॥ श्रीगणेशाय नमः ॥
अथ वर्णाश्रमधर्मवर्णनम् ।
ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं प्रति । इतिपर्व त्वया प्रोक्तं भूर्भुवः स्वर्द्विजोत्तमाः ॥ १ वर्णानामाश्रमाणाश्च धर्मानो ब्रूहि सत्तम ! । येन सन्तुष्यते देवो नारसिंहः सनातनः ॥ २ अत्राहं कथयिष्यामि पुरावृत्तमनुत्तमम् । ऋषिभिः सह संवादं हारीतस्य महात्मनः ॥ ३ हारीतं सर्वधर्मज्ञमासीनमिव पावकम् । प्रणिपत्याब्रुवन् सर्व मुनयो धर्मकाङ्क्षिणः ॥४
भगवन् ! सर्वधर्मज्ञ ! सर्वधर्मप्रवर्त्तक ॥
!
वर्णानामाश्रमाणाञ्च धर्मानो ब्रूहि भार्गव ! ॥५ समासाद्योगशास्त्रश्च विष्णुभक्तिकरं परम् ।
एतच्चान्यच्च भगवन् ! ब्रूहि नः परमो गुरुः ॥ ६
ऽध्याय ]
वर्णाश्रमधर्मवर्णनम् ।
हारीतस्तानुवाचाथ तैरेवं चोदितो मुनिः ।
शृण्वन्तु मुनयः ! सर्वे ! धर्मान् वक्ष्यामि शाश्वतान् ॥७
वर्णानामाश्रमाणाञ्च योगशास्त्रश्च सत्तमाः ! । सन्धार्य्य मुच्यते मर्त्यो जन्मसंसारबन्धनात् ॥८ पुरा देवो जगत्स्रष्टा परमात्मा जलोपरि । सुष्वाप भोगिपर्यङ्कं शयने तु श्रिया सह ॥ तस्य सुप्तम्य नाभौ तु महत् पद्ममभून किल । पद्ममध्येऽभवद् ब्रह्मा वेदवेदाङ्गभूषणः ॥१० स चोक्तो देवदेवेन जगत्सृज पुनः पुनः । सोऽपि सृष्ट्रा जगत् सर्वं सदेवासुरमानुपम् ॥११ यज्ञसिद्धयर्थमनघान् ब्राह्मणान्मुखतोऽसृजत् । असृजत क्षत्रियान् वाह्णो वैश्यानप्युरुदेशतः ॥ १२ शूद्रांश्च पादयोः सृष्ट्रा तेपञ्चैवानुपूर्वशः ।
।
यथा प्रोवाच भगवान् ब्रह्मयोनिं पितामहः ॥ १३ तद्वचः संप्रवक्ष्यामि शृणुत द्विजसत्तमाः ! । धन्यं यशस्यमायुष्यं स्वयं मोक्षफलप्रदम् ॥१४ ब्राह्मण्यां ब्राह्मणेनैवमुत्पन्नो ब्राह्मणः स्मृतः । तस्य धर्मं प्रवक्ष्यामि तद्योग्यं देशमेव च ॥१५ कृष्णसारो मृगो यत्र स्वभावेन प्रवर्त्तते । तस्मिन्देशे वसेद्धर्मः सिद्धयति द्विजसत्तमाः ! ॥१६ षट् कर्माणि निजान्याहुर्ब्राह्मणम्य महात्मनः । तैरेव सततं यस्तु वर्त्तयेत् सुखमेधते ॥ १७
[[६७५]]
[[६७६]]
लघुहारीतस्मृतिः ।
अध्यापनं चाध्ययनं याजनं यजनं तथा ।
दानं प्रतिग्रहश्चेति षट् कर्माणीति चोच्यते ॥ १८ अध्यापनश्च त्रिविधं धर्मार्थमृक्थकारणात् । शुश्रूपाकरणञ्चति त्रिविधं परिकीर्त्तितम् ॥१६ एषामन्यतमाभावे वृपाचारो भवेद् द्विजः । तत्र विद्या न दातव्या पुरुषेण हितैषिणा ॥२० योग्यानध्यापयेच्छिष्यानयोग्यानपि वर्जयेत् । विदितान प्रतिगृह्णीयाद्गृहे धर्मप्रसिद्धये ॥ २१ वेदवचैवाभ्यसेन्नित्यं शुचौ देशे समाहितः । धर्मशास्त्रं तथा पाठ्यं ब्राह्मणैः शुद्धमानसैः ॥२२ वेदवित्पठितव्यं च श्रोतव्यश्च दिवा निशि । स्मृतिहीनाय विप्राय श्रुतिहीने तथैव च । दानं भोजनमन्यश्च दत्तं कुलविनाशनम् ॥२३ तम्मात सर्वप्रयत्नेन धर्मशास्त्रं पठेद्विजः । श्रुतिस्मृती च विप्राणां चक्षुपी देवनिर्मिते । काणस्तत्रया हीनो द्वाभ्यामन्धः प्रकीर्त्तितः ॥२४ गुरुश्रुश्रूपणञ्चैव यथान्यायमतन्द्रितः ।
सायं प्रातरुपासीन विवाहामि द्विजोत्तमः ! ॥२५ सुस्नातस्तु प्रकुर्वीत वैश्वदेवं दिने दिने । अतिथीनागताच्छक्त्या पूजयेदविचारतः ॥२६
अन्यानभ्यागतान विप्राः । पूजयेच्छक्तितो गृही ।
! स्वदारनिरतो नित्यं परदारविवर्जितः ॥२७
[ प्रथमो-
ऽध्यायः ]
वाश्रमधर्मवर्णनम् ।
कृतहोमस्तु भुञ्जीत सायं प्रातरुदारधीः ।
सत्यवादी जितक्रोधो नाधर्मे वर्त्तयेन्मतिम् ॥२८ स्त्रकर्मणि च संप्राप्ते प्रमादान्न निवर्त्तते । सत्यां हितां वदेद्वाचं परलोकहितैषिणीम् ॥२६ एष धर्मः समुद्दिष्टो ब्राह्मणस्य समासतः ।
धर्ममेव हि यः कुर्यात् स याति ब्रह्मणः पदम् ॥३० इत्येष धर्मः कथितो मयायं पृष्टो भवद्भिस्त्वखिलाघहारी । वदामि राज्ञामपि चैव धर्मान् पृथक् पृथग्बोधत विप्रवः ॥३१
इति हारीते धर्मशास्त्रे प्रथमोऽध्यायः ।
[[६७७]]
-::'-
द्वितीयोऽध्यायः ।
अथ चतुवर्णानां धर्मवर्णनम् ।
क्षत्रादीनां प्रवक्ष्यामि यथावदनुपूर्वशः ।
येषु प्रवृत्ता विधिना सर्वे यान्ति परां गतिम् ॥१ राज्यस्यः क्षत्रियश्चापि प्रजाधर्मेण पालयन्। कुर्यादध्ययनं सम्यग्यजेद्यज्ञान् यथाविधि ॥२ दद्याद्दानं द्विजातिभ्यो धर्मबुद्धिसमन्वितः । स्वभाय्र्यानिरतो नित्यं षड्भागार्हः सदा नृपः ॥ ३ नीतिशास्त्रार्थकुशलः सन्धिविग्रहतत्त्ववित् । देवमाह्मणभता - पितृकार्यपरस्तथा ॥४
[[६२]]
[[६७८]]
लघुहारीतस्मृतिः ।
[ द्वितीयो-
धर्मेण यजनं कार्यमधर्मपरिवर्जनम् ।
उत्तमां गतिमाप्नोति क्षत्रियोऽप्येवमाचरन् ॥५ गोरक्षां कृपिवाणिज्यं कुर्याद्वैश्यो यथाविधि । दानं देयं यथाशक्तया ब्राह्मणानाश्च भोजनम् ॥६ दम्भमोह विनिर्मुक्तस्तथा वागनसूयकः । स्वदारनिरतो दान्तः परदारविवर्जितः ॥७ धनैर्विप्रान् भोजयित्वा यज्ञकाले तु याजकान् । अप्रभुत्वश्व वर्तेत धर्मष्वादेहपातनात् ॥८
यज्ञाध्ययनदानानि कुर्यान्नित्यमतन्द्रितः । पितृकार्यपरचैव नरसिंहार्श्वनापरः ॥
एतद्वैश्यस्य धर्मोयं स्वधर्ममनुतिष्ठति । एतदाचरते योहि स स्वर्गी नात्र संशयः ॥ १०
वर्णत्रयस्य श्रुश्रूषां कुर्याच्छूद्रः प्रयत्नतः । दासवब्राह्मणानाभ्व विशेषेण समाचरेत् ॥११
अयाचितप्रदाता च कष्टं वृत्यर्थमाचरेत् ।
पाकयज्ञविधानेन यजेद्देवमतन्द्रितः ॥१२
शूद्राणामधिकं कुर्यादचनं न्यायवर्तिनाम् । धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टभोजनम् । म्वदारेषु रतिश्चैव परदारविवर्जनम् ॥१३ इत्थं कुर्यात् सदा शूद्रो मनोवाक्कायकर्मभिः । स्थानमैन्द्रमवाप्नोति नपापः सुपुण्यकृत् ॥१४
ऽध्यायः ]
ब्रह्मचर्याश्रमधमवर्णनम् ।
वर्णेषु धर्मा विविधा मयोक्ता यथातथा ब्रह्ममुखेरिताः पुरा । शृणुध्वमत्राश्रमधर्ममाद्यं मयोच्यमानं क्रमशो मुनीद्राः ॥ १५
इति हारीते धर्मशास्त्रे द्वितीयोऽध्यायः ।
O-
तृतीयोऽध्यायः ।
अथ ब्रह्मचर्याश्रमधर्मवर्णनम् ।
उपनीतो मानवको वसेद्गुरुकुलेपु च । गुरोः कुले प्रियं कुर्यात् कर्मणा मनसा गिरा ॥ १ ब्रह्मचर्य्यमधःशय्या तथा वह रुपासना । उदकुम्भान् गुरोर्दद्याद्गोग्रासञ्च धनानि च । कुर्य्यादध्ययनभ्यव ब्रह्मचारी यथा विधि । विधि
त्यक्ता प्रकुर्वाणो न स्वाध्यायफलं लभेत् ॥२ यः कश्चित् कुरुते धमं विधिं हित्वा दुरात्मवान् । न तत्फलमवाप्नोति कुर्वाणोऽपि विधिच्युतः ॥ ३ तस्मद्वेदत्रतानीह चरेत् स्वाध्यायसिद्धये । शौचाचारमशेषं तु शिक्षयेद् गुरुसन्निधौ ॥४ अजिनं दण्डकाष्ठभ्च मेखलाश्वोपवीतकम् । धारयेदप्रमत्तश्च ब्रह्मचारी समाहितः ॥५ सायं प्रातश्चरेद्वेक्षं भोज्याथं संयतेन्द्रियः । आचम्य प्रयतो नित्यं न कुर्याद्दन्तधावनम् ।
[[६०६]]
लघुहारीतस्मृतिः ।
छत्रभ्वोपानहभ्वव गन्धमाल्यादि वर्जयेत् । नृत्यगीतमथालापं मैथुनश्व विवर्जयेत् ॥ ६ हस्त्यश्वारोहणश्च ैव संत्यजेत् संयतेन्द्रियः । सन्ध्योपास्ति प्रकुर्वीत ब्रह्मचारी ब्रतस्थितः ॥७ अभिवाद्य गुरोः पादौ सन्ध्याकर्माव सानतः । तथा योगं प्रकुर्वीत मातापित्रोश्च भक्तितः ॥८ एतेषु त्रिषु नष्टेषु नष्टाः स्युः सर्वदेवताः । एतेषां शासने तिष्ठेद्ब्रह्मचारी विमत्सरः ॥६ अधीत्य च गुरो वेदान् वेदौ वा वेदमेव वा । गुरुवे दक्षिणां दद्यात् संयमी ग्राममावसेत् ॥१० यस्यैतानि सुगुप्तानि जिह्नोपस्थोदरं करः । संन्याससमयं कृत्वा ब्राह्मणो ब्रह्मचर्यया ॥११ तस्मिन्नेव नयेत् कालमाचार्य्यं यावदायुषम् । तदभावे च तत्पुत्रे तच्छिष्ये वाथवा कुले ॥१२ न विवाहो न संन्यासो नैष्ठिकस्य विधीयते ॥१३ इमं योविधिमास्थाय त्यजेद्देहमतन्द्रितः ।
[ तृतीयो-
नेह भूयोऽपि जायेत ब्रह्मचारी दृढव्रतः ॥ १४ यो ब्रह्मचारी विधिना समाहितश्चरेत् पृथिव्यां गुरुसेवने रतः । संप्राप्य विद्यामतिदुर्लभां शिवां फलभ्य तस्याः सुलभं तु विन्दति ॥१५
॥ इति हारीते धर्मशास्त्रे तृतीयोऽध्यायः ॥ऽध्यायः ]
गृहस्थाश्रमधर्मवर्णनम् ।
चतुर्थोऽध्यायः ।
अथ गृहस्थाश्रमधर्मवर्णनम् ।
गृहीतवेदाध्ययनः श्रुतशास्त्रार्थतस्ववित् ।
असमानार्षगोत्रां हि कन्यां सभ्रातृकां शुभाम् ॥१ सर्व्वावयवसंपूर्णा सुवृत्त । मुद्वहेन्नरः ।
ब्राह्मेण विधिना कुर्य्यात् प्रशस्तेन द्विजोत्तमः ॥२ तथान्ये बहवः प्रोक्ता विवाहा वर्णधर्म्मतः । औपासनश्च विधिवदाहृत्य द्विजपुङ्गवाः ! ॥३ सायं प्रातश्च जुहुयात् सर्वकालमतन्द्रितः । स्नानं काय्यं ततोनित्यं दन्तधावनपूर्व्वकम् ॥४ उषःकाले समुत्थाय कृतशौचो यथाविधि । मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः ॥५ तस्माच्छुष्कमथार्द्र वा भक्षयेद्दन्तकाष्ठकम् । करज खादिरं वापि कदम्वं कुरवं तथा ॥ ६ सप्तपर्णपृश्निपर्णीजम्बुनिम्बं तथैव च । अपामार्गभ्य विल्बध्वार्कध्वोदुम्बरमेव च ॥७ एते प्रशस्ताः कथिता दन्तधावनकर्म्मणि । दन्तकाष्ठस्य भक्षश्च समासेन प्रकीर्त्तितः ॥८ सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः । अष्टाङ्गुलेन मानेन दन्काष्ठमिहोच्यते । प्रादेशमात्रमदन्तान्थवा तेन विशोधनें ॥
[[६८१]]
[[६८२]]
लघुहारीतस्मृतिः ।
प्रतिपत्पर्वपष्ठीषु नवम्याञ्चैव सत्तमाः ! । दन्तानां काष्ठसंयोगाहहत्यासप्तमं कुलम् ॥१० अभावे दन्तकाष्ठानां प्रतिषिद्धदिनेषु च । अपां द्वादशगण्डूषैर्मुखशुद्धिं समाचरेत् ॥११ स्नात्वा मन्त्रवदाचम्य पुनराचमनं चरेत् । मन्त्रवत् प्रोक्ष्य चात्मानं प्रक्षिपेदुदकाञ्जलिम् ॥१२ आदित्येन सह प्रातर्मन्देहा नाम राक्षसाः । युद्धयन्ति वरदानेन ब्रह्मणोऽव्यक्तजन्मनः ॥१३ उदकाञ्जलिनिःक्षेपा गायत्र्या चाभिमन्त्रिताः ।
[ चतुर्थो..
निघ्नन्ति राक्षसान् सर्व्वान् मन्देहाख्यान् द्विजेरिताः ॥१४ ततः प्रयाति सविता ब्राह्मणैरभिरक्षितः । मरीच्याद्यैर्महाभागः सनकाद्यैश्च योगिभिः ॥१५ तस्मान्न लङ्घयेत् सन्ध्यां सायं प्रातः समाहितः । उल्लङ्घयति यो मोहात् स याति नरकं ध्रुवम् ॥ १६ सायं मन्त्रवदाचम्य प्रोक्ष्य सूर्य्यस्य चाञ्जलिम् । दत्त्वा प्रदक्षिणं कुर्य्याज्जलं स्पृष्ट्रा विशुद्धयति ॥१७ पूर्व्वा सन्ध्यां सनक्षत्रामुपासीत यथाविधि । गायत्रीमभ्यसेत्तावद् यावदादित्यदर्शनात् ॥ १८ उपास्य पश्चिमां सन्ध्यां सादित्याश्व यथाविधि । गायत्रीमभ्यसेतावद्यावत्तारा न पश्यति ॥ १६ ततश्चावसथं प्राप्य कृत्वा होमं स्वयं बुधः ।
।
सञ्चिन्त्य पोष्यवर्गम्य भरणार्थं विचक्षणः ॥२०
ऽध्यायः ]
गृहस्थाश्रमधमवर्णनम् ।
ततः शिष्यहितार्थाय स्वाध्यायं किश्विदाचरेत् । ईश्वरचैव काय्र्यार्थमभिगच्छेद्दिजोत्तमः ॥२१ कुशपुष्पेन्धनादीनि गत्वा दृरं समाहरेत । ततो माध्याह्निकं कुर्य्याच्छुचौ देशे मनोरमे ॥ २२ विधिं तस्य प्रवक्ष्यामि समासात् पापनाशनम् । स्नात्वा येन विधानेन मुच्यते सर्वकिल्विषात ॥२३ नानार्थं मृदमानीय शुद्धाक्षततिलैः सह । सुमनाश्च ततो गच्छेन्नदीं शुद्धजलाधिकाम् ॥२४ नद्यां तु विद्यमानायां न स्नायादन्यवारिणि । न स्नायादल्पतोयेषु विद्यमाने बहूदके ॥ २५ सरिद्वरं नदीस्नानं प्रतिस्रोतः स्थितश्चरेत् । तड़ागादिषु तोयेषु स्नायाच्च तद्भावतः ॥२६ शुचिदेशं समभ्युक्ष्य स्थापयेत् सकलाम्बरम् । मृत्तोयेन स्वकं देहं लिम्पेत् प्रक्षाल्य यत्नतः ॥ २७ स्नानादिकथ्व संप्राप्य कुर्यादाचमनं बुधः । सोऽन्तर्जलं प्रविश्याथ वाग्यतो नियमेन हि । हरि संस्मृत्य मनसा मज्जयेश्वोरुमज्जले ॥२८ ततस्तीरं समासाद्य आचम्यापः समन्त्रतः । प्रोक्षयेद्वारुणैर्मन्त्रैः पावमानीभिरेव च ॥२६ कुशाग्रकृततोयेन प्रोक्ष्यात्मानं प्रयत्नतः । स्योनापृथिवीति मृद्रात्रे इदं विष्णुरिति द्विजाः ! ॥३०
[[६८३]]
[[६८४]]
लघुहारीतस्मृति ।
ततो नारायणं देवं संस्मरेत् प्रतिमज्जनम् ।
निमज्यान्तर्जले सम्यक् क्रियते चाघमर्षणम् ॥३१
स्नात्वा क्षततिलैतद्वद्देवर्षिपितृभिः सह । तर्पयित्वा जलं तस्मान्निष्पीड्य च समाहितः ॥३२
जलवीरं समासाद्य तत्र शुक्ले च वाससी । परिधायोत्तरीयश्च कुर्य्यात् केशान्न धूनयेत् ॥३३२) न रक्तमुल्वणं वासो न नीलभ्व प्रशस्यते । मलाक्कं गन्धहीना वर्जयेदम्ारं बुधः ॥३४ यः प्रक्षालयेत् पादौ मृत्तों -४ विचक्षण । दक्षिणन्तु करं कृत्वा गोकर्णाकृतिवत् पुनः ॥३५ त्रिः पिवेदीक्षितं तोयमास्यं द्विः परिमयेत् ।ः पादौ शिरस्ततोऽभ्युदय त्रिभिरास्यमुपस्पृशेत् ॥३६ अङ्गुष्ठानामिकाभ्याञ्च चक्षुषी समुपस्त् । तथैव पश्चभिर्मूनि रशेदेवं समाहितः ॥३७ अनेन विधिनाचम्यमाणः शुद्धमानसः ।
कुर्वीत दर्भमुखः प्राङ्मुखोऽपि वा ॥१५
[ चतुः–
प्राणायाम
श्रीमान् यथान्यायमतन्द्रितः ।
जपयज्ञं ततः कुर्याद्रायत्री वेदमा
त्रिविधो जपयज्ञः स्यात्तस्य वृत्तं
बाचिकध उपांशुद्ध मानंस
विज्ञानी श्रेष्ठं ः
[[४०]]
ऽमवायः ]
गृहस्थाश्रमधर्मवर्णनम् ।
[[६८५]]
यदुच्चनीचोचरितैः शब्दः स्पष्टपदाक्षरैः ।
मन्त्रमुबारयन् वाचा जपयज्ञस्तु वाचिकः ॥४२ शनैरुच्चारयन्मन्त्रं किञ्चिदोष्ठौं प्रचालयेत् । किञ्चिच्छ्रवणयोग्यः स्यात् स उपांशुर्जपः स्मृतः ॥४३ धिया पदावरश्रेण्या अवर्णमपदाक्षरम् । शब्दार्थचिन्तनाभ्यान्तु तदुक्तं मानसं स्मृतम् ॥४४ जपेन देवता नित्यं स्तूयमाना प्रसीदति ।
।
प्रसन्ने विपुलान् गोत्रान् प्राप्नुवन्ति मनीषिणः ॥४५ राक्षसाश्च पिशाचाश्च महासर्पाश्च भीषणाः । जपितानोपसर्पन्ति दूरादेव प्रयान्ति ते ॥ छन्द ऋष्यादि विज्ञाय जपेन्मन्त्रमतन्द्रितः । जपेदहरद्दर्शात्या गायत्रीं मनसा द्विजः ॥१४७ सपरमां देवीं शतमंध्यां दशावराम् । गायत्री यो जपेन्नित्यं स न पापेन लिप्यते ॥१४८ अथ पुष्पाञ्जलिं कृत्वा भानवे चोद्ध वाहुकः । उदुश्यश्च जपेत् सूक्तं तचक्षुरिति चापरम् ॥४६ प्रदक्षिणमुपावृत्थं नमस्कुर्य्याद्दिवाकरम् । ततस्तीर्थेन देवादीनद्भिः सन्तर्पयेद्विजः ॥५० स्नानवस्तु निष्पीड्य पुनराचमनं चरेत् । तद्वद्भक्तजनस्येह खानं दानं प्रकीर्तितम् ॥५१
दर्भासीनों दर्भपाणिर्ब्रह्मयज्ञविधानतः ।
।
प्राङ्मुखो शव तु कुर्याच्छ्रासमन्वितः ॥५२
६८६ः
लघुहारीतस्मृतिः ।
ततोऽयं भानवे दद्यात्तिलपुष्पाक्षतान्वितम् । उत्थाय मूर्द्धपर्यन्तं हंसः शुचिवदित्युचा ॥५३ ततो देवं नमस्कृत्य गृहं गच्छेत्ततः पुनः । विधिना पुरुषसूक्तस्य गत्वा विष्णुं समर्थयेत् ॥५४ वैश्वदेवं ततः कुर्याद्वलिकर्मविधानतः । गोदोहमात्रमाकाङ्क्षेदतिथिं प्रति वै गृही ॥५५ अपूर्वमज्ञानमतिथिं प्राप्तमर्च्चयेत् ।
स्वागतासनदानेन प्रत्युत्थानेन चाम्बुना ॥ ५६ स्वागतेनाग्नयस्तुष्टा भवन्ति गृहमेधिनः । आसनेन तु दत्तंन प्रीतो भवति देवराट् ॥५७ पादशौचेन पितरः प्रीतिमायान्ति दुर्लभाम् । अन्नदानेन युक्तेन तृप्यते हि प्रजापतिः ॥ ५८ तस्मादतिथये कार्यं पूजनं गृहमेधिना ।
भक्त्या च शक्तितो नित्यं विष्णोरर्थादनन्तरम् ॥५६ भिक्षाभ्व भिक्षवे दद्यात् परिव्राब्रह्मचारिणे । अकल्पितान्नादुद्धृत्य सव्यञ्जनसमन्विताम् ॥६० अकृते वैश्वदेवेऽपि भिक्षौ च गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षां दत्वा विसर्जयेत् ॥ ६१ वैश्वदेवाकृतान् दोषान्छतो भिक्षुर्व्यपोहितुम् । नहि भिक्षुकृताम् दोषान् वैश्वदेवो व्यपोहति ॥ ६२ तस्मात् प्राप्ताय यतये भिक्षां दद्यात् समाहितः । विष्णुरेव यतिच्छायइति निश्चित्य भावयेत् ॥ ६३
[ चतुर्थी-
ऽध्यायः ]
गृहस्थाश्रमवमवर्णनम् ।
सुवासिनी कुमारी भोजयित्वा नगनपि । बालवृद्धांस्ततः शेर्पा स्वयं भुञ्जीत वा गृही ॥ ६४ प्राङ्मुखोदङ्मुग्वो वापि मौनी च मितभाषकः । अन्नमादौ नमस्कृत्य प्रहृष्टनान्तरात्मना ॥६५ एवं प्राणाहुति कुर्यान्मन्त्रेण च पृथक् पृथक् । ततः स्वादुकरान्नश्च भुञ्जीत सुसमाहितः ॥६६ आचम्य देवतामिष्टां संम्मरन्नुदरं स्पृशेत् । इतिहासपुराणाभ्यां कश्चित कालं नयेद्बुधः ॥६७ ततः सन्ध्यामुपासीत वहिर्गत्वा विधानतः । कृतहोमस्तु भुञ्जीत रात्रौ चातिथिभोजनम् ॥ ६८ सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नान्तराभोजनं कुर्यादग्निहोत्रसमो विधिः ॥६६ शिष्यानध्यापयेच्चापि अनध्याये विसर्जयेत् । स्मृत्युक्तानखिलांश्चापि पुराणोक्तानपि द्विजः ॥ ७० महानवम्यां द्वादश्यां भरण्यामपि पर्वसु । तथाक्षयतृतीयायां शिष्यान्नाध्यापयेद्विजः ॥७१ माघमासे तु सप्तम्यां रथ्याख्यायां तु वर्जयेत् । अध्यापनं समभ्यञ्जन् स्नानकाले च वर्जयेत् ॥७२ नीयमानं शवं दृष्टा महीस्थं वा द्विजोत्तमाः । न पठेद्रुदितं श्रुत्वा सन्ध्यायां तु द्विजोत्तमः ॥७३ दानानि च प्रदेयानि गृहस्थेन द्विजोत्तमाः । हिरण्यदानं गोदानं पृथिवीदानमेव च ॥७४
[[६८७]]
[[૧૮૮]]
लघुहारितस्मृतिः ।
एवं धर्मो गृहस्थस्य सायंभूत उदाहृतः ।
य एवं श्रद्धया कुर्यात् स याति ब्रह्मणः पदम् ॥७५ ज्ञानोत्कर्षश्च तस्य स्यान्नारसिंहप्रसादतः ।
तस्मान्मुक्तिमवा’ नोति ब्राह्मणो द्विजसत्तमाः ! ॥७६
चतुर्थी-
एवं हि विप्राः ! कथितो मया वः समासतः शाश्वतधर्मराशिः । गृही गृहस्थस्य सतो हि धर्म कुर्वन् प्रयत्नाद्धरिमेति युक्तम् ॥७७ इति हारीते धर्मशास्त्रे चतुर्थोऽध्यायः ।
॥ पश्चमोऽध्यायः ॥
अथ वानप्रस्थाश्रमधर्मवर्णनम् ।
अतः परं प्रवक्ष्यामि वानप्रस्थस्य सत्तमाः ! । धर्माश्रमं महाभागाः ! कथ्यमानं निबोधत ॥ १ गृहस्थः पुत्रपौत्रादीन् दृष्ट्वा पलितमात्मनः । भाय पुत्रेषु निःक्षिप्य सह वा प्रविशेद्वनम् ॥२ नखरोमाणि च तथा सितगात्रत्वगादि च । धारयन् जुहुयादप्रिं वनस्थो विधिमाश्रितः ॥३ धान्यैश्च वनसंभूतैनीवाराद्यैरनिन्दितैः । शाकमूलफलैर्वापि कुर्यान्नित्यं प्रयत्नतः ॥ ४ त्रिकालस्नानयुक्तस्तु कुर्य्याचीत्रं तपस्तदा ।
पक्षान्ते वा समश्नीयान्मासान्ते वा स्वपक्कभुक् ॥५
ऽम्बायः ]
वानप्रस्थाश्रमधर्मवर्णनम् ।
तथा चतुर्थकाले तु भुञ्जीयादष्टमेऽथवा ।
षष्ठे च कालेऽप्यथवा वायुभक्षोऽथवा भवेत् ॥६ घर्मे पश्वाग्निमध्यस्थस्तथा वर्षे निराश्रयः ।
हेमन्ते च जले स्थित्वा नयेत् कालं तपश्चरन् ॥७ एवश्व कुर्वता येन कृतबुद्धिर्यथाक्रमम् ।
अभि स्वात्मनि कृत्वा तु प्रव्रजेदुत्तरां दिशम् ॥८ आदेहपातं वनगो मौनमास्थाय तापसः ।
स्मरन्नतीन्द्रियं ब्रह्म ब्रह्मलोके महीयते ॥६
[[६८६]]
तपो हि यः सेवति वन्यवासः समाधियुक्तः प्रयतान्तरात्मा । विमुक्तपापो विमलः प्रशान्तः स याति दिव्यं पुरुषं पुराणम् ॥१०
इति हारीते धर्मशास्त्रे पञ्चमोऽध्यायः ।
॥ षष्ठोऽध्यायः ॥
अथ सन्न्यासाश्रमधर्मवर्णनम् ।
अतः परं प्रवक्ष्यामि चतुर्थाश्रममुत्तमम् । श्रद्धया तदनुष्ठाय तिष्ठन्मुच्येत बन्धनात् ॥१ एवं वनाश्रमे तिष्ठन् पातयंश्चैव किल्विषम् । चतुर्थमाश्रमं गच्छेत् संन्यासविधिना द्विजः ॥२ दत्त्वा पितृभ्यो देवेभ्यो मानुषेभ्यश्च यत्नतः । दत्वा श्राद्ध पितृभ्यश्च मानुषेभ्य स्तथात्मनः ॥३
[[६६०]]
लघुहारीतस्मृतिः ।
इष्टिं वैश्वानरीं कृत्वा प्राङ्मुखोदङ्मुखोऽपि वा । अग्निं स्वात्मनि संरोप्य मन्त्रवित् प्रव्रजेत् पुनः ॥४ ततः प्रभृति पुत्रादौ स्नेहाला पादि वर्जयेत् । बन्धूनामभयं दद्यात् सर्वभूताभयं तथा ॥५ त्रिदण्डं वैणवं सम्यक् सन्ततं समपर्वकम् । वेष्टितं कृष्ण गोवालरज्जुमच्चतुरङ्गुलम् ॥६ शौचार्थं मानसार्थच्च मुनिभिः समुदाहृतम् । कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीम् ॥७ पादुके चापि गृह्णीयात् कुर्यान्नान्यस्य संग्रहम् । एतानि तस्य लिङ्गानि यतेः प्रोक्तानि सर्वदा ॥८ संगृह्य कृतसंन्यासो गत्वा तीर्थमनुत्तमम् । स्नात्वाचम्य च विधिवद्वस्त्रपूतेन वारिणा ॥ तयित्वा तु देवांश्च मन्त्रवद्भास्करं नमेत् । आत्मनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ॥ १० गायत्रीभ्व यथाशक्ति जप्त्वा ध्यायेत् परंपदम् । स्थित्यर्थमात्मनो नित्यं भिक्षाटनमथाचरेत् ॥११ सायंकाले तु विप्राणां गृहाण्यभ्यवपद्य तु । सम्यक् याचेश्च कवलं दक्षिणेन करेण वै ॥१२ पात्रं वामकरे स्थाप्य दक्षिणेन तु शेषयेत् । यावतान्नेन तृप्तिः स्यात्तावद्भैक्षं समाचरेत् ॥१३ ततो निवृत्य तत्पात्रं संस्थाप्यान्यत्र संयमी । चतुर्भिर कुलेश्छाद्य प्रासमात्रं समाहितः ॥ १४
[ षष्ठो-ऽध्यायः ]
सन्न्यासाश्रमधर्मवर्णनम् ।
[[६६१]]
सर्वव्यञ्जनसंयुक्तं पृथक् पात्रं नियोजयेत् । सूर्यादिभूतदेवेभ्यो दत्वा संप्रोक्ष्य वारिणा ॥१५ भुञ्जीत पात्रपुटके पात्रे वावभ्यतो यतिः । वटकाश्वत्थपर्णेषु कुम्भीतेन्दुकपात्रके ॥१६ कोविदारकदम्बेषु न भुञ्जीयात् कदाचन । मलाक्ताः सर्व उच्यन्ते यतयः कांस्यभोजिनः ॥१७ कांस्यभाण्डेषु यत पाको गृहस्थस्य तथैव च । कांस्ये भोजयतः सर्वं किल्विषं प्राप्नुयान्तयोः ॥१८ भुक्त्वा पात्रे यतिर्नित्यं क्षालयेन्मन्त्रपूर्वकम् । न दूष्यते च तत्पात्रं यज्ञेषु चमसा इव ॥ १६ अथाचम्य निदिध्यास्य उपतिष्ठेत भास्करम् । जपध्यानेतिहासैश्च दिनशेषं नयेद्बुध. ॥२० कृतसम्भ्यस्ततो रात्रिं नयेदेवगृहादिषु । हृत्पुण्डरीक निलये ध्यायेदात्मानमव्ययम् ॥२१ यदि धर्मरतिः शान्तः सर्वभूतसमो वशी । प्राप्नोति परमं स्थानं यत्प्राप्य न निवर्तते ॥२२ त्रिदण्डभृयोहि पृथक् समाचरेच्छनैः शनैर्यस्तु वहिर्मुखाधः । संमुच्य संसारसमस्तबन्धनात् स याति विष्णोरमृतात्मनः पदम् ॥ २३
इति हारीते धर्मशास्त्रं षष्ठोऽध्यायः ।
E&
लबुहारीबस्मृतिः ।
॥ सप्तमोऽध्यायः ॥
अथ योगवर्णनम् ।
वर्णानामाश्रमाणाभ्य कथितं धर्मलक्षणम् । येन स्वर्गापवर्गभ्व प्राप्नुवन्ति द्विजातयः ॥ १ योगशाखं प्रवक्ष्यामि सङ्क्षेपात् सारमुत्तमम् । यस्य च श्रवणाद्यान्ति मोक्षन्वैव मुमुक्षवः ॥२ योगाभ्यासबलेनैव नश्येयुः पातकानि तु । तस्माद्योमंपरो भूत्वा ध्यायेन्नित्यं क्रियापरः ॥३ प्राणायामेन वचनं प्रत्याहारेण चेन्द्रियम् । धारणाभिर्वशे कृत्वा पूर्व दुर्धषणं मनः ॥४ एकाकारमना मन्दं बुधैरुपमलामयम् । सूक्ष्मात् सूक्ष्मतरं ध्यायेत् जगदाधारमुच्यते ॥५ आत्मानं वहिरन्तथं शुद्धचामीकरप्रभम् । रहस्येकान्तमासीनो ध्यायेदामरणान्तिकम् ॥६ यत्सर्वप्राणि हृदयं सर्वेषाञ्च हृदिखितम् । मथ सर्वजनयिं सोऽहमस्मीति चिन्तयेत् ॥७
आत्मलाभसुखं यावतपोध्यानमुदीरितम् । श्रुतिस्मृत्यादिकं धर्म तद्विरुद्व न चाचरेत् ॥८ यथा रथोऽश्वहीनस्तु यथाश्वो रथिहीनकः । एवं तपश्च विद्या च संयुतं भैषजं भवेत ॥
[ सप्तमो-'
ऽध्यायः ]
योगवर्णनम् ।
यथान्नं मधुसंयुक्तम् मधुवानेन संयुतम् ।
उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणां गतिः ॥१० तथैव ज्ञानकमभ्यां प्राप्यते ब्रह्म शाश्वतम् । विद्यातपोभ्यां संपन्नो ब्राह्मणो योगतत्परः ॥ ११ देहद्वयं विहायाशु मुक्तो भवति बन्धनात् । न तथा क्षीणदेहस्य विनाशो विद्यते क्वचित् ॥ १२ मया ते कथितः सर्व्वे वर्णाश्रमविभागशः । संक्षेपेण द्विजश्रेष्ठा ! धर्मस्तेषां सनातनः ॥१३ श्रुत्वैवं मुनयो धर्मं स्वर्गमोक्षफलप्रदम् । प्रणम्य तमृषिं जग्मुर्मुदिताः स्वं स्वमाश्रमम् ॥१४ धर्मशास्त्रमिदं सर्वं हारीतमुखनिःसृतम् । अधीत्य कुरुते धर्मं स याति परमां गतिम् ॥१५
।
ब्राह्मणस्य तु यत् कर्म कथितं वाहुजस्य च । ऊरुजस्यापि यत कर्म्म कथितं पादजस्य च । अन्यथा वर्तमानस्तु सद्यः पतति जातितः ॥१६ यो यस्याभिहितो धर्मः स तु तस्य तथैव च । तस्मात् स्वधर्म कुर्वीत द्विजो नित्यमनापदि ॥१७ वर्णाश्चत्वारो राजेन्द्र । चत्वारश्चापि चाश्रमाः । स्वधमं ये तु तिष्ठन्ति ते यान्ति परमां गतिम् ॥१८ स्वधर्मेण यथा नृणां नारसिंहः प्रसीदति । न तुष्यति तथान्येन कर्मणा मधुसूदनः ॥ १६
[[६३]]
SER
वृद्धहारीतस्मृतिः ।
अतः कुर्वन्निजं कर्म्म यथाकालमतन्द्रितः ।
[ प्रथसो-
सहस्रानीकदेवेशं नारसिंहव सालयम् ॥२० उत्पन्नवैराग्यबलेन योगो ध्यायेत्परं ब्रह्म सदा क्रियावान् । सत्यं सुखं रूपमनन्तमाद्यं विहाय देहं परमेति विष्णोः ॥२१ इति लघुहारीते धर्मशास्त्रे सप्तमोऽध्यायः ।
इति लघुहारीतस्मृतिः समाप्ता ।
ॐ तत्सत् 1
॥ अथ ॥