९०००ः-
प्रथमोऽध्यायः ।
श्रीगणेशायनमः ।
तत्रादौ - धर्मोपदेशंतलक्षण वाह-
अथातो हिमशैला देवदारुवनालये । व्यासमेकाग्रमासीनमपृच्छन्नृपयः पुरा ॥ १ मानुषाणां हितं धर्म वर्त्तमाने कलौ युगे । शौचाचारं यथावच वद सत्यवतीसुत ! ॥२ तच्छ्र ुत्वा ऋषिवाक्यन्तु समिद्धाग्न्यर्कसन्निभः । प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः ॥३ नचाहं सर्व्वतत्त्वज्ञः कथं धर्मं वदाम्यहं । अस्मत् पितैव प्रष्टव्य इति व्यासः सुतोऽवदत् ॥४
[[४०]]
[[६२६]]
पराशरस्मृतिः ।
[ प्रथमोऽ-
ततस्ते ऋषयः सर्व्वे धर्मतत्त्वार्थकाङ्क्षिणः । ऋषि व्यासं पुरस्कृत्य गता वदरिकाश्रमे ॥५ नानावृक्षसमाकीर्ण फलपुष्पोपशोभितम् । नदीप्रस्रवणाकीर्ण पुण्यती गैरलङ्कृतम् ॥ ६ मृगपक्षिगणान्यञ्च देवतायतनावृतम् । यक्षगन्धसिद्धेश्व नृत्यगीतसमाकुलम् ॥७ तस्मिन्नृपसभामध्ये शक्तिपुत्रं पराशरम् । सुखासीनं महात्मानं मुनिमुख्यगणावृतम् ॥८ कृताञ्जलिपुटो भूत्वा व्यासस्तु ऋषिभिः सह । प्रदक्षिणाभित्रादैश्च स्तुतिभिः समपूजयत् ॥६ अथ सन्तुष्टमनसाः पराशरमहामुनिः । आह सुस्वागतं ब्रूहीत्यासीनो मुनिपुङ्गवः ॥ १० व्यासः सुस्वागतं ये च ऋषयश्च समन्ततः । कुशलं कुशलेत्युक्ता व्यासः पृच्छत्यतः परम् ॥११ यदि जानासि मे भक्ति स्नेहाद्वा भक्तवत्सल ! धर्म कथय मे तात ! अनुग्राह्योद्यहं तव ॥ १२ श्रुता मे मानवा धर्मा वाशिष्ठाः काश्यपास्तथा । गार्गेया गौतमाश्चैव तथा चौशनसाः स्मृताः ॥१३ अत्रेर्विष्णोश्च साम्बर्त्ता दाक्षा आङ्गिरसास्तथा । शातातपाश्च हारीता याज्ञवल्क्यकृताश्च ये ॥१४ कात्यायनकृता श्चैव प्राचेतसकृताश्च ये ।
आपस्तम्बकृता धर्माः शङ्खस्य लिखितस्य च ॥ १५
ध्यायः ]
धर्मलक्षणवर्णनमाह ।
श्रुता ह्यते भवत्प्रोक्ताः श्रौतार्थास्तेन विस्मृताः । अम्मिन्मन्वन्तरे धम्मः कृतन्त्रतादिके युगे ॥१६ सर्व्वे धर्म्मा कृते जाताः सर्वे नष्टाः कलौ युगे । चातुर्वण्यममाचारं किञ्चित् साधारणं वद ॥१७ व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः । धर्मस्य निर्णयं प्राह सूक्ष्मं स्थूलभ्व विस्तरात ॥१८ शृणु पुत्र । प्रवक्ष्ये शृण्वन्तु ऋषयस्तथा ॥ १६ कल्पे कल्पे भयोत्पत्तौ ब्रह्मविष्णुमहेश्वराः । श्रुतिः स्मृतिः सदाचारा निर्णेतव्याश्च सर्वदा ॥२० न कश्चिद्वदकर्त्ता च वेदस्मर्त्ता चतुर्मुखः । तथैव धर्मं स्मरति मनु कल्पान्तरान्तरे ॥२१ अन्ये कृतयुगे धर्मास्तायां द्वापरे परे । अन्ये कलियुगे नृणां युगरूपानुसारतः ॥२२ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमित्यूचुर्ज्ञानमेकं कलौ युगे ॥२३ कृते तु मानवो धर्मत्रेतायां गौतमः स्मृतः । द्वापरे शाङ्खलिखितः कलौ पाराशरः स्मृतः ॥ २४ त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् । द्वापरे कुलमेकन्तु कतरा कलौ युगे ॥२५ कृते सम्भाषणात पापं त्रेतायाच्चैव दर्शनात् । द्वापरे चान्नमादाय कलौ पतति कर्मणा ॥२६
[[६०७]]
[[६२८]]
पराशरस्मृतिः ।
कृते तु तत्क्षणाच्छापत्रेतायां दशभिर्द्दिनः । द्वापरे मासमात्रेण कलौ सम्वत्सरेण तु ॥२७ अभिगम्य कृते दानं तास्वाहूय दीयते । द्वापर याचमानाय सेवया दीयते कलौ ॥२८ अभिगम्योत्तमं दानमाहृतञ्चैव मध्यमम् ।
[ प्रमथो-
अधमं याच्यमानं स्यात् सेवादानश्च निष्फलम् ॥२६ कृते चास्थिगताः प्राणास्त्रेतायां मांससंस्थिताः । द्वापरं रुविरं यावत् कलावन्नादिषु स्थिताः ॥ ३० धर्मो जितो ह्यधर्मेण जितः सत्योऽनृतेन च । जिता भृत्यैस्तु राजानः स्त्रीभिश्च पुरुषा जिताः ॥३१ सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति । कुमार्य्यश्च प्रसूयन्ते तस्मिन् कलियुगे ॥ सदा ॥३२ युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः । तेषां निन्दा न कर्त्तव्या युगरूपाहि ते द्विजाः ॥३३ युगे युगे च सामथ्य शेषं मुनिविभाषितम् । पराशरेण चाप्युक्तं प्रायश्चित्तं प्रधीयते ॥३४ अहमद्येव तद्धममनुस्मृत्य ब्रवीमि वः । चातुर्वर्ण्यसमाचारं शृणुध्वं मुनिपुङ्गवाः ! ॥ ३५ पाराशरमतं पुण्यं पवित्रं पापनाशनम् । चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ॥३६ चतुर्णामपि वर्णानामाचारो धर्मपालकः । आचार भ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः ॥३७
ऽध्यायः ]
आचारधर्मवणनम् ।
पट्कर्माभिरतो नित्यं देवतातिथिपूजकः । हुतशेषन्तु भुञ्जानो ब्राह्मणो नावसीदति ॥३८ सन्ध्यास्नानं जपो होम स्वाध्यायो देवतार्चनम् । वैश्वदेवातिथेयञ्च षट्कर्माणि दिने दिने ॥ ३६ प्रियो वा यदि वा द्वेष्यो मूर्ख पण्डित एव वा । वंश्वदेवे तु संप्राप्तः सोऽतिथिः स्वर्गमंक्रमः ॥४ दूराध्वानं पथि श्रान्तं वैश्वदेवे उपस्थितम् । अतिथि तं विजानीयान्नातिथिः पूर्वमागतः ॥ ४१ न पृच्छंद्रोत्रचरणं न स्वाध्यायव्रतानि च । हृदयं कल्पयेत्तस्मिन सर्वदेवमयोहि मः ॥४२ नैकप्रामीणमतिथि विप्रं साङ्गमिकं तथा । अनित्यं ह्यागतो यस्मात्तस्मादतिथिरुच्यते ॥ ४३ अपूर्वः सुब्रती विप्रो ह्यपूर्वो वातिथिस्तथा । वेदाभ्यासरतो नित्यं त्रयोऽपूर्वा दिने दिने ॥ ४४ वैश्वदेवे तु संप्राप्ते भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षां दत्वा विसर्जयेत् ॥४५ यती च ब्रह्मचारी च पक्कान्नस्वामिनावुभौ । तयोरन्नमदत्वा च भुक्त्वा चान्द्रायणञ्चरेत ॥४६ यतिहस्ते जलं दद्याद्भैक्षं दद्यात् पुनर्जलम् । तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥४७ वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् ।
नहि भिक्षु कृतान् दोषान् वैश्वदेवो व्यपोहति ॥४८
[[६२६]]
[[६३०]]
पराशर स्मृतिः ।
अकृत्वा वैश्वदेवन्तु भुञ्जते ये द्विजातयः ।
[ प्रथमो-
सर्वे ते निष्फला ज्ञेयाः पतन्ति नरके शुचौ ॥४६ शिरोवेष्टन्तु यो भुङ्क्त योभुङ्कं दबिणामुखः । वामपादे करं न्यस्य तद्वै रक्षांसि भुञ्जते ॥ ५० यतये काभ्वनं दत्त्वा ताम्बूलं ब्रह्मचारिणे । चौरेभ्योऽयभयं दत्त्वा दातापि नरकं व्रजेत ॥५१ पापोवा यदि चाण्डालो विप्रघ्नः पितृघातकः । वैश्वदेवे तु सम्प्रातः सोऽतिथि स्वर्गमंक्रमः ॥५ अतिथिर्यम्य भग्नाशो गृहात प्रतिनिवर्त्तते । पितरस्तम्य नाश्नन्ति दशवर्षशतानि च ॥ ५३ न प्रमज्याति गो विप्रां ह्यतिथि वेदपारगम् । अददन्नान्नमात्रन्तु भुक्त्वा भुङ्क्तं तु किल्विषम् ॥५४ ब्राह्मणस्य मुखं क्षेत्रं निरुदकमकण्टकम् ।
वापयेत सर्व्ववीजानि सा कृषिः सर्वकामिका ॥४४ मुक्षेत्र वापयेद्वीजं सुपुत्रं दापयेद्धनं ।
सुक्षेत्रं च सुपुत्रे च यत्क्षिप्तं नैव नश्यति ॥ ५६ अनृता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चौरभक्तप्रदो हि सः ॥५७ क्षत्रियोहि प्रजा रक्षन् शस्त्रपाणिः प्रचण्डवत । विजित्य परमैन्यानि क्षितिं धर्मेण पालयेत् ॥५८ न श्रीः कुलक्रमायाता स्वरूपाल्लिखितापि या । खड्गेणाक्रम्य भुञ्जीत वीरभोग्या वसुन्धरा ॥५६ऽध्यायः ]
आचारधर्मवर्णनम् ।
पुष्पं पुष्पं विचिनुयान्मूलच्छेदं न कारयेत् । मालाकार इवोद्याने न तथाङ्गारकारकः ॥६० लोहकर्म तथा न गवाश्व प्रतिपालनम् । वाणिज्यं कृषिकर्माणि वैश्यवृत्तिरुदाहृता ॥ ६१ शूद्राणां द्विजशत्रूपा परो धर्मः प्रकीर्त्तितः । अन्यथा कुरुते किश्चित्तद्भवेत्तस्य निष्फलम् ॥६२ लवणं मधु तैलम्च दधि तक्रं घृतं पयः । न दृष्येच्छूद्रजातीनां कुर्य्यात् सर्वम्य विक्रयम् ॥६३ अविक्रयं मद्यमांसममक्ष्यम्य च भक्ष गम् । अगम्यागमनब्वेव शूद्रोऽपि नरकं व्रजेत् ॥ ६४ कपिलाक्षीरपानेन ब्राह्मगोगमनेन च ।
वेदाक्षरविचारेण शूद्रस्य नरकं ध्रुवम् ॥ ६५ इति पाराशरे धर्मशास्त्रं प्रथमोऽध्यायः ॥
॥ द्वितीयोऽध्यायः ॥
गृहस्थाश्रमधर्मवर्णनम् ।
अतः परं गृहस्थस्य धर्माचारं कलौ युगे । धर्म साधारणं शक्यं चातुर्वर्ण्याश्रमागतम् ॥१ संप्रवक्ष्याम्यहं भूयः पाराशर्य प्रचोदितः । षट्कर्मनिरतो विप्रः कृषिकर्माणि कारयेत् ॥२
[[६३१]]
[[६३२]]
पराशरस्मृतिः ।
[ द्वितीयो-
हलमष्टगवं धर्म्यं षड्गवं मध्यमं स्मृतम् । चतुर्गवं नृशंसानां द्विगवं वृषघातिनाम् ॥३ क्षुधितं तृषितं श्रान्तं वलीवद्दं न योजयेत् । हीनाङ्गं व्याधितं क्लीवं वृपं विप्रो न वाहयेत् ॥४ स्थिराङ्गं नीरुजं हम वृषभं पण्डवर्जितम् । वाहयेदिवसस्याद्धं पश्चात स्नानं समाचरेत् ॥५ जपं देवार्चनं होमं स्वाध्यायं माङ्गमभ्यसेन । एकद्वित्रिचतुर्विप्रान् भोजयेत् स्नातकान् द्विजः ॥ स्वयंकृ तथा क्षेत्र धान्यैश्व स्वयमर्जितैः । निर्वपेत् पश्च यज्ञानि क्रतुदीक्षाभ्च कारयेत् ॥ ७ तिला रसा न विक्रेया विक्रेया धान्यतः समा । विप्रस्यैवंविधा वृत्तिस्तृणकाष्ठादिविक्रयः ॥८ ब्राह्मणस्तु कृषिं कृत्वा महादोष मवाप्नुयात् । सम्वत्सरेण यत्पापं मत्स्यवाती समाप्नुयात् । अयोमुविन काष्ठेन तदेकाहेन लाङ्गली ॥ पाशको मत्स्यघाती च व्याधः शाकुनिकस्तथा । अदाता कर्षकश्चैव पचैते समभागिन ॥१० कण्डनी पेपणी चुल्ली उदकुम्भोऽथ मार्जनी । पथ्य शूना गृहस्थस्य अहन्यहनि वर्त्तते ॥ ११ वृक्षान् छित्वा महीं हृत्वा हत्वा तु मृगकीटकान् । कर्षकः खलु यजन सर्वपापात्प्रमुच्यते ॥१२
ऽध्यायः ]
गृहस्थाश्रमधर्मवर्णनम् ।
यो न दद्यादुद्विजातिभ्यो राशिमूलमुपागतः ।
स चौरः स च पापिष्ठो ब्रह्मघ्नं तं विनिर्द्दिशेत् ॥ १३ राज्ञे दत्वा तु पड्भागं देवानाञ्चैकविंशकम् । विप्राणां त्रिंशकं भागं कृषिकर्त्ता न लिप्यते ॥१४ क्षत्रियोऽपि कृषिं कृत्वा द्विजान् देवांश्च पूजयेत । वैश्यः शूद्रः सदा कुर्यात कृषिवाणिज्य शिल्पकान् ॥१५ विकर्म कुर्वते शूद्रा द्विजसेवाविवर्जिताः । भवन्त्यल्पायुषस्ते वै पतन्ति नरकेषु च ॥ १६ चतुर्णानामपिवर्णानामेष धर्मः सनातनः ॥१७
इति पाराशरे धर्मशास्त्रं द्वितीयोऽध्यायः ॥
॥ तृतीयोऽध्यायः ॥
अशोचव्यवस्थावर्णनम् ।
अतः शुद्धिं प्रवक्ष्यामि जनने मरणं तथा । दिनत्रयेण शुद्धयन्ति ब्राह्मणाः प्रेतसूतके ॥ १ क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः । शूद्रः शुद्धति मासेन पराशरवचो यथा ॥ उपासने तु विप्राणामङ्गशद्धिस्तु जायते । ब्राह्मणानां प्रसूतौ तु देहस्पर्शो विधीयते ॥३ जाते विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्धयति ॥४
[[६३३]]
[[६३४]]
पराशरस्मृतिः ।
[ तृतीयो-
एकाहाच्छुद्धयते विप्रो योऽग्निवेदसमन्वितः । त्र्यहान केवलवेदस्तु द्विहीनो दशभिर्दिनैः ॥५ जन्मकमपरिभ्रष्टः सन्ध्योपासनवर्जितः । नामवारकविप्रस्य दशाहं सूतकं भवेत् ॥ ६ एकपिण्डास्तु दायादाः पृथग्दारनिकेतनाः । जन्मन्यपि विपत्तौ च भवेत्तंपाश्च सूतकम् ॥७ उभयत्र दशाहानि कुलस्यान्नं न भुञ्जते । दानं प्रतिप्रहो होम स्वाध्यायश्च निवर्त्तते ॥८ प्राप्नोति सूतकं गोत्रं चतुर्थपुरुषेण तु । दायाद्विच्छेदमाप्नोति पश्चमो वास्मवंशजः ॥६ चतुर्थे दशरात्रं स्यात् पण्णिशा पुंमि पञ्चमे । पण्ठे चतुरहाच्छुद्धि सनमे तु दिनत्रयम् ॥१० पञ्चभिः पुत्रैर्युक्ता अश्राद्ध या सगोत्रिगः । ततः पद्मपाद्यश्च श्राद्ध भोज्या मगोत्रिणः ॥११ भृग्वग्निमरणं चैव देशान्तरमृते तथा ।
वाले प्रेते च सन्न्यासे सद्यः शौचं विधीयते ॥ १२ दशरात्रवतीनं त्रिरात्राच्छुद्धिरिष्यतं ।
तत सम्बत्सरादृदु सचैल स्नानमाचरेत् ॥ १३ देशान्तरमृतः कश्चित सगोत्रः श्रयतं यदि । न त्रिरात्रमहोरात्रं सद्यः स्नात्वा विशुद्धयति ॥१४ आत्रिपक्षात्त्रिरात्रं स्यादाषण्मासाथ पक्षिणी । अहः सम्वत्सराद्रर्वाक् सद्यः शौचं विधीयते ॥१५
ऽध्यायः ]
अशौच व्यवस्थावर्णनम् ।
अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः । न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥१६ यदि गर्भाविपद्यंत वतं वापि योषिताम् । यावन्मामं स्थितोगर्भो दिनं तावत् स सूतकः ॥ १७ आ चतुर्थाद्भवेत् स्रावः पातः पञ्चमषष्ठयोः । अत ऊद्वं प्रसूतिः स्यादशाहं सूतकं भवेन ॥१८ प्रसूतिकाले संप्राप्त प्रसवे यदि योषिताम् । जीवापत्ये तु गोत्रस्य मृतं मातुश्च सूतकम् ॥१६ रात्रावेव समुत्पन्नं मृते रजसि सूतके । पूर्वमेव दिनं ग्राह्यं यावन्नोदयतं रविः ॥२० दन्तजातेऽनुजातं च कृतचूड़े च संस्थितं । अग्निसंस्करणं तेपां त्रिरात्रं सूतकं भवेत् ॥ २१ आ दन्तजननात् सद्य आचूड़ान्नैशिकी स्मृता । त्रिरात्रमात्रतात्तेषां दशरात्रमतः परम् ॥२२ गर्भे यदि विपत्तिः स्यात्दशाहं सूतकं भवेत् । जीवन जातो यदि प्रेत सद्य एव विशुद्धयति ॥२३ स्त्रीणां चूड़ान्न आदानात् संक्रमात्तदधः क्रमात् । सद्यः शौचमथैकाद्दं त्रिरहः पितृबन्धुपु ॥२४ ब्रह्मचारी गृहे येषां हूयते च हुताशने । सम्पर्क न च कुर्वन्ति न तेषां सूतकं भवेत् ॥ २५ सम्पर्कादुष्यते विप्रो नान्यो दोषोऽस्ति ब्राह्मणे । सम्पर्केषु निवृत्तस्य न प्रेतं नैव सूतकम् ॥२६
[[६३५]]
[[६३६]]
पराशरस्मृतिः ।
[ तृतीयो-
शिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः । श्रोत्रियाचैव राजानः सद्यः शौचाः प्रकीर्त्तिताः ॥२७ सव्रती मन्त्रपूतश्च आहिताग्निश्च यो द्विजः । राज्ञश्च सूतकं नान्ति यस्य चेच्छति पार्थिवः ॥२८ उद्यतो निधने दाने आर्त्ता विपो निमन्त्रितः । तदेव ऋषिभिर्द्ध यथाकालेन शुद्धयति ॥२६ प्रसवे गृहमेधी तु न कुर्य्यात सङ्करं यदि । दशाहाच्छुद्धयते माता अवगाह्य पिता शुचिः ॥ ३० सर्वेषां स्रावमाशौच मातापित्रो ईशाहिकं । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ ३१ यदि पत्त्यां प्रसूतायां सम्पर्क कुरुतं द्विजः । सूतकन्तु भवेत्तस्य यदि विपः षड़ङ्गवित् ॥ ३२ सम्पर्कज्जायत दोषो नान्यो दोषोऽस्ति ब्राह्मणे । तस्मात् सर्वप्रयत्नेन सम्पकं वर्जयेद्विजः ॥३३ विवाहोत्मवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वं सङ्कल्पितं द्रव्यं दीयमानं न दृष्यति ॥ ३४ अन्तरा तु दशाहस्य पुनर्भरणजन्मनी । तावत् स्यादशुचिर्विपोयावत्त म्यादनिर्दशम् ॥३५ ब्राह्मणार्थे विपन्नानां वन्दिगोग्रहणे तथा । आहवेषु विपन्नानामे करात्रन्तु सूतकम् ॥ ३६ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदको । परिब्राड्योगयुक्तश्च रणे चाभिमुखं हतः ॥३७
ऽध्यायः
अशौच व्यवस्थावर्णनम् ।
यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयांल्लभते लोकान् यदि क्लीवं न भाषते ॥३८ जितेन लभते लक्ष्मीं मृतेनापि सुराङ्गनाः । क्षणविध्वंसिकेऽमुम्मिन् का चिन्ता मरणे रणं ॥ ३६ यस्तु भग्नेषु सैनेषु विद्रवत्सु समन्ततः । परित्राता यदा गच्छेत् स च क्रतुफलं लभेत् ॥४० यस्य च्छेदक्षतं गात्रं शरशक्त्यष्टिमुद्गरैः । देवकन्यास्तु तं वीरं गायन्ति रमयन्ति च ॥४१ वराङ्गनासहस्राणि शूरमायोधने हसं ।
नागकन्याश्च धावन्ति मम भर्त्ता भवेदिति ॥४२ ललाटदेशाद्रुधिरं हि यस्य
तप्तस्य जन्तोः प्रविशेन वक्त्रे ।
तत् सोमयानेन हि तस्य तुल्यं
संग्रामयज्ञे विधिवश्च दृष्टम् ॥४३
यं यज्ञसंघैस्तपसा च विद्यया
स्वर्गैषिणो वात्र यथैव विप्राः ।
तथैव यान्त्येवहि तत्र वीराः
प्राणान् सुयुद्धेन परित्यजन्तः ॥ ४४
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः । पदे पदे यज्ञफलमानुपूर्वाल्लभन्ति ते ॥ ४५ असगोत्रमबन्धु प्रेतीभूतभ्वच ब्राह्मणं ।
नीत्वा च दाहयित्वा च प्राणायामेन शुद्धयति ॥४६
[[६३७]]
[[६३८]]
पराशरस्मृतिः ।
[ तृतीयो-
न तेषामशुभं किश्विद्विजानां शुभकर्मणि । जलावगाहनात्तंपां शुद्धिः स्मृतिभिरीरिता ॥४७ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा । स्नात्वा चैव तु स्पृष्टाग्नि घृतं प्राश्य विशुद्धयति ॥४८
क्षत्रियं मृतमज्ञानादुत्राह्मणो योऽनुगच्छति । एकाहमशुचिर्भूत्वा पञ्चगव्येन शुद्धयति ॥४६ शवश्च वैश्यमज्ञानाद्ब्राह्मगो योऽनुगच्छति । कृत्वा शौचं द्विरात्रभ्व प्राणायामान् पड़ाचरेत् ॥५० प्रेतीभूतन्नु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । नयन्तमनुगच्छेत त्रिरात्रमशुचिर्भवेत् ॥५१ त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा वृतं प्राश्य विशुद्धयति ॥५२ विनिर्वर्त्य यदा शूद्रा उदकान्त मुपस्थिताः । द्विजैस्तद्दानुगन्तव्या इति धर्मविदोविधिः ॥ ५३ तस्माद्विजो मृतं शूद्रं न स्पृशेन्न च दाहयेत् । सूर्यावलोकन शुद्धिरेपा पुरातनी ॥५४
इति पाराशरे धर्मशास्त्रे तृतीयोऽध्यायः ॥
-*****-
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
[[६३६]]
॥ चतुर्थोऽध्यायः ॥
अनेकविधप्रकरणप्रायश्चित्तम् ।
अतिमानादतिक्रोधात स्नेहाद्वा यदिवा भयात् । उद्बध्नीयात् स्त्री पुमान् वा गतिरेपा विधीयते ॥ १ पूयशोणितसंपूर्ण अन्धं तमसि मज्जति ।
[[1]]
पष्टिं वर्षसहस्राणि नरकं प्रतिपद्यते । नाशौचं नोदकं नाग्निं नाश्रुपातच कारयेत् ॥२ वोढारोऽग्निप्रदातार पाशच्छंदकरास्तथा । तप्तकृच्छ्रेण शुद्धयन्तीत्येवमाह प्रजापतिः ॥३ गोभिर्हतं तथोद्बद्धं ब्राह्मणेन तु घातिनम् । संस्पृशन्ति तु ये विप्रा वोढारश्चाग्निदाश्च ये ॥४ अन्येऽपि वानुगन्तारः पाशच्छेदकराश्च ये । तप्तकृच्छ्रेण शुद्धयन्ति कुर्युर्ब्राह्मणभोजनम् ॥५ अनडुत्सहितां गाव दद्य विप्राय दक्षिणाम् । त्र्यहमुष्णं पिवेदा परत्र्यहमुष्णं पयः पिवेत् । त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो दिनत्रयम् ॥६ यो वै समाचरेद्विप्रः पतितादिष्व कामतः । पश्चाहं वा दशाहं वा द्वादशाहमथापि वा ॥७ मासार्द्ध मासमेकं वा मासद्वयमथापिवा । अब्दार्द्ध मब्दमेकं वा तदूद्ध्वं चैव तत्समः ॥८
[[६४०]]
पराशरस्मृतिः ।
चतुर्थी-
त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमाचरेत् । तृतीये चैव पक्षे तु कृच्छ सान्तपनं चरेत् ॥६ चतुर्थे दशरात्रं स्यात् पराकः पञ्चमे मतः । कुय्र्याचान्द्रायणं षष्ठे सप्तमे त्वैन्दवद्वयम् ॥ १० शुद्धयर्थममे चैव पण्मासात् कृच्छ्रमाचरेत । पक्षसंख्याप्रमाणेन सुवर्णान्यपि दक्षिणा ॥ ११ ऋतुस्नाता तु या नारी भत्तारं नोपसर्पति । सा मृता नरकं याति विधवा च पुनः पुनः ॥१२ ऋतौ स्नातान्तु यो भाय्य सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ १३ अदुष्टापतितां भार्य्या यौवने यः परित्यजेत् । सप्तजन्म भवेत् स्त्रीत्वं वैधव्यश्व पुनः पुनः ॥ १४ दरिद्रं व्याधितं मूर्ख भर्त्तारं या न मन्यते । सा मृता जायते व्याली वैधव्यश्च पुनः पुनः ॥१५ ओघवाताहतं वीजं यथा क्षेत्रे प्ररोहति । क्षेत्री तल्लभते वीजं न वीजी भागमर्हति ॥१६ तद्वत् परस्त्रियाः पुत्रौ द्वौ सुतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्त्तरि गोलकः ॥१७ औरसः क्षेत्रजचैव दत्तः कृत्रिमकः सुतः । दद्यान्माता पिता वापि स पुत्रो दत्तको भवेत् ॥१८ परिवित्तिः परीवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ १६
1ऽध्यायः ]
अनेकविधप्रकरणप्रायश्चित्तम् ।
दाराग्निहोत्रसंयोगं यः कुर्यादजे सति । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्व्वजः ॥२० द्वौ कृच्छौ परिवित्तेत्तु कन्यायाः कृच्छ एव च । कृच्छ्रातिकृच्छौ दातुश्च होता चान्द्रायणञ्चरेत् ॥ २१ कुजवामनपण्डेषु गद्गदेपु जड़ेपु च । जात्यन्धं बधिरे मूके न दोषः परिवेदने ॥ २२ पितृव्यपुत्रः सापत्त्यः परनारीसुतस्तथा । दाराग्निहोत्रसंयोगे न दोषः परिवंदने ॥ २३ ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव चिन्तयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥२४ नपुं मृते प्रत्रजिते क्लीवे च पतिते पतौ 1 पञ्चस्वापत्सु नारीणां पतिरन्यो न विद्यते ॥२५ मृते भर्त्तरि या नारी ब्रह्मचर्ये व्यवस्थिता । सा मृता लभते स्वर्गं यथा सद् ब्रह्मचारिणः ॥ २६ तिस्रः कोट्यर्द्धकोटी च यानि रोमाणि मानुषं । तावत् कालं वसेत् स्वर्गे भर्त्तारं यानुगच्छति ॥२७ व्यालाही यथा व्यालं विलादुद्धरते बलात् । एवमुद्धृत्य भत्तारं तेनैव सह मोदते ॥२८
इति पाराशरे धर्मशास्त्रे चतुर्थोऽध्यायः ॥
[[४१]]
[[६४१]]
[[६४२]]
पराशरस्मृतिः ।
[ पञ्चमो-
॥ अथ पञ्चमोऽध्यायः ॥
प्रायश्चित्तवर्णनम् ।
वृकाभ्यां शृगालाद्यैर्यदि दृष्टस्तु ब्राह्मणः । स्नात्वा जपेत गायत्री पवित्रां वेदमातरम ॥१ गवां शृङ्गोदके स्नातो महानद्यास्तु सङ्गमे । समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् ॥ २ वेदविद्याव्रतस्नात शुना दष्टस्तु ब्राह्मणः । स हिरण्योदके स्नात्वा घृतं प्राश्य विशुध्यति ॥ ३ सत्रतस्तु शुना दस्त्रिरात्रं समुपोषितः । घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ॥४ अवृतः सवतो वापि शुना दो भवेद्दिजः । प्रणिपत्य भवेन पूतो विचानुनिरीक्षितः ॥५ शुना घ्रातावलीढस्य नखे विलिखितस्य च । अद्भिः प्रक्षालानाच्छुद्धिरग्निना चोपचूलनम् ॥६ शुना च ब्राह्मणी दष्टा जम्बुकेन वृकेण वा । उदितं सोमनक्षत्रं दृष्टा सद्यः शुचिर्भवेत् ॥७ कृष्णपक्षे यदा सोमो न दृश्येत कदाचन । यां दिशं वृजते सोमस्तां दिशश्वावलोकयेत् ॥८ असद्ब्राह्मणके ग्रामे शुना दष्टस्तु ब्राह्मणः । वृषं प्रदक्षिणीकृत्य सद्यः स्नानाद्विशुध्यति ॥ चाण्डालेन श्वपाकेन गोभिर्विप्रैर्हतो यदि ।
ऽध्यायः ]
श्रौताग्निहोत्रसंस्कारवर्णनम् ।
आहिताग्निमृतो विप्रो विषेणात्महतो यदि । दहेत्तं ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम् ॥१० स्पष्ट्रा चोय च दग्धा च सपिण्डेषु च सर्व्वथा । प्राजापत्यं चरेत् पश्चाद्विप्राणामनुशासनात् ॥ ११ दग्ध्यास्थीनि पुनर्गृह्य क्षीरैः प्रक्षालयेद्विजः । पुनर्दहेत् स्वकाग्नौ तन्मन्त्रेण च पृथक् पृथक् ॥१२ आहिताग्निर्द्विजः कश्चित् प्रवसन कालचोदितः । देहनाशमनुप्राप्तस्तस्याग्निर्वर्त्तते गृहे ॥ १३ श्रौताग्निहोत्रसंस्कारः श्रूयतामृपिसत्तमाः ! ! कृष्णाजिनं समास्तीर्य्य कुशैश्व पुरुषाकृतिम् ॥१४ षट् शतानि शतञ्चैव पलाशानाञ्च वृन्तकम् । चत्वारिंशच्छिरे दद्यात् पष्टि कण्ठे विनिर्द्दिशेत् ॥१५ बाहुभ्याश्च शतं दद्यादङ्गुलीषु दशैव तु । शतश्चोरसि संद्यात् त्रिंशचैवोदरे न्यसेत् ॥१६ अो वृपणयोर्दद्यात् पञ्च मेढ्रं च विन्यसेत् । एकविंशतिमूरुभ्यां जानुजङ्घ े च विंशतिम् ॥१७ पादाङ्गुल्योः शतार्द्धश्च पात्राणि च तथा न्यसेत् । शम्यां शिश्ने विनिः क्षिय्य अरणीं वृपणे तथा ॥१८ जुहूं दक्षिणहस्तेन वामहस्ते तथोपसत् । कर्णेचोलूखलं दद्यात् पृष्ठे च मुषलं तत ॥१६ नि क्षिप्योरसि दृशदं तण्डुलाज्यतिलान्मुखं । भौगे च प्रोक्षणीं दद्यादाज्यस्थालीच चक्षुषोः ॥२०
।
[[६४३]]
[[६४४]]
पराशरस्मृतिः ।
[ षष्ठो-
कर्णे नेत्रे मुखं घ्राणं हिरण्यशकलं क्षिपेत् । अग्निहोत्रोपकरणं गात्रे शेर्पा प्रविन्यसेत् ॥ २१ असौ स्वर्गाय लोकाय स्वाहेति च घृताहुतीः । दद्यात् पुत्रोऽथवा भ्राता ह्यन्ये वापि स्वधर्मिणः ॥ २ यथा दहनसंस्कारस्तथा कार्यं विचक्षणैः । ईदृशन्तु विधिं कुर्याद्ब्रह्मलोके गति वम् ॥२.३ ये दहन्ति द्विजाम्तन्तु ते यान्ति परमां गतिम् । अन्यथा कुर्वते किञ्चिदात्मबुद्धिप्रबोधिताः ॥२४ भवन्त्यल्पायुषस्ते वै पतन्ति नरके ध्रुवम् ॥ २५
इति पाराशरे धर्मशास्त्रं पश्वमोऽध्यायः ।
॥ अथ षष्ठोऽध्यायः ॥
प्राणिहत्याप्रायश्चित्तवर्णनम् ।
अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् । पराशरेण पूर्वोक्ता मन्वर्थेऽपि च विस्मृताम् ॥१ हंससारसकौश्वांश्च चक्रवाकं सकुक्कुटम् । जालपादांश्च शरभमहोरात्रेण शुध्यति ॥ २
वलाकाटिट्टिभानाञ्च शुकपारावतादिनाम् ।
आटिनाञ्च बकानाच शुद्धयते नक्तभोजनात् ॥ ३
ऽध्यायः ]
प्राणिहत्याप्रायश्चित्तवर्णनम् ।
भासकाककपोतानां सारीतित्तिरिघातकः । अन्तर्जले उभे सन्ध्ये प्राणायामेन शुध्यति ॥४ गृध्रश्येनशिखिग्राहचासोलूकनिपातने ।
अपक्काशी दिनं तिष्ठेत्त्रिकालं मारुताशनः ॥५ वल्गुणीचटकानाञ्च कोकिलाखञ्जरीटकान् । लावकारक्तपादांश्च शुद्धयन्ते नक्तभोजनात् ॥६ कारण्डवचकोराणां पिङ्गलाकुररस्य च । भारद्वाजनिहन्ता च शुद्धयते शिबपूजनात् ॥ ७ भेरुण्डश्येनभासञ्च पारावतकपिञ्जलान् । पक्षिणामेव सर्वपामहोरात्रेण शुध्यति ॥८ हत्वा नकुरमार्जारसपीजगर डुण्डुभान् । कृशरं भोजयेद्विप्रान् लोहदण्डव्च दक्षिणाम् ॥६ शल्लकीशशकागोधा मत्स्य कूम्र्माभिपातने । वृन्ताक फलभोक्ता च ह्यहोरात्रेण शुध्यति ॥ १० वृकजम्बूकक्षाणां तरक्षूणाञ्च घातने । तिलप्रस्थ द्विजे दद्याद्वायुभक्षो दिनत्रयम् ॥ ११ गजगवयतुरङ्गानां महिपोष्ट्रनिपातने । शुद्धयते सप्तरात्रेण विप्राणां तर्पणेन च ॥ १२ मृगं रुरु वराहञ्च अज्ञानाद्यस्तु घातयेत् । अफालकृष्टमश्नीयादहोरात्रेण शुध्यति ॥१३ एवं चतुष्पदानाञ्च सर्वेषां वनचारिणाम् । अहोरात्रोषित रिटेज्जपन् वै जातवेदसम् ॥१४
[[६४५]]
[[६४६]]
पराशर स्मृतिः ।
शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस्तु घातयेत् । प्राजापत्यद्वयं कुर्यादपैकादशदक्षिणा ॥१५ वैश्यं वा क्षत्रियं वापि निर्दोषमभिघातयेत् । सोऽतिकृद्वयं कुर्याद्गोविंशं दक्षिणां ददेत् ॥ १६ वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् । हत्वा चान्द्रायणं कुर्य्याद्यागोत्रिंशदक्षिणाम् ॥१७ क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा । चाण्डालवध संप्राप्तः कुन्छार्द्धन विशुध्यति ॥ १८ चौराः श्रपाकचाण्डाला विप्रेणापि हता यदि । अहोरात्रोपवासेन प्राणायामेन शुध्यति ॥ १६
पाकं वापि चाण्डालं विप्रः सम्भापते यदि । द्विजसम्भाषणं कुर्य्याद्गायत्रीं वा सकृज्जपेत् ॥२८ चाण्डालैः सह सुमन्तु त्रिरात्रमुपत्रामयेत् । चाण्डालैकपथङ्गत्वा गायत्रीस्मरणाच्छुचिः ॥२१ चाण्डालदर्शनेनैव आदित्यमवलोकयेत् । चाण्डालस्पर्शने चैव सचैल स्नानमाचरेत् ॥२२ चाण्डालखानवापीपु पीत्वा सलिलमग्रजः । अज्ञानाञ्चैव नक्तंन त्वहोरात्रेण शुद्धयति ॥ २३ चाण्डालभाण्डसंम्पृष्टां पीत्वा कृपगतं जलम् । गोमूत्र यावकाहारस्त्रिरात्राच्छुद्धिमा’ नुयात् ॥२४ चाण्डालोदकभाण्डे तु अज्ञानात् पिबते जलम् । तत्क्षणात क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥२५
[ षष्ठोऽ-
ध्यायः ]
प्रायश्चित्तवर्णनम् ।
यदि न क्षिपते तोयं शरीरे यस्य जीर्य्यति । प्राजापत्यं न दातव्यं कृच्छ्रं सान्तपनञ्चरेत् ॥२६ चरेत् सान्तपनं विप्रः प्राजापत्यन्तु क्षत्रियः । तदर्द्धन्तु चरेद्वैश्यः पादं शूद्रम्य दापयेत् ॥२७ भाण्डस्थम त्यजानान्तु जलं दधि पयः पिवेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ॥२८ ब्रह्मकूर्बोपवासेन द्विजातीनान्तु निष्कृतिः । शूद्रश्य चोपवासेन तथा दानेन शक्तितः ॥ २६ ब्राह्मणो ज्ञानतो भुङ्क्तं चाण्डालान्नं कदाचन । गोमूत्रयावकाहाराद्दशरात्रेण शुध्यति ॥ ३० एकैकं प्रासमश्नीयाद्गोमूत्रयावकस्य च । दशाहनियमम्थस्य व्रतं तत्र विनिर्द्दिशन ॥ ३१ अविज्ञातश्च चाण्डालः सन्तिष्ठत्तस्य वेश्मनि । विज्ञाते तूपसंन्यस्य द्विजाः कुवन्त्यनुप्रहम् ॥३२ ऋषिवक्ताच्छ ता धर्मास्वायन्ते वेदपावनाः । पतन्तमुद्धरेयुस्ते धर्मज्ञाः पापसङ्कटात् ॥ ३३ दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम । भुञ्जीत सह सर्वैश्च त्रिसन्ध्यमवगाहनम् ॥३४ त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिपा । यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ॥३५४ भावदुष्टं न भुञ्जीयान्नोच्छिष्टं कृमिदूषितम् । त्रिपलं दधिदुग्धस्य पलमेकन्तु सर्पिषः ॥ ३६
[[1]]
[[६४७]]
[[६४८]]
पराशरस्मृतिः ।
भस्मना तु भवेच्छुद्धिरुभयोम्ताम्रकांस्ययोः । जलशौचेन वस्त्राणां परित्यागेन मृण्मयम् ॥३७ कुसुम्भगुड़कार्पासलवणं तैलसर्पिषी ।
[
द्वारे कृत्वा तु धान्यानि गृहे दद्याद्ध ताशनम् ॥ २८ एवं शुद्धस्ततः पश्चात कुर्याद्ब्राह्मणभोजनम् । त्रिशतं गा वृपञ्चकं दद्याद्विप्रेषु दक्षिणाम् ॥३६ पुनर्लेपनया तेन होमजा येन शुध्यति । आधारंण च विप्राणां भूमिदोपां न विद्यते ॥ ४० रजकी चर्मकारी च लुब्धकस्य च पुक्कसी । चातुर्वर्ण्यगृहे यस्य ज्ञानादधितिष्ठति ॥४१ ज्ञात्वा तु निष्कृतिं कुर्य्यात् पूर्वोक्तस्यार्द्धमेव च । गृहदाहं न कुर्वीताप्यन्यत सर्वश्व कारयेत् ॥४२ गृहस्याभ्यन्तरं गच्छेच्चाण्डालो यस्य कस्यचित् । तस्मद् [हाद्विनिःसृत्य गृहभाण्डानि वर्जयेत् ॥ ४३ रसपूर्णन्नु यद्भाण्डं न त्यजेच्च कदाचन । गोरसेन तु संमिश्रैर्जलैः प्रोक्षेत् समन्ततः ॥४४ ब्राह्मगस्य व्रणद्वार पूयशोणितसम्भवे । कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥४५ गवां मूत्रपुरीषेण दध्ना क्षीरंण सर्पिपा । त्र्यहं स्नात्वा च पीत्वा कृमिदुष्टः शुचिर्भवेत् ॥४६ क्षत्रियोऽपि सुवर्णस्य पथ्व मापान् प्रदापयेत् । गोदक्षिणान्तु वैश्यस्याप्युपवासं विनिर्द्दिशेत् ॥४७
ऽध्यायः ]
ब्राह्मणमहत्त्व वर्णनम् ।
शूद्राणां नोपवासः म्याच्छूद्रो दानेन शुध्यति । ब्राह्मणांस्तु नमस्कृत्य पञ्चगव्येन शुध्यति ॥४८ अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः । प्रणम्य शिरसा धार्य मभिष्टोमफलं हि तत् ॥४६ व्यावित्र्यसनिनि श्रान्ते दुर्भिक्षं डामरं तथा । उपवामी वतो होमो द्विजसम्पादितानि वा ॥ ५० अथवा ब्राह्मणास्तुष्टाः स्वयं कुर्वन्त्यनुग्रहम् । सर्वधर्ममवाप्नोति द्विजैः सम्बद्धताशिषा ॥५१ दुर्बलेऽनुग्रहः कार्य्यस्तथा वै बालवृद्धयोः । अतोऽन्यथा भवेद्दोषस्तस्मान्नानुग्रह स्मृतः ॥ ५२ स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा । कुर्वन्त्यनुहं ये वै तत्पापं तेषु गच्छति ॥ ३ शरीरस्यात्यये प्राप्ते वदन्ति नियमन्तु ये । महत्कार्योपरोधन न स्वस्थस्य कदाचन ॥५४ स्वस्थस्य मूढाः कुर्वन्ति नियमन्तु वदन्ति ये । ते तम्य विघ्नकर्त्तारः पतन्ति नरकेऽशुचौ ॥५५ स एव नियमस्याज्यो ब्राह्मणं योऽवमन्यते । वृथा तम्योपवासः स्यान्न स पुग्येन युज्यते ॥५६ स एव नियमो ग्राह्यो यं यं कोऽपि वदेद्विजः । कुर्याद्वाक्यं द्विजानाच अकुर्वन् ब्रह्महा भवेत् ॥५७ उपवासो व्रतचैव स्नानं तीर्थं जपस्तपः ।
विप्रैः सम्पादितं यस्य सम्पन्न तस्य तद्भवेत् ॥५८
[[६४६]]
[[६५०]]
पराशरस्मृतिः ।
[ षष्ठो-
व्रतच्छिद्रं तपश्द्रि यच्छिद्र यज्ञकर्मणि । सवं भवति निच्छिद्रं ब्राह्मणैरुपपादितम् ॥५६ ब्राह्मणा जङ्गमं तीथं निर्जल सर्वकामदम । तेषां वाक्योदकेनैव शुद्धयन्ति मलिना जनाः ॥६० ब्राह्मणा यानि भापन्ते भापन्ते तानि देवताः । सर्नवेदमया विप्रा न तद्वचनमन्यथा ॥ ६१ अन्नाद्ये कीटसंयुक्ते मक्षिकाकीटदृपिते ।
अन्तरा संस्गेचा परतदन्न भस्मना स्पृशेत् ॥६२ भुञ्जानो हि यदा विप्रः पादं हस्तेन संप्रयेत् । उच्छिष्टं हि म वै भुक्ते यो भुङ्क्ते भुक्तभाजने ॥६३ पादुकास्थो न भञ्जीत प संस्थितोऽपिवा । शुना चाण्डालहट्टो वा भोजनं प्ररिवर्जयेत् ॥ ६४ पक्कान्नञ्च निपिद्धं यदन्नशुद्धि तथैव च ।
यथा पराशरेणोक तथवाहं वदामि वः ॥ ६५ मितं द्रोणादकस्यान्नं काकश्वानोपघातितम् । केनैतच्छुद्धयते चान्न ब्राह्मगेभ्यो निवेदयेत् ॥ ६६ काकश्वानावीन्तु द्रोणान्नं न परित्यजेत् । वेदवेदाङ्गविप्रर्धर्मशास्त्रानुपालकैः ॥ ६७
प्रस्था द्वात्रिंशतिद्रणः स्मृतो द्विप्रस्थ आढकः । ततो द्रोगाढकस्यानं श्रुतिस्मृतिविदो विदुः ॥६८ काकश्वानावलीढं तु गवाघातं खरेण वा ।
।
स्वल्पमन्नं त्यजेद्विप्रः शुद्धि णाढके भवेत् ॥६६५७
ऽध्यायः ]
शुद्धिवर्णनम् ।
अन्यस्योद्धत्य तन्मात्रं यच नोपहतं भवेत् । सुवर्णोदकमभ्युक्ष्य हुताशेनैव तापयेत् ॥७०
हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ।
विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् ॥७१
इति पाराशर धर्मशास्त्रं पष्ठोऽध्यायः ॥
0❀❀0
॥ अथ सप्तमोऽध्वायः ॥
द्रव्यशुद्धिवर्णनम् ।
अथातो द्रव्यसंशुद्धिः पराशरवचोयथा । दारवाणान्तु पात्राणां तक्षणाच्छुद्धिरिष्यते ॥ १ मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि । चमसानां ग्रहाणाञ्च शुद्धिः प्रक्षालनेन तु ॥२ चरूणां श्रुस्रुवाणाञ्च शुद्धिमान वारिणा । भस्मना शुद्वयते कास्यं ताम्रमम्लेन शुध्यति ॥ ३ रजसा शुद्धयते नारी विकलं या न गच्छति । नदी वेगेन शुद्धयत लेपो यदि न दृश्यते ॥४ वापीकूपतड़ागेषु दृषितेषु कथचन । उद्धत्य वै घटशतं पञ्चगव्येन शुध्यति ॥५ अष्टवर्षा भगौरी नववर्षा तु रोहिणी ।
दशवर्षा भवेत् कन्या अत ऊद्ध रजस्वला ॥६
[[६५२]]
पराशरस्मृति ।
[ सप्तमो-
प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति । मासि मासि रजस्तस्याः पिवन्ति पितरः स्वयम ७ माता चैव पिता चैव ज्येष्ठो भ्राता तथैवच ।
त्रयम्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥८ यस्तां समुद्ध ेत् कन्यां ब्राह्मणो ज्ञानमोहितः । असम्भाप्यो ह्यपातयः स विप्रो वृपलीपतिः ॥६ यः करोत्येकरात्रेण वृपलीसेवनं द्विजः । स मैग्जपन्नित्यं त्रिभिर्वपैर्विशुध्यति ॥ १०
अस्तं गते यदा सूर्ये चाण्डाल पतितं स्त्रियम् । सूनिकांस्पृरातरचैव कथं शुद्धिर्विधीयते ॥ ११ जातवेदं सुवर्णश्च सोममागं विलोक्य च । ब्राह्मणानुगतश्चैव म्नानं कृत्वा विशुध्यति ॥ १२ स्पृष्ट्रा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा । तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति ॥१३ स्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा । अर्द्धकृच्छ चरत् पूर्वा पादमेकमनन्तरा ॥१४ स्पृष्ट्रा रजस्वलान्योन्यं ब्राह्मगी वैश्यजा तथा । पादोनं चैव पूर्वायाः परायाः कृच्छ्रपादकम् ॥१५ स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा । कृच्छ्रेण शुद्धयते पूर्वा शूद्रा दानेन शुध्यति ॥ १६ स्नाता रजस्त्रला या तु चतुर्थेऽहनि शुध्यति । कुर्य्याद्रजोनिवृत्तौ तु दैवपित्र्यादिकर्म च ॥१७
यायः ]
]
स्त्री शुद्धिवर्णनम्
[[६५३]]
रोगेण यद्रजः स्त्रीणामन्वहन्तु प्रवर्त्तते ।
[[1]]
नाशुचिः सा ततस्तेन नत् म्याद्वैकालिकं मतम् ॥ १८ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चनुर्थे नि शुध्यति ॥ १६ आतुरे स्नानमुत्पन्ने दशकृत्वो ह्यनातुरः ।
स्नात्वा स्नात्वा स्पशंदेनं ततः शुद्धयत् स आतुरः ॥ २० उच्छिष्टच्छिरसंस्पृष्टः शुना शूद्रेण वा द्विजः ।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥२१ अनुच्छिष्टेन शूद्रेण स्नानं स्पर्शे विधीयते । उच्छिष्टन च संस्पृष्टः प्राजापत्यं समाचरेत् ॥२२ भस्मना शुद्धयते कांस्यं सुरया यन्न लिप्यते । सुरामात्रेण संस्पृट शुद्धयतेऽग्न्युपलेपनैः ॥२३ गवाघातानि कांस्यानि श्रकाकोपहतानि च । शुद्रचन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च ॥२४ गण्डूषं पादशौचश्च कृत्वा वै कांस्यभाजने । षण्मासद् भुवि निक्षिप्य उद्ध, त्य पुनराहरेत् ॥ २५ आयसेष्वपसारेण सीसस्याग्नौ विशोधनम ।
दन्तमस्थि तथा शृङ्गं रौप्यं सौवर्णभाजनम् ॥२६ मणिपाषाणशङ्खाश्च एतान् प्रक्षालयेज्जलैः । पाषाणे तु पुनर्धृष्टिरेषा शुद्धिरुदाहृता ॥२७ मृद्भाण्ड दहनाच्छुद्धिर्वान्यानां मार्जनादपि ।
अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ॥२८
[[६५४]]
पराशरस्मृतिः ।
प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ।
वेणुबल्कलचीराणां क्षौमकार्पासवाससाम ॥२६
[ सप्तमो-
और्णानां नेत्रपट्टानां जलाच्छौच विधीयते । तूलिकाद्युपधानानि पीतरक्ताम्बराणि च ॥ ३० शोपयित्वातापेन प्रोक्षयित्वा शुचिर्भवेत् । मुञ्जोपस्करसूर्पाणां शाणस्य फलचर्मण म् ॥३१ तृणकाष्ठादिरज्जूना मुदकप्रोक्षणं मतम । माजरमक्षिकाकीटपतङ्गकृमिददु राः ॥३२ मेध्य मेव्यं स्पृशन्येव नोच्छिद्यान मनुरत्रवीत् । भूमिं लृागतं तोयं यश्चाप्यन्योन्यविप्रुषः ॥ ३३ भुकोच्छिष्टं तथास्नेहं नोच्छ्रितुं मनुरब्रवीत् । ताम्बूलेक्षुफले चैव भुनस्तेहानुलेपने ॥३४ मधुपर्के च सोमे च नो
मनुरब्रवीत् ।
रथ्याकर्द्दमतोयानि नावः पन्थास्तृणानि च ॥३५ मरुतार्केण शुद्धयन्ति पत्रेएकचितानि च । अदुष्टा सन्तता धारा वातोद्वताश्च रेणव ॥ ३६ स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन । क्षुते निष्ठीवने चैव दन्तोच्छिष्टं तथानृते ॥ ३७ पतितानाञ्च सम्भाषे दक्षिणं श्रवणं हृशेत् । अमिरापश्च वेदाश्च सोमसूर्यानिलास्तथा ॥ ३८ एते सर्वेऽपि विप्राणां श्रोत्रे तिष्ठन्ति दक्षिणे । प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ॥३६
ऽध्यायः ]
धर्माचरणवर्णनम् ।
विप्रस्य दक्षिणे कर्णे सान्निध्यं मनुरब्रवीत् ।
देशभङ्ग प्रवासे वा व्याविषु व्यसनेष्वपि ॥ ४० रक्षेदेव स्वदेहादि पश्चाद्धमं समाचरेत् । येन केन च धर्मेण मृदुना दारुगन च ॥४१ उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ।
आपत्काले तु सम्प्राप्ते शौचाचा रं न चिन्तयेत् । स्वयं समुद्धरेत् पश्चात् स्वस्थो धम्मं समाचरेत् ॥४२
इति पाराशरे धर्मशास्त्रं सहमोऽध्यायः ।
॥ अमोऽध्यायः ॥ धर्माचरणवर्णनम् ।
गवां बन्धनयोक्त्रंतु भवेन्मृत्युर कामतः ।
अकामात् कृतपापस्य प्रायश्चित्तं कथं भवेन ॥ १ वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम् । स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत् ॥२ अत ऊर्ध्वं प्रवक्ष्यामि उपस्थानस्य लक्षणम् । उपस्थितो हि न्यायेन व्रत देशनमर्हति ॥ ३ सद्योनि शंसये पापे न भुञ्जीतानुपस्थितः । भुञ्जानो वर्द्धयेत् पापं पर्शद्यत्र न विद्यते ॥४ शंसये तु न भोक्तव्यं यावत् कार्यविनिश्चयः । प्रमादश्च न कर्त्तव्यो यथैवाशंसयस्तथा ॥५
[[६५५]]
[[६५६]]
[[2]]
पराशर स्मृतिः ।
[ अष्टमो-
कृत्वा पापं न गूहेत गुद्यमानं विवर्द्धते । स्वल्पं वाथ प्रभूतं वा धर्मविद्धयो निवेदयेत् ॥ ६ ते हि पापे कृते वेद्या हन्तारश्चैव पाप्मनाम् । व्याधितस्य यथा वैद्या बुद्धिमन्तो रुजापहाः ॥७ प्रायश्चित्तं समुत्पन्नं हीमान् सत्यपरायणः । मुहुरार्जवसम्पन्नः शुद्धिं गच्छेत मानवः ॥८ सचलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः । क्षत्रियो वाथ वैश्यो वा ततः पर्षद माब्रजेत् ॥६ उपस्थाय तत शीघ्रमार्त्तिमान धरणीं व्रजेत । गात्रैश्च शिरमा चैत्र न च किञ्चिदुदाहरेत् ॥ १० सावित्र्याश्चापि गायत्र्याः सन्ध्योपास्त्यग्निकार्ययोः । अज्ञानात् कृषिकर्त्तारो ब्राह्मणा नामधारकाः ॥ ११ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम । सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥१२ यद्वदन्ति तमोमूढा मूर्खा धर्ममतद्विदः । तत्पापं शतधा भूत्वा तद्वक्तुरधि गच्छति ॥१३ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्रायश्चित्तीभवत् पूतः किल्विषं परिषद्ब्रजेत् ॥ १४ चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः । स धर्म इति विज्ञेयो नेतरस्तु सहस्रशः ॥ १५ प्रमाणमार्ग मार्गन्तो ये धर्मं प्रवदन्ति वै । तेषामुद्विजते पापं सम्भूतगुणवादिनाम् ॥१६
ऽध्यायः ]
निन्द्यब्राह्मणवर्णनम् ।
यथाश्मनि स्थितं तोयं मारुतार्केण शुद्धयति । एवं परिपदादेशान्नाशयेदेव दुष्कतम ॥१७ नैव गच्छति कर्त्तारं नैव गच्छति पर्षदम् । मारुतार्कादिसंयोगात् पापं नश्यति तोयवन् ॥१८ अनाहिताग्यो येऽन्ये वेदवेदाङ्गपारगाः ।
[[६५७]]
पञ्च त्रयो वा धम्मज्ञाः परिषत् सा प्रकीर्त्तिता ॥ १६ मुनीनामात्मविद्यानां द्विजानां यज्ञयाजिनाम् । वेदव्रतेषु स्नातानामेकोऽपि परिषद्भवेत् ॥२० पश्च पूर्व मया प्रोक्तस्तेषाञ्चैव त्वसम्भवे । स्ववृत्तिपरितुष्टा ये परिषत् सा प्रकीर्त्तिता ॥ २१ अत ऊर्ध्वन्तु ये विप्राः केवलं नामधारकाः । परिषत्त्वं न तेषां वै सहस्रगुणितेष्वपि ॥ २२ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । ब्राह्मणास्त्वनधीयानास्त्रयस्ते नामधारकाः ॥२३ ग्रामस्थानं यथा शून्यं यथा कूपस्तु निर्जलः । यथा हूतमनमौ च अमन्त्रो ब्राह्मणस्तथा ॥२४ यथा षण्डोऽफलः स्त्रीषु यथा गौरूषराफला । यथा चाज्ञेऽफलं दानं यथा विप्रोऽनृचोऽफलः ॥२५ चित्रं कर्म यथानेकैरङ्गैरुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकः ॥ २६ प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः । ते द्विजा पापकर्माणः समेता नरकं ययुः ॥२७
[[४२]]
[[६५८]]
पराशरस्मृतिः ।
[ अष्टमो-
ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश्च ये । त्रैलोक्यं धारयन्त्येते पञ्चेन्द्रियरताश्रयाः ॥२८ सम्प्रणीतः श्मशानेषु दीप्तोऽग्निः सर्वभक्षकः । तथैव ज्ञानवान् विप्रः सर्वभक्षश्च दैवतम् ॥२६ अमेध्यानि च सर्वाणि प्रक्षिपन्त्युदके यथा । तथैव किल्विषं सर्व प्रक्षेप्तव्यं द्विजमले ॥३० गायत्रीरहितो विप्रः शूद्रादप्यशुचिर्भवेत् । गायत्री ब्रह्मतत्त्वज्ञाः संपूज्यन्ते द्वितोत्तमाः ॥३१ दुःशीलोऽपि द्विजः पूज्यो न शूद्रो विजितेन्द्रियः । कः परीत्यज्य दुष्टाङ्गां दुहच्छ्रीलवतीं खरीम् ॥३२ धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः । क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः ॥३३ चातुर्वेद्यो विकल्पी च अङ्गविद्धर्मपालकः । प्रपश्चाश्रमिणो मुख्याः परिषत् स्युर्दशावराः ॥ ३४ राज्ञाभ्वानुमते चैव प्रायश्चित्तं द्विजो वदेत् । स्वयमेव न वक्तव्या प्रायश्चित्तस्य निष्कृतिः ॥ ३५ ब्राह्मणांच व्यतिक्रम्य राजा यत् कर्त्तुमिच्छति । तत्पापं शतधा भूत्वा राजानमुपगच्छति ॥ ३६ प्रायश्चित्तं सदा दद्याद्देवतायतनाग्रतः ।
आत्मानं पावयेत् पश्चाज्जपन् वे वेदमातरम् ॥३७ सशिखं वपनं कृत्वा त्रिसन्ध्यमवगाहनम् ।
गवां गोष्ठे वसेद्रात्रौ दिवा ताः समनुब्रजेत् ॥ ३८
ऽध्यायः ]
गोब्राह्मणहेतोरुपदेश. ।
[[६५६]]
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ ३६ आत्मनो यदि वान्येषां गृहे क्षेत्रऽथवा खले । भक्षयन्तीं न कथयेत् पिवन्तचैव वत्सकम् ॥४० पिवन्तीषु पिवेत्तोयं सम्विशन्तीषु संविशेत । पतितां पङ्कमग्नां वा सर्वप्राणैः समुद्धरेत् ॥४१ ब्राह्मणार्थे गवार्थे वा यस्तु प्राणान् परित्यजेत । मुच्यते ब्रह्महत्या गप्ता गोब्राह्मगस्य च ॥ ४२ गोबधस्यानुरूपेण प्राजापत्यं विनिद्दिशेत् । प्राजापत्यन्तु यत्कृच्छ्रं विभजेत्तच्चतुर्विधम ॥४३ एकाहमेकभक्ताशी एकाहं नक्तभोजनः । अयाचिताश्येकमहरेकाहूं मारुताशनः ॥ ४४ दिनद्वयं चैकभक्तोद्विदिनं नक्तभोजनः । दिनद्वयमयाची स्यादुद्विदिनं मारुताशनः ॥ ४५ त्रिदिनञ्चकभक्ताशी त्रिदिनं नक्तभोजनः । दिनत्रयमयाची स्यात्त्रिदिनं मारुताशनः ॥ ४६ चतुरहन्त्वेकभक्ताशी चतुरहं नक्तभोजनः । चतुर्दिनमयाची स्याच्चतुरहं मारुताशनः ॥ ४७ प्रायश्चित्तं ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् । विप्राय दक्षिणां दद्यात् पवित्राणि जपेदुद्विजः ॥४८ ब्राह्मणान् भोजयित्वा तु गोघ्नः शुद्धो न शंसयः ॥४६
इति पाराशरे धर्मशास्त्रेऽष्टमोऽध्यायः ।
पराशरस्मृतिः ।
[ नवमो-
॥ नवमोऽध्यायः ॥
गोसेवोपदेशवर्णनम् ।
गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः । तद्बधन्तु न तं विद्यात् कामात कामकृतन्तथा ॥ १ अङ्गुष्ठमात्रः स्थूलो वा वाहुमात्रः प्रमाणतः । आर्द्रस्तु सपलाशश्च दण्ड इत्यभिधीयते ॥२ दण्डादृद्धं यदन्येन प्रहरेद्वा निपातयेत् । प्रायश्चित्तं चरेत् प्रोक्तं द्विगुणं गोब्रतध्वरेन ॥३ रोधवन्धनयोक्ताणि घातनश्च चतुर्विधम् । एकपादश्वरेद्रोधे द्विपादं बन्धने चरेत् ॥४ योक्त्रेषु पादहीनं स्याच्चरेत् सवं निपातने । गोचारे च गृहे वापि दुर्गेष्वपि समेष्वपि ॥५ नदीष्वपि समुद्रेषु खातेऽप्यथ दरीमुखे । दग्धदेशे स्थिताः गावः स्तम्भनाद्रोध उच्यते ॥ ६ योक्त्रदामकडोरैश्च घण्टाभरणभूषणैः ।
गृहे वापि वने वापि बद्धा स्यागौमृता यदि ॥७ तदेव बन्धनं विद्यात् कामाकामकृतभ्य यत् । मृल्लेखं शकटे पंक्तौ भारे वा पीड़ितो नरैः ॥८ गोपतिर्मृत्युमाप्नोति योक्त्रो भवति तद्बधः । मत्तः प्रमत्त उन्मत्तश्चंतनो वाप्यचेतनः ॥६ कामाकामकृतक्रोधोदण्डैर्हन्यदथोपलैः ।
प्रहता वा मृता वापि तद्धि हेतुर्निपातने ॥१०ऽध्यायः ]
गोसेवोपदेशवर्णनम् ।
मूर्हितः पतितो वापि दण्डेनाभिहत स तु । उत्थितस्तु यदा गच्छेत् पश्च सप्त दशैव वा ॥ ११ ग्रासं वा यदि गृह्णीयात्तोयं वापि पिवेद्यदि । पूर्वव्य । ध्युपसृश्वेत प्रायश्चित्तं न विद्यते ॥१२ पिण्डम्थे पादमेकन्तु द्वौ पादौ गर्भसम्मिते । पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥१३ पादेऽङ्गरोमवपनं द्विपादे श्मश्रणोऽपि च । त्रिपादे तु शिखावज सशिखन्तु निपातने ॥१४ पादे वस्त्रयुगन्चैव द्विपदे कांस्य भाजनम् । पादोने गोवृपं दद्याच्चतुर्थे गोद्वयं स्मृतम् ॥१५ निष्पन्नसर्वगात्रन्तु दृश्यते वा सचेतनम् । अङ्गप्रत्यङ्गसम्पन्नं द्विगुणं गोत्रतं चरेत् ॥ १६ पाषाणे नैव दण्डेन गावो येनाभिघातिताः । शृङ्गभृङ्गे चरेत् पादं द्वौ पादौ तेन यातनं ॥ १७ लाङ्गले कृच्छ्रपादन्तु द्वौ पादावस्थिभञ्जने । त्रिपादश्चैव कर्णे तु चरेत् सर्वं निपातने ॥ १८ शृङ्गभृङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च ।
यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥१६ व्रणभङ्गे च कर्त्तव्यः स्नेहाभ्यङ्गस्तु पाणिना । यवसश्चापहत्तव्यो यावद्दृढबलो भवेत् ॥ २० यावत्सम्पूर्णसर्वाङ्गस्तावन्तं पोषयेन्नरः ।
गोरूपं ब्राह्मणस्याप्रे नमस्कृत्य विवर्जयेत् ॥ २१
[[६६५]]
[[६६२]]
पराशरम्मृतिः ।
[ नवमो-
यद्यसम्पूर्णसर्वाङ्गो हीन देहो भवेत्तदा । गोघातकस्य तस्यार्द्ध प्रायश्चित्तं विनिर्द्दिशेत् ॥२२ काष्टलोट्रकपाषाणैः शस्त्रेणैवोद्धतो बलात् । व्यापादयति यो गान्तु तस्य शुद्धिं विनिर्दिशेत् ॥२३ चरेत् सान्तपनं काष्ठं प्राजापत्यन्त लोके । तप्तकृच्छन्तु पाषाणे शस्त्र चवातिकृच्छकम् ॥२४ पश्च सान्तपनं गावः प्राजापत्ये तथा त्रयः । नमकृच्छ्रे भवेन्त्यष्टावतिकृच्छ्रं त्रयोदश ॥२५ प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ॥२६ अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोहने तथा । सायं संयमनाथं तु न दुष्येद्रोधबन्धयोः ॥२७ अतिदाऽतिवाहे च नासिकाभेदने तथा । नदीपर्वतमध्वारे प्रायश्चित्तं विनिर्दिशेत् ॥२८ अतिदाह चरेत्पादं द्वौ पादौ वाहने चरेत् । नासिके पादहीनं तु चरेत्सवं निपातने ॥ २६ दहनाश्च विपद्येत अबद्धो वापि यन्त्रितः । उक्त पाराशरेणैव ह्येकपादं यथाविधि ॥ ३० रोधवन्धनयोक्त्रभ्व भारः प्रहरणन्तथा । दुर्गप्रेरणयोक्त्रञ्च निमित्तानि बधस्य षट् ॥३१ बन्धप्राशसुगुप्ताङ्गो म्रियते यदि गोपशुः । भवने तस्य नाशस्य पापं कृच्छ्रार्द्ध मर्हति ॥३२
ऽध्यायः ]
गविविपन्नांनां प्रायश्चित्तम् ।
[[६६३]]
न नारिकेलेनंच शाणबालै-
नचापि मौजेन च बन्धशृङ्गलैः ।
एतैस्तु गावो न निबन्धनीया-
बद्धातु तिष्ठेत् परशुं गृहीत्वा ॥ ३३
कुशैः काशैश्च बध्नीयाद्गोपशु दक्षिणामुखम् । पाशलग्नादिदग्धेषु प्रायश्चित्तं न विद्यते ॥ ३४ यदि तत्र भवेत् काण्डं प्रायश्चित्तं कथं भवेत् । जपित्वा पावनीं देवीं मुच्यतं तत्र किल्विपात् ॥३५ प्रेरयन् कूपवापीषु वृक्षच्छंदेषु पातयन् । गवाशनेषु विक्रीणस्ततः प्राप्नोति गोबधम् ॥३६ आराधितस्तु यः कश्विद्भिन्नकक्षो यदा भवेत । श्रवणं हृदयं भिन्नं मग्नौ वा कूटसङ्कटे ॥३७ कूपादुत्क्रमणे चैव भग्नो वा प्रीवपादयोः । स एव क्रियते तत्र त्रीन पादांस्तु समाचरेत् ॥३८ कूपखाते तटीबन्धे नदीबन्धं प्रपासु च । पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते ॥३६ कूपखाते तटीखाते दीर्घखाते तथैव च । अन्येषु धर्मपातेषु प्रायश्चित्तं न विद्यते ॥४० वेश्मद्वारे निवासेषु यो नरः खातमिच्छति । स्वकार्यगृहखातेषु प्रायश्चित्तं विनिर्दिशेत् ॥४१ निशि बन्धनिरुद्धषु सर्पव्याघ्रहतेषु च । अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते ॥४२
[[६६४]]
पराशरस्मृतिः ।
ग्रामघाते शरौघेण वेश्मबन्धनिपातने । अतिवृष्टिहतानाच प्रायश्चित्तं न विद्यते ॥४३ संग्रामे प्रहतानाच ये दग्धा वेश्मकेषु च ।
[ नवमो-
दावाग्नि प्रामघाते वा प्रायश्चित्तं च विद्यते ॥४४ यन्त्रिता गौश्चिकित्सार्थं मूढगर्भविमोचने ।
[[1]]
यत्ने कृते विपद्यंत प्रायश्चित्तं न विद्यते ॥ ४५ व्यापन्नानां बहूना बन्धन रोधने ऽपिवा । भिषग्मिथ्याप्रचारे च प्रायश्चित्तं विनिर्दिशेत् ॥४६ गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः । न वारयन्ति तां तेषां सर्वेषां पातकं भवेत् ॥४७
एको हतोयर्बहुभिः समेतें-
नज्ञायतं यस्य हतोऽभिधानात् ।
दिव्येन तषामुपलभ्य हन्ता
निवर्त्तनीयो नृपसन्नियुक्तैः ॥४८
एका चेद्बहुभिः कापि दैवाद्वयापादिता भवेत् । पाद पादश्च हत्यायाश्वरेयुस्ते पृथक् पृथक् ॥ ४६ हतपु रुधिरं दृश्यं व्याधिप्रस्तः कृशो भवेत् । नाना भवति षु एवमत्रेषणं भवेत् ॥५० मनुना चैवमेकेन सर्वशास्त्राणि जानता । प्रायश्चित्तन्तु तेनोक्तं गोषु चान्द्रायणं चरेत् ॥५१ केशानां रक्षणार्थाय द्विगुणं गोब्रतं चरेत् । द्विगुणे व्रत आदिष्टं दक्षिणा द्विगुप्णा भवेत् ॥५२
ऽध्यायः ]
गो प्रायश्चित्तवर्णनम् ।
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत् ॥ ५३ यस्य न द्विगुणं दानं केशश्च परिरक्षितः । तत्पापं तस्य तिष्ठत वक्ता च नरकं व्रजेत् ॥५४ यत्किञ्चित् क्रियतं पापं सर्वकेशेषु तिष्ठति । सर्वान् केशान, समुद्धृत्य च्छेदयेदङ्गुलिद्वयम् ॥५५ एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम् । न स्त्रियाः केशवपनं न दूरे शयनाशनम् ॥५६ न च गोष्ठं वसेद्रात्रौ न दिवा गा अनुव्रजेत । नदीषु सङ्गमे चैव अरण्येषु विशेषतः ॥५७ न स्त्रीणामजिनं वासो व्रतमेवं समाचरेत् । त्रिसन्ध्यं स्नानमित्युक्तं सुराणामनं तथा ॥५८ बन्धुमध्ये व्रतं तासां कृच्छचान्द्रायणादिकम् । गृहेषु नियतं तिष्ठेच्छुचि नियममाचरेत् ॥५६ इह यो गोबधं कृत्वा प्रच्छादयितुमिच्छति । स याति नरकं घोरं कालसूत्रमसंशयम् ॥ ६० विमुक्तो नरकात्तस्मान्मत्र्यलोके प्रजायते ।
कीवो दुःखी च कुष्ठी च सप्त जन्मानि वै नरः ॥६१ तस्मात् प्रकाशयेत् पापं स्वधर्म सततं चरेत् । स्त्रीवालभृत्यगोविप्रेष्त्रति कोपं विवर्जयेत् ॥ ६२
इति पाराशरे धर्मशास्त्रे नवमोऽध्यायः ।
[[६६५]]
[[६६६]]
पराशरस्मृतिः ।
[ दशमो-
॥ दशमोऽध्यायः ॥
अगम्यागमनप्रायश्चित्तवर्णनम् ।
।
चातुर्वर्ण्यस्य सर्वत्र हीयं प्रोक्ता तु निष्कृतिः । अगम्यागमनं चंव शुद्धौ चान्द्रायणञ्चरत् ॥ १ एकैकं ह्रासयेत् पिण्डं कृष्णं शुम्ले च वर्द्धयेत् । अभावाम्यां न भुञ्जीत एप चा द्रायणो विधिः ॥२ कुक्कुटाण्डप्रमाणन्तु ग्रासश्व परिकल्पयेन । अन्यथा भावदुष्टम्य न धर्मो नैव शुद्धयति ॥ ३ प्रायश्चित्तं नतचीर्णे कुर्यादुत्राह्मणभोजनम् । गोद्वयं वस्त्रयुग्मञ्च दद्याद्विप्रेषु दक्षिणाम् ॥४ चाण्डालीश्च श्रपाकीच ह्यभिगच्छति यो द्विजः । त्रिरात्रमुपवासी स्याद्विप्राणामनुशासनात ॥५ सशिखं वपनं कुर्यात् प्राजापत्यत्रयञ्चरेत । ब्रह्मकृत्रं ततः कृत्वा कुर्य्याद्ब्रह्मणतर्पणम ॥ ६ गायत्रीञ्च जपेन्नित्यं दद्यादोमिथुनद्वयम् । विप्राय दक्षिणां दद्याच्छद्धिमाप्नोत्यसंशयम् ॥७ क्षत्रियश्चापि वैश्यो वा चाण्डालीं गच्छतो यदि । प्राजापत्यद्वयं कुर्य्याद्यागोमिथुनन्तथा ॥८ श्वपाकीमथ चाण्डालीं शूद्रो वै यदि गच्छति । प्राजापत्यं चरेत्कृच्छ्रं दद्यामिथुनन्तथा ॥
ऽध्यायः ]
अगम्यागमनप्रायश्चित्तवर्णनम् ।
मातरं यदि गच्छंत भगिन पुत्रिकान्तथा ।
एतास्तु मोहितो गत्वा त्रीन कृच्छांस्तु समाचरेत् ॥१० चान्द्रायणत्रयं कुर्याच्छिश्नच्छदेन शुद्धयति । मातृस्वसृगमे चैव आत्मभेदनिदर्शनम् ॥११ अज्ञानात्तान्तु यो गच्छंत् कुर्य्याश्चान्द्रायणद्वयम् । दशगोमिथुनन्दद्याच्छुद्धिः पाराशरोऽब्रवीत् ॥१२ पितृदारान् समारुह्य मातुराप्ताञ्च भ्रातृजाम् । गुरुपत्नीं स्नुषान्चैव भ्रातृभार्या तथैव च ॥ १३ मातुलानीं सगोत्राश्च प्राजापत्यत्रयश्चरेत् । गोद्वयं दक्षिणां दत्त्वा शुद्धयते नात्र संशयः ॥१४ पशुवेश्यादिगमने महिष्युट्रीक पीस्तथा ।
खरीश्व शूकरीं गत्वा प्राजापत्यं ममाचरेत् ॥ १५ गोगामी च त्रिरात्रेण गामेकं ब्राह्मणे ददन् । महिष्युट्रीखरीगामी त्वहोरात्रेण शुद्धयति ॥१६ डामरे समरे वापि दुर्भिक्षे वा जनक्षये । वन्दिग्राह भयार्त्त वा सदा स्वस्त्रीं निरीक्षयेत् ॥ १७ चाण्डालै सह सम्पर्क या नारी कुरुते ततः । विप्रान् दश वरान् गत्वा स्वकं दोषं प्रकाशयेत् ॥ १८ आकण्ठसम्मिते कूपे गोमयोदककर्दमे ।
तत्र स्थित्वा निराहारा त्वेकरात्रेण निष्क्रमेत् ॥१६ सशिखं वपनं कृत्वा भुञ्जीयाद्यावकौदनम । त्रिरात्रमुपवासित्वा ह्येकरानं जलं वसेत् ॥२०
[[६६७]]
[[६६८]]
पराशरस्मृतिः ।
[ दशमो-
शङ्खपुष्पीलतामूलं पत्रश्च कुतुमं फलम् । सुवर्णं पञ्चगव्यभ्व काथयित्वा पिवेज्जलम् ॥२१ एकभक्तं चरेत् पश्चाद्यावत् पुष्पवती भवेत् । व्रतं चरति तथावत्तावत् संवसते वहिः ॥२२ प्रायश्चित्तं ततश्वीर्णे कुर्य्याद्ब्राह्मणभोजनम् । गोद्वयं दक्षिणा दद्याच्छुद्धिः पाराशरोऽब्रवीत् ॥२३ चातुर्वर्ण्यस्य नारीणां कृच्छचान्द्रायणं व्रतम् । यथा भूमिस्तथा नारी तस्मात्तां न तु दूषयेत् ॥२४ वन्दिग्राहण या भुक्त्वा हत्वा बद्धा बलाद्भयात् । कृत्वा सान्तपनं कृच्छ्रं शुद्ध त् पाराशरोऽब्रवीत् ॥२५ सकृदुमुक्ता तु या नारी नेच्छन्ती पापकर्मभिः । प्राजापत्येन शुद्धयत ऋतुप्रावर्णन तु ॥२६
पतत्यर्द्ध शरीरस्य यस्य भार्य्या सुरां पिवेत् । पतितार्द्ध शरीरस्य निष्कृनिर्न विधीयते ॥ २७
गायत्री जपमानस्तु कृच्छ्रं सान्तपनं चरेत् ॥ २८ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रयुपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥२६ जारेण जनयेद्द्रभं गते त्यक्तं मृते पतौ ।
तां त्यजेदपरे राष्ट्र पतितां पापकारिणीम् ॥३० ब्राह्मणी तु यदा गच्छंत परपुंसा समन्विता । सा तु नष्टा बिनिर्दिष्टा न तस्यां गमनं पुनः ॥ ३१
ऽध्यायः ]
अगम्यागमनप्रायश्चित्तवर्णनम् ।
[[६६६]]
कामान्मोहाद्यदा गच्छंत्यक्त्वा बन्धून् सुतान पतिम् । सा तु नष्टा परे लोके मानुषेषु विशेषतः ॥ ३ दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते । दशाहं न त्यजन्नारी त्यजन्नश्रुता तथा ॥३३ भर्त्ता चैव चरत् कच्छ कच्छार्द्ध चैव बान्धवाः । तेपां भुक्त्वा च पीत्वा च अहोरात्रेण शुद्धयनि ॥ ३४ ब्राह्मणी तु यदा गच्छेत परपुंमा विवर्जिता । गत्वा पुंसां शतं याति त्यजेयु स्तान्तु गोत्रिणः ॥ ३५ पुंसो यदि गृहं गच्छेत्तदशुद्ध गृहं भवेत् । पितृमातृगृहं यच जारम्येव तु तद्गृहम् ॥३६ उल्लिख्य तद्गृहं पश्चात् पञ्चगव्येन शुद्धयति । त्यजन्मृण्मयपात्राणि वस्त्रं काष्ठञ्च शोधयेत् ॥३७ सम्भारान् शोधयेत् सर्वान् गोकेशश्व फलोद्भवान् । ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः ॥ ३८ प्रायश्चित्तं चरेद्विप्रो ब्राह्मणे रुपपादितम् । गोद्वयं दक्षिणां दद्यात् प्राजापत्यं समाचरेत् ॥३६ इतरेषा महोरात्रं पञ्चगव्येन शोधनम् । सपुत्रः सह भृत्यश्व कुर्याद् ब्राह्मणभोजनम् ॥४० आकाशं वायुरनिश्च मेध्यं भूमिगतं जलम । न दुष्यन्तीह दर्भाश्च यज्ञेषु च समास्तथा ॥ ४१ उपवासैर्ब्रतैः पुण्यैः स्नानसन्ध्यार्श्वनादिभिः । जपैर्होमैस्तथा दानैः शुद्धयन्ते ब्राह्मणा सदा ॥४२
इति पाराशरे धर्मशास्त्रे दशमोऽध्यायः ।
[[६७०]]
पराशरस्मृतिः ।
[ एकादशो-
॥ एकादशोऽध्यायः ॥
अभक्ष्यभक्षणप्रायश्चित्तवर्णनम् ।
अमेध्यरेतोगोमांसं चाण्डालान्नमथापिवा । यदि भुक्तन्तु विप्रेण कृच्छ्रं चान्द्रायणञ्चरेत् ॥१ तथैव क्षत्रियो वंश्य स्तदर्द्धन्तु समाचरेत् । शूद्रोऽप्येवं यदा भुङ्क्तं प्राजापत्यं समाचरेत् ॥२ पञ्चगव्यं पिवेन्द्रो ब्रह्मकूचं पिवेदुद्विजः । एकद्वित्रिचतुर्गाश्च दद्याद्विप्रादनुक्रमात् ॥३ शूद्रान्न सूतकस्यान्न मभोज्यस्यान्नमेव च । शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च ॥४ यदि भुक्तन्तु विप्रेण अज्ञानादापदापि वा । ज्ञात्वा समाचरेत कुच्छ ब्रह्मकुर्वन्तु पावनम ॥५ व्यार्नकुलमार्जारन्नमुच्छिष्टतं यदा । तिलदर्भादकैः प्रोक्ष्य शुद्रयते नात्र संशयः ॥ ६ शूद्रोऽप्यभोज्यं मुक्तान्नं पञ्चगव्येन शुद्धयति । क्षत्रियो वापि वैश्यश्च प्राजापत्येन शुद्धयति ॥७ एकपंक्त्युपविष्टानां विप्राणां सहभोजने । यद्यकोऽपि त्यजेत् पात्रं शेपमन्न न भोजयेत् ॥८ मोहाद्वा लोभतस्तत्र पंक्ताबुच्छिष्टभोजने ।
प्रायश्चितं चरेद्विप्रः कृच्छ्रं सान्तपनन्तथा ॥
पीयूषश्वेतलसुनवृन्ताकफलगृञ्जनम् ॥१०ऽध्यायः ]
अभक्ष्यभक्षणप्रायश्चित्तवर्णनम् । ६७१
पलाण्डं वृक्षनिय्यांसं देवस्वं कवकानि च । उष्ट्रीक्षीर मविक्षीर मज्ञानाद्भुञ्जति द्विजः ॥ ११ त्रिरात्रमुपवासी स्यात् पञ्चगव्येन शुद्धयति । मण्डुकं भक्षयित्वा च मूपिकामांसमेव च ॥ १२ ज्ञात्वा विप्रस्त्वहोरात्रं यावकान्नेन शुद्धयति । क्षत्रियोवापि वैश्यांवा क्रियावन्तौ शुचित्रतौ । तद्गृहेषु द्विजेर्भोज्यं हव्यकव्येषु नित्यशः ॥ १३ घृतं तैलं तथा क्षीरं गुड़ तैलेन पाचितम् । गवा नदीतटे विप्रो भुञ्जीयाच्छूद्रभोजनम् ॥१४ अज्ञानाद्भुञ्जते विप्राः मृतके मृतकेऽपिवा । प्रायश्चित्तं कथं तेपां वर्णे वर्णे विनिर्दिशेत् ॥१५ गायत्र्यष्टसहस्रेण शुद्धः स्याच्छु द्रमृतके । वैश्ये पञ्चसहस्रेण त्रिसहस्रेण क्षत्रिय. ॥१६ ब्राह्मणस्य या भुङ्क्तं प्राणायामेन शुद्धयति । अथवा वामदेव्येन साम्ना चैकेन शुद्धयति ॥ १७ शुकान गोरसं स्नेहं शूद्रोश्मन आगतम् । पक्कं विप्रगृहे पूतं भोज्यं तन्मनुरब्रवीत् ॥१८ आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुद्धचेत द्रुपदां वा शतं जपेत् ॥ १६ दासनापित गोपाल कुलमित्रार्द्ध सीरिणः ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥२०
[[६७२]]
पराशर स्मृतिः ।
[ एकादशी-
शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । संस्कृतस्तु भवेद्दास्यो ह्यसंस्कारस्तु नापितः ॥२१ क्षत्रियाच्छूद्रकन्यायां समुत्पन्नस्तु यः सुतः । स गोपाल इतिज्ञेयो भोज्यो विप्रैर्न संशयः ॥२२ वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।
आर्द्धिकश्च म तु ज्ञेयो भोज्यो विप्रैर्न संशयः ॥ २३ भाण्डस्थित मभोज्येषु जलं दधि घृतं पयः । अकामतस्तु यो भुङ्क्तं प्रायश्चित्तं कथं भवेत् ॥२४ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्युपसर्पति । ब्रह्मकूपवासेन यथावर्णम्य निष्कृतिः ॥ २५ शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुद्धयति । ब्रह्मकू महोरात्रं श्रपाकमपि शोधयेत् ॥ २६ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यन्तु पवित्रं पापनाशनम् ॥२७ गोमूत्रं कृष्णवर्णायाः श्वेताया गोमयं हरेत् । पयश्च ताम्रवर्णाया रक्ताया दधि चोच्यते ॥२८ कपिलाया घृतं ग्राह्यं सवं कापिलमेव वा । गोमूत्रस्य फलं दद्यान्नस्त्रिपल मुच्यते ॥२६ आज्यस्यैकपलं दद्यादङ्गुष्ठार्द्धन्तु गोमयम् । क्षीरं सप्रदलं दद्यात् पलमेकं कुशोदकम् ॥३० गायत्र्यागृह्य गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्त्रेति च क्षीरं दधिक्राव्नेति वै दधि ॥३१
ऽध्यायः ]
शुद्धिवर्णनम् ।
[[६७३]]
तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । पञ्चगव्यमृवा पूतं स्थापयेद मिसन्निधौ ॥३२ आपोहिष्ठेति चालोड्य मानतोकेति मन्त्रयेत् । समावरास्तु ये दर्भा अच्छिन्नायाः शुकलिपः ॥३३ एभिरुद्ध य होतव्यं पञ्चगत्र्यं यथाविधि । इरावती इदं विष्णुर्मानस्तोके च शंवती ॥ ४ एतैरुद्धृत्य होतव्यं हृतशेषं स्वयं पिवेत् । आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु । उधृन्य प्रणवेनैव पिवेच्च प्रणवेन तु ॥ ३५ यत्त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् । ब्रह्मर्षो द ेत् सर्व यथैवाग्निरिवेन्धनम् ॥३६ पिवतः पतितं तोयं भाजने मुखनि सृतम् । अपेयं तद्विजानीयाद्भुक्ता चान्द्रायणं चरेत् ॥३७ कृपे च पतितं दृष्ट्रा श्वशृगालौ च मर्कटम् । अस्थि चम्र्म्मादि पतिनं पीत्वा मेध्या अपो द्विजः ॥ ३८ नारन्तु कूपे काकच्च विडुराहखरोष्ट्रकम् ।
गावयं सौप्रतीकञ्च मायूरं खाड्गकं तथा ॥ ३६ वैयाघ्रमा सैंहं वा कुणपं यदि मज्जति । तड़ागस्याथ दुष्टस्य पीतं स्यादुदकं यदि ॥४० प्रायश्चित्तं भवेत् पुंसः क्रमेणतेन सर्वशः । विप्रः शुद्धयेत्त्रिरात्रेण क्षत्रियस्तु दिनद्वयात् ॥४१ एकाहेन तु वैश्यस्तु शूद्रो नक्तंन शुद्धयति ॥४२
[[४३]]
[[६७४]]
पराशर स्मृतिः ।
परपाकनिवृत्तस्य परपाकरतस्य च ।
एकादशो-
अपचस्य च भुकान्नं द्विजश्चान्द्रायणञ्चरेत् ॥४३ अपचस्य च यद्दाने दातुश्चास्य कुनः फलम् । दाता प्रतिप्रहीता च द्वौ तौ निरयगामिनौ ॥४४ गृहीत्वाग्मिं समारोप्य पञ्च यज्ञान्न वत्तयेत् । परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्त्तितः ॥४५ पञ्चयज्ञं स्वयं कृत्वा परान्नेनोपजीवति । सततं प्रातरुथाय परपाकरतो हि सः ॥४६ गृहस्थधर्मो यो विप्रो ददाति परिवर्जितः । ऋपिभिर्धर्मतत्वज्ञरपचः परिकीर्त्तितः ॥ ४७
।
युगे युगे च ये धर्मास्तेषु धर्मे ये द्विजाः । तेषां निन्दा न कर्त्तव्या युगरूपा हि ब्राह्मणाः ॥ ४८ हुङ्कारं ब्राह्मगस्योक्ता त्वङ्काररूच गरीयसः । स्नात्वा तिष्ठन्नहः शेषमभिवाद्य प्रसादयेत् ॥४६ ताड़यित्वा तृणनापि कण्डे वा बध्यवाससा । विवादेनापि निर्जित्य प्रणिपत्य प्रमादयेत् ॥५० अवगूर्य त्वहोरात्रं त्रिरात्रं क्षितिपातने । अतिकृच्छ्रञ्च रुधिरं कृच्छ्रमन्तरशोणिते ॥ ५१ नवाहमतिकृच्छ स्यात् पाणिपूरान्न भोजनम् । त्रिरात्रमुपवासः स्यादतिकृच्छ्र स उच्यते ॥ ५२ सवपामेव पापानां सङ्करे समुपस्थिते । शतसाहस्त्रमभ्यस्ता गायत्री शोवनं परम् ॥ ५३
इति पाराशरे धर्मशास्त्रे एकादशोऽध्यायः ।
ऽध्यायः ]
शुद्धिवर्णनम् ।
॥ द्वादशोऽध्यायः ॥
तत्रादौ - पुनः संस्कारादिप्रायश्चित्तवर्णनम् । दुःस्वप्नं यदि पश्येतु वान्ते वा क्षुरकर्मणि । मैथुने प्रेतधूमे च स्नानमेव विधीयते ॥ १ अज्ञानात् प्राप्य विण्मूत्रं सुरां वा पिवते यदि । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥२ अजिनं मेखला दण्डो भेrचर्या व्रतानि च । निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥ ३
स्त्रीशूद्रम्य तु शुद्धधर्य प्राजापत्यं विधीयते । पञ्चगव्यं ततः कृत्वा स्नात्वा पीत्वा विशुध्यति ॥४ जलाग्निपतने चैव प्रत्रज्यानाशकेषु च । प्रत्यवसितमेतेपां कथं शुद्धिर्विधीयते ॥५ प्राजापत्यद्वयेनापि तीर्थाभिगमनेन च । वृनैकादशदानेन वर्णाः शुद्धयन्ति ते त्रयः ॥ ६ ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथम । सशिखं वपनं कृत्वा प्राजापत्यत्रयश्वरेत ॥७ गोद्रयं दक्षिणां दद्याच्छुद्धिः स्वावम्भुवोऽब्रवीत् । मुच्यते तेन पानेन ब्राह्मणत्वञ्च गच्छति ॥८ स्नानानि पञ्च पुण्यानि कीर्त्तितानि मनीषिभिः । आग्नेयं वारुणं ब्राह्म वायव्यं दिव्यमेव च ॥ आग्नेयं भस्मना स्नानमवगाह्य तु वारुणम् । आपोहिष्ठेति च ब्राह्मं वायव्यं रजसा स्मृतम् ॥१०
[[६७५]]
[[६७६]]
पराशरस्मृतिः ।
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ।
।
[ द्वादशो-
तत्र स्नाने तु गङ्गायां स्नातो भवति मानवः ॥११ स्नानाथं विप्रमायान्तं देवाः पितृगणैः सह । वायुभूता हि गच्छन्ति तृपार्त्ताः सलिलार्थिनः ॥ १२ निराशास्ते निवर्त्तन्ते वस्त्रनिप्पीड़ने कृते । तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम ॥१३ विधुनोति हि यः केशान् स्नातः प्रस्नवतोद्विजः । आचामेट्ठा जलस्थोऽपि स वाह्यः पितृदैवतैः ॥४ शिरः प्रावृत्य कं बद्ध्वा मुक्तकच्छ शिखोऽपिवा । विना यज्ञोपवीतेन आचा. तो प्यशुचिर्भवेत् ॥१५ जले स्थलम्थो नाचामेजलस्थश्च वहि स्थले । उभे स्पृष्ट्रा समाचान्त उभयत्र शुचिर्भवेत् ॥ १६ स्नात्वा पीत्वा क्षुते सुप्ते भुक्तं रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासोविपरिधाय च ॥ १७ क्षुते निष्ठीविते चैव दन्तोच्छिष्टं तथानृते । पतितानाच सम्भाषं दक्षिणं श्रवणं स्पृशेत् ॥१८ ब्रह्मा विष्णुश्च रुद्रश्च सोमः सूर्योऽनिलस्तथा । ते सर्वे ह्यपि तिष्ठन्ति कर्णे विप्रस्य दक्षिणे ॥१६ दिवाकरकरैः पूतं दिवास्नानं प्रशस्यते । अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् ॥२० मरुतो वसवो रुद्रा आदित्याश्चादिदेवताः ।
सर्वे सोमे विलीयन्ते तस्मात् स्नानन्तु तद्द्महे ॥२१
ऽध्यायः ]
शुद्धिवर्णनम् ।
खलयज्ञं विवाहे च संक्रान्तौ ग्रहणेषु च । शर्व दानमतेषु नान्यत्रेति विनिश्वयः ॥२२ पुत्रजन्मनि यो च तथा चात्ययकर्मणि । राहोश्व दर्शने दानं प्रशस्तं नान्यदा निशि ॥ २३ महानिशा तु विज्ञेया मध्यस्थप्रहरद्वयम् । प्रदोषपश्चिम यामौ दिनवत स्नानमाचरेत् ॥२४ चैयरक्षश्चितिस्था चण्डालः सोमविक्रयी । एतांस्तु ब्राह्मणः स्पृष्ट्रा सवासा जलमाविशेत् ॥२५ अस्थिसच्चयनात पूर्व महित्वा स्नानमाचरेत् । अन्तर्दशाहे विप्रस्य पर्वमाचमनं भवेत ॥ २६ सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे । सोमग्रहे तथैवोकं स्नानदानादिकमसु ॥२७ कुशनूतन्नु यत्स्नानं कुशेनोपस्पशद् द्विजः । कुरानोद्व, ततोयं यत सोमपानसमं स्मृतम् ॥२८ अतिकाय्यत् परिभ्राः सन्ध्योपासनवर्जिताः । वेदश्चैवानवीयानाः सर्वे ते वृषलाः स्मृताः ॥२६ तम्माद्वलभीतेन ब्राह्मगेन विशेषतः ।
अध्येतव्योऽप्येकदेशो यदि सवं न शक्यते ॥३० शूद्रान्नरस पुस्याप्यध्यीयानस्य नित्यशः । जपतो जुड़तो वापि गतिरुक्ता न विद्यते ॥ ३१ शूद्रानं शूद्रसम्पर्कः शूद्रेण तु सहासनम् । शूद्राज्ज्ञानागमभ्ध्यापि ज्वलन्तमपि पातयेत् ॥३२
[[६७८]]
पराशरस्मृतिः ।
मृतसून कपुराङ्गीद्विजः शूद्रान्नभोजने ।
[[1]]
[ द्वादशो-
अहं तां न विजानामि कां कां योनिं गमिष्यति ॥३३ गृध्रो द्वादश जन्मानि दश जन्मानि शूकरः । योनौ सपजन्म स्यादित्येवं मनुरब्रवीत् ॥३४ दक्षिणार्थं तु यो विप्रः शूद्रम्य जुहुयाद्वविः । ब्राह्मगम्नु भवेच्छूद्रः शूद्रस्तु ब्राह्मगो भवेत् ॥३५ मौनव्रतं समाश्रित्य आशीनो न वदेद्विजः । भुञ्जानो हि वदेद्यस्तु तन्नं परिवर्जयेन ॥३६ अर्द्ध भुकं तु यो विप्रस्तस्मिन् पात्रे जलं पिवेत् । हृतं देवञ्च पित्र्यश्व आत्मानञ्चोपवानयेत् ॥३७ भाजनेषु च तिष्ठत्पु म्वस्ति कुर्वन्ति ये द्विजाः । न देवा स्मृतिमायान्ति निराशाः पितरस्तथा ॥३८ गृहस्थस्तु यदा युक्तो धर्ममेवानुचिन्तयेन । पोप्यधर्मार्थ सिद्धयर्थं न्यायवर्त्ती मुबुद्धिमान् ॥३६ न्यायोपार्जित वित्तंन कर्त्तव्यं ज्ञानरक्षणम् । अन्यायेन तु यो जीवन सर्वकर्मवहिष्कृतः ॥ ४० अग्रिचित कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्रं पुनन्त्येते तस्मात् पश्येत्तु नित्यशः ॥४१ अरणि कृष्णमार्जारश्चन्दनं सुमणि घृतम् । तिलान् कृष्णाजिनं छागं गृहे चैतानि रक्षयेत् ॥४२ गवt शतं सैकवृषं यत्र तिष्ठत्ययन्त्रितम् । तत्क्षेत्रं दशगुणितं गोचर्म परिकीर्त्तितम् ॥४३
ऽध्यायः ]
शुद्धिवर्णनम्
ब्रह्महत्यादिभिर्मत्यों मनोवाक्कायकर्मजैः । एतद्रोचर्मदानेन मुध्यते सर्वकिल्विषैः ॥४४ कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः । यद्दानं दीयते तस्मै तदा द्विकारकम् ॥४५ आषोड़शदिनादर्वाक् स्नानमेत्र रजस्वला ।
अत ऊ त्रिरात्रं स्यादुशना मुनिरब्रवीत ॥४६ युगं युगद्वयञ्चैव त्रियुगश्च चतुर्युगम । चाण्डालसूति कोक्यापतितानामधः क्रमात् ॥४७ ततः सन्निधिमात्रेण मचलं स्नानमाचरेत् । स्नात्वावलोकयेत् सूर्यमज्ञानात स्पशते यदि ॥४८ वापीकूपतड़ागेषु ब्राह्मगो ज्ञानदुर्बलः ।
तोयं पिवति वक्तत्रेण श्रयोनौ जायते ध्रुवम् ॥४६ यस्तु क्रुद्ध पुमान् भाय प्रतिज्ञायाप्यगम्यताम् । पुनरिच्छति ताङ्गन्तुं विप्रमध्ये तु श्रावयेत् ॥५० श्रान्तः क्रुद्धस्तमोभ्रान्त्या क्षुत्पिपासाभयार्द्दितः । दानं पुण्यमकृत्वा च प्रायश्चित्तं दिनत्रयम् ॥५१ उपस्पृशेतत्रिषवणं महानद्युपसङ्गमे । चीर्णान्ते चैत्र गां दद्याद्ब्राह्मणान् भोजयेद्दश ॥ ५२ दुराचारस्य विप्रस्य निषिद्धाचरणस्य च ।
अन्नं भुक्का द्विजः कुर्य्या दिन मे कमभोजनम् ॥५३ सदाचाराय विप्रस्य तथा वेदान्तवादिनः । भुक्तानं मुच्यते पापादहोरात्रन्तु वे नरः ॥ ५४
[[६७६]]
[[६८०]]
पराशरस्मृतिः ।
उद्धच्छिष्टमधोच्छिष्टमन्तरीक्षमृतौ तथा ।
[ द्वादशो-
कृच्छ्रत्रयं प्रकुत्रत आशौचमरणे तथा ॥५५ कृच्छदेत्र्ययुतञ्चैव प्राणायामशतत्रयम् । पुण्यतीर्थे नार्द्रशिरः स्नानं द्वादशसंख्यया । हियोजनं तीर्थयात्रा कृच्छ्रमेवं प्रकल्पितम् ॥५६ गृहस्थः कामतः कुर्य्याद्रेतसः सेचनं भुवि । सहस्रन्तु जपेदेव्याः प्राणायामैस्त्रिभिः सह ॥ ५७ चातुर्वद्योपपन्नस्तु विधिवद्द्ब्रह्मघातके । समुद्रसेतुगमनप्रायश्चित्तं विनिर्दिशेत् ॥५८ सेतुबन्धपथे भिक्षां चातुर्वण्यात् समाचरेत् । वर्जयित्वा विकर्भस्थांच्छत्रोपानद्विवर्जितः ॥ ५६ अहं दुष्कृतकर्मा वै महापातककारकः । गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मवातकः ॥ ६० गोकुलेषु वसेव ग्रामेषु नगरेषुच । तथा वनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥ ६१ एतेषु ख्यापयन्ननः पुण्यं गत्वा तु सागरम् । दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ६२ रामचन्द्रसमादित्रं नलसञ्चयसञ्चितम् । सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति ॥ ६३ यजेत वाश्वमेधेन राजा तु पृथिवीपतिः ॥६४ पुनः प्रत्यागतो वेश्म वासार्थ मुपसर्पति । सपुत्रः सह भृत्यैश्च कुर्याद्ब्राह्मणभोजनम् ॥६५ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
[[६८१]]
।
गाश्चैवैकशतं दद्याच्चातुर्वद्येषु दक्षिणाम् ।
ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते ॥ ६६ सवनम्था स्त्रियं हत्वा ब्रह्मत्याव्रतं चरेत् । मद्यपश्च द्विजः कुर्यान्निदीं गत्वा समुद्रगाम् ॥६७ चान्द्रायणे ततश्चीर्णे कुर्याद्वाह्मणभोजनम् । अनडुत्सहिता गाञ्च दद्याद्विप्रेषु दक्षिणाम् ॥६८ अपहृत्य सुवर्णन्तु ब्राह्मणम्य तत स्वयम् । गच्छेन्मुपलमादाय राजाभ्यासं वधाय तु ॥ ६६ ततः शुद्धिमवाप्नोति राज्ञामों मुक्त एव च । कामकारकृतं यत् स्याम्न्नान्यथा वधमर्हति ॥७० आमनाच्छ्यनाद्यानात् सम्भाषात् सहभोजनात् । संक्रामति हि पापानि तैलविन्दुरिवाम्भसि ॥७१ चान्द्रायणं यावकञ्च तुलापुरुप एव च । गवाञ्चैवानुगमनं सर्वपापप्रणाशनम् ॥७२ एतत् पराशरं शास्त्रं श्लोकाना शतपञ्चकम् । द्विनवत्या समायुक्तं धर्मशास्त्रम्य संग्रहः ॥७३ यथाध्ययनकर्माणि धर्मशास्त्रमिदं तथा । अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना ॥७४
इति पाराशरे धर्मशास्त्र द्वादशोऽध्यायः ॥ समाप्ता चेयं पराशर संहिता ॥
ॐ तत्सत् ।
11 अथ ॥