::::
॥ श्रीगणेशाय नमः ॥
…
॥ प्रथमोऽध्यायः ॥
अथ ब्रह्मचारिणां क्रमागतकर्तव्य वर्णनम् ।
शौनकाद्याश्च मुनय औशनं भार्गवं मुनिम् । नत्वा पप्रच्छुरखिलं धर्मशास्त्रविनिर्णयम् ॥१
[[१५५०]]
औशनस्मृतिः ।
ऋषीणां शृण्वतां पूर्वमुशना धर्मतत्ववित् । धर्मार्थकाममोक्षाणां कारणं पापनाशनम् ॥२ सुसमाधिहृदो यूयं शृणुध्वङ्गदतो मम । भार्गवं पितरं नत्वा उशनं धर्ममब्रवीत् ॥३ कृतोपनयनो वेदानधीयीत द्विजोत्तमः । गर्भाष्टमे व्यष्टमे वा स्वसूत्रोक्त विधानतः ॥४ दण्डे च मेखलासूत्रे कृष्णाजिनधरो मुनिः । भिक्षाहारो गुरुहिते वीक्षमाणो गुरोर्मुखम् ॥५ कार्पासमुपवीतात् सन्निर्मितं ब्रह्मणा पुरा । ब्राह्मणानान्त्र्यवित् सूत्रं कौशिवादास्त्रमेव वा ॥ ६ सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः । अन्वथा यत्कृतं कर्म तद्भवत्या यथाक्रमम् ॥७ वसेदविकृतं वासः कार्पासं वा कशायकम् । तदेव परिधानीयं शुकुमत्स्यद्रुमुत्तमम् ॥८ उत्तरीयं समाख्यातं वासः कृष्णाजिनं शुभम् । अभावे भव्यमजिनं रौरवं वा विधीयते ॥ उपवीतं वामबाहुं सव्यं वाहु समन्वितम् । उपवीतं भवेन्नित्यन्निवीतं कर्णलम्बनम् ॥१० सव्यबाहुं समुद्धृत्य दक्षिणेन धृता द्विजाः । प्राचीनावीतमित्युक्तं पित्र्ये कर्मणि धारयेत् ॥ ११ अग्न्यगारे गवाङ्गोष्ठे होमे जप्ये तथैव च । स्वाध्यायभोजने नित्यं ब्राह्मणानाञ्च सन्निधौ ॥१२
[ प्रथमो-ऽध्यायः ]
ब्रह्मचारिधर्मवर्णनम् ।
उपासने गुरूणाभ्व सन्ध्ययोरुभयोरपि ।
उपवीती भवेन्नित्यं विधिरेषः सनातनः ॥ १३ मौजी त्रिवृत्समा लक्ष्णा कार्या विप्रस्य मेखला । मुज्ज्यभावे कुशानाहु ग्रन्थिनैकेन वा त्रिभिः ॥१४ धारयेद्वैल्वपालाशौ दण्डौ केशान्तगो द्विजः । यज्ञाख्यवृक्षजं वाथ सौम्यं वृषणमेव च ॥ १५ सायं प्रातर्द्विजः सन्ध्यामुपासीत समाहितः । कामाल्लोभाद्भयान्मोहात् कदा न पतितो भवेत् ॥१६ अग्निकार्यं ततः कुर्यात्सायं प्रातः प्रसन्नधीः । स्नात्वा सन्तर्पयेद्देवानृषीन् पितृगणांस्तथा ॥ १७ देवाभ्यर्चान्ततः कुर्यात् पुष्पैः पत्रेण चाम्बुभिः । अभिवादनशीलः स्यान्नित्यं वृद्ध ष्टधर्मतः ॥ १८ असावहम्भो नामेति सम्यक् प्रणतिपूर्वकम् । आयुरारोग्यवान् वित्तं द्रव्याद्यपरिवर्जितः ॥१६ आयुष्मान् भव सौम्येति वाच्यो विप्राभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरस्ततः ॥ २० यो न चेत्यभिवादस्य द्विजः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ २१ सव्येन पाणिना कार्य उपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणम् ॥२२ लौकिकं वैदिकं वाऽपि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं तत्पूर्वमभिवादयेत् ॥ २३
[[१५५१]]
[[१५५२]]
औशनसस्मृतिः ।
नोदकं धारयेद्भक्षं पुष्पाणि समिधस्तथा ।
[ प्रथमो-
एवं विधानि चान्यानि न देवार्थेषु किभवन ॥२४ ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रियश्चाप्यनामयम् ॥२५ वैश्यं क्षेमं समागम्य शूद्रकारोग्यमेव च । उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ॥२६ मातुलश्वशुरभ्रातृमातामहपितामहौ ।
वर्णकाश्च पितृव्यश्च पञ्चते पितरः स्मृताः ॥ २७ माता मातामही गुर्वी पितृमातृस्वसादयः । श्वश्रु पितामही ज्येष्ठा ज्ञातव्या गुरवः स्त्रियः ॥२८ इत्युक्त्वा गुरवः सर्वे मातृतः पितृतस्तथा । अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ॥२६ गुरुं दृष्ट्रा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः । न ते रुपवसेत्साद्धं विवादेनार्थकारणात् ॥३० जीवितार्थमपि द्वेषं गुरुभिर्नैव भाषणम् । उदितोऽपि गणैरन्यैर्गुरुद्वेषी पतत्यधः ॥३१ गुणानामपि सर्वेषां पूजाः पञ्च विशेषतः । तेषामाद्यस्त्रियः श्रेष्ठास्तेषां माता सुपूजिता ॥ ३२
यो हि वासयति दिवा येन सद्योपदिश्यते । ज्येष्ठो भ्राता च भर्त्ता च पश्च ते गुरवस्तथा ॥३३ आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीयाः प्रयत्नेन पञ्चैते भूतिमिच्छता ॥३४
ऽध्यायः ]
ब्रह्मचारिणांधर्म्मसारवर्णनम् ।
यावत् पिता च माता च द्वावेतौ निर्विकारणम् । तावत् सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः । पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ॥३५ स पुत्रः सकलं कर्म्म प्राप्नुयात्तेन कम्मैणा । नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ॥ ३६ तयोः प्रत्युपकारोऽपि न हि कश्चन विद्यते । तयोर्नित्यं प्रियं कुर्य्यात्कर्म्मणा मनसा गिरा । न ताभ्या मननुज्ञातो धर्म्ममेकं समाचरेत् ॥ ३७ वजयित्वा मुक्तिफलं नित्यनैमित्तिकं तथा । धर्म्मसारः समुद्दिष्टः प्रेत्यानन्दफलप्रदः ॥३८ सम्यगाचारवक्तारं विसृष्टस्तदनुज्ञया ।
शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवि ॥ ३६ यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते । तेन दोषेण संप्रेत्य निरयं सम्प्रयच्छति ॥४० पुंसाध्वात्मनि वेषेण पूज्यो भर्त्ता च सम्मतः । यानि दातरि लोकेऽस्मिानुपकारोऽपि गौरवम् ॥४१ ये नरा भर्तृ पिण्डार्थं स्वान् प्राणान् सन्त्यजन्ति हि । तेषामेव परान् लोकानुवा च भगवान् भृगुः ॥४२ मातुलांश्च पितृव्यांश्च श्वशुरान् ऋत्विजान् गुरून् । असावयमिति ब्रूयात्प्रत्युक्ताय यवीयसः ॥ ४३ आचाय्य दीक्षितो नाम्ना यवीयानपि यो भवेत् । भोःशब्दपूर्वकं चैनमभिभाषेत धर्म्मवित् ॥४४
[[१५५३]]
[[१५५४]]
औशनसस्मृतिः ।
[ प्रथमो-
अभिवाद्याश्च पूर्वन्तु शिरसावघशर्म च । ब्राह्मणक्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ॥४५ नाभिवाद्यास्तु विप्राणां क्षत्रियाद्याः कथञ्चन । ज्ञानकर्म्मगुणोपेता यद्यप्येते बहुश्रुताः ॥४६ ब्राह्मणाः सर्ववर्णानां स्वस्ति कुर्य्यादिति स्थितिः । सवर्णेऽप्य सवर्णानां कार्य्यमेवाभिवादनम् ॥४७ गुरुरभिर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ ४८ विद्या कर्म्म वयो बन्धुर्वित्तं भवति यस्य वै । मान्यस्थानानि पश्वाहुः पूर्वं पूर्व गुरूणि च ॥४६ पश्वानां त्रिषु वर्णेषु भवेत्तु गुणवान् हि यः । यत्र स्यात्सोऽत्र मानार्हः क्षुद्रोऽपि स भवेद् यदि ॥ ५० पिण्डादेभ्यो ब्राह्मणेभ्यः स्त्रियै राज्ञेऽस्य चक्षुषे । वृद्धाय भावहीनाय रोगिणे दुर्बलाय च ॥५१ भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् । निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ॥५२ भवत्पूर्वं चरेद्भक्षमुपनीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥५३ मातरं वा स्वसारं वा मातुर्वा भगिनीं तथा । भिक्षेत भिक्षा प्रथमं या तु नैनं विमानयेत् । सजातीयप्रहेष्वेवं सर्ववर्णिकमेव वा ।
भैक्षस्याचरणं प्रोक्तं पतितादिषु वर्जितम् ॥५४
ऽध्यायः ]
ब्रह्मचारिणां धर्म्मसारवर्णनम् ।
वेदयज्ञादिहीनानां प्रशस्तानां स्वकर्म्मसु । ब्रह्मचारी चरेद्भैक्षं गृहस्थः प्रयतोऽन्वहम् ॥५५
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अभावेऽप्यथ गेहानां पूर्वं पूर्व विवर्जयेत् ॥५६ सर्व वापि चरेद् ग्रामं पूर्वोकानामसम्भवे । नियम्य प्रयतो वाचं दिशश्चानवलोकयन् ॥५७ समाहृत्य तु तद्भक्षं यावदर्थमिहाज्ञया ।
भुञ्जीत प्रयतो नित्यं वाग्यतो नान्यमानसः ॥ ५८ भैक्षेण वर्तयेन्नित्यं कामनाशीर्भवेद् व्रती । भैक्षेण वृत्तिनो वृत्तिरुपवाससमं स्मृता ॥ ५६ पूजयेदशनं नित्यमद्यादन्नम कुत्सयन् । दृष्टा हृष्येत्प्रसीदेच्च प्रतिनन्देश्व सर्वतः ॥ ६० अनारोग्यमनायुष्यमस्वग्यं कुत्स भोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ ६१ प्राङ्मुखोऽन्नानि भुञ्जीत दक्षिणामुख एव वा । नाद्यादुदङ्मुखो नित्यं विधिपूवं सनातने ॥६२ प्रक्ष्यालय पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् । शुचौ देशे समासीनो भुक्त्वान्ते द्विरुपस्पृशेत् ॥६३ मण्डलं पूर्वतः कृत्वा तत्र स्थाप्याथ भोजयेत् । स्वप्राणाहुतिपर्यन्तं मौनमेव विधीयते ॥ ५४
इत्यौशन सस्मृतौ प्रथमोऽध्यायः ।
[[६८]]
[[१५५५]]
[[१५५६]]
औशनसस्मृतिः ।
॥ अथ द्वितीयोऽध्यायः ॥
अथ ब्रह्मचारिप्रकरणे शौचाचारवर्णनम् ।
भुक्ता
पीत्वा च स्नात्वा च तथा रथ्योपसर्पणे ।
[[1]]
ओष्ठावलोमकौ
स्पृष्ट्रा वासो विपरिधाय च ॥१
रेतोमूत्रपुरीषाणामुत्सर्गेणान्तभाषणे ।
तथा चाध्ययनारम्भे कासश्वासागमे तथा ॥२
चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः । सन्ध्ययोरुभयोस्तद्वदाचान्ते चाचमेत् पुनः ॥३ चण्डाल म्लेच्छसम्भाषे स्त्रीशूद्रोच्छिष्टभाषणे । उच्छिष्टं पुरुषं स्पृष्ट्रा भोज्यं वापि तथाविधम् ॥४ अश्रुपाते तथाचामे अहितस्य तथैव च । भोजयेत् सन्ध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ॥५
आचान्तोऽप्याचमेत् स्पृष्ट्वा सकृत् सकृदथान्यतः ।
अग्नेर्गवामयालम्भे स्पृष्ट्रा प्रयत एव वा ॥ ६
नृणामथाश्मनः स्पर्शे नीवीं विपरिधाय च । उपस्पृशेज्जलं शुद्ध तृणं वा भूमिमेव वा ॥७ कोशानां चात्मनः स्पर्शे वाससां क्षालितस्य च । अनुष्णाभिरफेनाभिरदुष्टाभिश्च सर्वशः ॥८ शौचे च सुखमासीनः प्राङ्मुखो वाप्युदङ्मुखः । शिरः प्रावृत्य कर्ण वा मुक्तकच्छशिखोऽपिवा ॥
द्वितीयो-
ऽध्यायः ]
ब्रह्मचारिप्रकरणे शौचाचारवर्णनम् ।
[[१५५७]]
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् । सोपानत्को जलस्थो वा नोष्णीषी वाऽऽचमेद् बुधः ॥ १० न चैव वर्षधाराभिनं तिष्ठन्न घृतोदकैः ।
नैक हस्तार्पितजलैर्विना शूद्रेण वा पुनः ॥११ न पादुकासनस्थो वा बहिर्जानुरथापि वा । न जल्पन्न हसन् प्रेक्षमाणश्च प्रह्व एव वा । नावीक्षमाणाद्भिन्नोष्णाद्भिन्नकेनादथापि वा ॥१२ शूद्राशुचिकरं मुक्तनक्षाराभिस्थैव च । न चैवाङ्गुलिभिः शब्दमकुर्वन्नान्यमानसः ॥ १३ न वर्णरसदुष्टाभिर्नचैव प्रदरोदकैः ।
न प्राणिजनिताभिर्वा न बहिः कलमेव वा ॥१४ हृद्राभिः पूयते विप्रः कणाभिः क्षत्त्रियः शुचिः । प्राशिताभिस्तथा वैश्यः (स्त्री) शूद्रः संस्पर्शनैस्ततः ॥१५ अङ्गुउमूलान्तरतो रेखायां ब्रह्म उच्यते । अन्तराङ्कुउदेशिन्यो पितॄणां तीर्थमुत्तमम् ॥१६
कनिष्ठो मूलतः पश्चात्प्राजापत्यं प्रचक्षते । अङ्गुल्य स्मृतं देवं तथैवार्षं प्रक्रीर्तितम् । मूले स्याद्देवमाषं स्यादाग्नेयं मध्यतः स्मृतम् ॥१७ तदेव सौमिकं तोर्थमेतज्ज्ञात्वा न मुह्यति । ब्राह्मणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ।
कायेन वा दैवतेन न तु पित्र्येण वा द्विजाः ! ॥ १८
[[१५५८]]
औशनसस्मृतिः ।
त्रिः प्राश्नीयादपः पूर्व ब्राह्मणः प्रयतः स्मृतः ।
संवृत्ताङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ॥१६
अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नत्रद्वयं ततः ।
[ द्वितीया-
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटं ततः ॥ २० कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् । सर्वासामथ योगेन हृदयन्तु तलेन वा ॥ २१ संस्पृशेद्वै शिरस्तद्वदङ्गुष्ठेनाथवा द्वयम् ।
त्रिः प्राश्नीयादेवमेव प्रीतास्तेनास्य देवताः ॥ २२ ब्रह्मविष्णुमहेशाश्च सम्भवन्त्यनुशुश्रुमः ।
गङ्गा च यमुना चैव प्रीयते परिमार्जनात् ॥ २३ प्रसंस्पर्शाल्लोचनयोः प्रीयेते शशिभास्करौ । नासत्यौ चैव प्रीयेते स्पृष्टं नासापुटद्वयम् ॥२४ कर्णयोः स्पृष्टयोस्तद्वत्प्रीयेते चानलानिलौ । संस्पृठे हृदये चास्याः प्रीयन्ते सर्वदेवताः ॥ २५ मूर्ध्नि संस्पर्शनादेव प्रीतस्तु पुरुषो भवेत् । नोच्छिष्टं कुर्वते मुख्यं विप्रयोगं नयन्ति याः ॥२६ अन्तवदन्तसलिलजिह्वास्पर्शे शुचिर्भवेत् ।
स्पृशन्ति बिन्दवः पादौ य आचामयतः परम् ॥२७
भूमिगैस्ते समाज्ञेयाः न तेरप्रयतो भवेत् ।
मधुपर्के च सोमे च ताम्बूलस्य च भक्षणे ॥२८ फलमूलेक्षुदण्डे च न दोषो भार्गवोऽत्रवीत् ।
प्रचरंश्चान्नपानेषु यदुच्छिष्टो भवेद् द्विजः ॥२६
ऽध्यायः ]
ब्रह्मचारिप्रकरणे शौचाचारवर्णनम् ।
भूमौ निक्षिप्य तद्द्रव्यमाचम्य प्रोक्षयेत्तु यत् । तैजसं वै समादाय भवेदुच्छेषणात्ततः ॥३० अनिधाय च तद्रव्यमाचान्तः शुचितामियात् । वस्त्रादीनां विकल्पत्वात् स्पृष्टा च देवमेव हि ॥ ३१ आरभ्यानुदके रात्रौ चोरो वाप्याकले पथि । कृत्वा मूत्रपुरीषं वा द्रव्यहस्तेन दुष्यति ॥३२ निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः । अथ कुर्यात् शकृन्मूत्रे रात्रौ चेदक्षिणामुखः ॥ ३३ अन्तर्धाय महीं काष्ठैः पर्णेल तृणेन वा । प्रतिचीनशिराः कुर्यात् कृच्छ्रमूत्रविसर्जने ॥३४ छायाकूपनदीगोष्ठे चैत्याम्भः पथि भस्मसु । अग्नौ चैव श्मशाने च विण्मूत्रेण समाचरेत् ॥३५ न गोमये न कुडये वा न गोष्ठे नैव शाद्वले । न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ॥३६ न जीर्णदेवायतने न वल्मीके कदाचन । न च सर्वेषु गर्तेषु न च गच्छन् समाचरेत् ॥३७ तुषाङ्गारकपालेषु राजमार्गे तथैव च ।
न क्षेत्रे न बिले चापि न तीर्थे च चतुष्पथे ॥ ३८ नोद्यानोपसमीपे वा नोषरे न पराशुचौ । न चोपानत्कपादौ च छत्री वर्णान्तरीक्ष के ॥३६ न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयो गवाम् । न देवदेवालययो नपामपि कदाचन ॥४०
[[१५५६]]
[[१५६०]]
औशनसस्मृतिः ।
नदीज्योतींषि वीक्षित्वा तद्वाह्याभिमुखोऽपि वा । प्रत्यादित्यं प्रत्यनिलं प्रतिसं मं तथैव च ॥ ४१ आहत्य मृत्तिकां कुर्यात् लेपगण्डापकर्षणम् । कुर्यादतन्द्रितः शौचं विशुद्ध रुद्धृतोदकैः ॥४२ नाहरेन्मृत्तिकां विप्रः पांशुलां नच कर्दमात् । न मार्गान्नोपराद्देशाच्छौचाविष्टोऽपरस्य च ॥४३
न देवायतनात् कुड्याद् ग्रामान्न तु कदाचन । उपस्पृशेत्ततो नित्यं पूर्वोक्तेन विधानतः ॥४४ तारव्याहृतिगायत्र्या वर्णानामेरणे क्रमात् । तन्मंत्रितं पिबेद्यस्तु मन्त्राचमनमीरितम् ॥४५ गायत्र्या चमनेनाथ श्रुत्याचमनमीरितम् ।
इत्यौशनसस्मृतौ द्वितीयोऽध्यायः ।
॥ अथ तृतीयोऽध्यायः ।
अथ ब्रह्मचारिप्रकरणेऽनेकप्रकरणवर्णनम् ।
एवं देहादिभिर्युक्तः शौचाचारसमन्वितः । आहृत्याऽध्ययनं कुर्याद्वीक्षमाणो गुरोर्मुखम् ॥१ नित्यमुद्यतपाणिश्च सन्ध्याचारसमन्वितः । आस्यतामिति चोक्तध नासीताभिमुखं गुरोः ॥२
[ तृतीयो-ऽध्यायः ] ब्रह्मचारिप्रकरणेऽनेकप्रकरणवर्णनम् । १५६१
प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ।
॥३
आसीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः । न च शय्यासनं चास्य सर्वदा गुरुसन्निधौ ॥३ गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् । नोदाहरेदस्य नाम परोक्षमपि केवलम् ॥४ न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ॥५ गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्त्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं परितोऽन्यतः ॥६ दूरस्थो नार्चयेद्देवान्न क्रुद्धो नान्तिके स्त्रियः । न चैवास्योत्तरं ब्रूयान्न तेनासीत सन्निधौ ॥७ उदकुम्भं कुशान् पुष्पं समिधोऽप्याहरेत्सदा । मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥८ नास्य निर्माल्यशयनं पादुकोपानहावपि । आक्रामेदासनं तस्य छायामपि कदाचन ॥ ये दन्तकाष्ठादीन् लब्ध्वा न चास्यै विनिवेदयेत् । अनापृच्छय न गन्तव्यन्नत्वप्रियहिते रतः ॥ १० न पादौ स्थापयेदस्य सन्निधाने कदाचन । जृम्भितं हसितं चैव क्षपकं प्रावरणं तथा ॥ ११
वजयेत् सन्निधौ नित्यं नखस्फोटनमेव च । यथाकालमधीयीत यावन्न विमना गुरुः ।
आसनादौ गुरोः कूर्चे फलके वा समाहितः ॥१२
[[१५६२]]
औशनसस्मृतिः ।
आसने शयने पाने न च तिष्ठेत्कथभ्वन ।
धावन्तमनुधावेत गच्छन्त मनुगच्छति ॥ १३ गजोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । नासीत गुरुणा सार्द्ध शिलाफलतलेषु च ॥१४ जितेन्द्रियः स्यात् सततं वश्यात्माऽक्रोधनः शुचिः । प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ॥१५ गण्डमाल्यां रसं कन्यां सूक्ष्मप्राणिविहिंसनम् । अभ्यङ्गञ्चाञ्जनोपानच्छत्रधारणमेव च ॥ १६ कामं क्रोधं भयं निद्रां गीतवादित्रनर्त्तनम् । द्यतं जनपरीवादं स्त्रीप्रेक्षालापनं तथा ॥१७ परोपतापपैशुन्यं प्रयत्नेन विवर्जयेत् । उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ॥१८ आहरेद्यावदन्यानि भैक्षवाहरहश्वरेत् । तथैव लवणं सर्वं भक्ष्यं पर्युषितं नयेत् ॥ १६ अनन्यदर्शी सततं भवेद्गीतादिनिः स्पृहः । नादर्श चैव वीक्षेत न चरेद्दन्तधावनम् ॥२० एकान्तमशुचिः स्त्रीभिः शूद्राद्यैरभिभाषणम् । गुरूच्छिष्टं भेषजार्थं न प्रयुञ्जीत कामतः ॥ २१ मलापकर्षणं स्नानन्नाचरेद् वै कदाचन ।
नचातिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥२२ विद्यागुरुष्वेतदेव नित्यवृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु वा धर्मं हितं चोपदिशन् स्वयम् ॥२३
[ तृतीयो-
ऽध्यायः ]
ब्रह्मचारिप्रकरणेऽनेकप्रकरणवर्णनम् । १५६३
श्रेयः सुगुरुवद्वृत्ति नित्यमेवं समाचरेत् । गुरुपत्नीषु पुत्रेषु गुरोश्चैव स्वबन्धुषु ॥२४
बालः समानजन्मा वा शिष्यो वा यज्ञकर्मसु । अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥२५ उत्सादनं वै गात्राणां स्नानं चोच्छिष्टभोजने । न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च ॥ २६ गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥२७ अभ्यञ्जनं स्नापनश्च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानाञ्च प्रशोधनम् ॥२८ गुरुपत्नी च युवती नाभिवाद्येह पादयोः । कुर्वीत वदनं भूम्यामसावहमिति ब्रुवन् ॥२६ विप्रस्य पादप्रहणमन्वहभ्वाभिवादनम् । गुरुदारेषु कुर्वीत सदा धर्ममनुस्मरन् ॥३० मातृष्वसा मातुलानी श्वश्रूश्वापि पितृष्वसा । संपूज्या गुरुपत्नी च समास्ता गुरुभार्यया ॥३१ भ्रातृभार्योपसंग्राह्या ज्ञातिसम्बन्धयोषितः । पितुर्भगिन्या मातुश्च जायायाश्च स्वसर्यपि ॥ ३२ मातृवद् वृत्तिमातिष्ठेन्माता तेभ्यो गरीयसी । एवमाचारसम्पन्नमात्मवन्तं सदा हितम् ॥३३ वेदं धर्म पुराण तथा तत्त्वानि नित्यशः । सम्वत्सरोषिते शिष्ये गुरुर्ज्ञान मनिर्दिशेत् ॥३४
[[१५६४]]
औशनसस्मृतिः ।
[ तृतीयो-
हरते दुष्कृतं तस्य शिष्यस्य वत्सरे गुरुः । आचार्यपुत्रशुश्रूषु ज्ञनदो धार्मिकः शुचिः ॥ ३५ शक्तो गुर्वीर्ह्यमेधावी नाध्याप्यो दशधर्मतः । कृतज्ञश्च तथा द्रोही मेधावी शुभकृन्नरः ॥ ३६ प्राप्य विप्रोऽप्यविधिवत् षडध्यात्मा द्विजोत्तमैः । एतेषु ब्राह्मणो दानमन्यत्र न यथोदितम् ॥३७ आचम्य संयतो नित्यमधीयीत उदङ्मुखः । उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम् ॥३८ अधीष्व भो ! इति ब्रूयात् विरामोऽस्त्विति वाचयेत् । प्राक्कुशेषु समासीनः पवित्रैव पावितः ॥ ३६ प्राणायामै स्त्रिभिः पूर्व तथा चोङ्कारमहति । ब्राह्मणः प्रणवं कुर्याद्दत्ते च विधिवदुद्विजः ॥४० कुर्यादध्ययनं नित्यं ब्रह्माञ्जलिकृत स्थितिः । सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः ॥४१ अधीते विधिवन्नित्यं ब्रह्मण्याच्च्यवतेऽन्यथा । योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ॥४२ प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ।
यज्ञं योऽधीते सततं दध्ना प्रीणाति देवता ॥ ४३ सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् । अथर्वाङ्गिरसो नित्यमध्यात् प्रीणाति देवता ॥४४ धर्माङ्गानि पुराणानि मीमांसैस्तृप्यते सुरान् । अपां समीपे नियतो नैत्यकं विधिमाश्रितः ॥४५
ऽध्यायः ] ब्रह्मचारि प्रकरणे गायत्रीमन्त्रसारवर्णनम् । १५६५
।
गायत्रीमप्यधीयीत गत्वारण्यं समाहितः । सहस्रपरमां देवीं शतमध्या दशापराम् ॥४६ गायत्रीं वै जपेन्नित्यं जपश्च त्रिः प्रकीर्तितः । गायत्री चैव वेदांश्च तुलया तुलयन् प्रभुः ॥४७ एकतश्चतुरो वेदान् गायत्रीं च तथैकतः । ओङ्कारमादितः कृत्वा व्याहृतीस्तदनन्तरम् ॥४८ ततोऽधीयीत एकाग्रं श्रिया परमयान्वितः । अध्यापयेत्तु एकाग्रं गायत्री परया तु या ॥ ४६ पुराकल्पे समुत्पन्ना भूर्भुवः स्वर्गनामतः । महाव्याहृतयस्तिस्रः सर्वाशुभनिबर्हणाः ॥५० प्रधानं पुरुषः कालो ब्रह्मविष्णुमहेश्वराः । सत्यं रजस्तमस्तिस्रः कामा व्याहृतयस्त्रयः ॥ ५१ ओङ्कारस्तत्परं ब्रह्म गायत्री स्यात्तदक्षरम् । एवं मन्त्रो महायोगः साक्षात्सार उदाहृतः ॥५२ योऽधीतेऽहन्यमाने तां गायत्रीं वेदमातरम् । विज्ञायार्थं ब्रह्मचारी स याति परमाङ्गतिम् ॥५३ न गायत्र्याः परं जप्यमेतद्विज्ञानमुच्यते । श्रवणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः । ॥५४ आषाढ्यां प्रौष्ठपद्यां वा वेदोपक्रमणं स्मृतम् । उत्सृज्य ग्रामनगरं मासान्विप्रोऽर्थपञ्चमान् ॥५५ अधीयीत शुचौ देशे ब्रह्मचारी समाहितः । पुष्ये तु छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजाः ! ॥५६
[[१५६६]]
औशनसस्मृतिः ।
माघे वा मासि संप्राप्ते पूर्वाह्णे प्रथमेऽहनि । छन्दांस्यूर्ध्वमधीयीत शुक्लपक्षे तु वै द्विजाः ! ॥५७ वेदाङ्गानि पुराणं वा कृष्णपक्षे तु मानवः । इमन्नित्यमनध्यायानधीयानो विसर्जयेत् ॥ ५८ अध्यापनश्च कुर्वाणो अध्येयन्नपि यत्नतः । कर्माधुरे दिवारात्रौ दिवावासं समूहने ॥५६ विद्युत्स्तनितवर्षासु महोल्कानाभ्व पातने । आकस्मिकमनध्यायमेतेष्वेव प्रजापतिः ॥६० एता न स्युर्दिता नाद्यान्यदप्राग्दुष्कृतादिषु । तदा विन्द्यादनर्थाय मन्यते जाग्रदर्शने ॥ ६१ निर्घाते वाऽथ चलने ज्योतिषां चोपसर्पणे । एतानकालिकान् विन्द्यादनर्थायागतावपि ॥ ६२ प्राग्दुष्कृतेष्वग्निषु च विद्युत्स्तनितनिस्वने । सद्यो हि स्यादनध्यायमनृतं मुनिरब्रवीत् ॥६३ निध्याय एवं स्याद् ग्रामेऽरण्येषु नगरेषु च । कर्मनैपुण्यगामानां पूतिगन्धे च नित्यशः ॥ ६४ अन्त्यानां सङ्गते ग्रामे वृषलस्य च सन्निधौ । अनध्यायो निन्द्यमाने समवाये जनस्य च ॥ ६५ उदये मध्यरात्रौ च विण्मूत्रे च विसर्जयेत् । उच्छिष्टश्राद्धभुक् चैव मनसा न विचिन्तयेत् ॥ ६६ प्रतिगृह्य द्विजो विद्यादेकोद्दिष्टस्य केतनम् । तदाह कीर्त्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ॥ ६७
[ तृतीयो-
ऽध्यायः ]
ब्रह्मचारिप्रकरणेऽनेकविचारवर्णनम् । १५६७
धावकोऽनुलितस्य स्नेहोगाधस्य तिष्ठति । विप्रस्याविदुषो देहे तावद् ब्रह्म न कीर्त्तयेत् ॥ ६८ शयानः प्रौढपादश्च कृत्वा वै वावसत्थिकाम। नाधीयीतामिषञ्जग्ध्वा सूतकान्नाद्यमेव च ॥ ६६ नीहारैर्बाणशब्दैश्व सन्ध्ययोरुभयोरपि । अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ॥७० उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ।
अष्टकासु च कुर्वीत मतिमान् तासु रात्रिषु ॥७१ मार्गशीर्षे तथा पौषे माघे मासे तथैव च ।
तिस्रोऽष्टकाः समाख्याता कृष्णे पक्षे च सूरिभिः ॥७२ श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ।
कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥ ७३ समानविद्येऽनुमृते तथा सब्रह्मचारिणि ।
आचार्य संस्थिते वाऽपि त्रिरात्रं क्षपणं स्मृतम् ॥७४ छिद्रेष्वेतेषु विप्राणामनध्यायाः प्रकीर्तिताः । हिंसन्ति राक्षसास्ते च तस्मादेतान् विसर्जयेत् ॥७५ नैत्यके नास्त्यनध्यायः सन्ध्योपासन एव च । उपाकर्मणि कर्मान्ते होममन्त्रयेषु चैव हि ॥७६ एकाचमथवैकं वा यजुः सामाथवा पुनः । अष्टकायाः स्वधीयत मारुते चापि वापदि ॥७७ अनध्यायो विनाशे च नेतिहासपुराणयोः । निधर्म्मशास्त्रेष्वन्येषु पर्वण्येतान् विसर्जयेत् ॥ ७८
[[१५६८]]
औशन सस्मृतिः ।
[ तृतीयो-
एष धर्मः समासेन कीर्तितो ब्रह्मचारिणः । ब्रह्मणाभिहितः पूर्वमृषीणां भावितात्मनाम् ॥७६ योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः । स वै मूढो न सम्भाष्यो वेदवाह्यो द्विजातिभिः ॥८० न वेदपाठमात्रेण सन्तुष्टो वै द्विजोत्तमः । पाठमात्रावसानस्तु पङ्क गौरिव सीदति ॥८१ योऽधीत्य विधिवद्वेदं वेदान्तं न विचारयेत् । स सान्वयः शूद्रकल्पः स पाद्यं न प्रपद्यते ॥ ८२ यदि वा श्यन्तिकं वासं कर्तुमिच्छति वै गुरौ ।
युक्तः
परिचरेदेनमाशरीरविमोक्षणात् ॥ ८३
गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् । अधीयीत सदा नित्यं ब्रह्मविद्यां समाहितः ॥८४ सावित्रीं शतरुद्रीयं वेदानां च विशेषतः । अभ्यसेत्सततं वेदं भस्मस्नानपरायणः ॥८५
!!
वेदं वेदौ तथा वेदाः वेदान्वै चतुरो द्विज ! । अधीत्य विधिगम्यार्थं ततः स्नायाद् द्विजोत्तमः ॥८६ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
अकुर्वाणः पतत्याशु निरयानतिभीषणान् ॥ ८७ अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् ।
कुर्याद् गृह्याणि कर्माणि सन्ध्योपासनमेव च ॥८८ नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतकः । सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥८६
ऽध्यायः ]
नित्यनैमित्तिकविधिवर्णनम् ।
सन्ध्यास्नानरतो नित्यं ब्रह्मयज्ञपरायणः । अनसूयो मृदुर्दान्तो गृहस्थः प्रत्यवर्तते ॥ ६०
हर
उदानाय ततः कुर्यात्समानायेति पञ्चमम् । विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥६१ शेषमन्नं यथाकामं भुञ्जीत व्यञ्जनैर्युतम् ।
ध्यात्वा तन्मान से देवमात्मानं वै प्रजापतिम् ॥६२
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।
आचान्तः पुनराचामेदयं गौरिति भाषयेत् ॥६३
अधीत्य विधिवद्वेदानथं चैवोपलभ्य च । धर्म्मकाय निवृत्तिश्वेदेतद्विज्ञानमुच्यते ॥ ६४ यः स्वयं नियतो भूत्वा धर्मपाठं पठेद्विजः । अध्यापयेच्छ्रावयेद् वा ब्रह्मलोके महीयते ॥ ६५ प्रातः कृत्यं समाप्याथ वैश्वदेवपुरःसरम् । मध्याह्न भोजयेद्विप्रान् सम्यक् भूतात्मभावनः ॥६६ प्राङ्मुखस्तानि भुञ्जीत सूर्याभिमुख एव वा । आसीनस्त्वासने शुद्ध भूमौ पादौ निधापयेत् ॥६७ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋणं भुङ्क्ते उदङ्मुखः । पश्चात् स भोजनं कुर्यात् भूमौ वा तन्निधापयेत् ॥६८ उपवासेन तत्तुल्यमित्येवम्भार्गवोऽब्रवीत् ।
उपलिप्य शुचौ देशे पादौ प्रक्षाल्य वै करौ ॥६६
[[१५६६]]
[[१५७०]]
[ तृतीयो-
औशनसस्मृतिः ।
आचान्तोऽक्रोधनो नक्तं पश्चात्तु भोजनं चरेत् । इह व्याहृतिभिस्त्वन्नं परिधायोदकेन तु ॥ १०० परिषेचनमन्त्रेण परिषिच्य ततः परम् । चित्रगुप्तबलिं दत्त्वा तदन्नं परिषिच्य च ॥ १०१ अमृतोपस्तरणमसीत्यापोशनक्रियां चरेत् । स्वाहाप्रणवसंयुक्तं प्राणायेत्याहुति ततः ॥१०२ अपानायाहुतिं हुत्वा व्यानाय तदनन्तरम् । उदानाय ततः कुर्यात्समानायेति पञ्चमम् ॥१०३ विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः । शेषमन्नं यथाकामं भुञ्जीत व्यञ्जनैर्युतम् ।
ध्यात्वा तन्मानसे देवमात्मानं वै प्रजापतिम् ॥१०४
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् । आचान्तः पुनराचामेदयं गौरिति मन्त्रतः ॥ १०५ त्रिपदां वा त्रिरावृत्य सर्वपापप्रणाशनीम् । प्राणानां ग्रन्थिरसीत्यालभेद्धृदयं ततः ॥१०६ आचम्याङ्गुष्ठमानीय पादाङ्गुष्ठेन दक्षिणम् । निःस्रावयेद्धस्तजलमूर्द्धहस्तः समाहितः ॥ १०७ हुत्वानुमन्त्रणं कुर्यात् स्वधायामिति मन्त्रतः । अथोक्षणे स्वमात्मानं यो जपेद् ब्रह्मणेति च ॥ १०८ सर्वेषामेव यागानामात्मयागः परः स्मृतः ।
॥
अथ श्राद्धममावास्याप्राप्तं काय्यं द्विजोत्तमैः ॥ १०६ऽध्यायः ]
नैमित्तिकश्राद्धविधिवर्णनम् ।
पिण्डान्वाहायकं श्राद्धं क्षीणे राजनि शस्यते । अपराह्न द्विजातीनां प्रशस्तेनामिषेण तु ॥ ११० प्रतिपत्प्रभृतिर्ह्यन्यास्तिथयः कृष्णपक्षके । चतुर्दशीं वजयित्वा पञ्चमीं ह्युत्तरोत्तराम् ॥ १११ अमावस्याष्टकास्तिस्रः पौणमास्यादिषु त्रिषु ।
तिस्त्रश्चाप्यष्टकाः पुण्या मासि पञ्चदशी तथा ॥ ११२ त्रयोदशी मघा कृष्णावर्षासु त्वविशेषतः । नमित्तिकं तु कर्तव्यं दिवसे चन्द्रसूर्य्ययोः
बालकानां च मरणे नारकी स्यात्ततोऽन्यथा । काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ॥ ११४ अयने विषुवे चव व्यतिपाते त्वनन्तकम् । संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ॥११५ नक्षत्र तिथिवारेषु काय्यं काम्यं विशेषतः । स्वर्गं तु लभते कृत्वा कृत्तिकासु द्विजोत्तमाः ! ॥ ११६ द्रव्यब्राह्मणसम्पत्तौ न कालं नियमं ततः ।
कर्मारम्भेषु सर्वेषु कुर्यादभ्युदयं ततः ॥ ११७ पुत्रजन्मादिषु श्राद्धं पार्वणं पावणं स्मृतम् । अहन्यहनि नित्यं स्यात् काम्ये नैमित्तिकं पुनः ॥ ११८ सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ।
स तेन कम्मणा पापी दहत्यासप्तमं कुलम् ॥ ११६ यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् । तस्मै यत्नेन दातव्यमतिक्रम्यापि सन्निधिम् ॥ १२०
[[६६]]
[[१५७१]]
[[९५५२]]
तृतीयो-
औशनसस्मृतिः ।
अपूपञ्च हिरण्यं च गामश्वं पृथिवीं तिलान् ।
अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ॥ १२१
मासमारोहणं कुर्यात् भर्तृचित्यां पतिव्रता ।
तन्मृताहूनि संप्राप्ते पृथक पिण्डे नियोजयेत् ॥१२२ धर्म्मपिण्डोदकं श्राद्ध पार्वणं नमसंज्ञकम् ।
अस्थिसभ्वयनं कर्म्म दशाहभवनं तथा ॥ १२३ औध्वं दशाहमुत्कर्षे शेषस्य यदि वा भवेत् । पिण्डोदकं नवश्राद्ध’ पुनः कार्यं यथाविधि ॥१२४. यद्य स्थिसञ्चयं कर्म्म दशाहमूर्ध्वभाक् भवेत् । नष्टे वापहृतेऽस्थीनि दाहयेद्यदि वा पुनः ॥१२५ कुर्यादहरहः श्राद्धं प्रमीतपितृको द्विजः । सानिको को वापि तीर्थे वेषविशेषतः ॥ १२६ उत्तानं वा विवत्तं वा पितृपात्रं यदा भवेत् । अभोज्यं तद्भवेदन्नं क्रुद्धः पितृगणैश्च तैः ॥ १२७ अन्नहीनं क्रियाहीनं मन्त्रहीनं तु यद्भवेत् । सर्वमच्छिद्रमित्युक्ता ततो यत्नेन भोजयेत् ॥ १२८ एकोद्दिष्टन्तु विशेयं वृद्धिश्राद्ध ं तु पावणम् । एतत्पश्वविधं श्राद्धं भृगुपुत्रेण सूचितम् ॥ १२६ यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पावनम् । शुद्धयेत् सप्तमं श्राद्ध ब्रह्मणा परीकर्तितम् ॥१३० दैविकं चाष्टमं श्राद्धं यत् कृत्वा मुच्यते भयात् । सन्ध्याराज्यो र्न कर्तव्यमहोरात्रमदर्शनात् ॥ १३१
ऽध्यायः ]
श्राद्धप्रकरणवर्णनम् ।
देशानान्तु विशेषेण भवेत् पुण्यमनन्तकम् ।
गयायामक्षयं श्राद्ध प्रयागे मरणादिषु ॥ १३२
।
गायन्ति गाथां ते सर्वे कीत्तयन्ति मनीषिणः ॥ १३३ एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ १३४
गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् । तारिताः पितरस्तेन स याति परमाङ्गतिम् ॥ १३५
वाराहपर्वते चैव गयां चैव विशेषतः । एवमादिष्वतीतेषु तुष्यन्ति पितरस्तदा ॥१३६ ब्रीहिभिश्च यवैर्माषैरद्भिर्मूलफलेन वा ।
श्यामाकैश्व तु वै शाकैर्नीवारैश्च प्रियङ्गुभिः ॥१३७ गोधूमैश्च तिलैर्मुद्गर्मापैः प्रीणयते पितृन् । मृष्टान् फलरसानिक्षून मृदुकान् सस्यदाड़िमान् विदार्याश्च करण्डाश्च श्राद्धकाले प्रदापयेत् ।
लाजां मधुयुतां दद्याद् दध्ना शर्करया सह ॥ १३८
दद्यात् श्राद्ध प्रयत्नेन शृङ्गां गजशुकैवृ कान् ।
।
द्वौ मासौ मत्स्यमांसेन त्रिमासान् हरिणेन च ॥ १३६
और भ्रणाथ चतुरः शाके नेह च पथ्य तु । षण्मासाश्वागमांसेन रौरवेण च वै नतु ॥१४० दशमासांस्तु तृप्यन्ति वराहमहिषाविकैः । शशर्णवृकयो मांसैम सानेकादशव तु ॥ १४१
[[१५७३]]
[[१५७४]]
औशनसस्मृतिः ।
सम्बत्सरन्तु गव्येन पयसा पायसेन च । सदैव सस्यमांसेन तृप्तिर्द्वादशवार्षिकी ॥ १४२
कालशाकं महाशाकं खगलोहामिषं मधु ।
चतुर्थी-
अनन्तान्येव च कल्पन्ते मूलान्यन्यानि सर्वशः ॥ १४३ कृत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्य वै द्विजः । दद्याच्छ्राद्ध प्रयत्नेन दत्तस्याक्षयमुच्यते ॥ १४४ पिप्पलीक्रमुकं चैव तथा चैव मसूरकम् । कश्मलालाबुवर्त्ताकान् मन्त्रणं सारसं तथा ॥ १४५ कूटच भद्रमूलभ्च तण्डुलीयकमेव च । राजमाषांस्तथा क्षीरं माहिषञ्च विवर्जयेत् ॥१४६ कोद्रवान् कोविदारांश्च स्थलपाक्या मरीस्तथा । वर्जयेत्सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ १४७
इत्यौशन सस्मृतौ तृतीयोऽध्यायः ।
॥ अथ चतुर्थोऽध्यायः ॥
श्राद्धप्रकरणवर्णनम्।
स्नात्वा यथोक्तं सन्तर्प्य पितृदेवान् ऋषींस्तथा ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः ॥१ पूर्वमेव निरीक्षेत ब्राह्मणान्वेदपारगान् ।
तीर्थं तद्धव्यकव्यानां प्रदाने चातिथिः स्मृतः ॥ २
ऽध्यायः ]
श्राद्धप्रकरणवर्णनम् ।
ये सोमपाननिरता धर्मज्ञा सत्यवादिनः ।
तिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥ ३ पश्वा निरप्यधीयानो यजुर्वेदविदोऽपि च । बहवस्तु सुवर्णाश्च त्रिमधुर्वाथ वा भवेत् ॥४ श्री नाविकेन च्छन्दो वै ज्येष्ठसामगणोऽपि वा । अथर्वशिरसोऽध्येता रुद्राध्याय्या विशेषतः ॥५ अग्निहोत्रपरो विद्वान् पापविश्च षडङ्गवित् । गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥ ६ अहिंसोपरता नित्यमप्रतिग्राहिणस्तथा । सत्रिणो दाननिरता ब्राह्मणाः पङ्क्तिपावनाः ॥७ असमानप्रवरगा असगोत्रास्तथव च ।
असम्बन्धश्च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः ॥८
भोजयेद्योगिनं पूर्वं तत्त्वज्ञानरतं परम् ।
अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तु वा ॥६ तदलाभे गृहस्थस्तु मुमुक्षुः सङ्गवर्जितः ।
सर्वालाभे साधकं वा गृहस्थं मा विभोजयेत् ॥१० प्रकुतेगुणतत्त्वज्ञं योऽश्नातीह यति भवे ।
पलं वेदविदां तस्य सहस्रादतिरिच्यते ॥ ११ तस्माद्यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् । भोजयेद्धव्यकव्येषु अलाभादिह च द्विजान् ॥१२ एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पः स्वयं ज्ञेय स्तदा सद्भिरतः नुच्छ्रि ॥ १३
[[१५७५]]
[[१५७६]]
औशनसस्मृतिः ।
मातामहं मातुलश्च स्वत्रेयं श्वशुरं गुरुम् । दौहित्रं विबुधं सर्वमग्निकल्पांश्च भोजयेत् ॥१४ न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । पैशाचदक्षिणाहीनैर्वामुत्र फलसम्पदः ॥१५ कामं श्राद्ध ऽचयेन्मित्रं नाभिरूपमतित्वरम् । द्विषतां हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥१६ तथानुचेद्धविर्दत्त्वा न दाता लभते फलम् । यावतो ग्रसते पिण्डान् हव्यकव्येषु मन्त्रवित् ॥१७ ततोऽहि प्रसते प्रेत्य दीप्तान् स्थूलानधोमुखान् । अथ विद्यानुकूले हि युक्ताश्च स वृतोऽथवा ॥१८ यत्रैते भुञ्जते हव्यं तद्भवेदासुरं द्विजाः ! । !!
यश्च वेदश्च वेदी च विच्छेद्येत त्रिपूरुषम् ॥१६ स वै दुर्ब्राह्मणो ज्ञेयः श्राद्धादौ न कदाचन । शूद्रप्रेष्योद्धतो राज्ञो वृषलो ग्रामयाजकः ॥२० बधबन्धोपजीवी च षडेते ब्रह्मबन्धवः । दत्त्वा तु वेदनात्यथं पतितान्मनुरब्रवीत् ॥२१ वेदविक्रयिणश्चैते श्राद्धादिषु विगर्हिताः ।
।
श्रुतिविक्रयिणो यत्र परपूर्वाः समुद्रगाः ॥२२ असमानान् याजयन्ति पतितास्ते प्रकीर्तिताः । असंस्तुताध्यापका ये भृतकान् पाठयन्ति ये ॥२३ अधीयीत तथा वेदान् भृतकास्ते प्रकीर्तिताः । वृद्धश्रावक निर्गूढाः पञ्चरात्रविदो जनाः ॥ २४
चतुर्थी-
Sध्यायः ]
श्राद्धप्रकरणवर्णनम् ।
कापालिकाः पाशुपताः पाषण्डाश्चव तद्विधाः । यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ॥२५ न तस्या सद्भवेत् श्राद्धं प्रेत्यापि हि फलप्रदाः । अनाश्रमी यो द्विजः स्यादाश्रमी स्यान्निरर्थकः ॥ २६ मिथ्याश्रमी च विप्रेन्द्रा विज्ञेयाः पङ्क्तिदूषकाः । दुश्चर्मी कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ॥ २७ क्रूरो वीजनकश्चैव स्तेनः क्लीबोऽथ नास्तिकः । मद्यपी वृषली सक्तो वीरहा दीधिपूपतिः ॥२८ आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः । परिवेत्ता तथा हिंस्रः परिवेत्तिर्निराकृतिः ॥२६ पौनर्भवः कुसीदी च तथा नक्षत्रदर्शकः । गीतवादित्रशीलश्च व्याधितः काण एव च ॥ ३० हीनाङ्गश्वातिरिक्ताङ्गो ह्यवकीर्णी तथैव च । कन्याद्रोही कुण्डगोली अभिशक्तोऽथ देवलः ॥३१ मित्रध्रुक् पिशुनश्चैव नित्यं नार्या निकृन्तनः । मातापितृगुरुत्यागी दारत्यागी तथैव च ॥३२ अनपत्यः कूटसाक्षी पाचकोरगजीवकः । समुद्रयायी कृतहा रथ्यासमयभेदकः ॥३३ वेदनिन्दारतश्चैव देवनिन्दारतस्तथा । द्विजनिन्दारतश्चैव ते वर्ज्याः श्राद्धकर्मषु ॥३४ कृतघ्नः पिशुनः क्रूरो नास्तिको वेदनिन्दकः । मित्रघ्नः पारदार्यश्च मिथ्यापण्डितदूषकः ॥ ३५
[[१५५७]]
[[१५७८]]
औशन सस्मृतिः ।
[[1]]
बहुनात्र किमुक्तेन विहितान्येव कुर्वते ।
निन्दितान्याचरन्ते ते वर्ज्याः श्राद्ध प्रयत्नतः ॥ ३६
इत्यौशनसस्मृतौ चतुर्थोऽध्यायः ।
॥ अथ पञ्चमोऽध्यायः ॥
श्राद्धप्रकरणवर्णनम् ।
गोमयेनोदकैः पूर्व शोधयित्वा समाहितः ।
सन्निपात्य द्विजान् सर्वान् साधुभिः सन्निमन्त्रयेत् ॥ १ श्वो भविष्यति मे श्राद्ध पूर्वेद्युरभिवक्ष्यति ॥ २ असम्भवे परेद्युर्वा यथोक्तैर्लक्षणैयुतम् ।
तस्य ते पितरः श्रुत्वा श्राद्धकाल उपस्थिते ॥३ अन्योन्यमनसा ध्यात्वा सम्पतन्ति मनोजवाः । ब्राह्मणास्ते समायान्ति पितरो ह्यन्तरिक्षगाः ॥४ वायुभूताश्च तिष्ठन्ति भुक्त्वा यान्ति पराङ्गतिम् । आमन्त्रिताश्च ये विप्राः श्राद्धकाल उपस्थिते ॥५
वसेरन्नियताः सर्वे ब्रह्मचर्यपरायणाः ।
अक्रोधनोऽस्वरो यत्र सत्यवादी समाहितः ॥६
भरमैथुनमध्वानं श्राद्धभुग्वर्जयेज्जपम् ।
।
आमन्त्रितो ब्राह्मणो वै योऽन्यस्मै कुरुते क्षणम् ॥७
चतुर्थी-
ऽध्यायः ]
श्राद्धप्रकरणवर्णनम् ।
आमन्त्रयित्वा यो मोहादन्यं वा मन्त्रयेत् द्विजः । स तस्मादधिकः पापी विष्ठाकीटो हि जायते ॥८ श्राद्ध निमन्त्रितो विप्रो मैथुनं योऽधिगच्छति । ब्रह्महत्यमवाप्नोति तियग्योनिषु जायते ॥ ६ निमन्त्रितश्च यो विप्रो ह्यध्वानं याति दुर्मतिः । भवन्ति पितरस्तस्य तन्मासं पांशुभोजनम् ॥१० निमन्त्रितश्च यः श्राद्ध प्रकुर्यात्कलहं द्विजः । भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥११ तस्मान्निमन्त्रितः श्राद्ध नियतात्मा भवेद् द्विजः । अक्रोधनः शौचपरः कर्त्ता चैव जितेन्द्रियः ॥ १२ शोभते दक्षिणां गत्वा दिशं दर्भात् समाहितः । समूलान्नाहरेद्वारि दक्षिणाप्रान् सुनिर्मलान् ॥१३ दक्षिणाप्रवणं स्निग्धं विभक्तशुभलक्षणम् । शुचि देशं विविक्तश्च गोमयेनोपलेपयेत् ॥१४ नदीतीरेषु तीर्थेषु स्वभूमौ गिरिसानुषु । विविक्तेषु च तुष्यन्ति दत्तेन पितरस्तथा ॥ १५ परस्य भूमिभागे तु पितॄणां वै न निर्वपेत् । स्वामित्वात् स विहन्येत मोहाद्यत्क्रियते नरैः ॥१६ अटव्यः पर्वताः पुण्या स्तीर्थान्यायतनानि च । सर्वाण्यस्वामिकान्याहु नहि तेषु परिग्रहः ॥ १७ तिलांश्चाव किरेत्तत्र सर्वतो बन्धयेद् द्विजः । असुरोपहतं सर्व तिलैः शुध्यत्यजेन वा ॥ २८
।
[[१५७६]]
[[१५८०]]
औशनसस्मृतिः ।
ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमव्ययम् ।
।
चोष्यं पेयं समृद्ध’ च यथा शक्त्युपकल्पयेत् ॥ १६ ततो निवृत्ते मध्याह लुप्तलोमनखान् द्विजान् । अभिगम्य यथामागं प्रयच्छेद्दन्तधावनम् ॥२० तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् । पात्रैरौदुम्बरैर्दद्याद्वैश्वदेवं तु पूर्वकम् ॥२१ तत्र स्नात्वा निवृत्तेभ्यः प्रत्युत्थानकृताञ्जलिः । पाद्यमाचमनीयं च संप्रच्छेद्यथाक्रमम् ॥ २२
ये चात्र विवदेरन् वै विप्राः पूर्वं निमन्त्रिताः । प्राङ्मुखान्यासनान्येषां सदर्भोपहितानि च ॥ २३ दक्षिणायैकदर्भाणि प्रोक्षितानि तिलोदकैः । तेषूपवेशयेदेतान् ब्राह्मणान् देवकल्पकान् ॥२४ अस्यन्ध्यमिति संकल्प्य त्वासिरंस्थे पृथक् पृथक् । द्वौ देवे प्राङ मुखौ पित्र्ये त्रयोदङ्मुखास्तथा ॥२५ एकैकं वा भवेत्तत्र एवं मातामहेष्वपि । सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् । पञ्चैतान्विस्तरोहन्ति तस्मैनहेत विस्तरम् ॥२६
अथवा भोजयेदेकं ब्राह्मणं वेदपारगम् । श्रुतिशीलादिसम्पन्नमलक्षणविवर्जितम् ॥२७ प्रशस्तपात्रे चान्नन्तु सर्वस्मात् प्रयतात्मनः । देवतायतने चास्मै त्रिलोकात् सम्प्रवर्त्तते ॥२८
पश्वमो-ऽध्यायः ]
श्राद्धप्रकरणवर्णनम् ।
[[१५८१]]
प्राश्येदमौ तदन्नन्तु दद्याच्च ब्रह्मचारिणं ।
भिक्षुको ब्रह्मचारीव भोजनार्थमुपस्थितः ॥२६ उपविष्टेषु यच्छ्राद्ध कामन्तमपि भोजयेत् । अतिथि यंत्र नाश्नाति न तच्छाद्ध प्रकाश्यते ॥३० तस्मात् प्रयत्नात्तीर्थेषु पूज्या अतिथयो द्विजैः । अतीर्य रमते श्राद्ध भुञ्जते ये द्विजातयः ॥ ३१ काकयोनिं व्रजन्त्येते दत्त्वा चैव न संशयः । हीनाङ्गः पतितः कुष्ठी वणिक्पुक्कसनासिकः ॥
३२ कुक्कुट : शूकरश्वानो वर्ज्याः श्राद्ध ेषु दूरतः । वीभत्समशुचिं म्लेच्छं न स्पृशेश्च रजस्वलाम् ॥३३ नीलकाषायवसनं पाषण्डां विवर्जयेत् । यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति ॥३४ तत्सर्वमेव कर्त्तव्यं वैश्वदेवस्य पूजनम् । यथोपविष्टान् सर्वास्तानलङ्कुर्याद्विभूषणैः ॥३५ या दिव्या इति मन्त्रेण हस्तेत्वध्यं विनिक्षिपेत् ।
प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ॥ ३६
॥ अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः । आवाहनं ततः कुर्यादुशन्तस्त्वेत्युचा बुधः ॥३७ आवाह्य तदनुज्ञातो जपेदायान्तु न स्ततः । शन्नो देव्युदकं पात्रे तिलोऽसीति तिलांस्तथा ॥ ३८ क्षिप्त्वा चार्घ्य तथा पूर्वं दत्त्वा हस्तेषु वै पुनः ।
संस्रावांश्च ततः सर्वान् पात्रीकुर्यात् समाहितः ॥३६
[[१५८३]]
औशनसस्मृतिः ।
पितृभिः सममेतेन ह्यर्घ्यपात्रं निधाय च ।
पञ्चमो-
अग्नौ करिष्येत्वादाय पृच्छेदन्नं घृतप्लुतम् ॥४० कुरुष्वेति ह्यनुज्ञातो जुहुयादुपवीतवत् । यज्ञोपवीतिना होमः कर्त्तव्यं कुशपाणिना ॥४१ प्राचीनावीतकः पित्र्यं वैश्वदेवं तु होमयेत् । दक्षिणं पातयेज्जानुं देवान् परिचरंस्तदा ॥४२ सोमाय वै पितृमते स्वधा नम इति ब्रुवन् । अग्नये कव्यवाहनाय स्वधेति जुहुयात्ततः ॥ ४३ अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः ॥४४ ततस्तैरभ्यनुज्ञातो कृत्वा देवप्रदक्षिणम् । गोमयेनोपलिप्योव्यां कुर्यात् स्वस्यच दैवतम् ॥४५ मण्डलं चतुरस्रं वा दक्षिणं चोन्नतं शुभम् । त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ॥४६ ततः संस्तीर्य तत् स्थाने दर्भान् वै दक्षिणाग्रकान् । त्रीन् पिण्डान्निर्वपेत्तत्र हविःशेषान् समाहितः ॥ ४७ दाप्यपिण्डा स्ततस्तत्र निमृज्याल्लेपभागिनाम् । तेष्वदर्भेष्वथाचम्य त्रिराचम्य शनैरसून् ॥४८ उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः । अवक्षिप्यावहन्यात्तान् पिण्डान् यथा समाहितः ॥४६. अथ पिण्डावशिष्टान्नं विधिना भोजयेद् द्विजम् । षडप्यत्र नमस्कुर्यात् पितॄन् देवांश्च धर्मवित् ॥५०
ऽध्यायः ]
श्राद्धप्रकरणवर्णनम् ।
श्राद्ध भोजनकाले तु दीपो यदि विनश्यति ।
पुनरन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥ ५१ माषानपूपान्विविधान्दद्यात् सरसपायसम् । सूपशाकफलानिष्टान् पयो दधि घृतं मधु ॥ ५२ अन्नब्चैव यथाकामं विधिसम्भक्ष्यपेयकम् । यद्यदिष्टं द्विजेन्द्राणां तत्तत् सर्वं निवेदयेत् ॥ ५३ धान्यांस्तिलाश्च विविधाः शर्करा विविधा स्तथा । उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ॥ ५४ अन्यत्र फलमूलेभ्यः पानकेभ्य स्तथैव च । नाश्रूणि पातयेज्जातु न कुप्यान्नानृतं वदेत् ॥५५ न पादेन स्पृशेदन्नं न चैनमवधूनयेत् । क्रोधेनैव च यद्दत्तं यद् दत्तं त्वरया पुनः ॥ ५६ यातुधाना विलुम्पन्ति यच्च पापोपपादितम् । स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजन्मनाम् ॥५७ न च पश्येत काकादीन् पक्षिणस्तु न वारयेत् । तद्रूपाः पितर स्तत्र समायान्ति बुभुत्सवः ॥५८ न दद्यात्तत्र हस्तेन प्रत्यक्षलवणं तथा । नचायसेन पात्रेण न चैवाश्रद्धया पुनः ॥५६ काञ्चनेन तु पागेण तथा त्वौदुम्बरेण च । उत्तमाधिपतां याति खड्गेन तु विशेषतः ॥ ६० पात्रे तु मृण्मये यो वै श्राद्ध भोजयते पिपृत् । स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥ ६१
[[१५८३]]
[[१५८४]]
औशनसस्मृतिः ।
पचमो-
न पङ्क्तया विषमं दद्यान् न याचेत न वादयेत् । याचितादपि चात्मानं नरकं याति भीषणन् ॥ ६२ भुञ्जीत वाग्यतो स्पृष्टं न ब्रूयात् प्रकृतान् गुणान् । तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ ६३ नामासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः । बहूनां पश्यतां सोऽज्ञः पङ्क्तया हरति किल्विषम् ॥६४ न किश्चिद्वर्जयेत् श्राद्ध नियुक्तस्तु द्विजोत्तमः । न माषं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥६५ यो नाश्नाति द्विजो मापं नियुक्तः पितृकर्म्मणि । स प्रेत्य पशुतां याति सन्ततामेकविंशतिम् ॥६६ स्वाध्यायं श्रावयेदेषां धर्मशास्त्राणि चैव हि । इतिहासपुराणानि श्राद्धकल्पान् सुशोभनान् ॥६७ ततोऽन्यमुत्सृजेद् भुक्तेष्वप्रतो विकिरेद् भुवि । पृष्ट्वा स्वदितमित्येव तृप्तानाचामयेत्ततः ॥ ६८ आचान्ताननुजानीयादभितो रम्यतामिति । स्वस्थाः स्मेति च तं ब्रूयुर्ब्राह्मणा स्तदनन्तरम् ॥६६ ततो भुक्तवतां तेषामन्नशेषन्तु वेदयेत् । यथा ब्रूयात्तथा कुर्य्यादनुज्ञातस्तु तैर्द्विजैः ॥७० पित्रोः स्वदितमित्येवं वाच्यं गोष्ठेषु सूनृतम् । सम्पन्नमित्याभ्युदये दैवेनोच्यत इत्यपि ॥ ७१ विसृज्य ब्राह्मणांस्तान् वै देवपूर्वन्तु वाग्यतः । दक्षिणां दिशमाकाङ्क्षन् याचतेऽदो वरान् पितृन् ॥७२
ऽध्यायः ]
श्राद्धप्रकरणवर्णनम् ।
[[१५८५]]
दातारो नोऽभिवधन्तां वेदाः सन्ततिरेव च ।
[[1]]
श्रद्धा च नो मा व्यगमद् बहु देयभ्य नोऽस्त्विति ॥ ७३ पिण्डांस्तु भोज्यं विप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥७४ मध्यमं तं ततः पिण्डं दद्यात्पत्न्य सुतार्थकः । प्रक्षाल्य हस्तावाचम्य ज्ञातिशेषेण भोजयेत् ॥७५ ज्ञतिष्वपि च तुष्टेषु स्वान् भृत्यान् भोजयेत्ततः । पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ॥७६ नोद्वीक्षेत तदुच्छिएं यावन्नास्तं गतोरविः । ब्रह्मचयं चरेतान्तु दम्पती रजनीं तु ताम् ॥७७ दवा श्राद्धं ततो भुक्ता सेवते यस्तु मैथुनम् । महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ॥७८ शुचिरक्रोधनः शान्तः सत्यवादी समाहितः । स्वाध्यायश्च तथा ध्यानं कर्त्ता भोक्ता विसर्जयेत् ॥७६ श्राद्धं दत्त्वा परं श्राद्ध भुञ्जते ये द्विजातयः । महापातकिना तुल्या यान्ति ते नरकान् बहून् ॥८० एष वोऽभिहितः सम्यक् श्राद्धकल्पः सनातनः । आमं निवर्त्तयन्नित्यमुदासीनो न तत्त्वतः ॥ ८१ अनग्निरध्वगो वापि तथैव व्यसनान्वितः । आमश्राद्ध द्विजः कुर्य्याद् वृषलस्तु सदैव हि ॥८२ आमश्राद्धं द्विजः कुर्य्याद्विधिज्ञः श्रद्धयान्वितः । तेनाग्नौ करणं कुर्य्यात् पिण्डास्तैरेव निर्वपेत् ॥८३
[[१५८६]]
औशनसस्मृतिः ।
यो हि तद् विधिना कुर्याच्छ्राद्धं संयतमानसः । व्यपेतकल्मषो नित्यं यात्यसौ वष्णवं पदम् ॥८४ तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्य्याद् द्विजोत्तमः । आराधितो भवेदीशस्तेन सम्यक् सनातनः ॥८५ अपिमूलफलैर्वापि प्रकुर्यान्निर्धनो द्विजः । तिलोदके स्तर्पयित्वा पितॄन् स्नात्वा द्विजोत्तमः ॥८६ न जीवत्पितृको दद्याद्धोमान्तं वा विधीयते । तेषां चापि समादद्यात्तेषां चैके प्रचक्षते ॥८७ पिता पितामहचैव तथैव प्रपितामहः ।
- यो यस्य म्रियते तस्मै देयं मान्यस्य ते न तु ॥८८ भोजयेद्वापि जीवन्तं यथाकामं तु भक्तितः । न जीवन्तमतिक्रम्य ददाति श्रयते श्रुतिः ॥८६ द्वामुष्यायणको दद्याद्वीज हेतुस्तथाहि सः । रिक्तया भार्य्यया दद्यान्नियोगोत्पादितो यदि ॥६० अनियुक्तः सुतो यस्तु शुक्रतो जायते त्विह । प्रदद्याद्वीजिने पिण्डं क्षेत्रिणे तु तदन्यथा ॥ ६१ द्वौ पिण्डौ निर्वपेत्ताभ्यां क्षेत्रिणे वीजिने यथा । कीर्त्तयेदथ वैकस्मिन् बीजिनं क्षेत्रिणे ततः ॥६२ मृतेऽहनि तु कर्तव्यमेकोद्दिष्टविधानतः : आशौचत्वनिरीक्षाणः काम्यं कामयते पुनः ॥ ६३ पूर्वाह्न चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना । देवं तत्सर्वमेवं स्यान्न वै कार्या बहिः क्रिया ॥६४
पश्वमो-
ऽध्यायः ]
आशौचप्रकरणवर्णनम् ।
दर्भाश्च परितः स्थाप्या स्तदा स भोजयेद् द्विजान् । नान्दीमुखाश्च पितरः प्रीयन्तामिति वाचयेत् । मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ॥ ततो मातामहानाश्च वृद्धौ श्राद्धत्रयं स्मृतम् । देवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् ॥६६ प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः । स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ॥७ पुष्पैर्धूपैश्च नैवेद्यैर्भूषणैरपि पूज्य च ।
पूजयित्वा मातृगणं कुर्याच्छ्राद्धत्रयं बुधः ॥६८ अकृत्वा मातृयागश्च यः श्राद्धं परिवेषयेत् । तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥६६
इत्यौशन सस्मृतौ पञ्चमोऽध्यायः ।
॥ अथ षष्ठोऽध्यायः ॥
अथाशौचप्रकरणवर्णनम् ।
दशाहं प्राहुराशौचं सपिण्डेषु विपश्चितः । मृतेऽथवाथ जातेषु ब्राह्मणानां द्विजोत्तमाः ! ॥१ नित्यानि चैव कर्माणि काम्यानि च विशेषतः । न कुर्यादहितं किच्चित् स्वाध्यायं मनसापि च ॥२
[[१००]]
[[१५८७]]
[[१५८८]]
औशनसस्मृतिः ।
।
शुचिरक्रोधनस्त्वन्यान् कालेऽग्नौ भोजयेद् द्विजान् । शुष्कान्नेन फलैर्वापि पितरं जुहुयात्तथा ॥३ न स्पृशेयुरिमानन्ये न भूतेभ्यः समाचरेत् । सूतके तु सपिण्डानां संस्पर्शो नैव दुष्यति । सूतके सूतकाचैव वर्जयित्वा तृणं पुनः ॥४ अधीयानस्तथा यज्वा वेदविच्चाऽपि यो भवेत् । चतुर्थे पञ्चमे वाह्नि संस्पर्शे कथितो बुधैः ॥ ५ स्पृश्यास्तु सर्वमेवैते स्नानात्तु दशमाहनि ॥६ दशाहं निर्गुणं प्रोक्तमाशौचं दासनिर्गुणे । एवं द्वित्रिगुणैर्युक्तं चतुश्चैकदिने शुचि ॥७ दशाहात्तु परं सम्यगधीयीत जुहोति च । चतुथं त्वस्य संस्पर्शो मनुराह प्रजापतिः ॥८ क्रियाहीनस्य मूर्खस्य महारोगिण एव च । ये एषां मरणस्याहुर्मरणान्तमशौचकम् ॥ त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् । प्राक्संस्कारात्त्रिरात्रं स्याद्दशरात्रमतः परम् । जन्मद्विवर्षगे प्रेते मातापित्रोस्तदिष्यते । त्रिरात्रेण शुचिस्त्वन्यो यदिहात्यन्तनिर्गुणः ॥११ अदन्तजातमरणे मातापित्रोस्तदिष्यते ।
जातदन्ते त्रिरात्रं स्यादन्तः स्यात् यत्र निर्णयः ॥ १२
आदन्तजन्मनः सद्य आचौलादेक रात्रकम् ।
त्रिरात्रमुपनयनाद्दशरात्रमुदाहृतम् ॥१३
।
[ षष्ठो-
ऽध्यायः ]
अशौचवर्णनम् ।
जातमात्रस्य वा तस्य यदि स्यान्मरणं पितुः ।
मातुश्च सूतकाति स्यात् पिताऽस्य स्पृश्य एव हि ॥१४ सद्यः शौचं सपिण्डानां कर्त्तव्यं सोदरस्य तु । ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ॥१५ अथोद्ध्वं दन्तजन्म स्यात् सपिण्डानामशौचकम् । एकरात्रं निर्गुणानाञ्चौलादूर्ध्वं त्रिरात्रिकम् १६ आदन्तजातमरणं सम्भवेद्यदि सत्तमाः ॥ एकरात्रं सपिण्डानां यदि चात्यन्तनिगुणः ॥ १७ व्रतादेशात् सपिण्डानां गर्भस्रावाच्च पाततः । गर्भच्युतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे ॥१८ यथेष्टाचरणाद्ज्ञातौ त्रिरात्रादिति निर्णयः । सूतके यदि सूतिश्च मरणे वा गतिर्भवेत् ॥ १६ शेषेणैव भवेच्छुद्धिरहः शेषे द्विरात्रकम् । मरणोत्पत्तियोगे तु मरणेन समाप्यते ॥२० अर्द्ध वृतिमनाशौच मूर्ध्वमन्येन शुद्धयति । देशान्तरगतः श्रुत्वा सूतकं शाव एव वा ॥२१ तावदप्रयतोऽन्ये वा यावच्छेषः समाप्यते । अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ॥२२ तथैव मरणे स्नानमृध्वं संवत्सराद् व्रती । वेदांश्च यस्त्वधीयानो न भवेत् वृत्तिकर्शितः ॥ २३ सद्यः शौचं भवेत्तस्य सर्वावस्थासु सर्वदा । स्त्रीणामसंस्कृतानान्तु प्रदानात् परतः पितुः ॥२४
[[१५५६]]
[[१५६०]]
औशनसस्मृतिः ।
सपिण्डानां त्रिरात्रं स्यात् संस्कारो भर्तुरेव च । अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् ॥२५ द्विवर्ष जन्ममरणे सद्यः शौचमुदाहृतम् । आदन्तात् सोदरः सत्य आचौलादेकरात्रकम् ॥२६ आव्रतानां त्रिरात्रं स्याद्दशमन्तु ततः परम् । मातामहानां मरणे त्रिरात्रं स्यादशौचकम् ॥२७ एकोदराणां विज्ञेयं सूतके चैतदेव हि ।
पक्षिणी योनिसम्बन्धवे बान्धवेषु तथैव च ॥ २८ एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि ।
प्रेते राजनि सद्यस्तु यस्य स्याद्विषये स्थितः ॥२६ गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः । परपूर्वासु भार्यासु पुत्रेषु कुलजेषु च ॥३० त्रिरात्रं स्यात्तथाचार्ये भार्यासु प्रत्यगासु च । आत्रार्यपुत्रपत्न्योश्च अहोरात्रमुदाहृतम् ॥३१ एकरात्रमुपाध्याये तथैव श्रोत्रियेषु च । एकरात्रं सपिण्डेषु स्वगृहे संस्थितेषु च ॥ ३२ त्रिरात्रं श्वश्रुमरणे श्वशुरे तथैव च ।
सद्यः शौचं समुद्दिष्टं सगोगे संस्थिते सति ॥ ३३ शुध्येत् द्विजो दशाहेन द्वादशाहेन भूपतिः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ ३४ क्षत्रविट् शूद्रदायादा ये स्युर्विप्रस्य सेवकाः । तेषामशेषं विप्रस्य दशाहात् शुद्धिरिष्यते ॥३५
[[1]]
[ षष्ठो-ऽध्यायः ]
अशौचवर्णनम् ।
राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु ।
षड्रात्रं वा त्रिरात्रं वाऽप्येकरात्रक्रमेण हि ॥३६ वैश्यक्षत्रियविप्राणां शूद्रेश्वाशौचमेव तु ।
अर्द्ध मासोऽथ षड्रा त्रिरात्रं द्विजपुङ्गवाः ! ॥३७ शूद्रक्षत्रियविप्राणां शूद्रेष्वशौचमिष्यते । षड्रात्रं द्वादशाहश्च विप्राणां वैश्यशूद्रयोः ॥३८ अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुङ्गवः ! । शूद्रविट्क्षत्रियाणान्तु ब्राह्मणे संस्थिते यदि ॥ ३६ दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः । असपिण्डं द्विजप्रेतं विप्रो निस्सृत्य बन्धुवत् ॥४० अशित्वा च सहोषित्वा दशरात्रेण शुध्यति । यदि निर्दहति क्षिप्रं प्रलोभात् क्रान्तमानसः ॥ ४१ दशाहेन द्विजः शुध्येत् द्वादशाहेन भूमिपः । अर्द्ध मासेन वैश्यस्तु शूद्रो मासेन शुध्यति ॥४२ पात्रेणाथवा सप्तत्रिरात्रेणाथवा पुनः । अनाथञ्चैव निर्बन्धुं ब्राह्मणं धनवर्जितम् ॥४३ स्नात्वा सम्प्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः । अपरश्चेत्परं वर्णमपरश्चापरो यदि ॥४४ एकाहात् क्षत्रिये शुद्धिर्वैश्ये तु स्यात् द्वय सति । शूद्रेषु च त्र्यहं प्रोक्तं प्राणायामशतं पुनः ॥४५ अनस्थिसमिते शूद्रे रौति चेद् ब्राह्मणः स्वकैः 1 त्रिरात्रं स्यात्तथाऽशौचमे काहं क्षत्त्रवैश्ययोः ॥४५
।
[[१५६१]]
[[१५६२]]
औशनसस्मृतिः ।
अन्यथा चैव स ज्योतिर्ब्राह्मणे स्नानमेव च । अनस्थिसञ्चिते विप्रे ब्राह्मणो रौति चेत्तदा ॥४७ स्नानेनैव भवेच्छुद्धिः सचैलेन न संशयः । यस्तैः सहान्नं कुर्याच्च यानादीनि तु चैव हि ॥४८ ब्राह्मणे वाऽपरे वाऽपि दशाहेन विशुध्यति । य स्तेषामन्नमश्नाति स तु देवोऽपि कामतः ॥४६ तदाशौचनिवृत्तेषु स्नानं कृत्वा विशुध्यति । यावत्तदन्नमश्नाति दुर्भिक्षाभिहतो नरः । तावन्त्यहान्यशुद्धिः स्यात् प्रायश्चित्तं ततश्चरेत् ॥५० दाहाद्यशौचं कर्तव्यं द्विजानामग्निहोत्रिणाम् । सपिण्डानां तु मरणे मरणादितरेषु च ॥५१ सपिण्डता च पुरुषे सप्तमे विनिवत्तते । समानोदकभावस्तु जन्मनाम्नोर वेदने ॥ ५२ पिता पितामहश्चैव तथैव प्रपितामहः । लेपभाजस्तु यश्वात्मा सापिण्ड्यं सप्तपौरुषम् ॥५३ ऊर्ध्वानाचैव सापिण्ड्य माह देवः प्रजापतिः । ये चैकजाता बहवो भिन्नयोनय एव च ॥५४ भिन्नवर्णास्तु सापिण्ड्यं भवेत्तेषां त्रिपूरुषम् । कारवः शिल्पिनो वैद्यदासीदासास्तथैव च ॥५५ राजानो राजभृत्याश्च सद्यः शौचाः प्रकीर्तिताः । दातारो नियमी चैव ब्रह्मविद् ब्रह्मचारिणी ॥५६
[ षष्ठो-
ऽध्यायः ] गृहस्थानां प्रेतकर्मविधिवर्णनम् । १५६३
सत्रिणो व्रतिनस्तावत् सद्यः शौचमुदाहृतम् । राजा चैवाभिषिक्तश्च प्राणसत्रिण एव च ॥ ५७ यज्ञे विवाहकाले च देवयागे तथैव च ।
सद्यः शौचं समाख्यातं दुर्भिक्षे वाप्युपद्रवे ॥५८ विषाद्युपहतानाभ्व विद्युता पार्थिवैर्द्विजैः ।
सद्यः शौचं समाख्यातं सर्पादिमरणेऽपि च ॥५६ अनिमेरुप्रपतने विषौधान्यपराशने ।
गोब्राह्मणान्ते सन्न्यस्ते सद्यः शौचं विधीयते ॥ ६० नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं विद्यते सद्भिः पतिते च तथा मृते ॥ ६१
इत्यौशनसस्मृतौ षष्ठोऽध्यायः ।
॥ अथ सप्तमोऽध्यायः ॥
अथ गृहस्थानां प्रेतकर्मविधि वर्णनम् ।
पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः । न चाश्रुपातः पिण्डे च कार्यं श्राद्धादिकं क्वचित् ॥१ व्यापादयेत्तथात्मानं स्वयं योऽमिविषादिभिः । सहितं तस्य नाशौचं नचस्यादुदकादिकम् ॥२ अथ कश्चित्प्रमादेन म्रियतेऽग्निविषादिभिः । तस्याशौचं विधातव्यं कार्यञ्चैवोदकादिकम् ३
[[१५६४]]
[ सप्तमो-
औशनसस्मृतिः ।
।
:।
जाते कुमारे तदह आमं कुर्यात् प्रतिग्रहम् । हिरण्यधान्यगोवासस्तिलान्नगुड़सर्पिषः ॥४ फलानीक्षुभ्य शाकश्व लवणं काष्ठमेव च । तोयं दधि घृतं तैलमौषधं क्षीरमेव च ॥५ आशौचिनो गृहात् प्राह्यं शुष्कान्नञ्चैव नित्यशः । अहिताग्निर्यथान्यायं दातव्यं त्रिभिरग्निभिः ॥६ अनाहिताग्निर्गृह्येण लौकिकेनेतरैर्द्विजैः । देहाभावात् पलाशेन कृत्वा प्रतिकृतिं पुनः ॥७ दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयान्वितैः । सकृत्प्रसिञ्चे दुदकं नाम गोत्रेण वाग्यतः ॥८ दशाहं बान्धवैः सार्द्धं सर्वे चैवार्द्रवाससः । पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधि ॥ प्रेताय च गृहद्वारि चतुरो भोजयेद् द्विजान् । द्वितीयेऽहनि कर्तव्यं क्षुरकर्म सबान्धवैः ॥१० सर्वैरस्थ्नां सञ्चयनं ज्ञातिरेव भवेत्तथा । त्रिपूर्वं भोजयेद्विप्रानयुग्मान् श्रद्धया शुचीन् ॥ ११ पञ्चमे नवमे चैव तथैवैकादशेऽहनि ।
।
अयुग्मान् भोजयेद्विप्रान् नवश्राद्धं तु तद्विदुः ॥१२ एकादशेहि कुर्वीत प्रेतमुद्दिश्य भावतः । द्वादशे वाथ कर्तव्य मग्निदैस्त्वथवाऽहनि ॥१३ एकं पवित्र मेकं वा पिण्डमात्रं तथैव च ।
एवं मृतेऽह्नि कर्तव्यं प्रतिमासन्तु वत्सरम् ॥१४
ऽध्यायः ]
सपिण्डीकरण श्राद्धविधानवर्णनम् ।
सपिण्डीकरणं प्रोक्तं पूर्णे सम्वत्सरे पुनः ।
कुर्यात् चत्वारि पात्राणि प्रेतादीनां द्विजोत्तमाः ! ॥१५ प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः ।
ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ॥१६ सपिण्डीकरणश्राद्ध दैवपूर्व विधीयते । पितॄनावाहयेत्तत्र पुनः प्रेतश्च निर्दिशेत् ॥१७ ये सपिण्डीकृताः प्रेता न तेषां स्यात् पृथक् क्रिया । यस्तु कुर्यात् पृथक् पिण्डं पितृहा त्वभिजायते ॥ १८ मृते पितरि वै पुत्रः पिण्डशब्दं समाविशेत् । दयाश्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः ॥ १६ पार्वणेन विधानेन साम्वत्सरिकमिष्यते । प्रतिसम्वत्सरं कार्यं विद्धिरेष सनातनः ॥२० मातापित्रोः सुतैः कार्य पिण्डदानादि किश्चन । पत्नी कुर्यात् सुताभावे पत्न्यभावे तु सोदरः ॥२१ एष वः कथितः सम्यक् गृहस्थानां यथाविधि । स्त्रीणाञ्च भर्तृशुश्रूषा धर्मो नान्य इहेष्यते ॥ २२ यः स्वधर्मपरो नित्यमीश्वरार्पितमानसः । प्राप्नोति परमं स्थानं यदुक्तं वेदसम्मितम् ॥२३
इत्यौशनस्मृतौ सप्तमोऽध्यायः ।
[[१५६५]]
[[१५६६]]
औशनसस्मृतिः ।
[ अष्टमो-
॥ अष्टमोऽध्यायः ॥
अथ प्रायश्चित्तप्रकरणवर्णनम् ।
ब्रह्महा मद्यपः स्तेनो गुरुपल्पग एव च । महापातकिनस्त्वेते यः स तैः सह सम्वसेत् ॥ १ सम्वत्सरेण पतति संसगं कुरुते तु यः ।
यो हि शय्यासने नित्यं वसन्वै पतितो भवेत् ॥२ याजनं योनिसम्बन्’ तथैवाध्ययनं द्विजः । कृत्वा सद्यः पतेत् ज्ञानात् सहभोजनमेव च ॥३ अविज्ञायापि यो मोहात् कुर्यादध्ययनं द्विजः । सम्वत्सरेण पतति सहाध्ययनमेव च ॥४ ब्रह्महा वा दशाब्दानि कुण्ठीकृत्वा वने वसेत् । भैक्ष्यं चात्मविशुध्यर्थं कृत्वा शवशिरोध्वजम् ॥५ ब्रह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् । विनिन्द्य च स्वमात्मानं ब्राह्मणश्च स्वयं स्मरेत् ॥६ असङ्कराणि योग्यानि सप्तागाराणि संविशेत् । विघूमे शनकैर्नित्यं व्याहारे भुक्तवर्जिते ॥७ कुर्यादनशनं वाद्यं भृगोः पतनमेव च ।
ज्वलन्तं वा विशेदग्नि जलं वा प्रविशेत् स्वयम् ॥८
ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।
दीर्घमामयिनं विप्रं कृत्वा नामयिनं तथा ॥
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
दत्त्वा चान्नं स विदुषे ब्रह्महत्यां व्यपोहति । अश्वमेधावभृतके स्नात्वा यः शुध्यति द्विजः ॥१० सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदापयेत् । ब्रह्महा मुच्यते पापैर्दृष्टा वा सेतुदर्शनम् ॥११ सुरापस्तु सुरा तप्तामग्निवर्णां पिबेत्तदा । निर्दग्धकायः स तदा मुच्यते च द्विजोत्तमः ॥१२ गोमूत्रमग्निवणं वा गोशकृद्रवमेव वा । पयो घृतं जलं वाऽथ मुच्यते पापकात्ततः ॥ १३ जलार्द्रवासः प्रयतो ध्यात्वा नारायणं हरिम् । ब्रह्महत्याव्रतं चाथ चरेत्तत्पापशान्तये ॥१४ स्वर्णस्तेयी सकृद्विप्रो राजानमधिगम्य तु । स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति ॥१५ गृहीत्वा मुसलं राजा समृद्धन्यात्तु तं स्वयम् । स वै पापात्ततः स्तेनो ब्राह्मणस्तपसाथ वा ॥१६ करेणादाय मुसलं लगुडं वाऽथ घातिनम् । सध्वित्योभयतस्तीक्ष्णमायसं दण्डमेव च ॥ १७
राजा न स्तेन मद्दत मुक्तकेशेन धावता । अचक्षाणश्च तत्पापमेवं कर्माणि शाधि माम् ॥ १८ शासनाद्वापि मोक्षाद्वा ततः स्तेयाद्विमुच्यते ।
अशासित्वा च तं राजा स्तेयस्याप्नोति किल्विषम् ॥१६
तपसा द्रुतमन्यस्य सुवर्णस्तेयजं फलम् । चीरवासा द्विजोऽरण्ये सञ्चरेद् ब्रह्मणो व्रतम् ॥२०
[[१५६७]]
[[१५६८]]
औशनसस्मृतिः ।
स्नात्वाश्वमेधावभृथे पूतः स्यादथ वा द्विजः । प्रदद्याच्चाथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ॥२१ चरेद्वा वत्सरं कृत्स्नं ब्रह्मचर्यपरायणः । ब्राह्मणः स्वर्णहारी च तत्पापस्थापनुत्तये ॥२२ गुरुभार्या समारुह्य ब्राह्मणः काममोहितः । उपमूहेत् स्त्रियं तमां कान्तां कालायसीकृताम् ॥२३ स्वयं वा शिश्नवृषणे उत्कृत्यादथवाञ्जलौ । अतिष्ठेद्दक्षिणामाशा मा निपातमजिह्मतः ॥२४ गुर्वर्थे बहवः शुध्यै चरेद् वा ब्रह्मणो व्रतम्
।
शाखां कर्कटकोपेतां परिष्वज्याथ वत्सरे ॥२५ अधः शयीत निरतो मुच्यते गुरुतल्पगः । कृच्छ्रभ्वान्दश्वरेद्विप्रश्चीरवासाः समाहितः ॥२६ अश्वमेधावभृतके स्नात्वा मुच्येद् द्विजोत्तमः । कालेऽष्टके वा भुञ्जानो ब्रह्मचारी सदाव्रतः ॥ १७ स्थानासनाद्यं विचरेदधनोऽप्यु पयत्नतः । अधःशायी त्रिभिवर्षैस्ततः शुध्येत पातकात् ॥ १८ चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः । पतितैः सम्प्रयुक्ताना मयं गच्छति निष्कृतिम् । पतितेन तु संस्पर्श लोभेन कुरुते द्विजः ॥ १६ सकृत् पापापनोदार्थं तस्यैव व्रतमाचरेत् । तप्तकृच्छ्र’ चरेंद्वाथ सम्वत्सरमतन्द्रितः ॥२०
[ अष्टमो-
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
षाण्मासिकेऽथ संसर्गे प्रायश्चित्तार्थमाचरेत् । एभिः पूते रथो हन्ति महापातकिनो मलम् ॥२१ पुण्यतीर्थाभिगमनात् पृथिव्यामथ निष्कृतिः । ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम् ॥२२ कृत्वा चैवं महापापं ब्राह्मणः काममोहितः । कुर्यादनशनं विप्रः पुण्यतीर्थं समाहितः ॥ २३ जले वा प्रविशेदग्नौ ध्यात्वा देवं कपर्दिनम् । न हान्या दुष्कृतिर्दृष्टा मुनिभिः कर्मवेदिभिः ॥ २४
इत्यौशन सस्मृतौ अष्टमोऽध्यायः ।
[[१५६६]]
॥ अथ नवमोऽध्यायः ॥
प्रायश्चित्तवर्णनम् ।
गत्वा दुहितरं विप्रं स्वसारं सा स्नुषामपि । प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ॥ १ मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् । भागिनेयीं समारुह्य कुर्यात् कृच्छ्रादिपूर्वकम् ॥२ चान्द्रायणानि चत्वारि पथ्य वा सुसमाहितः । पैतृष्वस्त्रेयीं गत्वा तु स्वस्त्रियां मातुरेव च ॥ ३ ॥३ मातुलस्य सुतां वाऽपि गत्वा चान्द्रायणं चरेत् । भार्या सखीं समारुह्य गत्वा श्याली तथैव च ॥४
[[१६००]]
औशनसस्मृतिः ।
अहोरात्रोषितो भूत्वा तप्तकृच्छ्र’ समाचरेत् । उदक्यागमने विप्रस्त्रिरात्रेण विशुध्यति ॥५ क्षस्त्रीमैथुनमासाद्य चरेश्चान्द्रायणव्रतम् । पराकेणाथवा शुद्धिरित्याह भगवानजः । मण्डूकं नकुलं काळं विड्वराहञ्च मूषिकम् ॥६ श्वानं हत्वा द्विजः कुर्यात् षोडशाख्यमहाव्रतम् । पयः पिबेत्त्ररात्रन्तु श्वानं हत्वा त्वतन्द्रितः ॥७
मार्जारं चाथ नकुलं योजनं वाऽध्वनो व्रजेत् । कृच्छ्र द्वादशमात्रन्तु कुर्यादश्वबधे द्विजः ॥८ अथ कृष्णायसीं दद्यात् सर्प हत्वा द्विजोत्तमः । बलाकं रङ्कवं चैव मूषिकं कृतलम्भकम् ॥६ वराहन्तु विलद्रोणं तिलाटब्बैव तित्तिरिम् । शुकं द्विहायनं वत्सं क्रौञ्च हत्वा त्रिहायनम् ॥१० हत्वा हंसं बलाकश्च बकटिट्टिभमेव च ।
वानररुचैव भासथ्य स्वयं वा ब्राह्मणाय गाम् ॥११ क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।
अक्रव्यादं वत्सतरमुष्ट्रं हत्वा तु कृष्णलम् ॥१२ जीविते चैव तृप्ताय दद्यादस्थिमतां वधे ।
अनाचैव हि हिंसायां प्राणायामेन शुध्यति ॥ १३
फलदानन्तु विप्राणां चेदनादाहिकं शतम् ।
गुल्मवल्लीलतानाभ्व वीरुधां फलमेव च ॥१४
[ नवमो-ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
पुष्पागमानाश्च तथा घृतप्राशो विशोधनम् । चान्द्रायणं पराकथ्व कुर्य्यात् हत्वा प्रमादतः ॥१५ मतिपूर्वं बधे चास्याः प्रायश्चित्तं न विद्यते । मनुष्याणाञ्च हरणं स्त्रीणां कृत्वा ग्रहस्य च ॥१६ वापीकूपजलानाभ्व शुध्ये च्चान्द्रायणेन तु । द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः ॥१७ चरेत् सन्तापनं कृच्छं चरित्वाऽऽत्मविशुद्धये । धान्यादिधनचौयं च पञ्चगव्यविशोधनम् ॥१८
तृणकाष्ठद्रुमाणाञ्च पुष्पाणाञ्च बलस्य च । चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनम् ॥१६ मणिप्रवालरत्नानां सुवर्णरजत्तस्य च ।
अयः कांस्योपलानाञ्च द्वादशाहमभोजनम् ॥२० एतदेव व्रतं कुर्याद् द्विशफैकशफस्य च । पक्षिणामोषधीनाञ्च हरेचापि व्यहं पयः ॥ २१ न मांसानां हतानान्तु दैवे चान्द्रायणं चरेत् । उपोष्य द्वादशाहं तु कुष्माण्डैर्जुहुयाद् घृतम् ॥२२ नकुलोलूकमार्जारं जग्ध्वा सान्तपनं चरेत् ।
श्वानं जग्ध्वाऽथ कृच्छ्र ेण शुभक्षण च शुध्यति ॥ २३ प्रकुर्याच्चैव संस्कारं पूर्वेणैव विधानतः ।
शललभ्व बलाकश्च हंसं कारण्डवं तथा ॥ २४ चक्रवाकश्च जग्ध्वा च द्वादशाहमभोजनम् ।
कपोतं टिट्टिभं भासं शुकं सारसमेव च ॥ २५
[[१६०१]]
[[१६०२]]
ओशनसस्मृतिः
जलौकं जालपातञ्च जग्ध्वा ह्येतद् व्रतश्चरेत् । शिशुमारं तथा माषं मत्स्यं मांसं तथैव च ॥ २६ जग्ध्वा चैव वराहञ्च एतदेव व्रतश्चरेत् । कोकिलं चैव मत्स्यादं मण्डूकं भुजगं तथा ॥२७ गोमूत्र यावकाहारैर्मासेनैकेन शुध्यति । जलेचरांश्च जलजान्यातुधानविपाषितान् ॥२८ रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् । मृतमांसं वृथा चैवमात्मार्थं वा यथाकृतम् ॥२६ भुक्वा मासश्चरेदेतत्तत्पापस्यापनुत्तये । कपोतं कुञ्जरं शिशुं कुक्कुटं रजकां तथा ॥३० प्राजापत्यं चरेज्जग्ध्वा तथा कुम्भीरमेव च । पलाण्डु लशुनञ्चैव भुक्ता चान्द्रायणं चरेत् ॥३१ वार्ताकुं तण्डुलीयं च प्राजापत्येन शुध्यति । अश्मातकं तथोपेतं तप्तकृच्छ्र ेण शुध्यति ॥३२ प्राजापत्येन शुद्धिः स्यात्ककुभ्यां शशभक्षणे । अलाबुं गृञ्जनं चैव भुक्ताऽप्येतद् व्रतं चरेत् ॥३३ उदम्बरध्व कामेन तप्तकृच्छेण शुध्यति । वृथा कृसरसंयावं पायसाऽपूपशष्कुलीन् ॥३४ भुक्ता चैवं व्रतं तत्र त्रिरात्रेण विशुध्यति । पीत्वा क्षीराण्यपेयानि ब्रह्मचारी विशेषतः ॥३५ गोमूत्रयावकाहारो मासार्धेन विशुध्यति । अनिर्दशाया गोः क्षीरं माहिषं वार्क्षमेव च ॥ ३६
[ नवमो-
ऽध्यायः ]
प्रायश्चित्तप्रकणेऽभक्ष्यवर्णनम् ।
गर्भिण्या वा विवत्सायाः पीत्वा दुग्धमिदं चरेत् । एतेषाञ्च विकाराणि पीत्वा मोहेन वा पुनः ॥ ३७ गोमूत्रयावकाहारो सप्तरात्रेण शुध्यति । भुक्त्वा चैव नवश्राद्धं सूतके मृतकेऽथवा ॥३८ चान्द्रायणेन शुध्येत ब्राह्मणस्तु समाहितः । यस्य यद्भूयते नित्यं न यस्याग्रं न दीयते ॥ ३६ चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः । अभोज्यानान्तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ॥४० अन्त्यस्यात्ययिनोऽन्नञ्च तप्तकृच्छ्रमुदाहृतम् ।
[[१६०३]]
चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ॥४१ अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पर्शमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ४२ क्रव्यादानां पक्षिणाञ्च प्राश्य मूत्रपुरीषकम् । महासान्तपनं कुर्य्यात्तेषां मोहाद् द्विजातयः ॥४३ भासमण्डूककुक्कुरवायसे कृच्छ्रमाचरेत् । प्राजापत्येन शुध्येत ब्राह्मणः क्लिष्टभोजनात् ॥४४ क्षत्रिय स्तप्तकृच्छं स्याद् वैश्य चैव त्रिकृच्छ्रकम् । सुराभाण्डोदकं वापि पीत्वा चान्द्रायणं चरेत् ॥४५ शुनोच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुष्यति । गोमूत्र यावकाहारः पीतशेषञ्च वा पयः ॥४६ आपो मूत्रपुरीषाद्ये रुपेताः प्राशयेद्यदि । तदा सान्तपनं कुर्याद् त्रतं कायविशोधनम् ॥४७
[[१०१]]
[[१६०४]]
औशनसस्मृतिः ।
चाण्डालकूप भाण्डेषु यदज्ञानात् पिबेज्जलम् ।
चरेत् सान्तपनं कृच्छ ब्राह्मणः पापशोधनम् ॥४८ चाण्डालेन च संस्पृष्टं पीत्वा वारि द्विजोत्तमः । त्रिरात्रेण विशुध्येत पञ्चगव्येन शुध्यति ॥४६ महापातकसंस्पर्शे भुक्त्वा स्नात्वा द्विजोत्तमः । बुद्धिपूर्वन्तु मूढात्मा तप्तकृच्छ्रौं समाचरेत् ॥५० अन्यजातिविवाहे च स महापातकी भवेत् । तस्य पातकिसंसर्गात्पातकित्वमवाप्नुयात् ॥५१ चतुर्विंशतिकृच्छ्र स्याद् विवाहे त्वन्यकन्यया । संसर्गस्य तदर्द्ध स्यात् प्रायश्चित्तं सुतेन हि ॥५२ दृष्टा महापातकिनं चाण्डालं वा रजस्वलाम् । प्रमादाद्भोजनं कृत्वा त्रिरात्रेण विशुध्यति ॥५३ स्नानार्द्रा यदि भुञ्जीत अहोरात्रेण शुध्यति । बुद्धिपूर्व तु कृच्छ्रेण भगवानाह पद्मजः ॥५४ शुष्कं पर्युषितादीनि गन्धादिप्रतिदूषितम् । भुक्तवोपवासं कुर्वीत चरेद्विप्रः पुनः पुनः ॥५५ अज्ञानाद् भुक्तिशुध्यर्थ मज्ञानस्य विशेषतः । भृत्यानां यजनं कृत्वा परेषामन्यकर्मणि ॥५६ अभिचारमनहं च त्रिभिः कृच्छ्र विशुध्यति । ब्राह्मणाभिहतानाञ्च कृत्वा दाहादिकं द्विजः ॥ ५७ गोमूत्रयावकाहारः प्राजापत्येन शुध्यति । तैलाभ्यक्तः प्रभाते च कुर्यान्मूत्रपुरीषके ॥५८
[ नवमो
ऽध्यायः ]
अनेकपापानां प्रायश्चित्तवर्णनम् ।
[[१६०५]]
अहोरात्रेण शुध्येत श्मश्रुकर्माण मैथुने ।
एकाहेति विवाहामि परिभाव्य द्विजोत्तमः ॥ ५६ त्रिरात्रेण विशुध्येत त्रिरात्रात् षडहं पुनः ।
दशाहे द्वादशाहे वा परिहास्य प्रमादतः ॥६० कृच्छ्रचान्द्रायणं कुर्यात्तत्पापस्यापनुत्तये । पतितद्रव्यमादाय तदुत्सर्गेण शुध्यति ॥ ६
॥
चरेच्च विधिना कृच्छ्र मित्याह भगवान् प्रभुः । अनाशकनिवृत्ता तु प्रव्रज्योपासिता तथा ॥६२ आचरेत् त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । पुनश्च जातकर्मादि संस्कारैः संस्कृता द्विजाः ॥६३ शुद्धो यस्तद् व्रतं सम्यक्च रेयुर्धर्मदर्शिनः ॥६४ अनुपासितसिद्धस्तु तं व्यापकवशेन च । अजस्रं संयतमना रात्रौ चेद्रात्रिमेव हि ॥६५ अकृत्वा समिधाधानं शुचिः स्नात्वा समाहितः । गायत्र्यप्रसहस्रस्य जपं कृत्वा विशुध्यति ॥ ६६ उपासीत न चेत्सन्ध्यां गृहस्थोऽपि प्रमादतः । स्नात्वा विशुध्यते नद्याः परिश्रान्तः सुसंयमात् ॥६७
वैदिकानि च नित्यानि कर्माणि च विलोप्य तु । स्नातकव्रतलौल्यन्तु कृत्वा चोपवसेद्दिनम् ॥६७
।
सम्वत्सरश्चरेत् कृच्छ्रं मनुच्छन्दे द्विजोत्तमः । चान्द्रायणं चरेद् वृत्या गोप्रदानेन शुध्यति ॥ ६८
[[१६०६]]
औशनस्मृतिः ।
।
[ नवमो-
नास्तिकाद्यदि कुर्वीत प्राजापत्यं चरेद् द्विजः । देवद्रोहं गुरुद्रोहं तप्तकृच्छ ेण शुध्यति ॥ ६६
उष्ट्र्यानं समारुह्य खरयानञ्च कामतः । त्रिरात्रेण विशुध्येत नमो न प्रविशेज्जलम् ॥७० पष्ठान्नकालमासं वा संहिताजपमेव वा ।
होमाच्च शाकलान्नित्यमपत्यानां विशोधनम् ॥७१ नीलं रक्तं वसित्वा तु ब्राह्मणो वस्त्रमेव हि । अहोरात्रोषितः स्नातः पञ्चगव्येन शुध्यति ॥ ७२ वेदधर्मपुराणाश्च चण्डालस्य च भाषणम् ।
चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥७३ उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः कचित् ।
चान्द्रायणेन शुद्धः स्यात् प्राजापत्येन वा पुनः ॥७४ उच्छिष्टो यदि नाचान्तश्चण्डालादीन् स्पृशेद् द्विजः । उच्छिष्ट स्तन कुर्वीत प्राजापत्यं विशुद्धये ॥ ७५ चण्डालसूतकशवांस्तथा नारीं रजस्वलाम् । स्पृष्ट्रा स्नायाद्विशुध्यर्थं तत्स्पृष्टान् पतितांस्तथा ॥७६ चण्डालसूतकशवैः संस्पृष्टं स्पर्शयेद् यदि ।
प्रमादात् स्नात आचम्य जपं कृत्वा विशुध्यति ॥ ७७ अस्पृष्टस्पर्शनं कृत्वा स्नात्वा शुध्येद् द्विजोत्तमः ।
आचमेत विशुध्यर्थं प्राह देवः पितामहः ॥७८ विज्ञानस्य तु विप्रस्य कदाचित् स्रवते गुदम् । कृत्वा शौचं ततः स्नात्वा उपोष्य जुहुयाद् घृतम् ॥७६
ऽध्यायः ]
अनेकपापानां प्रायश्चित्तवर्णनम् ।
चाण्डालन्तु शवं स्पृष्ट्रा कृच्छ्रं कुर्यात् द्विजोत्तमः । दृष्टा नभस्थं नक्षत्रमहोरात्रेण शुध्यति ॥८० सुरां स्पृष्ट्रा द्विजः कुर्यात् प्राणायमत्रयं शुचिः । पलाण्डुं लशुनं चैव घृतं प्राश्य विशुध्यति ॥८१ ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् । नभिरूदूर्ध्वस्य दृष्टस्य तदेव त्रिगुणं भवेत् ॥८२ स्यादेतत्त्रिगुणं बाह्वोर्मूर्ध्नि स्यात्तु चतुर्गुणम् । स्नात्वा जपेत्तु गायत्री श्वभिर्दष्टो द्विजोत्तमः ॥८३
।
पञ्चयज्ञानकृत्वा तु यो भुङ्क्ते प्रत्यहं गृही । अनातुरस्य निधनं कृच्छ्राद्धेन विशुध्यति ॥८४ आहिताग्ने रुपस्थानं यः कुर्यान्न तु पर्वणि ।
[[१६०७]]
ऋतौ गच्छेत् न भार्यायां सोऽपि कृच्छ्राद्धं माचरेत् ॥८५
विना द्विरप्सु वा कुर्याच्छरीरं सन्निषेवते ।
[[1]]
सचैलो जलमाप्लुत्य गामालभ्य विशुध्यति ॥ ८६
गायत्र्यप्रसहस्रन्तु त्र्यहं चोपवसेद् गृही ।
अनुगच्छेच यः शूद्रं प्रेतभूतं द्विजोत्तमः ॥८७
गायत्र्यष्टसहस्रन्तु जपं कुर्यान्नदीषु च ।
।
अकृत्वा शपथं विप्रो विप्रस्य विधिसंयुते ॥८८ मृषैव यावकान्नेत्रे कृर्याच्चान्द्रायणं व्रतम् । पंक्तौ विषमदानञ्च कृत्वा कृच्छ्रेण शुध्यति ॥ ८६ छायां श्वपाकस्यारुह्य स्नात्वा सम्प्राशयेद् घृतम् ।
रक्षेदादित्यमशुचिं दृष्ट्वाग्नीन्द्रजमेव च ॥१०
[[१६०८]]
औशनसस्मृतिः ।
[ नवमो-
मानुष्यास्थि च संस्पृष्ट्रा स्नानमेव विशुध्यति । कृत्वाप्यध्यनं विप्रश्वरेद्भिक्षा नुवत्सरम् ॥६१ कृतघ्नो ब्राह्मणगृहे पञ्चसम्वत्सरं व्रती । हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारन्तु गरीयसः ॥ २ स्नात्वाचम्य ततः शेषं प्रणिपत्य प्रसादयेत् । ताडयित्वा तृणेनैव कर्णे बद्ध्वा च वाससा ॥६३ विवादे परिनिर्जित्य प्रणिपत्य प्रसादयेत् । अवगृह्य चरेत् कृच्छ्रमतिकृच्छ निपातने ॥६४ कृच्छ्रातिकृछः कुर्वीत विप्रस्योत्पाद्य शोणितम् । गुरोराक्रोशने चैव कृच्छ्रं कुर्याद्विशोधनम् ॥ ६५ एकरात्रं द्विरानं वा तत्पापस्यापनुत्तये । देवर्षीणामभिमुखं ष्ठीवताक्रोशनाकृते ॥ ६६ उलूकादि जनुर्जित्वा दातव्यञ्च हिरण्यकम् । देवोद्यानेन यः कुर्य्यान्मूत्रोच्चारं सकृद् द्विजः ॥६७ च्छिन्द्याच्छिन्नन्तु शुद्धयर्थं चरेच्चान्द्रायणं व्रतम् । देवतायतने मूत्रं कृत्वा देहाद् द्विजोत्तमः ॥६८ शिश्नस्योत्कृन्तनं कृत्वा चान्द्रायणमथाचरेत् । देवतानामृषीणाञ्च वेदानाञ्चैव कुत्सनम् ॥६६ कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः । तैस्तु सम्भाषणं कृत्वा स्नात्वा देवान् समर्चयेत् ॥ १०० स्त्री यदा बालभावेन महापापं करोति हि ।
प्रायश्चित्तं व्रतस्यास्य पित्रा तद्वतचारिणीम् ॥ १०१
ऽध्यायः ]
अनेक पापानां प्रायश्चित्तवर्णनम् ।
[[१६०६]]
उद्वहेदभिरूपान्तमन्यथा पतितस्तु सः ।
अपि राजन्यकवये वार्षिकब्राह्मणोवतम् ॥१०२ तस्यान्ते वृषभैकेन सहस्रं गोदानमाचरेत् ।
सर्प हत्वा माषमात्रं दद्यात् सुवर्णरजतताम्रत्रपुसीसकांस्यासनामद्भिरेव मृत्स्नायुक्ताभिस्तेजसा चोच्छिष्टानां भस्मना त्रिः । प्रक्षालनं कनकरजतमणिशङ्खशुक्त्युपलानां वज्रविदलरज्जुचम्मणाचाद्भिः शौचमिति ।
अपि चाण्डालश्वपचस्पृे वा विण्मूत्र एव च । त्रिरात्रेण विशुद्धिः स्याद् भुक्तोच्छिष्टः सदाचरेत् ॥ १०३ पिता पितामहो यस्य अग्रजो वाथ कस्यचित् । तपोऽग्निहोत्रमन्त्रेषु न दोषः परिदेवने ॥ १०४ अमावास्यायां यो ब्राह्मणं समुद्दिश्य पितामहम् । ब्राह्मणीं स्त्रीं समभ्यर्च्य मुच्यते सर्वपातकैः ॥ १०५ अमावास्यां तिथिं प्राप्य यममाराधयेद्भवम् । ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥ १०६ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् । संपूज्य ब्राह्मणमुखैः सर्वपापैः प्रमुच्यते ॥ १०७
॥ त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्टदेव प्रथमे यामे मुच्यते सर्वपातकैः ॥ १०८ सर्वत्र दानग्रहणे मुच्यते सोमयागतः ।
[[१०]]
शान्त्या च दक्षिणां गृह्णन् हिरण्यप्रतिमामपि ॥१०६ अयुतेनैव गायत्र्या मुच्यते सर्वपातकः ।
इत्यौशनस्मृतौ नवमोऽध्यायः ।
समाप्ताचेयं औशनसस्मृतिः ।
ॐ तत्सत् ।
ॐ तत्सद्ब्रह्मणे नमः ।
अथ