आपस्तम्बस्मृतिः

श्रीगणेशाय नमः ।

*::.-

॥ अथ प्रथमोऽध्यायः ॥

अथ गोरोधनादिविषये गोहत्यायां च प्रायश्चित्तवर्णनम् ।

आपस्तम्बं प्रवक्ष्यामि प्रायश्चित्तविनिर्णयम् । दूषितानां हितार्थाय वर्णानामनुपूर्वशः ॥१ परेषां परिवादेषु निवृत्तमृषिसत्तमम् । विविक्तदेश आसीनमात्मविद्यापरायणम् ॥२ अनन्यमनसं शान्तं सत्वस्थं योगवित्तमम् । आपस्तम्बमृषि सर्वे समेत्य मुनयोऽब्रुवन् ॥३ भगवन् ! मानवाः सर्वेऽसन्मार्गेऽपिस्थिता यदा । चरेयुर्धर्मकार्याणां तेषां ब्रूहि विनिष्कृतिम ॥४ यतोऽवश्यं गृहस्थेन गवादिपरिपालनम् ।

कृषिकर्मादि चापत्सु (वपने) द्विजामन्त्रणमेव च ॥५

[[१३८८]]

आपस्तम्बस्मृतिः ।

[ प्रथमो-

देयञ्चानाथकेऽवश्यं विप्रादीनाश्च भेषजम् । बालानां स्तन्यपानादिकार्यञ्च परिपालनम् ॥६ एवं कृते कथञ्चित् स्यात् प्रमादो यद्यकामतः । गवादीनां ततोऽस्माकं भगवन् ! ब्रूहि निष्कृतिम् ॥७ एवमुक्तः क्षणं ध्यात्वा प्रणिपातादधोमुखः । दृष्ट्वा ऋषीनुवाचेदमापस्तम्बः सुनिश्चितम् ॥८ बालानां स्तन्यपानादिकार्ये दोपो न विद्यते । विपत्तावपि विप्राणामामन्त्रण चिकित्सने ॥ गवादीनां प्रवक्ष्यामि प्रायश्चित्तं रुजा (तृषा ) दिषु । केचिदाहुर्न दोषोऽत्र देहधारणभेषजे ॥१० औषधं लवणञ्चैव स्नेहपुष्ट्यन्नभोजनम् । प्राणिनां प्राणवृत्त्यर्थः प्रायश्चित्तं न विद्यते ॥ ११ अतिरिक्तं न दातव्यं काले स्वल्पन्तु दापयेत् । अतिरिक्त विपन्नानां कुच्छमेव विधीयते ॥ १२

त्र्यहं निरशनात् पादः पादश्चायाचितं त्र्यहम् । पादः सायं त्र्यहं पादः प्रतर्भोज्यं तथा त्र्यहम् ॥ १३ प्रातः सायं दिनार्द्धश्च पादोनं सायवर्जितम् ॥१४ प्रातः पादं चरेच्छद्रः सायं वैश्यस्य दापयेत् । अयाचितन्तु राजन्ये त्रिरात्रं ब्राह्मणस्य च ॥ १५ पाकमेकं चरेद्रोधे द्वौ पादौ वन्धने चरेत् । योजने पादहीनश्च चरेत् सर्वं निपातने ॥ १६

ऽध्यायः ]

गोहत्याप्रायश्चित्तवर्णनम् ।

[[१३८६]]

घण्टाभरणदोषेण गौस्तु यत्र विपद्यते । चरेदद्ध व्रतं तत्र भूपणार्थं कृतं हि तत ॥ १७ दमने वा निरोधे वा संघाते चैव योजने । स्तम्भशृङ्खलपाशैश्च मृते पादोनमाचरेत् ॥ १८ पाषाणैर्लगुडेर्वापि शस्त्रेणान्येन वा बलात् ।

निपातयन्ति ये

गास्तु तेषां सर्वं विधीयते ॥ १६ प्राजापत्यं चरेद्विप्रः पादोनं क्षत्रियश्चरेत् । कृच्छार्द्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥२० द्वौ मासौ दापयेद् वत्सं द्वौ मासौ द्वौ रतनौ दुहेत् । द्वौ मासावेकवेलायां शेषकाले यथारुचि ॥२१ दशरात्राद्ध मासेन गौस्तु यत्र विपद्यते ।

सशिखं वपनं कृत्वा प्राजापत्यं समाचरेत् ॥२२ हलमठगवं धर्म पड्गवं जीवितार्थिनाम् । चतुर्गवं नृशंसानां द्विगकञ्च जिघांसिनाम् ॥२३ अतिवाहातिदोहाभ्यां नासिकाभेदने तथा । नदीपर्वतसंरोधे मृते पादोनमाचरेत् ॥२४

न नारिकेलबालाभ्यां न मुञ्जेन न चर्मणा । एभिर्गास्तु न बध्नीयाद् वद्ध्वा परवशोभवेत् ॥२५ कुशैः काशैश्च बध्नीयाद् वृषभं दक्षिणामुखम् । पादलमामिदोषेषु प्रायश्चित्तं न विद्यते ॥२६

व्यापन्नानां बहूनान्तु रोधने बन्धनेऽपि च ।

भिषमिथ्योपचारे च द्विगुणं गोत्रतध्वरेत् ॥ २७

[[१३६०]]

आपस्तम्बस्मृतिः ।

शृङ्गभङ्गेऽस्थिभङ्गे च लागूलस्य च कर्त्तने 1

[[1]]

सप्तरात्रं पिबेद् दुग्धं यावत्स्वस्था पुनर्भवेत् ॥२८ गोमूत्रेण तु संमिश्रं यावकं भक्षयेद् द्विजः । एतद्विमिश्रितं चैव मुक्तश्वोशनसा स्वयम् ॥२६ देवद्रोण्यां विहारेषु कृपेष्वायतनेषु च । एषु गोपु विपन्नासु प्रायश्चित्तं न विद्यते ॥३० एका पादात्तु बहुभिर्देवाद्वयापादिता कचित् । पादं पादन्तु हत्यायाश्चरेयुस्ते पृथक् पृथक् ॥३१ यन्त्रणे गोश्चिकित्सार्थे मूढगर्भेविमोचने । यत्ते कृते विपत्तिश्वेत प्रायश्चित्तं न विद्यते ॥३२ सरोमं प्रथमे पादे द्वितीये श्मश्रु (धारणम् ) कर्त्तनम् । तृतीये तु शिखा धार्या सशिखन्तु निपातने ॥ ३३ सर्व्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम् । एवमेव तु नारीणां शिरसो मुण्डनं स्मृतम् ॥३४

इत्यापस्तम्बीये धर्मशास्त्रे प्रथमोऽध्यायः ।

॥ अथ द्वितीयोऽध्यायः ॥

अथ शुद्ध शुद्धिविवेकवर्णनम् ।

कामहस्तगतं पुण्यं यच ग्रामा (पात्रा ) द्विनिःस्मृतम् ।

स्त्रीबालवृद्धाचरितं प्रत्यक्षादृष्टमेव च ॥ १

[ प्रथमो-Sध्यायः ] उदकशुद्धिनिरूपणं, दूपितवापीकूपादीनांशुद्धिवर्णनम् । १६६१

प्रपास्वरण्येषु जलेऽथ नीरे द्रोण्यां जलं यच विनिसृतं भवेत् । पाकचाण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुद्धिः ॥२

न दुष्येत् सन्तता धारा वातोद्भूताश्च रेणवः । स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन ॥२ आत्मशय्या च वस्त्रञ्च जायापत्यं कमण्डलुः । आत्मनः शुचिरेतानि परेषामशुचीनि तु ॥४ अन्यैस्तु खानिताः कृपास्तडागानि तथैव च । एपु स्नात्वा च पीत्वा पञ्चगव्येन शुध्यति ॥५ उच्छिष्टमशुचित्वञ्च यच्च विष्ठानुलेपनम् । सर्व शुध्यति तोयेन तत्तोयं केन शुध्यति ॥५ सूर्यरश्मिनिपातेन मारुतस्पर्शनेन च । गवां मूत्रपुरीषेण तत्तोयं तेन शुध्यति ॥७ अस्थिचर्मादियुक्तन्तु खराश्रोट्रोप दूषितम् । उद्धरेदुदकं स शोधनं परिमार्जनम् ॥८ कूपो मूत्रपुरीषेण ष्ठीवनेनापि दूषितः । श्रशृगालखरोष्ट्रश्च क्रव्यादैश्च जुगुप्सितः ॥ उद्धृत्यैव च तत्तोयं समपिण्डान् समुद्धरेत् । पञ्चगव्यं मृदा पूतं कूपे तच्छोधनं स्मृतम् ॥१० बापीकूपतड़ागानां दूपितानाञ्च शोधनम् । कुम्भानां शतमुद्धृत्य पञ्चगव्यं ततः क्षिपेत् ॥११ यश्च कूपात् पिबेत्तोयं ब्राह्मणः शवदूपितात् । कथं तत्र विशुद्धिः म्यादिति मे संशयो भवेत् ॥१२

[[१३६२]]

आपस्तम्बस्मृतिः ।

अक्लिन्नेनाप्यभिन्नेन शवेन परिदूषिते ।

पीत्वा कूपे ह्यहोरात्रं पञ्चगव्येन शुध्यति ॥ १३ किन्न भिन्न शवे चैव तत्रस्थं यदि तत् पिबेत् । शुद्धिश्चान्द्रायणं तस्य तत् कृच्छ्रमथापि वा ॥ १४ इत्यापस्तम्बीये धर्मशास्त्रे द्वितीयोऽध्यायः ।

द्वितीयो-

॥ अथ तृतीयोऽध्यायः ॥ गृहेऽविज्ञातस्यान्त्यजातेनिवेशने - बालादिविषये च प्रायश्चित्तम् ।

अन्त्यजातिमविज्ञातो निवसेद्यश्च वेश्मनि ।

सम्यग् ज्ञात्वा तु कालेन द्विजाः कुर्वन्त्यनुग्रहम् ॥१ चान्द्रायणं पराको वा द्विजातीनां विशोधनम् । प्राजापत्यन्तु शूद्रस्य शेषं तदनुसारतः ॥ २ यैर्भुक्तं तत्र पकान्नं कृच्छ्र’ तेषां प्रदापयेत् । तेषामपि च यैर्भुक्तं कृच्छ्रपादं प्रदापयेत् ॥३ कूपकपानैदुष्टानां स्पर्शने शवदूषणम् । तेषामेकोपवासेन पञ्चगव्येन शोधनम् ॥४

बालो वृद्धस्तथा रोगी गर्भिणी वाऽपि (वायु) पीडिता । तेषां नक्तं प्रदातव्यं बालानां प्रहरद्वयम् ॥५ अशीतिर्यस्य वर्षाणि बालोवाप्यूनपोडशः ।

प्रायश्चित्ताद्ध मर्हन्ति स्त्रियो व्याधित एव च ॥५

Sध्याय ] चण्डालकूप जलपानादौ संम्पर्श च प्रायश्चित्तं । १३६३

न्यूनैकादशवर्षस्य पञ्चवधिकस्य च ।

चरेद् गुरुः सुहृद्वापि प्रायश्चित्तं विशोधनम् ॥ अथवा क्रियमाणेषु येपामार्त्तिः प्रदृश्यते । शेषसम्पादनाच्छुद्धिर्विपत्तिर्न भवेद्यथा ॥८ क्षुधा व्याधितकायानां प्राणां येषां विपद्यते । ये न रक्षन्ति भक्तेन तेपां तत्किल्विषं भवेत् ॥ पूर्णेऽपि कालनियमेन शुद्धिर्ब्राह्मणैर्विना । अपूर्णेष्वपि कालेपु शोधयन्ति द्विजोत्तमाः ॥ १० समाप्तमिति नो वाच्यं त्रिपु वर्णेषु कर्हिचित । विप्रसम्पादनं कार्यमुत्पन्नं प्राणसंशये ॥११ सम्पादयन्ति यद्विप्राः स्नानतीर्थं फलञ्च तत् । सम्यक् कर्त्तुरपापं स्याद्वृती च फलमाप्नुयात् ॥१२ इत्यापस्तम्वीये धर्मशास्त्रे तृतीयोऽध्यायः ।

॥ अथ चतुर्थोऽध्यायः ॥

अथ चाण्डालकूपजलपानादौ पानादिपद क्यादिसंस्पर्शे च प्रायश्चित्तं

चाण्डालकूपभाण्डेषु योऽज्ञानात् पिबते जलम् ।

प्रायश्चित्तं कथं तस्य वर्णे वर्णे विधीयते ॥ १ चरेत् सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः । तदर्द्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥ ३

[[१३६४]]

आपस्तम्बस्मृतिः ।

भुक्तवोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वपचेन वा । प्रमादात् स्पर्शनं गच्छेत्तत्र कुर्याद्विशोधनम् ॥४

॥५

गायत्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् । जपं त्रिरात्रमनश्नन् पञ्चगव्येन शुध्यति ॥ ५ चाण्डालेन यदा स्पृष्टो विण्मूत्रे च कृते द्विजः । प्रायश्चित्तं त्रिरात्रं स्यादभुक्तवोच्छिष्टः पडाचरेत् ॥ ६ पानमैथुनसम्पर्के तथा मूत्रपुरीपयोः ।

सम्पर्क यदि गच्छेत्तु उदक्या चान्त्य जैस्तथा ॥ ७ एतैरेव यदा स्पृष्टः प्रायश्चित्तं कथं भवेत् ।

भोजने च त्रिरात्रं स्यात् पाने तु व्यहमेव च ॥ ८ मैथुने पादकृच्छ स्यात्तथा मूत्रपुरीषयोः । दिनमेकं तथा मूत्रे पुरीषे तु दिनत्रयम् ॥६ एकाहं तत्र निर्दिष्टं दन्तधावनभक्षणे ॥१० वृक्षारूढे तु चाण्डाले द्विजस्तत्रैव तिष्ठति । फलानि भक्षयेत्तस्य कथं शुद्धिं विनिर्दिशेत् ॥ ११ ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत् । एकरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ १२ येन केनचिदुच्छिष्टो अमेध्यं स्पृशति द्विजः । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥१३

इत्यापस्तम्बी धर्मशास्त्रे चतुर्थोऽध्यायः ।

[ चतुर्थी-

Sध्यायः ] वैश्यान्त्यजश्व का कोच्छिष्टभोजनेप्रायश्चित्तवर्णनम् । १३६५

॥ अथ पञ्चमोऽध्यायः ॥

अथ वैश्यान्त्यजश्वका कोच्छिष्टभोजनेप्रायश्चित्तवर्णनम् ।

चाण्डालेन यदा स्पष्टोद्विजवर्णः कदाचन ।

अनभ्युक्ष्य पिवेत्तोयं प्रायश्चित्तं कथं भवेत् ॥ १ ब्राह्मणस्तु त्रिरात्रेण पञ्चगव्येन शुध्यति ।

क्षत्रियस्तु द्विरात्रेण पञ्चगव्येन शुध्यति ॥ २ चतुर्थस्य तु वर्णस्य प्रायश्चित्तं न वै भवेत् । व्रतं नास्ति तपो नास्ति होमो नैव च विद्यते ॥ ३ पञ्चगत्र्यं न दातव्यं तस्य मन्त्रविवर्जनात् । ख्यापयित्वा द्विजानान्तु शूद्रो दानेन शुध्यति ॥४ ब्राह्मणस्य यदोच्छिष्टमश्नात्यज्ञानतो द्विजः । अहोरात्रन्तु गायत्र्या जपं कृत्वा विशुध्यति ॥५ उच्छिष्टं वैश्यजातीनां भुङ्क्ते ज्ञानाद् द्विजो यदि । शङ्खपुष्पीपयः पीत्वा त्रिरात्रेणैव शुध्यति ॥ ६ ॥६ ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन । न तत्र दोषं मन्यन्ते नित्यमेव मनीषिणः ॥७ उच्चिष्टुमितरस्त्रीणामश्नीयात् पिवतेऽपिवा । प्राजापत्येन शुद्धिः म्याद्भगवानङ्गिरा ब्रबीत् ॥८ अन्त्यानां भुक्तशेषन्तु भयित्वा द्विजातयः । चान्द्रायणं तदर्द्धाद्धं ब्रह्मक्षत्रविशां विधिः ॥

[[८८]]

[[१३६६]]

आपस्तम्बस्मृतिः ।

[ पञ्चमो-

विण्मूत्रभक्षणे विप्रस्तप्तकृच्छ्रं समाचरेत् ।

श्वक कोच्छिष्टभोगे च प्राजापत्यविधिः स्मृतः ॥१० उच्छिष्टः स्पृशते विप्रो यदि कश्चिदकामतः ।

शुनः कुक्कुटशूद्रांश्च मद्यभाण्डं तथैव च ॥ ११ पक्षिणाधिष्ठितं यच्च यदमेध्यं कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ १२ वैश्येन च यदा स्पष्ट उच्छिष्टेन कदाचन । स्नानं जपञ्च त्रैकाल्यं दिनस्यान्ते विशुध्यति ॥१३ विप्रोविप्रेण संस्पृष्ट उच्छिष्टेन कदाचन ।

स्नात्वाचम्य विशुद्धः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥१४ इत्यापस्तम्वीये धमशास्त्रे पञ्चमोऽध्यायः ।

॥ षष्ठोऽध्यायः ॥

अथ नीलीवस्त्रधारणे नीलीभक्षणे च प्रायश्चित्तम् । अत ऊर्ध्व प्रवक्ष्यामि नीलीवस्त्रस्य यो विधिः । स्त्रीणां क्रीडार्थसम्भोगे शयनीये न दुष्यति ॥ १ पालने विक्रये चैव तद्वृत्तेरुपजीवने । पतितस्तु भवेद्विप्र स्त्रिभिः कृच्छ्र विशुध्यति ॥ २ स्नानं दानं तपोहोमः स्वाध्यायः पितृतर्पणम् ।

पञ्चयज्ञा वृथा तम्य नीलीवस्त्रम्य धारणात् ॥ ३

ऽध्यायः ] नीलीवस्त्रधारणं नीलीभक्षणे च प्रायश्चित्तम् । ९३६७

नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥४ रोमकूपैयँदा गच्छेद्रमो नील्यास्तु कर्हिचित् । पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्र विशुध्यति ॥५ नीलीदारु यदा भिन्याद् ब्राह्मणम्य शरीरकम् । शोणितं दृश्यते तत्र द्विजश्चान्द्रायणं चरेत् ॥६ नीलीमध्ये यदा गच्छेत् प्रमादाद् ब्राह्मणः कचित् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥७ नीलीरक्तेन वस्त्रेण यदन्नमुपनीयते ।

अभोज्यं तद्विजातीनां भुक्ता चन्द्रायणं चरेत् ॥८ भक्षयेद् यस्य नीलीन्तु प्रमादाद् ब्राह्मणः कचित् । चान्द्रायणेन शुद्धिः स्यादापस्तम्वोऽत्रवीन्मुनिः ॥ यावत्यां वापिता नीली तावती चाशुचिमँही । प्रमाणं द्वादशाब्दानि अत ऊदूध्वं शुचिर्भवेत् ॥१०

इत्यापस्तम्बीये धर्मशास्त्रे षष्ठोऽध्यायः ।

॥ अथ सप्तमोऽध्यायः ॥ . अन्त्यजादिस्पर्शेरजस्वलायाः, विवाहादिषु कन्याया

रजोदर्शने प्रायश्चित्तम् ।

स्नानं रजस्वलायास्तु चतुर्थेऽहनि शस्यते !

वृत्त रजसि गम्या स्त्री नानिवृत्ते कथञ्चन ॥१

[[१३६८]]

आपस्वस्मृतिः ।

रोगेण यद्रजः स्त्रीणामत्यथ हि प्रवतते । अशुद्धा स्तु न तेनेह तासां वैकारिकं हि तत् ॥ २ साध्वाचारा न सा तावद्रजो यावत् प्रवर्तते । वृत्तं रजसि साध्वी स्याद् गृहकर्म्मणि चैन्द्रिये ॥३ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मवातिनी । तृतीये रजकी प्रोक्ता चतुर्थेनि शुध्यति ॥४ अन्त्यजातिश्वपाकेन संस्पृष्टा व रजस्वला । अहानि तान्यतिक्रम्य प्रायश्चित्तं प्रकल्पयेत् ॥५ त्रिरात्रमुपवासः स्यात् पञ्चगव्यं विशोधनम् । निशां प्राप्य तु तां योनिं प्रजाकारञ्च कारयेत् ॥ रजस्वलां त्यजेत् स्पृष्ठां शुना च श्वपचेन च ! त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ ७ प्रथमेऽहनि पात्रं द्वितीये तु व्यहन्तथा । तृतीये चोपवासस्तु चतुर्थे वह्निदर्शनात ॥८ विवाहे वितते यज्ञे संस्कारे च कृते तथा । रजस्वला भवेत् कन्या संस्कारस्तु कथं भवेत् ॥ स्नापयित्वा तदा कन्यामन्यैर्वस्त्रैरलङ्कृताम् । पुनः प्रत्याहुति हुत्व शेषं कम्म समाचरेत् ॥ १० रजस्वला तु संस्पृष्टा कुक्कुटवायसैः । सा त्रिरात्रोपवासेन पञ्चगव्येन शुध्यति ॥ ११ उच्छिष्टेन तु संस्पष्टा कदाचित् स्त्री रजस्वला । कृच्छ ेण शुद्धते विप्रस्तथा दानेन शुध्यति ॥१२

[ सप्तमो-

Sध्यायः ] अन्त्यजादिस्पर्शेरजस्व ० विवाहे कन्याया रजोद० प्रा० १३६ ।

एकशाखासमारूढ़ा चाण्डाला वा रजस्वला । ब्राह्मणेन समं तत्र सवासाः स्नानमाचरेत् ॥१३ रजस्वलायाः संस्पर्श कथञ्चिज्जायते शुना । रजोदिनात्तु यच्छेपस्तदुपोष्य विशुध्यति ॥१४ अशक्ता चोपवासे तु स्नानं पश्चात् समाचरेत् । तत्राप्यशक्ता चैकेन पञ्चगत्र्यं पिवेत्ततः ॥ १५ उच्छिष्टस्तु यदा विप्रः स्पृशेन्मयं रजस्वलाम् । मद्यं स्पृष्ट्रा चरे कृच्छ्र तदर्द्धन्तु रजस्वला ॥१६ उदक्यां सूतिकां विप्र उच्छिष्टः स्पृशते यदि । कृच्छ्रार्द्धन्तु चरेद्विपः प्रायश्चित्तं विशोधनम् ॥१७ चाण्डालैः श्वपचैर्वापि आत्रेयी स्पृशते यदि ।

शेषाहात् फालकृष्टेन पञ्चगव्येन शुध्यति ॥१८ उदक्या ब्राह्मणी शूद्रामुदक्यां स्पृशते यदि । अहोरात्रोपिता भूत्वा पञ्चगव्येन शुध्यति ॥ १६ एवञ्च क्षत्रियां वैश्यां ब्राह्मणी चेद्रजस्वलाम । सचेलप्लवनं कृत्वा दिनस्यान्ते घृतं पिबेत् ॥२० सवर्णेषु तु नारीणां सद्यः स्नानं विधीयते । एवमेव विशुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥२१

इत्यापस्तम्बीये धर्मशास्त्रे सप्तमोऽध्यायः ।

[[१४००]]

आपस्तम्ब स्मृतिः ।

[ अटमो-

॥ अथ अष्टमोऽध्यायः ॥

सुरादिदूपित कांस्यशुद्धिविधानवर्णनम् ।

भस्मना शुध्यते कांस्यं सुरया यन्न लिप्यते । सुराविण्मूत्रसंस्पृष्टं शुध्यते तापलेखनैः ॥११ गवाघातानि कांस्यानि शुद्धोच्छिष्टानि यानि तु दशभिः क्षारैः शुध्यन्ति श्रकाकोपहतानि च ॥२ शौचं सुवर्णनारीणां वायुसूर्येन्दुरश्मिभिः ॥३ रेतस्पृष्टुं शवस्पृष्टमाविकन्तु प्रदुष्यति । अद्भिर्मृदा च तन्मात्रं प्रक्षाल्य च विशुध्यति ॥ शुद्धमन्नमविप्रस्य पञ्चरात्रेण जीव्यति । अन्नं व्यञ्जनसंयुक्तमर्द्ध मासेन जीय्यति ॥ ५ पयस्तु दधि मासेन पण्मासेन घृतं तथा । सम्वत्सरेण तैलन्तु कोष्ठे जीर्य्यति वा नवा भुञ्जते ये तु शूद्रान्नं मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं जायन्ते ते मृताः शुनि ॥७ शूद्रान्नं शूद्रसम्पर्कः शूद्रेणैव सहासनम् । शूद्राज्ञानागमः कञ्चिज्ज्वलन्तमपि पातयेत् ॥ ८ आहित्याभिस्तु योविप्रः शूद्रान्नान्न निवर्तते । तथा तस्य पूणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ॥ शूद्रान्नेन तु भुक्तंन मैथुनं योऽधिगच्छति ।

यस्यान्नं तस्य तं पुत्रा ह्यन्याच्छुक्रस्य सम्भवः ॥ १०ऽध्यायः ]

शूद्रान्नभोजने निन्दानिरूपणवर्णनम् । १४०१

शूद्रान्नेनोदरस्थेन यः कश्चिन्म्रियते द्विजः ।

स भवेच्छूकरो ग्राम्यो मृतः श्वा वाथ जायते ॥ ११

ब्राह्मणस्य सदा भुङ्क्ते क्षत्रियस्य तु पर्वणि वैश्यस्य यज्ञदीक्षायां शूद्रस्य न कदाचन ॥१२ अमृतं ब्राह्मणस्यान्नं क्षत्रियस्य पयः स्मृतम् । वैश्यस्याप्यन्नमेवान्नं शूद्रस्य रुधिरं स्मृतम् ॥१३ वैश्वदेवेन होमेन देवताभ्यर्चनंर्जपः । अमृतं तेन विप्रान्नमृग्यजुःसामसंस्कृतम् ॥१४ व्यवहारानुरूपेण धर्मेण च्छलवर्जितम् । क्षत्रियस्य पयस्तेन भूतानां यच पालनम् ॥१५ स्वकर्मणा च वृषभैरनुसृत्याद्यशक्तितः । खलयज्ञातिथित्वेन वैश्यान्नन्तेन संस्कृतम् ॥१६ अज्ञानतिमिरान्धस्य मद्यपानरतस्य च । रुधिरं तेन शूद्रान्नं विधिमन्त्रविवर्जितम् ॥१७ आममांसं मधु घृतं धानाः क्षीरं तथैव च । गुडं तक समं ग्राह्यं निवृत्तेनापि शूद्रतः ॥१८

तक्र

शाकं मांसं मृणालानि तुम्बुरुः शक्तवस्तिलाः ।

रसाः फलानि पिण्याकं प्रतिग्राह्या हि सर्वतः ॥ १६

आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुध्येत द्रुपदां वा शतं जपेत् ॥ २७ द्रव्यपाणिश्च शूद्रेण स्पृष्टोच्छिष्टेन कर्हिचित् । तदुद्विजेन न भोक्तव्यमापस्तम्बोऽब्रवीन्मुनिः ॥२१

इत्यापस्तम्बीये धर्म्मशास्त्रेऽष्टमोऽध्यायः ।

[[१४०३]]

आपस्तम्ब स्मृतिः ।

[ नवमो

॥ अथ नवमोऽध्यायः ॥

अपेयपानेऽभक्ष्यभक्षणं च प्रायश्चित्तवर्णनम् ।

भुञ्जानस्य तु विप्रस्य कदाचित् स्रवते गुदम् । उच्छिष्टस्याशुचरेतस्य प्रायश्चित्तं कथं भवेत् ॥ १ पूर्वं शौचन्तु निर्वर्त्य ततः पश्चादुपस्पृशेत । अहोरात्रोपितोभूत्वा पञ्चगव्येन शुध्यति ॥२ अशित्वा सर्वमेवान्नमकृत्वा शौचमात्मनः । मोहाद्भुक्त्वा त्रिरात्रन्तु यवान् पीत्वा विशुध्यति ॥३ प्रसृतं यवशस्येन पलमेकन्तु सर्पिषा । पलानि पञ्च गोमूत्रं नातिरिक्तवदाशयेत् ॥४ अलेह्यानामपेयानामभक्ष्याणाञ्च भक्षणं । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेन ॥५ पद्मोदुम्बरबिल्वाश्च कुशाश्वत्थपलाशकाः । एतेषामुदकं पीत्वा पात्रेण विशुध्यति ॥ ६ ये प्रत्यवसिता विप्राः प्रव्रज्याग्निजलादिपु । अनाशकनिवृत्ताश्च गृहस्थत्वं चिकीर्षतः ॥७ चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि वा । जातकर्मादिभिः सर्वैः पुनः संस्कार भागिनः । तेपां सान्तपनं कृच्छ्रं चान्द्रायणमथापिवा ॥ ८ यद्वेष्टितं कालवलाकचिल्लेरमेध्यलिप्तश्च भवेच्छरीरम ।

श्रोत्रे मुखे च प्रविशेच्च सम्यक् स्नानेन लेपोपहतस्य शुद्धिः ॥६

Sध्यायः ] मक्षिका केशदृपितान्न भोजने प्रायश्चित्तवर्णनम् १४०३

ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते ।

उद्ध्वं स्नानमधः शौचं मार्जनेनैव शुध्यति ॥ १० उपानहावमेव्यं वा यस्य संस्पृशते मुखम । मृत्तिकाशोधनं स्नानं पञ्चगव्यं विशोधनम् ॥११ दशाहाच्छुध्यते विप्रो जन्महानौ स्वयोनिषु । पभिस्त्रिभिरर्थैकेन क्षत्रविट्शूद्रयोनिषु ॥१२ उपनीतं यदा त्वन्नं भोक्ता च समुपस्थितः । अपीतवत् समुत्सृष्टं न दद्यान्नव होमयेन ॥ १३ अन्ने भोजनसम्पन्ने मक्षिका केशदृपिते । अनन्तरं स्पृशदापस्तच्चान्नं भग्मना स्पृशत् ॥१४ शुष्क मांसमयं चान्नं शूद्रान्नं वाप्यकामतः ।

भुक्त्वा कृच्छ्रं चरेद्विप्रो ज्ञानात कृच्छत्रयं चरेत ॥१५ अभुक्तं मुञ्चते यश्च भुञ्जन् यश्चापि मुच्यते ।

भोक्ता च भोजकश्चैव पक्तया गच्छति दुष्कृतम् ॥१६ यच्च भुङ्क्ते तु भुक्तं वा दुष्टं वाऽपि विशेषत । अहोरात्रोपितो भूत्वा पञ्चगव्येन शुध्यति ॥ १७ उदके चोदकस्थस्तु स्थलस्था स्थले शुचिः । पादा स्थाप्योभयत्रैव आचम्योभयतः शुचिः ॥ १८ उत्तीर्याचम्य उदकादवतीर्य्य उपस्पृशेत् । एवन्तु श्रेयसा युक्तो वरुणेनाभिपूज्यते ॥ १६ अग्न्यगारे गवां गोष्ठे ब्राह्मणानाञ्च सन्निधौ । स्वाध्याये भोजने चैव पादुकानां विसर्जनम् ॥२०

[[१४०४]]

आपस्तम्बस्मृतिः ।

[ नवमो-

जम्मप्रभृतिसंस्कारे श्मशानान्ते च भोजनम् । असपिण्डैर्न कर्तव्यं चडाकार्ये विशेषतः । २१ याजकान्नं नवश्राद्ध सग्रहे चैव भोजनम् । स्त्रीणां प्रथमगर्भे च भुक्त्वा चान्द्रायणं चरेत् ॥२२ ब्रह्मदने ( Sवसाने) च श्राद्ध

े च सोमन्तोन्नयने तथा । अन्नश्राद्ध मृतश्राद्ध भुक्त्वा चान्द्रायणं चरेत् ॥२३ अप्रजा या तु नारी स्यान्नाश्नीयादेव तद्गृहे । अथ भुञ्जीत मोहाद् यः पृयसं नरकं व्रजेत् ॥२४ अल्पेनापि हि शुल्केन पिता कन्यां ददाति यः । रौरवे बहुवर्षाणि पुरीपं मूत्रमश्नुते ॥२५ स्त्रीधनानि च ये मोहादुपजीवन्ति बान्धवाः । स्वर्ण यानानि वस्त्राणि ते पापा यान्त्यधोगतिम् ॥२६

राजान्न’ तेजआदत्तं शूद्रानं ब्रह्मवर्चसम ।

असंस्कृतन्तु योभुङ्क्तं स भुङ्क्तं पृथिवीमलम् ॥२७ मृतके सूतके चैव गृहीते शशिभास्करे ।

हस्तिच्छायान्तु या भुङ्क्त पापः स पुरुषो भवेत् ॥ २८ पुनर्भूः पुनरेता च रेतोधा कामचारिणी । आसां प्रथमगर्भेषु भुक्त्वा चान्द्रायणं चरेत् ॥२६ मातृघ्नश्च पितृघ्नश्च ब्रह्मघ्नो गुरुतल्पगः । विशेषाद्भुक्तमेतेषां भुक्त्वा चान्द्रायणं चरेत् ॥३० रजकव्याधशैलूपवेणुचर्मोपजीविनाम् ।

भुक्त्वैषां ब्राह्मणश्चान्नं शुद्धिं चान्द्रायणेन तु ॥ ३१

Sध्यायः ] शुल्केनकन्यादाने दोपाभिधानंसशुद्धिवर्णनम् । १४०५

उच्छिष्टोच्छिष्टसंस्पृष्टः कदाचिदुपजायते । सवर्णेन तदोत्थाय उपस्पृश्य शुचिर्भवेन । उच्छिष्टोच्छिष्टसंस्पृष्टः गुना शूद्रेन वा द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुद्धयति ॥ ३२ ब्राह्मणस्य सदाकालं शूद्रे प्रेषणकारिणः । भूमावन्न प्रदातव्यं यथैव श्वा तथैव सः ॥ ३३ अनूदकेश्वरण्येषु चौख्याकुले पथि । कृत्वा मूत्रं पुरीपञ्च द्रव्यहस्तः कथं शुचिः ॥ ३४ भूमावन्न प्रतिष्ठाप्य कृत्वा शौचं यथार्थतः । उत्सङ्गे गृह्य पक्वान्नमुपस्पृश्य ततः शुचिः ॥ ३५ मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः । मोहाद्भुक्त्वा त्रिरात्रन्तु गव्यं पीत्वा विशुध्यति ॥ ३७ उदक्यां यदि गच्छेत्तु ब्राह्मणो मदमोहितः । चान्द्रायणेन शुध्येत ब्राह्मणाञ्च भोजनैः ॥३७ भुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालः श्वपचेन वा । प्रमादाद् यदि संस्पृष्टो ब्राह्मणो ज्ञानदुर्बलः ॥३८ स्नात्वा त्रिपवणं नित्यं ब्रह्मचारी धराशयः । स त्रिरात्रोपितो भूत्वा पञ्चगः येन शुध्यति ॥ ३६ चाण्डालेन तु संस्पृष्टो यश्वापः पिबति द्विजः । अहोरात्रोषितो भूत्वा त्रिपवणेन शुध्यति ॥४० सायं प्रातस्त्वहोरात्रं पादं कृच्छ्रस्य तं विदुः । सायं प्रातस्तथैवैकं दिनद्वयमयाचितम् ॥४१ दिनद्वयञ्च नाश्नीयात कृच्छ्राद्धं तद्विधीयते । प्रायश्चित्तं लघु ह्येतत्पापेषु तु यथाऽहतः ॥४२

C

[[१४०६]]

आपस्तम्ब स्मृतिः ।

कृष्णाजिनतिलग्राही हस्त्यश्वानाञ्च विक्रयी । प्रेतनिर्यातकश्चैव न भूयः पुरुषो भवेत् ॥४३

इत्यापस्तम्बी धर्मशास्त्रे नवमोऽध्यायः ।

[ दशमी-

॥ अथ दशमोऽध्यायः ॥

अथ मोक्षाधिकारिणामभिधानवर्णनम् ।

आचान्तोऽप्यशुचिस्तावद् यावन्नोद्भियते जलम् । उद्घृतेऽप्यशुचिस्तावद् यावद्भूमिर्न लिप्यते ॥१ भूमावपि च लिप्तायां तावत् स्यादशुचिः पुमान् । आसनादुत्थितस्तमाद् यावन्नाऽऽक्रमते महीम् ॥२ न यमं यममित्याहुरात्मा वै यम उच्यते । आत्मा संयमितो येन तं यमः किं करिष्यति ॥ ३ न तथाऽसिस्तथा तीक्ष्णः सर्पो वा दुरधिष्ठितः । यथा क्रोधो हि जन्तूनां शरीरस्थो विनाशकः ॥४ क्षमा गुणो हि जन्तूनामिहामूत्रसुखप्रदः । अरिर्वानित्यसंक्रुद्धो यथाऽऽत्मादुरधिष्ठितः । एकः क्षमावतां दोषो द्वितीयो नोपपद्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥५

न शक्तिशास्त्राभिरतस्य मोक्षो नचैव रम्यावसथप्रियस्य । न भोजनाच्छादनतत्परस्य एकान्तशीलस्य दृढव्रतस्य ॥६

ऽध्यायः ] विवाहोत्सवादिष्वन्तरामृतसून के सद्यः शुद्धिविधानवर्ण० १४०७

मोक्षो भवेत् प्रीतिनिवत्तकस्य अध्यात्मयोगकरतस्य सम्यक् । मोक्षो भवेन्नित्यमहिंसकस्य स्वाध्याययोगागतमानमम्य ॥७

क्रोधयुक्तो यद् यजते यज्जुहोति यदति । सर्वं हरति दत्तस्य आमकुम्भइवोदकम् ॥८ अपमानात्तपोवृद्धिः सम्मानात्तपसः क्षयः । अर्चितः पूजतो विप्रो दुग्धा गौरिव सीदति ॥६ आप्यायते यथा धेनुस्तृणैरमृतसम्भवैः । एवं जपश्च होमैश्च पुनराप्यायते द्विजः ॥ १० मातृवत् परदारांश्र परद्रव्याणि लोट्रवत् । आत्मवत् सवभूतानि यः पश्यति स पश्यति ॥११ रजकन्या शैलूषणचर्मोपजीविनाम् । यो भुङ्क्ते भक्तमेतेषां प्राजापत्यं विशोधनम् ॥१२ अगम्यागमनं कृत्वा अभक्ष्यस्य च भक्षणम् । शुद्धिं चान्द्रायणं कृत्वा अथर्वोक्तं तथैव च ॥१३ अग्निहोत्रं त्यजेद् यस्तु स नरोवीरहा भवेत् । तस्य शुद्धिर्विधातव्या नान्या चान्द्रायणादृते ॥१४ विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।

सद्यः शुद्धिं विजानीयात् पूर्वं सङ्कल्पितं चरेत् ॥ १५ देवद्रोण्यां विवाहेषु यज्ञेषु प्रतरेषु च ।

कल्पितं सिद्धमन्नाद्यं नाशौचं मृतसूतके ॥१३

इत्यापस्तम्बीये धर्मशास्त्रे दशमोऽध्यायः । समाप्ताचेयमापस्तम्वस्मृतिः ।

ॐ तत्सत् ।

॥ ॐ तत्सद्ब्रह्मणे नमः ॥

11 3727 11