:::::;-
श्रीगणेशाय नमः ।
॥ प्रथमोऽध्यायः ॥
अथेष्टापूर्त कर्मणोः फलाभिधानवर्णनम् ।
इष्टापूर्ती तु कर्तव्यौ ब्राह्मणेन विशेषतः । इष्टेन लभते स्वगं मोक्षं पूर्तेन विन्दति ॥ १ एकाहमपि कौन्तेय भूमिष्ठमुदकं कुरु । कुलानि तारयेत्सप्त यत्र गौवितृपा भवेत् ॥२ भूमिदानेन यो लोका गोदानेन च कीर्तिताः । तांल्लोकान्प्राप्नुयुर्मर्याः पादपानां प्ररोहणे ॥३ वापीकूपतडागानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥४
Sध्यायः ] गङ्गयामस्थिप्रक्षेपेम्वर्गप्राप्तिः, वृपोत्सर्गादिश्राद्धवर्णनम १४०६
अग्निहोत्रं तपः सत्यं वेदानां चैव धारणम ।
आतिथ्यं वैश्वदेवं च इमित्यभिधीयते ॥५
॥५
इष्टापूतो ( र्ते) द्विजातीनां सामान्यो (न्ये) धर्मसाधने । अधिकारी भवेक्षुद्रः पूर्व धर्मे न वैदिके ॥६
यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य च । तावद्वर्षसहस्राणिस्वर्गलोके महीयते ॥ ७
देवतानां पितॄणां च जले दद्याज्जलाञ्जलिम् । असंस्कृतमृतानां च स्थले दद्याज्जलाञ्जलिम् ॥८ एकादशाहे प्रेतस्य यस्य चोत्सृज (ज्य) ते वृपः । मुच्यते प्रेतलोकाच्च स्वर्गलोकं स गच्छति ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत चाश्वमेधेन नीलं वा वृपमुत्सृजेत् ॥१० लोहितो यस्तु वर्णेन मुखे पुच्छे तु पाण्डुरः । श्वेतः खुरविपाणाभ्यां स वे नीलवृपः स्मृतः ॥ ११ नवश्राद्ध त्रिपक्षे च षण्मासे मासिकेऽदिके । पतन्ति पुरुषास्तस्य यो भुङ्क्तेऽनापदि द्विजः ॥१२ यस्यैतानि न कुर्वीत एकोद्दिष्टानि पोडश । प्रेततो न (त्वान्न) विमुच्येत कृतैः श्राद्धशतैरपि ॥१३ एकोद्दिष्टं परित्यज्य पार्वणं कुरुते द्विजः । अमूलं तद्विजानीयात्स मातृपितृघातकः ॥ १४ सपिण्डीकरणादूध्वं प्रतिसंवत्सरं सुतैः ।
प्रतिमासं यथा तम्य प्रतिसंवत्सरं तथा ॥ १५
[[१४१०]]
लघुशङ्खम्मृतिः ।
सपिण्डीकरणादृध्वं यत्र यत्रोपदीयते ।
तत्र तत्र त्र्यं कुर्याद्वर्जयित्वा मृतेऽहनि ॥१६ अमावास्यां क्षयो यस्य प्रेतपक्षे तथा यदि । सपिण्डीकरणादूर्ध्वं तस्योक्तः पार्वणो विधिः ॥१७ त्रिदण्डप्रहणादेव प्रेतत्वं नैव जायते ।
प्राप्ते चैका दशदिने पार्वणं तु विधीयते ॥ १८ मातुः सपिण्डीकरणं कथं कार्यं भवेत्सुतः ।
[ प्रथमो-
पितामहीसह (ह्यादिभि ) स्तस्याः सपिण्डीकरणं स्मृतम् ॥१६ कर्तव्यं प्रत्युप ( तु प्रमी) तायाः सपिण्डीकरणं स्त्रियाः । मृता (s) पि हि न कर्तव्यं चरुमन्त्राहुतित्रतैः ॥ २० मातुः प्रथमतः पिण्डं निर्विपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥२१ अथ चेन्मन्त्रविद्युक्तः शारीरः पङ्क्तिदूपणैः । अदोषं तं यमः प्राह पक्तिपावन एव सः ॥२२ यानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भारत । तानि तस्यैव पूज्यानि न शरीराणि देहिनाम् ॥२३ अग्नौकरणशे तु पितृपात्रे प्रदापयेत् । प्रतिपद्य पितॄणां च न दद्याद्वैश्वदेविके ॥ २४ मृण्मयेषु च पात्रेषु श्राद्ध भोजयते द्विजः ।
अन्नदाताऽपहर्ता च भोक्ता च नरकं व्रजेत् ॥२५ हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनादयः ।
दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्ते च किल्विषम् ॥२६स्त्रियाः सपिण्डीकरणमनेकश्राद्धविवेकं ब्रह्मघातकलक्षणञ्च । १४११
आयसेन तु पात्रेण यदन्नमुपदीयते ।
भोक्ता विष्ठासमं भुङ्क्ते दाता च नरकं व्रजेत् ॥२७
श्राद्ध’ कृत्वेतरश्राद्धे यस्तु भुङ्क्तेऽतिविह्वलः ।
पतन्ति पितरस्तस्य तं मासं रेतपायिनः ॥२८
H
पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।
दानं प्रतिप्रहो होमः श्राद्धं भुक्त्वाऽष्ट वर्जयेत् ॥२६ व्याममात्रं समुत्सृज्य पिण्डांस्तत्र प्रदापयेत् । यत्र संस्पर्शनं वाऽपि प्राप्नुवन्ति न विन्दवः ॥ ३० अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा । तेभ्यश्चापि प्रकर्तव्यमेकोद्दिष्टं न पार्वणम् ॥३१ मातुः श्राद्ध’ तु पूर्वस्मात्पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥३२
दशकृत्वः पिवेञ्चापः सावित्र्याः श्राद्धभुद्विजः । ततः सन्ध्यामुपासीत शुध्यते तदनन्तरम् ॥३३ चान्द्रायणं नवश्राद्धं पराको मासिकेन तु । पक्षत्रयेऽपि कृच्छः स्यादेकाहं पुनराब्दिके ।
अत ऊर्ध्वं न दोषः स्याच्छङ्खस्य वचनं त ( य ) था ॥ ३४ सत्रेविप्रहतानां च शृङ्गिदंष्ट्रिसरीसृपैः ।
आत्मनस्त्यागिनां चैव श्राद्धमेपां न कारयेत् ॥३५
उदकं पिण्डदानं च विप्रेभ्यो यच्च दीयते ।
नोपतिष्ठति तत्सर्वमन्तरिक्षे प्रलीयते ॥३६
[[८६]]
[[१४१२]]
लघुशङ्खस्मृतिः ।
नारायणवलिः कार्यो लोक ग्रहभवान्नरैः ।
तथा यस्य भवेच्छू यो नान्यथा वाऽब्रवीन्मनुः ॥ ३७ गोभूहिरण्यहरणे क्षेत्रापणगृहस्य च ।
यमुद्दिश्य त्यजेत्प्राणांरतमा हुर्ब्रह्मघातकम् ॥ ३८ उद्यताः सह धावन्त एककार्येष्ववस्थिताः । राधेकोऽपि हनेत्तत्र सर्वे ते ब्रह्मघातकाः ॥ ३६ बहूनामेव कायपु यद्येको मर्मघातकः ।
सर्वे ते शुद्धिमि (मृच्छन्ति स एको ब्रह्मघातकः ॥ ४० महापातकसंस्पर्शे स्नानमेव विधीयते ।
संस्पृरस्तु यदा भुङ्क्ते वृच्छ्र सांतपनं चरेत् ॥४६ चाण्डालभाण्डसंस्पृष्टं वापीकूपगतं जलम् । गोमूत्रयावकाहार स्त्रिरात्रेण विशुध्यति ॥ ४२ चाण्डालघट मध्यस्थं यस्तोयं पिबति द्विजः । तत्क्षणात्क्षय (क्षिप) ते यस्तु प्राजापत्यं समाचरेत् ॥४३ यदि न क्षिपते तोयं शरीरे यस्य जीर्यति ।
प्राजापत्यं न दातव्यं कृच्छ्र (च्छ्र) सांतपनं स्मृतम् ॥४४ चरेत्सांतपनं विप्रः प्राजापत्यं तु क्षत्त्रियः ।
तदध तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥४५
यस्य चाण्डालि (ली) संयोगो भवेत्कश्चि (त्वचि) दकामतः । तरय सतिपनं कृच्छ्र रमृतं शुद्धयर्थमात्मनः ॥ ४६ चाण्डा लोदक संस्पृष्टः स्नात्वा विप्रो विशुध्यति । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥४७
चाण्डालघट जलपानमौपवदानादिकर्मणि गोमृते दोषाभावः १४१३
आजानु स्नानमागं स्यादानाभेश्व विशोधनम् । अत ऊर्ध्वं त्रिराजं स्याच्छरीरस्पर्शने मलम् ॥४८ रजस्वला तु संस्पृष्टा श्वानचाण्डालवायसैः । तावत्तिष्ठेन्निराहारः (रा) स्नात्वा कालेन शुध्यति ॥४६ अस्थिभङ्गं गवां कृत्वा चाण्डालस्य च च्छेदनम् । पातनं चैव शृङ्गस्य मासार्धं व्याप (याव ) कं चरेत् ॥५० यवसस्राववोटव्यो यावद्वहेत तद्गृहे (?) ।
तद्वर्णा च सुगां दत्वा ततः पापात्प्रमुच्यते ॥ ५१ हले वा शकटे चैव दुर्बलं यो नियोजयेत् । प्रत्यवाये समुन्ने ततः प्राप्नोति गोवधम् ॥५२ अतिवाह्यातिदोहाभ्यां नासिकाभेदने तथा । नदीपर्वतसंरोधे पादोनं व्रतमाचरेत् ॥५३ एकं च बहुभिः कैश्विद्देवाद्व्यापादितं क्वचित् । कृच्छपादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥ ५४ एकपादं चरेद्रोघे द्वौ पादौ बन्धने चरेत । योक्त्रे च पादहीनं स्याच्चरेत्सर्वं निपातने ॥५५ रोमाणि प्रथमे पादे द्वितीये च (चा) श्मघातनम् । तृतीयं ( ये ) तु शिखा धार्या सशिखं तु निपातने ॥५६ केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् । द्विगुणन्त्रते समादिष्टे द्विगुणे (णा) दक्षिणा भवेत् ॥ ५७ राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तेषां प्रायश्चित्तं न विद्यते ॥ ५८
[[१४१४]]
लघुशङ्खस्मृतिः ।
अन्येषां नखकर्णानां बाहोर्निर्मोचने तथा । सायं संगोपनार्थाय न दुष्येद्रोधबन्धयोः ॥५६ यन्त्रिते गोचिकित्साया मूढगर्भाविमोचने । यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ॥ ६० औषधं स्नेहमाहारं दत्तं गोब्राह्मणाय च ।
यदि कश्चि (काचि) द्विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥ ६१ स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा । कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति ॥ ६२ बालरत्वन्तर्दशाहे तु प्रेतत्वं यदि गच्छति । सद्य एव विशुद्धिः स्यान्नाशौचं नैव सूतकम् ॥६३ आदन्तजन्मनः सद्य आचूडान्नैशिकी स्मृता । त्रिरात्रं तु व्रतादेशा दशरात्रमतः परम् ॥६४ अहस्त्व दत्तकन्याया वालेषु च विशोधनम् । कुर्वन्नैवाशनौ यात मातुलश्रोत्रिये यथा ॥ ६५ ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव कारयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥ ६६ आममांसं घृतं क्षौद्रं स्नेहाश्च फलसंभवाः । म्लेच्छभाण्डस्थिता ह्येते निष्क्रान्ताः शुचयः स्मृताः ॥६७ दिवा कपित्थच्छायासु रात्रौ दधिशमीषु च । धात्रीफलेषु सप्तम्यामलक्ष्मीर्वसते सदा ॥६८ स(शू) पंवातनखाप्रान्तकेशबन्ध पटोदकम् । मार्जनीरेणुसंस्पर्शो हन्ति पुण्यं दिवाकृतम् ॥ ६६
मृताशौचमर्धवाससो जपहोमादिक्रियाणां निन्दा । १४१५
अर्धवासास्तु यः कुर्याज्जपहोमक्रियां द्विजः । तत्सर्वं राक्षसं विद्याद्बहिर्जानु च यत्कृतम् ॥ ५० यत्र यत्र च संकीर्णं पश्यत्यात्मन्यसंशयम् ।
तत्र तत्र तिलैर्होमो गायत्र्यावर्तनं तथा ॥ ७१
इति लघुशङ्खर मृतिः ।
ॐ तत्सत् ।
1! 3727 11 अथ