेदांश्चैव स्वशक्तितः । अध्याय मनुवाकं वा पठेत्सूक्तमृचं च वा ॥८६

उपवीतं यथा यस्मिन्धन्ते कर्मणि वैदिके । ब्रह्मचारी गृहस्थश्च तद्वद्वासोऽपि धारयेत् ॥ ६०

[[१६६२]]

लघ्वाश्वलायनस्मृतिः ।

सव्यांसे च स्थिते सूत्रे तत्सव्यं चाथ दक्षिणे । अपसव्यं भवेत्कण्ठे लम्बे सूत्रे निवीतकम् ॥६१ न्यग्जानु दक्षिणं कृत्वा देवान्संतर्पयेदृषीन् । तद्वज्जानुद्वयं चाथ जानूध्वं दक्षिणं पितॄन् ॥६२ सव्येन तर्पयेद्देवानृषींश्चैव निवीतिना । पितृ श्चैवापसव्येन विधिरेष उदाहृतः ॥६३ तर्पयेद्विधिनाऽनेन देवांश्चैवाङ्गुलाग्रतः । ऋषींश्च वामभागेन पितृन्दक्षिणभागतः ॥६४ एकैकं चाथ द्वौ द्वौ वै त्रींस्त्रीनेकैकमञ्जलीन् । अर्हन्त्येते क्रमाश्च (चे) व देवर्षिपितरस्त्रयः ॥ ६५ प्रत्यञ्जलि समुच्चार्य मन्त्रं दद्याद्वाञ्जलिम् । देवर्षिपितृनामानि प्रोक्ता मन्त्रा महर्षिभिः ॥६६ पित्रादयस्त्रयश्चाऽऽदौ तिस्रो मात्रादयस्ततः । सापत्नजननी मातामहादयस्त्रयस्तथा ॥ ६७ मातामह्यादयस्तिस्रः स्त्रीसुतभ्रातरस्तथा ।

पितृव्यो मातुलश्चैव दुहिता भगिनी तथा ॥ ६८

वै

दौहित्रो भागिनेयश्च पितुर्मातुश्च वै स्वसा । श्वशुरो गुरवश्चैव मित्रं चैवेति केचन ॥६६ पुत्रादयः सपत्नीकाः स्त्रियश्चैवाह (थ) केवलाः । तर्पणेऽभिहितास्तीर्थे गयायां च महालये ॥ १०० उक्त्वा पित्रादिसंबन्धं नामगोत्रं स्वधानमः । बह वृचस्तु क्रमेणैव तर्पयामीति तर्पयेत् ॥ १०१

[ प्रथमो-

ऽध्यायः ] ॠणत्रयविमुक्तयथं देवर्षि पितृतर्पणम् । १६६३

संबन्धं नामगोत्रं च स्वधामुच्चारयेत्ततः ।

श्राद्ध ऽपि विधिरेष स्यादाश्वलायनशाखिनाम् ॥१०२ सव्यहस्तानुलग्नेन दक्षिणेन तु पाणिना । कुर्याद्वह वृच एवं तु देवर्षिपितृतर्पणम् ॥१०३ वह वृचस्तर्पणं कुर्याज्जले वाऽप्यथ बर्हिषि । तर्पयेद्देवतादींश्च बर्हिष्येव तु याजुषः ॥ १०४ स्मृत्युक्तविधिनाऽऽचम्य ब्रह्मयज्ञं समाचरेत् । संतर्प्य देवतादींश्च बह वृचस्तत आचमेत् ॥ १७५ मध्याह्न ब्रह्मयज्ञो वै नानुबन्धवशाद्भवेत् । प्रातरौपासनादूध्वं कुर्यादस्तमयावधि ॥ १०६ नत्यकं तर्पणं कुर्याद् ब्रह्मयज्ञपुरःसरम् । तश्चैव देवतादीनां यदा वा स्नानपूर्वकम् ॥ १०७ स्नानं वारुणिकं चैव कचित्कर्तुं न शक्यते । तत्राऽऽदौ ब्रह्मयज्ञाथं मन्त्रस्नानं विधीयते ॥ १०८ पुण्यकालनिमित्तं यत्तर्पणं क्रियते यदि । पितॄणां केवलं तद्धि प्रवदन्ति महर्षयः ॥ १०६ निमित्तं चोपरागादे रात्रावपि तथैव च । तीर्थान्तरेऽपि तद्वत्स्यादेकाहेऽप्यसकृद्भवेत् ॥ ११० नैत्यकं तर्पणं कुर्यादहन्येव तु बह ्मवृचः । तर्पणं च तथा सौरं नैव रात्रौ कदाचन ॥ १११ श्राद्धाङ्गं तर्पणं यामे प्रथमे मधुवद्भवेत् ।

पयो नीरं च रुधिरं क्रमाद्यांमेषु च त्रिषु ॥ ११२

[[१६६४]]

लघ्वाश्वलायनस्मृतिः ।

[ प्रथमो-

न कुर्याद्ब्रह्मयज्ञं च श्राद्धात्पूर्वं मृतेऽहनि ।

पित्रोः श्राद्ध विधायाथ वैश्वदेवं च तर्पणम् ॥ ११३ ब्रह्मयज्ञं च वै कुर्यात्संध्यां मध्यंदिनस्य च । उपस्थानं च सूर्यस्य पूर्वोक्तमिह तद्भवेत् ॥ ११४ कृत्वाऽऽदौ तर्पणं संध्यां कुर्याद्वह वृच एव हि । आवर्तने परे सन्ध्यां कृत्वा कुर्याच्च तर्पणम् ॥ ११५ शुद्धयथं चाऽऽत्मनोऽन्नस्य वैश्वदेवं समाचरेत् । सिद्धान्नेन च गृह्याग्नावन्यस्मिन्ननलेऽपि च ॥ ११६ एकपाकाशिनः पुत्राः संसृष्टा भ्रातरोऽपि ज । वैश्वदेवं न ते कुरेकं कुर्यात्पितेव हि ॥११७ वैश्वदेवं कचित्कर्तुं न शक्नोति पितैव हि । पितुरेवाऽऽज्ञया कुर्यात्पुत्रो भ्राता परोऽपि हि ॥ ११८ एकान्नाशिषु पुत्रेषु भ्रातृष्वेकत्र सत्सु च । तत्रैको वैश्वदेवः स्याद्वह वृचानामयं विधिः ॥ ११६ पुत्रः स्वार्जितमेकाशी स्याच्चेत्पितरि जीवति । वैश्वदेवं पृथक्कुर्याद्यत्र कुत्रापि वा वसन् ॥ १२० वैश्वदेवं द्विजः कुर्यात्सदा कालद्वयेऽपि च । आरम्भो वैश्यदेवस्य दिवा चैव विधीयते ॥ १२१ अलंकृत्यानलं चान्नमधिश्रित्यानले चरेत् । सिद्धमादाय सूर्याय घृताक्तं जुहुयाद्धविः ॥१२२ प्रजापतय इत्युक्ता सोमायेत्यादितः क्रमात् ।

हुत्वा दशाऽऽहुतीः सायंकाले चाग्नय आदितः ॥१२३

ऽध्यायः ] सवश्वदेवभूतबल्यतिथिभिक्षादानानावर्णनम् । १६६५

परिषिच्यानलं चैव जुहुयाव्याहृतीरथ । ।

एताभ्यो देवताभ्योऽग्नेः पृथग्दद्यादूबलीन्भुवि ॥ १२४ प्राक्संस्थानन्तरालं स्यादभ्य इत्यादितः क्रमात् । एता देयास्तथैव स्युः सूत्रोक्ता देवता इह ॥ १२५ प्रागादिष्वाहुती द्वे द्वे इन्द्रायेत्यादितः क्रमात् । प्राक्संस्थे वाऽप्युदक्संस्थे चतुर्दिक्षु यथाक्रमम् ॥१२६ अग्रभागेऽन्तरालस्य दक्षिणे मूल उत्तरे । दिग्देवताहुतीनां च सममायतनं स्मृतम् ॥ १२७ ब्रह्मादयोऽन्तरालस्य मध्ये शिष्टाश्च देवताः । प्राक्संस्थाश्चापि वे ताः स्यू रक्षौभ्य इति चोत्तरे ॥१२८ स्वधा पितृभ्य इत्यन्नं दद्यान्मन्त्रेण भूतले ।

दक्षिणे चापसव्यं च पितृभ्योऽथ स्वधा नमः ॥ १२६ वैवस्वतकुलोत्पन्नौ महावीरौ सुरोत्तमौ ।

शुनौ द्वौ शा(श्या) मशबलौ पितृभागार्थिनौ सदा ॥ १३० ताभ्यां चापि बलिं दद्याद्याम्ये चोदक्पृथक्पृथक् । सव्येनानेन मन्त्रेण शा (श्या ) माय शबलाय च ॥ १३१ हविश्व जुहुयादग्नावुद्देशत्यागपूर्वकम् । स्वाहान्ते चैव सर्वत्र होमकर्मणि चात्र तु ॥१३२ स्वाहा स्याद्भूतयज्ञेऽपि पितृयज्ञे स्वधा स्मृता । यज्ञे मानुषके चैव हन्तकारो विधीयते ॥ १३३ अतो मनुष्ययज्ञार्थं दद्याद्विप्राय वाऽनले । सनकादिभ्य इत्युक्तवा हन्तकारेण वै हविः ॥१३४

[[१६६६]]

लघ्वाश्वलायनस्मृतिः ।

[ प्रथमो-

कृत्वा मनुष्ययज्ञान्तमुपस्थायों च मे स्वरः । हविर्भुजं नमस्कृत्य गोत्रनामपुरःसरम् ॥१३५ जप्त्वा चैव तु गायत्रीं धारयेद्धोमभस्म च । स्मृत्वा यज्ञपतिं देवं हुतं तस्मै निवेदयेत् ॥१३६ एवं चापि दिवा कृत्वा सायं चापि तथैव हि । दिवाचारिभ्य इत्यत्र नक्तंचारिभ्य इष्यते ॥ १३७ उक्तं कर्म यथाकाले यदि कर्तुं न शक्यते । अकाले वाऽपि तत्कुर्यादुल्लङ्घ्य वाऽपकृष्य च ॥१३८ वैश्वदेवे तथा ब्रह्मयज्ञे चैव (प) विधिः स्मृतः । संध्ययोरुभयोश्चैव वाऽपकर्षणमिष्यते ॥१३६ देवतादिपितृयज्ञान्तं सायं चापि यथाक्रमम् । भूतेभ्योऽपि बलि रात्रौ दद्यात्पात्रेण वै भुवि ॥ १४० द्वारादिदेवताभ्योऽन्नं दद्यात्पितामहादितः ।

हुतशेषं च भूतेभ्यो ये भूता इति मन्त्रतः ॥ १४१ प्रक्षाल्य पाणिपादं च समाचम्य यथाविधि । शान्ता पृथिवीति मन्त्रेण गृहं संप्रोक्ष येज्जलैः ॥ १४२ कुर्यात्पञ्च महायज्ञाग्नित्यशः सूतकं विना ।

आर्ध्यान्ता सूतके संध्या स्नानं स्यादपि किंचन ॥१४३ वैश्वदेवं पुरा कृत्वा नित्ये चाभ्युदये तथा । स्वाभीष्टदेवतादिभ्यो नैवेद्यं विनिवेदयेत् ॥ १४४ अकृत्वा देवयज्ञं च नैवेद्यं यो निवेदयेत् । तदन्नं नैव गृह्णन्ति देवताश्चापि सर्वथा ॥ १४५

ऽध्यायः ] परान्नत्यागिनामामान्नदानं, भोजनविधिः, १६६७

उच्छिष्टादिसंस्पर्शवर्णनम् ।

पादप्रक्षालनं कुर्याद्विप्राणां देवरूपिणाम् । स्वयं चापि समाचम्य विप्रांस्तादुपवेशयेत् ॥ १४६ मधुपर्क विना रात्रौ द्विजपादाभिषेचनम् । न कुर्यात्पूजयेद्विप्रान्गन्धपुष्पाक्षतादिभिः ॥ १४७ ततो विप्रान्समभ्यर्च्य यथाविभवसारतः ।

दद्याद (देयम) नं यथाशक्ति भिक्षाऽतिथिभ्य एव च ॥१४८ अन्नमामं च वै भिक्षां दद्यादहरहर्द्विजः ।

स सवव (वि) धुतः पाकादन्नाद्य ( द ) पि च यद्भवेत् ॥१४६ नित्यं ददाति यः साधुरन्नं वेदविदो मुखे ।

मुक्तः स्यादुरितात्पापाद् ब्रह्मसायुज्यमश्नुते ॥ १५० परान्नत्यागिनामेव दद्यादामं विशेषतः । अन्नाद्दशगुणं पुण्यं लभेद्दाता न संशयः ॥ १५१ भिक्षां ददाति विप्राय यतये ब्रह्मचारिणे ।

स सर्वोल्लभते कामांस्ततो याति परां गतिम् ॥१५२ दत्तं नैव पुनर्दद्यादपक्वं पक्कमेव वा ।

पुनश्च दीयते मोहान्नरकं पतिपद्यते ॥ १५३ पोष्यवर्गसमोपेतो भुञ्जीयात्सह बन्धुभिः । भोजने परिविष्टान्नं गायत्र्या चाभिमन्त्रयेत् ॥१५४ सत्यं त्वर्तेन मन्त्रेण जलेन परिषेचयेत् । ततो बलित्रयं कुर्यान्मन्त्रेणापः पिबेदथ ॥ १५५ यमायाथ च चित्राय भूतेभ्यो नम उच्चरेत् । दत्त्वाऽमृतोपस्तरणमसीत्युक्त्वा पिबेदपः ॥१५६

[[१६६८]]

लघ्वाश्वलायनस्मृतिः ।

[ प्रथमो-

गृह्णीयादाहुतीः पञ्च सपवित्रेण पाणिना । त्यक्त्वा पवित्रमश्नीयाद्धृत्वा तत्पुनराचमेत् ॥१५७ पुत्रवान्पितृमांश्चैव भुक्त्वा श्राद्धीय भोजनम् । न कुर्याद्भोजने मौनं प्राणाहुतीर्विना ॥१५८ पक्तिभेदेन यो भुङ्क्ते प्रासमात्रमपि द्विजः । अघं स केवलं भुङ्क्ते हतश्रीर्जायते ध्रुवम् ॥१५६ उत्तराचमनं पीत्वा मुखं प्रक्षालयेच्छुचिः । भुञ्जतेभ्यस्ततो दद्यात्ताम्बूलं मुखशुद्धये ॥ १६० भुक्त्वा चैव स्वयं विप्रः कुर्यात्ताम्बूलचर्वणम् । ततो नयेदहः शेषं श्रुत्यादिश्रवणादिभिः ॥ १६१ स्पृशेदुच्छिष्टमुच्छिष्टः श्वानं शूद्रमथापि च । उपोष्य रजनीमेकां पचगव्यं पिबेच्छुचिः ॥ १६२ श्वानं शूद्रं तथोच्छिष्टमनुच्छिष्टो न संस्पृशेत् । मोहाद्विप्रः स्पृशेद्यस्तु स्नानं तस्य विधीयते ॥ १६३ उच्छिष्टस्पर्शने स्नायाद्ब्राह्मणो विधिवर्जितम् । ब्रह्मविद्भजनोच्छिष्टपात्रचालं विनैव तु ॥१६४ विप्रश्चैव स्वयं कुर्याद्विजभुक्पात्रचालनम् । प्रक्षाल्य पाणिपादं च द्विराचान्तः शुचिर्भवेत् ॥ १६५ पात्राणि चालयेच्छ्राद्धं स्वयं शिष्योऽथ वा सुतः । असंस्कृतो न च स्त्री च न चान्यश्चालयेत्कचित् ॥१६६ परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ।

कदाचित्स्यादापदि तु नैव नित्यं कदाचन ॥१६७

ऽध्यायः ]

ब्रह्ममार्गाचारप्रकरणवर्णनम् ।

[[१६६६]]

उच्छिष्टस्पर्शने चैव भुञ्जानश्च भवेद्यदि ।

पात्रस्थं चापि वाऽश्नीयादन्नं पात्रस्थितं च यत् ॥१६८ गायत्र्या संस्कृतं चान्नं न त्यजेदभिमन्त्रितम् । गृहीतं चेत्पुनश्चाद्याद् गायत्रीं च शतं जपेत् ॥१६६ अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंचितम् । अस्नेहा अपि गोधूमा यवगोरसविक्रियाः ॥ १७० अपूपसक्तवो धानास्तकं दधि घृतं मधु । एतत्पण्येषु भोक्तव्यं भाण्डलेपो न चेद्भवेत् ॥ १७१ अन्नाक्तभाजनस्थानि दूष्यन्ते तानि चैव हि । शुद्धभाण्डस्थितानीह प्राह्माण्याहुर्मनीषिणः ॥ १७२ ग्राह्यं क्षा (क्षो ) रविकारं स्यात्सवं चैवेक्षुसंभवम् । तैलक्षीराज्यपक्कं च जलसंमिश्रितं न हि ॥ १७३ परान्नं नैव भुञ्जीयात्स्वकीयं चान्यपाचितम् । संस्काररहितं चैव नाश्नीयाद् ब्राह्मणः कचित् ॥ १७४ ब्राह्मणो नैव भुञ्जीयादुहित्रन्नं कदाचन । अज्ञानाद्यदि भुञ्जीत रौरवं नरकं व्रजेत् ॥१७५ पत्नी स्नुषा स्वयं पुत्रः शिष्योऽथ वा गुरुः सुतः । आचार्यो वा पचेदन्नं भुञ्जीयात्तन्न दुष्यति ॥ १७६ शाकपाकादिकं निन्द्यं योऽन्नमद्यात्स्वकीयकम् । कचिच्छिष्टान्नमश्नीयाद्वत्सराभ्यन्तरे द्विजः ॥ १७७ यद्येकत्र पवेदाममात्मनश्चापरस्य च । यस्तदन्नं द्विजो भुङ्क्ते प्राजापत्येन शुध्यति ॥ १७८

[[१०७]]

[[1]]

[[१७००]]

लघ्वाश्वलायनस्मृतिः ।

[ प्रथमो-

न चैकत्र पचेदामं बहूनामथ वा द्वयोः । निषेधोऽयं परेषां तु पुत्रादीनां न हि कचित् ॥ १७६ एवं भुक्त्वा द्विजश्चैव श्रुत्वा श्राद्धस्य वै कथाम् । श्रुतिस्मृतिपुराणोक्तमितिहासं पुरातनम् ॥१८० घटिकेकाऽवशिष्टा स्याद्रवेरस्तमितस्य च । प्रक्षाल्य पाणिपादं च द्विराचान्तः शुचिर्भवेत् ॥ १८१ प्राङासीनः समाचम्य प्राणायामपुरःसरम् । पूर्वोक्तविधिना चैव सायंसंध्यां समाचरेत् ॥१८२ आदित्येऽस्तमिते यावत्तारकादर्शनं न हि ।

सायंहोमं तदा कुर्यान्नो चेत्स्युर्नव नाडिकाः ॥ १८३ वैश्वदेवं पुनः सायं कुर्याद्यज्ञत्रयं च हि ।

दैवं भूतं तथा पे (पि) त्र्यं भुक्त्वा स्वाध्यायमभ्यसेत् ॥ १८४ ततः स्वपेद्यथाकामं न कदाचिदुदक्शिराः । एतावन्नैत्यकं कर्म प्रवदन्ति मनीषिणः ॥ १८५ अनेन विधिना यस्तु नैत्यकं कुरुते द्विजः । स याति परमं स्थानं पुनरावृत्तिदुर्लभम् ॥१८६ प्रत्यहं कर्मको (णो ) योगः स्वाध्यायाभ्यसनं तथा । मनः स्वस्थतया योगः स एवाऽऽत्मप्रकाशकः ॥ १८७ त्यक्त्वेन्द्रियसुखं लोके यस्तिष्ठेद्यत्र कुत्रचित् । स एव योगी मुक्तः स्यात्सर्वसङ्गविवर्जितः ॥ १८८ यः क्वचिन्मानवो लोके वारणस्यां त्यजेद्वपुः । स चाप्येको भवेन्मुक्तो नान्यथा मुनयो विदुः ॥ १८६ इत्याश्वलायनधर्मशास्त्रे ब्रह्ममार्गाचाराध्यायः [रप्रकरणम्)]ऽध्यायः ]

स्थालीपाकप्रकरणवर्णनम् ।

[[१७०१]]

॥ अथ द्वितीयोऽध्यायः ॥

अथ स्थालीपाकप्रकरणम् ।

स्थालीपाकस्य चाssरम्भः पौर्णमास्यां विधीयते । अग्निमान्प्रतिपद्येव प्रातरौपासनं चरेत् ॥ १ प्रातरौपासनं हुत्वा ततोऽन्वाधानमाचरेत् । स्थालीपाकं करिष्येऽहं होमः श्वः प्रातरेव हि ॥२ सद्यस्कालो भवेद्यद्वा कुर्याद्यत्र द्वयं न हि । अन्वाधानं ततः कुर्यात्स्थालीपार्क तथैव हि ॥ ३ प्राणानायम्य संकल्प्य विधाय स्थण्डिलं शुचिः । हस्तमात्रं चतुष्कोणं गोमयेन विलिप्य च ॥४ तण्डुलान्प्रकिरेद्रेखामुदक्संस्थां लिखेदथ । प्राक्संस्थे पार्श्वयोर्मध्ये तिस्रश्चैवोदगायताः ॥५

निदध्याच्छकलं तत्र प्रोक्ष्य प्राग्रं निरस्य च । संप्रोक्ष्य पुनरद्भिश्च तथा चानलमानयेत् ॥६ एहीत्यग्निं समादाय स्थापयेद्भूर्भुवःस्वरोम् । अग्निनाऽग्निस्ततो जुष्टः मनूनं तिस्र एव च ॥ ७ ध्यानं चत्वारि शृङ्गेति कुर्यादग्नेर्यथाविधि । विज्योतिषेत्यनेनैव मन्त्रेणामि समिन्धयेत् ॥८

ध्यात्वा रूपं ततो वह दर्शयेदेष हीत्यथ । धृत्वा तु समिधौ चाग्निमीषोमौ च देवते ॥

॥७

१७०२.

लध्वाश्वलायनस्मृतिः ।

[ द्वितीयो-

प्रधानदेवते चोक्तत्रा तथा चैवाङ्गदेवताः ।

क्रमेण चरुणाऽऽज्येन सद्यो यक्ष्य इति क्षिपेत् ॥ १० पर्यूहनं ततः कुर्याज्जलेन परिषेचयेत् ।

अनादेशे तु सर्वत्र दक्षिणः पाणिरुच्यते ॥ ११ पाणिना सोदकेनाग्नेः समन्तात्परिमार्जनम् । अनुलेपमुदक्संस्थं कुर्यादिीशानकोणतः १२

पर्युक्षणेऽप्युदक्संस्थं पाणिनेशानकोणतः ।

पुनरावर्तयेत्प्रत्यगीशानान्तं हविर्भुजम् ॥१३

प्रसारयेदुदक्संस्थान्पूर्वपश्चिमयोः कुशान् ।

दक्षिणोत्तरतश्चैव प्रासंस्था न्यूर्टतः क्रमात् ॥१४ मुष्टिमात्रैः कुशैरग्नैः समन्ताद्धोमकर्मसु । परिस्तृणीयात्प्रागयैश्चतुदिक्षु यथ. क्रमम् ॥१५ विन्यसेत्कुशमूलानां कुशाप्रानुपरि क्रमात् । दक्षिणोत्तरयोश्चैव चतुष्कोणेषु चंव हि ॥ १६ आस्तीर्याग्नेरुदग्दर्भान्प्रागप्रान्रत्निसंमितान् । द्वंद्वमासादयेन्न्युब्जं यज्ञपात्राणि तत्र तु ॥ १७ स्थाली च प्रोक्षणा दव स्रुवः पूर्णाज्यभाजने । इष्मं चैव तथा बहि चरुहोमे विधीयते ॥ १८ चौलोपनयनोद्वाहे पुनराधन एव च । प्रोक्षणीं स्रुवपूणाज्यमिध्मावहिंस्रुवाज्यके ॥१६ अष्टाकुलमितस्थाली प्रोक्षणीं च षडङ्गुलाम् ।

चमसं चाऽऽज्यपात्रं च षड्कुलमिति स्मृतम् ॥२०

ऽध्यायः ] स्थाल्यादीनांप्रमाणं, पूर्णपात्रस्थापनादिकर्मनिरूपणम्-१७०३

[[1]]

स्रुम्स्रुवौ हस्तमात्रौ तु स्यातां तौ यज्ञकर्मणि । द्विप्रादेशो भवे दिवमो वर्हिः प्रादेशसंमितः ॥२१ आदायाऽऽदौ कुशांस्त्रींस्त्रीन्मूलमूलानि वेटयेत् । सव्यावृत्तान्कुशान्कुर्यादधस्तात्तान्नयेदुदक् ॥ २२ वामस्थानितरांस्तद्वत्कुर्याद्रज्जुं त्रिसंधिताम् । उपविष्टां नयेत्तद्वत्ततीयावर्तनं च हि ॥ २३ रज्ज्येध्मं सकृदावेष्टय रज्जुमूलं तथैव च । वेष्टितायाश्च पूर्वाया रज्ज्वग्रं च नयेदधः ॥ २४ रज्जुप्रन्थिमधः कृत्वा प्रागप्रान्सध [द] येदथ । स्याच्चत्ताम्रमयी स्थाली होमे कांस्यमयी पि वा ॥ तथा स्युः प्रोक्षणादीनि यथालाभानि वाऽपि वा ॥२५ दण्डपा [ मा] त्रयुतौ शस्तौ स्रुक्स्रुवौ यागदारुजौ । तदभावेऽथ वाऽश्वत्थपर्णको वाऽप्युदुम्बरौ ॥२६

प्रोक्षणं न्यक्पवित्राभ्यां प्रोक्षयेत्सलिलं ततः । कृत्वोत्तानं पवित्रे ते निधायापः प्रपूजयेत् ॥ २७ सोदकाभ्यां पवित्राभ्यां त्रिः समुत्पूय चैव हि । कुर्यादेकैव मुत्तानं द्वंद्वं च प्रोक्षयेत्पुनः ॥२८ विस्रस्येष्णं तथा बहिर्निदध्याश्चमसे च ते । पवित्रे पूरयेद्वारि गन्धपुष्पाणि च क्षिपेत् ॥ २६ निरस्य नैर्ऋतान्दर्भान्निरस्त इति मन्त्रतः । कर्ताऽऽचरेदिमं मन्त्रमुक्तत्राविष्टः कुशासने ॥३०

[[१७०४]]

लघ्वाश्वलायनस्मृतिः ।

ब्रह्माणं वरयेदस्मिन्कर्मणि त्वं भवेरिति ।

[ द्वितीयो

ब्रूयादुत्रह्माहमस्मीति ततः कर्ता तमर्चयेत् ॥ ३१ धृत्वा पूर्ण करे सव्ये विधायोपरि दक्षिणम् । ब्रह्मन्नित्युच्चरन्मन्त्रं नीत्वा तन्नासिकाग्रतः ॥ ३२ निदध्यादुदगम तन्मन्त्रणों प्रणयेति च । कुशैराच्छादितं कुर्यात्पूर्णपात्रं तदुच्यते ॥ ३३ शूपं पश्चान्निधायाग्नेः पवित्रे स्थापयेच्च ते । निर्वपेच्चतुरोमुग्रस्तानेव प्रोक्षयेदथ ॥३४ तण्डुलानवहंस्त्रींस्त्रीन्कृत्वा तांत्रिः फलीकृतान् । त्रिः प्रक्षाल्य पचेदग्नेरुदचैवाऽऽज्यभाजने ॥३५ सपवित्रे निषिच्याऽऽज्यं ततोऽङ्गारानपोह्य च । तत्राऽऽज्यभाजनं स्थाप्य संस्कुर्यादुल्मुके न च ॥३६ निक्षिपेत्कुशयोरग्नेः पर्यग्निकरणं ततः । त्रिः कर्याज्ज्वलता तेन तत्प्राक्परिहरेदथ ॥३७ कर्षन्निवोदगुद्वास्य भाजनं घृतपूरितम् ।

[[1]]

कुशाग्र निक्षिपेदग्नौ स्कन्दायेत्युच्चरन्नथ ॥३८ धृत्वा तूत्तानपाणिभ्यां पवित्रे चोदगग्रके । सवितुष्ट ति मन्त्रेण सत्तूष्णीं द्विरिष्यते ॥ ३६ उत्पूयाऽऽज्यं पवित्रे ते प्रोक्ष्यामौ प्रहरेदथ । प्रत्यगासादयेदग्ने बर्हिस्तच्चाऽऽज्य भाजनम् ॥४० प्रताप्य सकुशौ दस्रवौ दव निधाय च । सव्येन स्रवमादाय कुशानितरपाणिना ॥४१

ऽध्यायः ] आज्योत्पवनं, स्रुवसंस्कारादिकर्माभिधानवर्णनम् १७०५

स्रुवस्य बिलमारभ्य यावदग्रं भवेदथ ।

अग्रतो बिलपृष्ठं तु तदारभ्य भवेद्विलम् ॥४२ निमृजेत्त्रिस्त्रिरेकं तु कुशायैः सव्यवच्च हि । कुशमूलैश्च वै दण्डं कुशैः प्रोक्ष्य प्रतापयेत् ॥४३ आसादयेत्स्रुवं चाssदौ बर्हिष्युत्तरतो घृतात् । संस्कुर्यात्पूर्ववद्दर्वी निदध्यादुद्धरे स्रुवात् ॥४४ संमार्जितान्कुशान्प्रोक्ष्य प्रहरेदनले च तान् । सम्यागाज्यं निरीक्ष्याथ चरु पक्कमवेक्षयेत् ॥४५ अभिघार्य स्रुवेणाऽऽज्यं चरुमुद्वासयेदुदक् । हविर्भुगात्मनोश्चव मध्यतश्चरुमानयेत् ॥४६ निदध्यात्तां चरोः स्थालीं बहिष्याज्यं च दक्षिणे । अभिघार्य चरु चान्यत्पात्रं स्यादुत्तरे चरोः ॥४७ देवतायै हविः स्थाप्य तत्र तद्विभजेत्क्रमात् । अमुष्यै चेदमित्युक्त्वा यथालिङ्गं यथाक्रतु ॥४८ विश्वानीत्यष्टभिः पादैः पूर्व (र्वा) तो दिक्षु चाष्टसु । अर्चयेद्गन्धपुष्पाद्यैरमिं स्तुयादुवृ ( है ) चाऽऽन्त्यजा ॥४६ अलंकृत्याभिघार्येध्ममादायायं त इत्यथ ।

हुत्वेध्मं जुहुयादाज्यं तूष्णीं वायव्यकोणतः ॥५० ततश्चाऽऽग्नेयपर्यन्तं प्रजापतिमिदं स्मरेत् । स्वाहेत्युक्त्वाऽथ निर्ऋ तिमारभ्येशानकोणतः ॥५१ गृह्यवद्भिरिमौ मन्त्रावाघाराविति भाषितौ ।

होमे चैव तु सर्वत्र विधिरेष उदाहृतः ॥ ५२

[[१७०६]]

लघ्वाश्वलायनस्मृतिः 1

[ द्वितीयो-

अग्निश्चैव तथा सोमश्चक्षुषी जातवेदसः । भवेदुत्तरमाग्नेयं सौम्यं चैवाक्षि दक्षिणम् ॥५३ सक्तलाजान्नहोमे तु जुहुयादेव चक्षुषी । अनुप्रवचनीये च वर्जयेदाज्यहोमके ॥५४ अभिघार्य स्रुवेणेदमाग्नेयं मध्यतो हविः । दवीं च हविरादाय विधिना स्थापयेदिह ॥५५ तर्जनीमध्यमांङ्गुष्ठपर्वमा च वै स्रुचि ।

तत्पुरस्तात्तथाऽऽदाय निदध्यात्तत्तथैव हि ॥५६ पात्रस्थं चापि दवस्थं पुनरप्यभिघारयेत् । पञ्चावत्ती तु पश्चार्धादादाय च हविस्तथा ॥ ५७ जुहुयादग्नये स्वाहा दर्व्या मध्ये तु नेत्रयोः । आदाय चाग्नीषोमाभ्यामुत्तरस्थं च पूर्ववत् ॥५८ मन्त्रमुच्चार्य सर्वत्र स्वाहान्ते जुहुयाद्धविः । समुच्चार्य चतुर्थ्यन्तं नामेदं न ममेति च ॥५६ द्वयोश्वापि हविःशेषं द्वयोश्चापि अवद्य च । दय सकृदवद्याच द्विस्ततो वाऽभिघारयेत् ॥६० यदस्येत्यनया हुत्वा प्रागुदक्त हविर्भुजः । रुद्राय जुहुयाद्रज्जुं विस्रंस्याचेध्मबन्धिनीम् ॥ ६१ स्रुक्स्रुवाज्याहुतेः शेषं विश्वेभ्यो जुहुयादथ । सर्वत्र जुहुयाद्धोमे प्रायश्चित्ताहुतीरथ ॥ ६२ अयाश्चाग्न इदं विष्णुश्चतस्रो व्याहृतीश्व हि । ब्रह्माऽपि जुहुयादेताः प्रायश्चित्ताहुतीरिमाः ॥ ६३

ऽध्यायः ]

अग्नेरुपस्थानादिकर्मवर्णनम् ।

अनाज्ञातमिति द्वाभ्यां ज्ञाताज्ञतनिवृत्तये । सर्वत्रापि हि चैवं स्याद्विधिरेष उदाहृतः ॥६४ यत्पाकत्रेति मन्त्रेण न्यूनाधिकनिवृत्तये । मन्त्रतन्त्राधिकन्यूनविपर्याश्च स ) विकर्मणः ॥६५ स्वरवर्णादिलोपोत्थपापनिहरणाय च ।

यद्व इत्यनेनात्रैकामाहुतिं जुहुयादथ ॥६६ सम्यक्पूर्णफलप्राप्त्यै होमस्येह कृतस्य च । कतैव जुहुयादाज्यं व्याहृतीभिश्चतसृभिः ॥ ६७ स्थाल्यादीनि च पात्राणि नीत्वा तूष्णीं निधाय च । चमसं पुरतः कृत्वा निधायाथ च बर्हिषि ॥६८ पूर्णमसीत्यनेनैव तत्पूर्णमभिमन्त्रयेत् ।

दिशः प्रागायतो दर्भेः प्राच्यां मन्त्रेण मार्जयेत् ॥६६ आपो अस्मानिदमापः सुमित्रया न इति त्रिभिः । शिरसि स्वस्य पत्न्याश्च मार्जयेद्विष्म इत्यधः ॥ ७० स्वस्य वामेऽञ्जलौ पत्न्या आसीनाया निषिञ्चयेत् । माऽहं प्रजामनेनैव चमसस्थं जलं च हि ॥ ७१ जलेन तेन वै होता प्रोक्षयेच्छिरसी तयोः । तत्रस्थान तांश्चैव क्षिपेत्प्रणवमुच्चरेत् ॥७२ परिस्तरणदर्भाश्च विसृजेदुत्तरे हि तान् । ओं च म इत्यनेनाग्निं नत्वा पूर्ववदुश्चरेत् ॥७३ पर्य (यु) ह्य परिषिच्याथ गन्धपुष्पक्षतांश्च हि । धूपं दीपं च नैवेद्यं दद्यात्ताम्बूलदक्षिणाः ॥७४

[[१७०७]]

[[१७०८]]

लघ्वाश्वलायनस्मृतिः ।

तिष्ठन्नग्नेरुपस्थानं कुर्यादों च म इत्यथ । अभिवाद्य जपेद्देवीं कृतं कर्म निवेदयेत् ॥७५ शुभाशुभक्रियार्थं च दत्तं विप्राय यद्धनम् । तत्सर्वं जगदीशस्य प्रीतये निश्चितं भवेत् ॥७६ हुतशेषं हविश्वाऽऽज्यं होगे दद्याच दक्षिणाम् । सुवर्णं च यथाशक्ति होमसाद्गुण्यहेतवे ॥७७ होमान्ते ब्रह्मणे दद्याद्यज्ञपात्राणि चैव हि । होमे चैव तु सर्वत्र प्रवदन्ति मनीषिणः ॥७८ दर्शके पूर्ववत्सवं विशेषस्त्वथ कथ्यते । अग्नीषोमपदस्थान इन्द्राग्नी (नि) पदमुच्चरेत् ॥ ७६ पालाशखादिराश्वत्थशम्युदुम्बरजास्तथा । समिधः खादिराः शस्ता होमकर्मसु चैव हि ॥ ८० इत्याश्वलायनधर्मशास्त्रे स्थालीपाकप्रकरणवर्णनम् ।

तृतीयो-

॥ तृतीयोऽध्यायः ॥

अथ गर्भाधानप्रकरणम् ।

गर्भाधानं द्विजः कुर्यादृतौ प्रथम एव हि । चतुर्थदिवसादूध्वं पुत्रार्थी दिवसे समे ॥१

चरं दारुणभं पौष्णं दस्राग्नी च द्विदैवतम् । श्राद्धाहं चैव रिक्तां च हित्वाऽन्यस्मिन्विधीयते ॥२

ऽध्यायः ]

गर्भाधनप्रकरणवर्णनम् ।

नान्दीश्राद्ध पतिः कुर्यात्स्वस्तिवाचनपूर्वकम् ।

उपलेपादिकं कृत्वा प्रातरौपासनादितः ॥ ३

प्रजापतेश्वरोरेकां हुत्वा चाऽऽज्याहुतीरथ ।

विष्णुर्योनिं नेजमेष षडेका च प्रजापतेः ॥४

आसीनायाः शिरः

स्पृष्ट्रा प्राङ्मुख्याः पाणिनापतिः ।

तिष्ठञ्जपेदिमे सूक्ते त्वपनश्च वधेन च ॥५ अग्निस्तुविश्रवस्तममित्यृचौ द्वे तथैव च ।

सूर्यो नो दिव इत्येतैः स्तुत्वा सूर्य च पञ्चभिः ॥५ अश्वगन्धारसं पत्न्या दक्षिणे नासिकापुटे । उदीर्ष्वति पठन्मत्रं सिञ्चेत्तद्वत्रशोधितम् ॥७ ततः स्विष्टकृदादि स्याद्वाससी च नवे तयोः । फलानि च पतिस्तस्यै प्रदद्यात्फलमन्त्रतः ॥८ मातुलिङ्गं नारिकेलं रम्भाखर्जूरपूरकम् । शस्तानि स्युरथान्यानि नारिङ्गादीनि वाऽपि च ॥ वृषभं गां सुवर्णं च होत्रे दद्याच्च दक्षिणाम् । पुत्रवान्धनवांस्तेन भवेत्कर्ता न संशयः ॥ १० भोजयित्वा द्विजान्सम्यक्तोषयेद्दक्षिणादिभिः । संतुष्टा देवताः सर्वाः प्रयच्छन्तीप्सितं फलम् ॥११ स्थालीपाकं चाऽऽग्रयणं गर्भसंस्कारकर्मसु । प्रातरौपासने कुर्यादग्नौकरणमेव च ॥१२ प्रसन्नात्मा भवेत्कर्ता भुञ्जीत सह बन्धुभिः । तस्मिन्नेव दिने रात्रौ गर्भारोपणमिष्यते ॥ १३

[[१७०६]]

[[१७१०]]

लघ्वाश्वलायनस्मृतिः ।

पतिवत्या (त्या)श्च दुर्भेद्यं प्रथमं स्याद्वजो यदि । पत्युस्तस्या भवेन्मृत्युः स्त्री ( स्त्रि) पूर्वा हियमेषु च ॥१४ मघाशक्रशिवादित्यवह्निभेषु च वा भवेत् । तत्रापि स्यान्महाशोको दरिद्रं चानपत्यता ॥१५ तद्दोषपरिहारार्थं कुर्याच्छान्ति यथाविधि । तोषयेज्जपहोमाभ्यां तत्तदृक्षादिदेवताः ॥१६ आचार्यादीन्समभ्यर्च्य भोजयेच्छक्तितो द्विजान् । तदुद्दिश्य कृतेनाऽऽशु सर्वारिष्टं प्रणश्यति ॥ १७ शान्तिकर्मविधानेन कृत्वाऽन्यस्मिन्दिने शुभे । गर्भाधानं ततः कुर्यादित्याचार्योऽब्रवीद्वचः ॥१८ अकृत्वा शान्तिकं कर्म न कुर्याद्गर्भसाधनम् । सर्वेषां शाखिनामेव विधिरेष उदाहृतः ॥ १६

इत्याश्वलायनधर्मशास्त्रे गर्भाधानप्रकरणम् ।

॥ चतुर्थोऽध्यायः ॥

अथ पुंसवनानवलोभनसीमन्तोन्नयनप्रकरणम् ।

कुर्यात्पुंसवनं मासि तृतीयेऽनवलोभनम् । सीमन्तोन्नयनं चैव चतुर्थे मासि तद्भवेत् ॥ १

नो षष्ठे वाऽपि कर्तव्यं तद्वयं च हि ।

चेत्पष्ठेऽष्टमे

तावदेव भवेत्केचिद्यावत्स्याद्गर्भधारणम् ॥२

[ चतुर्था-ऽध्यायः] पुंसवनानवलोभनसीमन्तोन्नयन प्रकरणवर्णनम् १७११

पुष्यादित्याश्विनी हस्तविधिमूलोत्तरामृगाः । हरिपूषानुराधाश्च शस्तं पुंसवनादिकम् ॥३ कृत्वाऽऽभ्युदयिकं श्राद्ध चतुर्थ्यन्तं च पूर्वकम् । दधिमाषौ यवं तस्या निधाय प्रसृतौ च तान् ॥४ त्रिः पिबल्कि पिबसीति पतिः पुंसवनं हि सा । प्रोक्ष्यापः पुनरेव स्यात्त्रिवारं पुनराचमेत् ॥५ सिञ्चदुर्वारसं तस्या दक्षिणे नासिकापुटे । आ ते गर्भ इति द्वाभ्यां सूक्ताभ्यां तावदुच्यते ॥ ६ प्रजापतये स्वाहेति जुहुयादाहुतिं चरोः । गुर्विण्या हृदयं स्पृष्ट्रा यत्ते मन्त्रमुदीरयेत् ॥७ धाता ददातु मन्त्रौ द्वौ तथा राकामहं च तौ । नेजमेषत्रयो मन्त्रा एको मन्त्रः प्रजापतेः ॥८ अष्टावाज्याहुतीहु त्वा त्रिशुकुशललीकुशैः । औदुम्बरेण युग्मेन ग्लप्स्थे(द्रप्से) न सफलेन च (?) ॥ पूर्णसूत्रावृतेनेह सहैवैकत्र मेव च ।

त्रिरुन्नयेति गर्भिण्याः सीमन्तेन समूलतः (?) ॥१० कृतकेशविभागं स्याद्योषिद्धालाप्रभागतः ।

सीमन्तं सधवाचिह्न सदा सौभाग्यदायकम् ॥११ तिष्ठन्पश्चात्प्राङ्मुखोऽग्नेरुश्चरन्भुर्भुवः स्वरोम् । चतुर्थ्योमूढतं कृत्वा विद्धायां तु निरुध्यते ( ) ॥१२ सामस्वरेण मन्त्रं च सोमं राजानमुञ्चरेत् । समीपस्थनदीनाम समुच्चार्य नमेदथ ॥१३

[[१७१२]]

‘लघ्वाश्वलायनस्मृतिः ।

पतिपुत्रवती नारी गर्भिण्या (णी) मुपदेशयेत् । मा कुरु क्लेशदं कर्म गर्भसंरक्षणं कुरु ॥१४

ततः स्विष्टकृदादि स्याद्धोमशेषं समापयेत् । पूर्ववत्फलदानानि कृत्वाऽऽचार्याय दक्षिणाम् ॥१५ वृषभं धेनुसंयुक्तं दद्याद्विभवसारतः ।

[ पथ्यमो-

भोजयेच्छक्तितो विप्रान्कर्मसाद्गुण्यहेतवे ॥ १६ प्राशनं यत्पुंसवनं होमश्चानवलोभनम् । प्रतिगर्भमिदं कुर्यादाचार्येणेह भाषितम् ॥१७ आज्यहोमश्च शललीकुशल्यप्सु निमज्जनम् । सीमन्तोन्नयनं तच्च प्रतिगर्भे न हि स्मृतम् ॥ १८ प्रधानं पुंसवनं न स्यादङ्गं चानवलोभनम् । सीमन्तं च तथैव स्यात्केचिदुन्नयनं तथा ॥ १६ इत्याश्वलायनधर्मशास्त्रे पुंसवनानवलोभनसीमन्तो नयन [ प्रकरण] म्

॥ पथ्वमोऽध्यायः ॥

अथ जातकर्मप्रकरणम् ।

जाते सुते पिता स्नायान्नान्दीश्राद्ध विधानतः । जातकर्म ततः कुर्यादैहिकामुष्मिकप्रदम् ॥१ सौवर्णे राजते वाऽपि पात्रे कांस्यमयेऽपि वा । मधुसर्पिर्निषिध्याथ हिरण्येनावघर्षयेत् ॥ २

ऽध्यायः ]

नामकरणप्रकरणवर्णनम् ।

[[१७१३]]

प्राशयेत्तं हिरण्येन कुमारं मधुसर्पिषी ।

प्रतिमन्त्रं पठेत्कर्णे हिरण्यं स्थाप्य दक्षिणे ॥३ तथा वामे जपेन्मेधां स्पृशेदंसावतः परम् । अश्मा भव जपेदिन्द्रः श्रेष्ठान्यस्मै प्रयान्ति च ॥४ एवं कुर्यात्सुतस्यैव तूष्णीमेव च योषितः । केचिदिच्छन्त्यनादिष्टहोममन्त्रादिना परे ॥५

इत्याश्वलायनधर्मशास्त्रे जातकर्मप्रकरणम् ।

॥ षष्ठोऽध्यायः ॥

अथ नामकरणपूकरणम् ।

अहन्येकादशे कुर्यान्नामकर्म विधानतः ।

कृत्वाऽऽभ्युदयिकं श्राद्धं द्वादशे षोडशेऽपि वा ॥१ मार्गशीषं समारभ्य मासानां नाम निर्दिशेत् । नक्षत्रपादतो जातजन्मनाम तदुच्यते ॥ २ यद्वा तातपिताना ( तुर्ना ) म भवेत्संव्यावहारिकम् । क्रमेणानेन संलिख्य नामानि च समर्चयेत् ॥ ३ समाक्षरयुतं नाम भवेत्पुंसः सुखप्रदम् ।

विषमं यदि तत्र श्री : (श्री) समेतं च विनिर्दिशेत् ॥४ आचार्येणात्र मन्त्रोऽयं नामानि तु उदाहृतः ।

नमस्करोत्यसौ देवं ब्राह्मणेभ्यः पिता वदेत् ॥५

[[१७१४]]

लघ्वाश्वलायनस्मृतिः ।

त्रिस्त्रिः स्यात्प्रतिनामैवं ततः स्वस्तीति निर्दिशेत् । भवन्तोऽस्य ब्रुवन्येवं प्रतिब्रूयुस्तथा द्विजाः ॥ ६ तत्तन्नाम शिशोखित्रिब्रूयात्तत्र तथाऽऽशिषः । ब्राह्मणान्भोजयेच्छक्त्या भुञ्जीयात्सह बन्धुभिः ॥ ७

इत्याश्वलायनस्मृतौ नामकरण [ प्रकरण ] म् ॥

॥ सप्तमोऽध्यायः ॥

अथ निष्क्रमणप्रकरणम् ।

मासे चैवं चतुर्थे तु कुर्यान्निष्क्रमणं शिशोः । कृत्वाऽऽभ्युदयिकं श्राद्धमादायाङ्क शिशुं पिता ॥ १ स्वस्ति नो मिमीतां सूक्तं जपन्देवादिकं नयेत् । आशुः शिशान इत्येतत्पठेत्तं श्वशुरालयम् ॥२ नीत्वाऽन्यस्य गृहं वाऽपि प्राङ्गणे वाऽर्कमीक्षयेत् । तञ्चक्षुरिति मन्त्रेण दृष्ट्राऽकं प्रविशेद्गृहम् ॥ ३

इत्याश्वलायनस्मृतौ निष्क्रमण [पकरण]म् ॥

[ सप्तमो-

ऽध्यायः] अन्नप्राशनं, चौल (चूड़ाकरण) कर्मप्रकरणभ्ववर्णनम् । १७१५

॥ अष्टमोऽध्यायः ॥

अथान्नप्राशनप्रकरणम् ।

षष्ठेऽन्नप्राशनं कुर्यान्मासे पुंस्यष्टमेऽथ वा । दशमे द्वादशे मासि केचिदेवं वदन्ति हि ॥१ कृत्वाऽऽभ्युदयिकं श्राद्ध शुभे चैव दिने पिता । सौवर्ण राजते पात्रे कांस्ये वाऽथ नवे शुभे ॥२ क्षीराज्यमधुदध्यन्नं विधाय प्राशयेच्छिशून् । मन्त्रेणान्नपतेऽन्नस्य हिरण्येन स्रुवेण च ॥ पाणिना सपवित्रेण जलं चापि हि पाययेत् । दत्त्वा विप्राय तत्पात्रं तूष्णीमेव च योषितः ॥४ ततो विभवसारेण ब्राह्मणांश्चापि भोजयेत् । स्वयं चैव तु भुञ्जीयात्समाहितमना भवेत् ॥५

॥५

इत्याश्वलायनस्मृतावन्नप्राशन [ प्रकरण] म् ।

॥ अथ नवमोऽध्यायः ॥

अथ चौल (चूड़ाकरण) कर्मप्रकरणम्

तृतीये वत्सरे चौलं बालकस्य विधीयते । शुभे चैव दिने मासि विहितं चोत्तरायणे ॥१ कृत्वाऽऽभ्युदयिकं श्राद्धं पूर्वेद्युरपरेऽहनि । प्रातःसंध्यादिकं कृत्वा नान्दीश्राद्ध परेऽहनि ॥२

[[१०८]]

[[१७१६]]

लघ्वाश्वलायनस्मृतिः ।

प्राणानायम्य संकल्प्य कुर्वीत स्थण्डिलादिकम् । पात्रासादनपर्यन्तं कृत्वा धान्यानि पूरयेत् ॥३ उद्गग्नेः शरावेषु प्राक्संस्थेषु नवेषु च । तेषु वै क्रमतो त्रीहियवमाषतिलांश्च हि ॥४ पुरतःस्थे शरावे च विन्यसेद् वृषगोमयम् । तदुत्तरे नवेऽन्यस्मिञ्छमीपर्णानि पूरयेत् ॥५ आघारान्तं ततः कुर्यात्कृत्वोत्तानानि पूरयेत् । ततश्च जुहुयादाज्यममिश्चेति चतसृभिः ॥६ अग्न आयूंषि पवस इत्येका च प्रजापतेः । एता एवोपनयने गोदाने च विवाहिके ॥७ मातुरङ्कोपविष्टस्य कुमारस्य तु चैव हि । पश्चात्स्थित्वा पिता शीतं जलमादाय पाणिना ॥८ दक्षिणेनाथ सव्येन पाणिनोष्णं जलं तथा । दक्षिणोत्तरयोस्तत्र निनयेत्केशपक्षयोः ॥६

उष्णेन वायमन्कोण जलधारे तयोश्च ते ।

अनामिकाया चाऽऽदाय नवनीतं तथा दधि ॥ १० प्रदक्षिणप्रकारेण वामकर्णप्रदेशतः ।

सकेशान्धारयेद् ब्रह्मा त्रींस्त्रीन्प्रागकान्कुशान् ॥११

आचार्यश्छेदयेदेतानोषधे मन्त्रमुच्चरेत् ।

क्लेदयेद्वामकर्णान्तं त्रिश्चैवादितिरुश्चरेत् ॥१२ क्षुरेणेति च तीक्ष्णेन ताम्रयुक्तेन चैव हि । क्रेदितान्सुत आदाय मातुर्हस्ते निवेदयेत् ॥ १३

[ नवमो-

ऽध्यायः ]

चौल (चूड़ाकरण) कर्मप्रकरणवर्णनम् । विन्यसेत्ताञ्छमीपर्णैः सहाऽऽनडुहगोमये । येनावपत्प्रथमं स्याद्येन धाता द्वितीयकः ॥१४ तृतीये येन भूयश्च सर्वैरेव चतुर्थकम् । एवं च दक्षिणे कृत्वा त्रिवारं तूत्तरे तथा ॥१५ यत्क्षुरेणेति मन्त्रेण क्षुरधारां जलेन च । निमृज्येन्मर्म तत्कृत्वा नापिताय प्रदापयेत् ॥ १६ यावन्तः प्रवरास्तस्य शिखामध्ये च पार्श्वयोः । पश्चात्पूर्वे तथा पञ्चप्रवराणां शिखाः स्मृताः ॥१७ अभ्यञ्जयेत्कुमारं तमानयेदग्निसंधौ ।

ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ॥ १८ यदुक्तं च यथाकाले कुर्यात्संस्कारकर्म च । असामर्थ्यात्कृतं नो चेद्विधिस्तस्य कथं भवेत् ॥१६ प्रायश्चित्तं विधायाऽऽदावेकैकस्य च कर्मणः । कृत्वाऽऽदौ कृच्छ्रमेकैकं लुप्तकर्माणि कारयेत् ॥२० मन्त्रमेकं जपेत्तत्र तत्तत्कर्मणि एव हि । विधिवञ्चौलकर्मेवं कृत्वा स्यादुपनायनम् ॥२१ चौलकर्मादितश्चैवं यावद्वैवाहिकं भवेत् ।

तावत्स्यालौकिको ह्यग्निरिति वेदविदो विदुः ॥२२

इत्याश्वलायनस्मृतौ चौल (चूड़ाकरण) कर्मप्रकरणम् ।

[[१७१७]]

[[१७१८]]

लघ्वाश्वलायनस्मृतिः ।

दशमो-

॥ दशमोऽध्यायः ॥

अथोपनयनप्रकरणम्

ब्राह्मणस्याष्टमे वर्षे विहितं चोपनायनम् । सप्तमे चाथ वा कुर्यात्सर्वाचार्य मतं भवेत् ॥ १ कृत्वाऽऽभ्युदयिकं श्राद्धमावाह्य कुलदेवताः । मण्डपायचनं कृत्वा भोजयेच्च द्विजान्स्वयम् ॥२ अथापरेद्युरभ्यज्ज्य कुमारं भोजयेत्ततः । वपेद्भुक्तवतः केशान्मात्रासहैकभाजने ॥३ चैलाङ्गस्थापिते ये च शिखे द्वे तेऽपि वापयेत् । सकेशेऽपि कुमारस्य हित्वेका मध्यमस्थिताम् ॥४ आसीनस्यान्ति के स्नातं कुमारमुपवेशयेत् ।

पितुश्च प्राङ्मुखस्येह प्रत्यङ मुख मलंकृतम् ॥५

प्रत्यङ्मुख

धृत्वाऽञ्जलिं कुमारस्य सुवर्णफलसंयुतम् । मुहूर्त कालपर्यन्तमसमीक्ष्य परस्परम् ॥६ ध्यायन्देवान्सुमुहूर्ते मुहूर्ते पितुरञ्जलौ । दत्त्वा फलमसौ तस्य निदध्यात्पादयोः शिरः ॥७ शिरः स्पृशेत्पिता तस्य स्वा तमुपवेशयेत् । यो यज्ञेन पठेत्सूक्तमाचार्यो ब्राह्मणैः सहः ॥८ आज्यसंस्कारपर्यन्तं प्राणायामादिपूर्वकम् । कृत्वा नवं ततो दद्यात्कौपीनं कटिसूत्रकम् ॥ धारयित्वा ततो दद्याद्वाससी युवमित्युचा । एकं स्यात्परिधानार्थमेकं प्रावरणाय हि ॥ १०

॥६

ऽध्यायः ]

उपनयनप्रकरणवर्णनम् ।

इच्छन्ति केचिदैणेयमृक्सामाभ्यां तथाऽजिनम् । उपवीतं ततो दद्याद्यज्ञोपवीतमन्त्रतः ॥ ११ आचम्याथ वटुर्गच्छेत्पुरतश्चोत्तरे गुरोः । दृष्ट्वा पात्रं तथाऽऽगत्य दक्षिणे तूपवेशयेत् ॥ १२ कृत्वाऽऽज्याहुतिपर्यन्तं बहिरास्तरणादिकम् । कुमारः पूर्ववद्गच्छे दुदग गु (ग्नेर्ग) रोश्व हि ॥ १३ आचार्यः प्राङ्मुखस्तिष्ठेद्वदुः प्रत्यङ्मुखस्तथा । आचार्यः पूरयेत्तत्र कुमारस्याञ्जलौ जलम् ॥१४ नजले चाखलौ तस्य गन्धपुष्पाणि चाऽऽवपेत् । प्रवणं च यथाशक्ति फलैः क्रमुकजैः सह ॥ १५ आचार्यस्याञ्जलौ ब्रह्मा पूरयेत्सलिलं च तत् । आचार्यो मन्त्रमुच्चार्य तत्सवितुर्वृणीमहे ॥ १६ कुमारस्याञ्जलौ चैव निनयेत्स्वस्य चाञ्जलिम् । ध्यायन्कुमार आदित्यमर्घ्यपात्रे निवेदयेत् ॥ १७ देवस्य त्वेति गृह्णीयात्साङ्गुष्ठं करमस्य च । असौ शर्मेति दीर्घायुर्भवत्विति वदेत्पिता ॥१८ अथ वाऽसौ पदे नाम संबुद्ध्या वाऽस्य नामकम् । उच्चार्य शर्म दीर्घायुर्भवेत्येके वदन्ति हि ॥ १६ एवं त्रिः पूर्ववचैव मन्त्रोऽन्यः स्यात्करग्रहे । सविता तेऽयमेकः स्यादग्निराचार्य एव च ॥ २० ईक्षयेद्वहुरादित्यं देवं सवितृमन्त्रतः । आवर्तयेत्कुमारं तं पूर्वार्धर्षे न चैव हि ॥ २१

[[१७१६]]

[[१७२०]]

लध्वाश्वलायनस्मृतिः ।

पाणिभ्यामुत्तरेणांसौ पाणी वाऽस्य हृदि स्पृशेत् । एवं कृत्वा पुनश्चामुं दक्षिणे बटुमानयेत् ॥२२ तूष्णीं समिधमादाय निदध्यादनले च ताम् । मन्त्रेणाग्नय इत्यत्र वदन्त्येके महर्षयः ॥ २३ ओष्ठौ विलोमकौ कृत्वा पाणिद्वयतलेन च । त्रिवारं प्रतिमन्त्रेण तेजसा मेति चैव हि ॥२४ सूत्रोदितान्मयीत्यादीन्मन्त्रांस्तिष्ठञ्जपेदथ । मानस्तोकेऽनया भाले त्रिपुण्ड धारयेत्क्रमात् ॥ २५ हृदि नाभौ तथा बाह्वोर्मस्तके चापि केचन । त्र्यायुषं ताञ्जपेन्मन्त्रानुपस्थायों च मे स्वरः ॥२६ पुरतः पितुरासीनो ब्रह्मचारी कुशासने । गायत्रीमनुगृह्णीयादुपांशु प्रत्यगाननः ॥२७ पूर्ववदुपविश्यांसावन्वाच्य जानु दक्षिणम् । फलाक्षतसुवणं च गुरवे तन्निवेदयेत् ॥२८

अधीहीत्यादिकं मन्त्रं समुच्चार्य यथाविधि ।

नमस्कुर्याद गुरोः पादौ धृत्वा हस्तद्वयेन च ॥२६ ब्राह्मणोऽहं भवानीह गुरोऽहं ते प्रसादतः । गायत्री (त्रीं) मामनुब्रूहि शुद्धात्मा सर्वदाऽस्मि हि ॥ ३० संगृह्य पाणी पाणिभ्यां स्वस्य च ब्रह्मचारिणः । वाससाऽऽच्छादनं कृत्वा गायत्रीमनुवाचयेत् ॥३१ उच्चार्य प्रणवं चाऽऽदौ भुर्भुवः स्वस्ततः परम् । पच्छ (पाद) मधेमृचं चैव तं यथाशक्ति वाचयेत् ॥ ३२

दशमो-ऽध्यायः ]

उपनयनप्रकरणवर्णनम् ।

[[१७२१]]

पाणिना हृदयं तस्य स्पृष्ट्रा मम व्रतं जपेत् । प्राणायामं ततः कृत्वा ब्रह्मचार्येव नेतरः ॥३३ आबध्य मेखलां तस्य प्रावेपामेत्यृचं जपेत् । एषक्षेत्यनया दण्डं धारयित्वादिशेत्रतम् ॥३४ ब्रह्मचर्यादिकं मिक्षां ददात्वित्यन्त एव च । ततः स्विष्टकृतं हुत्वा होमशेषं समाप्य च ॥ ३५

॥ याचयेत्प्रथमां भिक्षां पितरं मातरं च वा । पितरं यदि याचेत भवान्भिक्षां ददात्विति ॥३६ भवतीति पदं चोक्त्वा भिक्षां देहीति याचयेत् । मातरं चाय एवेति गत्वा पात्रं करान्तिके ॥३७ तण्डुलान्सफलान्दद्याद्भिक्षार्थं जननी तु च । होमार्थं तण्डुलान्मात्रे दत्त्वा शेषं गुरोरथ ॥३८ याचिता तत्र या भिक्षा गुरवे तां निवेदत् । पित्तैव गुरुराचार्यो भवेत्सद्भिरुदाहृतः ॥ ३६ यस्मात्पुरोहितो ब्रह्मा होता च सह याज्ञिकम् । उक्त्वा वेदमधीष्वात्र यस्माद्दिशति वै पिता ॥४० तदाचार्यपदं तत्र जायते ब्राह्मणेऽपि हि ।

पिता माता तथाऽऽचार्यास्त्रयो मान्या सदैव हि ॥ ४१ अन्येऽपि श्रोत्रिया वृद्धा वेदविद्याप्रदास्तथा । दद्याद्विभवसारेण कर्माङ्गत्वेन दक्षिणाम् ॥४२ सुवर्णाभ्वरधान्यानि सद्योऽनन्तफलं लभेत् ।

न ददाति द्विजो होगे लोभाद्यज्ञाङ्गदक्षिणाम् ॥४३ .

[[१७२२]]

लघ्वाश्वलायनस्मृतिः ।

वित्ते सति कृतं कर्म निष्फलं स्याद्धनक्षयः ।

धनिनोऽयं निषेधः स्याद् व्रतहीनस्य चैव हि ॥४४ असमर्थो नमेत्सद्योदत्त्वाऽक्षतफलादिकम् । विप्रेभ्योदक्षिणां दत्त्वा गृह्णीयादाशिषः स्वयम् ॥४५ यथाविभवसारेण हेतवे यज्ञसाक्षिणः ।

आसायं न हि किंचित्स्यान्नैत्यकं कर्म चैव हि ॥४६ ब्रह्मचारिण एवात्र सायं संध्या विधीयते । ब्रह्मचारी ततः कुर्यात्सायंसंध्यां यथाविधि ॥४७ अग्निकार्य तथा होमं तस्मिन्ननौ विधीयते । नो चेत्स्यात्पूर्ववत्कुर्यादाचार्यः स्थण्डिलादिकम् ॥४८

पूर्णपात्रनिधानान्तमनलस्थापनादिकम् । निर्वपेन्मातृतः प्राप्तांस्तडुलान्सदसस्पतेः । सवितुश्च ततस्तूष्णीमृषीणां मन्त्रतः क्रमात् ॥४६ श्रपयित्वौदनं कुर्यादाघारान्तं हुनेदथ । सदसस्पतिमन्त्रेण गायत्र्यषिभ्य एव च ॥ ५० चर्वाहुतित्रयं दत्त्वा कुर्यात्स्विष्टकृदादिकम् । भोजयित्वा द्विजान्वेदसमाप्तिरस्य चोत्तरे ॥५१ निर्विघ्नेन त्रिवारं तु पिताऽस्य ब्रह्मचारिणः । वसेदसौ त्रिरात्रं तु क्षारादिश्रतमाचरेत् ॥५२

प्रातः संध्यामुपास्याग्निकार्यं कृत्वा परेऽहनि । मध्याह्न े चाऽऽचरेत्संध्यां ब्रह्मयज्ञादनन्तरम् ॥५३

[ दशमो-

ऽध्यायः ]

उपनयनप्रकरणवर्णनम् ।

[[१७२३]]

उपाकरणपर्यन्तं सावित्र्या ब्रह्मयज्ञकम् ।

ततोऽग्निमील इत्यादि जपेद्वेदान्स्वशक्तितः ॥५४ चतुर्थदिवसे कुर्यान्मेधाजननकं च हि । संध्यादिकं विधायाथ गच्छेत्पालाशसंनिधौ ॥५५ कलशान्स्थापयेत्तत्र चतुष्कोणेषु चैव हि । पलाशं पूजयेत्तत्र वसन्तं च यथाविधि ॥५६ श्रद्धां मेधां च वै प्रज्ञां पूजयेच्छुद्धयेत्युचा । गन्धपुष्पाक्षतैश्चैव धूपदीपादिभिस्तथा ॥ ५७ प्रदक्षिणात्रयं कुर्यादाचार्यः सुश्रवं पठन् । निनयेज्जलधाराश्च सहैव ब्रह्मचारिणा ॥ ५८ मेखलामजिनं दण्डं वस्त्रं यज्ञोपवीतकम् । एकैकं धारयेत्तत्र क्रमेणैवं त्यजेदथ ॥५६

आचार्याय च ते दद्याद्वाससी ब्रह्मचार्यथ । नवं चैवात्र कौपीनं धारयेत्पुनरेव हि ॥ ६० विप्रेभ्यः कलशान्दद्याद् गृह्णीयादाशिषः शुभाः । यथाचारं तथा कुर्याद्देवकोत्थापनं च हि ॥ ६१

इत्याश्वलायनस्मृतावुपनयनप्रकरणम् ।

[[१७२४]]

लघ्वाश्वलायनस्मृतिः ।

[ एकादशी-

॥ एकादशोऽध्यायः ॥

अथ महानाम्न्यादित्रतत्रयप्रकरणम् ।

महानाम्नीव्रतं कुर्यात्पूर्णाब्दे चोत्तरायणे । शुक्लपक्षे शुभेऽह्नि स्यादुपनायनवच्च हि ॥ १ मवात्रतं द्वितीये तु भवेत्तत्पूर्ववञ्च हि । संपूर्णे च तृतीयेऽब्दे तथा चोपनिषद्ब्रतम् ॥२ मासे पूर्णे तथा कुर्यात्क्रमाचैतद्व्रतत्रयम् । कुर्यात्परिददाम्यात (म्यन्त) मुपनायनहोमवत् ॥३ चर्वाहुतित्रयं हुत्वा जुहुयात्तिलमिश्रितम् । अनुप्रवचनीयोक्ता देवताश्च ततः स्मृताः ॥४ महानाम्नीभ्यः स्वाहेति सावित्र्या स्नानमिष्यते । महाव्रताय चाथोपनिषदे तत्र तत्र तु ॥५ वस्त्रादीनि तथाऽन्यत्र दत्वा चाऽऽज्याहुतीरथ । चर्वाहुतित्रयं हुत्वा मौञ्जीं दण्डं च धारयेत् ॥६ ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् । विदामघवनाथान्त (?) इत्यारम्भे जपेदथ ॥७ नत्वा गुरुमथाऽऽदित्यमीक्षयेद्ब्रह्मचार्यथ । उक्तत्वाऽऽचार्यमधीहीति भोजयेच्छक्तितो द्विजान् ॥८

इत्याश्वलायनस्मृतौ महानाम्न्यादित्रतत्रय [ प्रकरण] म् ॥

ऽध्यायः ]

उपाकर्मप्रकरणवर्णनम् । [

[[१७२५]]

॥ द्वादशोऽध्यायः ॥

अथोपाकमप्रकरणम् ।

श्रवणे स्यादुपाकर्म हस्ते वा श्रावणस्य तु । नो चेाद्रपदे वाऽपि कुर्याच्छिष्यैर्गुरुः सह ॥ १ प्रहदोषादुपाकर्म प्रथमं न भवेद्यदि ।

उक्तकालेऽथ वाऽऽषाढे कुर्याच्छरदि वाऽपि वा ॥२ अकाले मैव तत्कुर्यादुपाकर्म कथंचन । अकृत्वा नोद्वहेत्कन्यां मोहाचेत्पतितो भवेत ॥13 अनारभ्योक्तकाले च वेदान्कन्यां य उद्वहेत् । नूतनो ब्रह्मचारी स्यात्सर्वकर्मवहिष्कृतः ॥४ स्नात्वा नित्यक्रियां कुर्यादृषश्चैव समर्चयेत् । उपाकर्मणि चोत्सर्गे गौतमादींश्च सप्त वै ॥५ आयसंस्कारपर्यन्तमुप लेपादि पूर्ववत् । सक्तंस्तेनाथ संकुर्यात्स्थालीस्थान्दधिसंयुतान् ॥६

॥६

त्रिः प्रोक्ष्य स्थापयेत्स्थालीं बर्हिष्याज्यस्य दक्षिणे । कुर्यादग्निमलंकृत्य चक्षुष्यन्तं च पूर्ववत् ॥७

सावित्र्यादीन्दशाऽऽज्येन जुहुयादाहुतीरथ । केचिद्यज्ञोपवीतस्य होममिच्छन्ति चात्र हि ॥८ उत्सर्गेऽप्येवमेवं स्याद्बह्वृचानामयं विधिः ।

ततः स्विष्टकृतं हुत्वा दधिसक्तुभिरेव च ॥६

[[१७२६]]

लध्वाश्वलायनस्मृतिः ।

प्राशयेद्दधिसक्तंश्च गुरुः शिष्यान्समाशयेत् । दानं यज्ञोपवीतस्य धारणं च विधीयते ॥ १० ब्रह्मचारी च मौञ्जीवद्धारयेदजिनादिकम् । निषिच्यापः शरावे तु अभिमार्जनमुच्यते ॥११

प्रणवेन च वै सर्वे कुर्युस्ते दर्भपाणयः । विधिनाऽनेन तां ब्रूयादादावों भूर्भुवः स्वरोम् ॥१२ त्रिवारं चैव सावित्रीं पादमर्धमृचं क्रमात् । अग्निमील इदं सूक्तं वाचयेद्ब्रह्मचारिणम् ॥१३ क्रमेण संहितारण्यं ब्राह्मणं सूत्रमेव च । याजुषं साम चाथवंमङ्गानि च यथाक्रमम् ॥१४ अध्यापयित्वा रुद्रादिहोमशेषं समापयेत् । ततश्चाभ्यासयेद्वेदं स्वाध्याये ब्रह्मचारिणम् ॥ १५ तत आरभ्य षण्मासं गुरुसेवान्तरं च हि [?] । उपनीतोऽभ्यसेद्वेदं यथाश्रुत्युक्तमार्गतः ॥ १६

नियमेन च षण्मासमृग्वेदादिकमेव हि ॥ १७

इत्याश्वलायनस्मृतावुपाकर्म [ प्रकरण ]म् ।

[ द्वादशो-

ऽध्यायः ]

उत्सजनप्रकरणवर्णनम् ।

[[१७२७]]

॥ त्रयोदशोऽध्यायः ॥

अथोत्सर्जनप्रकरणम् ।

उत्सगं च द्विजः कुर्यात्षण्मास इदमादितः ।

दाढयथं (दीर्घार्थ) च हितं चैतदधीतानां च छन्दसाम् ॥१ पुष्पे चैवोपलेपादि कृत्वा चोत्पवनावधि । संस्कृत्य सक्तुवञ्चान्नं चक्षुष्यन्तं च पूर्ववत् ॥२ सप्त चाऽऽज्याहुती हुत्वा सक्तस्थाने हुनेच्चरुम् । हुत्वा स्विष्टकृतं चैव अभिघायं यथाविधि ॥ ३ कर्मोत्सर्गे भवेत्सर्वमुपाकरणवच हि ।

प्रतिवर्ष द्विजैः कार्य प्राशनं मार्जनं विना ॥४ तपेयेद्देवताः सर्वाः सावित्र्यादि य (दीर्य ) था क्रमम । अत्र चैवापि सर्वेऽपि ब्रह्मयज्ञाङ्गदेवताः ॥५ जुहुयाद्रुद्रभागादीन्होमशेषं समापयेत् ।

विशेषं चाऽऽहुराचार्याः केचिद्यज्ञविदो विदुः ॥६ उपाकर्मणि चोत्सर्गे पुनश्चापि यथाविधि ।

नैत्यकं तर्पणं कृत्वा ब्रह्मयज्ञपुरःसरम् ॥७

इत्याश्वलायनस्मृतावुत्सर्जन [ प्रकरण] म् ।

[[१७२८]]

लघ्वाश्वलायनस्मृतिः ।

[ चतुर्दशो-

॥ चतुर्दशोऽध्यायः ॥

अथ गोदानादित्रयप्रकरणवर्णनम् ।

गोदानं षोडशे वर्षे कुर्यात्तदुद्गायने । केचिद्विवाहकाले च शुभ मासि वदन्ति हि ॥१ कृत्वाऽऽभ्युदयिकं श्राद्धमुपलेपेन पूर्ववत् । विधायोपरि समिधमन्वाधानादिकं च हि ॥२ चौलोक्ताज्याहुतीहुत्वा चौलवच्छ्मश्रुवापनम् । स्नापयेद्वाससी दद्याद्युवं वस्त्राणि मन्त्रतः ॥३ अञ्जनं कुण्डलादीनि दण्डान्तानि च धारयेत् । आयुष्यमिति वै सूक्तं पठन्गच्छेच्छिवालयम् ॥४ पुनरागत्य संतिष्ठदाधाय समिधं च ताम् । स्मृतमित्यादिकान्मन्त्राञ्जपित्वा प्रक्षिपेत्स्वयम् ॥५ कृत्वा तु स्नातकः पश्येत्समावर्तनकं भवेत् । ममाग्ने प्रत्यृचं हुत्वा समिधश्च दश स्वयम् ॥६ स्पृष्टा पादौ नमस्कुर्याद्गुरोर्दत्त्वेति तत्फलम् । न नक्तमिति चानुज्ञालब्धस्तेन यथोदितम् ॥७ ततः स्विष्टकृतं कृत्वा होमशेषं समापयेत् । लभेदाज्ञां विवाहार्थं गुरुर्निर्मुच्य मेखलाम् ॥८ समावृत्तस्य वे मौली होमान्ते चैव बहूवृचः । उदुत्तमं मुमुग्धीति मन्त्रेणानेन मोचयेत् ॥६

इत्याश्वलायनस्मृतौ गोदानादित्रय [ प्रकरण ] म् ।

ऽध्यायः ]

विवाहप्रकरणवणनम् ।

[[१७२६]]

॥ अथ पञ्चदशोऽध्यायः ॥

अथ विवाहप्रकरणम् ।

सर्वेषामाश्रमाणां च गृहस्थाश्रम उत्तमः । तमेवाऽऽश्रित्य जीवन्ति सर्वे चैवाऽऽश्रमा इह ॥१

कुलजां सुमुखी स्वा(स्व) ङ्गीं सुवासां च मनोहरम् । सुनेत्रां सुभगां कन्यां निरीक्ष्य वरयेद्बुधः ॥२ स्नातकाय सुशीलाय कुलोत्तमभवाय च । दद्याद्वेदविदे कन्यामुचिताय वराय च ॥३ आचार्यः स्नातकादीनां मधुपर्कार्चनं चरेत् । स्वगृह्येोक्तविधानेन विवाहे च महामखे ॥४ मधुनाऽऽज्येन वा युक्तं मधुपर्काभिधं दधि । दध्यलाभे पयो ग्राह्यं मध्वलाभे तु वै गुडः ॥५ निदध्यात्तं नवे कांस्ये तस्योपरि पिधाय च । वेष्टयेद्विष्टरेणैव मधुपकं तदुच्यते ॥६ प्राणानायम्य संकल्प्य विष्टराद्यर्चनं भवेत् । त्रित्रिन यादहं वर्ष्म मन्त्रेणानेन विष्टरम् ॥७ पाद्यमध्यें तथा दत्त्वा दद्यादाचमनीयकम् । पिवेज्जलं चामृतोपस्तरणमसीति मन्त्रतः ॥८ आच (चा) मेन्मधुपर्कोऽयं मित्रस्येति निरीक्षयेत् । देवस्य त्वेति तद्दद्यादञ्जलौ प्रतिगृह्य च ॥

[[१७३०]]

लघ्वाश्वलायनस्मृतिः ।

[ पञ्चदशो-

तदवेक्ष्य करे सव्ये धृत्वा मन्त्रं जपेन्मधु । अङ्गुष्ठानामिकाभ्यां त्रिस्तदेवाऽऽलोडयेद्वरः ॥ १० मधुपकं क्षिपेत्किंचिद्वसवस्त्वेति पूर्वतः । भूतेभ्यस्त्वोत्क्षिपेन्त्रिस्तं निदध्याद्भुवि भाजनम् ॥११ कर्ताऽऽदाय सकृद्धस्ते मधुपर्क वरस्य च । जपेदथविराजोऽथ प्राशयेत्पुनराचमेत् ॥१२ पूर्ववच्च विधानं स्यान्मन्त्रोऽन्यः प्राशने भवेत् । उक्तं सूत्रे विजानीयात्तृतीये प्राशने तथा ॥ १३ बत्तराचमनं पीत्वा सत्यमित्युदकं पिबेत् । द्विराचम्योत्सृजन्माता रुद्राणां मन्त्रतो वरः ॥१४ ततः कर्ताऽर्चयेदेनं गन्धपुष्पाक्षतादिभिः । वराय वाससी दद्यादुपवीतादिकं च हि ॥१५ वरयेच्चतुरो विप्रान्कन्यकावरणाय च । कन्यासमीपमागत्य विप्रगोत्रपुरः सरम् ॥१६ नाम ब्रूयुर्वरस्याथ प्रपितामहपूर्वकम् । प्रपौत्रपौत्रपुत्रेषु चतुर्थ्यन्तं वराय च ॥१७ गोत्रे चैवाथ संबन्धे षष्ठी स्याद्वरकन्ययोः । वरे चतुर्थी कन्यायां विभक्तिर्द्वितीयैव हि ॥१८ श्रावयेयुः प्रसुग्मन्तासूक्तं कन्यां कनिक्रदत् । देवीमृचं पठन्तश्च नयेयुस्ते हि वै वरम् ॥१६ प्राङ्मुखी कन्यका तिष्ठेद्वरः प्रत्यङ्मुखस्तथा । वस्त्रान्तरं तयोः कृत्वा मध्ये तु वरकन्ययोः ॥२०ऽध्यायः ]

विवाहविधिवणनम् ।

परस्परमुखं पश्यन्मुहूर्ते चाक्षतान्क्षिपेत् ।

वरमूर्ध्नाति कन्याऽऽदौ कन्यामूर्ध्नि वरस्तथा ॥ २१ गाथामिमां पठेयुस्ते ब्राह्मणा ऋक्च वा इदम् । क्षिपेयुस्तेऽक्षतान्विप्राः शिरसोरुभयोरपि ॥ २२ तिष्ठेत्प्रत्यङ्मुखी कन्या प्राङ्मुखः स्याद्वरस्तथा । मन्त्रेणानृक्षराश्चव भवेत्स्थानविपर्ययः ॥२३ अक्षतारोपणं कुर्यात्पूर्ववश्चैव कन्यका ।

श्रियो मे कन्यका ब्रूयात्प्रजाय स्याद्वरस्तथा ॥२४ त्रिवारमेवं कृत्वा तु कन्यां दद्यात्ततः पिता । शिष्टाचारानुसारेण वदन्त्येके महर्षयः ॥ २५ लक्ष्मीरूपामिमां कन्यां प्रददे द्वि(विष्णुरूपिणे । तुभ्यं चोदकपूर्वा तां पितॄणां तारणाय च ॥ २३ वरगोत्रं समच्चार्य कन्यायाश्चैव पूववत् ।

एषा धर्मार्थकामेषु न त्याज्या स्वीकृता ह्यतः ॥२७ दाता वदेदिमं मन्त्रं कन्या तारयतु स्वयम् । अक्षतारोपणं काय मन्त्र उक्तो महर्षिभिः ॥ २८ इहापि पूर्ववत्कुर्यादक्षतारोपणं सकृत् । यज्ञो मे कन्यकामन्त्रः पशवो मे वरस्य च ॥ २६ ईशानकोणतः सूत्रे वेष्टयेत्पञ्चधा तयोः । परि स्वेत्यादिभिर्मन्त्रैः कुर्यात्तच्च चतुर्गुणम् ॥३० रक्षाथ दक्षिणे हस्ते बध्नीयात्कङ्कणे तयोः ।

[[१७३१]]

विश्वेत्ता साविकं [ तेतिवै, पुंसः कन्यायास्तद्धवीतथा [१] ॥३१

[[१०६]]

[[१७३२]]

लघ्वाश्वलायनस्मृतिः ।

[ पञ्चदशो-

कन्यायै वाससी दद्याद्युवमित्यनया वरः । तयोरुभे ते बध्नीयान्नीललोहितमित्यृचा ॥३२ बध्नीयात्कन्यकाकण्ठे सूत्रं मणिसमन्वितम् । माङ्गल्यतन्तुनाऽनेन मन्त्रेण स्यात्सदा सती ॥३३ पुण्याहं स्वस्ति वृद्धिं च त्रिस्त्रियाद्वरम्य च । अनाधृष्टमुभौ मन्त्रावापो ह्यानः प्रजां तथा ॥ ३४ नमस्कुर्यात्ततो गौरी सदा मङ्गलदायिनीम् । तेन सा निर्मला लोके भवेत्सौभाग्यदायिनी ॥३५ दंपती तु व्रजेयातां होमार्थ चैव वेदिकाम् । वरम्य दक्षिणे भागे तां वधूमुपवेशयेत् ॥३६ आघारान्तं ततः कुर्यादुपलेपादि पूर्ववत् । सूत्रोक्तविधिना कर्म सर्वं कुर्यात्तु चैव हि ॥ ३७ अग्न आयंषि तिस्रोऽत्रत्वमर्यमा प्रजापते । हुत्वा त्वाज्याहुतीरेवं सूत्रोक्तं पाणिपीडनम् ॥३८ वरस्त्रिः प्रोक्ष येल्ला जाञ्छूर्प स्थानभिघारयेत् । अभिघार्याञ्जलिं तस्याः पूरयित्वाऽभिघारयेत् ॥३६ अञ्जलीन्पूरयेद्धृत्वा लाजान्वध्वा विवाहिके । विछिन्नवह्निसंघाने पतिर्लाजाद्विरावपेत् ॥४० हुत्वा लाजांस्तथा होमं हुत्वा कुर्यात्प्रदक्षिणम् । सोदकुम्भम्य चैवाग्नेरश्मानमवरोहयेत् ॥४१ विधिरेष विवाहस्य प्रत्याहुतिप्रदक्षिणम् । मन्त्रोऽर्यमणं वरुणं पूषणं लाजहोमके ॥४२

ऽध्यायः ]

विवाहहोमविधिवर्णनम् ।

अवशिष्टान्वरो लाजाञ्छूर्पकोणेन चैव हि । अभ्यात्मं जुहुयायात्तूष्णीमिति यज्ञविदां मतम् ॥४३ यदि वद्ध े शिवे स्यातां कन्यकावरयोरपि । प्रत्यचं च शिखं बद्ध्वा तूष्णीं वरस्य मोचयेत् ॥४४ इष इत्यादिभिर्मन्त्रौरीशान्यां चालयेद्वधम् । गत्वा पदानि सप्ताथ संयोज्य शिरसी च ते ॥ ४५ कुम्भस्य सलिलं सिन्चेदुभयोः शिरसोः स्वयम । सौभाग्यजननी देवीं स्मृत्वा दाक्षायणीं शिवाम् ॥४६ ततः स्विकृदादि स्याद्धोमशेषं समापयेत् । अहः शेषं च तिष्ठेतां मौनेनैव तु दंपती ॥४७ ध्रुवं चारुन्धतीं दृष्ट्रा विसृजेतामुभौ वचः ।

पतिपुत्रवती चाऽऽशीस्तयोदद्याद्यथोचितम् ॥४८ अनेन विधिनोत्पन्नो विवाहाग्निरिति स्मृतः । स एव स्यादजस्राख्य इति यज्ञविदो विदुः ॥ ४६ ॥४६ दिवा वा यदि वा रात्रौ कन्यादानं विधीयते । तदानीमेव होमं तु कुर्याद्वैवाहिकं च हि ॥५०

इति विवाहहोमविधि वर्णनम् ।

[[१७३३]]

[[१७३४]]

लघ्वाश्वलायनस्मृतिः ।

[ पञ्चदशो-

वध्वा सह गृहं गच्छेदादायाग्निं तमग्रतः ।

सूत्रोक्तविधिना चेह प्रियामूढां प्रवेशयेत् ॥ ५१ प्रतिष्ठाप्यानलं कुर्याच्चक्षुष्यन्तं च पूर्ववत् । ऋग्भिश्च जुहुयादाज्यमानः प्रजां चतसृभिः ॥ ५२ समञ्जन्त्वेतया प्राश्य दधि तस्यै प्रयच्छति । अनक्ति हृदये तस्या दध्नाऽलाभे घृतं च तत् ॥ ५३ मन्त्रलोपादि होमान्तं कृत्वा स्विष्टकृदादिकम् । हुत्वा व्याहृतिभिचात्र पत्नीं वामे समानयेत् ॥५४ नवोढामानयेत्पत्नी वामं वामं त इत्युचा । वाममद्येत्यृचा चैके ततः पूर्णमसीति च ॥५५ यदि कालवशात्कर्तुं पृथग्घोमद्वयं न चेत् । द्वयमप्येककाले वा कर्तव्यं कर्म केचन ॥५६ कुम्भस्य जलसिक्तान्तं कृत्वा सर्वं तदादितः । प्रत्यृचं जुहुयादाज्यमानः प्रजां चतसृभिः ॥५७ समञ्जन्त्विति चाऽऽरभ्य सर्व पूर्ववदाचरेत् । स्वस्थानीयवधूं वामे पूर्णमस्यादिकं चरेत् ॥ ५८ रात्रावहनि वा दानं कन्यायाः स्वीकृतं यदा । तदानीमेव होमः स्याद्विवाहस्य च सिद्धये ॥ ५६ यावत्सप्तपदीमध्ये विवाहो नैव सिध्यति ।

सद्योऽतो होममिच्छन्ति सन्तः सायमुपासनम् ॥६० विवाहश्वेद्भवेद्रात्रौ सार्धयामद्वयादधः ।

तदैवोपासनं कुर्यात्केचिद्गृह्यविदो विदुः ॥ ६१

ऽध्यायः ]

विवाहविधिवर्णनम् ।

नित्यहोमे तु कालः स्याद्रात्रौ नाडीनवात्मकः ।

द्विगुणः स्याद्विवाहे तु प्रवदन्ति महर्षयः ॥६२ दंपती नियमेनव ब्रह्मचर्यत्रतेन तु । वैवाहिकगृहे तौ च निवसेतां चतुर्दिनम् ॥६३ चतुर्थी (थ) त्रिदिव (न) स्यान्ते यामे वा चैव दंपती । उमामहेश्वरौ नत्वा वंशदानं प्रदापयेत् ॥ ६४ भोजनं शयनं स्नानं तथैकत्रोपवेशनम् । गृहप्रवेशपर्यन्तं दंपत्योर्मुनयो विदुः ॥६५ वध्वा सह वरो गच्छेत्स्वगृहं पञ्चमे दिने । गृह्येोक्तविधिना चैव देशधर्मेण वाऽपि च ॥ ६६ नान्दीश्राद्ध’ द्विजः कुर्यात्स्वस्तिवाचनपूर्वकम् । गृहप्रवेशमारभ्य पितर्यपि च जीवति ॥ ६७ स जीवत्पितृको नान्दीश्राद्ध चेत्कुरुते द्विजः । पितुश्चैव पितॄणां तु प्रवदन्ति महर्षयः ॥ ६८ प्रथमोद्वाहपर्यन्तं पुत्रस्यैव क्रियासु च ।

नान्दीश्राद्ध पिता कुर्यादत ऊर्ध्वं सुतः स्वयम् ॥६६ चत्वारो ब्राह्मणा दैवे पित्र्ये चाष्टादश स्मृताः । नान्दीश्राद्ध वदन्त्येके मुनयः पञ्च वाऽपि च ॥ ७० विवाहे चोपनयने गर्भाधानादिके तथा । अन्वाधाने शतं विप्रान्भोजयेद्दक्षिणान्वितान् ॥७१ विवाहोत्सवयज्ञेषु दैवे पित्र्ये च कर्मणि । प्रारब्धे सूतकं नास्ति प्रवदन्ति महर्षयः ॥७२

[[१७३५]]

[[१७३६]]

लध्वाश्वलायनस्मृतिः ।

[ पञ्चदशो-

प्रारम्भ कर्मणश्चैव क्रियाप्रारम्भकस्य च ।

क्रियावसानपर्यन्तं न तस्याऽऽशौचमिध्यते ॥७३ प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नान्दीश्राद्ध विवाहादौ श्राद्ध पाकपरिक्रिया ॥७४ नान्दीश्राद्ध कृते चैव विवाहे चोत्सवादिषु । न कुर्यादुपवासं च छन्दसां वै तपोव्रतम् ॥७५ अपसव्यं स्वधाश्राद्धं नदीस्नानं शवेक्षणम् । वर्जयेत्तर्पणं चैव देवकोत्थापनावधि ॥७६ नान्दीश्राद्ध कृते मोहाच्छाद्धं प्रत्यादिकादिकम् । सपिण्डः कुरुते यश्चेदपमृत्युं व्रजेद्भ्रुवम् ॥७७ अलाभे सुमुहूर्तस्य विघ्नं यः कुरुते यदि । स्वधया तु विवाहस्य न स पश्येच्छुभं कचित् ॥ ७८ विघ्नमाचरते यस्तु यज्ञस्योद्वाहकस्य च ।

यात्रायाश्चैव धर्मस्य स याति नरकं ध्रुवम् ॥७६ ऊढाया दुहितुश्चान्नं नाद्याद्विप्रः कथंचन । अज्ञानाद्यदि भुञ्जीत नरकं प्रतिपद्यते ॥ ८०

इत्याश्वलायनस्मृतौ विवाहप्रकरणम् ।

Sध्यायः ]

पत्नीकुमारोपवेशनप्रकरणवर्णनम् । १७३७

॥ षोडशोऽध्यायः ॥

अथ पत्नीकुमारोपवेशनप्रकरणम् ।

संस्कार्यः पुरुषो वाऽपि स्त्री वा दक्षिणतो भवेत् । संस्कारकस्तु सर्वत्र तिष्ठेदुत्तरतः सदा ॥१ धर्मकार्येषु सर्वेषु व्रतोद्यापनशान्तिषु ।

वामे स्त्री दक्षिणे कर्ता स्थालीपाके तथैव च ॥२ मार्जने चाभिषेके च कन्यापुत्र विवाह के । आशीर्वचनकाले च पत्नी स्यादुत्तरे सदा ॥३ विच्छिन्नवह्निसंधाने कन्यादाने वरार्चने 1 नवोढाप्रवेशे पत्नी दक्षिणे स्वयमुत्तरे ॥४ आरभ्याऽऽधानकं कर्म यावन्मौञ्जीनिबन्धनम । कर्ता स्यादुत्तरे तावत्पत्नी पुत्रस्य दक्षिणे ॥५ पत्नीं विना न तत्कुर्यात्संस्कारं कर्म यच्छिशोः । पत्न्यां चैव तु जीवन्त्यां विधिरेष उदाहृतः ॥६ इत्याश्वलायनस्मृतौ पत्नीकुमारोपवेशन [ प्रकरण] म् ।

॥५

॥ सप्तदशोऽध्यायः ॥

अथाधिकारिनियमप्रकरणम् ।

सुतसंस्कारकर्माणि पिता कुर्यात्सभार्यकः ।

तद्भावेऽधिकारी च कुर्यादेव स चापि हि ॥ १

[[१७३८]]

लध्वाश्वलायनस्मृतिः ।

॥२

[ अष्टादशो-

पिता यस्य मृतश्चेत्स्यादधिकारी पितामहः । तदभावे तु वै भ्राता पितृव्यो गोत्रजो गुरुः ॥२ व्रतबन्धे विवाहे च कन्यायाश्चापि व तथा । सपत्नीको वाऽपत्नीकः सोऽधिकारी भवेदिह ॥३ संस्कार्यस्य च वै यस्य यदि माता विपद्यते । पत्नीं विनेति नियमः सद्भिश्चैवात्र नोच्यते ॥४ गृहस्थो ब्रह्मचारी वा योऽधिकारी स एव हि । संस्कुर्यादथ वा (तत्र) ब्राह्मणो ब्रह्मसंभवम् ॥५

इत्याश्वलायनस्मृताधिकारिनियम [प्रकरण] म् ।

॥ अष्टादशोऽध्यायः ॥

अथ नान्दीश्राद्ध पितृप्रकरणम् ।

अथ नान्दीश्राद्धपूर्वक कर्माण्याह ।

आधाने पुंसि सीमन्ते जातनामनि निष्क्रमे । अन्नप्राशनके चौले तथा चैवोपनायने ॥१ ततश्चैव महानाम्नि तथैव च महाव्रते । अथोपनिषद्गोदाने समावर्तनकेषु च ॥२ विवाहे नियतं नान्दीश्राद्धमेतेषु शस्यते । प्रवेशं च नवोढायाः स्वस्तिवाचनपूर्वकम् ॥३

ऽध्यायः ]

विवाहहोमोपरिवर्ज्येप्रकरणवर्णनम् । १७३६

अन्यान्यत्र वदन्त्येके नान्दीश्राद्ध महर्षयः । यागे च प्रथमे वेदस्वीकारे च महामखे ॥४ मातृवर्गादितः कुर्यात्पितुर्मातामहस्य च । नवैते पितरो वृद्धिश्राद्ध सद्भिरुदीरितम् ॥५ कन्यादाने च वृद्धौ च प्रपितामहपूर्वकम् । नाम संकीर्तयेद्विद्वांस्तच्चावरोहणं (ण) क्रमात् ॥६ इति नान्दीश्राद्ध पितरः [तृप्रकरणम् ] ।

॥ एकोनविंशोऽध्यायः ॥

अथ विवाहहोमोपरिवज्यप्रकरणम् ।

नान्दीश्राद्ध कृते यावद्देवकोत्थापनं भवेत् । ब्रह्मयज्ञश्च वै श्राद्धं वेदाध्ययनमेव च ॥ १

शवेक्षणं स्वधाकारं श्मश्रु केश निकृन्तनम् । सीमातिक्रमणं चैव श्राद्धभोजनमेव च ॥ २

न कुर्याच्छुभकर्ता च सपिण्डा अपि चैव हि । यस्तु वै कुरुते मोहादशुभं स च वै लभेत् ॥३

विवाहे चोपनयने कृते चौले सुतस्य च ।

त्यजेत्पिण्डतिलाछाद्ध करकं चाब्दमध्यतः ॥४

[[१७४०]]

लध्वाश्वलायनस्मृतिः ।

मातापित्रोमृताहे च गया श्राद्ध महालये ।

दद्यात्पिण्डान्कृतोद्वाहः श्राद्ध ष्वन्येषु वर्जयेत् ॥५

नान्दीश्राद्ध कृते विप्रस्तथाचैव तु पैतृके ।

प्रेतत्पिण्डे प्रदत्ते तु नैव कुर्यादुपोषणम् ॥६

इति विवाहहोमोपरिवर्ज्या प्रकरण ]म् ।

विशो-

॥ अथ विंशोऽध्यायः ॥

अथ प्रेतकर्मविधिप्रकरणम

प्रेतक मौरसः पुत्रः पित्रोः कुर्याद्यथाविधि । तदभावेऽधिकारी स्यात्सपिण्डोवाऽन्य गोत्रजः ॥ १ याम्ये चैव तु विप्रस्यः शिरः कृत्वा मृतस्य च । प्राच्यां वाऽथ दहेदेष विधिः स्याद्बह्वृचस्य तु ॥ दहनादि सपिण्डान्तं कुर्याज्ज्येष्ठोऽनुजैः सह । ज्येष्ठश्वत्संनिधौ न स्यात्कुर्यात्तदनुजोऽपि वा ॥३ ईषद्वस्त्रावृतं प्रेतं शिखासूत्रसमन्वितम् । दहेन्मत्रविधानेन नैव नग्नं कदाचन ॥४ प्रथमेऽहनि कर्ता स्याद्यो दद्यादग्निमौरसः ।

सर्वं कुर्यात्सपिण्डान्तं नान्योऽन्यं द (यह )हनं विना ॥५ऽध्यायः ]

प्रेतकर्मविधिवर्णनम् ।

स्वगोत्रो वाऽन्यगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥६ ॥६

अपुत्रश्चेन्मृतस्यै (च) वं विधिरुक्तो महर्षयः ।

दाहं पुत्रवतः कुर्यात्पुत्रः स्या (चे) त्संनिधौ भवेत् ॥७ पुत्रं विनाऽग्निदोऽन्यश्चेदसगोत्रो यदा भवेत् । कुर्याद्दशाहमाशौचं स चापि हि सपिण्डवत् ॥८ पुत्राभावेऽग्निदः कुर्यात्सकलं प्रेतकर्म च । तस्मापुत्रवतोऽन्यश्चेद्विना दाहाग्निसंचयम् ॥ अस्थिसंचयनादवग्ज्येष्ठश्चेदागतः सुतः ।

वासो धृत्वाऽऽदितः कर्म ज्येष्ठः कुर्याद्यथाविधि ॥ १० अस्थिसंचयनादृध्वं ज्येष्ठश्चैवाऽऽतगतोऽपि चेत् । कुर्यादग्निप्रदः पुत्रो दशाहान्तं स कर्म च ॥ ११ संस्कृतस्यानुमन्त्रेण येन केनापि चैव हि ।

[[१७४१]]

संस्कुर्याच्च पुनः प्रेतं तिलाल्लाजा [जल्या]दिकं चरेत् ॥ १२

नवश्राद्धानि वै पञ्च विपमाहेषु पञ्चसु । दशाहाभ्यन्तरे कुर्युर्वह्वृचाश्चैव याजुषाः ॥१३ अतीतानञ्जलीन्पिण्डान्दत्त्वा चैव तदादितः ।

॥१२

अथ वाऽद्याह्निकं सर्वं ज्येष्ठः कुर्याद्यथाविधि ॥१४ क्रियमाणे सुते पित्रोः प्रेतकर्माणि दूरतः । दशाहाभ्यन्तरे पुत्रस्तथाऽन्यत्र स्थितो यदि ॥१५ श्रुतस्थाने सुतः कुर्यात्सकलं प्रेतकर्म च ।

षोडशं च सपिण्डं च दहनास्थिक्रियां विना ॥१६

[[१७४२]]

लध्वाश्वलायनस्मृतिः ।

नैव तत्र शवोत्पत्तिर्दर्भग्रन्थिर्विधीयते । तस्यामेवाञ्जलिं दद्याद्दशाहान्तं यथाविधि ॥१७ दग्धस्य विधिना चान्तदशाहानि कृतानि चेत् । प्रेतकर्माण्यथैकस्मिन्कुर्यात्सर्वाणि वै दिने ॥ १८ समाप्य तु दशाहान्तं सकलं प्रेतकर्म च । अपरेद्युस्ततः कुर्यात्पोडशं च सपिण्डनम् ॥१६ पुत्रः पौत्रः प्रपौत्रः स्त्री भ्राता तज्जश्च दत्तकः । प्रेतकार्येऽधिकारी स्यात्पूर्वाभावेऽथ गोत्रजः ॥२० कृत्वाssदौ वपनं स्नानं शुद्धाम्बरधरः शुचिः । धृत्वा चैवाऽऽदिकं [ मं] वासः प्रेतकार्यं समाचरेत् ॥ २१ प्रेतकम द्विजः कुर्याद्गोत्रनामपुरःसरम् । बहुवृचो विधिनाऽनेन तत्तन्मत्रेण चैव हि ॥२२ मौञ्जीबन्धनकाले च व्रताचरणकर्मसु ।

यज्ञे च मरणे पित्रोर्गयायां क्षौरमिष्यते ॥२३ सपिण्डमरणे चव पुत्रजन्मनि वै तथा । स्नानं नैमित्तिकं शस्तं प्रवदन्ति महर्षयः ॥२४ सपिण्डमरणे स्नायादुदक्या च प्रसूतिकाम् । इत्युक्तो मुनिभिश्चैव सर्ववर्णेष्वयं विधिः ॥२५ कस्यापि मुक्तिः प्रेतत्वाद्वृपोत्सगँ विना न हि । स्त्रीणां चैव वृषोत्सगं कुर्यादेकादशेऽहनि ॥२६ वृषोत्सर्गं विना प्रेतः पिशाचत्वान्न मुच्यते । पुमांश्चाप्यथ वा नारी विधवा सधवाऽपि वा ॥२७

विंशो-

ऽध्यायः ]

प्रेतकर्मविधिवर्णनम् ।

एकोद्दिष्टविधानेन कुर्याच्छ्राद्धानि पोडश । ततो रुद्रगणाख्यानि वस्वाख्यानि तथैव च ॥ २८ धर्माख्यं चैव पत्रिंशच्छाद्धान्येकादशेऽहनि । कुर्याद्विधिवदेतानि द्वादशाहे सपिण्डनम् ॥३६ यावन्न क्रियते पित्रोदाहादि प्रेतक्रम च । संध्यामात्रं विना कर्म नान्यत्कुर्यात्कदाचन ॥३० ऊर्ध्वमेतद्दशाहाच्चेत्पितुः स्याद्दहनं यदि ।

दहनाहस्तदारभ्य पुत्राणां दशरात्रकम् ॥३१ विना पुत्रवतोऽन्येषाभाशौचं त्रिदिनं भवेत् । प्राग्न्यादीनां तु नैव स्यात्कर्तुः स्याद्ग्राहिणोऽपि च । पितृत्वं च प्रयातस्य श्रूयते मरणं पितुः । श्रवणादिदशाहं स्यादाशौचं मुनयो विदुः ॥३३ सपिण्डीकरणं पित्रोर्भवेत्कालान्तरेऽपि चेत् । अतीतान्यपि वै कुर्यान्मासिकानि यथाविधि ॥ ३४ कालप्राप्तानि चान्यानि कुर्यात्प्रथमवत्सरे । न कुयाद्वत्सरादूर्ध्वं प्रवदन्ति महर्षयः ॥ ३५ प्रपितामहपर्यन्तं प्रेतस्यैव सुतादयः । सपिण्डीकरणं कुर्युस्तदृध्वं न हि सर्वथा ॥३६ पितुः सपिण्डनं कुर्यात्त्रिभिः पितामहादिभिः । तदेव हि भवेच्छस्तं प्रवदन्ति मनीषिणः ॥ ३७ पिता विपद्यते चैव विद्यमाने पितामहे ।

तत्र देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः ॥३८

१७४३.

[[९७४४]]

लघ्वाश्वलायनम्मृतिः ।

[विंशो-

पिण्डौ दत्त्वा तु द्वावेव पितुः पितामहस्य च । ततस्तु तपितुश्चकं प्रेतस्यैकं विधीयते ॥ ३६ त्रयाणामपि पिण्डानामेकेमापि सपिण्डने । पितृत्वमश्नुते प्रेत इति धर्मो व्यवस्थितः ॥४० पितामहस्तथा वाऽपि विद्यते प्रपितामहः । तृतीयस्यैव ते देयास्त्रयः पिण्डाः सपिण्डने ॥४१ प्रेतश्च पितरश्चैव विद्यन्तेऽपि त्रयो यदि । षोडशश्राद्धपर्यन्तं कुर्यात्सर्वं यथाविधि ॥४२ पितॄणां मध्य एकश्चेन्प्रियते चेत्सपिण्डनम् [?] । सह कुर्यात्तदा ( ये ) न नान्यथा मुनयो विदुः ॥४३ सपिण्डीकरणं न स्याद्यानोपनयादिकम् । अब्दादृष्वं न दुष्येत केचिदाहु तुत्र्यात् ॥४४ निषेधो मुनिभिः प्रोक्तः सपिण्डानयनं च हि । चौलोपनयनादौ चेन्नाधिकारः सुतस्य च ॥४५ यथा पितुस्तथा मातुः सपिण्डीकरणे विधिः । स यथा स्यादपुत्रायाः पत्या सह सपिण्डने ॥४६ पुत्रेषु विद्यमानेषु दूरतः प्रेतसत्क्रियाम् । असपिण्डः सपिण्डो वा न कुर्याद्दहनं विना ॥४७ जीवत्स्वेव हि पुत्रेषु प्रेतश्राद्धानि यानि च । स्नेहेन वाऽर्थलाभेन कुरुतेऽन्यो वृथा भवेत् ॥४८ येन केदापि पुत्रेण कृतं चेदौरसं [सो] न चेत् । सपिण्डीकरणे चव शस्तं स्यान्मुनयो विदुः ॥४६

ऽध्यायः ]

प्रेतकर्मविधिवर्णनम् ।

पितुः पुत्रेण चैकेन पिण्डसंयोजने कृते ।

पुनः संयोजनं तस्य न कुर्याद्दूरगः सुतः ॥५० येन केन विना पुत्रं प्रेतकर्म कृतं यदि । पुत्रः कुर्यात्पुनः सर्वं विना दाहास्थिसंचयम् ॥५१ चाण्डालेन हतो विप्रः षडव्देनैव शुध्यति । यदि तेन शवं स्पृष्टं तदर्धेनैव शुध्यति ॥५२ शवं चैव पृच्छद्रो यदि चापि प्रमादतः । आप्नुयाच्छुद्धिमब्देन वहम [न] दायेण च ॥ ५३ प्रायश्चित्तं विधायाss दहेत्प्रेतं यथाविधि । अन्यथा कुरुते यस्तु स च गच्छेदधोगतिम् ॥५४ खोपर्यन्तरिक्षे वा विप्रश्चेन्मृत्युमाप्नुयात् । तस्याव्दमाचरेदेकं तेन पूतो भवेत्तथा ॥५५ प्रायश्चित्तं विना यस्तु क्रिय [कुरुते दहनक्रियाम् । निष्फलं प्रेतकार्यं स्याद्वदन्त्येवं महर्षयः ॥५६ कर्त चेदस्थि संस्कारं प्रमादान्न हि शक्यते । अस्थिशुद्धिकरान्मन्त्रान्धृत्वा दर्भानुदीरयेत् ॥५७

[[१७४५]]

दग्धस्य विधिनाऽशीति [ स्थीनि] भावयित्वा जले क्षिपेत् । तिलान्जल्यादिकं सर्व कुर्यात्प्रेतस्यकर्म च ॥५८ साग्निकं सधवां चैव दहेदौपासनाग्निना । विधुरं विधवां ब्रह्मचारिणं च कुशाग्निना ॥५६ पत्नी वाऽथ पतिर्वा स्यान्मृत्युकाले न संनिधौ । प्रायश्चित्तेन सद्योऽग्निमुत्पाद्य तेन संदहेत् ॥ ६०

[[१७४६]]

[ बिंशो-

लघ्वाश्वलायनस्मृतिः ।

प्रायश्चित्तविधिर्नोक्तो यत्र स्याद्गृह्यकर्मणि । चतुर्गृहीतेनाऽऽज्येन होमव्याहृतिभिश्व हि ॥ ६१ दर्शमारभ्य शुक्ले स्यान्मृतश्चोपासनाहुतीः । चतुश्चतुस्तिलैः सद्यो जुहुयात्तद्दिनावधि ॥६२ कृष्णे मृताहमारभ्य दर्शावधि तदाहुतीः । हुत्वा स्यात्पूर्ववत्कता दहेदौपासनाग्निना ॥ ६३ निधनं च सहात्मेनं दंपत्योर्गतयोश्व हि । वासनाग्निशिलाचित्तिचतुश्चैकेन मन्त्रणम् [?] ॥१४ तिलोदकं तथा पिण्डान्नवश्राद्ध पृथक्पृथक् अस्थिशुद्धिर्वृषोत्सर्ग एक एव भवेद्वयोः ॥६५ षोडशं च सपिण्डं च तथा मासानुमासिकम् । एकस्मिन्नेव काले तु तयोः कार्य । पृथक्पृथक ॥६६

भर्चा सह मृता नारी सह तेन सपिण्डनम् ।

द्विधा कृत्वा त्रिधा चैकं द्वितीयं च त्रिधा तथा ॥ ६७ भागांस्त्रीन्प्रथमे पिण्डे पितृणां सह योजयेत् । संयोजयेत्तथा भागान्मातृपिण्डैः सहान्तरान् ॥६८

सपिण्डीकरणादूर्ध्वं क्रमात्पित्रादयस्त्रयः । मात्रादयस्तथा तिस्रः श्राद्धकर्मसु चैव हि ॥ ६६ सहानुमृतयोः पित्रोः श्राद्ध चैव क्षयाहके । शाकपाकादिकं चान्नं तयोः कुर्यात्पृथक्पृथक् ॥७० यदि कर्तुं न शक्येत कालातीतभयादपि । अन्नपात्रं पृथक्कुर्यादिति वेदविदो विदुः ॥ ७१

ऽध्यायः ]

प्रेतकर्मविधिवर्णनम् ।

एकमेव भवेदत्र प्रायश्चित्तं तिलोदकम् ।

एकस्मिन्नेव काले तु द्विजः स्तुतिप्रदक्षिणम् ॥७२ विश्वदेवादिकं सर्वमर्चयन्तु पृथक्पृथक् । पितुरादौ ततो मातुः कुर्यात्संकल्पपूर्वकम् ॥७३ अमा चाप्यष्टकापे (प)क्षमनुक्रान्तियुगादयः । वैधृतिश्च व्यतीपातः श्राद्धकालाः प्रकीर्तिताः ॥७४ गजच्छायोपरागादि श्रोत्रियागमनं च हि । नवधान्य फलोत्पत्तिरन्यश्चालभ्ययोगता ॥७५ नमित्तिका इमे प्रोक्ताः श्राद्धकाला महर्षिभिः । शक्तितः कुरुते श्राद्धं स याति परमां गतिम् ॥७६ महानदीषु सर्वासु पुण्यतीर्थासु (र्थेषु) चैव हि । श्राद्ध विधीयते तच्च नैमित्तिकमुदाहृतम् ॥७७ पुत्रवर्गादिकामेष्टिस्तत्तत्काले विधीयते ।

पश्वम्यां प्रोष्ठपद्यादि वर्षर्तौ चैव वार्षिकम् ॥७८ नित्यं नैमित्तिकं काम्यं यत्र कामप्रचोदितम् । सूतके मृतके चैव नैव कुर्यात्कथंचन ॥७६ सूतकं मृतकं चैव पुत्रादीनां च संनिधौ । त्रिदिनं पक्षिणी चाथ सद्य इत्यनुवर्तते ॥८० स्मृतितस्तु न जानीयादितरेषां महर्षिणाम् । दशाहं तावदाशौचं सपिण्ड्यमनुवर्तते ॥८१ भवेत्तदूर्ध्वमेकाहं तत्पश्चात्स्नानतः शुचिः । पित्रादयस्त्रयश्चैवं तथा तत्पूर्वजास्त्रयः ॥८२

[[११०]]

[[१७४७]]

[[१७४८]]

लघ्वाश्वलानस्मृतिः ।

[ विंशो-

सप्तमः स्यात्स्वयं चैव तत्सापिड्यं बुधैः स्मृतम् । सापिण्ड्य चो(सो) दकं चैव सगोत्रं तच्च वै क्रमात् ॥८३ एकैकं सप्तकं चैकं सापिण्ड्यकमुदाहृतम् ॥८४ सपिण्डानां तथाऽशौचं संनिधौ स्याद्यथोदितम् ।

दूरतस्थाद्विजानीयाद्देशकालान्तरादपि ॥ ८५ मासत्रये त्रिरात्रं स्यात्पण्मासं पक्षिणी भवेत । अहस्तु नवमादर्वा मूध्वं स्नानेन शुध्यति ॥८६ पर्वतश्च (स्य) महानद्या व्यवधानं भवेद्यदि । त्रिंशद्योजनदूरं वा सद्यः स्नानेन शुध्यति ॥ ८७ यत्र वाऽपि श्रुतं पित्रोर्मरणं दूरतोऽथ वा । भवेदशाहमाशौचं पुत्राणामेव निश्चितम् ॥८८ संनिधौ सोदकाशौचं भवेन्न स्यादसंनिधौ । अतश्चानुपनीतस्य मृत (ता) शौचं न हि कचित् ॥८६ दीक्षितचा (स्या) ssहितानि (ग्ने)श्च स्वाध्यायनिरतस्य च । वृतस्याऽऽमिन्त्रतस्येह नाशौचं विद्यते कचित् ॥ ६०

संप्रक्षालितपादस्य श्राद्ध विप्रस्य चैव हि ।

गृहानुत्रजपर्यन्तं न तस्याशौचमिष्यति (ते) ॥११

बन्धं ग (त) तस्य विप्रस्य नित्यशौच (र) परस्य (द) च ।

सदा चैवाऽत्मनिष्ठस्य नाशौचं विद्यते कचित् ॥ ६२

इत्याश्वलायनस्मृतौ प्रेतकर्म विधिप्रकरणम् ।

ध्यायः ]

लोके निन्द्यप्रकरणवर्णनम् ।

[[१७४६]]

॥ एकविंशोऽध्यायः ॥

अथ लोके निन्द्यप्रकरणम् ।

क्रियाहीनस्य मूर्खस्य पराधीनस्य नित्यशः । नीचसेवारतस्यैतस्त (वं स) दाऽशौचं तदोच्यते ॥ १

सदाचारपरिभ्रष्टो विप्रस्यै ( ( ) व भवेद्यदि । कर्मभ्रष्टः स विज्ञेयो निन्द्यकर्मरतः सदा ર

माहिषेयश्च वैकुण्ठो वृषलेयश्च गोलकः ।

निन्द्याश्च ते हि लोके स्युः कथं जातीस्तदो ( तिरथो ) च्यते ॥३

महिषी सोच्यते भार्यां भगेनार्जति या धनम् । तस्यां यो जायते पुत्रो माहिषेयः सुतः स्मृतः ॥४

रजस्वला च या कन्या यदि स्यादविवाहिता । वृषली वार्षलेयः स्याज्जातस्तस्यां स्य ( स ) चैव हि ॥५ विवाहितामसंयोगां मोहाचेदुद्वहेद् द्विजः । भूयन्तीमुतीं चाभिगोमयेनानुलेपयेत् (?) ॥६ सूत्रमशंवरादीनि परिहृत्याभिषेचयेत् ।

पल्लवैः पञ्चभिर्गव्यैः पावमानीभिरेव च (?) ॥७ प्रायश्चित्तं विधातव्यं कूश्या [ ष्मा]ण्डं होममाचरेत् । पुनस्तामुद्वहेत्प्रोक्तां विधिवत्पूर्वजः पतिः ॥८ संभोगात्पूर्व एव स्यादुक्तोऽयं मुनिभिर्विधिः । व्रात्यस्तोमं जपेदन्यः प्रायश्चित्तपुरःसरम् ॥६

[[१७५०]]

लघ्वाश्वलायनस्मृतिः ।

[ एकविंशो

कवं चत्पतिसंयोगो जायते तां परित्यजेत् ।

संतानश्वेद्भवेत्तस्यां निन्द्य स्यात्पतितः पतिः ॥ अज्ञातश्च द्विजो यस्तु विधवामुद्वहेद्यदि । परित्यज्य च वै तां च प्रायश्चित्तं समाचरेत् ॥११ अब्दमेकं विधायाऽदाववकीर्ण [णि] व्रतं चरेत् । पुत्रश्चज्जायते तस्यामेको गोलक उच्यते ॥ १२ विधवायाः सुतस्यं ] गोलकः कुण्ड इत्यथ । श्रयश्चेव हि निन्द्याः स्युः स ‘धर्मवहिष्कृताः ॥ १३ संस्कार्य [य] विधिवच्वोक्तं [क्तौ मुनिभिः कुण्डगोलकौ । युगान्तरे समर्थः[ धर्म . ] स्यात्कलौ निन्द्य इतिस्मृतः ॥१४ परिव(वि) त्या सुत कुण्डो व्यभिचारसमुद्भवः । गोलको विधवां च निषिद्धः स्यात्कलौ स्मृतः ॥१५ वार्षलेयश्च वै कुण्डो गोलकः शूद्रयोनिजः । उज्जश्वापि हि निन्द्यः स्युर्माहिषेयश्च विप्रजः ॥१६ एभिः सह वसेदेषां याजनं कुरुतेऽथ वा

वित्तमेव द्विजो यस्तु भुङ्क्त सोऽपि हि तत्समः । १७

एतेपां याजनं यस्तु ब्राह्मणः कुरुते यदि । स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥१८ अद्विजानां चाध्ययनं याजनं च प्रतिग्रहम् । ब्राह्मणो नैव गृह्णीयादिति प्राहुर्मुनीश्वराः ॥ ६

इति ( आश्वलायनस्मृतौ ] लोके निन्द्यप्रकरणम् ।ऽध्यायः ]

वर्णधर्मप्रकरणवर्णनम् ।

[[१७५१]]

॥ द्वाविंशोऽध्यायः ॥

अथ वर्णधर्मप्रकरणम् ।

सर्वेषां चव वर्णानामुत्तमो ब्राह्मणो यतः । क्षेत्रस्य (क्षस्त्रतु) पालयेद्विप्रं विप्राज्ञाप्रतिपालकः ॥१ सेवां चैव तु विप्रस्य शूद्रः कुर्याद्यथोदितम । सर्वेषां चापि वै मान्यो वेदविद् द्विज एव हि ॥२ यजनादीनि कर्माणि कुर्यादहरहर्द्विजः । धर्मोऽयं द्विजवर्यस्य परमानन्ददायकः ॥ ३ रणे धीरो भवेत्क्षत्री (स्त्री) जयाद्राज्यं च वैरिणः । :1 पालयेद् ब्राह्मणान्सम्यक्परं तेनैव जेष्यति । ४ शूद्रः कुर्याद् द्विजस्यैव सेवामेव कृषि तथा । सुखं तेन लभेन्नूनं प्रवदन्ति महर्षयः ॥ ५ ब्राह्मणः क्षत्रियो वाऽपि स्वधर्मेणानुवर्तयेत् ।

नाऽऽचरेत्परधर्मं च धर्मनाशाय चाऽत्मन ॥६ स्नानेन च वहिः शुद्धिरात्मज्ञानेन चान्तरा । सत्कर्मणा द्विजः शुद्धः सर्वकर्मसु चैव हि ॥७ स्वधर्मनियतो विप्रः कुरुते पातकं यदि । स्वधर्मेणैव शुद्धेन (ध्येत ) नान्यथा शुचितामियात् ॥८ न स्पृशन्तीह पापानि ब्राह्मणं वेदपारगम् ।

कदाचित्कुरुते मोहात्पद्मपत्रे यथा जलम् ॥६

[[१७५२]]

लघ्वाश्वलायनस्मृतिः ।

द्वाविंशो

अशुचि वै स्पृशेत्नात कर्मकाले कचिद् द्विजः । प्रक्षालिताङ्घ्रिराचम्य कर्म कर्तुमथार्हति ॥१० जृम्भकारविकारः स्यात्क्षुत्वाऽधोवातनिर्मितः । श्लेष्मोत्सारो भवेत्कमकाले चाभ्यज्य शुध्यति (!) ॥११ न च तस्या (स्मा) दधो वायुः कर्मकाले द्विजस्य यत् । कृत्वा शौचं द्विराचम्य शिष्टं कम समापयेत् ॥१२ उदक्यां सूतिकां चंव पतितं शवमन्त्यजम् । श्वकाकरासभान्स्पृष्ट्वा सवासा जलमाविशेत् ॥१३ तत्स्पृष्टिनः स्पृशंद्यस्तु स्नानं तस्य विधीयते । तदूध्वं तु समाचम्य व्यवहारे शुचिः स्मृतः ॥ १४ उच्छिष्टस्पर्शनं चेत्स्यादश्नतो याजकस्य च । अन्न पात्रस्थमश्नीयान्नान्यं दद्यात्कथंचन । १५ कुरुते व्रतभङ्गं यो द्विजश्चैव विशेषतः । स गच्छेन्नरकं चाऽऽशु प्रवदन्ति महर्षयः ॥१६ वेदविद् द्विजहस्तेन सेवा (वा) संगृह (ह्य, ते यदि । न तस्य वर्धते धर्मः श्रीरायुः क्षीयते ध्रुवम् ॥१७

यस्य कस्य नरो यस्तु व्रते निष्ठुरभाष गम् । द्विजस्येह विशेषं च स च गच्छेदधोगतिम् ॥ १८ कुरुते योऽपमानं च ब्राह्मणस्य विशेषतः । तस्याऽऽयु क्षीयते नूनमायुर्लक्ष्मीश्च संततिः ॥ १६ उच्चालयोपविष्टस्य मा (ष्ट स्यान्मा न्यानां पुरतो यदि । गच्छेत्स विपदं नूनमिह चामुत्र चैव हि ॥ २०

ऽध्यायः ]

श्राद्धप्रकरणवर्णनम् ।

[[१७५३]]

परदेवार्चको विप्रस्तदधीनो भवेद्यदि ।

मासत्रयं तदन्नाशी जीवच्छूद्रत्वमाप्नुयात् ॥२१ यश्च कर्मपरित्यागी पराधीनस्तथैव च । अधीतोऽपि द्विजश्चैव स च शूद्रसमो भवेत् ॥ २२ अनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् ।

स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥२३ संतुष्टो येन केनाह (पि) सदाचारपरायणः । पराधीनो द्विजो न स्यात्स तरेद्भवसागरम् ॥२४

इत्याश्वलायनधर्मशास्त्रे वर्णधर्मप्रकरणम् ।

॥ त्रिविंशोऽध्यायः ॥

अथ श्राद्धप्रकरणम् ।

अथ चैव द्विजः कुर्याच्छ्राद्धं पित्रोमृतेऽहनि । तत्पार्वणविधानेन पितृयज्ञः स उच्यते ॥ १ होमं कृत्वाऽथपूवद्यः सायं विप्रान्निमन्त्रयेत् । प्रातश्चेत्तान्परेद्यर्वा श्राद्धा हे वेदपारगान् ॥२ प्रातरौपासनाग्नेस्तु श्राद्धपाकार्थमुल्मुकम् । नीत्वाऽन्नं सकलं कृत्वा पुनः संमीलयेदुभौ ॥३ ततो ममा]ध्याह्निकं स्नानं कृत्वा संध्यामुपास्य च । निमन्त्रितान्समाहूय क्रमाद्देवपितन्द्वि [वृद्वि ] जान् ॥४

[[१७५४]]

लघ्वाश्वलायनस्मृतिः ।

[ त्रिविंशो-

प्राणानायम्य संकल्प्य श्राद्धार्थमनुवेदयेत् । कुशाक्षततिलैर्युक्तं जलपात्रे प्रपूर्य च ॥५ आत्मनश्चैव शुद्धयर्थं द्रव्यस्य गृहशुद्धये । द्विजैः सह पठेत्सूक्तं प्रायश्चित्तार्थमेव हि ॥६ नतं सूक्तं शुचीवोऽग्निः शुचिव्रततमश्व हि । उदग्द्म इत्यथैतोनु त्रयो मन्त्राः क्रमेण तु ॥७ केचिद्यज्ञविदो ज्ञात्वा सूक्तानि कथयन्ति हि । पुरुषं चास्य वामस्य ममाग्ने वर्च इत्यथ ॥८ सौम्यं च वैष्णवं रुद्रं पावमान्यमथापि वा । ऋग्भिश्च पावमानीभिर्जलं चैवाभिमन्त्रयेत् ॥ श्राद्धोपयोगिकं द्रव्यमपक्वं पक्कमेव वा ।

सर्वं चैव स्मरेद्वि [रन्वि]ष्णुं जलेन प्रोक्षयेच्चरुम् ॥१० ततः संस्तूय तान्विप्रान्समस्तेतिपठन्नयेत् । पुरतश्चार्पयेत्तेषां हिरण्यं सकुशं च हि ॥११

लब्धा [ब्ध्वाऽऽ]ज्ञामपसव्येन श्राद्ध कर्तुं पितुर्मम । आचम्यासून्नियम्याथ दद्यात्संकल्प्य व क्षणम् ॥१२ देवानां क्षालयेत्पादौ मण्डले चतुरस्रके । पितॄणां वर्तुलं[ले ] चैव प्राङ्गणे रविदीपके ॥१३

ईशान्यां त्वाचमेत्कर्ता देवाः प्राच्यामथोत्तरे ।

पितरश्च पवित्राणि स्वस्वस्थाने त्यजेदथ ॥१४

आचम्य गृहमागत्य ब्राह्मणानुपवेशयेत् ।

प्राङ्मुखौ द्वा उदक्संस्थौ प्राक्संस्थांस्त्रीनुदङ्मुखान् ॥१५

ऽध्यायः ]

श्राद्धप्रकरणवर्णनम् ।

निरुष्य प्रकिरेद्वायुं तिलान्नि तिकोणतः ।

पठन्नपहतामन्त्रमसव्येन चाष्टसु ॥ १६ पितॄणां पुरतः सिन्चेज्जलं पठन्नुदीरताम् । सव्येन पुरतो देवे गायत्र्या चवमेव हि ॥१७ श्राद्धकाले गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं समाचरेत् ॥१८ देवानामासनं दद्यात्क्षणे चाऽऽवाहयेदथ । कुशाञ्छिरसि देवानां विश्वे देवास इत्यूचा ॥१६ विश्वे देवाः सकृन्मन्त्रमुच्चार्य प्रोक्षयेद्भवम् । अर्ध्यार्थं चाऽऽसादयेद् द्वे पात्रे देवे कुशान्विते ॥२०

आगच्छन्तु महाभागा विश्वे देवा महावलाः । ये चात्र विहिताः श्राद्ध सावधाना भवन्तु ते ॥२१ पूर्वामैः प्र’) दैविके पात्रे दक्षिणा तु पैतृके (कम्) । अधश्चोपरि पात्राणां कुशान्देवे च पैतृके ॥२२ गायत्र्या प्रोक्षयेत्पात्रे कृत्वा तान्निक्षिपेद्यवान् ॥२३ यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः । निर्णोदः सवपापानां पवित्रमृषिभिः स्मृतम् ॥२४ गन्धाक्षतकुशचैव क्षिपेदध्यं निवेदयेत् ।

या दिव्या इति मन्त्रेण हस्ते हस्तं पिधापयेत् ॥२५ निदध्यादर्घ्यपात्रेषु देवानामभिसंमुखे ।

पितॄणामर्घ्यपात्राणि तानि वै पै ( प ) संमुखे ॥२६

[[१७५५]]

[[१७५६]]

लघ्वाश्वलायनस्मृतिः ।

देवार्चा दक्षिणादि स्यात्पादजान्वंसमूर्धनि । शिरोंस जानुपादेषु वामाङ्गादिषु पैतृके ॥२७ अर्चतानेन मन्त्रेण गन्धदिभिरथार्चयेत् । युवासुवासामन्त्रेण दद्यादाच्छादनं ततः ॥२८ यथोक्तविधिना देवान्समभ्यच्यं तदाज्ञया । पितॄणामर्चनं कुर्यादपसव्येन चैव हि ॥ २६

आसनं च क्षणं दत्त्वा पितॄनावाहयेदथ ।

उसन्तस्त्वेति मन्त्रेण प्रति पितरमिष्यथ (ते) ॥३०

आयन्तु न इमं मन्त्रमुश्चरेत्सकृदेव हि ।

त्रिविंशो-

सव्येन प्रोक्ष्य गायत्र्या पात्रान्यु[व्यु ]त्तानि कारयेत् ॥ ३१ क्षिप्त्वा तिलानपः पूर्य शं नो देवीं समुच्चरेत् । पुनस्तेषु च पात्रेषु तिलोऽसीत्यावपेत्तिलान् ॥३२ गन्धपुष्पकुशादीनि क्षिप्त्वा चैव तु पूर्ववत् । स्वधाऽर्ध्य इति त्र्यात्त्रिः सव्येन तु निवेदयेत् ॥३३ सव्यं कृत्वा गृहीतेन पाणिना दक्षिणेन तु । दद्यात्पितरिदं तेऽर्घ्यं या दिव्यामन्त्रमुच्चरेत् ॥३४ एवं पितामहे चैव तथैव प्रपितामहे ।

दत्त्वाऽयं सलिलं दद्यात्पुनस्त्रिपु करेषु च ॥३५ पात्रद्वयं [य] कृतं तोयं पितृपाशे प्रसिच्य च । पात्रस्थं पुत्रकामी चेन्मुखं तद् [ तेना]नुलेपयेत् ॥३६ पितृभ्यः स्थानमसीति न्युब्जं वोत्तानमेव वा । तृतीयं पिहितं कुर्यादुत्तानोपरि भाजनम् ॥३७

ऽध्यायः ]

श्राद्धप्रकरणवर्णनम् ।

स्थापितं प्रथमं पात्रं तत्स्थानं न हि चालयेत् । जलसेचनपर्यन्तं पिण्डदानं पुनश्च हि ॥३८ पितृपाणिष्वपो दद्यादपसव्येन वै ततः । नमो व इति मन्त्रेण पितृ श्चैवाचयेत्तिलैः ॥ ३६ गन्धादिभिः समभ्यच्यं पितृपूजां समापयेत् । मण्डलानि समानानि कारयेद्देवपूर्वकम् ॥४० दवे तु चतुरस्र े तु ततो वृत्तानि पैतृके । प्रमाणं मण्डलस्योक्तं यावत्पात्रमितं भवेत् ॥४१ अन्तर्धाय कुशांस्तेषु प्रक्षिपेच्च यवांस्तिलान् । पात्राण्यासादयेत्तेषु हेमरौप्यमयानि च ॥ ४२ तदभावे तु पर्णानि कदल्यानि शुभानि च । परिस्तरेत्कुशाद्यैश्च पात्राणि पितृपूर्वकम् ॥४३ पितृयज्ञचरोरन्नमादायाक्तं घृतेन तु ।

अग्नौ करिष्य इत्येतान्पृष्टोक्तः क्रियतामिति ॥४४ न भवेत्पितृयज्ञश्चेद्गृह्याग्नौ पचनं भवेत् । अग्नौकरणहोमं तु कुर्यादौ पासनानले ॥४५ गृह्याग्नौ पचनं पिण्डं पितृयज्ञो न चैव हि । अग्नौकरणं गृह्याग्नौ न कुर्यादिति केचन ॥४६ कालद्वयेऽपि कुरुते नित्यहोमं द्विजो यदि । स चाग्नौकरणं कुर्यात्प्रातर्होमो विधीयते ॥४७ गृह्याग्निर्यस्य चेन्न स्यात्तस्याग्नौकरणं कथम् । श्राद्धार्थमन्नमादाय जुहुयात्पितृपाणिषु ॥४८

[[१७५७]]

[[१७५८]]

लघ्वाश्वलायनस्मृतिः ।

त्रिविंशो-

संगृह्याऽऽहुतिमेकां च घृताभ्यक्तां विगृह्य च । . सोमायेति तु मन्त्राभ्यां जुहुयात्कुशपाणिना ॥४६ स्रुवेण चाऽऽज्यमादाय तदाभावेऽथ वा कुशैः । पितॄणामेव पात्राणि तूष्णीमेवाभिघारयेत् ॥५० अन्नं पाणिहुतं यश्च निदध्यात्तत्स भाजने । गत्वाऽन्यत्र समाचम्य पुनश्चोपविशेदथ ॥५१ देवपात्रादितश्चाऽऽज्यं सव्येनैवाभिघारयेत् । मूर्धानमिति मन्त्रेण सर्वपात्राणि चैत्र हि ॥५२ आमास्वित्यादिकान्मन्त्रान्स्वयमेव जपन्न हि [ पेदथ ] । पत्नी चाप्यथ वा पुत्रः शिष्यो वा परिवेषयेत् ॥५३ अन्नं च पायसं भक्ष्यमाज्यं च व्यञ्जनादिकम् । दद्यादेवाऽऽदितः सर्वं सूपमन्ते च पैतृके ॥५४ पात्रस्थं प्रोक्षयेदन्नं गायत्र्या चाभिमन्त्र्य च । पाणिभ्यां भाजनं धृत्वा पृथ्वी ते पात्रमुश्चरेत् ॥५५ इदं विष्णुरनेनान्ने द्विजाङ्गुष्ठ निवेद [ श]येत् । स्वादितः समुच्चार्य गयायां दत्तमस्त्विति ॥ ५६

॥ ये देवास इमं मन्त्रमुच्चार्याथ च पैतृके । संप्रोक्ष्य पूर्ववच्चान्नं प्राचीनावीत्यतः परम् ॥५७ परिविष्टेषु चान्नेषु हुतशेषं निधाय च । दद्यादन्नं पितृभ्योऽपि पूर्ववत्पितृनामभिः ॥५८ ये चेहेति च वै मन्त्रं समुच्चार्य ततः परम् । देवांस्तुत्वा पितॄश्चैव ब्रह्मनिष्ठान्मुनीश्वरान् ॥५६

ऽध्यायः ]

श्राद्धप्रकरणवर्णनम् ।

परिवेषे च [षेचन ] पर्यन्तं कारयित्वा यथाविधि । स्मृत्वा हरिहरौ चैव पितॄणां मुक्तिहेतवे ॥ देवान्पितृन्शमुद्दिश्य क्रियमाणं हि कर्म यत् । पितॄणां मुक्तये सवं ब्रह्मणे विनिवेदयेत् ॥ ६० न्यूनं चैवातिरिक्तं च मन्त्रादीनां भवेद्यदि । तद्दोषपरिहारार्थं गायत्रीं समुदीरयेत् ॥ ६१ ततश्चैवापसव्येन मधु वाता जपेदथ । आपोशनार्थमुदकं पितृपूर्व निवेदयेत् ॥ ६२ ईशानादिपदं स्तुत्वा तिष्ठन्नुदङ्मुखश्च हि । दैवे पित्र्ये समुच्चार्य तत्सच्चामृतमस्त्विति ॥ ६३ निनयेत्सलिलं चैव द्विजानां पुरतो जलम् । प्रीयतामिति मन्त्रेण पितृरूपी जनार्दनः ॥ ६४ अमृतोपस्तरणमसीत्युक्त्वा मन्त्रं पिवेज्जलम् । प्राणाहुतिं च गृह्णीयात्क्रमान्मन्त्रैश्च पञ्चभिः ॥ ६५ नासदासीति सूक्तानि भुञ्जानाञ्छ्रावयेद्विजान् । कृणुष्वेत्या दिसूक्तानि रक्षोघ्नानि च पञ्च वै ॥६६ अग्निमीलेऽनुत्राकश्च पितृस्तुतिमुदारताम् । पवित्राणि च सूक्तानि यावदुद्ब्राह्मणभोजनम् ॥६७ इच्छातृप्तेषु विप्रेषु गायत्रीं समुदीरयेत् । तृप्ताः स्थ इति तान्पृष्ट्रा ह्यपसव्येन पैतृके ॥ ६८ मध्वक्षद्वन्नति मन्त्रं वै मधुसंपन्नमित्यथ ।

पृथग्भुक्तवतो विप्रानन्नं पिण्डार्थमुद्धरेत् ॥६६

[[१७५६]]

[[१७६०]]

लघ्वश्वलायनस्मृतिः ।

त्रिविंशो-

तान्पृच्छेदन्न [थ] संपन्नं शेषं किं क्रियतामिति । लब्ध्वा चैषामनुज्ञां च सहेष्टेर्भुज [ज्य] तामिति ॥ ७० उच्छिष्टपुरतो भूमौ जलदर्भा स्तिलान्क्षिपेत् । ये अग्निदग्धामन्त्रेण सर्वान्नं किंचिदुत्क्षिपेत् ॥ ७१ उत्तराचमनात्पूर्वं पिण्डदानं विधीयते ।

ऊर्ध्वं वा केचिदिच्छन्ति तच्च संकल्पपूर्वकम् ॥७२ आग्नेयप्रवणे रेखां लिखेदपहता इति । तामभ्युक्ष्य जलेनाथ कुशानास्तीर्य तच्च तु ॥७३ अपस्तत्रापसव्येन शुन्धतामिति सेचयेत् । तत्र पिण्डत्रयं दद्याद्यं च त्वा पितृपूर्वकम् ॥७४ अत्रेति चानुमन्त्र्याथ यथोव [थावद्व]र्तयेदुदक् । आप्रदक्षिणमावर्त्य कुर्याद्वायुनिरोधनम् ॥७५ पुनश्चाऽऽवर्तये तद्वदमी मदन्त चैव हि । भक्षयेच्च चरोः शेषमाघ्रायेदिति केचन ॥७६ उपवीती समाचम्य प्राचीनावीत्यतः परम् । पिण्डोपरि जलं सिञ्चेच्छुन्धन्तामिति पूर्ववत् ॥७७ अभ्यङ्क्ष्वेति च वै तैलं दद्यादङ्क्ष्वेति चाञ्जनम् । नामसंबन्धगोत्रादि समुच्चार्य यथाक्रमम् ॥७८ एतद्व इति मन्त्रेण प्रतिपिण्डं वरं शुभम् । सव्येन चार्चयेत्पिण्डान्गधपुष्पाक्षतादिभिः ॥७६ धूपं दीपं च नैवेद्यं ताम्बूलं चैव दक्षिणाम् । दत्त्वा तिष्ठन्नुपस्तूयात्प्राचीनावीतिना ततः ॥८०ऽध्यायः ]

श्राद्धप्रकरणवर्णनम् ।

नमो व इति मन्त्रो वै मनश्चैव पठेदिति । मनोन्विति त्रिभिर्मन्त्रैः किंचित्पिण्डान्प्रवाहयेत् ॥८१ परेतनेति मन्त्र वै जपेत्पिण्डान्तिके ततः । औपासनान्तिके गत्वा जपेदग्नेतमित्यचम् ॥८२ पिण्डं तं प्राशयेत्पत्नीं पुत्रार्थी मध्यमं हि चेत् । आधत्तेति च मन्त्रेण धत्ते गर्भ कुमारकम् ॥८३ नो चेदतिप्रणीतेऽग्नावप्सु वा तान्क्षिपेदथ । पिण्डप्राशनपक्षे तु विशेषः कथ्यतेऽधुना ॥८४ तावन्न प्राशयेत्पिण्डं न हि श्राद्धविसर्जनम् । पिण्डप्रक्षेपणं चाग्नावप्सु चापि तथैव हि ॥८५ पिण्डदानं च वै श्राद्ध े यत्र कुत्रापि वा भवेत् । गयायां च कृतं मत्वा ह्यात्मनेति निवेदयेत् ॥८६ प्रक्षालितकरान्विप्रानाचान्तानुपवेशयेत् । जलदर्भाक्षतान्दत्त्वा तथैव पैतृके तिलान् ॥८७ तत्पाणिष्वक्षतान्दत्त्वा ततो विप्राशिषो भवेत् । स्वस्तीत्युक्त्वा मया दत्तं श्राद्धमक्षय्यमस्त्विति ॥ ८८ दक्षिणां च ततो दद्याद्यथाविभवसारतः । दक्षिणारहितं यच्च तच्छ्राद्धं निष्फलं भवेत् ॥८६ चालयित्वा तु पात्राणि स्वस्तीत्युक्त्वाऽक्षतांस्तिलान् । तत्तत्स्थाने क्षिपेदेषु प्रकिरेदन्नमप्यथ ॥ ६० असंस्कृतेति वै पित्र्ये दैवे चासोमपा इति ।

दक्षिणां च ततो दत्त्वा पितृसंतुष्टिहेतवे ॥ ६१

[[१७६१]]

[[१७६२]]

लध्वाश्वलायनस्मृतिः ।

विसृजेत्पितृपात्रस्थं पिण्डानां पुरतो जलम् । स्वधोच्यतामनेनैव ततः पिण्डान्समुच्चरेत् ॥१२ वाजे वाजेऽथ मन्त्रेण कुर्याच्छ्राद्धविसर्जनम् । सव्यमंसं पितॄणां च देवानां दक्षिणं स्पृशेत् ॥६३ पठेदुच्चैरिमं मन्त्रमामा वाजस्य चैव हि । प्रदक्षिणत्रयं कुर्वन्भुञ्जतः पितृसेवितान् ॥६४ जलमर्चनपात्रस्थान्विसृजेदक्षतादिकान् पुरतस्तेन पुत्रः स्युर्याति ब्रह्मपदं च हि ॥६५ ब्रह्मत्वं च प्रयातेभ्यो गृह्णीयादाशिषः शुभाः । भवत्प्रसादतो भूयाद्धनधान्यादिकं मम ॥ ६६ दातारो नोऽभिवर्धन्तां वेदाः संततिरेव नः ।

त्रिविंशो-

श्रद्धा च नो मा व्यगमद् बहु धे (दे ) यं च नोऽस्त्विति ॥१७

अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।

याचितारश्च नः सन्तु मा च याचिष्म कंचन ॥६८

ततो विप्रास्तथैवेति प्रतिवचनमादरात् ।

वः पदं निर्दिशेयुस्ते ब्राह्मणाश्चैव नः पदे ॥६

स्वादुषं सद इत्युक्त्वा मन्त्रानुच्चैः पठेदथ । दक्षिणाभिमुखस्तिष्ठेद्विप्राणां पुरतच हि ॥१०० इहैवेति पठेन्मन्त्रं भुक्तवद्भिर्द्विजैः सह ।

संतुष्टा आशिषो दद्युर्भुक्तिमुक्तिप्रदाः शुभाः ॥ १०१ आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्तु तथा राज्यं प्रीता नृणां पितामहाः ॥ १०२

ऽध्यायः ]

श्राद्धप्रकरणवर्णनम् ।

[[1]]

[[१७६३]]

तेभ्यश्चैवाऽऽशिषो लब्ध्वा नमस्कुर्याद्विजांस्तथा । अभ्यज्याऽऽज्य द्विजानां च पादान्प्रक्षालयेत्क्रमात् ॥ १०३ अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् ।

अद्य मे वंशजाः सर्वे याता वोऽनुग्रहाद्दिवम् ॥१०४ ताम्बूलं च ततो दद्याद्यथाविभवसारतः । कृताञ्जलिपुटो भूत्वा प्रार्थयेत्ताननेन च ॥१०५ पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः । तत्क्लेशजातं चित्तात्तु विस्मृत्य क्षन्तुमर्हथ ॥१०६ वसिष्ठसदृशा यूयं सूर्यपर्वसमा तिथिः । आसनादि नमस्कारो भवत्सत्कार एव हि ॥ १०७ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥१०८ मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः । श्राद्धं भवति संपूर्ण प्रसादाद्भवतां मम ॥१०६ अनेन पितृयज्ञेन प्रीयतां भगवानिह ।

मया भक्त्या कृतं सर्वं तत्सद्ब्रह्मार्पणं भवेत् ॥११० वसिष्ठासस्ततो देवा वसिष्ठश्च जपेदिमौ । पितृस्तुतिकरां गाथामिदं पितृभ्य एव च ॥ १११ मन्त्राञ्छृण्वत (न्त) इत्येतान्संतुष्टाः पितरो गृहे । दत्त्वाऽभीष्टफलं कर्त’ (र्तः) प्रयान्तीदमनुत्तमम् ॥ ११२ ॥ अनेन विधिना चैव यः श्राद्धं कुरुते द्विजः । भुक्त्वेह सकलान्कामान्सोऽपि सायुज्यमाप्नुयात् ॥ ११३

इत्याश्वलायनधर्मशास्त्रे श्राद्धप्रकरणम् ।

[[१११]]

[[१७६४]]

लघ्वाश्वलायनस्मृतिः ।

चतुर्विंशो -

चतुर्विंशोऽध्यायः ।

अथ श्राद्धोपयोगिप्रकरणम् ।

पितृयज्ञमकृत्वा तु पित्रोरेकाब्दिकं यदि ।

यज्ञान्यः कुरुते पञ्च स याति नरकं ध्रुवम् ॥१ कुरुते ब्रह्मयज्ञं च श्राद्धात्पूर्वं मृतेऽहनि । निराशाः पितरस्तस्य श्राद्धान्नं न लभन्ति ते ॥ २ तर्पणं कुरुते पित्रोः श्राद्धात्पूर्वं मृतेऽहनि । निराशाः पितरस्तस्य स च गच्छेदधोगतिम् ॥३ कुर्यात्पश्च महायज्ञान्निवृत्ते श्राद्धकर्मणि । पित्रोराब्दिक एवाऽऽहुराचार्याः शौनकादयः ॥४ अनग्निको यदा ज्येष्ठः कनिष्ठः साग्निको यदि । अग्नौकरणहोमन्तु ज्येष्ठः कुर्यात्कथंचन ॥५ कनिष्ठस्य च गृह्माग्नावग्नाकरणहोमकम् । तदाज्ञयाऽग्रजः कुर्यादिति केचिद्वदन्ति हि ॥६ संसृष्टा भ्रातरो यत्र श्राद्ध े स्युर्यदि चैव हि । तत्रायं मुनिभिः प्रोक्तो विधिनैवान्यथा भवेत् ॥७ बह्वचो ब्रह्मचारी वा तथैवानग्निकोऽपि वा । अग्नौकरणहोमाख्यं कुर्याच्चैव पितुः परे ॥८ पञ्चै (ख) वा स्युर्द्विजाः शस्ता द्वौ च पित्रोमृतेऽहनि । द्वौ दैवेऽथ त्र्यः पित्र्य एकैको वोभयत्र तु ॥ चत्वारश्चेद् द्विजाः श्राद्ध देवे चैको भवेत्तदा ।

त्रयः पित्र्ये भवन्त्येके वदन्त्येव हि संकटे ॥ १०

ऽध्यायः ]

श्राद्धोपयोगिप्रकरणवर्णनम् ।

अथ वाऽपि त्रयो वाऽपि एकः स्यात्पितृषु त्रिषु । द्वौ देवे चैव तु स्यातां विप्रावेके वदन्ति हि ॥ ११ द्वितीयाssवाहने षष्ठी संकल्पे चाssसने क्षणे । चतुर्थ्याच्छादने चान्ने शेषाः संबुद्धयः स्मृताः ॥ १२ अन्नदाने विशेषः स्यात्संबुद्धिः प्रथमाऽथ वा । अन्ते (न्ये) चैव चतुर्थी तु वदन्त्येके महर्षयः ॥१३ देवानामासनं दद्याद्दक्षिणे चाऽऽविकं कुशान् । कृत्वा द्विगुणभुग्नांस्तान्पितॄणां वाम एव हि १४ विप्रानिमन्त्रयेच्छ्राद्ध बहुचान्वेदपारगान् । तदभावे तु चैवान्यशाखिनो वाऽपि चैव हि ॥१५ मन्त्रैश्चैव स्वशाखोक्तैः कर्म कुर्याद्यथाविधि । अन्यथा कर्महानिः स्याद्बह्वचानामयं विधिः ॥१६ कर्मणां याजुषादीनां स्वस्वशाखा न विद्यते । ऋक्शाखाविहितं कर्म समानं सर्वशाखिनाम् ॥१७ बहुचानां तु यत्कर्म यदि स्यादन्यशाखया । पुनश्चैवापि तत्कर्म कुर्याद् बह्वृचशाखया ॥ १८ हित्वा स्वस्य द्विजो वेदं यस्त्वधी ते परस्य तु । शाखारण्डः स विज्ञेयः सर्वकर्म बहिष्कृतः ॥ १६ रोगादिरहितो विप्रो धर्मज्ञो वेदपारगः । भुञ्जीयादमलं श्राद्धे सामिकः पुत्रवानपि ॥२० पितृमानेव भुञ्जीयाच्छ्राद्धमिन्दुक्षये द्विजः ।

तृप्ताः स्युः पितरस्तेन दाता स्वर्गमवाप्नुयात् ॥२१

[[१७६५]]

[[१७६६]]

लघ्वाश्वलायनस्मृतिः ।

श्राद्धकर्ता न भुञ्जीयात्परश्राद्धे विधुक्षये ।

चतुर्विंशो-

भुङ्क्ते चेत्पितरो यान्ति दाता भोक्ताऽप्यधोगतिम् ॥२२ दर्शष्टि ( र्शाष्ट) का व्यतीपातो (ता) वैधृतिश्च महालयः ।

युगाश्च मनवः श्राद्धकाला : संक्रान्तयस्तथा ॥२३ गजच्छायोपरागश्च षष्ठी या कपिला तथा । अर्धोदयादयश्चैव श्राद्धकालाः स्मृता बुधैः ॥२४ संभूते च नवे धान्ये श्रोत्रियो गृहमागते । आचार्याः केचिदिच्छन्ति श्राद्ध तीर्थं च सर्वदा ॥२५ श्राद्धकालेषु सर्वेषु कुर्याच्छ्राद्धं च शक्तितः । विशेषतो मृताहे तु पित्रोश्चैव विधीयते ॥२६ मोहान्न कुरुते श्राद्ध मातापित्रो तेहनि । निराशाः पितरो यान्ति दुर्गतिं चापि वै सुतः ॥२७ अज्ञानाद्वा प्रमादाद्वा यो मृताहमतिक्रमेत् । स याति नरकं घोरं यावदाभूतसं लवम् ॥२८ अतिक्रमं (मो) मृताहस्य दोषः स्यात्सूतकं विना । न कुर्याच्छाद्धमा शौचे प्रवदन्ति महर्षयः ॥२६ आचरेद्विधिवच्छ्राद्धं मातापित्रोमृतेऽहनि । पितरस्तेन तृप्यन्ति गच्छन्ति पदमुत्तमम् ॥३० सदाचारपरो विप्रः कृपालुः श्राद्धकृत्तथा । आत्मनिष्ठोऽर्थ लोकेषु तारयेत्तरति स्वयम् ॥३१ इत्याश्वलायनधर्मशास्त्रे श्राद्धोपयोगिप्रकरणम् ।

समाप्तेयं लघ्वाश्वलायनस्मृतिः ।

ॐ तत्सब्रह्मणे नमः ।

11 312 11