बृहस्पतिस्मृतिः

श्रीगणेशाय नमः ।

तत्रादौससुवर्णपृथिवीदानफलमहत्ववर्णनम् ।

इष्टा क्रतुशतं राजा समाप्तवरदक्षिणम्

मघवान् ! वाग्विदां श्रेष्ठं पर्यपृच्छद् बृहस्पतिम् ॥१ भगवन् केन दानेन सर्वतः सुखमेधते । यद्दत्तं यन्महार्घं च तन्मे ब्रूहि महातप ! ॥२ एवमिन्द्रेण पृष्टोऽसौ देवदेवपुरोहितः । वाचस्पतिमहाप्राज्ञो बृहस्पतिरुवाच ह ॥ ३ सुवर्णदानं गोदानं भूमिदानं च वासव ! । एतत् प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥४ सुवर्ण रजतं वस्त्रं मणिरत्नं च वासव ! । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥५गोचर्मलक्षणं पृथिवीदानफल श्ववर्णनम् ।

॥६

फालकृष्टां महीं दत्त्वा सबीजां शस्यशालिनीम् । यावत् सूर्य्यकरा लोकास्तावत् स्वर्गे महीयते ॥६ यत्किश्चित् कुरुते पापं पुरुषो वृत्तिकर्शितः । अपि गोचर्म्ममात्रेण भूमिदानेन शुध्यति ॥ ७ दशहस्तेन दण्डेन त्रिंशद्दण्डानि वर्त्तनम् । दश तान्येव विस्तारो गोचर्मे तन्महाफलम् ॥८ सवृषं गोसहस्रं च यत्र तिष्ठत्यतन्द्रितम् । बालवत्सप्रसूतानां तद् गोचर्म इतिस्मृतम् ॥६

[[१६११]]

विप्राय दद्याच्च गुणान्विताय तपोवियुक्ताय जितेन्द्रियाय । यावन्मही तिष्ठति सागरान्ता तावत् फलं तस्य भवेद्नन्तम् ॥१०

यथा वीजानि रोहन्ति प्रकीर्णानि महीतले । एवं कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥११ यथाप्सु पतितः सद्य स्तैलविन्दुः प्रसर्पति । एवं भूमिकृतं दानं सश्ये सश्ये प्ररोहति ॥१२ अन्नदाः सुखिनो नित्यं वस्त्रदश्चैव रूपवान् ॥ १३

स नरः सर्वदो भूप यो ददाति वसुन्धराम् । यथा गौर्भरते वत्सं क्षारमुत्सृज्य क्षीरिणी ॥ १४ एवं दत्ता सहस्राक्ष ! भूमिर्भरति भूमिदम् । शङ्ख भद्रासनं छत्रं चरस्थावरवारणाः ॥१५ भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर ! । आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः ॥१६

[[१६१२]]

वृहस्पतिस्मृतिः ।

शूलपाणिश्च भगवानभिनन्दति भूमिदम् । आस्फोटयन्ति पितरः प्रहर्षन्ति पितामहाः ॥ १७ भूमिदाता कुले जातः स नस्त्राता भविष्यति । त्रीण्याहुरति दानानि गावः पृथ्वी सरस्वती ॥१८ तारयन्ति हि दातारं सर्वात्पापादसंशयम् । प्रावृता वस्त्रदा यान्ति नग्ना यान्ति त्ववस्त्रदाः ॥१६ तृप्ता यान्त्यग्निदातारः क्षुधिता यान्त्यनन्नदाः । काक्षन्ति पितरः सर्वे नरकाद्भयभीरवः ॥ २० गयां यो यास्यति पुत्रः स नस्त्राता भविष्यति । एष्टव्या बहवः पुत्राः यद्येकोऽपि गयां वजेत् ॥२१ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् । लोहितो यस्तु वर्णेन पुच्छा यस्तु पाण्डुरः ॥२२ श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते । नीलः पाण्डुरलाङ्ग लस्तृणमुद्धरते तु यः ॥२३ षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः । यच्च शृङ्गगतम्पङ्कं कूलस्तिष्ठति चोद्धृतम् ॥२४ पितरस्तस्य नश्यन्ति सोमलोकं महाद्युतिम् । पृथोयदोर्दिलीपस्य नृगस्य नहुषस्य च ॥२५ अन्येषाश्च नरेन्द्राणां पुनरन्या भविष्यति । बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ॥ २६ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् यस्तु ब्रह्मघ्नः स्त्रीघ्नो वा यस्तु वै पितृघातकः ॥ २७

सफलंनीलबृषभलक्षणं भूमिहर्तुर्निन्दा च वर्णनम् । १६१३

गवां मतसहस्राणां हन्ता भवति दुष्कृती । स्वदत्तां परदत्तां वा यो हरेच्च वसुन्धराम् ॥२८ श्वविष्ठायां क्रिमिर्भूत्वा पितृभिः सह पच्यते । आक्षेप्ता चानुमन्ता च तमेव नरकं व्रजेत् ॥ २६ भूमिदो भूमिहर्त्ता च नापरं पुण्यपापयोः । ऊर्ध्वाधो वाऽवतिष्ठेत यावदाभूतसंप्लवम् ॥३० अग्नेरपत्यं प्रथमं हिरण्यं भूर्वेष्णवी सूर्यसुताश्च गावः । लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाश्च महीञ्च दद्यात् ॥

षडशीति सहस्राणां योजनानां वसुन्धराम् । स्वतो दत्ता तु सर्वत्र सर्वकामप्रदायिनी ॥ ३२ भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ॥३३ सर्वेषामेव दानानां एकजन्मानुगं फलम् । हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥३४ यो न हिंस्यादहं ह्यात्मा भूतग्रामं चतुर्विधम् । तस्य देहाद्वियुक्तस्य भयं नास्ति कदाचन ॥३५ अन्यायेन हृता भूमिर्यै न रैरपहारिता । हरन्तो हारयन्तश्च हन्युस्ते सप्तमङ्गुलम् ॥३६ हरते हरयेद्यस्तु मन्दबुद्धिस्ततो वृतः ।

स बध्यो वारुणैः पाशैस्तिर्यग्योनिषु जायते ॥३७ अ (सु) श्रुभिः पतितैस्तेषां दानानामपकीर्त्तनम् । ब्राह्मणस्य हृते क्षेत्रे हृतं त्रिपुरुषं कुलम् ॥३८

[[१६१४]]

वृहस्पतिस्मृतिः ।

वापीकूपसहस्रेण अश्वमेधशतेन च ।

गवां कोटिप्रदानेन भूमिहर्त्ता न शुध्यति ॥ ३६ गामेकां स्वर्णमेकं वा भूमेरप्यर्द्ध मङ्गुलम् । रुन्धन्नरकमायाति यावदाभूतसंप्लवम् ।

हुतं दत्तं तपोऽधीतं यत्किञ्चिद्धर्मसञ्चितम् ॥४० अर्द्धाङ्गुलस्य सीमाया हरणेन प्रणश्यति । गोवीथीं ग्रामरथ्याश्च श्मशानं गोपितं तथा ॥ ४१

सम्पीड्य नरकं याति यावदाभूतसंप्लवम् । ऊषरे निर्जले स्थाने प्रस्तं शस्यं विसजयेत् ॥४२ जलाधारश्च कर्तव्यो व्यासस्य वचनं यथा । पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ॥४३ शतमश्वानृते हन्ति सहस्रं पुरुषानृते ।

हन्ति जाता न जाताश्च हिरण्यार्थेऽनृतं वदेत् ॥ ४४ सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ।

स्वे मा रतिं कुर्याः प्राणैः कण्ठगतैरपि ॥४५ अनौषधमभेषज्यं विपमेतद्धलाहलम् ।

न विषं विषमित्याहुः ब्रह्मस्वं विषमुच्यते ॥४६ विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् । लोहखण्डाश्म चूर्ण च विषश्च ज्वरयेन्नरम् ॥४७ ब्रह्मस्वं त्रिषु लोकेषु कः पुमान् ज्वरयिष्यति । मन्युप्रहरणा विप्रा राजानः शस्त्रपाणयः ॥४८

अन्यायेनभूमिहरणे फलंकन्यानृतादिविषये दोषनिरूपणफलम् १६१५

शस्त्रमेकाकिनं हन्ति विप्रमन्युः कुलक्षयम् ।

मन्युप्रहरणा विप्रा चक्रप्रहरणो हरिः ॥४६ चक्रात्तीव्रतरो मन्युस्तस्माद्विप्रं न कोपयेत् । अग्निदग्धाः प्ररोहन्ति सूर्यदग्धास्तथैव च ॥५० मन्युदग्धस्य विप्राणामङ्करो न प्ररोहति । अग्निर्दहति तेजसा सूर्यो दहति रश्मिभिः ॥ ५१ राजा दहति दण्डेन विप्रो दहति मन्युना । ब्रह्मस्वेन तु यत् सौख्यं देवस्वेन तु या रतिः ॥ ५२ तद्धनं कुलनाशाय भवत्यात्म विनाशकम् । ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् ॥५३ गुरुमित्रहिरण्यच्च स्वर्गस्थमपि पीडयेत् । ब्रह्मस्वेन तु यच्छिद्रं तच्छिद्रं न प्ररोहति ॥५४ प्रच्छादयति तच्छिद्रमन्यत्र तु विसर्पति । ब्रह्मस्वेन तु पुष्टानि साधनानि बलानि च ॥५५ संग्रामे तानि लीयन्ते सिकतासु यथोदकम् । श्रोत्रियाय कुलीनाय दरिद्राय च वासव ! ॥५६ सन्तुष्टाय विनीताय सम्भूताहिताय च । वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः ॥५७ ईदृशाय सुरश्रेष्ठ ! यदत्तं हि तदक्षयम् । आमपात्रे यथान्यस्तं क्षीरं दधि घृतं मधु ॥ ५८ विनश्येत्पात्र दौर्बल्यात्तच्च पात्रं विनश्यति ।

[[1]]

एवं गाव हिरण्यञ्च वस्त्रमन्नं महीं तिलान् ॥५६

[[१६१६]]

वृहस्पतिस्मृतिः ।

अविद्वान् प्रतिगृह्णाति भस्मीभवति काष्ठवत् । यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः ॥ ६० बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः । कुलं तारयते धीरः सप्त सप्त च वासव ! ॥६१ यस्तडाकं नवं कुर्य्यात् पुराणं वाऽपि खानयेत् । स सर्व कुलमुद्धृत्य स्वर्गे लोके महीयते ॥ ६२ वापीकूपतडागानि उद्यानोपवनानि च । पुनः संस्कारकर्त्ता च लभते मौलिकं फलम् ॥ ६३ निदाघकाले पानीयं यस्य तिष्ठति वासव ! स दुर्गं विषमं कृत्स्नं न कदाचिदवाप्नुयात् ॥ ६४ एकाहं तु स्थितं तोयं पृथिव्यां राजसत्तम ! कुलानि तारयेत्तस्य सप्त सप्त पराण्यपि ॥ ६५ दीपालोकप्रदानेन वपुष्मान् स भवेन्नरः । प्रोक्षणीयप्रदानेन स्मृति मेधाच्च विन्दति ॥६६ कृत्वाऽपि पापकर्माणि यो दद्यादन्नमर्थिने । ब्राह्मणाय विशेषेण न स पापेन लिप्यते ॥ ६७ भूमिर्गाव स्तथा द्वाराः प्रसह्य हियते यदा । नचाऽऽवेदयते यस्तु तमाहुर्ब्रह्मघातकम् ॥ ६८ निवेदितस्तु राजा वै ब्राह्मणैर्मन्युपीडितैः । तं न तारयते यस्तु तमाहुर्ब्रह्मघातकम् ॥६६ उपस्थिते विवाहे च यज्ञे दाने च वासव । । मोहाच्चरति विघ्नं यः स मृतो जायते क्रिमिः ॥ ७०

तडागादिनिर्माण फलाभिधानम् ।

धनं फलति दानेन जीवितं जीवरक्षणात् । रूपमैश्वर्यमारोग्यमहिंसा फलमश्नुते ॥७१ फलमूलाशनात पूज्यं स्वगं सत्येन लभ्यते । प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते ॥ ७२ गवाढ्यः शक्रदीक्षायाः स्वर्गगामी तृणाशनः । स्त्रिय स्त्रिषवणस्त्रांयी वायुं पीत्वा क्रतुं लभेत् ॥७३ नित्य स्नायी भवेदकः सन्ध्ये द्वे च जपन् द्विजः । न तत्साधयते राज्यं नाकपृष्ठमनाशके ॥७४ अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ।

रत्ना (सा) नां प्रतिसंहारे पशून पुत्रांश्च विन्दति ॥७५ नाके चिरं स वसते उपवासी च यो भवेत् । सततं चैकशायी यः स लभेदीप्सिताङ्गतिम् ॥७६ वीरासनं वीरशय्यां वीरस्थानमुपाश्रितः ।

अक्षय्यास्तस्य लोकाः

स्युः

सर्वकामगमास्तथा ॥७७

उपवासञ्च दीक्षा व अभिषेकञ्च वासव ! । कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥६८ अधीत्य सर्ववेदान् वै सद्यो दुःखात् प्रमुच्यते ॥ ६६ पावनं चरते धर्मं स्वर्गे लोके महीयते ॥८० वहस्पतिमतं पुण्यं ये पठन्ति द्विजातयः । चत्वारि तेषां वर्धन्ते आयुर्विद्या यशो बलम् ॥८१

इति वृहस्पतिप्रणीतं धर्मशास्त्रं सम्पूर्णम् ।

समाप्ताचेयं, बृहस्पतिस्मृतिः ।

ॐ तत्सत् ।

[[१६१७]]

॥ अथ ॥