**::;-
श्रीगणेशाय नमः ।
अथानुलोमप्रतिलोमजात्यन्तराणां निरूपणवर्णनम् ।
अतः परं प्रवक्ष्यामि जातिवृत्तिविधानकम् । अनुलोमविधानञ्च प्रतिलोमबिधि तथा ॥ १ सान्तरालकसंयुक्तं सर्व संक्षिप्य चोच्यते । नृपाद् ब्राह्मणकन्यायां विवाहेषु समन्वयात् ॥२ जातः सूतोऽत्र निर्दिष्टः प्रतिलोमविधिर्द्विजः । वेदानहस्तथा चैषां धर्माणामनुबोधकः ॥३ सूताद्वि प्रसूतायां सूतो वेणुक उच्यते । नृपायामेव तस्यैव जातो यश्चर्मकारकः ॥४
ब्राह्मण्यां क्षत्रियान्चौर्याद्रथकारः प्रजायते । वृत्तश्च शूद्रवृत्तस्य द्विजत्वं प्रतिषिध्यते ॥५
अनुलोमप्रतिलोमजात्यन्तराणांनिरूपणं, तद्धर्माभिधानश्व । १५४५
यानानां ये च वोढ़ारस्तेषाव परिचारकाः । शूद्रवृत्त्या तु जीवन्ति न क्षात्त्रं धर्ममाचरेत् ॥६ ब्राह्मण्यां वैश्यसंसर्गाज्जातोमागध उच्यते । वन्दित्वं ब्राह्मणानाञ्च क्षत्रियाणां विशेषतः ॥७ प्रशंसावृत्तिको जीवेद्वश्यप्रेष्यकरस्तथा । ब्राह्मण्यां शूद्रसंसर्गाज्जातश्चाण्डाल उच्यते ॥८ सीसमाभरणं तस्य काष्र्णायसमथापि वा । वधीं कण्ठे समावध्य झल्लरीं कक्षतोऽपि वा ॥ मल्लापकर्षणं ग्रामे पूर्वाह्णे परिशुद्धिकम् । नापराह्न प्रविष्टोऽपि वहिर्ग्रामाच्च नैर्ऋते ॥ १० पिण्डीभूता भवन्त्यत्र नोचेद् बध्या विशेषतः । चाण्डालाद्वैश्यकन्यायां जातः श्वप च उच्यते ॥ ११ श्वमांसभक्षणं तेषां श्वान एव च तद्बलम् । नृपायां वैश्यसंसर्गादायोगव इति स्मृतः ॥ १२ तन्तुवाया भवन्त्येव वसुकांस्योपजीविनः । शीलिकाः केचिदत्रैव जीवनं वस्त्रनिर्मिते ॥१३ आयोगवेन विप्रायां जातास्ताम्रोपजीविनः । तस्यैव नृपकन्यायां जातः सूनिक उच्यते ॥ १४ सूनिकस्य नृपायान्तु जाता उद्बन्धकाः स्मृताः । निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवन्त्यतः ॥१५ नृपायां वैश्यतश्चौर्यात् पुलिन्दः परिकीर्तितः । पशुवृत्तिभवेत्तस्य हन्युस्तान् दुष्टसत्वकान् ॥१६
[[१५४६]]
औशनससंहिताः ।
नृपायां शूद्रसंसर्गाज्जातः पुक्कश उच्यते । सुरावृत्ति समारुह्य मधुविक्रय कर्मणा ॥ १७ कृतकानां सुराणाश्व विक्रेता याचको भवेत् । पुक्कशाद्वैश्यकन्यायां जातो रजक उच्यते ॥ १८ नृपायां शूद्रतचौर्याज्जातो रञ्जक उच्यते । वैश्यायां रञ्जकाज्जातो नर्त्तको गायको भवेत् ॥१६ वैश्यायां शूद्रसंसर्गाज्जातो वैदेहिकः स्मृतः । अजानां पालनं कुर्यान्महिषीणां गवामपि ॥ २० दधिक्षीराज्यतत्राणां विक्रयाज्जीवनं भवेत् । वैदेहिकात्तु विप्रायां जाताश्चर्मोपजीविनः ॥ २१ नृपायामेव तस्यैव स्कचिकः पाचकः स्मृतः । वैश्यायां शूद्रतचर्याजातश्चक्री च उच्यते ॥ २२ तैलपिष्टकजीवी तु लवणं भावयन् पुनः ।
विधिना ब्राह्मणः प्राप्य नृपायान्तु समन्त्रकम् ॥२३ जातः सुबर्ण इत्युक्तः सानुलोमद्विजः स्मृतः । अथ वर्णक्रियां कुर्बन्नित्यनैमित्तिकीं क्रियाम् ॥२४ अश्वं रथं हस्तिनं वा वाहयेद्वा नृपाज्ञया । सैनापत्यश्च भैषज्यं कुर्याज्जीवेत्त वृत्तिषु ॥ २५ नृपायां विप्रतश्चौर्यात् संजातो यो भिषक् स्मृतः । अभिषिक्तनृपस्याज्ञां परिपाल्येत्त वैद्यकम् ॥२६ आयुर्वेदमथाष्टाङ्गं तन्त्रोक्तं धर्ममाचरेत् ।
ज्यौतिषं गणितं वाऽपि कायिकी वृत्तिमाचरेत् ॥२७
अनुलोमप्रतिलोमजात्यन्तराणांनिरूपणम् । १५४७
नृपायां विधिना विप्राज्जातो नृप इति स्मृतः । नृपायां नृपसंसर्गात् प्रमादाद् गूढजातकः ॥२८ सोऽपि क्षत्रिय एव स्यादभिषेके च वर्जितः ।
अभिषेकं विना प्राप्य गोज इत्यभिधायकः ॥२६ सर्वन्तु राजवृत्तस्य शस्यते प ( ) दवन्दनम् । पुनर्भूकरणे राज्ञां नृपकानीन एव च ॥ ३० वैश्यायां निधिना विप्राज्जातो ह्यम्वष्ठ उच्यते । कृष्याजीवो भवेत्तस्य तथैवाग्नेयवृत्तिकः ॥३१ ध्वजिनी जीविका वाऽपि अम्बष्ठाः शस्त्रजीविनः । वैश्यायां विप्रतश्चौर्यात् कुम्भकारः स उच्यते ॥३२
कुलालवृत्त्या जीवेत नापिता वा भवन्त्यतः । सूतके प्रेतके वाऽपि दीक्षाकालेऽथ वापनम् ॥३३ नाभेरूद्ध्वं तु वपनं तस्मान्नापित उच्यते । कायस्थ इति जीवेत्तु विचरेच्च इतस्ततः ॥ ३४ काकालौल्यं यमात् क्रौर्य स्थपतेरथ कृन्तनम् । आद्याक्षराणि संगृह्य कायस्थ इति कीर्तितः ॥ ३५ शूद्रायां विधिना विप्राज्जातः पारशवोमतः । भद्रकादीन् समाश्रित्य जीवेयुः पूजकाः स्मृताः ॥३६ शिवाद्यागमविद्याद्यैस्तथामण्ड (द) लवृत्तिभिः । तस्यां वै चौरसो वृत्तो निषादो जात उच्यते ॥ ३७
वने
दुष्टमृगान् हत्वा जीवनं मांसविक्रयम् । नृपाज्जातोऽथ वैश्यायां गृह्यायां विधिना सुतः ॥३८
[[१५४८]]
औशनससंहिताः ।
वैश्यवृत्या तु जीवेत क्षात्त्रधर्मं न चाचरेत् । तस्यां तस्यैव चौरेण मणिकारः प्रजायते ॥३६ मणीनां राजतां कुर्यान्मुक्तानां वेधनक्रियाम् । प्रवालानाभ्व सूत्रित्वं शाखानां बलयक्रियाम् ॥४० शूद्रस्य विप्रसंसर्गाज्जात उग्र इति स्मृतः । नृपस्य दण्डधारः स्याद्दण्डं दण्ड्यषु सञ्चरेत् ॥४१ तस्यैव चौरसंवृस्या जातः शुण्डिक उच्यते । जातदुष्टान् समारोप्य शुण्डाकर्मणि योजयेत् ॥४२ शूद्रायां वैश्यसंसर्गाद्विधिना सूचकः स्मृतः । सूचकाद्विप्रकन्यायां जातस्तक्षक उच्यते ॥४३ शिल्पकर्माणि चान्यानि प्रासादलक्षणं तथा । नृपायामेव तस्यैव जातो यो मत्स्यबाधकः ॥ ४४ शूद्रायां वैश्यतश्चौर्यात् कटकार इति स्मृतः । वशिष्ठशापात्त्रेतायां केचित् पारशवास्तथा ॥ ४५ वैखानसेन केचित्तु केचिद्भागवतेन च । वेदशाश्वाबलम्वास्ते भविष्यन्ति कलौ युगे ॥४६ कटकारास्ततः पश्चान्नारायणगणाः स्मृताः । शाखा वैखानसेनोक्ता तन्त्रमागविधिक्रियाः ॥४७ निषेकाद्याः श्मशानान्ताः क्रियाः पूजाङ्गसूचिकाः । पञ्चरात्रेण वा प्राप्तं प्रोक्तं धर्मं समाचरेत् ॥४८ शूद्रादेव तु शूद्रायां जातः शूद्र इति स्मृतः । द्विजशुश्रूषणपरः पाकयज्ञपरान्वितः ॥४६
सच्छूद्रलक्षणवर्णनम् ।
सच्छूद्रं तं विजानीयादसच्छूद्रस्ततोऽन्यथा ।
चौर्यात् काकवचो ज्ञेयश्वाश्वानां तृणवाहकः ॥५० एतत् संक्षेपतः प्रोक्तं जातिवृत्तिविभागशः । जात्यन्तराणि दृश्यन्ते संकल्पादित एव तु ॥ ५१
इत्यौशनसं धर्मशास्त्रं समाप्तम् ।
शुक्र ( औशनस ) स्मृतिः समाप्ता ।
[[१५४६]]
॥ 3727 ॥