देवलस्मृतिः

श्रीगणेशाय नमः ।

अथ प्रायश्चित्तवर्णनम् ।

सिन्धुतीरे सुखासीनं देवलं मुनिसत्तमम् । समेत्य मुनयः सर्वे इदं वचनमब्रुवन् ॥१ भगवन्म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राचैवानुपूर्वशः ॥२ कथं स्नानं कथं शौचं प्रायश्चित्तं कथं भवेत् । किमाचारा भवेयुस्ते तदाचक्ष्व सविस्तरम् ॥३

देवल उवाच-

त्रिशङ्क’ वर्जयेद्देशं सर्वं द्वादशयोजनम् । उत्तरेण महानद्या दक्षिणेन तु कीकटम् ॥४ प्रायश्चित्तं प्रवक्ष्यामि विस्तरेण महर्षयः ॥५

[[५६]]

देवलस्मृतिः ।

मृतसूते तु दासीनां पत्नीनां चानुलोमिनाम् । स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौनिकम् ॥६ अपेयं येन संपीतमभक्ष्यं चापि भक्षितम् । म्लेच्छेनतेन विप्रेण अगम्यागमनं कृतम् ॥७ तस्य शुद्धिं प्रवक्ष्यामि यावदेकं तु वत्सरम् । चान्द्रायणं तु विप्रस्य सपरा कं प्रकीर्तितम् ॥८ पराकमेकं क्षत्त्रस्य पादकृच्छ्रेण संयुतम् । पराकाधं तु वैश्यस्य शूद्रस्य दिनपञ्चकम् ॥६ नखलोमविहीनानां प्रायश्चित्तं प्रदापयेत् । चतुर्णामपि वर्णानामन्यथाऽशुद्धिरस्ति हि ॥ १० प्रायश्चित्तविहीनं तु यदा तेषां कलेवरम् । कर्तव्यस्तत्र संस्कारो मेखलादण्डवर्जितः ॥११ म्लेच्छेनतेन शूद्रेर्वा हारिते दण्डमेखले । संस्कारप्रमुखं तस्य सर्वं कार्यं यथाविधि ॥ १२ संस्कारान्ते च विप्राणां दानं धेनुश्च दक्षिणा । दातव्यं शुद्धमिच्छद्भिरश्वगोभूमिकाञ्चनम् ॥१३ तदाऽसौ तु कुटुम्बानां पङ्क्ति प्राप्नोति नान्यथा । स्वभायां च यथान्यायं गच्छन्नेव विशुध्यति ॥ १४ अथ संवत्सरादूर्ध्वं म्लेच्छैर्नीतो यदा भवेत् । प्रायश्चित्ते तु संचीर्णे गङ्गास्नानेन शुध्यति ॥ १५ सिन्धुसौवीरसौराष्ट्रं तथा प्रत्यन्तवासिनः । कलिङ्गकङ्कणान्वङ्गान्गत्वा संस्कारमर्हति ॥ १६

ः।

प्रायश्चित्तवर्णनम् ।

बलाद्दासीकृता ये च म्लेच्छचाण्डालदस्युभिः । अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥१७ उच्छिष्टमार्जनं चव तथा तस्यैव भोजनम् । खरोष्ट्रविड्वराहाणामामिषस्य च भक्षणम् ॥१८ तत्स्त्रीणां च तथा सङ्गं ताभिश्च सह भोजनम् । मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥१६ चान्द्रायणं त्वाहिताग्नेः पराकस्त्वथ वा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ॥ २० संवत्सरोषितः शूद्रो मासार्धं यावकं पिबेत् । मासमात्रोषितः शूद्रः कृच्छपादेन शुध्यति ॥२१ ऊर्ध्वं संवत्सरात्कल्यं प्रायश्चित्तं द्विजोत्तमैः । संवत्सरैश्चतुर्भिश्च तद्भावमधिगच्छति ॥२२ हासो न विद्यते यस्य प्रायश्चित्तं दुरात्मनः । गुह्यकक्ष शिरोभ्रणां कर्तव्यं केशवापनम् ॥२३ प्रायश्चित्तं समारभ्य प्रायश्चित्तं तु कारयेत् । स्नानं त्रिकालं कुर्वीत धौतवासा जितेन्द्रियः ॥२४ कुशहस्तः सत्यवक्ता देवलेन ह्युदाहृतम् । वत्सरं वत्सरार्धं वा मासं मासार्धमेव वा ॥ २५ बलान्म्लेच्छैस्तु यो नीतस्तस्य शुद्धिस्तु कीदृशी ।

संवत्सरोषिते शूद्रे शुद्धिवान्द्रायणेन तु ॥ २६

पराकं वत्सरार्धे च पराकार्धं त्रिमासिके । ।

मासिके पादकृच्छ्रश्च नखरोमविवर्जितः ॥२७

[[१६५७]]

[[१६५८]]

देवलस्मृतिः ।

पादोनं क्षत्त्रियस्योत्तमधं वैश्यस्य दापयेत् । प्रायश्चित्तं द्विजस्योक्तं पादं शूद्रस्य दापयेत् ॥ २८ प्रायश्चित्तावसाने तु दोग्ध्री गौर्दक्षिणा मता । तथाऽसौ तु कुटुबान्ते ह्युपविष्टो न दुष्यति ॥ २६ अशीतिर्यस्य वर्षाणि बालो वाऽप्यूनपोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥३० उनैकादशवर्षस्य पञ्चवर्षात्परस्य च ।

प्रायश्चित्तं चरेद्भ्राता पिता वाऽन्योऽपि वर्धिता ॥३१ स्वयं व्रतं चरेत्सर्वमन्यथा नैव शुध्यति ।

तिलहोमं प्रकुर्वीत जपं कुर्यादतन्द्रितः ॥३२ संलापस्पर्श निःश्वास सहयानासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥३३ याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥ ३४ संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनासनयज्ञादि कुर्वाणः सार्वकामिकम् ॥३५ अतः परं प्रवक्ष्यामि प्रायश्चित्तमिदं शुभम् । स्त्रीणां म्लेच्छेश्च नीतानां बलात्संवेशने क्वचित् ॥३६ ब्राह्मणी क्षत्रिया वैश्या शूद्रा नीता यदाऽन्त्यजैः । ब्राह्मण्याः कीदृशं न्याय्यं प्रायश्चित्तं विधीयते ॥ ३७ ब्राह्मणी भोजयेन्म्लेच्छमभक्ष्यं भक्षयेद्यदि ।

पराकेण ततः शुद्धिः पादेनोत्तरतोत्तरान् (दानेनोत्तरोत्तरा)

बलान्म्लेच्छेनीतानां स्त्रीणां विषये प्रायश्चित्तम् । १६५६

न कृतं मैथुनं ताभिरभक्ष्यं नैव भक्षितम् । शुद्धिस्तदा त्रिरागेण म्लेच्छान्नेनैव भक्षिते ॥३६ रजस्वला यदा स्पृष्टा म्लेच्छेनान्येन वा पुनः । त्रिरात्रमुषिता स्नात्वा पञ्चगव्येन शुध्यति ॥४० म्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रिया तथा । त्रिरात्रेण विशुद्धिः स्याद्देवलस्य वचो यथा ॥४१ स्पृष्ट्रा रजस्वलाऽन्योन्यं ब्राह्मणी शुद्रजा तथा । पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥४२ ब्राह्मण्यनशनं कुर्यात्क्षत्त्रिया स्नानमाचरेत् । सचैलं वैश्यजातीनां नक्तं शूद्रे विनिर्दिशेत् ॥४३ म्लेच्छानं म्लेच्छसंस्पर्शो म्लेच्छेन सह संस्थितिः । वत्सरं वत्सरादृध्वं त्रिरात्रेण विशुध्यति ॥४४ म्लेच्छ तानां चौरैर्वा कान्तारेषु प्रवासिनाम् । भुक्त्वा भक्ष्यमभक्ष्यं वा क्षुधार्तेन भयेन वा ॥ ४५ पुनः प्राप्य स्वकं देशं चातुर्वण्यस्य निष्कृतिः । कृच्छ्रमेकं चरेद्विप्रस्तद्धं क्षत्रियश्वरेत् । पादोनं च चरेद्वैश्यः शूद्रः पादेन शुध्यति ॥४६ गृहीता स्त्री बलादेव म्लेच्छैर्गुर्वीकृता यदि । गुर्वी न शुद्धिमाप्नोति त्रिरात्रेणेतरा शुचिः ॥४७ योषा गर्भ विधत्ते या म्लेच्छात्कामाद कामतः । ब्राह्मणी क्षत्रिया वैश्या शूद्रा वर्णेतरा च या ॥४८

[[१६६०]]

देवलस्मृतिः ।

अभक्ष्यभक्षणं कुर्यात्तस्याः शुद्धिः कथं भवेत् । कृच्छ्र सांतपनं शुद्धिघृतैर्योनेश्च पाचनम् ॥४६ असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते । अशुद्धा सा भवेन्नारी यावच्छल्यं न मुञ्चति ॥५० विनिःसृते ततः शल्ये रजसो वाऽपि दर्शने । तदा सा शुभ्यते नारी विमलं काञ्चनं यथा ॥ ५१ स गर्भा दीयतेऽन्यस्मै स्वयं ग्राह्यो न कर्हिचित् । स्वजातौ वजयेद्यस्मात्संकरः स्यादतोऽयथा ॥ ५२ गृहीतो यो बलान्म्लेच्छैः पञ्च षट् सप्त वा समाः । दशादि विंशति यावत्तस्य शुद्धिर्विधीयते ॥५३ प्राजापत्यद्वयं तस्य शुद्धिरेषा विधीयते । अतः परं नास्ति शुद्धिः कृच्छमेव सहोषिते ॥५४ म्लेच्छैः सहोषितो यस्तु पञ्चप्रभृति विंशतिः । वर्षाणि शुद्धिरेषोक्ता तस्य चान्द्रायणद्वयम् ॥५५ कक्षागुह्य शिरः श्मश्रुभ्र लोमपरिकृन्तनम् । प्राहृत्य पाणिपादानां नखलोम ततः शुचिः ॥५६ यो दातुं न विजानाति प्रायश्चित्तं द्विजोत्तमः । शुद्धि ददाति जान्यस्मै तदशुद्धः स भोजनम् ॥५७ सभायां स्पर्शने चैव म्लेच्छेन सह संविशेत् । कुर्यात्स्नानं सचैलं तु दिनमेकमभोजनम् ॥५८ माता म्लेच्छत्वमा गच्छेत्पितरो वा कथंचन । असूतकं च नष्टस्य देवलस्य वचो यथा ॥ ५६म्लेच्छसंबन्धीय प्रायश्चित वर्णनम् ।

[[१६६१]]

मातरं च परित्यज्य पितरं च तथा सुतः । ततः पितामहं चैव शेषपिण्डं तु निर्वपेत् ॥६० स्त्रीणां चैव तु शूद्राणां पतितानां तथव च । पथ्यगव्यं न दातव्यं दातव्यं मन्त्रवर्जितम् ॥ ६१ वरुणो देवता मूत्रे गोमये हव्यवाहनः । सोमः क्षीरे दधिन वायुघृते रविरुदाहृतः ॥ ६२ गोमूत्रं ताम्रवर्णायाः श्वेतायाश्चैव गोमयम् । पयः काञ्चनवर्णाया नीलायाश्चापि गोदधि ॥ ६३ घृतं वै कृष्णवर्णीया विभक्तिवर्णगोचरा । उदकं सर्ववर्णं स्यात्कस्य वर्णो न गृह्यते ॥ ६४ षण्मात्रिक (एकमात्रं ) तु गोमूत्रं गोमयं (द्विमात्रकं च कुशोदकम ।

त्रिमात्रिकं घृतं क्षीरं दधि स्याद्दशमात्रिकम् ॥६५

व्रते तु सर्ववर्णानां पञ्चगव्यं तु संख्यया । प्रायश्चित्तं यथोक्तं तु दातव्यं ब्रह्मवादिभिः ॥६६ अन्यथा दापयेद्यस्तु प्रायश्चित्ती भवेद्विजः ॥६७ कपिलायाश्च गोदुग्ध्वा धारोष्णं यः पयः पिबेत् । एष व्यासकृतः कृच्छ्रः श्वपाकमपि शोधयेत् ॥६८

तिलहोमं प्रकुर्वीत जपं कुर्यादतन्द्रितः ।

विष्णो रराटमन्त्रेण प्रायश्चित्ती विशुध्यति ॥ ६६

बहुनाऽत्र किमुक्तेन तिलहोमो विधीयते ।

तिलान्दत्त्वा तिलान्भुक्त्वा कुर्वीताघनिवारणम् ॥७०

[[१६६२]]

देवलस्मृतिः ।

संपादयन्ति यद्विप्राः स्नानं तीर्थफलं तपः । संपादी क्रमते पापं तस्य संपद्यते फलम् ॥ ७१ प्रायश्चित्तं समाख्यातं यथोक्तं देवलेन तु । इतरेषामृषीणां च नान्यथा वाक्यमर्हथ ॥७२ सुवर्णदानं गोदानं भूमिदानं गवाह्निकम् । विप्रेभ्यः संप्रयच्छेत प्रायश्चित्ती विशुध्यति ॥ ७३ पञ्चाहान्सहवासेन संभाषण सहाशनैः ।

संप्राश्य पञ्चगव्यं तु दानं दत्त्वा विशुध्यति ॥७४

एकद्वित्रिचतुः संख्यान्वत्सरान्संवसेद्यदि । म्लेच्छवासं द्विजश्रेष्ठः क्रमतो द्रव्ययोगतः ॥७५

एकाहेन तु गोमूत्रं व्यहेनैव तु गोमयम् । त्र्यहारक्षीरेण संयुक्तं चतुर्थे दधिमिश्रितम् ॥७६ पञ्चमे घृतसंपूर्णं पञ्चगव्यं प्रदापयेत् । पञ्चसप्तदशाहानि पञ्चदशाश्च विंशतिः ॥ ७७ संवासं च प्रवक्ष्यामि देहशुद्धिं द्विजन्मनाम् । पञ्चाहं पञ्चगव्यं स्यात्पादकृच्छ्र दशाहिके ॥ ७८ पराकं पञ्चदशभिविंशेऽतिकृच्छ्रमेव च । उदरं प्रविशेद्यस्य पञ्चगव्यं विधानतः ॥ ७६ यत्किंचिद्दुष्कृतं तस्य सर्वं नश्यति देहिनः । पञ्च सप्ताष्ट दश वा द्वादशाहोऽपि विंशतिः । म्लेच्छेनींतस्य विप्रस्य पञ्चगव्यं विशोधनम् ॥८०

सांतपनादि कृच्छ्रचान्द्रायणान्त विधि वर्णनम् । १६६३

पञ्चगव्यं च गोक्षीरं दधि मूत्रं घृतं पयः । प्राश्यापरेऽह्न युपवसेत्कृच्छ्र सतिपनं चरेत् ॥८१ पृथक्सांतपनं द्रव्यैः षडहः सोपवासकः ।

सप्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतम् ॥८२ पर्णोदुम्बरराजीव विल्वपत्रकुशोदकैः ।

प्रत्येकं प्रत्यहं पीतैः पू(प)र्णकृच्छ्र उदाहृतः ॥८३ तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ।

एकरात्रोपवासश्च तप्तकृच्छ्रस्तु पावनः ॥८४ एकभक्तेन नक्तेन तथैवायाचितेन तु । उपवासेन चैकेन पादकृच्छ्र उदाहृतः ॥ ८५

कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् । द्वादशाहोपवासेन पराकः परिकीर्तितः ॥८६ पिण्याकशाकतकाम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च कुच्छ ः सौम्यः प्रकीर्तितः ॥८७ एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् । तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥८८ तिथि वृद्धया चरेत्पिण्डाञ्छुक्ले शिख्यण्डसंमितान् । एकैकं ह्रासयेत्पिण्डान्कृच्छ्रचान्द्रायणं चरेत् ॥८६ यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् । इति देवल (ले) [न] कृतं धर्मशास्त्रं प्रकीर्तितम् ॥ ६० समाप्तेयं देवलस्मृतिः ।

॥ ॐ तत्सद्ब्रह्मणे नमः ॥

॥ अथ ॥