लघुव्याससंहिता

:***:

॥ श्रीगणेशाय नमः ।

-::::

अथ प्रथमोऽध्यायः ।

अथ सफलं स्नानविधि वर्णनम् ।

ऋषय ऊचुः ।

अहन्यहनि कर्तव्यं क्रमाणां हि क्रमाद्विधिम् । ब्राह्मे मुहुर्ते उत्थाय धर्मार्थावनुचिन्तयेत् ॥१ कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेवच । ऊषः काले तु संप्राप्ते कृत्वाचावश्यकं बुधः ॥२ स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि । प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ॥३ तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ।

प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टफलप्रदम् ॥४

ऽध्यायः ]

सफलं स्नानवर्णनम् ।

ऋषीणां कुर्वतां नित्यं प्रातः स्नानं न संशयः । मुखे सुप्तस्य सततं लालानित्यं स्रवन्ति हि ॥५ ततो नैवाचरेत्कर्माण्यकृत्वा स्नानमादितः । अलक्ष्मी कालकर्णी च दुःस्वप्नं दुर्विचिन्तनम् ॥६ प्रातः स्नानेन पूयन्ते सर्वपापान्न संशयः ।

न हि स्नानं विना पुंसां प्राशस्त्यं कर्मसु स्मृतम् ॥७ होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् । अशक्तोऽवशिरस्कं वा स्नानमात्रं विधीयते ॥८ आद्रेण वाससा चाङ्गमार्जनं कापिलं स्मृतम् । अप्राशस्त्ये समुत्पन्ने स्नानमेव समाचरेत् ॥६ ब्राह्मयादीन्यथवाशक्तौ स्नानान्याहुर्मनीषिणः । ब्राह्ममाग्नेय मुद्दिष्टं बायव्यं दिव्यमेव च ॥ १० वारुणं यौगिकं चैव सदा स्नानं प्रकीर्तितम् । ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकविन्दुभिः ॥११ आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् । यत्तु सातपवर्षेण तत् स्नानं दिव्यमुच्यते ॥१२ वारुणश्चावगाहञ्च मानसञ्चात्मवेदनम् ।

[[१६१६]]

यौगिकं स्नानमाख्यातं योगोऽयं विष्णुचिन्तनम् ॥ १३. आत्मतीर्थमिदं ख्यातं सेवितं ब्रह्मवादिभिः ।

मनः शुद्धिकरं पुंसां नित्यं तत् स्नानमाचरेत् ॥१४ शक्तश्चेद्वारुणं विद्वानप्राशस्त्ये तथैव च ।

प्रक्षाल्य दन्तकाष्ठञ्च भक्षयित्वा विधानतः ॥१५ .

[[१०२]]

[[१६२०]]

लघुव्याससंहिता ।

[ प्रथमो-

आचम्य प्रयतो नित्यं प्रातः स्नानं समाचरेत् । मध्याङ्गुलि समस्थौल्यं द्वादशाङ्गुलिसम्मितम् ॥१६ सत्वचन्दन्तकाष्ठं स्यात्तस्याग्रेण तु धावयेत् । क्षीरवृक्ष समृद्भूतं मालिनीसम्भवं शुभम् ॥१७ अपामार्यञ्च विल्वश्च करवीरं विशेषतः । वर्जयित्वा निषिद्धानि गृहीत्वैकं यथोदितम् ॥ १८ अपहृत्य दिनं पापं भक्षयित्वा विधानवित् । आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ॥१६ नोत्पादयेद्दत्तकाष्ठमङ्गुल्या धावयेत् क्वचित् । प्रक्षाल्य भक्त्या तर्जन्या शुचौ देशे समाहितः ॥२० स्नात्वा सन्तर्पयेद्देवान् ऋषीन् पितृगणान् क्रमात् । आचम्य मन्त्रवन्नित्यं पुनराचम्य वाग्यतः ॥२१ मार्जनं वारुणैमन्त्रैरात्मानं सकुशोदकैः । आपोहिष्ठादिव्याहृतिभिः सावित्र्या वारुणैस्तथा ॥ २२ ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् । जप्त्वा जलाञ्जलिं दद्याद्भास्करं प्रति तन्मनाः ॥२३ प्राक् तु तेन समासीनो दर्भेषु सुसमाहितः । प्राणायामत्रयं कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः ॥२४ या सन्ध्या सा जगत्सृष्टिस्थितिसंयमकारिणी । ऐश्वरी तु पराशक्ति स्तत्र यत्र समुद्भवा ॥२५ सवितु मंण्डलगतां गायत्रीं वै जपेद्बुधः । प्राङ्मुखः प्रयतो विप्रः सन्ध्योपासन माचरेत् ॥२६ऽध्यायः ]

सफलंसन्ध्याकर्तव्यवर्णनम् ।

सन्ध्याहीनोऽशुचिर्नित्य मनहः सर्वकर्मसु ।

यदन्यत् कुरुते कर्म न तस्य फलमाप्नुयात् ॥२७ अनन्यचेतसो शान्ता ब्राह्मणा वेदपारगाः । उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वे पराङ्गतिम् ॥२८ योऽन्यतः कुरुते यत्नं धर्मकार्ये द्विजोत्तमः । विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ॥२६ तस्मात्सर्व प्रयत्नेन सन्ध्योपासं समाचरेत् । उपासितो भवेत्तेन देवयोगतनुः परः ॥३० सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्रीं वै जपेद्विद्वान् ब्राह्मणः प्रयतः स्थितः ॥३१

इति लघुव्यासस्मृतौ प्रथमोऽध्यायः ।

[[१६२१]]

अथ द्वितीयोऽध्यायः ।

अथ कर्तव्यकर्मविशेषवर्णनम् ।

अथागम्य गृहं विप्रः समाचम्य यथाधिधि । अग्नि प्रज्वाल्य विधिवत् जुहुयाज्जातवेदसम् ॥ १ ऋत्विक् पुत्रोऽथवा पत्नी शिष्योऽपि च सहोदरः ।

प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि ॥२

पवित्रपाणिः शुद्धात्मा शुद्धाम्बरधरोऽपरः ।

॥२

अनन्यमानसो वहौ जुहुयात्संयतेन्द्रियः ॥३

॥१

[[१६२२]]

लघुव्याससंहिता ।

विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः । नाक्षयस्तद्भवेत्सवं नेहामुत्र फलप्रदम् ॥४ देवतादीन्नमस्कुर्यादुपहारं निवेदयेत् ।

दद्यात्पुष्पादिकां स्तेषां वृद्धांचैवाभिवादवेत् ॥५ गुरुचैवाप्युपासीत हितं तस्य समाचरेत् । वेदाभ्यासस्ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः ॥६ वेदमध्यापयेच्छिष्यान् धारयेच्च विपाठयेत् ।

अपेक्षेत च शास्त्राणि मन्वादीनि द्विजोत्तमाः । । वैदिकान्नियमान्वेदान्वेदाङ्गानि च सर्वशः ॥७ उपेयादीश्वरञ्चैव योगक्षेमाथसिद्धये । साधयेद्विविधानर्थान् कुटुम्बार्थे तथैव च ॥८ ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् । पुष्पाक्षतान्कुशलितान् गोमयं गन्धमेव च ॥

नदीषु देवखातेषु तटाकेषु सरित्सु च । स्नानं समाचरेन्नित्यं नदीप्रस्रवणपु च ॥ १०

परकीयनिपानेषु न स्नायाद्वै कदाचन ।

[ द्वितीयो-

पञ्च पिण्डान् समुद्धृत्य स्नायाद्वा सम्भवात् पुनः ॥११ मृदैकया शिरः क्षाल्य द्वाभ्यां नाभे स्तथोपरि । अतश्चतसृभिः कार्यं पादौ षभिस्तथैव च ॥ १२ मृत्तिका च समाविष्टा त्वार्द्रामलकमात्रतः । गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत्ततः ॥१३

ऽध्यायः ]

शरीरशुद्धिवर्णनम् ।

[[१६२३]]

लेपयेदथतीरस्थस्तल्लिङ्गेनैव मन्त्रतः ।

प्रक्ष्याल्याचम्य विधिवत् ततः स्नायात्समाहितः ॥ १४ अभिमन्त्रय जलर्मन्त्रैरब्लिङ्गैर्वारुणैः शुभैः ।

आपो नारायणोद्भूता स्नानेवास्यायनं पुनः ॥१५ तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः । प्रोक्ष्यसोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ॥ १६ आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् । अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ॥१७ त्वं यज्ञस्त्वं वषट्कार आपोज्योती रसोऽमृतम् । द्विपदां वा त्रिरभ्यस्येद्व्याहृतिं प्रणवादिकाम् ॥१८ सावित्रीं वा जपेद्विद्वान् स्तथैवाप्यघमर्षणम् । ततः सन्मार्जनं कुर्यादापोहिष्ठामयोभुवः ॥ १६ इदमापः प्रवहत व्याहृतिभिस्तथैव च । ततोऽभिमन्त्रय तत्तीर्थमापोहिष्ठादिमन्त्रकैः ॥२० अन्तर्गत जलमग्ना जपेत त्रिरघमर्षणम । द्विपदां वाथ गायत्रीं तद्विष्णोः परमम्पदम् ॥२१ आवर्त्त येद्वा प्रणवं देवं वा संस्मरेद्धरिम् । द्विपदोहि परो मन्त्रो यजुर्वेदे प्रतिष्ठितः ॥२२ अन्तर्जलात्त्रिरावृत्या सर्वपापैः प्रमुच्यते ।

आपः पाणौ समादाय जप्त्वा वा मार्जने कृते ॥ २३ विन्यस्य मूर्ध्नि तत्तोयं सर्वपापैः प्रमुच्यते ।

यथाश्वमेधः क्रतुराट् सर्वपाप प्रणोदनः ॥ २४

[[१६२४]]

लघुव्याससंहिता ।

[ द्वितीयो-

तथाघमर्षण सूक्त सर्वपाप प्रणोदनम् । अथोपतिष्ठेतादित्य मूध्वं पुष्पाञ्जलान्वितम् ॥२५ प्रक्षिप्य देवमादित्यं मृग्यजुः सामरूपिणम् । उदित्यश्चित्रमित्येतत् तच्चक्षुरितिमन्त्रतः ॥२६ हंसः शुचिषु इत्येतत्सावित्र्या च विशेषतः । अन्यैश्व वैदिकैर्मन्त्रैः सर्वपापप्रणाशनैः ॥ २७ सावित्रीं वै जपेत्पश्चाज्जपयज्ञः प्रकीर्तितः । विविधानि पवित्राणि गुह्यविद्यास्तथैव च ॥ २८ तिष्ठन् तदेक्षमाणोऽकं जपं कुर्यात्समाहितः । आसीनः प्राङ्मुखो नित्यं जपं कुर्याद्यथाविधि ॥२६ स्फटिकेन्द्राक्षपद्माक्षैः पत्र दीप कुमक्षकैः । कर्तव्या त्वक्षमाला स्यात् विशिष्टा चोत्तरोत्तरा ॥३० जपकाले न भाषेत नाङ्गानि चालयेत्तथा । न कम्मयेच्छिरोग्रीवां दन्तान्वै न प्रकाशयेत् ॥३१ गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभं हि तत् । एकान्ते तु शुचौ देशे तस्माज्जप्यं समाचरेत् ॥३२ चण्डालाशुद्वपतितान् दृष्ट्राचम्य पुनर्जपेत् । आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ॥ ३३ सौरान्मन्त्रान्यथोत्साहं पावमानांश्च शक्तितः । आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥ ३४ ततः सन्तपयेद्देवान् ऋषीन् पितृगणान् क्रमात् । आदौ ॐकार मुच्यार्य नाम्नोऽन्ते तर्पयामि च ॥ ३५

ऽध्यायः ]

नित्यकर्मवर्णनम् ।

देवान् ब्रह्मऋषीश्चैव तर्पयेदक्षतोदकैः ।

पितॄन् तिलोदकैश्चैव विधिना तर्पयेद्बुधः ॥ ३६ अपसव्येन सव्येन पाणिना दक्षिणेन तु

देवर्षी स्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् ॥३७ यज्ञोपवीती देवानां निवीति ऋषितर्पण प्राचीनावीति पित्र्येषु ह्वेन तीर्थेन भाषितम् ॥३८ निष्पीडयव तु वस्त्रश्च समाचम्य यथाविधि । यमन्त्रैरर्चयेद्देवान् पुष्पैः पत्रैस्तथाम्बुभिः ॥३६ ब्रह्माणं शङ्करं सूर्यन्तथव मधुसूदनम् । अन्यांश्चाभिमतान् देवान् पूजयेद्भक्तितो द्विजः ॥ ४० प्रदद्याद्वाथ पुष्पाणि विन्यसेच्च पृथक् पृथक् । न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ॥४१ तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम । तद्विष्णोरितिमन्त्रेण सूक्तेनापौरुषेण च ॥४२ नैताभ्यां सदृशो मन्त्रो वेदेषक्तश्चतुर्ष्वपि । निवेदयित्वा चात्मानं विमलन्तत्र तेजसि ॥४३ तदात्मा तम्मनः शान्तः तद्विष्णोरितिमन्त्रतः । अथवा देवमीशान्भगवन्तं सनातनम् ॥४४ आराधयेन्मद्देशानं महादेवं महेश्वरम् । मन्त्रेण रुद्रगायत्र्या प्रणवेनाथ वा पुनः ॥४५ ईशाने नाथ वा रुद्रैस्त्र्यम्बकेन समाहितः । पुष्पैः पत्रैरथाद्भिर्वा चन्दाद्यैर्महेश्वरम् ॥४६

[[१६२५]]

[[१६२६]]

लघुव्याससंहिता ।

अथोनमः शिवायेति मन्त्रेणानेन वाचयेत् ।

नमस्कुर्यान्महादेव ममृतं परमेश्वरम् ॥४७

निवेदयित्वा स्वात्मानं यो ब्रह्माणमतः परम् । प्रदक्षिणन्ततः कुर्यात्ततो ब्रह्माणि वै जपेत् ॥४८ ध्यायेत देवमीशानं व्योममध्यगतं शुभम् । अथवालोकयेदकं हंसः शुचिषदित्यृचा ॥४६ कुर्यात् पञ्चमहायज्ञान् गृहङ्गत्वा समाहितः । देवयज्ञं पितृयज्ञम्भूतयज्ञन्तथैव च ॥५०

मनुष्यं ब्रह्मयज्ञथ्व पञ्चयज्ञान् प्रचक्षते । यदि स्यात्तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि । कृत्वामनुष्य यज्ञं हि ततः स्वायाय मारभेत् ॥ ५१ अग्नेः पश्चिमतो देशे भूतयज्ञान्तरेऽथवा । कुशपूतेः समासीनं कुशपाणिः समाहितः ॥ ५२ श्रोताग्नौ लौकिकेचापि जले भूम्या मथापिवा । वश्वदेवश्च कर्त्तव्यो वेदयज्ञः स संस्कृतः ॥५३ यदि स्याल्लौकिके पक्वं तदन्नं तत्र हूयते । शालाग्नौ तत्रचेदग्नौ विधिरेषः सनातनः ॥५४ देवेभ्यश्व हुतादन्नाच्छेषाद्भूत बलि हरेत् । श्वभ्यश्च श्वपदेभ्यश्व पतिा दिभ्य एव च ॥५५ दद्याद्भूमा भूत बलिं क्रिमिभ्योऽथ द्विजोत्तमः । सायन्तनस्य सिद्धस्य पक्कमन्नं बलि हरेत् ॥५६

[ द्वितीयो-

ऽध्यायः ]

पञ्चमहायज्ञवर्णनम् ।

वैश्वदेवं विनार्थेन सायम्प्रातर्विधीयते ।

एकन्तु भोजयेद्विप्रं पितृनुद्दिश्य यत्सदा ॥५७ नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ।

उद्धृत्य वाथवाशक्तः किश्विदन्नं समाहितः ॥ ५८ वेदार्थ तत्व विदुषे द्विजाये वोप पादयेत् । पूजयेश्वासनं नित्यं नमस्येदचयेश्च तम् ॥५६ मनोवाक्कर्मेभिः शान्तमागतं स्व गृहं गतम् ।

हन्तकार मथाग्रं वा भिक्षां वा शक्तितो द्विजः ॥६० दद्यादतिथये नित्यं बुध्येत परमेश्वरम् । भिक्षामाहुर्मासमात्रमयं तस्य चतुष्टयम् ॥ ६१ पुष्कलं हन्तकारस्यात्तश्चतुर्गुण मुत्तमम् । गोदोह कालमात्रं वै प्रतीक्ष्यं ह्य तिथि स्वयम् ॥६२ अभ्यागतान्यथाशक्ति भोजयेदतिथिं सदा । आदत्वा देवता भूत भृत्या तिथि पितृष्वपि ॥ ६३ भुञ्जीत चेत्समूढात्मातिर्यग्योनिश्च गच्छति । वेदाभ्यासोऽन्वहंशक्त्या महायज्ञक्रिया क्रमाः ॥ ६४ नाशयन्त्याशु पापानि वेदानामर्चनं तथा । यो मोहादथवा लोभादकृत्वा देवतार्चनम् ॥६५ भुङ्क्ते स यानि नरकान् शूकरेष्वभिजायते । तस्मात्सर्व प्रयत्नेन कृत्वा कर्माणि वै शनैः ॥ ६६ भुञ्जीत स्वजनेः साधं स याति परमाङ्गतिम् । प्राङ्मुखोऽन्नानि भुञ्जीत सूर्य्याभिमुख एव वा ।

[[१६२७]]

[[१६२८]]

[ द्वितीयो-

लघुव्याससंहिता ।

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखोभुङ्क्ते सृणं भुङ्क्ते उदडमुखः ॥ ६७ आसीनस्त्वासनेशुद्ध भूम्यां पादौ निधाय च । उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ ६८ पञ्चाद्रभोजनं कुर्य्यात् भूम्यां पादौ निधाय च । उपलिप्त शुचौ देशे पादौ प्रक्षाल्य वै करौ ॥ ६६ आर्द्रवागाननोभूत्वा पञ्चाद्रभोजनश्चरेत् । महाव्याहृतिभिश्वान्नं परिधायोदकेन तु ॥७० अमृतोपस्तरणमसीत्यापोशनक्रियाञ्चरेत् । स्वाहा प्रणवसंयुक्तं प्राणायान्नाहुतिं ततः ॥ ७१ अपानाय ततोहुत्वा व्यानाय तदनन्तरम् । उदानाय ततोहुत्वा समानायेति पञ्चमम् ॥७२ विज्ञाय चार्थमेतेषां जुहुयादात्मवान् द्विजः । शेषमन्नं यथाकामं भुञ्जीत व्यञ्जनैर्युतम् ॥ ७३ ध्वात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ।

अमृतापिधानमसीत्युपरिष्टाज्जलं पिबेत् ॥७४ आचम्याङ्गुष्ठमात्रेण पादाङ्गुष्ठ े तु दक्षिणे । निधापयेद्धस्तजल मूर्ध्वहस्तः समाहितः ॥ ७५ हुत्वानुमन्त्रणं कुर्याच्छ्रद्धायामिति मन्त्रतः । अथाक्षरेण स्वात्मानं योजयेत् ब्रह्मणेति हि ॥७६ सर्वेषामेव योगानामात्मयोगः परं स्मृतः ।

योगेन विधिना कुर्य्यात् स याति ब्रह्मणः पदम् ॥७७

ऽध्यायः ]

भोजनाद्यनेकप्रकरणवर्णनम् ।

[[१६२६]]

यज्ञोपवीती भुञ्जीत सुगन्धालङ्कृतोत्तरम ।

सायम्प्रात(दिवारात्र्युपलक्षणं) स्तु भुञ्जीत विशेषेण समाहितम् ॥७८

नाद्यात्सूर्य्यग्रहात्पूर्व मह्निसायं शशिग्रहात् ।

ग्राहकाले च नाश्नीयात् स्नात्वाश्नीयात्प्रमुक्तयोः ॥ ७६

अमुक्तयोरस्तगयोरद्याद्दृष्ट्रा परेऽहनि । नाश्नीयात्प्रेक्षमाणाना मप्रदायापि दुर्गतः ॥८० न यज्ञशिष्टादन्यत्वात्कुलो मान्यो ममातुरः । आत्मार्थ भोजनं यस्य सुर्खार्थं यस्य मैथुनम् ॥८१ वृत्त्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् । यो भुङ्क्ते वेष्टितशिरा यस्तु भुङ्क्ते विदिङ्मुखः ॥८२ सोपानत्कश्च यो भुङ्क्ते सर्व विद्यात्तदासुरम् । नाधेरात्रे न मध्याह्न नाजीर्ण नार्द्रवस्त्रधृक् ॥८३

न च भिन्नासनगतो न शयान स्थितोऽपि वा । नोपानत्पादुकी चापि न च संविलपन्नपि ॥८४ भङ्क्ते मुखमास्थाय तदन्नं परिणामयेत् । इतिहास पुराणाभ्यां वेदार्थ मुपयृ हयेत् ॥८५ ततः सन्ध्या मुपासीत पूर्वोक्त विधिना द्विजः । आसीनस्तु जपेदेवीं गायत्रीं पश्चिमाम्प्रति ॥ ८६ नानुतिष्ठति यः पूर्वामुपास्ते न च पश्चिमाम् । न शूद्र ेण समोल्लोके सर्वकर्म विगर्हितः ॥ ८७

हुत्वाग्नो विधिवन्मत्रैर्भुक्त्वा यज्ञावशिष्टकम् ।

[[१६३०]]

लघुव्याससंहिता

द्वितीयो-

विसृज्य बान्धवजनं शपेच्छुष्कपदो निशि । नोत्तराभिमुखः सुप्यात् पश्चिमाभिमुखो न च ॥८८ अवाङ्मुखो न नग्नो वा न च भिन्नासने क्वचित् । न भग्नायान्तु खट्टायां शून्यागारे तथैव च ॥८६ इत्येव मखिलं प्रोक्त महन्यहनि वै पुरा । ब्राह्मणोक्तं कृत्यजात मपवर्ग फलप्रदम् ॥६० नास्तिक्यादथवालस्यात् ब्राह्मणो न करोति यः । स याति नरकान् घोरान् शूकरेष्वभि जायते ॥ ६१ नान्यो विमुक्तये पन्था मुत्काग्रमधिकं स्वकम् । तस्मात्सर्व्वाणि भूतानि मुक्तये परमेष्ठिनः ॥६२

लघुव्यासस्मृतौ द्वितीयोऽध्यायः ।

इति लघुव्याससंहिता समाप्ता ।

ॐ तत्सत् ।॥ अथ ॥