( सुत्रतमुनिप्रोक्ता )
॥ श्रीगणेशाय नमः ॥
-:०००ः-
॥ प्रथमोऽध्यायः ॥
तत्रादौ वर्णाश्रमप्रश्नम् ।
व्यक्ताव्यक्ताय देवाय वेधसेऽनन्नतेजसे । नमस्कृत्य प्रवक्ष्यामि धर्मान् पाराशरोदितान् ॥१ अथातो हिमशैलाग्रे देवदारुवनाश्रमे । व्यासमेकाग्रमासीन मृग्यः प्रद्रुमागताः ॥२ मनुष्याणां हितं धर्मं वर्तमाने कलौ युगे । वर्णानामाश्रमाणाञ्च किञ्चित्साधारणं वद ॥३ युगे युगेषु ये प्रोक्ता धर्मा मन्वादिभिर्मुने ! । वाक्यं तेनैव ते कर्त्तुं वर्णैराश्रमवासिभिः ॥४ स पृष्टो मुनिभिर्व्यासो मुनिभिः परिवेष्टितः । प्रष्टुं जगाम पितरं धर्मान् पराशरं ततः ॥५ सर्वेषामाश्रमाणाभ्व वरे वदरिकाश्रमे ।
स विवेशाश्रमे तस्मिन् तनुं योगीव वेधसः ॥६
वर्णाश्रमधर्मवर्णनम् ।
नानापुष्पलताकीर्णे फलपुष्पैरलङ्कृते । नदी प्रस्रवणानेकैः पुण्यतोर्थोपशोभिते ॥७ मृगपक्षिभिराकीर्णे देवतायतनावृते । यक्ष गन्धर्व सिद्धश्च नृत्यगीतसमाकुले ॥८ तस्मिन्नृषि सभामध्ये शक्तिपुत्रः शराशरः । सुखासीनो महातेजा मुनिमुख्य गणावृतः ॥ कृताञ्जलिपुटो भूत्वा व्यासस्तु मुनिभिः सह । प्रदक्षिणाभिवादेश्व मुनिभिः प्रति पूजितः ॥१० ततः सन्तुष्टमनसा पाराशरमहामुनि । व्यामस्य स्वागतं ब्रूयाद् आमीनो मुनिपुङ्गवः ॥११ वशस्य स्वागतं तेऽस्तु महर्षीणां समन्ततः । कुशलं कुशलेत्युक्ता व्यामो पृच्छतः परम् ॥ १२ यदि जानासि मां भक्तं स्नेहोवा यदि वत्सल । धम कथय मे तातः अनुप ह्यो ऽस्म्यहं यदि ॥१३ श्रुतास्तु मानवा धर्मा गार्गीया गौतमास्तथा । वासिष्ठाः काश्यपचैव तथा गोपालकम्य च ॥१४ आत्रेया विष्णु सम्बर्ता दाक्षाश्चाङ्गिरसान्तथा । शातातपाश्च हारीता याज्ञवल्भ्यकृतान्तथा ॥१५ आपस्तम्बकृता धर्माः सशङ्खलिखितास्तथा । कात्यायनकृताचैव प्रचेत मकृतास्तथा ॥१६
श्रुतिरात्मोद्भवा तात ! श्रत्यर्था मानवाः स्मृताः । मन्वर्थः सर्वधर्माणां कृतादि त्रियुगेषु च ॥ १७
[[६८३]]
[[६८४]]
वृहत्पराशरस्मृतिः ।
धर्म तु त्रियुगाचारं स शक्यं हि कलौ युगे । वर्णानामाश्रमाणा व किञ्चित्साधारणं वद ॥१८ व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः । सुखासीनो महातेजा इदं वचनमब्रवीत् ॥१६ क्रियन्ते नैव वेदाश्च नैवाति प्रभवन्ति ते । न कश्चिदकर्ताऽस्ति वेदस्मर्ता चतुर्मुखः ॥२० तथा स धर्मं स्मरति मनुः कल्पान्यन्तरे । अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे ॥ २१ अन्ये कलियुगे नृणां युगह्रासानुरूपतः । तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ॥२२ द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ।
कृते तु मानवा धर्मास्त्रिंतायां गौतमस्य च ॥२३ द्वापरे शाङ्ख- लिखिताः कलौ पाराशराः स्मृताः । त्यजेद्देशं कृतयुगे त्रेताया ग्राममुत्सृजेत् ॥ २४ द्वापरे कुलमेकं तु कन्तरश्च कलौ युगे । कृते सम्भाष्य पतति त्रेतायां स्पर्शनेन च ॥२५ द्वापरे भक्षणेनस्य कलौ पतति कर्मणा । अभिगम्य कृते दानं त्रेतामाहूय दीयते ॥२६ द्वापरे याच्यमानन्तु सेवया दीयते कलौ । अभिगम्योत्तमं दानमाहूतञ्चैव मध्यमम् ॥२७ अधमं याच्यमानं स्यात् सेवादानश्व निष्फलम् । कृते त्वस्थिगताः प्राणास्त्रेतायां मांसमेव च ॥२८
[ प्रथमो-
ऽध्यायः ]
वर्णाश्रमधर्मवर्णनम् ।
द्वापरं रुधिरं यावत्कलौत्वन्नाद्यमेव च ।
कृते तात्क्षणिकः शापस्त्रेतायां दशभिर्दिनैः ॥ मासेन द्वापरं ज्ञेयः कलौ सम्वत्सरेण तु । युगे युगेषु ये धर्मास्तेषु धर्मेषु ये द्विजाः ॥ ३० ते द्विजा नावमन्तव्या युगपा द्विजोत्तमाः । धर्मश्च सत्यमायुश्च तुय्यांशन कलौ युगे ॥ ३१ अदनात्तदनाद्यम्य तुच्छमायुरकार्य्यतः । धर्मश्व लोकम्भार्थं पापण्डार्थ तपस्विनः ॥ ३२ विविधा वाग्वश्वनाथं कलौ सत्यानुसारिणी । अल्पक्षीर- घृता गावो ह्यल्पमस्या च मेदिनी ॥ ३३ स्त्रीजनन्यः स्त्रियः सर्वा रत्यर्थं कृतमैथुनाः । पुरुषाश्च जिताः स्त्रीभी राजानो दस्युभिर्जिताः ॥ ३४ जितो धर्मश्च पापेन अनृतेन तथा तम । शूद्राश्च ब्राह्मगाचाराः शूद्राचारास्तथा द्विजाः ॥ ३५ अन्त्यानुयायिनश्वाढ्या वर्णास्तदुपजीविनः । कृतन्तु ब्राह्मणयुगं त्रेता तु क्षत्रियं युगम् ॥३६ वैश्यं तु द्वापरयुगं कलिः शूद्रयुगं स्मृतम् । चातुर्वणिकनारीणां तथा तुरीयजन्मनी ॥३७
[[६८५]]
यति (पति) द्विजा (त्युपास्त्यापि )भ्युपास्त्यादि धर्मद्धिर्महतीकलौ । शतेन या कृते दत्ते फलाप्तिः पुरुषस्य सा ॥ ३८ दत्तेषु दशभिर्नृणां फलाप्तिः स्यात् कलौ युगे । कृते यत् कोटिदस्य स्यात् त्रेतायां लक्षदस्य तत् ॥३६
[[६८६]]
वृहत्पराशरस्मृतिः ।
[ प्रथमो-
द्वापरे ज्युतदस्य स्यात् शतदस्य कलौ फलम् । युगस्वरूपमाख्यातमन्यं निगदतः श्रुणु ॥ ४० वर्णानामाश्रमाणाश्च सर्वपां धर्मसाधनम् । मृगः कृष्णश्वरंयत्र स्वभावेन महीतले ॥४१ वसेत्तत्र द्विजातिस्तु शद्रो यत्र तु तत्र तु । हिमपर्वतविन्ध्यादयो विनशन - प्रयागयोः ॥४२ मध्ये तु पावनो देशो म्लेच्छदेशस्ततः परम् । देशेय्वन्येषु या नद्यो धन्याः सागरगाः शुभाः ॥४३ तीर्थानि यानि पुण्यानि मुनिभिः सेवितानि च । वसेयुस्तदुपान्तेऽपि शमिच्छन्तो द्विजातयः ॥ ४४ मुनिभिः सेवितत्वाच पुण्यदेशः प्रकीर्तितः । यत्र पानमपेयस्य देशेऽभक्ष्यस्य भक्षणम् ॥४५ अगम्यागामिता यत्र तं देशं परिवर्जयेत् । एवं देशः समाख्यातो यज्ञियस्तु द्विजन्मनाम् ॥४६ एवमेवानुवर्त्तन्देशं धर्मानुकाङ्क्षिणः ।
वसन् वा यत्र तत्रापि स्वाचारं न विवर्जयेत् ॥४७ पट्कर्माणि च कुर्वीरन्निति धर्मस्य निश्चयः ।
!!
पराशरः स्वयम्प्राह शास्त्रं युत्रस्य वत्सलः ॥४८ अथातः सम्प्रवक्ष्यामि द्विजकर्मादिकं द्विजाः ! । पट्कर्म-वर्णधर्माश्च प्रशंसा गोवृषस्य च ॥४६ अदो- वाह्यौ यौ तत्र क्षीरं क्षीरप्रयोक्तिणा । अमावास्यानिषिद्धानि ततश्च पशुपालनम् ॥५०
ऽध्यायः ]
धर्मविषयवर्णनम् ।
[[६८७]]
अन्न तोयप्रशंसा च वाह्याऽवाह्यावसुन्धरा । अथार्थकृपतोऽपानं तदप्यम्यापि शोधनम् ॥ ५१ बह्नि सोतामवञ्चापि विवाहाः कन्यकावराः । स्त्रोपु (पुं) धर्मो मग्वाः पञ्च द्विजातिस्वर्गमाधनाः ॥५२ विधिः प्राणाऽग्निहोत्रम्य आवानादिकसंस्कृतिः । व्रतचर्य्यादि तद्धर्मः प्रशसा पुत्रजन्मनः ॥ ५३ कृत्स्नो गृहस्थधर्मश्च भक्ष्याभक्ष्यं तथैव च । निषिद्धवस्तुकथनं पात्रशुद्धिस्तनः परम् ॥५४ द्रव्याणाञ्च तथाशुद्धिरुगकर्माणि कर्म च । अनध्यायास्तथा श्राद्धं विप्र-काल- हविर्युतम् ॥५५
बलिर्नारायणीयश्च सूतकाशौचमेव च ।
परिपत्प्रायश्चित्तानि तद्वतानि यथा द्विजाः ! ॥५६ विवित्सर्वदानानि तेषाञ्चैव फलानि च । भूमिदानप्रशंसा च विशेषो विप्र कालयोः ॥ ५७ इष्टापूर्त्ता तथा विद्वन् ! तयोर्भिन्नफलानि च । प्रतिग्रहविधिस्तद्वयथा तम्य प्रतिग्रहः ॥५८ विनायकादिशान्तीनां विवयश्च द्विजोत्तमाः । । वानप्रस्थस्य धर्मोऽपि तथा धर्मो यतेरपि ॥५६ चतुराश्रमभेदोऽपि वपुर्निन्दा तथैव च । योगोऽचिर्धममार्गौ च कालं रुद्रान्तमेव च ॥ ६० दृश्च तत्परं ध्येयं सर्वमेतत्पराशरः ।
प्रोक्तवान् व्यासमुख्यानां शेषं मुनिविभाषितम् ॥६१
[[६८८]]
वृहत्पराशरस्मृतिः ।
[ द्वितीयो-
नियुक्तः सुत्रतः शेषं विप्राणां ख्यापनाय च ॥ ६२
पराशरो व्य स वचो निशम्य
यदाह शास्त्रं चतुराश्रमार्थम् ।
युगानुरूपञ्च समम्तवर्ण-
हिताय वक्ष्यत्यथ सुत्रतस्तन ॥६३
शक्तिसूनोरनुज्ञातः सुतपाः सुत्रतत्विदम् । चतुर्वर्णाश्रमाणाञ्च हितं शास्त्रमथाब्रवीत् ॥६४
इति श्रीवृहत्पाराशरीये धर्मशास्त्रे व्यासप्रश्ने सुत्रतप्रोक्तायां शास्त्रसंग्रहोंशकथनं नाम प्रथमोऽध्यायः ।
॥ द्वितीयोऽध्यायः ॥
आचारधर्मवर्णनम् ।
पराशरमतं पुण्यं पवित्रं पापनाशनम् । चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ॥ १
चतुर्णामपि वर्णानामाचारो धर्मपालनम् । आचार भ्रप्रदेहानां भवेद्धर्मः पराङ्मुखः ॥२ षट्कर्माभिरतो नित्यं देवताऽतिथिपूजकः । हुतशेषन्तु भुञ्जानो ब्राह्मणो नावसीदति ॥३
ऽध्यायः ]
नित्य षट्कर्मवर्णनम् ।
[[६८६]]
( व्यासउवाच )
कर्माणि कानीह कथञ्च तानि कार्याणि वर्णैश्च किमाद्यकानि । तेषामनेहाकरणे विधिश्च
सवं प्रसादान् प्रतनुष्व मह्यम् ॥४
( पराशर उवाच )
कर्मषट्कं प्रवक्ष्यामि यत् कुर्वन्तो द्विजातयः । गृहस्था अपि मुच्यन्ते संसारै बन्धहेतुभिः ॥५ अथोद्देशक्रमं शास्त्रं यच्छ्रतं श्रुतिदृष्टिकृत् । तदुक्तं कर्म यत् पुंसां शृणुध्वं पापनाशनम् ॥६ सन्ध्या स्नानं जपश्चैव देवतानाच पूजनम् । वैश्वदेवं तथाऽऽतिथ्यं षट्कर्माणि दिने दिने ॥७ प्रियो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा । वैश्यदेवे तु सम्प्राप्तः सोऽतिथि स्वर्गसङ्क्रमः ॥८ सन्ध्यामथ प्रवक्ष्यामि देवता - काल - नामभिः । वर्णर्षि - छन्दसा युक्ता यद्विधानं यथार्चनम् ॥ यावन्मन्त्रा यथोपा स्तिरुपस्पर्शनमेव च ।
आवाहनं विसर्गभ्व यावन्मानं (मन्त्र) क्रमेण तु ॥१० दिवसस्य च रात्रेश्च सधिः सन्ध्येति कीर्तिता ॥११ सोपास्या सद्विजैर्यत्नात् स्यात्तैर्विश्वमुपासितम् । मध्याहऽपि च सन्धिः स्यात् पूर्वस्याह्नः परस्य च ॥ १२
[[४४]]
[[६६०]]
वृहत्पराशरस्मृतिः ।
[ द्वितीयो-
पूर्वाह्णो ह्यपराह्नस्तु क्षपा चंति श्रुतिक्रमः । पूर्वा सन्ध्या तु गायत्री ब्रह्माणी हंसवाहना ॥१३ रक्तपद्मारुणा देवी रक्तपद्मासनस्थिता ।
रक्ताभरणभासाङ्गा रक्तमाल्याम्बरा तथा ॥ १४ अक्षमाला म्रग्धरा च वरहस्ता मराचिता । प्रागादित्योदयाद्विद्वान् मुर्त वैसे सति ॥ १५ “प्रातः संध्यां सनक्षत्रामुपासीत यथाविधि । साहित्यां पश्चिमां सन्ध्यामधस्तमितभास्कराम ॥ उत्थायोपामयेत्नन्ध्यां यावत् स्यादर्कदर्शनम् । विश्वमातः ! सुराभ्यर्च्य ! पुण्ये ! गायत्रि ! वैधमि ! ॥१६ आवाहयाम्युपास्त्य एनोफिन पुनीहि माम ।
सन्ध्या माध्याह्निकी श्वेता सावित्री रुद्रदेवता ॥ १७
वृषन्द्रवाहना देवी ज्वलत्त्रिशिखधारिणी ।
श्वेताम्बरधरा श्वेता नानाभरणभूषिता ॥१८
श्वेतप्रगक्षमाला च कृतानुरक्तिशङ्करा ।
जलाधारा धरा धात्री धरेन्द्राङ्गभवा तथा ॥ १६ स्वभाविभातभूराद्या सुरौधनुतपाद्वया ।
मातर्भवानि । विश्वेशि ! विश्वे विश्वजनार्चिते ! ॥२०
!
शुभे ! बरे! वरेण्यैहि आहूतासि पुनीहि माम् ॥२१ सन्ध्या सायन्तनी कृष्णा विष्णुदेवी सरस्वती ।
खग्रगा. कृष्णवस्त्रा तु शङ्खचक्रगदाधरा ॥२२ऽध्यायः ]
सन्ध्याकृत्यवर्णनम् ।
कृष्णाग्भूषणैर्युक्ता सर्वज्ञानमया वरा ।
सर्ववाग्देवता सर्वा ब्रह्मादिवचसि स्थिता ॥२३ वीणा - Saमालिका चापहस्ता स्मितवरानना । चतुर्दशजनाभ्यर्ष्या कल्याणी शुभवाक्प्रदा ॥२४ मातर्वाग्देवि ! वरदे ! वरेण्ये ! वचनप्रदे ! । सर्वमरुद्रणस्तुत्ये! आहृतेहि ! पुनीहि माम ॥२५ ब्रशार्क हरीणां तु सङ्गमोऽस्तूभयोर्भवन । माध्याल्लिकायां सन्ध्यायां सर्वदेवसमागमः ॥२६ पूजाभिकाङ्क्षिणो ये च ये च किञ्चिज्जलार्थिनः । श्राद्धान्नभागधेया ये ये चाग्निहुत भागिनः ॥ २७ अन्यान्युच्चावचानीह स्थावराणि चराणि च । माध्यासिकीमपेक्षन्ते तेपामाप्यायिका हि सा ॥२८ यातस्यां नार्चयेवांस्तर्पयेन्न पितृस्तथा । भूता युजाव चानीह सोऽन्वतामिस्रमृच्छति ॥२६ ईशान्याभिमुखो भूत्वा द्विजः पूर्वमुग्वोऽपि वा । सन्ध्यामुपासयेद्यद्वत्तथाबत्तन्निबोधत ॥ ३०
आ मणेर्बन्धनाद्धरतौ पादौ चा ऽऽजानुतः शुचिः । प्रक्षऽऽल्या वमेद्विद्वानन्तर्जानु करो द्विजः ॥३१ निर्मलात् फेनपूताभि मनोज्ञाभिः प्रयत्नवान् । आचामेद्ब्रह्मतीर्थेन पुनराचमनाच्छुचिः ॥ ३२
॥ वक्त निर्मार्जनं कृत्वा द्विस्तेनैवाधरान्यथा । अद्भिश्च संस्पृशेत् खानि सर्वाण्यपि विशुद्धये ॥ ३३
[[६६६]]
[[६६२]]
वृहत्पराशर स्मृतिः ।
[ द्वितीयो-
अङ्गुष्ठेन प्रदेशिन्या सव्यपाणिस्थवारिणा । घ्राणं संस्पृश्य नेगे च तेनानामिकया श्रुतीः ॥ ३४ नाभिश्च तत्कनिष्ठाभ्यां बक्षः करतलेन च । शिरः सर्वाभिरंसौ च यङ्गुल्यमैश्च संस्पृशेत् ॥३५ आचम्य प्राणसंरोधं कृत्वा चोपस्पृशेत्पुनः । अत्रोपस्पर्शने मन्त्रं प्रातः केचित्पठन्ति हि ॥३६ सूर्य्यश्वमेति मन्त्रेण प्रातराचमनं स्मृतम् । ‘आपः पुनन्तु’ मध्याह्न सायमग्निश्वमेति च । मन्त्राभिमन्त्रितं कृत्वा कुशपूतभ्व तज्जलम् ॥३७ आचम्य विधिवद् धीमान् सन्ध्योपासनमाचरेत् ॥३८ सोङ्कारं चैव गायत्री जप्त्वा व्याहृतिपूर्वकम् । आपोहिष्ठादि जल्पन्ति च्छन्दो- देवर्षिपूर्वकम् ॥३६ छन्दोभिर्विनियोगैश्च मन्त्र- ब्राह्मणसंयुतम् । एतद्धीने न कुर्वीत कुर्य्यात् तत्तदासुरम् ॥४० मृत्युभीतैः पुरा देवैरात्मनश्छादनाय च । छन्दांसि संस्मृतानीह च्छादितास्तैरतोऽमराः ॥४१ छादनाच्छन्द उहि वाससी कृतिरेव वा । छन्दोभिरावृतं सर्व विद्या सर्वत्र नान्यतः ॥ ४२ यस्मिन्मन्त्रे तु ये देवा स्तेन मन्त्रत्रेण चिह्नितम् । मन्त्र तद्दैवतं विद्यात् सैत्र तस्य तु देवता ॥४३ येन यदृषिणां सिद्धिः प्राप्ता तु येन वै । मन्त्रेण तस्य स प्रोक्तो मुनेर्भावस्तदात्मकः ॥ ४४
।
ऽध्यायः ]
सन्ध्याकृत्यवर्णनम् ।
यत्र कर्मणि चारब्धे जपहोमार्चनादिके । क्रियते येन मन्त्रेण विनियोगस्तु स स्मृतः ॥४५ अस्य मन्त्रस्य चाऽर्थोऽयमयं मन्त्रोऽत्र वर्तते । तत्तस्य ब्राह्मणं ज्ञेयं मन्त्रस्येति श्रुतिक्रमः ॥४६ एतद्धि पञ्चकं ज्ञात्वा क्रियते कर्मयदुद्विजैः । तदनन्तफलं तेषां भवेद्वदनिदर्शनात् ॥४७ अकामेनापि यन्न्यूनं कुर्य्यात् कर्म द्विजोऽपि यः । तेनासौ हन्यते कर्ताऽमृतो गन्ताधमृच्छति ॥४८ कुर्वन्नज्ञा द्विजः कर्म जपहोमादि कश्चन ।
[[६६३]]
नासौ तम्य फलंबिन्देत् कर्म (क्लंश) मात्रं हि तम्य तत् ॥ ४६ आपद्यते स्थाणु गतं स्वयं वापि प्रलीयते ।
यातयामानि च्छन्दांसि भवन्त्यफलदान्यपि ॥५० सिन्धुद्वीप ऋषिश्छन्दो गायत्री ऋक्षु तिसृषु । आपो हि दैवतं प्राहुरापोहिष्ठादिषु द्विजाः ॥ ५१ गोभिलो (गाधिजो) राजपुत्रस्तु द्रुपदायामृषिर्भवेत् । आनुष्टुभं भवेच्छन्द आपश्चैव तु देवतम् ॥५२ सौत्रामण्यावभृतके विनियोगोऽस्य कल्पितः । उदुत्यमृषिः प्रस्कणो गायत्रं सूर्यदेवता ॥ ५३ चित्रमित्यत्र कुत्सस्तु शक्करी सूर्य्यदेवता । प्रणवो भूर्भुवः स्वच गायत्र्यापो ऋचां त्रयम् ॥५४ अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणः ।
छन्दोऽस्यानुष्टुभं प्राहुरापश्चैव तु दैवतम् ॥५५
[[६६४]]
वृहत्पराशरस्मृतिः ।
द्रुपदाघमर्षणं सूक्तं मार्जने व्याहरेदिति ।
[ द्वितीयों-
स्मृतिभिः परिशियैश्व विशेषस्तोयसेचने ॥ ५६ उक्तोऽधो विभागेन कर्तभ्यः सोऽपि सद् द्विजैः । आपोहिष्ठेति च चामष्टापदेन च ॥५७ पादान्ते प्रक्षिपेद्वापि पादमध्ये न च क्षिपेत् । भूमौ मूर्ध्नि तथाऽकारों मूकाशं पुनर्भुवि ॥५८ एवं वारि द्विजः मिध्वन् तर्पयेन सर्वदेवताः ।
गन्ते माजनं कुर्यान पादान्ते वा समाहितः ॥५६ गधे वा प्रकुर्वीत शिष्टानां मतमीदृशम् । उदुत्यं चित्रं देवानामुपस्थाने नियोजयेत् ॥ ६० हंस. शुचिः षदित्यादि केचिदिच्छन्ति सूरयः । अव्याकृनमिदं ह्यासीन सदेवासुर- मानुपम ॥६१ सोभायासृजद् ब्रह्मा, मातेमा व्याहृतीः पुरा । भूर्भुवः स्वर्महर्जनस्तपः सत्यं तथैव च ॥ ६२ आद्यास्तिस्रो महाप्रोक्ताः सर्वत्रैव नियोजनात । अनिर्वायुस्तथा सूर्यो वृहस्पत्याप एव च ॥ ६३ इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः । गायत्र्युष्णिगनुष्टुप् च वृहती पक्तिरेव च ॥ ६४ त्रिप् च जगती चैव
दास्यैतान्यनुक्रमात् ।
[[1]]
भरद्वाजः कश्यपच गौतमोऽत्रिस्तथैव च ॥६६ विश्वामित्रो जमदग्निर्वशिष्ठश्चर्षयः क्रमीत) :… एताभिः सकलं व्याप्तमेताभ्यो नास्ति चापरम् ॥६६
Sध्यायः ]
सदाचारकृत्यवर्णनम् ।
सप्तैते स्वर्गलोका ने सत्यादृद्ध न विद्यते ।
तस्माल्लोकात्परा मुक्तिरचीनादयेक्षया ॥ ६७ प्राणसंयमनेष्वेता अभ्यस्याः पूरकादिभिः । ओमापोज्योति रित्येतच्छिरः पश्चात्प्रयुज्यते ॥६८ प्रत्योङ्कारसमायुक्तो मन्त्रोऽयं तैत्तिरीयके । अत्रोकारवदापदि विदु ब्रह्मविदो जनाः ॥ ६६ प्रणवाद्यन्त गायत्री प्राणायामेष्वयं विधिः । गायत्र्यादि कचित्रान्तर्मन्त्रैश्च प्रागुदीरितः ॥७० उपासीरन्द्विजास्तावद्यावन्नोदेति भास्करः । गवां वालपवित्रण यस्तु सन्ध्यामुपासते ॥७१ सर्वतीर्थाभिपकं तु लभते नात्र संशयः । गोवालं दर्शनारथ्य खड्गं कनकमेव च ॥ ७२ दर्भ-ताम्र- तिलैवापि एतैस्तर्पणकृद् द्विजाः । म सन्त पितॄन्देवानात्मानं त्रिदिवं नयेन ॥ ७३ त्रिंशत्कोयस्तु विख्याता मन्देहा नाम राक्षमाः । उद्यन्तं ते विवस्वन्तं बलादिच्छन्ति ग्वादितुम् ॥७४ दिने दिने सहस्रांशु रलक्ष्यैस्तैरभिद्रुतः । भानुहींनः कृतस्तूगं तद्वश्यत्वमिवागतः ॥७५ अतस्तस्य च तेषां तु ह्यभूद्ध सुदारुणम । किं भविष्यति युद्ध ेऽस्मिन नित्यभूत्मुरविम्मय ॥७६ अरुणम्य च ये बाणा ज्वलन्तो ये च भास्त्रतः । विलक्ष्यास्ते निवर्तन्ते मन्देहानामदर्शनात् ॥७७
[[६६५]]
[[६६६]]
वृहत्पराशरस्मृतिः ।
[ द्वितीयो-
वेरप्यंशवो ह्यस्मात् यातायाता ह्यशक्तितः । अप्राप्त्या च शरीराणां स्वामिनैव लयं गताः ॥७८ हेषाशब्दमकुर्वाणाः शफस्फुरणवर्जिताः । स्तव्याङ्गा निर्जयाज्जाताः सूर्यस्यन्दनवाजिनः ॥७६ ततो देवगणाः सर्वे ऋयश्च तपोधनाः । यत्सन्ध्यांते उपासीत प्रक्षिपन्ति जलं महत् ॥८० ॐकारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् । दह्येरन् तेन ते दैत्या वश्रीभूतेन वारिणा ॥ ८१ सहस्रांरथे तिष्ठन् योऽधीयानश्चतुः श्रुतीः । याज्ञवल्क्यः समाप्त्यैतत्त्रिशा नुक्तवांस्तथा ॥ ८२ सत्वे त्वनुदिवादित्ये सन्ध्योपास्तिकरो भवेत् । उदिते सति या सन्ध्या बालक्रीड़ोपमा च सा ॥ ८३ सन्ध्या येन न विज्ञाता ज्ञात्वा नैव ह्युपासिता । स जीवन्नेव शूद्रश्व ह्याशु गच्छति सान्त्रयः ॥८४ मान्त्रं पार्थिवमाग्नेयं वायत्र्यं दिव्यमेव च । वारुणं मानसञ्चेति सप्त स्नानान्यनुक्रमात् ॥८५ शं न आपस्तु वै मान्त्रं मृद्दालम्भं तु पार्थित्रम् । भस्मना स्नानमाग्नेयं गोरेणूनाऽऽनिलं स्मृतम् ॥८६ आतने सति या वृष्टि दिव्यस्नानं तदुच्यते । बहिर्नद्यादिके स्नानं वारुणं प्रोच्यते बुधैः ॥८७ यद्वयानं मनसा विष्णोर्मानसं तत्लकीर्तितम् । असामर्थ्येन कायस्य कालशक्त्याद्यपेक्षया ॥८८
ऽध्यायः ]
सदाचारकृत्यवर्णनम् ।
तुल्यफलानि सर्वाणि स्युरित्याह पराशरः । स्नानानां मानसं स्नानं मन्त्राद्यैः परमं स्मृतम् ॥८६ कृतेन येन मुच्यन्ते गृहस्था अपि तु द्विजाः । दिव्यादीनां त्रयाणां तु स्नानानामौषसं परम् ॥ ६० सद्य पापहरं प्राहुः प्राजापत्यवृताधिकम । उषस्युपसि यत्स्नानं क्रियतेऽ नुदितेऽरौ ॥१ प्राजापत्येन तत्तुल्यं महापातकनाशनम् । प्रातरुत्थाय यो विप्रः प्रातः म्नायो सदा भवेत् ॥ सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ।
अस्नातो नाचरेत्कर्म जपहोमादि किश्चन ॥ ६३
विद्यन्ते (क्लियन्ते) च सुतृप्तानि (सुगुमानि ) इन्द्रियाणि क्षरन्ति च ।
अङ्गानि समतां यान्ति उत्तमान्यधमैः सह ॥६४ अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्यंप दिवारात्रौ प्रात स्नानेन शुध्यति ॥ ६५ उषः स्नानं प्रशंसन्ति सर्वे च पितरोऽमराः । दृष्टादृष्टकरं पुण्यं शंसन्ति पितरो (ऋग्यो ) ऽपि हि ॥ ६६ प्रात स्नायो हि यो विप्रः सोऽहः स्यात्सर्वकर्मसु । तत्कृतं कर्म यत्किश्वित्तत्सर्वं स्याद्यथार्थवत् ॥ ६७ अविद्वान् स्नानकाले तु यः कुर्य्याद्द तधावनम । पापीयान् रौरवं याति पितृशापहतो ध्रुवम् ॥ ६८ यच्च श्मश्रुषु केशेषु यज्जलं देहलोमसु ।
हस्ताभ्यां न तु वत्रेण जल विद्वान हि मार्जयेत् ॥६६
[[६६८]]
वृहत्पराशरस्मृतिः ।
मार्जिते पितरः सर्वे सर्वा अपि च देवताः ।
[ द्वितीयो-
तथा सर्व मनुन्याश्च त्यजेरन् नियतं द्विजम् ॥१०० स्नातृसचिन्तितं सर्वे तीय पितृदिवौकसः । नतो नद्याद्यसौ गच्छन्निराशास्ते शपन्ति हि ॥ १०१ ये तु स्नानार्थिनस्तीर्थं सञ्चिन्तन्ति जलाश्रयान् । तमुपतिष्ठन्ति तृप्त्यै पितृदिवौकसः ॥ ०२ अतो न चिन्तयेत्तीर्थ व्रजेदेवत्व चिन्तितम् । देवखातन दोस्रोतःसम्म्मु स्नानमाचरेत् ॥१०३ स्नानं नद्यादिबन्धेषु सद्भिः कार्यं सम्बुषु । कृत्रिमं तोयकूपस्थ तोयं तत्र स्वकृत्रिमम् ॥१०४ न तीर्थे स्त्र्याकुले स्नायान्नासज्जनममावृते । दर्भहीनोज्यचित्तस्तु न नमो न शिरोविना ॥ १०५ कदाचिद्विदुपा मिथ्या न स्नातव्यं पराम्भसा । अम्भ कृदुष्कृतांशन म्नानकर्तापि लिप्यते ॥ १०६३ पश्च वा सप्त वा पिण्डान् स्नायादुद्ध, त्य तत्र तु । वृथाम्नानादिकानोह विशेषेण विवजयेत् ॥ १०७ वृथा चोष्गोदकस्नानं वृथा जप्यमवैदिकम् । वृथा चाश्रोत्रिये दानं वथा भुक्तमसाक्षिकम् ॥ १०८ मासे नभसि न स्नायात्कदाचिन्निम्नगासु च । रजस्वला भवन्त्येता वर्जयित्वा समुद्रगाः ॥ १०६ नापो मूत्रपुरीषाभ्यां नाग्निर्दहति कर्मणा । न स्त्री दुष्यति जारेणं न विप्रो वेदकर्मणा ॥ ११०
ऽध्यायः ]
आचारधर्मवर्णनम् ।
न स्नायात क्षोभितास्वसु स्वयं न क्षोभयेच ताः । निनर्गतासु तीर्थाच पतन्तीष्वाहृतासु च ॥ १११ रविसंक्रान्तिवारेषु ग्रहणेपु शशिक्षये । व्रतेषु चैव पष्ठीषु न स्नायादुष्णवारिणा ॥ ११२ न स्नायाच्छुद्रहस्तेन नैकहस्तेन वा तथा । उद्ध ताभिरपि स्नायादाहृताभिर्द्विजातिभिः ॥ ११३ स्वभावाभिरनुष्णाभि महसाभिस्तथा द्विज’ । नवाभिनिर्दशाहाभिर संग्राभिरन्त्य जं. ॥११४
यः स्नानमाचरेन्नित्यं तं प्रशंसन्ति देताः । तस्माद्बहुगुणं स्नानं सदा कार्यं द्विजातिभिः ॥ १५ उत्साहाप्यायनंस्वा तत्रशान्ति-शक्ति- वद्धिम् ।
कीर्ति- कान्ति-वपुः पुलि-सौभाग्याऽऽयुः प्रवर्धनम् ॥११६ स्वर्ग्यच्च दशभिर्युक्तं गुणैः स्नानं प्रशस्यते । सूर्य्यादिदिनवारोक्तं तैलाभ्यञ्चनपूर्वकम् ॥ ११७ हृत्ताप- कीर्तिमरण सुत (लक्ष्मी) स्थानाप्ति मृत्यवः । आयुश्चार्कादिवारेषु तैलाभ्यङ्गे फल क्रमात ॥११८ जलावगाहनं नित्यं स्नानं सर्वषु वर्णिषु । शक्तैरहरहः कार्यं तम्याथ विधिरुच्यते ॥ ११६ गोशकृन्मृत्कुशांश्चैव पुष्पाणि पत्रिका तथा । स्नानार्थी प्रयतो नित्यं स्नानकाले समाहरेत् ॥ १२० स्वमनोऽभिमत तीथं गत्वा प्रक्षाल्य पादयोः ।
हस्तौ चाचम्य विधिवख बध्वैक चेतसा ॥ १२१
m
[[६६६]]
Gee
वृहत्पराशरस्मृतिः ।
मृदम्बुभिः स्वगात्राणि क्रमात्प्रक्षालयेद्यथा ।
[ द्वितीयो
पादौ जङ्घ कटिञ्चैव क्रमात्प्राणं जलैखिभिः १२२
प्रक्षाल्य हस्तावाचम्य नमस्कृत्य च तज्जलम् । गृह्मोपगुह्यमित्येतद्यजुषा प्रयताञ्जलिः ॥ १२३
ऊरू धं हीति च मन्त्रेण कुर्यादापोऽभिमन्त्रिताः । विधिज्ञाः कवयः केचिन्मन्त्रतत्त्वार्थवेदिनः ॥ १२४
यत्र स्थाने तु यत्तीर्थं नदी पुण्यतरा तथा । तां ध्यायेन्मनसा नित्यमन्यतीर्थं न चिन्तयेत् ॥ १२५
गङ्गादिपुण्यतीर्थानि कृत्रिमादिषु संस्मरेत् ।
तां ध्यायेन्मनसा वापि अन्यतीर्थं न चिन्तयेत् ॥ १२६ महाव्याहृतिभिः पश्चादाचामेत्प्रयतोऽपि सन् । उदुत्तममिति ह्यप्सु मन्त्रेण प्राङ्मुखो विशेत् ॥१२७ येयो दिवि चेत्येतत्कुर्यादालम्भनं ततः । सूयं पश्यं जलं मुक्ता समुत्तीर्य ततः स्थलम् ॥ १२८ आचम्याथ हरेन्मृत्स्नां तथा कार्य समालभेत् । अश्वकान्ते रथक्रान्ते विष्णुकान्ते वसुन्धरे ॥ १२६
मृत्तिके हर मे पापं यन्मया पूर्वसश्वितम् । । मृत्तिकाहरणे मन्त्रमिति वासिष्ठजोऽब्रवीत् । समालभेत्त्रिभिर्मन्त्रैरिदं विष्णादिभिर्द्विजः ॥ १३०
शिरवांसावरचोरू पादौ जङ्घ क्रमेण तु ।
।
भास्कराभिमुखो मज्जेदापो स्मानिति त्रिभिः ॥ १३१ऽध्यायः ]
आचारधर्मवर्णनम् ।
उन्मृज्य सर्वगात्राणि निमज्जेश्च पुन पुनः । उत्तीर्याssचम्य गात्राणि गोमयेनाथ लेपयेत् ॥ १३२ मानस्तोक इति युक्ता प्राग्वदङ्गक्रमेण तु ।
इमं मे वरुण, त्वन्नः सत्यं नय, उदुत्तमम् ॥ १३३ मुञ्च त्ववभृथेत्येतैरात्मानमभिषचयेत् ।
[[७०१]]
निमज्ज्याऽऽचम्य चाऽऽत्मानं दर्भेमेन्त्रैश्च पावयेत् ॥ १३४ सर्वपापापनोदार्थं प्राग्वदङ्गक्रमेण तु । आपोहिष्ठादिकैर्मन्त्रैस्त्रिभिरन्यैश्च पावयेत् ॥ १३५ हविष्मतीरिमा आप इदमापस्तथैव च ।
देवीराप इति द्वाभ्यामापो देवीरिति त्यचा ॥१३३ संस्मृय द्रुपदां देवीं शन्नो देवीरपां रसम । प्रत्यङ्गं मन्त्रनवकमापोदेवी पुनन्तु माम ॥१३७ चित्पतिं मां पुनात्वेतन्मन्त्रेणापि च पावयेत् । हिरण्यवर्णा इति च पावमान्यस्तथापरम् ॥१३८ तरत्समन्दीधावति पवित्र्याण्यपि शक्तितः । स्नानकर्मात्मकैर्मन्त्रैरन्यैरप्यम्वुदेवते ॥१३६
लाव्यात्मानं निमज्ज्याथ आचान्तस्त्वन्यदाचरेत् । काल- काय- प्रदेशानां तथा चैवोदकस्य च ॥ १४० प्राकृत्ये सति चैवायं विधिरन्यो विपर्यये । सोंकारां चैव गायत्रीं महाव्याहृतिभिः सह ॥ १४१ त्रिषण्णवैकधाssवर्त्य स्नायाद्विद्वानपि द्विजः :
छन्दो - मुन्यमरैर्युक्त स्वशाखास्वरसंयुतम् ॥१४२
[[७८२]]
वृहत्पराशरस्मृतिः ।
आवर्त्य प्रणवं स्नायाच्छ्रतमर्धशतं दश ।
[[1]]
[ द्वितीयो
चिद्रूपं परमं ज्योतिर्निरालम्व मनामयम् ॥१४३ अव्यक्तमव्ययं शान्तं स्नायाद्वापि हरिं स्मरन् । गायत्रीवारिसंस्नातः प्रणवै निर्मलीकृतः ॥ १४४ विप्णत्मरणमंशुद्धो योग्यः सर्वेषु कर्मसु । योऽधीतवेदार्थः स स्नातः सर्ववारिपु ॥ १४५ शुद्ध वेद शुचिनः स्वान्तस्तच्छुद्रस्तु शुचिर्यतः । मन्त्रैश्च मनमा स्नानं न गोमय - मृदम्बुभिः ॥ १४६ तश्चेो-ख
- खर- मत्स्याश्च स्नानम्य फलमाप्नुयुः । भावपूतः पवित्र म्यान्मन्त्रप्रतस्तथा नरः ॥ १४७ उभयेन पवित्रस्तु नित्यस्नायी शुचिर्नरः । विधि तु यन कर्म करोत्यविधिना तु यः ॥ १४८ न किंचिन फलमाप्नोति क्लेशमात्रं हि तस्य तत् । उत्पद्यन्ते जले मत्स्या विपद्यते तु तत्र च ॥१४६ तिष्ठन्नोऽपि च ते स्नानफलं नैवाप्नुयुर्यतः । विविहीनं भावदुष्टं कृनमश्रद्धयापि च ॥ १५०
तद्धरन्त्यसुरास्तस्य मूढत्या कृनात्मनः । श्रद्धा-विधिसमायुक्तं यत कर्म क्रियते नृभिः । शुचिभीरेकचित्तैश्च तदानन्त्याय कल्पते ॥ १५१ उदात्तमनुदात्तं च स्वरितं लुतमेव च ।
द्रुतं च स्वरितोदात्रं स्वरं विद्यात्तथा ‘लुतम् ॥१५२
ऽध्यायः ]
ससदाचारनित्यकर्मवर्णनम् ।
स्वरान्तं व्यञ्जनान्तं च विसर्गान्तं तथैव च ।
सानुस्वारं पृथक्त्वं च ज्ञातव्यमपरं च यत् ॥ १५३ वृत्रं शतक्रतुर्हन्ति वज्रेण शतपर्वणा ।
[[७०३]]
यथा तथा प्रवक्तारं मन्त्रो हीन स्वरादिभिः ॥ १५४ स्वरतो वर्णतः सम्यक् सध्या ध्यान जपादिषु । सर्व मन्त्राः प्रयोक्तव्या होनाः सुरफला नृणाम ॥१५५ नाभरधस्तादङ्गानि क्षालयित्वा मृदम्भमा ।
उपरिष्टात तिक्तत्रो मन्त्रैः प्रोक्ष्य शुचिर्भरेत् ॥१५६ चतुरश्वतुरस्त्वयो द्वौ च जङ्घयोस्तथा ।
द्वौद्रौ च जानुनोन्यस्य क्यों पञ्च च पञ्च च ॥ १५७ द्वावप्येवं तथा गुद्यं दशदशादर-वक्षसाः ।
।
द्वौद्वौ गलं च बाह्वोश्च द्वौद्वावंस मुखंषु च ॥ १५८ द्वौद्वौ च चक्षुषोः श्रुत्योः ममोङ्काराश्च मूघनि । न्यस्तप्रणवसर्वाङ्गः स्नातः स्यान सर्ववारिपु ॥१५६ अकारं मूर्ध्नि विन्यस्य उकारं नेत्रमध्यतः । मकारं कण्ठदेशे तु ब्रह्मीभवति वै द्विजः ॥ १६० अव्यङ्गाक्लिष्टधौते तु विद्वाञ्छुकले च वाससी । परिवाय मृहम्बुभ्यां करौ पादौ च मार्जयेत् ॥१६१ तद्वास सोरसम्पत्तौ शाण-क्षौमा - SSविकानि च । कुतपं योगपट्टे वा द्विवासास्तु यथा भवेत् ॥ १६२ न जीर्ण- नील- काषाय- माजिष्ठेन तु वाससा । मूत्रा ग्रुप गतेनैव शुचिः स्यान्नैकवाससा ॥१६३
[[७०४]]
वृहत्पराशरस्मृतिः ।
द्वितीयो-
एकं वासो यथाप्राप्तं परिधाय मनः शुचिः । अन्यत् कृत्वोत्तरासङ्गमाचम्य प्राङ्मुखः स्थितः ॥१६४ प्रत्योङ्कारसमायुक्ताः प्रणवाद्यन्तकास्तथा । महाव्याहृतयः सप्त देवतार्पादिसंयुताः ॥ १६५ प्रणवान्ता च गायत्री शिरस्तस्यास्तथैव च । त्रिरावर्तनमेतस्याः प्राणायामो विधीयते ॥ १६६ शक्त्याऽमुसंयमं कृत्वा तथाचम्य विधानतः । उपास्य विधिवत् सन्ध्यामुपस्थाय च भास्करम् ॥१६७ गायत्रीं शक्तितो जप्त्वा तर्पयेद्देवताः पितॄन् । अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ॥ १६८ तृप्यतामिति सेक्तव्यं नाम्ना तु प्रणवादिना । ब्रह्मेश - केशवान् पूर्वं प्रजापतिमथो श्रुतीः ॥१६६ छन्दो यज्ञानृषीन् सिद्धानाचार्यास्तनयानपि । गन्धर्व-वत्सरतूंश्च मासान् दिन - निशास्तथा १७० देवान् देवानुगांश्चैव नागान्नागकुलानि च । सरितः सागरांस्तीर्थान् पर्वतान् कुलपर्वतान् ॥१७१ किन्नरान् खेचरान् यक्षान् मनुष्यानथ तर्पयेत् । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ १७२ आसुरिः कपिलचैव बोढुः पचशिखस्तथा । मानुषान् यातुधानांश्च तेषां चैव कुलान्यपि ॥ १७३ सुपणाश्च पिशाचाश्च भूतान्यथ पशूंस्तथा । वनस्पतीनोषधींश्च भूतग्रामं चतुर्विधम् ॥१७४
Sध्यायः ]
श्राद्धकर्तव्यतावर्णनम् ।
ब्रह्मादयो मयाहूता आगच्छन्त्वाददन्त्वपः । अनृणं मां प्रकुर्वन्तु प्रसीदन्तु ममोपरि ॥ १७५ ततः पूर्वाप्रदर्भेषु साध्रेषु सकुशेषु च । प्रादेशिकेषु शुद्धेषु ब्रह्मादिभ्योऽम्बु सेचयेत् ॥ १७६ अन्वारब्धापसव्येन पाणिना दक्षिणे न तु । भूस्थदक्षिण जानुः सन् देवेभ्यः सेचयेज्जलम् ॥ १७७ देवेभ्यश्च नमः स्वाहा पितृभ्यश्च नमः स्वधा । मन्यन्ते कवयः केचिदित्ययं तर्पणक्रमः ॥ १७८ तर्प्यमाणेषु कर्मत्वं णिजन्तं च क्रियापदम् । तर्पयामि पितॄन् देवानित्याहुरपरे पुनः ॥ १७६ सिध्यमानेन तोयेन मन्यन्ते मुनयो परे । देवास्तृप्यन्तु पितरस्तृप्यन्त्विति निदर्शनम् ॥१८० उदीरतामाङ्गिरस आयन्तु नोर्ज मित्यपि । पितृभ्यश्च स्वधायिभ्यो ये चेह पितरस्तथा ॥ १८१ अमिवात्तोपहूताश्च तथा वर्हिपदोऽ पि च । येन पूर्वे च तितरः सोमपानामुदीरयेत् ॥१-२ आवाह्य च पितॄनेतेरपसव्योपवीतिना । दक्षिणाभिमुखो द्वाभ्यां कराभ्यामम्बु सेचयेत् १८३ भूलप्रसव्यजानुश्व दक्षिणाप्रकुशेषु च ।
रुक्म- रोप्य - विलैस्ताम्र- दर्भ- मन्त्रैः क्षिपेत् पयः ॥ १८४ विना रौप्य सुवर्णाभ्यां विना ताम्र-तिलैरपि । विना दर्भैश्च मन्नौश्च पितॄणां नोपतिष्ठति ॥ १८५
[[४५]]
[[७०५]]
[[७०]]
बृहत्पराशरस्मृतिः । ।
दर्भैलोहितच काश-वीरण- वल्वजैः ।
[ द्वितीयो-
शूकधान्य- तृणैर्वापि दर्भकार्य श्रवेद् द्विजः ॥ १८६ न तर्पयेत् पतन्तीभिर्विद्वानद्भिः कथंचन । पात्रस्थाभिः सदर्भाभिः सतिलाभिश्च तर्पयेत् ॥ १८७ वसून् रूद्रांस्तथाऽऽदियान्नमस्कारसमन्वितान् । एते च दिव्याः पितर एतद्दायत्तमानुषाः ॥१८८ ध्रुवो धरश्च सोमश्व आपश्चैवानलो ऽनिल । प्रत्यूषश्च प्रभासश्च वसवो टौ प्रकीर्तिताः ॥१८६ अजैकपादहिर्दयो विरूपाक्षोऽथं रैवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वर ॥ १६० साग्वत्रेश्च जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकाश सुरोत्तमाः ॥ १६१ इन्द्रो धाता भंगः पूंजा मित्रोऽथ वरुणोऽर्थमा । अंशुर्विवस्वस्त्विष्टा च सविता विष्णुरेव च ॥ १६२ एते वै द्वादशादित्या देवानां परमाः स्मृताः । एवं हि दिव्याः पितरः पूज्याः सर्वे प्रयत्नतः ॥ १६३ कव्यवाहो नलः सोमो यमंश्चैव तथार्यमा । असा सोमपाश्च तथा बरिषदीऽपि च ॥१६४ एते चान्ये च पितरः पूज्याः सर्वे प्रथमतः । एतैस्तु तर्पितैः सर्वैः पुरुषास्तर्पिता नृमि ॥१३५ यमंश्व धर्मराजश्च मृत्युश्चैव तथान्तकः । वैवस्वतश्च कालश्च सर्वभूतयस्तथा ॥१६६
ऽध्यायः ]
श्राद्ध कर्तव्यतावर्णनम् ।
[[२०७]]
औदुम्बरश्च नीलश्च दघ्नश्च परमेष्टयपि । चित्रश्च चित्रगुप्तश्च वृकोदरस्तथार्यमाः ॥ १६७ एतैस्तु तर्पितैः सद्भिर्विश्वं स्यान्तर्पितं नृभिः । तस्मात् प्राग्तयित्वैतान् पित्रादीन तर्पयेत्ततः ॥ १६८ मातामहान् मातुलांश्च सखि सम्बन्धिबान्धवान्ं । स्वजनान् ज्ञातिवर्गीयानुपाध्यायान् गुरूनपि ॥ १६६ मित्रान् भृत्यानपत्यांश्च ये भवन्ति तदाश्रिताः । तान् सवांस्तर्पयेद्विद्वानहन्ते ते यतो जलम् ॥२०० जलस्थश्च जले सिंचन स्थलस्थश्च तथा स्थले । पादौ स्थाः योऽमयोश्चैव प्रक्षाल्योभयतः शुचिः ॥२०१ यज्जले शुष्कवस्त्रेण स्थलै चैवाद्रवाससा । कुर्याद्रोमं जपं दानं तत्सर्वं निष्फैलं भवेत् ॥ २०२ नार्द्रवासा. स्थलस्थस्तु बुधस्तर्पणमाचरेत् । जानुवनजलस्थी व विलीनवत्रकः ॥२०३ गोशृङ्गमात्रमुद्ध त्य करौ विप्रौ जलै स्थितः । अम्बरे तु क्षिपेद्वारि पितृणां कृतिमावहन् ॥२०४ उमाभ्यां सेचयेद्वारि आकाश दक्षिणामुखः । पितृणां स्थानेमाका दक्षिणा दिक् तथैव च ॥ २०५ स्थलगों मार्द्रवासास्तु कुर्याद्वै तर्पणादिकम् । प्रेता नार्द्रवासा नैकेवासी समाचरेत् ॥२० एवं हि तर्पणं कृत्वा सर्व विधिवद्विजाः । निष्पीडयेत् ज्ञानक्स मैन स्नातोद्विजैः ॥२०७
[[७०८]]
बृहत्पराशर स्मृतिः ।
[ द्वितीयो-
निष्पीडयति यः पूर्वं स्नानवस्त्रम बुद्धिमान् । निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः २०८ निष्पीडयेत् स्नानवस्त्रं तिल-दर्भसमन्वितम् । न पूर्व तर्पणाद्वस्त्रं नैवाम्भसि न पादयोः ॥ २०६ एषु चेत पीडयेद्वस्त्रं राक्षसं तदतिक्रमात् । वस्त्रनिष्पीडने विप्र इमं श्लोक मुदाहरेत् ॥ २१० ये मे कुले लुप्तपिण्डा पुत्र - दार- विवर्जिताः । तेषां प्रदत्तमक्षय्यमिदमस्तु तिलोदकम् ॥ २११ पितृवंशे मृता ये च मातृवंशे कुमृत्युना । तेषां तृप्तिर्भवत्त्वेषा तिलमिश्रण वारिणा ॥ २१२ जलमध्ये च यः कश्चिद्वाह्मणां ज्ञानदुर्बलः । निष्पीडयति चेद् वस्त्रं स्नानं तस्य वृथा भवेत् ॥ २१३ यदासु मलनिक्षेपः शौच-स्नानादिकुर्वताम् । तत्पापस्य व्यपोहार्थमिमं मन्त्रमुदीरयेत् ॥ २१४ यन्मया दूषितं तोयं मलः शारीरसम्भवः । तस्य पापस्य निष्कृत्यै यक्ष्मणस्तत्र तर्पणम् ॥ २१५ अम्बुपेभ्यो ऽथ यक्ष्मभ्यो ददामीदं जलाञ्जलिम् । अन्यथा घ्नन्ति ते सर्व सुकृतं पूर्वसचितम् ॥ २१६ अपुत्रा ये मृताः केचित पुमांसो योपितो ऽपि वा । अस्मद्वंशेऽपि तेभ्यो वै दत्तं वत्रजलं मया ॥२१७ नास्ति येनापि यो विप्रस्तर्पयेत् पितृ-देवताः ।
।
स तत्तृप्तिकृतो धर्मान प्राप्नुयात् परमां गतिम् ॥२१८
ऽध्यायः ]
कर्तव्यवर्णनम् ।
[[२००]]
नास्तिक्यावस्थितो यस्तु तर्पयेन्न पितन द्विजः । पिवन्ति देहनिस्रावं पितरस्तज्जलार्थिनः ॥ २१६ पितणां पितृतीर्थेन देवानां दैविकेन तु । इति मत्वा प्रकुर्वाणा मुच्यते गृहमेधिनः ॥ २२०
पञ्च तीर्थानि विप्रस्य करे तिष्ठन्ति दक्षिणे । ब्राह्मं देवं तथा पित्र्यं प्राजापत्यं तु मौमिकम ॥२२१ ब्राह्मं पश्चिमलेखायां देवं ह्यङ्गुलिमूर्धनि ।
प्राजापत्यं कनिष्ठादौ मध्ये सौम्यं विजानतः ॥२२२
अङ्गुष्ठम्य प्रदेशिन्या मध्ये पित्र्यं प्रतिष्ठितम् । कुर्याद्यो ऽहरहरचैवं सम्यग्ज्ञात्वा विधानतः ॥ २२३ स प्राप्नुयाद्गृहस्थोऽपि ब्रहणः पदमव्ययम् । स्नात्वा जप्त्वा च हुत्वा च दत्वा चैव तु योऽश्नुते ॥२२४ सोऽमृतं नित्यमश्नाति तस्य स्थानमनामयम् । अस्नात्वाऽश्नन् मलं भुक्तं अजप्त्वा पूय-शोणितम् । अजुहंश्च कृमीन् कीटानददंश्च शकृत्तथा ॥ २२५ आह्लादकारणं स्नानं दुःख - शोकापहं तथा । दुःस्वप्ननाशनं चैव कार्यं स्नानमतः सदा ॥२२६ चित्तप्रसाद-बल-रूप-तपांसि मेधा-
मायुष्य - शौच सुभगत्वमरोगिता च । ओजस्वितां त्विपमदात् पुरुषस्य चीणं
म्नानं यशो - विभव - सौख्यमलोलुपत्वम ॥२२५
[[५१०]]
वृहत्पराक्षरस्यति ।
गीर्वाणवृन्द द्विजसत्तमस्तुतः
प्राप्तो मया यस्तु वसिष्ठपौत्रतः । पापप्रणाशं वितनोति यः श्रुतः
[ द्वितीयो-
प्रोदीरितः स्नानविधिः स लेशतः २२८
उद्देशतो मया प्रोक्तः स्नानस्य परमो विधिः । द्विजन्मनां हितार्थं तु जपस्यातः परो विधिः ॥२२६
इति श्रीबृहत्पराशरीये धर्मशास्त्रं सुव्रतप्रोक्तायां स्मृतायां स्नानविधिर्नाम द्वितीयोऽध्यायः ॥ २ ॥
1:00:1
॥ तृतीयोऽध्यायः ॥
ॐकार मन्त्रवर्णनम् ।
जपस्याथ प्रवक्ष्यामि विधिं पाराशरोदितम् । यावद्विधो जपो यस्तु यथा कार्यो द्विजातिभिः ॥ १ जप्यानि ब्रह्मसूतानि शिवसूक्तानि चैव हि । वैष्णवानि च सूक्तानि तया सौरण्यनेकधा ॥२ सारस्वतानि दौर्गाणि वारुणान्यानिलानि च । पौराणिकानि चान्यानि तथा सिद्धान्तिक्रानि च ॥३गः ]
}
ॐकारमन्धवर्णनम
सर्वेषां जप्यसूकानामुचां ग्रजुषां तथा ।
।
साम्नां वैकाक्षरादीनां गायत्री परसो जपः ॥४ तस्याश्चैव तु ॐकारो ब्राह्मणा यमुपासते । आभ्यां तु परसं जप्यं त्रेलोक्येऽपि न विद्यते ॥५ तयोस्तु देवतार्षादि समासेनाभिधीयते । येन विज्ञातमात्रेण द्विजो ब्रह्मत्वमाप्नुयात् ॥६ आसीन्नैव यदा किंचित् सदेवाऽ- सुर-मानुपम । तदैकाक्षर एवासीदात्मविन्यस्तविश्वकः ॥७ गतभीरद्वितीयोऽपि एकाकी स न मोदते । चिन्तयामास गायत्रीं प्रत्यक्षा साऽभवत्तदा ॥८ गायत्री साऽभवत् पत्नी प्रणवोऽभूत् प्रतिस्तदा । पुनरन्यौ च दम्पत्याविति ताभ्यामभूज्जगत् ॥६ प्रणवो हि परं तत्त्वं त्रिवेदं त्रिगुणात्मकम् । त्रिदेवतं शिधामं च त्रिप्रज्ञं त्रिरवस्थितम् ॥१० त्रिमाशं च त्रिकालं च त्रिलिङ्गं कवयो विदुः । सर्वमेतस्त्रिरूपेण व्याप्त तु प्रणवेन हि ॥ ११ ऋग्यजुः सामवेदाश्च त्रिवेद इति कीर्तितः । सत्त्वं रजस्तमश्चैव त्रिगुणस्तेन चोच्यते ॥ १२ ब्रह्मा विष्णुस्तथेशानस्त्रिदेवत इतीष्यते ।
अझिः सोमव सूर्यश्च त्रिधामेति प्रकीर्तितः ॥ १३ अन्त प्र बहियां घनप्रज्ञमुदाहृतम् ।
हृत्कण्ठ तालुकं चेति त्रिखान इति कीर्त्यते ॥१४
[[૧]]
[[७१२]]
बृहत्पराशरस्मृतिः ।
अकारोकारौ मचेति त्रिमात्रः प्रोच्यते बुधैः ।
[ तृतीयो-
भूतं भव्यं भविष्यं च त्रिकाल इति स स्मृतः ॥ १५ स्त्री-पुंनपुंसकं चंति त्रिलिङ्ग इति कीर्तितः । त्रिस्वभावः स्थितो देवो मन्तव्यो ब्रह्मवादिभिः ॥१६ पर्यवस्यति यत्रैतद्विश्वमुत्पद्यते यतः ।
निमंत्रकः समानो पि सादिरेव निरादिकः ॥ १७ स जप्यः सर्वदा सद्भिर्थ्यातव्यश्च विधानतः । वेदेषु चैव शास्त्रेषु बहुधा स व्यवस्थितः ॥ १८ तथा मत्यपि चैकोऽयं घटाकाश इव स्थितः । कर्मारम्भेषु सर्वेषु त्रिमात्रः सम्प्रकीर्तितः ॥ १६ स्थितो यत्र यथोक्तश्च स्मर्तव्यः स तत्रैव हि । वेदे स्वरिदोदात्त उदात्तस्तु यजुः श्रुतौ ॥२० सामवेदे स विज्ञेयो दीर्घः स लुत एव च । सनत्कुमार सिद्धान्ते प्रणवो विष्णुरुच्यते ॥ २१ यस्मिंस्तभ्य च विश्रान्तिन्तत् परं ब्रह्मसंज्ञितम् । उच्चारितम्य तस्याथ विश्रान्तौ च यदक्षरम् ॥२२ तदक्षरं सदा ध्यायेद्यस्तत्रैव प्रलीयते । घण्टास्वनितवत्तस्य विश्रान्तिः शब्दवेधसः ॥२३ कुर्वीत ब्रह्मविद्विप्रो यदीच्छंद्योगमात्मनः । सर्वस्यापि च शब्दस्य ह्यन्त उच्चारितस्य यत् ॥२४ तद्धयायेद्यस्तु स ज्ञानी शब्दब्रह्मविदुच्यते । याज्ञवल्क्यो मुनीनां प्रागब्रवीज्जनकस्य च ॥२५
ऽध्यायः ]
ॐकारमन्त्रवर्णनम् ।
वासिष्ठजोऽपि तं ब्रूयात् स्वभावं शब्दवेधसः । तैलधारामिवाच्छिन्नं दीर्घं घण्टानिनादवत् ॥२६
अवारजं प्रणवस्यायं यस्तं वेद स वेदवित् । स्थित्वा सर्वेषु शब्देषु सवं व्याप्तमनेन हि । न तेन हि विना किंचिद्वक्तुं याति गिरा यतः ॥ २७ उद्गीथमक्षरं ह्येतदुद्गीथं च उपासते ।
उपास्यो मध्यतस्त्वेप नादं विश्रामयेदवृदि ॥२८ प्रणवाद्या स्मृता वेदाः प्रणवे पर्यवस्थिताः । वाङ्मयं प्रणवे सर्वं तस्मान प्रणवमभ्यसेत् ॥ २६ ब्रह्मा तत्र विज्ञेयमनिश्व देवतं महत ।
॥
[[७१३]]
आद्यं छन्दः स्मरेत्तत्र नियोगो ह्यादिकर्मणि ॥३० उत्पन्नमेतत्तु यतः समस्तं व्यावृत्य तिष्ठन प्रलये ऽपि यत्र । एकाक्षरेणापि जगन्ति येन व्यातानि कोऽन्यः परमोऽस्ति तस्मात् ॥ ध्येयं न जप्यं नच पूजनीयं तम्मान्न देवाद्वरणीयमन्यत् । दुस्तारसंसारपयोधिमग्नताराय विष्णुः प्रणवः स पूज्यः ॥ ३२
उक्तमुद्दशतो ह्येतद् रूपमेकाक्षरस्य च ।
जप्या च सततं देवी गायत्री साऽधुनोच्यते ॥३३
इति श्रीबृहत् पराशरीये धर्मशास्त्रे सुत्रतप्रोक्तायां स्मृत्यां षट्कर्मनिरूपणे प्रणवस्वरूपवर्णनं नाम तृतीयोऽध्यायः
[[७१४]]
वृहत्पापतिः ।
[ चतुर्थी-
॥ चतुर्थोऽध्यायः ॥
गायत्रीमन्त्रपुरश्चरणवर्णनम् ।
गायत्र्याः संप्रवक्ष्यामि देवर्ष्यादि क्रमेण तु । अक्षराणां च विन्यासं तेषां चैव तु देवताः ॥ १ जप्ये यथाविधा कार्या यथारूपा च साऽर्चने । होमे यथा च कर्तव्या यथा वा चाऽऽभिचारिके ॥२ यत फलं जपहोमादौ यदर्थं जप्यते तु सा । ध्यातव्या च यथा देवी यथावत्तन्निबोधत ॥ ३ गायत्री तु परं तवं गायत्री परमा गतिः । सर्वाऽमरैरियं ध्याता सवं व्याप्तं तया जगत् ॥४ उत्पद्यते त्रिपादायाः पुनस्तस्यां विशेदिदम् । गायत्री प्रकृतिज्ञेया ॐकारः पुरुषः स्मृतः ॥ ५ पतयोरेव संयोगाज्जगत् सर्वं प्रवर्तते । पादास्त्रयस्त्रयो वेदास्तेषु तत्त्वाक्षराणि च ॥६ चतुर्विंशतिरेवास्यां तर्हि व्याप्तमिदं जगत् ।
आदाय चैकं प्रथमं तु पादसृग्भ्यो द्वितीयं तु तथा यजुर्भ्यः । साम्नस्तृतीयं तु ततोऽभवन मा सावित्रिदेवी स्वयमेव सर्गे ॥७ दैवत्यमस्यां सविता सुरार्घ्यश्छन्दोऽपि गायत्रमभूच्च तस्याः । विश्वस्य मित्रो द्विजराज पूज्यो मुनिर्नियोगस्तु जपादिकेषु ॥८ अस्यां तु तत्त्वाक्षरविंशतिस्तु चत्वारि पादत्रियतं तु देव्याम । भूरादिभिस्तिसृभिः संप्रयुक्तं सोङ्कारमेतद्वदनं च तस्याः ॥
ऽयायः ]
गायत्रीमन्त्रपुरश्चरणवर्णनम् ।
[[७१५]]
केचिदूधुताशं वदनं वदन्ति सावित्रिदेव्योः श्रुतिश्व विज्ञाः । इदं च वक्त्रं सकलामराणामित्येवया व्याप्तमशेपसेतत् ॥१० भूरादिकेन त्रितयेन पादं पादं च वेदत्रितयेन चास्याः । प्राणादिकेन त्रितत्रेन पादं पादैस्त्रिभिर्व्याप्तमशेषमस्याः ॥११ यस्तुर्यमस्या द्विज वेत्ति प्रादं स वेत्ति विद्वनु परमं पदं तु । व्याप्ति. पराऽस्याः सकलापि चैषा यो वेत्ति चैनां सतु वित्तमः स्यात् ॥
गायत्रीं यो न जानाति ज्ञात्वा नैव उपासयेत् । नामधारक मात्रोऽसौ न विप्रो वृषलो हि सः ॥१३ किं वेदैः परिते सर्वैः सेतिहास - पुराणकैः । साङ्गः सावित्रिहीनेन न विप्रत्वमवायते ॥१४ गायत्रीमेव यो ज्ञात्वा सम्यगभ्यसते पुनः । इहामुत्र च पूज्योऽसौ ब्रह्मलोकमवाप्नुयात् ॥१५ गायत्री च तथा वेदा ब्रह्मणा तुलिताः पुरा । वेदेभ्योऽपि षडङ्गेभ्यो गायत्र्य तिगरीयसी ॥ १६ यदक्षरेषु देवत्यं चतुर्विंशतिपूच्यते ।
संन्यासं यद्विबोधेन कुर्वन् ब्रह्मत्वमाप्नुयात् ॥१७ जानीयादक्षरं देव्याः प्रथमं त्वाशुशुक्षणम् । प्राभञ्जनं द्वितीयं तु तृतीयं शशिदैवतम् ॥१८ विद्युतश्च तुरीयं तु पञ्चमं तु यमस्य च । षष्ठं तु वाहणं तत्वं सप्तमं तु बृहस्पतेः ॥१६ पार्जन्यमृष्टमं तत्त्वं त्वमं चेन्द्रवैवतम् । गान्धवं समं विधत्वामेकादशं तथा ॥२०
!
[[७१६]]
वृहत्पराशरस्मृतिः ।
[ चतुर्थी-
मैत्रावरुणमन्यद्वै तथा पूष्णस्त्रयोदशम ।
चतुर्दशं सुरेशस्य प्रागिदं ब्रह्मणः स्मृतम् ॥२१ मरुद्दैवतकं ज्ञेयं पञ्चदशं यदक्षरम ।
सौम्यं च पोडशं तत्त्वं तथा चाङ्गिरसं परम ॥२२ विशेषां चब देवानामष्टादशमथाक्षरम् । अश्विनोश्वोनविंशं तु विंशं प्रजापतेर्विदुः ॥२३ एकविंशं कुवेरस्य द्वाविंशं शंकरस्य च । त्रयोविशं तथा ब्राह्मं चातुवशं तु वैष्णवम् ॥२४ इति ज्ञात्वा द्विजः सम्यग्सर्वाश्राक्षरदेवताः । कुर्वन् जपादिकं विप्रः परं श्रयोऽधिगच्छति ॥२५ पादाङ्गुष्ठादिमूर्द्धान्तमात्मनो वपुषि न्यसेत् । अक्षराणि च सर्वाणि वाब्छन् ब्रह्मत्वमात्मनः ॥२६
[[1]]
पादाङ्गुष्ठयुगे त्वेकमेकैकं गुल्फयोर्द्वयो । जानुनोश्च द्वयोरेकमेकमूरु कयाद्वयोः ॥२७ गुह्यं कस्यां तथैकैकमेकैकं जठरोरसोः । स्तनद्वये तथैकं तु न्यसेदेकं गले तथा ॥ २८ वक्त्रं तालुनि दृक्-श्रुत्योतुर्वेकैकमेव च । भ्रुवोर्मध्ये तथैकं तु ललाटे चेकमेव हि ॥ २६ याम्य-पश्चिम- सौम्येषु एकैकमेकमूर्धनि । गायत्रीन्यस्तसर्वाङ्गो गायत्रो विप्र उच्यते ॥३० लिप्यते न स पापेन पद्मपत्रमिवाम्भसा । प्रोक्तः प्रणवविन्यासो व्याहृतीनामथोभ्यते ॥ ३१
Sध्यायः ]
[[1]]
गायत्रीमन्त्रपुरश्चरणवर्णनम् ।
। सप्तापि व्याहृतीर्न्यस्याः सवदेहे जपादिपु ।
भूर्लोकं पादयोर्न्यस्य भुवर्लोकं तु जानुनोः ॥ ३२ स्वर्लोकं कटिदेशे तु नाभिदेशे महस्तथा । जनलोकं तु हृदये कण्ठदेशे तपस्तथा ॥३३ भ्रुवोर्ललाटसन्ध्योस्तु सत्यलोकः प्रतिष्ठितः । हिरण्मये परे कोशे विरजं ब्रह्म निष्फलम् ॥३४ तक्रुद्ध ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः । देवस्य सवितुर्भर्गो वरण्यं चैव धीमहि ॥ ३५ तदस्माकं धियो यस्तु ब्रह्मत्वे च प्रचोदयात।
न्दोदैवतमार्ष च विनियोगं च ब्राह्मणम् ॥३६ मन्त्रं पञ्चविधं ज्ञात्वा द्विजः कर्म समाचरेत । स्वरतो वर्णतश्चैव परिपूर्ण भवेद्यथा ॥ ३७ हीनं न विनियुञ्जीत मन्त्रं तु मात्रयापि च । देवतायतने कुर्याज्जपं नद्यादिकेषु च ॥ ३८ आश्रमे यतीनां वा गोष्ठे वा स्वगृहेऽपि वा । चतुर्वन्तिमपूर्वेषु ह्युत्तमादिक्रमेण तु ॥३६ दशगुणं सहस्रं स्यात् फलं विष्णावनन्तकम् । अप्समीपे जपं कुर्यात् ससख्यं तद्भवेद्यथा ॥४० असङ्ख्यमासुरं यस्मात्तस्मात्तद्गुणयेदुध वम । स्फाटिकेन्द्राक्ष-रुद्राक्षैः पुत्रजीवसमुद्भवै ॥४१ अक्षमाला प्रकर्तव्या प्रशस्ता चोत्तरोत्तरा ।
अभावे त्वक्षमालाया कुशमन्ध्याऽथ पाणिना ॥४२
[[७५७]]
[[७१८]]
बृहत्पर शिरस्मृतिः ।
यथा कथंचिद्रणयेत् संसंख्यं तद्भवैर्धर्था । प्रणवो भूर्भुवः स्वश्च पुनः प्रणवसंयुतम् ॥४३ अन्त्योऽङ्कारसमायुक्तां मन्यन्ते मुनयोऽपरे । प्रणवोऽन्ते तथा चादावाहुरन्ये जपे क्रमम ॥४४ आदावेव तु चोङ्कार आवृत्तावादिकोऽन्ततः । तदाद्यं च तदन्तं च कुर्यात् प्रणवसम्पुटम् ॥४५ आद्यन्तरक्षितां कुर्यादिति पाराशरोऽब्रवीत् ।
[ चतुथी-
यो न वान्छति सन्तानं मोक्षमिच्छति केवलम् ॥४६
प्रत्योङ्कारमसो कुर्वन्नक्षरं मोक्षमा’ नुयात् । अक्षरप्रातिलोम्येन सोङ्कारेण क्रमेण तु ॥४७ फट्कारान्तां च कुर्वीत विधं बुधः । होमे चापि पठन् कुर्यात् प्रणवावर्तनं द्विजः । अभिप्रेतार्थहोमादौ स्वाहान्तां तामुदीरयेत् ॥४८ संकीर्णता यहा पश्येद्रोर्गाद्वा द्विपतीऽपि वा 1 तदा जपेच गायंत्री सर्व दोषापनुत्तये ॥४६ रुद्रजाप्यानि कार्याणि सूक्त में पुरुषस्य च । शिवसंकल्पजाप्यं च सर्वं कुर्यार्द्विधानतः ॥ ५० जप्यानि घ्नन्ति पापानि श्रयी दद्युस्तदधिनम् । अतो जपं सदा कुर्याद्यच्छममात्मनः ॥३१ द्रुपदां वा जपेद्देवमजप जम्बुकाँ तथा । प्रणवं च सदाभ्यस्येद्यदि ब्रह्मत्वमिच्छति ॥५२
अध्यायः ]
de
गायत्रीमन्त्रपुरश्चरणवर्णनम्
[[1]]
प्राणानामयुताभ्यां च तंथी पीडशभिः शतैः । पुंसी गच्छत्यहोरात्रं तत्संख्यामजयां विदुः ॥ ५३ रविमण्डलमध्यस्थे पुरुने लोकसाक्षिणि । समर्पितं मया चेदं सूर्याख्ये ब्रह्मणः पदे ॥ ५४ न जप्यं प्रसभं कुर्यात प्रसभं घ्नन्ति राक्षसाः । ब्राह्मणा भागधेयास्तु तेषां देवो विधिक्रम. ॥५५ उपांशु तु जपं कुर्यात् ब्रह्मणो वाथ मानसम् । विवृतोहमुपांशुः स्यादचलोष्ठ तु मानसम् ॥५६ द्विविधस्तु जपः प्रोक्त उपांशुर्मानसस्तथा । उपांशुः स्याच्द्रत गुणः साहस्रो मानसः स्मृतः ॥ ५७ उपांशुजपयुक्तस्तु मानसे च रतस्तथा ।
इहैव याति वैधस्त्वमिति पाराशरोऽब्रवीत् ॥५८ विधियज्ञाः पाकयज्ञा ये चान्ये बहवो मखाः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥५६ जप्येनैकनं सिद्ध ेन किं न सिद्धं भवेदिह । कुर्यादन्यन्न वां कुर्यान्मैत्री ब्राह्मण उच्यते ॥६० शतेन जन्मजनितं सहस्रेण पुराकृतम् ।
अयुतेन त्रिजन्मोत्यं गायत्री हन्ति पातकम् ॥ ६१ दशभिर्जन्मजनितं शतेन तु पुराकृतम् ।
सहस्रेण त्रिजन्मोत्थं गायत्री हन्ति पातकम् ॥६२ अस्मिन् कलौ च विदुषा विधिवत् कर्म यत् कृतम् ।
भवेद्दशगुणं तद्धि कृतादयुगतो ध्रुवम् ॥ ६३
[[७२०]]
वृहत्पराशरस्मृतिः ।
।
[ चतुर्थी-
न च तच्छक्यते कर्तुं मन्त्राम्नायेऽस्य दूषणात् । अयथार्थकृतात् पाठात मन्त्रसिद्धिगरीयसी ॥६४ न च क्रमन्न च हसन्न पार्श्वमवलोकयन् । नान्यसक्तो न जल्पंश्च न चैवोर्ध्वशिरास्तथा ॥ ६५ नाङ्घ्रिणा पीडयेत पादं न चैव हि तथा करम् । नैवंविधं जपं कुर्यान्न च संचालयेत करम् ॥६६ प्रच्छन्नानि च दानानि ज्ञानं च निरहंकृतम् । जप्यानि च सुगुप्तानि तेषां फलमनन्तकम् ॥६७ य एवमभ्यसेन्नित्यं ब्राह्मणः संयतेन्द्रियः । स ब्रह्मलोकमाप्नोति तथा ध्यानार्चनादपि ॥ ६८
अथान्यत् सम्प्रवक्ष्यामि यथा तात पितामहः । लब्धवान् वेधसः पृष्ठाद्गायत्रीध्यानमुत्तमम् ॥६६ यदभरेषु यद्वणं यत्र यत्र च यः स्मरेत् । यत्फलं लभते कृत्वा यथा तस्याः समचनम् ॥७० तत् प्रकृतिः स स्वातं विकारो बुद्धिरेव च । तुरित्येतदहंकारं बशब्दं विद्धि पापहम् ॥ ७१
रे स्पशं तु णि रूपं च यं रसं गधमत्र भम् । ग श्रोत्रं दे त्वचं वा व चक्षु स्य रसना तथा ॥ ७२
धी नासा च म वाचा च हि हस्तौ धि च पाद्वयम् । यो उपस्थं मुखं यो ऽन्यो नः खं प्रकारमारुतम् ॥७३ऽध्यायः ]
गायत्रीमन्त्रवर्णनम् ।
चो तेजो द जलं यात् क्ष्मा गायत्र्यास्त त्रचिंतनम् । चतुर्विंशतितत्त्वानि प्रत्येकमक्षरेषु यः ॥ ७४ गायत्र्याः संस्मरेद्योगी स याति ब्रह्मणः पदम् । तत्कारं पादयोर्न्यस्य ब्रह्म - विष्णु - शिवाकृतिम् ॥७५ शान्तं पद्मासनारूढं ध्यानाद्दहति किल्विषम् । सकारं गुल्फयोर्न्यस्येदत सीपुष्प सन्निभम् ॥७६ पद्ममध्यस्थितं सौम्यं दहते चोपपातकम् । विकारं जनयोदनं ध्यायेदेतद्विचक्षणः ॥७७ ब्रह्महत्याकृतं पापं हन्यात्तद्धि स्मृतं क्षणात् । तुर्कारं जानुदेशे तु इन्द्रनीलसमप्रभम् ॥७८ निर्दहेत् सर्वपापानि ग्रहरोगमुपद्रवम् । ऊर्वोवं विमलं ध्यायेच्छुद्धस्फटिकविद्युतिम ॥७६ विज्ञातं हन्ति तत्पापमगम्यागमनात् कृनम् । रेकारं वृषणे प्रोक्तं विद्युत्स्फुरिततेजसम् ॥८०
मित्रद्रोहकृतं पापं स्मरणादेव नाशयेत् । णि गुह्यं श्वेतवणं तु जातिपुष्प स्रमद्युतिम् । गुरुइत्याकृतं पापं शोधयेद्धयान चिन्तनात् ॥८१ यं कव्यां तारकावणं चन्द्रवद्धिष्ण्यभूपितम् ।
।
योगिनां वरदं प्राब्रह्महत्याविशोधनम् ॥ ८२ भं (भकारंचालि) नभोवलिवर्णाभं मेवोन्नतिसमद्युतिम् । ध्यात्वा कमलमध्यस्थं महद् दहति पातकम् ॥८३
[[४६]]
[[७२१]]
[[७२३]]
बृहत्पराशस्मृतिः ।
जठरे रक्तवर्ण तु मात्राद्वयविभूषितम् । गोहत्यादिकृतं पापं गकारस्तु विशोधयेत् ॥८४ श्यामरक्तं च देकारं ध्यानं तद्देशयेहृदि ।
हिम्- कुन्देन्दुवर्णाभं वकारममृतं स्त्रवत् ॥८५ पितृ-मातृ-वधोद्भूतं मित्रावरुणदैवतम् । गुरुहत्याकृतं पापं वकारेण प्रणश्यति ॥८६ स्यकारं विन्यसेत् कण्ठे त्वा स्फटिकसन्निभम् । मनसोपार्जितं पापं स्यकारण प्रणश्यति ॥८७ धीकारं वमुदेवत्यं वदन्ति स्वर्णसन्निभम् ।
प्रतिग्रहकृतं पापं तत्क्षणादेव नश्यति ॥८८ मकारं पद्मरागाभं शिरम्यं दीप्ततेजसम् । पूर्वजन्मकृतं पापं मकारेण प्रणश्यति ॥ ८६ हिकारं नासिकाग्रे तु पूर्णचन्द्रसमप्रभम् । पूर्वास्सूर्वतरं पापं स्मरणादेव नश्यति ॥ ६० धिकारं शान्तमक्ष्णोश्च पीतवर्ण सुधांशुवत् । मनोवाक्कायजं पापं चिन्तनादेव नश्यति ॥ ६१ योकारौ द्वौ धूम्र- नीलौ भ्र- ललाटे च संस्थितौ । ध्यायन्नित्यं द्विजो नूनं सर्वपापैः प्रमुच्यते ॥२ नकारं तु मुखे पूर्व द्वादशादित्यसन्निभम् । सकद्वयात्वा द्विजश्रेष्ठः प्राप्नोति ब्रह्मणः पदम् ॥ प्रकारं दक्षिणे वक्त्रे कालाग्नि- रुद्रसन्निभम् । समृद्धयात्वा द्विजश्रेष्ठ ऐश्वरं पदमाप्नुयात् ॥६४
[ चतुर्थी-
ऽध्यायः ]
गायत्रीमन्त्रजपवर्णनम् ।
चोकारं पश्चिमे वक्त्रे विद्युद्दीप्तिसमप्रभम् ।
एकवारं द्विजो ध्याला वैष्णवं पदमाप्नुयात् ॥६५ दकारमुत्तरे वस्त्रे शुक्लवर्णसमद्युतिम ।
सध्यानान् द्विजश्रेष्ठ प्राप्नुयात् पद्मव्ययम् ॥६६ याकारस्तु शिरः प्रोक्तं चतुर्वदनसंयुतम् । स एष त्रिगुणः प्रोक्तश्चतुविंशतिमः स्मृतः ॥६७ यं यं पश्यति चक्षुर्भ्यां यं यं स्पृशति पाणिना । यं यं च भापते किञ्चित्तत्सर्व पूतमेव च ॥ ६८ जाप्ये तु त्रिपदा ज्ञेया पूजने तु चतुष्पदा । न्यासे जप्ये तथा ध्याने अग्निकार्ये तथार्चने ॥ ६६ सर्वत्र त्रिपदा ज्ञेया ब्राह्मणैतत्वचिन्तकः । जम्बुका नाम सा देवी यजुर्वेदे प्रतिष्ठिता ॥ १०० सा देवी दुपदा नाम मन्त्रं वाजसनेयके । अन्तर्जले त्रिरावर्त्य मुच्यते ब्रह्महत्यया ॥ १०१ सोऽपनीय समस्तानि महैनांसि द्विजोत्तमः । ब्रह्मणः पदमप्रति यद्वत्वा न निवर्तते ॥ १०२ विना श्रद्धां प्रमादाद्वा जपं कुवंश्च्यवेद्यदि । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति स्मृति ॥१०३ तद्विष्णोरिति मन्त्रोयं स्मर्तव्यः सर्वकर्मसु । आवर्त्यः प्रणवो वापि सर्वस्यादिर्यतो हि सः ॥ १०४ अभ्यसेत् प्रणवं नित्यमेकचित्तः समाहितः ।
गायत्री च तथा देवीमभ्यस्यन् मुक्तिमाप्नुयात् ॥१०५
[[७२३]]
[[७२४]]
वृहत्पराशरस्मृतिः ।
वैदिकं तु जपं कुर्यात् पौराणां पाञ्चरात्रिकम् ।
[ चतुर्थो-
यो वेदस्तानि चैतानि यान्येतानि च सा श्रुतिः ॥१०६ जपेन येनेह कृतेन पुंसो ददाति मार्ग सवितापि कर्तुः । अयं हि सर्वेष्टितां वरिष्ठो विधेः पदं यास्यति निर्विकल्पम् ॥१०७
यदुक्तं सर्वशास्त्रेषु तथा सर्वश्रुतिष्वपि ।
उपनिपन्मतं तद्वो विप्रा ह्येतन् प्रकीर्तितम् ॥ १०८
न्यासं तनुत्रं न बबन्ध देहे जग्राह नोङ्कारमसि च तीक्ष्णम् । विप्रो वशे यत्रिपदां न चक्रं लोके स रुष्टः किमु कस्य कुर्यात् ॥ १०६
उद्देशेन मया प्रोक्तो विधिर्जध्यस्य पावनः ।
देवार्चनविधानं तु सम्प्रवक्ष्याम्यतः परम् ॥११० इति श्रीवृहत्पराये धर्मशास्त्रे जपनिर्णयः । अथ देवार्चनविधिवर्णनम् ।
।
देवार्चनं प्रवक्ष्यामि यदुक्तमृषिभिः पुरा । वैदिकैरेव तन्मन्त्रैर्यस्य ये तस्य तैरिति ॥ १११ अर्चयन् वैदिकैर्मन्त्रैर्नानुग्रहमपेक्षते । वैदिकोऽनुग्रहस्तस्य वेदस्त्रीकरणेन तु ॥ ११२ ब्रह्माणं वेधसैर्मन्त्रैर्विष्णुं स्वैः शंकरं स्वकैः । अन्यानपि तथा देवानार्चयेत् स्वीयमन्त्रः ११३ मन्त्रन्यासं पुरा कृत्वा स्वदेहे देवतासु च । गायत्र्यौ कारन्यस्ताङ्गः पूजयेद्विष्णुमव्ययम् ॥ ११४ न्यरस्वा तु व्याहृतीः सर्वाः प्रोक्तस्थानक्रमेण तु । ब्रह्मभूतः शुचिः शान्तो देवयागमुपक्रमेत् ॥ ११५
ऽध्यायः ]
देवाचन विधिवर्णनम् ।
विष्णुरादिरयं देवः सर्वामरगणार्चितः ।
नामग्रहणमात्रेण पापपाशं छिनत्ति यः ॥ ११६ तदचनं प्रवक्ष्यामि विष्णोरमिततेजसः ।
[[७२५]]
यत् कृत्वा मुनयः सर्वे परं सायुज्यमाप्नुयुः ॥ ११७ पद्स्वेतेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् । अस्वमौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ॥ ११८ अग्नौ क्रियावतां देवो दिवि देवो मनीषिणाम् । प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ॥११६ आपो ह्यायतनं तस्य तस्मात्तासु मदा हरिः । सर्वगत्वेन विष्णोस्तु स्थण्डिले भावितात्मनाम् ॥१२० दद्यात् पुरुषसूक्तंन आपः पुष्पाणि चैत्र हि । अर्चितं स्यादिदं तेन नित्यं भुवनमतकम् १२१ आनुष्टुभस्य सूक्तस्य भस्य च देवतम् । पुरुपो यो जगद्वीजमृपिर्नारायणः स्मृतः ॥ १२२ तस्य सूक्तस्य सर्वम्य ऋचां न्यासं यथाक्रमम् । देवे चैवात्मनि तथा सम्प्रवक्ष्याम्यतः परम् ॥ १२३ हस्तन्यासं पुरा कृत्वा स्मृत्वा विष्णुं तथाऽव्ययम् । शिखाबन्धं च दिग्बन्धं सच्चिन्त्य विष्णुमात्मनि ॥ १२४ प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे । तृतीयां वामपादे तु चतुर्थी दक्षिणे न्यसेत् ॥१२५ पश्चमी वामजानौ तु पष्ठीं च दक्षिणे न्यसेत् । सामी बामकट्यां च दक्षिणायां तथाष्टमीम् ॥ १२६
[[७२६]]
वृहत्पराशरस्मृतिः ।
[ चतुर्थी-
नवमीं नाभिमध्ये तु दशर्मी हृदि विन्यसेत् । एकादशीं वामपादे द्वादशीं दक्षिणे न्यसेत् ॥१२७ कण्डे त्रयोदशीं न्यम्य तथा वक्त्रे चतुर्दशीम् । अक्ष्णोः पञ्चदशीं न्यस्य षोड़शीं मूर्ध्नि विन्यसेत् ॥१२८ एवं न्यासविधिं कृत्वा पश्चाद्यागं समाचरेत् । आसनं चिन्तयेन्मेरुमप्रपत्रं सकणिकम् ॥१२६ व्याहृतीनामथ न्यासं कुर्य्याच्च विधिवद् द्विजः । भूलोकं पादयोर्न्यस्य भुवर्लोकं तु जानुनोः ॥१३० स्वर्लोकं कटिदेशे तु नाभिदेशे महम्तथा । जनोलोकं तु हृदये कण्डदेशं तपस्तथा ॥ १३१ भ्रुवोर्ललाट सन्ध्योस्तु सत्यलोकः प्रतिष्ठितः । हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ॥१३२ तच्छुभ्रं ज्योतिनां ज्योतिस्तद्यदात्मविदो विदुः । आवाहनमथ श्राहुर्विष्णोरमिततेजसः ॥ १३३ यथा च क्रियते तस्य स्वदेहे चिन्तयेत्तथा । आद्ययाऽऽवाहयेद्देवमृचा तु पुपोत्तमम् ॥१३४ यथा देव तथा देहे न्यासं कुर्याद्विवानत । द्वितीययाऽऽसनं दद्यात् पाय चैव तृतीयया ॥ १३५ चतुर्थ्यायः प्रदातव्यः पञ्चम्याऽऽचमनं तथा । षष्ठया स्नानं प्रकुर्वीत सप्तम्या वसनं तथा ॥ १३६ यज्ञोपवीतं चाष्टम्या नवम्या गन्धमेव च ।
पुष्पं देयं दशम्या तु एकादश्या च धूपकम् ॥१३७
ऽध्यायः ]
[[1]]
देवार्चनविधिवर्णनम् ।
द्वादश्या दीपकं दद्यात्तयोदश्या नैवेद्यकम् ।
चतुर्दश्याञ्जलिं कुर्यात् पञ्चदश्या प्रदक्षिणम् ॥ १३८ षोडश्योद्वासनं कुर्याच्छेपकर्मणि पूर्ववत
स्नाने वस्त्रे च नैवेद्यं दद्यादाचमनं हरेः ।
षण्मासान् मिद्धिमाप्नोति एवमेवहि योऽर्श्वयेत् ॥१३६ आदित्यमण्डले देवं ध्यात्वा विष्णुं मनोमयम । स याति ब्रह्मणः स्थानं नात्र कार्या विचारणा ॥१४०
ध्येयो दिनेशपरिमण्डलमध्यवर्ती
नारायणः सरमिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्व तशङ्ख-चक्र ॥१४१ सून विष्णुविविना समुदीरितेन योऽनेन नित्यमजमादिमनन्तमूर्तिम् । भक्त्याऽर्चयेत् पठति यश्च म विष्णुदेहं विप्रो विशेद्वरिवरेण कृतार्थदेहः ॥१४२ पचरात्रविधानेन स्थण्डिले वापि पूजयेत् । जलमध्यगतो वापि पूजयेज्जलमध्यतः ॥१४३
द्वादशारं नवत्र्यूहं पञ्चरात्रक्रमेण तु ।
अभावे धौतवस्त्रस्य पत्रिकायास्तथा द्विजः ॥ १४४
जलेऽपि हि जलेनैव मन्त्रैरेवार्चयेद्धरिम् । विष्णुर्विष्णुरित्यजस्रं चिन्तयेद्धरिमेव तु ॥ १४५
[[૨૮]]
वृहत्पराशर स्मृतिः ।
[ चतुर्थी-
तिष्ठन् ब्रह्मंस्तथाऽऽसीनः शयानोऽपि हरिं सदा । संस्मरन्ना ऽशुभं पश्येदिहामुत्र च वै द्विजः ॥ १४६ रुद्रं रुद्रिविधानेन ब्रह्माणं च विधानतः । सूयं संहितमन्त्रैश्च तदीरितविधानतः ॥ १४७ दुर्गा कात्यायनी चैव तथा वाग्देवतामपि । स्कन्दं विनायकं चैव योगिनी क्षेत्रपालकान् ॥१४८ विधिवदर्चयेत् सर्वान्यो विप्रो भक्तितत्परः । विष्णुना सुप्रसन्नेन विष्णुलोकमवाप्नुयात् ॥१४६ ग्रहांश्च पूजयेद्विद्वान् ब्राह्मणः शान्तितत्परः । आरोग्य - पुष्टिसंयुक्तो दीर्घमायुरवाप्नुयात् ॥१५० गृहा गावो नृपा विप्राः सद्भिः पूज्याः सदा नरैः । पूजिताः पूजयन्त्येते निर्दहन्त्यपमानिताः ॥ १५१ यो हितः सर्वसत्त्वेषु नृप - गो ब्राह्मणेषु च ।
इहामुत्र च पूज्योऽसौ विष्णुलोकमवाप्नुयात् ॥१५२ उक्तो गृहस्थस्य सुरार्चनस्य धन्यो विविर्विष्णुपदोपलब्ध्यै । कार्यो द्विजातेः प्रतित्रासरं यो वेदोक्तमन्त्रैः स मया हिताय ॥ १५३
देवपूजाविधिः प्रोक्त एप उद्देशतो यथा । वैश्वदेवस्य वक्तव्यो विधिर्विप्रा मयाधुना ॥ १५४ इति देवपूजाविधिः ।
अथ वैश्वदेवविधिवर्णनम् ।
वैश्वदेवं प्रवक्ष्यामि यथाकार्यं द्विजातिभिः । स्वगृह्मोक्तविधानेन जुहुयाद्वैश्वदेविकम् ॥१५५
Sध्याय ]
वैश्वदेवविधिवर्णनम् ।
[[७२६]]
हविष्यस्य द्विजोऽभावे यथालाभं शृतं हविः । जुहुयाद्विधिवद्भक्त्या यथा स्याच्चित्तनिर्वृतिः ॥ १५६ यद्वा तद्वापि होतत्र्यमग्नौ किंचिद् द्विजातिभिः । फलं वा यदि वा मूलं घासं वा यदि वा पयः ॥ १५७ अहुत्वा च द्विजोऽश्नीयाद्यत्किंचित स्वयमश्नुते । अश्नीयादत्वापि नरकं स समाविशेत् ॥ १५८ जुहुयाद्वयञ्जन-क्षारवर्ण्यमन्नं हुताशने । अनुज्ञातो द्विजैस्तैस्तु त्रिः कृत्वा पुरुषर्षभः ॥१५६ यस्त्वमौ हूयते नैत्र यस्य चाग्रं न दीयते । अभोज्यं तद् द्विजातीनां भुक्त्वा चान्द्रायणं चरेत् ॥ १६० लौकिके वैदिके चैत्र वैश्वदेवो हि नित्यशः । लौकिके पापनाशाय वैदिके स्वर्गमाप्नुयात् ॥१६१ अभावादग्निहोत्रस्य आवसथ्यस्य वा तथा । यस्मिन्ननौ पचेदन तत्र होमो विधीयते ॥ १६२ अग्निः सोमस्समस्तौ तौ बिश्वेदेवास्तथैव च । धन्वन्तरिः कुङ्कस्तद्वदनुमतिः प्रजापतिः ॥ १६३ द्यावाभूभ्योः स्विष्टकृते हुत्वतेभ्यः पुनस्ततः । कुर्याद्वहिति पश्चात् सर्वदिक्षु प्रदक्षिणम् ॥१६४ सुत्राम्गे तस्य पुंभ्यश्च यमाय च सहानुगः । वरुणाय सतेश्च सोमाय च सहानुगैः ॥ १६५ मरुद्भिश्व क्षिपेद्वारि अश्विभ्यां च तथा हरेत् । वनस्पतिभ्यः सर्वेभ्यो मुसलोलूखले हरेत् ॥ १६६
[[७३०]]
वृहत्पराशरस्मृतिः ।
[‘चतुर्थी-
श्रियै च भद्रकाल्यै च उच्छीर्षे पादयोः क्रमात् । ब्रह्मगे सानुगायेति मध्ये चैव बलि हरेत् ॥ १६७ वास्तवे सानुगायेति वास्तुमध्ये बलि हरेत् । विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् ॥ १६८ युवरेभ्यश्च भूतेभ्यो नक्तंचारिभ्य एव च । वास्तोः पृष्ठे च कुति बलिं सर्वानुतृप्तये ॥ १३६ पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् । पतितेभ्यः श्वपाकेभ्यः पापानां पापरोगिणाम् ॥ १७० कृमि - कीट-पतङ्गानां सर्वेभ्योऽपि वलि हरेत् । एवं सर्वाणि भूतानि यो विप्रो नित्यमर्चयेत् ॥ १७१ तन स्थानं परमाप्नोति यज्ज्योतिः परवेधसः । गृह्ये मौ वैश्वदेवं तु प्रोकमेतन्मनीषिभिः ॥ १७२ अनमिकस्तु कुर्वीत वैश्वदेवं कथं त्विति ? । महाव्याहृतिभिम्तिम्त्रः समम्ताभिस्तथाऽपरा ॥१७३ इत्याहुतीश्वतस्तु तथा देवकृते ऽपि च । त्रियम्बकं यजामह इत्यादि चाहुतिद्वयम् १७४ वैदेवेन जुहुयाद्विशेषोऽन्यत्र वै पुनः
अपमृत्यु निवृत्यर्थमायुः पुष्टिविवृद्धये ॥ १७५ जुहुयात त्र्यम्बकं देवं विल्वपत्रैस्तिलैस्तथा विनायकाय होतव्या घृतस्याहुतयस्तथा ॥१७६ सर्वविघ्नोपशान्त्यर्थं पूजयं यत्नतस्तु तम् ।
गणानां त्वेति मन्त्रेण स्वाहाकारान्तमादृतः ॥ १७७ध्यायः ]
वैश्वदेवविधिवर्णनम् ।
चतत्रो जुहुयात्तस्मै गणेशाय तथाऽऽहुतीः । तद्विष्णोरिति जुहुया द्विधिसम्पूर्णताकृते ॥ १७८ प्रणवेन च गायत्र्या केचिज्जुह्वति तद् द्विजाः । एतौ वै सर्वदैवत्यौ एत परं न किंचन ॥ १७६ एताभ्यां तु हुतेनैव सर्वभ्योऽपि हुतं भवेत् । जुहुयात् सर्पिपाऽभ्यक्तं गव्येन पयसाऽथ वा ॥ १८० क्रीतेन गोविकारेण तिलतैलेन वा पुनः ।
[[७३१]]
सम्प्रोक्ष्य पाथसा वाऽन्नं नाभ्यक्तं चाश्नुयादपि ॥ १८१ अस्नेहा यव- गोधूमाः शालयो हवनीयकाः । हविस्तु हविरभ्यक्तमहविस्तु हविर्यतः ॥ १८२ अभ्यक्तमेव होतत्र्यमतो रूक्षं विवर्जयेत् । दारिद्र्यं श्वित्रितामेके रूक्षान्नवने विदुः ॥ १८३ जठराग्नेः क्षयं चैके रूक्ष मन्न न हूयते । आंकारपूर्विका सर्वाः स्वाहाकारान्तिकाम्तथा ॥ १८४ जुहुयादमिको विप्रो गृहमेवी हि नित्यशः । बलिं चोपान्तभूतेभ्यः सर्वेभ्यो ऽय विशेषतः ॥ १८५ हुत्वाऽथ कृष्णवत्मानं कृताञ्जलिः प्रसादयंत । स्वमग्ने शुभिरेतेन मन्त्रेण भक्तिमान् द्विजः ॥ १८६ आब्रह्मन्निति मन्त्रं तु जपेद्वै सार्वकामिकम् । आहाव्यम इति ह्येनं मन्त्रं च प्रयतो जपेत् ॥ १८७ अन्यं हौताशनं मन्त्रं जपित्वाथ क्षमापयेत् । अन्यानि चैव सूक्तानि पवित्राणि ततो जपेन । सर्वशान्तिककृत्यर्थं तथाभिर्देवतेति च ॥१८८
[[७३२]]
वृहत्पराशर स्मृतिः ।
ज्ञनं धनमरोगित्वं गतिमिच्छंस्तथा द्विजः ।
[ चतुर्थी-
शम्भुमग्निं रविं विष्णुमर्चयेद्भक्तितः क्रमात् ॥ १८६ अजानन् यो द्विजो नित्यमहुत्वाऽत्ति तं हविः । पितृ-देव- मनुष्याणामृगयुक्तः स यात्यधः ॥ १६० शाकं वाऽपि तृणं वापि हुत्वानावश्नुते द्विजः । सर्वकामसमायुक्तः सोज्जैव सुखमश्नुते ॥ १६१ सरेण वर्णेन च यद्विहीनं तथैव होनं क्रिययापि यश्च । तथातिरिक्तं मम तन् क्षमस्व तदस्तु चाग्ने परिपूर्णमेतत् ॥६२
सर्वपापापनोदाय सर्वकामाय वै द्विजाः । द्विजन्मनां हितार्थाय वैश्वदेव उदाहृतः ॥ १६३
इति वैश्वदेवविधिः ।
अथातिथ्यविधिवर्णनम् ।
आतिथ्यं सम्प्रवक्ष्यामि चातुर्वर्ण्यफलप्रदम् । चातुवर्ण्याऽतिथिः प्रोक्तः काले प्राप्तोऽध्वगोऽश्रुतः १६४
अदृष्टपृष्टगोत्रादिरज्ञाताचार- विद्यकः । सन्ध्यामात्रकृताचारस्तज्ज्ञैः सोऽतिथिरुच्यते ॥१६६५
क्षुत्तृष्णा ऽध्वश्रमश्राच्तः प्राणत्राणान्नयाचकः । गृहीतपात्रमात्रः सन् गृहद्वारमुपागतः ॥ १६६ विष्णुरूपोऽतिथिः सोयमुत्तरार्थमुपागतः ।
इति मत्त्वा महाभक्त्या बृणुयाद्भोजनाय तम् ॥१६७
एष स्वर्ग्यः समायातः सर्वदेवमयोऽतिथिः ।
।
निर्दा सर्वपापानि ममायं सम्प्रयास्यति ॥ १६८
Sध्यायः ]
आतिश्यविधिवर्णनम ।
ब्राह्मणैः सह भोक्तव्यो भक्त्या प्रक्षाल्य पाद्द्द्वयम् ।
[[७३३]]
आसनार्घ्यादिकं दत्वा कृत्वा स्त्रक् चन्दनादिकम ॥ १६६ योगिनो विविध रूपे मन्ति धरणीतले ।
नराणामुपकाराय ते चाज्ञातस्वरूपिणः ॥२०० तस्मादभ्यर्च्चयेत् प्राप्तं श्राद्धकालेऽतिथिं द्विजः । श्राद्धक्रियाफलं हन्ति तत्रैवापूजितोऽतिथिः ॥२०१ तस्मादपूर्वमेवात्र पूजयेदागताऽतिथिम ।
कदाचित् कश्चिदागच्छंत्तारयेद्यस्तु पूर्वजान् ॥ २०२ यतिर्ब्रत्यनिहोत्री च तथा च मखद् द्विजः । सदैतेऽतिथयः प्रोक्ता अपूर्वाश्च दिने दिने ॥ २०३ अतियेऽमरदेहस्त्वं मत्तारार्थमिहागतः ।
संसारपङ्कमनं मामुद्धरस्वाऽघनाशन । २०५ नैकाश्रमे वसन् विप्रो मुनीन्द्रैरुच्यतेऽतिथिः । अन्यत्र पूर्वो यो नासावतिथिरुच्यते ॥२०२०६ क्षत्रियो यदि वा गच्छेदतिथित्वेन वेश्मनि । भुकेषु सत्सु विप्रेषु कामतस्तु तमाशयेत् ॥ २०६ वैश्यो वा यदि वा शूद्रो विप्रगेहं समाब्रजेत् ॥ तौ भृत्यैः सह भोक्तव्यावितिपाराशरोऽब्रवीत् ॥२०७ क्लीवो वा यदि वा काणः कुष्ठी वा व्याधितो ऽपि वा । आगतो वैश्देवान्ते द्रष्टव्यः सर्वदेववत् ॥२०८ क्षत्रियेणापि वैश्येन तथैव वृपलेन च ।
आतिथ्यं सर्ववर्णानां कर्तव्यं स्यादसंशयम् ॥२०६
[[७३४]]
वृहत्पराशर स्मृतिः ।
[ चतुर्थी-
योऽतिथिं पूजयेद्भक्त्या अन्याभ्यागतमेव च । बाल-वृद्धादिकं चैव तम्य विष्णुः प्रसीदति ॥२१० देवा मनुष्याः पितरश्च सर्वे म्युर्येन तृप्तेन च भूरि दिष्टम् । त मान्न दातुस्त्वमराङ्गनाभिस्तम्यातिथेः केन समत्वमस्ति ॥ २११
इति आतिथ्यविधिः ।
अथ वर्णाश्रमधर्मवर्णनम् ।
वर्णधर्मान् प्रवक्ष्यामि यत कृत्यं ब्राह्मणादिभिः । निबोधध्वं द्विजास्तद्वै संक्षेपेण पृथक् पृथक् ॥ २१२ यजनं याजनं विप्रं तथा दान - प्रतिग्रहौ । अध्यापनमध्ययनं कर्माण्येतानि षट् तथा ॥२.१३ प्रजानां रक्षणं दानमरीणां निग्रहस्तथा । यजना -ऽध्ययने राज्ञि विपयासक्तिवर्जनम् ॥ २१४ यजना -ऽध्ययने दानं पशुपाल्यं तथा विशि । वाणिज्यं च कुसीदं च कर्मपटुकं प्रकीर्तितम् ॥ २१५ शुश्रूषा ब्राह्मणादीनां तदाज्ञापालनं तथा ।
एष धर्मः स्मृतः शूद्रे वाणिज्येन च जीवनम् ॥२१६ सर्वेषां जीवनं प्रोक्तं धर्मेणैव च कर्षणम् ।
भिन्नवृत्तिर्यथा न स्यात् कुर्याद्विप्रस्तथा च तत् ॥ २१७ कुर्वन्नुक्तानि कर्माणि वृत्या वा क्षत्रियस्य च । वृत्त्यभावे द्विजो जीवेद्भिन्नवृत्ति विवर्जयेन ॥२१८ प्रजानां पालनं दानं शस्त्रभृत्त्वं प्रचण्डता । निर्जयः परसैन्यानामेष धर्मः स्मृतो नृपे ॥ २१६
ऽध्यायः ]
वर्णाश्रमधर्मवर्णनम् ।
पु.पं पुष्पं विचिनुयान् मूलच्छेदं न कारयेत ।
मालाकार इवाऽऽरामे प्रजासु स्यात्तथा नृपः ॥ २२० लोहकर्मरथानां च गवां च प्रतिपालनम् । गोरक्षा कृषि-वाणिज्यं वैश्यवृत्तिरुदाहृता ॥२.२१ शूद्रस्य द्विजशुश्रूषा परो धर्मः प्रकीर्तितः । अन्यथा कुरुते यत्तु तद्भवेत्तस्य निष्फलम् ॥२२२ लवणं मधु तैलं च दधि तक्रं घृतं पयः ।
न दुष्येच्छ्रद्रजातीनां कुर्यात् सर्वम्य विक्रयम् ॥ २२३ विक्रयं मद्यमांसानामभक्ष्यस्य च भक्षणम् । अगम्यागामिता चौयं शूद्रे म्युः पातहेतवः ॥२२४
कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।
वेदाक्षरविचारेण शूद्रस्य नरको ध्रुवम् २०५
[[७३५]]
इति श्री बृहत् पराशरीये धर्मशास्त्र सुव्रतप्रोक्तायां संहितायां
चतुर्थो ऽध्यायः ॥ ४ ॥
॥ पञ्चमोऽध्यायः ॥
अथ गोमहिमावर्णनम् ।
अतः परं गृहस्थस्य कर्माचारं कलौ युगे । वर्णसाधारणं साक्षाचातुर्वक्रमेण तु ॥ १ युष्माकं सम्प्रवक्ष्यामि पराशरखचोदितम् । षट्कर्मसहितो विप्रः कृपिवृत्ति समाश्रयेत् ॥ २
[[७३६]]
वृहत्पराशरस्मृतिः ।
[ पचमो-
हीनाङ्गं व्याधिसंयुक्तं प्राणहीनं च दुर्बलम् । क्षुद्युक्तं तृपितं श्रान्तमनाहं न वाहयेत् ॥३ स्थिराङ्गं नीरुजं तृप्तं साण्डं पण्ढविवर्जितम् । अधृष्यं सबलप्राणमनड्राहं तु वाहयेत् ॥४ वाहयेद् दिवसस्याध ततः स्नानं समाचरेत् । कुवैर्न कृषि कुर्यात् सर्वथा धेनुसंग्रहम् ॥५ बन्धनं पालनं रक्षां द्विजः कुर्याद्गृही गवाम् । वत्साश्च यत्नतो रक्ष्या वर्धन्ते ते यथा क्रमात् ॥६ न दूरे तास्तु नेतव्याश्वारणाय कदाचन । दूरे गावश्चरन्त्यो हि न भवन्ति शुभावहाः ॥७ प्रातरेव हि दोग्धव्या दुह्यात् सायं न ता गृही । दोग्धुर्द्विः पयसो नैव वर्धन्ते ताः कदाचन ॥८ अनादेयहणान्यत्त्वा स्रवन्त्यनुदिनं पयः । तुष्टिदा देवतादीनां पूज्या गावः कथं न ताः ॥
स्वाश्च गावः शमयन्ति पापं संसेविताश्चोपनयन्ति वित्तम् ।
ता एव दत्तास्त्रिदिवं नयन्ति
गोभिर्न तुल्यं धनमस्ति किचित् ॥१० यस्याः शिरसि ब्रह्माऽऽस्ते स्कन्धदेशे शिवः स्थितः । पृष्ठे नारायणस्तस्थौ श्रुतयश्चरणेषु च ॥ ११
या अन्या देवताः काश्चित्तस्या लोमसु ताः स्थिताः । सर्वदेवमया गावस्तुष्येत्तद्भक्तितो हरिः ॥ १२
ऽध्यायः ]
गोमहिमावर्णनम् ।
हरन्ति स्पर्शनात् पापं पयसा पोषयन्ति याः । प्रापयन्ति दिवं दत्ताः पूज्या गावः कथं न ताः ॥ १३ यत्वुराहतभूमेर्ये उत्पद्यन्ते रजः कणाः ।
[[७३७]]
प्रलीनं पानकं तस्तु पूज्या गावः कथं न ताः ॥१४ शकृन्मूत्रं हि यम्याग्तु पीतं दहति पातकम् । किमपूज्यं हि तम्या गांगिति पाराशरोऽब्रवीत् ॥१५ गौरवत्सा न streeा न चैवं गर्भसन्धिनी । प्रसूता च दशाहार्वाग्दोग्धि चन्नरकं व्रजेत् ॥१६ दुबेला व्याधिसंयुक्ता पुष्पिता या द्विवत्सका। साधुभिर्न च दोग्यव्या धार्मिकंधनमप्सुभिः ॥ १७ कुलान्ते पुष्पिता गावः कुलान्ते बहवस्तिलाः । कुलान्ते चलचित्ता स्त्री कुलान्ते बन्धुविग्रहः ॥१८ एकत्र पृथिवी सर्वा सशैलवन - कानना । तस्या गौययमी साक्षादेकत्रो भय तोमुखी ॥१६ यथोक्तविधिना चैता वर्णैः पाल्याः सुपूजिताः । पालयन् पूजयन्नताः स प्रेत्येह च मोदते ॥२० दक्षिणाभिमुखा गाव उत्तराभिमुखा अपि । बन्धनीयास्तयैताः स्युर्न प्राक् - पश्चिमतोमुखाः ॥२१ वाजि - गो-वृषशालायां सुतीक्ष्णं लोहदात्रकम् । स्थाप्यं तु सर्वदा तत् स्यादवलु विमोक्षकन् ॥२२ गावो देयाः सदा रक्ष्याः पाल्याः पोष्याश्च सर्वदा । ताडयन्ति च ये पापा ये चाक्रोशन्ति ता नराः ॥२३
[[४७]]
[[७३८]]
बृहत्पराशरस्मृतिः ।
[ पञ्चमो-
नरकानौ प्रपश्यन्ते गोनिःश्वासप्रपीडिताः । सपलाशन शुष्केण ता दण्डेन निर्वतयेत् ॥२४ गच्छ गच्छेति तां ब्रूयान् मा मा भैरिति वारयेत् । संस्पृशन् गां नमस्कृत्य कुर्यात्तां च प्रदक्षिणम् ॥२५ प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा । तृणोदकादिसंयुक्तं यः प्रदद्याद्भवाह्निकम् ॥ २६ सोऽश्वमेधसमं पुण्यं लभते नात्र संशयः । गवां कण्डूयनं स्नानं गवां दानसमं भवेत् ॥ २७ तुल्यं गोशतदानस्य भयतो गां प्रपाति यः । पृथिव्यां यानि तीर्थानि आसमुद्रं सरांसि च ॥२८ गवां शृङ्गोदक स्नान कलां नार्हन्ति षोडशीम् । पातकानि कुतस्तेषां येषां गृहमलंकृतम् ॥२६ सततं बालवसाभिर्गोभिः श्रीभिरिव स्वयम् । ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् ॥३० तिष्ठन्त्येकत्र मन्त्रास्तु हविरेrत्र तिष्ठति । गोभिर्यज्ञाः प्रवर्तन्ते गोभिर्देवाः प्रतिष्ठिताः ॥ ३१ गोभिर्वेदाः समुद्रीर्णाः षडङ्गाः सपद क्रमाः । सौरभेयास्तु यस्या पृष्ठतो यम्य ताः स्थिताः ॥३२ वसन्ति हृदये नित्यं तासां मध्ये वसन्ति ये । ते पुण्यपुरुषाः क्षोण्यां नाकेऽपि दुर्लभाश्च ते ॥३३ ये गोभक्तिकरा नित्यं भवन्ते ये च गोप्रदाः । शृङ्गमूले स्थितो ब्रह्मा शृङ्गमध्ये तु केशवः । शृङ्गा शंकरं विद्यात्त्रयो देवाः प्रतिष्ठिताः ॥ ३४
ऽध्यायः ]
गोमहिमावर्णनम् ।
शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च । सर्वे देवाः स्थिता देहे सवदेवमयी हि गौः ॥ ३५ ललाटा स्थिता देवी नासामध्ये तु षण्मुख । कम्बलाश्वतरौ नागौ तत्कर्णाभ्यां व्यवस्थितौ ॥३६ स्थितौ तस्याश्च सौरभ्याश्चक्षुषोः शशिभाकरौ । दन्तेषु वसवश्चाष्टौ जिह्वाया वरुणः स्थितः ॥ ३७ सरस्वती च हुंकारे यम-यक्षौ च गण्डयोः । ऋषयो रोमकूपेषु प्रस्त्रावे जाह्नवीजलम् ॥३८ कालिन्दी गोमये तस्या अपरा देवतास्तथा । अष्टाविंशतिदेवानां कोट्यो लोमसु ताः स्थिताः ॥ ३६ उदरे गार्हपत्योऽग्निह दये दक्षिणस्तथा ।
मुग्वं चाहवनीयस्तु सभ्याऽऽवसथ्यौ च कुक्षिषु ॥४० एवं यो वर्तते गोषु ताडनक्रोधवर्जितः । महतीं श्रियमाप्नोति स्वर्गलोके महीयते ॥४१ कुलं तस्या न शङ्क ेत पूतिगन्धं न वर्जयेत् । यावत् पिबति तद्दुग्धं तावत् पुण्यं प्रवर्धते । ४२ यो गां पयस्विनीं दद्यात्तरुणां वत्ससंयुताम् । शिवस्यायतने दत्त्वा दत्तं तेन तु विश्वकम् ॥४३
इति गोमहिमावर्णनम् ।
-:00:-
[[७३६]]
[[७४०]]
बृहत्पराशरस्मृतिः ।
अथ समहत्ववृषभपूजनवर्णनम् ।
उक्षाणो वेधसा सृष्टाः सस्यस्योत्पादनाय च । तैरुत्पादितसस्येन सर्वमेतद्विधार्यते ॥४४
यश्चैतान् पालयेद्यनाद्वर्धयेच्चैव यत्नतः ।
[ पथ्यमो-
जगन्ति तेन सर्वाणि साक्षात् स्युः पालितानि च ॥४५
यावगोपालने पुण्यमुक्तं पूर्वमनीपिभिः ।
।
उक्ष्णोऽपि पालेन तेषां फलं दशगुणं भवेत् ॥४६ जगदेतद्घृतं सर्वमनडुद्भिश्चराचरम् ॥४७
वृष एव ततो रक्ष्यः पालनीयश्च सर्वदा । धर्मोऽयं भूतले साक्षाद् ब्रह्मणा वतारितः ॥ ४८ त्रैलोक्यधारणायालमन्नानां च प्रसूतये ।
अनादेयानि घासानि विघसन्ति स्वकामतः ॥४६
भ्रमित्वा भूतलं दूरमुक्षाणं को न पूजयेत् । उत्पादयन्ति सस्यानि मर्दयन्ति वहन्ति च । आनयन्ति दवीयस्तदुक्षतः कोऽधिको भुवि ॥ ५०
स्कन्धेन दूराच्च वहन्ति भारमाख्याति पत्युर्न च भारयुक्ताः । स्वीयेन देहेन परस्य जीवान्पुष्यन्ति रन्ति च वर्धयन्ति ॥५१ पुण्यास्तु गावो वसुधातले या बिभ्रत्यमुं गोवृपगर्भभारम् ।
भारः पृथिव्या दशताडिताया एकस्य चोक्ष्णो ह्यपि साधुवाचः ॥५२ एकेन दत्तेन वृषेण येन भवन्ति दत्ता दश सौरभेय्यः ।
माहेय्यपीयं धरणीसमाना तस्माद्वृषात् पूज्यतमोऽस्ति नान्यः ॥ ५३ऽध्यायः ]
समहत्ववृषभपूजनबर्णनम्
उत्पाद्य सस्यानि तृणं चरन्ति तदेव भूयः सततं वहन्ति ।
[[७४१]]
न भारखिन्ना प्रवदन्ति किंचिदहो वृपैर्जीवति जीवलोकः ॥५४
तृतीये चतुर्थ वा यदा वत्सो दृढो भवेत् ।
तदा नामाऽस्य भेतव्या नैव प्राग्, दुबलस्य च ॥५५
नासावेधनकीलं तु ग्वादिरं वाथ शैशपम ।
।
द्वादशाङ्गुलकं कार्यं तज्जस्तैश्च समं च वा ॥५६
शालां द्विजेन्द्रा वृष गो-हयानां
तां याम्यदिग्द्वारवतीं विदध्यान । सौम्याककुद्वारवतीं सुशोभा
तेषां शमिन्छन ध वमात्मनश्च ॥/७ गावो वृपा वा हय हस्तिनो वा अन्येऽपि सर्वे पशवो द्विजेन्द्राः ।
याम्यामुखा बोत्तरदिङ्मुखा वा नान्याशकास्ते खलु बन्धनीयाः ॥५८ शालाप्रवेशे वृप- गो-पशूनां राजा ऽपि यन्नाद्धय - कुञ्जराणाम । होमं च सप्ताचिपि शास्त्रयुक्तं कुर्याद्विधिज्ञो द्विजपूजनं च ॥५६
इति समहत्ववृपभपूजनवर्णनम् ।
अथ हल ( वेध ) करण वर्णनम् । लाङ्गलं सम्प्रवक्ष्यामि यत्काष्ठ यत्प्रमाणतः ।
हलेषायास्तथोन्मानं प्रतोदस्य युगस्य च ॥६०
[[७४२]]
वृहत्पराशरस्मृतिः ।
चत्वारिंशत्तथा चाष्टावङ्गुलानि कुथः स्मृतः । अर्धार्धमङ्गुलैर्भाज्यो हलेषावेधतश्च यः ॥ ६१ षोडशैव तु तस्याधः पविशति तथोपरि । वेधस्तस्याश्च कर्तव्यः प्रमाणेन पडङ्गुलः ॥६२ अङ्गुलैश्चाष्टभिस्तस्माद्वेधः स्यात् प्रातिहारिकः । तस्याधस्ताच्च चत्वारि वेधश्च चतुरङ्गुलः ॥६३ अष्टाङ्गुलमुरस्तस्य वेधादृध्वं प्रकल्पयेत् ।
[ पश्वमो-
ग्रीवा दशाङ्गुला चोध्वं हस्तग्राही ततः स्मृता ॥ ६४ साऽपि तज्छौः शुभा कार्या तद्वेधयो भवेत । पथ्व कुलं पुरस्तस्य शिरसोऽपि विभावनम् ॥६५ पृथुत्वं शिरसो धायं हस्ततलप्रमाणकम् । अङ्गुलानि तथा चालौ उरसः पृश्रुता भवेत् ॥६६ वेधाद्बहिः प्रतीकारी पत्रिंशदकुला भवेत् । सुतीक्ष्णलोहफलका मृत्काष्ठादिविदारकृत् ॥६७ न सीरं क्षीरवृक्षस्य न बिल्व - पिचुमन्दयोः । इत्यादीनां हि कुर्वाणो न नन्दति चिरं गृही ॥ ६८ प्रक्षाक्षयोर्न तन कुर्यात् कीर्तिघ्नौ तौ प्रकीर्तितौ । तयोः काष्ठस्य तन् कुर्वन्ससस्यो नश्यति ध्रुवम् ॥६६ प्राञ्जला सप्तहस्ता च चतुरस्राऽयवर्तुला । सालादिशुभकाष्ठानां हलीपा विदुषां मता ॥७८ अस्या वेधः सकर्णायाः कार्यो नववितस्तिभिः । नीचोचवृपमानेन तज्ज्ञा एवं वदन्ति हि ॥७१
ऽध्यायः
हल ( वेध ) करणबर्णनम् ।
- चतुर्हस्तं युगं कार्य स्कन्धस्थानेऽर्द्धचन्द्रवत् । मेषशृंग्याः कदम्बस्य सालाद्यन्यतमस्य वा ॥७२ शम्या वेधाद्बहिः कार्या दशाङ्गुलप्रमाणिका ।
-
।
तन्मानेन प्रणाली च तदन्तरदशाङ्गुलम् ॥७३ प्रतोदश्च समग्रन्थिर्वेणवश्च चतुष्करः । तदग्रे चापि कर्तव्यो यवाकारस्तु लोहजः ॥७४ हीनातिरिक्तं कर्तव्यं नैव किश्विन् प्रमाणतः । कुर्यादनडुहोऽदैन्यान्यात्तु नरकं व्रजेत् ॥७५ यथा दृढं यथाशोभं वाहकस्य प्रमाणत । भूमेश्च कर्षणायालं तज्ज्ञाः सीरं वदन्ति हि ॥ ७६ योजनं तु हलस्याथ प्रवक्ष्यामि यथा तथा । ज्येष्ठानक्षत्रसंयुक्तं पुण्येऽन्हि तद्विधीयते ॥७७ अन्यत्र वा शुभे भे च तत्र कार्यं विपश्चिता । यत्तु कृत्यं हितं वापि पुण्यं वा मनसि स्फुरेन् ॥७८ मातृश्राद्धं द्विजः कुर्याद्यथोक्तविधिना गृही । द्रव्य- कालानुसारेण कुर्वाणो धर्मतः कृषिम् ॥७६ प्रोल्लिख्य मण्डलं पुप-धूप-दीपैः सम तत् । इन्द्राय च तथाऽश्विभ्यां मरुद्भ्यश्च तथा द्विजः ॥८० कुर्याद्वह्नितिं विद्वान् उदग्वै कश्यपाय च । तथा कुमायें सीतायै अनुमत्यै तथा बलिः ॥८१ नमः स्वाहेति मन्त्रेण स चेच्छन्नात्मनो हितम् । दधि-गन्धाऽक्षतैः पुष्पैः शमीपत्रैस्तिलैस्तथा ॥८२
[[७४३]]
[[७४४]]
वृहत्पराशरस्मृतिः ।
[ पञ्चमो-
दद्याद्बलिं वृषाणां च मध्वाज्यप्राशनं तथा । सङ्घप्य सीरफालामं हेना व रजतेन वा ॥८३ प्रलिप्य मधुसर्पिर्भ्यां कुर्याच तत्प्रदक्षिणम । अग्न्युक्ष्णोर्मण्डलं कृत्वा कुर्यात्मीरप्रवाहणम् ॥८४ पुण्य लाङ्गल कल्याण कल्याणाय नमोऽस्त्विति । सीतायाः स्थापनं कृत्वा पराशरमृषिं स्मरम् ॥८५ सीरा युञ्जन्ति इत्याद्यैर्मन्त्र मीरं प्रवाहयेत । दधि- दूर्वा ऽक्षतैः पुष्पै शमीपत्रैश्च पुण्यदैः ॥८६ सीतां पूज्य वृपौ भक्त्या रक्तवस्त्रविपाणको । सप्तधान्यानि चादाय प्रोक्ष्य पूर्वामुग्यो हली । तानि कृत्वोक्ष्णोः क्षेत्र च किरन् भूमिं कृपद्विजः ॥ ८७ न तिलैर्न यवहीनं द्विज’ कुर्वीत कर्पणम । तद्विहीनं तु कुर्वाणं न प्रशंसन्ति देवताः ॥८८ तिलपात्रच्युतं तोयं दक्षिणस्यां पतेद्दिशि । तेन तृप्यन्ति पितरो यावन्न तिलविक्रयः ॥८६ विक्रीणीते तिलान्यस्तु मुक्त्वाऽन्यद्धान्य सामकान् । विमुच्य पितरस्तं तु प्रयान्ति हि तिलैः सह ॥ ६० तुषाज्जलं यवस्थं च पात्रेभ्यो भूतले पतत । पयो- दधि घृताद्यैस्तु तर्पयेत्सर्वदेवताः ॥ ६१ दैव- पर्जन्य-भू-सीरयोगान कृषिः प्रजायते । व्यापारात पुरुषस्यापि तस्मात्तत्रोद्यतो भवेत् ॥१२
ऽध्यायः ]
कृन्याद्यनेकमबृषभवर्णनम् ।
शालीक्षु शण-कार्पास-वार्ताकप्रभृतीनि च । वापयेत सस्यबीजानि सर्वं वापि न सीदति ॥ ६३ चन्द्रक्षयं मतिर्विप्रो यो युनक्ति वृषं कचित । तं पञ्चदशवर्षाणि त्यजन्ति पितरो हिता ॥ ६४ चन्द्रक्षये तु योऽविद्वान् द्विजो मुक्त पराशनम । भोक्तमजितं पुण्यं भवेदशनदस्य व ॥५ चन्द्रार्कयोस्तु संयोगे कुर्याद्यः स्त्रीनिषेवणम । म्यूरेतोभोजनाम्तस्य तन्मासं पिनगे हताः ॥६६ चन्द्रक्षये तु य. कुर्यात्तरुस्तम्भनिकृन्तनम् । तत्पर्णसंख्यया तम्य भवन्ति भ्रूणहत्यकाः ॥६७ वनस्पतिगते सोमे योऽध्वानं तु व्रजेद्विजः । प्रभ्रष्टद्विजकर्माणं तं त्यजन्त्यमरादयः ॥६८ वामांसीन्दुप्रणाशे यो रजकस्याग्रतः क्षिपेत् । पिबति पितरस्तस्य मासं वस्त्रमलाम्वु तत् ॥ ह सोमक्षये द्विजो याति त्यक्त्वा यस्तु हुताशनम् । स देव - पितृशापादिग्धो नरकमाविगत ॥१०० अष्टमी कामभोगेन पटी तैलोपभोगतः ।
कुहूश्च दन्तकाष्ठेन हिनस्त्यासप्तमं कुम् ॥१०१ चन्द्राप्रतीतौ पुरुषस्तु देवादद्यादमत्या यदि दन्तकाष्ठम् ।
[[७४५]]
ताराधिराजः स्वदितस्नु तेन घातः कृतः स्यात्पितृ-देवतानाम् ॥१०२
तत्राभ्यज्य विषाणानि गावचैव तथा वृषाः ।
चरणाय विसृज्यन्ते आगतान् निशि भोजयेत् ॥१०३
[[७४६]]
वृहत्पराशर स्मृतिः ।
य उत्पाद्येह सस्यानि सर्वाणि तृणचारिणः । जगत् सर्व धृतं यैस्तु पूज्यन्ते किंन ते वृषाः ॥ १०४ चरणाय विसृष्टं तु यस्य गोदशकं भवेत् । यद्रूपेण स्थिो धर्मः पूज्यन्ते किं न ते वृषाः ॥ १०५
॥ स्युः पाल्या यन्नतम्ते वै वाहनीया यथाविधि । स याति नरकं घोरं यो वाहयत्यपालयन् ॥ १०६ नाऽधिकाङ्गो न हीनाङ्गः पुष्पिताङ्गो न दूषितः । वाहनीयो हि शूद्रेण वाहयन्क्षयमश्नुते ॥ १०७ वर्जयेद्दोषांश्च वाहने दोहने नरः ।
पाल्या वे यत्नतः सर्वे पालयन्च्छुभमाप्नुयात् ॥१०८ अन्नार्थमेतानुक्षाणः समर्ज परमेश्वरः । अन्नेनाप्यायते सर्व त्रैलोक्यं सचराचरम् ॥१०६ अग्निर्ज्वलति चान्नार्थं वाति चान्नाय मारुतः । गृह्णाति चाम्भमा सूर्यो रमानन्नाय रश्मिभिः ॥११० अन्नं प्राणो बलं चान्नमन्नाज्जीवितमुच्यते । अन्नं च जगदाधारं सर्वमन्नं प्रतिष्ठित ॥ १११ सर्वेषां देवतादीनामनं जीव. प्रकीर्तितः । तस्मादन्नात्परं तत्वं न भतं न भविष्यति ॥ ११२ द्यौः पुमान्धरणी नारी अम्भो बीजं दिवश्च्युतम् । द्य-धात्री- तोयसंयोगादन्नादीनां हि सम्भवः ॥ ११३ आपो मूलं हि सर्वस्य सर्वमप्सु प्रतिष्ठितम् । आपोऽमृतरसो ह्याप आपः शुक्रं बलं महः ॥११४
[ पथ्यमो-
ऽध्यायः ]
कृषिमहत्वधर्मवर्णनम् ।
सर्वस्य बीजमापो हि सर्वमद्भिः समावृतम् ।
सद्य आप्यायना ह्याप आपो ज्येष्ठतरा ह्यतः ॥११५ किश्वित्कालं विनाऽन्नाद्य जीवन्ति मनुजादयः । न जीवन्ति विना ताभिस्तस्मादापोऽमृतंस्मृताः ॥ ११६ दत्ताभिरद्भिरेतस्यां किं न दत्तं कलौ युगे । यथान्नंन प्रदत्तेन सर्व दत्तं भवेदिह ॥११७ अतोऽप्यनार्थभावेन कर्तव्यं कर्षणं द्विजः । यथोक्तंन विधादेन लाङ्गलादि प्रयोजनम ॥११८ सीते सौम्ये कुमारि त्वं देवि देवाचिते श्रिये । शक्तिसूनोयथा सिद्वा तथा मे सिद्धिदा भव ॥ ११६ शक्तिपूनोर्विना नाम्ना मीताया. स्थापनं विना । विनाऽभ्युक्षणरक्षार्थं सर्वं हरति राक्षसः ॥ १२० वापने लवने क्षेत्र खले गन्त्रीप्रवाहणं ।
एप एव विधिर्ज्ञेयो धान्यानां च प्रवेशने ॥ १२५ देवतायतनोद्यान - निपातस्थान - गोत्रजान् ।
सीमा - श्मशान भूमिं च वृक्षच्छायां क्षितिं तथा ॥१२० भूमिं निखातं यूपांश्व अयनस्थानमेव च ।
अन्यामपि हि चाऽवाह्मां न कृत्कृषिकृद्धराम् ॥ १२३ नोपरां वाहयेद्भूम न चाश्म शर्करावृताम् ।
न गोचरां न प्रदत्तां न नदीपुलिनां तथा ॥ १२४ यद्यसौ वाहयेोभाद्वेषाद्वापि हि मानवः ।
क्षीयतेऽसौ चिरात्पापात् सपुत्र- पशु - बान्धवः ॥ १२५
[[७४७]]
[[७४८]]
वृहत्पराशरस्मृतिः ।
नरकं घोरतामिस्त्रं पापीयान् याति निश्चितम् । योऽपहृत्य परकीयां कृषिकृ महयेद्धराम ॥१२६ स भूमिस्तेयपापेन सुचिरं नरके बसेत् । एकसयमपि स्वर्णं भूमिमङ मात्रिकाम ॥१२७ तथैकामपि गां हत्वा सृष्य्यन्तं नरकं वसेत् । न हरे वाहयेत क्षेत्रं न चैवात्यन्तिके तथा ॥ १२८ वाहयेन्न पथि क्षेत्र वाहयन्दुःखभाग्भवेत् । क्षेत्रेष्वेवं वृतिं कुर्याद्यामुटो नावलोकयेत् ॥ १२६ न लङ्घयेत्पशुनाश्वो नभिन्द्यायां च शूकरः । वन्याश्च यत्नतः कार्या मृगादिवासनाय च ॥ १३० अत्राप्युपद्रवं राज्ञा तस्करादिसमुद्भवम् । संरक्षेत्सर्वतो यन्नाद्यस्मात् गृहात्यमौ करान् ॥ १३१ कृषिक मानवत्वेवं मत्वा धर्म कृद्धराम् । अनवद्यां शुभां स्निग्धां जलवगाहनक्षमाम् ॥१३२ निम्नां हि बाहयेद्भूमिं यत्र विश्रमते जलम् । वाहयेत्त जलाभ्यर्णमवृष्टौ सेकसम्भवः ॥ १३३ शाग्धमुनर्भूमौ काय वापयेद्धली । अधित्यकासु कार्पासं वदन्त्यन्यत्र हैमकम् ॥१३४ वासन्तं प्रीष्मकालीयं वाप्यं स्निग्धेषु तद्विदा । केदारेपु तथा शालीञ्जलोपान्तेषु चेनवः ॥ १३५ वृन्ताक - शाकमूलानि कन्दानि च जलान्तिके । वृष्टिविश्रान्तपानीयक्षेत्रेषु च यवादिकान् ॥१३६
[ पञ्चमो-
ऽध्यायः ]
कृषि महत्वधर्मवर्णनम् ।
गोधूमाश्च मसूराश्च खल्याः खलकुशास्तथा ।
समस्निग्धेषु वाप्याश्च भूमिजीवान्विजानता ॥ १३७ तिला बहुविधाश्चोप्या अतसी - शणमेव च । समस्निग्धेषु वाप्यानि धान्यान्यन्यानि योगतः ॥ १३८
कुलत्था मुद्रमाषाश्च राजमाषादिकास्तथा ।
वाप्या भूमिविशेष तु भूमिजीवं विजानता ॥ १३६ मृदम्बुयोगजं सर्वं वापयेत्कृपिकृन्नरः ।
सम्पश्येच्चरतः सर्वान् गोवृपादीन स्वयं गृही ॥१४० चिन्तयेत् सर्वमात्मीयं स्वयमेव कृपिं व्रजेत । प्रथमं कृपिवाणिज्यं द्वितीयं पशुपोपणम् ॥१४१ तृतीयं क्रीतविक्रीतं चतुथं राजसेवनम् । नखैर्विलिखने यस्याः पापमाहुर्मनीषिणः ॥ १४२ तस्याः सीरविदारेण किं न पापं क्षितेर्भवेत् । तृणैकच्छेदमात्रेण प्रोच्यते क्षय आयुपः ॥ १४३ असङ्ख्यकन्दनिर्नाशादसङ्ख्यातं भवेदधम् । यद्वर्षे मत्स्यबन्धानां तथा सङ्करिणामपि ॥ १४४ अंहः कुक्कुटिकानां च तद्दिने कृषिकारिणाम् । वधकानां च यत् पापं यत् पापं मृगयोरपि । कदर्याणां च यत् पापं तहिने कृषिकारिणाम् ॥१४५ वर्णानां च गृहस्थानां कृषिवृत्त्युपजीविनाम् । तदेनसो विशुद्धयर्थं प्राह सत्यवतीपतिः ॥ १४६
[[७४६]]
[[७५०]]
वृहत्पराशरस्मृतिः ।
[ पञ्चमो-
द्वादशो नवमो वापि सप्तमः पञ्चमोऽपि वा । धान्यभागः प्रदातव्यो सीरिणा खलके ध्रुवम् ॥ १४७ अश्मर्यव्यूढभूमौ च विंशांशी क्षेत्रभुग्भवेत् । एकैकांशाय कर्षः स्याद्यावद्दशम - सप्तमौ ॥ १४८ ग्रामेशस्य नृपस्यापि वर्णिभिः कृषिजीविभिः ॥१४६ सस्यभागः प्रदातव्यो यतस्तौ कृपिभागिनौ । ब्राह्मणस्तु कृषि कुर्वन्वाहयेदिच्छया धराम ॥ १५० न किञ्चित् कस्यचिद्दद्यात्स सर्वस्य प्रभुर्यतः । ब्रह्मा व ब्राह्मण चास्यात्प्र मुस्त्वसृजदादितः ॥ १५१ तद्रक्षणाय बाहुभ्यामसृजत् क्षत्रियानपि । पशुपाल्याशनोत्पत्यै ऊरुभ्यां च तथा विशः ॥१५२ द्विजदास्याय पण्याय पद्भयां शूद्रमकल्पयत् । यकिञ्चिज्जगतीहात्र भू-गेहाश्च गजादिकम ॥ १५३ स्वभावेन हि विप्राणां ब्रह्मा स्वयमकल्पयत् । ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ ॥ १५४
न तयोरन्तरं किश्वित् प्रजाधर्माभिरक्षणे । तस्मान्न ब्राह्मणो दद्यात् कुर्वाणो धर्मतः कृषिम् ॥१५५ ग्रामेशस्य नृपस्यापि कियन्तमप्यसौ बलिम् । अथान्यत् सम्प्रवक्ष्यामि कृषिकृच्छुद्धिकारणम् ॥१५६ संशुद्धः कर्षको येन स्वर्गलोकमवाप्नुयात् । सर्वसत्वोप्रकाराय सर्वयोपसिद्धये ॥ १५७ऽध्यायः ]
कृषिकृच्छुद्धिकारवर्णनम् । ।
नृपस्य कोशवृद्धयर्थं जायते कृषिकृन्नरः ।
कुर्यात्कृषि प्रयत्नेन सर्वसत्वोपजीविनीम ॥ १५८ पितृ-देव- मनुष्याणां पुष्टये स्यात् कृपीवलः ।
वयांसि चान्यसत्वानि श्रुत्तष्णापीडिताः प्रजाः ॥ १५६ उपयुञ्जन्ति सस्यानि क्षेत्रजातानि नित्यशः । पुष्ट्यर्थं मुष्टिमेकां वा ददत्पापं व्यपोहति ॥ १६० यस्य क्षेत्रस्य यावन्ति सस्यान्यदन्ति प्राणिनः । तावन्तोऽपि विमुच्यन्ते पातकात कृषिकारकाः ॥ १६१ कृताग्निकार्यदेहोऽपि ब्राह्मणोऽन्यतमोऽपि वा । आददानः परक्षेत्रात् पथि गच्छन्न लिप्यते ॥ १६२ क्षेत्री विमुच्यते दोषात् नियतं कृपिसम्भवात् । गृहीतं क्षेत्रिणो धान्यं निवेदयति वाण्वपि ॥ १६३ अनिवेदिते तद्धं स्यात् पातकं कर्षुकस्य च। भावशुद्धावतो धर्मो ह्यनेन तद्विशोधयेत् ॥ १६४ मुष्टिं तु कल्पयन्धान्यं सर्वपापं व्यपोहति । यत्किश्विदर्शिने दद्याद्भिक्षामात्रं च भिक्षवे ॥ १६५ अन्नं सुसंस्कृतं वापि तेन सीरी विशुद्धयति । सीतायां च यः कुर्यात् सिद्धसस्ये खलागते ॥ १६६ अनन्तकृतपापोऽपि मुक्तो भवति कर्षुकः । खलयां प्रवक्ष्यामि तत्कुर्वाणा द्विजातयः ॥ १६७ विमुक्ताः सर्वपापेभ्यः स्वर्गौकस्त्वमवाप्नुयुः । चतुर्दिक्षु खले कुर्यात्प्राच्यमतिघनावृतिम् ॥१६८
[[७५१]]
[[७५२]]
वृहत्पराशरस्मृतिः ।
सेकद्वारं पिधानं च विदध्याश्चैव सर्वतः ।
[[1]]
[ पञ्चमो-
खरोष्ट्राजोरणांस्तत्र विशतस्तु निवारयेत् ॥ १६६ श्व - शूकर- शृगालादिकाकोलूक- कपोतकान् । त्रिस. ध्यं प्रोक्षणं कुर्यादानीताभ्युक्षणाम्बुभिः ॥ १७० रक्षां च भस्मना कुर्याज्जलधाराभिरक्षणम् । त्रिसन्ध्यमर्चयेत्सीतां पाराशरमृपिं म्मग्न ॥ १७१ प्रेत-भूतादिनामानि न वदेव तद्ग्रत । सूतिकागृहवत्तत्र कर्त यं परिरक्षणम् ॥ १७२ हरन्त्यरक्षितं यस्माद्रक्षांसि सर्वमेव हि । प्रशस्तदिन पूर्वाह्न नाऽपराह्न न सन्ध्ययोः ॥ १७३ धान्यात्मानं सदा कुर्यात् सीतापूजनपूर्वकम । यजेत खलभिक्षाभिः काले रोहिण एव हि ॥१७४ भक्त्या सर्व प्रदत्तं हि तत्ममस्तमिहाक्षयम् । खलयो दक्षिणैषा ब्रह्मणा निर्मिता पुरा ॥ १७५ भागवेयमयीं कृत्वा तां गृह्णन्त्वीह मामिकाम् । शतक्रत्वादयो देवाः पितरः सोमपादयः ॥ १७६ सनकादिमनुष्याश्च ये चान्ये दक्षिणाशनाः । एतानुद्दिश्य विप्रेभ्यो प्रदद्यात् प्रथमं हली ॥१७७ विवाहे खलयज्ञे च सङ्क्रान्तौ ग्रहणेषु च । पुत्रे जाते व्यतीपाते दत्तं भवति चाक्षयम् ॥ १७८ अन्येषामर्थिनां पश्चात्कारुकाणां ततः परम् । दीनानामप्यनाथानां कुष्ठिनां कुशरीरिणाम् ॥ १७६
ऽध्यायः ]
कृषिकर्मकरणससीतायज्ञवर्णनम् ।
क्लीबा - ऽन्ध-बधिरादीनां सर्वेषामपि दीयते । वर्णानां पतितानां च ददद् भुक्तानि तर्पयेत् ॥१८० चाण्डालांश्च श्वपाकांश्च प्रीणात्युच्चावचांस्तथा । ये केचिदागतास्तत्र पूज्याम्तेऽतिथिवद्विजाः ॥ १८१ स्तोकशः मीरिभिः सर्वैर्वणिभिगृहमेधिभिः । दत्वा सूनृतया वाचा क्रमेणाथ विसर्जयेत् ॥ १८२ तत्कृत्वा स्वगृहं गत्वा श्राद्वमाभ्युदयं चरेत । शरद्धंमन्त-वामन्त-नवान्नैः श्राद्धमाचरेत् ॥१८३ नो त्वान्न तदश्नीयादश्नंश्चदघमश्नुते ।
कृपावुत्पाद्य धान्यानि खलया समाप्य च ॥ १८४ सर्वमत्वहिते युक्त इहामुत्र सुखी भवेन ।
।
कृपख्यत्र नो धर्मो न लाभः कृषितोऽन्यतः ॥ १८५ सुखं न कृपितोऽन्यत्र यदि धर्मेण वर्तते । अवस्त्रत्वं निरन्नत्वं कृषितो नव जायते ॥ १८६ अनातिथ्यं च दुःखित्वं गोमतो न कदाचन । निर्धनत्वमसत्यत्वं विद्यायुक्तस्य कर्हिचित् ॥ १८७ अस्थानित्वमभाग्यत्वं न सुशीलस्य कर्हिचित् । वदन्ति मुनयः केचित् कृप्यादीनां विशुद्धये ॥१८८ लाभस्यांशप्रदानं च सर्वेषां शुद्धिकृद्भवेत् ।
प्रतिग्रहात चतुथांशं वणिग् लाभात् तृतीयकम् ॥ १८६ कृषितो विंशतिं चैव ददतो नास्ति पातकम् । राज्ञो दत्वा च षड्भागं देवतानां च विंशकम् ॥ १६०
[[४८]]
[[७५३]]
[[७५४]]
वृहत्पराशरस्मृतिः ।
त्रयस्त्रिंशंच विप्राणां कृषिकर्मा न लिप्यते ॥
कृष्या यथोत्पाद्य यवादिकानि धान्यानि भूयांसि मखान्विधाय । मुक्तो गृहस्थोऽपि पराशरः प्राकू
तम्या मया कश्चिदवादि शेषः ॥ १६१ देवा मनुष्याः पितरच सर्व
साध्याश्च यक्षाश्च सकिन्नराश्च ।
गावो द्विजेन्द्राः सह सर्वसत्वः
कृष्यन्नतृप्तानि मनाक् करोति ॥ १६२
यश्चैतालोच्य कृषि विदध्यात्
लिप्येन पापेन स भूभवेन ॥ सीरेण तस्यातिविदारितापि
स्यादुद्भूतधात्री वनदानदात्री ॥१६३ पट्कर्माणि कृषिं ये तु कुर्युर्ज्ञात्वा विधि द्विजाः । तेऽमरादिवरप्राप्ताः स्त्रर्गलोकमवाप्नुयुः ॥१६४ षट्कर्मभिः कृषिः प्रोक्ता द्विजानां गृहमेधिनाम् । गृहं च गृहणीमाहुस्तद्विवाहो मयोच्यते ॥ १६५
इति श्रीवृहत्पराशरीये धर्मशास्त्रं सुव्रतप्रोक्तायां स्मृत्यां कृषिकर्मसीतायज्ञोपधर्मो नाम पञ्चमोऽध्यायः ॥
-888-
[ पथ्यमो-
ऽध्यायः ]
कन्याविवाहवर्णनम् ।
[[७५५]]
॥ अथ षष्ठोऽध्यायः ॥
अथ कन्या विवाहवर्णनम् ।
स्वयं च वाहितैः क्षेत्रर्धान्येश्व स्वयमर्जितैः । कुर्याद्विवाहयोगादि पञ्चयज्ञांश्च नित्यशः ॥ १ अष्टौ विवाहा नारीणां संस्कारार्थ प्रकीर्तिताः । ब्राह्मादिकक्रमेणैतान्सम्प्रवक्ष्याम्यतः पृथक् ॥ २ जात्यादिगुणयुक्ताय पुंस्त्वे सति वराय च । कन्याऽलङ्कृत्य दीयेत विवाहो वैधसः स्मृतः ॥ ३ रेतो मज्जति यस्याप्सु मूत्रं च ह्रादि फेनिलम । म्यान पुमाल्लक्षणैरेतैर्विपरीतस्तु पण्डकः ॥४ यो यज्ञे वर्तमाने तु ऋत्विजे कर्म कुर्वते । कन्याऽलङ्कृत्य दीयेत विवाहः स तु दैविकः ॥ ५ वराय गुणयुक्ताय विदुषं सदृशाय च ।
॥५
कन्या गोद्वयमादाय दीयेताऽऽर्षः स उच्यते ॥ ६
कन्या चैत्र वरश्वोभौ स्वेच्छया धर्मचारिणौ । स्यातामिति च यत्रोक्त्वा दानं कायविधिस्त्वयम् ॥७ एतावद्दहि मे द्रव्यमित्युक्त्वा प्राग्वराय च । यत्र कन्या प्रदीयेत स वै दैत्यविधिः स्मृतः ॥८ यत्रान्योन्याभिलाषेण उभयोर्वर-कन्ययोः । तयोस्तु यो विवाहः स्याद्रान्धर्व प्रथित स तु ॥ युद्ध हृत्वा बलात् कन्या यत्राऽऽच्छ्रिद्याऽपहृत्य च । उद्यते स तु विद्वद्भिर्विवाहो राक्षसः स्मृतः ॥ १०
[[७५६]]
वृहत्पराशरस्मृतिः ।
।
सुमा कापि प्रमत्ता वा छलात् कन्या प्रगृह्यते । सर्वेभ्यः स तु पापिष्ठः पैशाचः प्रथितोष्टमः ॥११ आद्या आद्यस्य षट् प्रोक्ता धर्म्याश्चत्वार एव हि । चत्वारोऽन्ये द्वितीयम्य आद्यस्य च द्वयस्य च ॥१२ पञ्चमश्च तथा पष्ठः स्मृतौ तौ त्रि- चतुर्थयोः । द्वितीयम्यापि ये प्रोक्ता एतयोस्ते न चामः ॥ १३ वैधमाद्यनुरूपेण द्वितीयः परयोः स्मृतः । सर्व सम्ममेकस्य द्वितीयस्यैव कीर्तिताः ॥ १४ अन्त्यात्यधमौ चोक्ताबुद्वाहौ शक्तिसूनुना । तथा युगस्वरूपेण प्रोक्तो दैत्यस्तु मानुपः ॥१५ तायन्ते प्राक्कतोऽधस्ताच्चतुरोऽऽद्य विवाहजैः । स्वात्मना द्विगुणान् वंश्यान् दश सप्त-त्रयश्च षट् ॥१६ स्त्रीणामाजन्मशर्माथं वंशशुद्धौ प्रयत्नवान् । वरं हि वरयेद्विद्वाञ्जात्यादिगुणसंयुतम् ॥१७ जाति-विद्या-वयः - शक्तिरारोग्यं बहुपक्षता । अर्थित्वं वित्तसम्पत्तिरावेते वरे गुणा ॥१८ जातिर्विद्या च रूपं च शीलं चैव नवं वयः । अरोगित्वं विशेषेण पुंस्वे सत्यपि लक्षयेत् ॥१६ जातिं रूपं च शीलं च वयो नवमरोगिताम् । स्वाचारत्वं विशेषण संलक्ष्य वरमाश्रयेत् ॥२० सज्जातिं रूप- वित्तं च तथाऽप्रवयसं दृढम् । सन्तोषजननं स्त्रीणां प्रज्ञावानाश्रयेद्वरम् ॥२१
।
।
[ षष्ठो-
ऽध्यायः ]
विवाहेवरगुणवर्णनम् ।
न जातिं न च विद्यां च वित्तं नाऽचरणं स्त्रियः ।
किन्तु ताः प्रीतिमिच्छन्ति तस्मात् प्रीतिकरं श्रयेत् ॥२२ पित्रा यत्र सगोत्रत्वं मात्रा यत्र सपिण्डता । न च तामुद्वहेत्कन्यां दारकर्मण्यनादृताम् ॥२३ कन्यायाश्च वरस्यापि यत्रो भयोर्भवेद्रतिः । तथा कन्यां वरो धीमान्त्ररयेद्वंशशुद्धये ॥ २४ नाना मतानि सर्वेषां सतां सन्ति वरम्प्रति । सन्तानम्य विशुध्यर्थं जात्यादिपु च नाऽन्यतः ॥२५ दूरस्थानामविद्यानां मोक्षधर्मानुयायिनाम । शूराणां निर्धनानां च न देया कन्यकाः बुधैः ॥२६ नाऽतिदूरे न चाऽसन्न अत्याच्यं चाऽतिदुर्बले । वृत्तिहीने च मूर्खे च पट्सु कन्या न दीयते ॥ २७ वर्जयेदतिरिक्ताङ्गी कन्यां हीनाङ्गरोगिणीम । अतिलोम्री हीनलोन्रीमवाचमतिवाग्युताम् ॥२८ पिता पितामहो भ्राता माता मातामहोऽपि वा । कन्यादाः स्युः क्रमेणते पूर्वाभावे परः परः ॥२६ अधिकारी यदा न स्यात्तदाख्याय नृपस्य सा । तद्विरा च स्वयं गम्यं कन्यापि वरयेद्वरम् ॥३० पिङ्गलां कपिलां कृष्णां दुष्टवाक्काकनिःस्वनाम । स्थूलाङ्ग- जङ्घ-पादां च सदा चाऽप्रियबादिनीम् ॥३१ त्यजेन्नग - नदीनाम्नी पक्षि वृक्षक्षनामिकाम् ।
अहि-प्रेष्या - ऽन्त्यनाम्नीं च तथा भीषणनामिकाम् ॥३२
[[७५७]]
[[७५८]]
वृहत्पराशर स्मृतिः ।
स्वजातिमुद्वहेन कन्यां सुरूपां लक्षणान्विताम् । अरोगिणीं सुशीला च तथा भ्रातृमतीमपि ॥ ३३ सर्वावयवसम्पूर्णामसगोत्रां कुलोद्भवाम् । हंस- मातङ्गगमनां मुमृदंगी सुलोचनाम ॥३४ सलज्जां शुभनामां च पतिप्रीतिकरीमपि । श्वश्रूश्वशुर-गुर्वादिशुश्रूपाकारिणी प्रियाम् ॥३५ अव्यङ्गा कुलजातां तामनभिशन्नवंशजाम् । प्रस्वेःशुभगन्यां च शुभमिच्छन्समुद्रहन ॥३६ विप्र . स्वामपरे तु तु राजा स्वामपरे तथा । वैश्यः स्वाथ्व चतुर्थी च क्रमेणैव समुद्रटेन ॥ ३७ पितृतः मम्मीमक मातृतः पञ्चमीमपि । उदिति मन्यन्ते कुलधर्मान समाश्रिताः । ६८ उक्तलक्षणकन्यायाः कृत्वा पाणिग्रहं दिजः । धयोहान केनापि समादध्यादधुनाशनम् ॥३६ दायायकाले वा दद्यातदुक्तं कर्मजैः ।
यदा वापि भवेत् भक्तिः सम्पत्तिर्वा यदा भवेत् ॥४० ऋतावृत्तौ त्रियं गच्छेत्स्त्रीच्या च वरं म्मग्न । सर्वं तदिच्या कुर्याद्यथोभयोक्त्वृतिः ॥४१
G
भोज्या- ज्लङ्कार- वासोभिः पूज्याः स्युः सर्वदा स्त्रियः । यथा ता नेव शोचन्ति मित्यं कार्य तथा नृभिः ॥४२ आयुर्वित्तं यशः पुत्राः स्त्रीप्रीत्या स्युर्नृणां सदा ।
नश्यन्ते ते तदप्रीतौ तासां शापादसंशयम् ॥४३
[ षष्ठो-
ऽध्यायः
लक्ष्मीरूपास्त्रीवर्णनम् ।
स्त्रियश्च यत्र पूज्यन्ते सर्वदा भूपणादिभिः । देवाः पितृ-मनुष्याश्च मोदन्ते तत्र वेश्मनि ॥४४ स्त्रियस्तुद्राः श्रियः साक्षाद्राश्च दुष्टदेवताः । वर्धयन्ति कुलं तु नाशयन्त्यपमानिताः । ४५ नाऽपमान्याः स्त्रियः सद्भिः पति श्वशुर - देवरैः । भ्रात्रा पित्रा च मात्रा च तथावन्धुभिरेव च ॥४६ स्त्रियाश्च पुरुपस्यापि यत्रो भयोभवद्धृति । तत्र धर्मार्थकामाः म्युस्तदधीना यतरत्वमी ॥४७ षट्कर्माणि नृगा तेषां येषां भार्या पतिव्रता । पतिलोकं तु ता यान्ति तपसा येन योगवित् ॥४८ पतिव्रता तु साध्वी स्त्री अपि दुष्कृतकारिणम । पतिमुवृत्य याति द्यां केकीच पतितोरुगाम् ॥४६ जीवन्वापि मृतो वापि पतिरेव प्रभुः स्त्रियाः । नान्यच देवतं तासां तमेव प्रभुमचयेन ॥५०
मनमापि हि श्री यान्यभावा प्रियं पतिम ।
दुधा
सा याति नरकं घोरं तद्रोहागुतोऽपि च ॥१ नियोज्य गृहकृत्येषु सवदा ता नृभिः स्त्रियः । गृहाथ सिक्तचित्तान्तान्तदेवार्हन्ति शोचितुम ॥२ स्त्रीणामगुणः कामो व्यवसाय पड् गुणः । लज्जा चतुर्गुणा तामामाहारश्च तदर्धकः ॥५३ न वित्तं नैव जातिश्च नाऽपि रूपमपेक्षते । किन्तु ताभिः पुमानेष इति मत्वैव भुज्यते ॥५४
।
[[७५६]]
[[७६०]]
बृहत्पराशरस्मृतिः ।
विकुर्वाणाः स्त्रियो भतुरायुष्य धननाशकाः । अनायासेन तास्तस्य परासक्ता भवन्ति हि ॥५५ नारीणां च नदीनां च गतिर्न ज्ञायते बुधैः । कुलं कूलप्रपाते च कालक्षेो न विद्यते ॥५६ चेटा चारित्र चित्राणि देवा नैव विदुः स्त्रियाम् । किं पुनः प्राणिमात्रास्तु सर्वथा नष्टबुद्धयः ॥५७ तस्मात्ताः सर्वथा रक्ष्याः सर्वोपायैर्नृभिः सदा । श्वशुरैर्देव रास्ताः पितृ-भ्रात्रादिभिस्तथा ॥५८ विवाहान् प्राक् पिता र यौवने तु पतिस्ततः । रक्षयुवर्धके पुत्रा नाम्ति स्त्रीणां स्वतन्त्रता ॥५६ स्वातन्त्र्येण विनश्यन्ति कुलजा अपि योपितः । अम्वातन्त्र्यमतः स्त्रीणां प्रजापतिरकल्पयन् ॥ ६० अशौचाश्च सशौचाश्च अमेध्या अपि पावनाः । दुर्वाचोऽपि सुवाचस्तास्तम्मादन्वेषयेन ताः ॥ ६१ शौचं वाचं च मेध्यत्वं सोम - गन्धर्व - पावकाः । ददुस्तासां वराने तांस्तस्मान्मेध्यतराः स्त्रियः ॥ ६२ भर्तारो वो भविष्यन्ति युष्म चित्तानुसारिणः । यथेच्छाकामिनः सर्वे तासामिन्द्रो वरं ददौ ॥६३ तस्मात्तदिच्छया प्रीतिं पुमानिच्छेत्तथा स्त्रियः । रक्षणीयास्ततस्तास्तु सर्वभावेन योषितः ॥६४ सामाह मृक्थमित्याद्यैर्देवैर्न्यस्ता नृणां तनौ ।
अर्धकाया नराणां ताः स्त्रीणां नातः पृथक् व्रतम् ॥६५
[ षष्ठो-ऽध्यायः ]
गृहस्थधर्मवर्णनम् ।
न दिवापि स्त्रियं गच्छेदिच्छंस्तदिच्छ्यापि च । न पर्वसु न सन्ध्यासु नाऽऽद्य तु चतुरात्रिषु ॥ ६६ वन्ध्याष्टमेऽधिवेत्तव्या नवमे च मृतप्रजा । एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥ ६७ नोदक्यां न दिवा गच्छेत् सगर्भा च व्रतस्थिताम् । अधिगच्छेदविद्वान्यम्तदायुः क्षयमेनि च ॥ ६८ न वक्त्रेऽभिगमं कुर्यान पाणिग्राही स्वयोषितः । कुर्याच्चेत्पितरस्तस्य पतन्ति नरकेऽशुचौ ॥ ६६ भार्याधीनं सुग्वं पुंसां भार्याधीनं गृहं धनम । भार्याधीना सुखोत्पत्तिर्भार्याधीनः शुभोदयः ॥ ७० यत्र भार्या गृहं तत्र भार्याहीनं गृहं वनम । न गृहेण गृहस्थः स्याद्भार्यया कथ्यते गृही ॥७१ गृही म्याद गृहधर्मेण स वै पञ्चमखादिकः । तद्धीनो न गृहस्थः स्यात्कुर्यात्तं यत्नतस्ततः ॥७२ पञ्चयज्ञविधानेन कुर्यात्पञ्च महामखान् ।
श्रौते वा यदि वा स्मार्त्त पञ्चयज्ञान्न हापयेत् ॥७३ कुर्युः पञ्चमहायज्ञान् सूनादोषापनुत्तये । पथ्वसूना भवन्त्यत्र सर्वेषां गृहमेधिनाम् ॥७४ कण्डन्युदककुम्भी च चुली पेपण्युपस्करः । यदाऽऽदौ वेदमारभ्य स्नात्वा भक्त्या द्विजोत्तमः ॥७५ अध्यापयेद् द्विजांच्छिष्यान्स वै ब्रह्ममखः स्मृतः ।
यत् स्नात्वाऽहरहः सर्वान्देवांश्च मनुजान्पितॄन् ॥७६
[[७६१]]
वृहत्पराशरस्मृतिः ।
[[७६२]]
तर्पयेदम्भसा भक्त्या पितृयज्ञः स
मतः ।
श्रौते वा यदि वा स्मार्त यज्जुहोति हुताशने ॥७७ विधिवन्नित्यशो विप्रः स तु देवमग्यः स्मृतः । दशम्वाशासु यः कुर्याद्युपाद्बलिं द्विज ॥७८ इन्द्रादिभ्यस्तथाऽन्येभ्यः स व भूतमग्वो मतः । समायातातिथि भक्त्या योजयति नित्यशः ॥ ७६ अन्यानभ्यागतांश्चैव मा मनुष्येधिरुच्यते ।
एवं पञ्चमखान् कुर्वन्मधु-मांसाज्य पायमै ॥८० समन्तान्मनुष्यान स्वर्गमानुयात् । गृहस्था य उपासीरन वाचं धन् चतुम्तनीम् ॥८
स्वर्गाकमा पितृणां च पूज्यते तिथि
चत्वारस्तु स्तना एतं ये ननुर्वेदसंजिता ॥
।
स्वाहाकारी वपट्कारो छत्तकारस्तथा स्वधा । देवानां भागों हो अन्ये च मनुज मनाम् ॥८३ पितृणां च चतुर्थस्तु इति वेदनिदर्शनम् । इति निर्वर्त्य विधिवत्कलं कर्म नैत्यकम् ॥ ४ प्राणाग्निहोत्रविधिना भुञ्जीतान्नमघापहम् ।
अदत्वा पोष्यवर्गस्य कृत्वाऽध्यापनादिकम् ॥८५ असाक्षिकं च योनीयात्सोऽश्नीयात्किल्बिषं द्विजः । प्राङ्मुखादिक्रमेणाऽश्नन्नायुः कीर्तिं श्रियो मृतम् ॥८६ अविधिर्विधिगत्यासु यत्तदश्नन्ति राक्षसा’ ।
अथ प्राणाग्रिहोत्रस्य श्रूयतां द्विजसत्तमाः ॥८७
[ षष्ठो-
[[७६३]]
ऽध्यायः ]
वेदविद्विप्रस्य कलाज्ञस्यवर्णनम् ।
वक्ष्यमाणो विधिः पुण्य प्रेत्य चेह च पावन । यो बिधिदेवताभ्यस्त संसारबन्धनाशकृत् ॥८८ तद्विदस्तु दिवं यान्ति मुक्ता देवाहणादपि । उद्धरेद्यद्विदित्वाश्नन् पुरानेकविशनम् ॥८६ सर्वेहिफलभाग्यायाद्वैधमं क्षयमक्षयम् ।
य. कालाकाद्विप्रा नैनःस्पर्शी स कर्हिचित ॥६० सोना विशेत्तत्र गत्वा नैति संमृतौ ।
दश पञ्चांगुलव्यामं नासिकाया बहि स्थितम् ॥ ६१ जीवो यत्र विशुद्धयत मा कला पोडशी म्मृता । सर्वमेतत्तया व्यात त्रयं सचराचरम् ॥ह ब्रह्मविद्येति विख्याता वेदान्ते च प्रतिष्ठिता । न वेदं वेदमित्याहु नाम परं पदम ॥ तत्पदं विदिनं येन स विप्रो नेदपारगः । आहुतिः मा परा ज्ञेया मा च शान्तिः प्रकीर्तिता ॥ ६४ गायत्री मा च विज्ञया सा च सन्ध्या प्रकीर्तिता । तज्जाप्यं तच्च वै जयं तद्व्रतं तदुपासितम ॥६५ तां कलां यो विजानाति स कलानो द्विज स्मृतः । तत्तुरीयपदं शान्नं यस्मिल्लीनमिदं जगत् ॥ ६६ तज्ज्ञात्वा परमं तत्वं न भूय. पुरुषो भवेत । प्राणमार्गास्त्रयः प्रोक्तास्तिस्रो नाड्य प्रकीर्तिताः ॥६७ ईडा च पिङ्गला चैव सुषुम्ना च तृतीयका ।
ईडा च वैष्णवी नाडी ब्रह्माणी पिङ्गला स्मृता ॥ ६८
[[७६४]]
वृहत्पराशरस्मृतिः ।
सुषुम्ना चेश्वरी नाडी त्रिधा प्राणवहाः स्मृताः । उत्तरं दक्षिणं ज्ञेयं दक्षिणोत्तरसंज्ञितम् ॥६६ मध्ये तु विपुवं ज्ञेयं पुटद्वयविनिःसृतम् । संक्रांति - विषुवे चैव यो विजानाति विग्रहे ॥ १०० नित्यमुक्तः स योगी च ब्रह्मवादिभिरुच्यते । मध्याह्न चार्धरात्रं च प्रभातेऽस्तमये तथा ॥ १०१ विपुवन्तं विजानीयात्पुटद्वय विनिःसृतम् । हृत्पुण्डरीकमरणीं मनो मन्थानमेव च ॥ १०२ प्राणरज्वा न्यसेदग्निमात्माध्वर्युः प्रतिष्ठितः । ज्वालयेत्पूरकेाऽग्निस्थापयेत्कुम्भकेन तु ॥ १०३ रेचकेणोर्ध्ववक्त्रेण ततो होमं करोति यः ।
यत्तद्वृदि स्थितं पद्ममधोनालं व्यवस्थितम् ॥ १०४ तस्मिन्विकसिते पद्म प्राणो वायुर्विमर्पति । वामहस्तवृते पात्रे दक्षिणे चाम्भसि स्थिते ॥ १०५ सनादमुचरेद्विप्रो अच्छिन्नामं तु पूरयेत् ।
पूरणात पूरकं प्राहुर्निश्चलं कुम्भकं भवेत् ॥ १०६ निर्गच्छति शनैर्वायू रेचकं तं विनिर्दिशेत् । स्वाहान्तैः प्रणवाद्यैश्व स्वस्वनाम्ना च वायुभिः ॥ १०७ जीवात्मा योजितः षष्ठः षडाहुत्या हुतं भवेत् । जिह्वादत्तं प्रसेनं दन्तैश्चैव न तत् स्पृशेत् ॥१०८ दशनैः स्पृष्टमात्रेण पुनराचमनं चरेत् । मुख आहवनीयोऽग्निर्गार्हपत्यस्तथोदरे ॥१०६
[ षष्ठो-
ऽध्यावः ]
बेदविद्विप्रस्यकलाज्ञस्यवर्णनम् ।
हृदये दक्षिणाग्निश्च गृह्याग्निश्चापि दक्षिणे । सभ्यश्वोत्तरतश्चिन्त्य इत्यग्निस्मरणक्रमः ॥११० प्राणाग्रेवाग्निहोत्रादि चिन्तयेत्तद्वदेव तु । होतारं प्राणमित्याहुमद्रातारमपानकम् ॥ ११११ ब्रह्माणं व्यानमित्येकं उदानोऽध्वर्युमित्यपि । समानं चेह यज्वानमिति ऋत्विक्क्रमं बुधः ॥११२ अहङ्कारं पशुं कृत्वा प्रणवं यूपमित्यपि । बुद्धिरित्यरणिः पृथ्वी लोमानि च कुशाः स्मृताः ११३ मनो विभक्ता त्वग्जिह्वा इति तज्ज्ञा’ प्रचक्षते । कृत्वा त्रिमात्रमोङ्कारं हुङ्कारं च तथा पुन ॥११४ उत्तिष्ठ जननाथाऽग्ने हरिलोहितपिङ्गल । सप्तपरिधये तुभ्यं क्षुद्वह्निदैवतं च यत् ॥ ११५ विजिह्न जाठरायाऽग्ने स्वाहाप्राणाय व्यत्ययः । इन्द्रगोपकवर्णाय त्रिजिह्वायाग्निदेवतम् ॥ ११६ ॐ स्वाहेति अपानाय स्वाहाकारान्तमुचरेत । गोक्षीरसमवर्णाय पर्जन्यं वह्निदैवतम् ॥ ११७ स्वाहोदानाय सोङ्कारमनलाय पराचिपे । ताडित्समानवर्णाय वाय्वग्निदेवताय ते ॥११८ ॐ स्वाहा च समानाय ॐ स्वाहा चाह वेधसे । तर्जनी - मध्यमा-डुष्ठैर्लना प्राणस्य चाहुतिः ॥ ११६ कनिष्ठाऽनामिका -ऽङ्गुष्ठैर्यानस्य परिकीर्तिता । मध्यमा ऽनामिका -कुष्ठैरपानायाहुतिः स्मृता ॥ १२०
[[७६५]]
[[७६६]]
बृहत्पराशरस्मृतिः ।
मध्यमा-ऽनामिकास्त्वन्यामुद्दाने जुहुयाद्बुधः । समाने सर्वरुद्धृय आहुतिः स्यात्समानतः ॥ १२१ जलं पीत्वा तु तृप्यन्ति रेचयेश्च शनैः शनैः । ततोऽन्यद्धव्यमश्नीयात्पूरणायोदरस्य च ॥ १२२ विधि प्राणाग्निहोत्रस्य ये द्विजा नैव जानते । अपानेन तु भुञ्जन्ति तेषां मुग्वमपानवत् ॥ १२३ यो ज्ञात्वा तु विधिं भुङ्क्तं यथोक्तमिदमाचरेत् । इहामुत्र च पूज्यत्वं ब्रह्मभूयाय कल्पते ॥१२४ त्रिः मतकुलमुद्धृत्य दातुरप्यक्षयं भवेत् । दातुरपि हि यत्पुण्यं भोक्तुश्चैव हि तत्फलम् ॥१२५ दाता चैव तु भोक्ता च तावुभौ स्वर्गगामिनी । यो जानाति विधि चेमं सभवेद्ब्रह्मवित्तमः ॥ १२६ एकं पिवति गण्डूषं त्यजेदधं धरातले । स हतः पितृ-देवत्यमात्मानं नरकं व्रजेत् ॥१२७ रहस्यं सर्वशास्त्रषु सर्वशास्त्रषु दुर्लभम् । ज्ञानानामुत्तमं ज्ञानं न कस्यचित् प्रकाशयेत् ॥ १२८ विप्राणामग्निहोत्रस्य ये द्विजा नैव जानते । ज्ञानानि योऽप्रकास्यानि पुंसामविदुषां वदेत् ॥ १२६ स प्रणाश्य फलं तेषामात्मानं नरकं नयेत् । योज्ज्ञात्वा प्रकाश्यानि पुंसामविदुषां वदेत् ॥१३० प्राणायामफलं हत्वा आत्मानं नरकं नयेत् । योऽश्नीयाद्विधिवद्विप्रः कृतपात्रपरिग्रहः ॥ १३१
[ पछो-
ऽध्यायः ]
सषोडश संस्कारमा ह्निकवर्णनम् ।
पूजितान्नमत्राग् जुष्ठं सापोशानं ससाक्षिकम् । वाग्यतो न्यन्तपात्र च विप्र क्षत्र- विशां क्रमात् ॥१३२ वाग्यतो न्यस्तपात्रबीन प्रासानष्टावपि द्विजः । तम्य त्रिरात्रं पुण्यातिदर्शनेऽपि कवयो विदुः ॥ १३३ चतुम्बिकोणं वृत्तं च विप्र क्षत्र - विशा क्रमान । प्राहुः परिहृतं सन्तस्तद्धीनान्नं तु राक्षसम् ॥ १३४ गृह्णीयात्प्रागपोशानं तथा भुक्त्वा सकृत्त्वपः । अनप्रममृतं तत्स्याद्भकमन्नं द्विजन्मनाम् ॥ १३५ काले भुक्त्वा समुत्थाय प्रेक्ष्य विप्रं समीक्ष्य च । अहः पति तत्र स्थित्वा चिन्तयेद्रहु कृत्यकम् ॥ १३६ भार्या भोजनवेलाया भिक्षां सप्तज्थ पथ्य वा । दत्वा शेषं समश्नीयात्मापत्य - भृत्य केः सह ॥१३७ निर्वर्त्य सकलं सापि किंचित्स्थासुखेन तु । स्वस्त्रीयरतिकार्येषु सापि स्यात्तत्परा पुनः ॥ १३८ उपास्य पश्चिमा सन्ध्या हुत्वा चत्र हुताशनम् । किञ्चित्पश्चात्समश्नीयात्सायं प्रातरिति श्रुतिः ॥ १३६ स्वाध्यायमभ्यसे कि विद्यामद्वयं शयीत च । शयानो मध्यमौ यामौ ब्रह्मभूयाय कल्पते ॥ १४० सुशयने शयीताथ एकान्ते च स्त्रियासह । गोपनं मैथुनादीनां वदन्ति मुनिपुङ्गवाः ॥ १४१ ऋतुक्षपासु पुत्रार्थी आधान विधिना द्विजः । प्रसाद्य भस्मना योनिमिति मन्त्र निदर्शनात् ॥१४२
[[७६७]]
[[७६८]]
वृहत्पराशरस्मृतिः ।
कृत्वाऽऽधानविधानं तु स्त्रीयोगमभ्यसेत्पुनः । मन्थेदविकृतो योनौ विकाराद्विकृताः प्रजाः ॥ १४३ ब्राह्म मुहूर्त उत्थाय प्रातः सन्ध्यामुपक्रमेत् । आसूर्यदर्शनान प्रातः सायं चैवर्क्षदर्शनात ॥१४४ वहिःसन्ध्यामुपासीत सम्प्राप्तावम्भमः सदा । उपासिता बहिःसन्ध्या विशिष्टफलदा भवेत् ॥१४५ अनृतं मद्यगन्धं च दिवा मैथुनमेव च ॥ पुनाति वृपलस्यान्नं सन्ध्या बहिरुपासिता ॥ १४६ सिन्दूरारुणभं भाति नभो यावद्वितारकम् । उदयेऽस्तमये भानोस्तावत्सन्ध्येति शक्तिजः ॥ १४७ आधानतो द्वितीये तु मासे पुंसवनं भवेन । सीमान्तोन्नयनं पष्ठे कार्य मासे ऽपि वा ॥१४८ जातस्य जातकर्म म्याद्विधिवच्छाद्धपूर्वकम ।
[ षष्ठो-
दिने चैकादशे नामकर्म स्थान च द्विजन्मनाम् ॥१४६ तुर्ये निष्क्रमणं मासे पष्ठेऽन्नप्रासनं तथा । चूडाकर्म तृतीयेऽब्दं कार्यं वा कुलधर्मतः ॥१५० सर्व स्त्रियां विमन्त्रं तु कार्य कायविशुद्धये । यस्य नस्युर्द्विजम्यैताः क्रियाश्चैव कथंचन । १५१ स व्रात्यः सन् परित्याज्यो द्विजो यस्माद् द्विजन्मनाम् । मुञ्जमौर्ण-शणानां तु त्रिवृता रशना स्मृता ॥ १५२ कार्पास-शणमेषोर्णान्युपवीतानि वर्णशः ।
पलाश - वट- पीलूनां दण्डाश्च क्रमशः स्मृताः ॥ १५३
ऽध्यायः ]
ब्रह्मचर्यवर्णनम् ।
काष्ण च रौरवं वास्तमजिनानि द्विजन्मनाम् ।
शिगे ललाट - नासान्ताः क्रमाद्दण्डाः प्रकीर्तिताः ॥१५४ अब्रणाः मत्वचो ऽदुग्धा उक्ताः शुभकरा नृणाम् । गायत्र्या त्रिप्-जगत्या त्रयाणामुपनायनम् ॥ १५५ गायत्र्यामविशेषो वा मुञ्जादिपरेषु च ।
तत्सवितुम्तां सवितुर्विश्वा रूपाणि वा क्रमान ॥१५६ औपनायनिका मन्त्रा विप्रादीनामुदाहृताः ।
ब्राह्मणो विप्रगेहेषु नृपस्ते वृत्तमेषु च ॥ १५७ वैश्यो विप्र-नृपेष्वेषु कुर्याद्भक्षां म्ववृत्तये । एकानं न द्विजोऽश्नीयाद्ब्रह्मचारित्रते स्थितः ॥ १५८ भिक्षात्रतं द्विजातीनामुपवासममं स्मृतम् ।
प्रतिग्रहो न भिक्षा स्यान्न तम्या परपाकता । १५६ सोमपानसमा भिक्षा अतोनीत म भिक्षया ।
॥
भिक्षया यस्तु भुञ्जीत निराहारः स उच्यते ॥ १६० भिक्षामनभिशस्तेषु म्याचारेषु द्विजेषु च । भिक्षेत नित्यं क्रमशो गुगेः कुलं विवर्जयेत् ॥ १६१ स्वसारं मातरं चापि मातृष्वसारमेव च ।
भिक्षेत प्रथमां भिक्षां या चान्या न विमानयेत् ॥१६२ ‘भवति भित्रां मे देहि’ ‘भिक्षां भवति देहि मे’ । ‘भिक्षा मे देहि भवति’ क्रमेणैवमुद्दाहरेत् ॥ १६३ द्वादशाब्दं व्रतं धायं पश्यन्दं तु श्रुतिम्प्रति । आदित्याब्दे त्यजेत्तद्वै दत्वा तु गुरुवे बरम् ॥१६४
[[४६]]
မဒိုင်
[[७७०]]
वृहत्पराशर स्मृतिः ।
त्रयस्तु स्नातकाः प्रोक्ताः विद्यात्रतोपसेविनः ।
विद्यां समाप्य यः स्नायाद्विद्या स्नातक उच्यते ॥ १६५ समाप्य च व्रतं यस्तु व्रत नातक उच्यते ।
[ षष्ठमो-
यज्ञ समाप्य यः स्रति स द्विनामाऽभिधीयते ॥१६६ द्वयं समाप्य यःस्नायात्स द्विनामाऽभिधीयते । अप्रैक द्वादशाब्दानि सगर्भाणि द्विजन्मनाम् ॥१६७ मुख्यकालो व्रत न ह्यन्य उक्तो विपर्यये । द्विगुणादेषु कर्तव्या क्रमादुपन तिर्द्विजैः ॥ १६८ हीनगायत्रिका ब्रात्या उक्तकालादनन्तरम् । नाध्याच्या नैव चोद्वाद्या व्यवहारविवर्जिताः ॥ १६६ न याज्या नार्यकार्येषु प्रयोज्यास्त इति श्रुतिः । स्त्रीवन्निर्लोम वक्त्रा ये निलमदेह-वक्षसः ॥ १७० उच्चोरस्काऽनपयाश्व अदेश्यास्तेऽपि गर्हिताः । येऽजत्रं विहितं कुर्युः प्राप्नुयुस्ते सदा शुभम् ॥१७१ दीर्घायुष्यमदारिद्र्य सुप्रजाम्यमरोगिता । अगर्हितत्वं लोकेऽत्र विदुरनिषिद्धकारिणः ॥ १७२ क्षीणायुस्त्वं दरिद्रत्वमप्रजास्त्वं च रोगिता । गर्हितत्वं च लोकेषु विदुर्नि पिद्ध कारिणः ॥ १७३ प्रातर्वा यदि वा सायं नाद्यादन्नमनचितम् । नानाद्यमनपोशानं शुभप्रेप्सुद्विजन्मना ॥१७४ आपोशानं विना नाद्यान्नाद्यादन्नमनचितम् । अनाद्यं न दिवा सायं शुभमिच्छन् समश्नुते ॥ १७५ऽध्यायः ]
गृहस्थाश्रमवर्णनम् ।
षोडशाब्दानि विप्रस्य द्वाविंशतिर्नृपस्य च । चतुर्विंशतिरन्यस्य व्रात्यास्ते स्युरतः परम् ॥१७३ उपनेया न ते विप्रैर्नाध्याप्याः शूद्रधर्मिणः । व्यवहार्या नैव याज्या इति धर्मविदो विदुः ॥ १७७ स्त्रीणामुद्वाह एको वै वेदोक्तः पावनो विधिः । स्त्री-पुंसोर्यत्र विन्यासस्तयोरन्योन्यमुच्यते ॥१७८ स्वस्मिन्यस्माद्विभयेपा पति, बिभर्ति सोऽपि ताम् । अतो भार्या च भर्ता चेत्यत्र वेदो निदर्शनम् ॥१७६ पतिर्विशति यज्जायां गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मामि जायते ॥ १८० जायोक्ता तेन भर्ता वै यदद्भ्यां जायते पुनः ॥ १८१ इयमाभवनं भार्या बीजमम्यां निषिच्यते । देवा ऊचुर्मनुष्यांच स्वभार्या जननी तु वः ॥ १८२ आत्मना जायते ह्यात्मा मा चैत्र पतितारिणी । भार्या जाया जनन्येषा इति वेदे प्रतिष्ठिता ॥१८३ यस्मात्स त्राति पुन्नाम्नो नरकात् पुत्र उच्यते । सर्वा संसृतिमाहृत्य स याति ब्रह्मणैकताम् ॥ १८४ पिता जातस्य पुत्रस्य पश्येज्जीवतो मुग्वम् । सर्व तेन फलं प्राप्तमैहिकामुष्मिकं च यत् ॥ १८५ किं दण्डैरजिनैस्तीथ स्तपोभिः किं समाधिभिः । पुमांसः पुत्रमिच्छध्वं स वै लोके वदावदः ॥ १८६
[[७७१]]
[[७७२]]
वृहत्पराशरस्मृतिः ।
[ षष्ठो-
प्राणोऽन्नमस्मिन् शरणं हि वासो रूप्यं हिरण्यं पशवो विवाहाः । सखा च यज्वा कृपणश्च पुत्री ज्योतिः परं पुत्र इहाप्यमुत्र ॥ १८७
स पुण्यकृत्तमो लोके यम्य पुत्राश्चिरायुपः ।
[[1]]
विशेषेण हि धर्मज्ञाः स परं ब्रह्म विन्दति ॥ १८८ पुत्रेण प्राप्यते स्वर्गे जानमात्रेण तु ध्रुवम् । नम्मादिच्छन्ति सर्वे हि पशवोऽपि वयांसि च ॥१८६ जायायास्तद्धि जायात्वं यदम्यां जायते पुनः । पुत्रस्यापि च पुत्रत्वं यत्त्राति नरकार्णवात् ॥ १६० यः पिता म तु पुत्रः स्थान जायैव हि जनन्यपि । न पृथक्त्वं विदुतज्ज्ञाश्रयाऽपरयोरपि ॥१६१ अयं हि पन्थाः पुरुषम्य तस्य ध्रुवं भवेत्पुत्रजन्मेह यस्य । तद्वीक्ष्य चोध्वं पशवो वयांमि पुत्रार्थिनो मातरमारुहन्ति ॥ १६२
जनिष्यमाणानिच्छन्ति पितरः स्वकुले सुतान् । कश्चिद्रत्वा गयायां नोज्वश्यं पिण्डान् प्रदास्यति ॥ १६३ यक्ष्यत्यन्योऽश्वमेधन नीलं मोक्ष्यति गोवृपम् ।
एष्टव्यं पितृभिः सर्व पुत्रेभ्यः सकलं फलम् ॥१६४ शुद्धः शौर्येकचित्तो वा प्राणान्मोक्ष्यति संयुगे । दानदो वा कुरुक्षेत्रे ज्ञानी वाथ भविष्यति ॥ १६५ जीवनो वाक्यकरणात् क्षयाहे भूरि भोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता ॥१६६ पुच्छं शिरसि यः शुक्लः शुक्लायालोहितं वपुः । देवाद्यभीष्टो नीलोऽयमुत्सृष्टः पावनो वृपः ॥१६७
ऽध्यायः ]
आचारवर्णनम् ।
रक्तो वा यदि वा शुक्लः सुविपाणः शुभेक्षणः ।
यो न हीनातिरिक्ताङ्गनं गोसहितमुत्सृजेत् ॥ २६८ दुहितापि तथा साध्वी श्वशुस्योरुपान्तिकृत । पतित्रता च धर्मज्ञा पित्रोचंग तिकृद्भवेत् ॥१६६ यः पिता स च वै पुत्रस्तत्ममा दुहिताऽपि च । पुत्रश्च दुहिता चोभौ पितुः सन्तानकारकौ ॥ २०० तत्सुतः पावयेद्वंशात्रीन्वें मातामहादिकान । । दौहित्रः पुत्रवर्ग मुक्तौ शाश्वतौ समौ ॥२०१ आधानादिक संस्काराः प्रोक्ता ये वै द्विजन्मनः । कर्तव्याश्च स्वशाखोक्ताः केचित्कुलक्रमेण च ॥ २०२ चत्वारिंशश्च ते सर्व निषेकाद्याः प्रकीर्तिताः । मखदीक्षा च विविधा तथैवान्त्येष्टिकर्म च ॥ २०३ कुलाचारोऽपि कर्तव्य इतिशास्त्रविदो विदुः । देशाचारस्तथा धर्म इति प्राह पराशरः ॥२०४ अयं हि परमो धर्मः सर्वेषामिति निश्चयः । हीनाचारश्च पुरुपो निन्यो भवति सर्वशः ॥ २०५ क्लेशभागी च सततं व्याधितोऽल्पायुरेव च । आचारे व्यवहारे च दुराचारो विपर्ययः ॥ २०६ नृणामाचरतो धर्मः स्यादधर्मो विपर्ययात । तस्मादाद्ये ऽनुवर्तेत व्यत्ययं तु विवर्जयेत् ॥ २०७
आचारवन्तो मनुजा लभन्ते
आयुश्च वित्तं च मुतांश्च सौख्यम् ॥
[[७७३]]
[[७७४]]
वृहत्पराशर स्मृतिः ।
धर्मं तथा शाश्वतमीशलोकम्
अत्रापि विद्वज्जनपूज्यतां च ॥२०८ वेदाः सहासपुराणविद्याः शास्त्राणि वेद्यानि च तद्विहीनम् । कुर्युर्न वै तान्यपि संस्मृतानि
नरं पवित्रं प्रवदन्ति वेदाः ॥२०६ asardaar: क्रियया विहीनाः
जीवन्ति वेदमनु जाधमास्तान । वेदास्त्यजेयुर्निधनम्य काले
नीडं शकुन्ता इव जातपक्षाः ॥ २१० आचारहीननग्देहगनाश्च वेदाः
शोचन्ति किं न कृतवन्त इतिस्म चित्तं ।
नु
यन्नोऽभवद्वपुषि चाम्य शुभमहीणं
[ षष्ठमो-
स्थानं तदत्र भगवान् विधिरेव शोच्यः ॥२११ कर्तव्यं यत्नतः शौच शौचमूला द्विजातयः । शौचाचारविहीनानां सर्वाः म्युनिष्फलाः क्रिया ॥२१२ तत्सद्भिर्द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।
विण्मूत्रशोधनं वाह्यं चित्तशुद्धिस्तवातरम् ॥२१३ मृद्भिरद्भिरनालम्यं तत्कर्तव्यं द्विजातिभिः ।
भावशुद्धिः परं शौचमाहुराभ्यन्तरं बुधाः ॥ २१४ गन्धलेपापहं बाह्यं शौचमाहुर्मनीषिणः ।
यस्य पुंमस्तु तच्छाचं शौचस्तस्य किमन्यकैः ॥२९५
ऽध्यायः ]
शौचवर्णनम् ।
७७५-
वाङ्-मनो- जलशौचानि सदा येषां द्विजन्मनाम ।
त्रिभिः शौचैरुपेतो यः स स्वग्र्यो नात्र संशयः ॥ २१६ स्त्रियं रिरंसुद्रविणं जिहीर्युर्वधं चिकीपुर्मनुजः परस्य । विवक्षुरत्यन्तमवाच्यवाचं कथं स शुद्धिं समुपैति शौचान ? ॥२१७
किं निष्कामस्य नारीभिः किं गतासोश्च भेपजैः । जितेन्द्रियस्य किं शौच निष्फलं मूर्ख दानवन ॥२१८ न गतिर्मूर्खदानेन न तारोऽम्बुनि चाश्मनः । तस्मात्तस्य न दातव्यं सह दात्रा स मज्जति ॥२१६ यथा भस्म तथा मूर्खो विद्वान्प्रज्वलिताग्निवन । होतव्यं च समिद्धग्नौ जुहुयान को नु भस्मनि ॥२२० यथा शूद्रस्तथा मृर्यो शूद्रश्च भस्मवत्तथा । शूद्रेण सह संवासं मूर्खे दानं विवर्जयेत् ॥ २२१ ग्रहीता यां न चंद्रिकान तं द्वाता रोहिको यथा । आत्मानं तारयेत्तं च नदीं वतरणीं द्विजः ॥२२२ यो मूर्खो विशदाचारः पट्कर्माभिरतः सदा । स नयन् स्वर्गमात्मानं वृद्धांश्चैव न पीडयेत् । न विद्या न तपो यस्य ह्यादत्तं च प्रतिग्रहम् । निपातयन स दानाग्मात्मानमायत्री नयेन ॥२२४ हेम-भूमि - तिलान् गाव अविद्वानाददाति यः । भस्मीभवति सोहाय दातु स्यान्निस्फलं च तत् ॥२२५ तस्मादविद्वान्नादद्यादल्पशोऽपि प्रतिग्रहम् । विषतत्वापरिज्ञानी विषेणाल्पेन नश्यति ॥ २२६
[[७७६]]
वृहत्पराशरस्मृतिः ।
[ षष्ठो-
सर्व गवादिकं दानं पात्रे दातव्यमचितम् । विद्वद्भिर्न त्वपात्रे तु गतिमिच्छद्भिरात्मनः ॥२२७ हस्ति - कृष्णाजिनाद्यास्तु गर्हिता ये प्रतिग्रहाः । सद्विप्रास्तान्न गृह्णीयुर्गृह्णानास्तु पतन्ति ते ॥२२८ कृष्णाजिनप्रतिग्राही हयानां शुक्तविक्रयी । नवश्राद्धस्य यो भोक्ता न भूयः पुरुषो भवेत् ॥ २२६ यो गृह्णाति कुरुक्षेत्र ग्रामं गां द्विमुम्बीं गजम । नवश्राद्धान्नभुग्यश्च वर्ज्या निर्माल्यवद् द्विजाः ॥ २३० एते यान्त्यन्धतामिस्रं यावन्मनु सहस्त्रकम् ॥२३१ विष्णोश्व वश्व वेश्व जाता पृथ्वी च राज्ञश्च मुनीश गौश्च । काले सुपात्रे विधिना प्रदत्ताः प्राप्नोति लोकत्रयमेतदुक्तम् ॥२३२
वेदविद्वान्सदाचारः सहा वसति सन्निधौ । भोजने चैव दाने च वर्जनीयो न सत्तमैः ॥२३३
अत्यासन्नानधीयानान्त्राह्मणान्यो व्यतिक्रमेत् । भोजने चैव दाने च हिनस्त्यास मं कुलम् ॥२३४ अनुचोऽपि निराचाराः प्रतिवासनिवासिनः । अन्यत्र व्य-कन्याभ्यां भोज्याः म्युरुत्सवादिषु ॥२३५
प्राक्तप्रतिप्रहाभावे प्राप्तायां बृहदापदि । विप्रोऽश्नन्प्रतिगृह्णन्वा यतस्ततोऽपि नाघभाक् ॥ २३६ गुर्वादिपोष्यवर्गार्थं देवाद्यर्थं च सर्वतः ।
प्रत्यादद्याद् द्विजाग्रयस्तु भृत्यथमात्मनोऽपि च ॥ २३७
ऽध्यायः ]
प्रतिग्रह ( दान) वर्णनम् ।
[[७७७]]
दधि-क्षीराऽऽज्य-मांसानि गन्ध- पुप्पा-Sम्बु-मत्म्यकान् । शय्या - ऽज्मनाशनं शाकं प्रत्याख्येयं न कर्हिचित् ॥ २३८
अपि दुष्कृतकर्मभ्यः समादद्यादयाचितम् ।
पतितादिस्त इन्येभ्यः प्रतिग्राह्यमसंशयम् ॥ २३६ शक्तः प्रतिग्रहीतुं यो वेदवृत्तम्मुमंवृतम ।
लभ्यमानं न गृह्णाति स्वर्गस्तस्याल्पकं फलम् ॥ २४० प्रतिग्रहमृगं वापि याचितं यो न यच्छति । तत्कोटिगुणतोऽसौ मृतां दासत्वमृच्छति ॥२४१ दाता च न स्मरेहानं प्रतिग्राही न याचते । उभौ तौ नरकं यातौ दाता चापि प्रतिग्रही ॥२४२ अपात्रम्य हि यद्दत्तं दानं स्वल्पमपि द्विजाः । ग्रहीता तत्क्षणाद्याति भम्मत्वं चाप्यवारितः ॥२४३ वदन्ति कवयः केचिद्दान - प्रतिग्रहोप्रति । प्रत्यक्ष लिङ्गमेवेह दातृ- याचकयोग्त. ॥२४४ दातृहरुतो भवेदृध्वं ग्रहीतुश्च भवेदधः ।
दातृ- याचकयोर्भेदी हस्ताभ्यामेत्र सूचितः ॥२४५ सून्यादीनां चतुर्णा च यथा निन्दितभूपतेः । न विद्वान् प्रतिगृहीयालतिगृहन्त्रजत्यधः ॥२४६ दुष्टा दशगुणं पूर्वान् सूनि चक्रपथ मधकृत । वेश्या निषिद्धनृपतिः प्रतिप्रहे परः क्रमात् ॥ २४७ परपार्क वृथा मांसं देवानामपि दृपितम् । अनुपाकृतमांसं च नाद्यं च लशुनादिकम् ॥ २४८
[[७७८]]
वृहत्पराशर स्मृतिः ।
न भोक्तव्यमभोज्यान्नं कन्द-मूलादिकं च यत् । न पातव्यमपेयं च द्विजैरत्यन्तगर्हितम् ॥२४६ सत्यं युक्तं सदा ब्रूया च्छनैर्धर्मं समाचरेत । यमान्सनियमान्कुर्याद्रार्हस्थ्यं ब्रतमाचरन् ॥२५० मातृ-पितृनुपाध्यायान् गुरुन्विप्रान्सदाऽर्चयेत् । एतांच्छ्रे ष्ठांस्तथा चान्यान्नित्यं विप्राभिवन्दनम् ॥२५१ दमं सेवेत सततं दानं दद्याच सर्वदा ।
[ षष्ठो-
दयां च सर्वदा कुर्यात्तद्विना नरकाश्रयः ॥ २५२ दाम्यन्स सर्वदाऽऽत्मानं मनो दाम्यं सदा द्विजैः । दयध्वमिति चेपा अनिर्वाजसनेयिकी ॥ २५३ यत्विदं ( यत्निधा ) कारकं कुर्यात्स्तनयित्नुर्ध्वनिं दिवि । ददेद्वेति दमं दानं दद्यामिति च शिक्षयेत ॥ २५४ रसा रसः समाह्या देया अपि च नान्यथा । न रमेलवणं ग्राह्यं समता ही नतोऽपि वा ॥ २५५ तिला अपि समा देया धान्यैरन्यैर्द्विजातिभिः । प्रपीड्य नैव यंत्र व युरेतन्मनीपिणः ॥ २५६
[[3]]
तिलवत्सर्ववस्तूनि सम्नेहानि द्विजातिभिः । अप्रपीड्यानि यंत्र ब्रूयुरेत मनीषिणः ॥ २५७ विक्रयव्यपदेशेन दुग्ध-दध्यादिसर्पिपाम् । शुश्रूप्यान्न तिरस्कुयादुपास्यान्नाववीरयेत् ॥ २५८ लोभात्कुर्याद्विजन्मा यः स तु शूद्रसमत्र्यहात् ।
न निन्द्यान समन्ययान्न विक्रीणीत गर्हितान् ॥२५६
ऽध्यायः ]
त्याज्यवर्णनम् ।
अदेयानि न वै दद्यादत्याज्यानि न वै त्यजेत् । अभाष्यान्नैव भाषेच हीनाङ्गायांश्च न क्षिपेत् ॥ २६० न संवदेव पित्राद्यः पतिताग्रेन संविशेत् । न मर्ति नीचवर्णाय दद्यादुच्छिष्टमेव च ॥ २६१ मति शूद्रस्य यो दद्यायश्चैनं पर्युपासते ।
न किश्वित्तस्य चाख्येयं व्रतादि नियमादिकम् ॥२६२ आचक्षाणस्तु तद्धर्मं नरकान्नौ प्रपच्यते ।
T
नाद्यादन्नं निषिद्धस्थं स्वप्याद्वा नार्द्ध रात्रिषु ॥ २६३ वेदविद्या वितानानि विक्रीणीत न कर्हिचित् । नापत्यानि सायानि भूति चान्वये सति ॥ २६४ नापः पिबेत् स्वपाणिभ्यां न च कण्डुनिकृद्भवेत् । विदिक् प्रत्यगुदग्रस्तु शयीनाह्नि न सन्ध्ययोः ॥ २६५ पादुकादि च पालाशं न वृक्षादिनि तनम् । नोत्सृज्यं ष्ठीवनाद्यं च कदाचिद्वै गवादिपु ॥ २६६ पट्टयां स्पृश्यं गवाद्यं नो नोच्छिष्टं न च तद्वतिः । न लंघ्यं वत्स -तंत्र्यादि वाय्यग्न्योर्नान्तरा गतिः ॥ २६७ न द्वयोर्विप्रयोर्नाम्न्योः सौरभेय्योः पतिखियोः । विप्राग्ज्योर्वियपिण्डानां नोयोक्षणांविष्णु तार्क्ष्ययोः ॥ २६८ सौरभेयोर्ज लाग्न्योच माहेयी - जलयोगप ।
भानु व्योमादिकानां तु न कुर्याद लग गतिम् ॥ २६६ भोजनादिषु नासकां पश्यन्न विगत काम । न गच्छेत्स्त्रीं रजोयुक्तां न चाश्नीयात्तया सह । न गच्छेत्स्त्री रोगयुक्तां प्रमुप्यान्न तया सह । २७०
[[७८०]]
वृहत्पराशरस्मृतिः ।
उत्तरीयं विना नैव न नमो ऽधः शयीत च । न गेहे चैत्र मार्गादौ न निषिद्धककुमुग्वः ॥ २७१ नोपगङ्गं सुगर्चादि न च विष्ठागृहान्तिके । अतिकालातियाने च शुभमिच्छविवर्जयेत् ॥ २७२ ज्येष्ठेन्द्रचाप-भद्राद्या मूलनाम्ना न निर्दिशेत् । इन्द्रचापं धयन्ती गौर्न ख्यातव्यं परस्य ते ॥२७३ वर्जयेद्भावनं चैव पादयोः कांस्यभाजने । पैशुन्यं मर्मभेदं च न वदेन्स्लेच्छ मापितम् ॥ २७४ प्राकृतं च कुशास्त्राणि पापण्डं हेतुकानि च । न श्रोतव्यानि विप्रेण यातनाकारणानि च ॥ २७५ न करं मस्तके दद्यान्मस्तकं न करे तथा ।
न जानुनोः शिरो धायं नाप्रावृतशिरा भ्रमेत् ॥ २७६
वैणाश्च बद्धाश्च कदर्यचांराः
कीवाभिशस्ता गणिका तु या च । यो वृद्धजीवी गणढ़ीक्षका ये
तेषां न भोज्यं ह्यशनं द्विजातेः ॥ २७७ क्रूरातुरा वृद्ध चिकित्सकाश्च
या पुंश्चली यौ च विराधि शत्रू ।
व्रात्यांप्रमत्ता अबलाजिताश्च
।
अग्राह्यमेपामशनं द्विजस्य ॥ २७८ ये दाम्भिका ये च सुवर्णकारा
उच्छिष्टभोजी पतितश्च यश्च ।
[ षष्ठो-ऽध्यायः ]
त्याज्य (भोज्यान्न) वर्णनम
ये पुत्रभार्या बहुयाजका ये
विप्रेण चैषां न हि भोज्यमन्नम् । २७६
ये मोम शस्त्रास्त्र कृताम्बु तक्र- क्षीराज्य मंसं लवणाजिनानि । क्षमानि लाक्षा च तिलान्फलानि विक्रेयुरेपामशनं न भोज्यम् । २०० जीवन्ति वृत्या रमदानपानां कमरिका येऽपि च तन्तुवायाः ।
राजा नृशंमी रजकः कृतघ्नो
भोज्याशना नॅव विहिमका ॥२८१ ये चैलधावाश्च सुराकृतो ये पैशून्यवाचो ह्यनृतंवदाश्च ।
ये बन्दिनो येऽपि च चाक्रिकाश्च
विप्रम्य चंतेऽपि न भोज्यमस्या ॥२८२ मध्वासव मधूच्छि दधि क्षीर रमोदनान् । मनुष्योपल घृपांश्च कुश मृत्पुष्प वीरुधः ॥ २८३ कौशेय केश कुतपान्नीरं विपरगांस्तथा । शाकैकशफ पिप्याक गन्धानौपधिमूलकाः ॥ २८४ विक्रीणन्ति य एतानि वरतून मनुजाधमाः । तेषामन्नं न भोक्तव्यं तथोपपतिवेश्मनः । २८५ योऽपचस्य कदर्यस्य भुञ्जीतानं द्विजाधमः । तत्क्षणाच्छूद्रवत्स स्यान्मृतो विट्शूकरो भवेत् ॥ २८६
[[७८१]]
[[७८२]]
वृहत्पराशरस्मृतिः ।
[ षष्ठमो-
योऽन्नं वादर्धपिकस्याद्यादजापालादिकस्य च । अन्यस्यापि निविद्धग्य सोज्नन्तं नरकं व्रजेत ॥ २८७ पाणिगृहीतभार्याया सत्यां यस्तु नराधमः ।
शूद्रीहस्तेन भुञ्जीत पतितः स सदैव तु ॥ २८८ त्यक्ता येनोदभार्या तु त्यक्तः स पितृ दैवतैः । त्यक्तो देवैः स पापीयांच्छूद्रादप्यधमः स्मृतः ॥ २८६ यः शूद्रीं भजते नित्यं शूद्री तु गृहमेधिनी । वर्जितः पितृदेवस्तु रौरवं यात्यसौ द्विजः ॥ २६०
यः शूद्रयां च स्वयं जातो ह्यन्यम्यां सोऽपि वै पुनः । अन्यस्यां च पुनः सोऽपि किमम्य प्रेत्य चिन्तनम् ॥२६१ सर्वान् भुञ्जीत नरकान्विशति लेकवर्जितान् । रौरवादीन्क्रमेणैव पापिष्ठो यादम्बरम् ॥२६२ हेमन्तशिशिरत्वश्च प्रोष्ठपद्याः परम्य च । पञ्चस्त्रपरपक्षेषु कार्याः सामिभिरकाः ॥ २६३ हेमन्ते शिशिरे चैका एकेकाथ तथा परा । प्रोष्ठपद्यां द्विजास्तित्रो का इति केचन ॥ २६४ दर्शश्च पौर्णमासश्च तथैवाऽऽग्रयणद्वयम् । चातुर्मास्यव्रतान्येव कार्याणि साग्निकैर्द्विजैः ॥ २६५
अनूचानकृतं कुर्यः सदैव व्रतचारिणः ।
अनूचानकुले जाताः सदैव व्रतचारिणः ।
अग्निहोत्ररता नित्यं माता पित्रादिपूजकाः ॥२६६
ऽध्यायः ]
त्याज्य (भोज्यान्न) वर्णनम् ।
[[७८३]]
प्रतिग्रहनिवृत्ताश्च जप होमपरायणाः ।
वृत्तवन्तश्च ये विप्राः स्नातकारने प्रकीर्तिताः ॥२६७ सङ्क्रान्तिरकवारा व्यतीपाती युगादयः ।
शुभ दिन- योगेषु कार्याः साग्निभिरकाः ॥ २६८ न शूद्राद्भिक्षितेनैतत्कर्तव्यं मर्म मदद्विजः । चण्डालत्वमवाप्नोति यज्ञार्थं शूद्रयाचकः ॥ २६६ लब्धं यन्त्राय यो विप्रो न दद्याद्य कर्मणि ।
स वायसोज्य वा गृध्रः काको वाथ प्रजायते ॥३०० शिलोंच्छवृत्तिर्विप्रः म्यादथ वैकाहिकाशनः ।
यहाहिकाशनो वास्यात कुम्भीकु गूलधान्यकः ॥३०१ पूर्वपूर्वतरः श्रेयाम् तेषां सद्भि प्रकीर्तितः । सोमपः स्यात् त्रिवर्षानन्तत्पूर्वकृत्समाशनः ॥ ३०२ सोमेष्टि पशुयज्ञं च कुर्वीत प्रतिवामरम । इष्टिर्वैश्वानरी या तु कर्तव्यैतदसम्भवे ॥३०३ सत्यामर्थस्य सम्पत्तौ न कुर्याद्धीनदक्षिणम् । तत्कृतं च भवेद्वयथं प्राप्नुयात्पशुयोनिताम् ॥३०४ श्रद्धा पूतं प्रदातव्यं पात्रे दानं समचितम् । याचितेऽपि हि दातव्यं पूतं च श्रद्धया धनम् ॥ ३०५ शूद्रानं ब्राह्मणोऽन्वे मासं मासार्धमेव च । तद्योनावेव जायेत सत्यमेतद्विदुबुधाः ॥ ३०६ आशूदरस्थशूद्रान्नो मृतः श्वाचोपजायते ।
द्वादशं दश वाटौ च गृध्र शूकर पुल्कसाः ॥३०७
[[७८४]]
वृहत्पराशरम्मृतिः ।
उदरस्थित शूद्रान्नो ह्यधीयानोऽपि नित्यशः । जुन्त्रापि जपन्वापि गतिमूर्ध्वो न विन्दति ॥ ३०८ अमृतं ब्राह्मणस्यानं क्षत्रियान्नं पयः स्मृतम् । वैश्यम्य चान्नमेवान्न शूद्रान्नं रुधिरं स्मृतम् ॥ ३०६ आमं शूद्रम्य पकान्न पक्कमुच्छिष्टमुच्यते । तम्मादामं च पकं च शूद्रस्य परिवर्जयेत् ॥३१० तम्माच्छूद्रं न भिक्षेरन्यज्ञार्थ मद्विजातयः । श्मशानमेव यच्छूद्रस्तम्मात्तं परिवर्जयेत् ॥३११ कणानामथ वा भिक्षां कुर्याचिद्वृत्तिकर्शितः । मच्छूद्राणां गृहे कुर्वन्न नत्पापेन लिप्यते ॥३१२ विशुद्धान्यमञ्जातो निवृत्त मांस-मद्यतः । द्विजभक्तिर्वणिग्वतिम्मच्छद्रः सम्प्रकीर्तित ॥ ३१३ उक्यारपुर मधु वाह्नितं वाप्युदक्यया । श्रपृष्टं शकुनोत्रं प्रयत्नेन विवर्जयेन ॥३१४ उच्छिउंच पदाम् शुक्लं च पतितेक्षितम् । पर्युपितं चिरस्थ च केश-कीट पाहतम् ॥३१५ पङ्क्त्युच्छि गवाघातं प्रयत्नेन विवर्जयेत् । नानीरन्नंतदर्शनं शमिच्छन्तो द्विजातयः ॥ ३१६ शूद्राणामपि भोज्यान्नाःम्युः सीरि- नापितादयः । सम्नेहमशनं भोज्यं चिरस्थमपि यद्भवेत् ॥३१७ अनाक्ता अपि भोज्याः स्युः सद्यः श्रितयवादयः । गर्भिण्यवत्मसूतिश्या गवादेवर्जयेत्पयः ॥ ३१८
[ षष्टो-
ऽध्यायः ]
अमक्ष्यवर्णनम् ।
स्त्रीणामेकपोष्ट्रीणां तथारण्यकमाविकम ।
प्रसूता ब्राह्मणी गौश्व महिष्योजास्तथैव च ॥ ३१६ दशरात्रेण शुद्धयन्ति भूमिसस्यं नवं पयः ।
शाकादिकं च विट्जातं कवकानि च वर्जयेत् ॥३२० मांसं कीटादिभिर्जुं प्रयत्नेन विवर्जयेत।
ये वयः क्रव्यमश्नन्ति तथा विष्ठाभुजश्च ये ॥ ३२१ शुक-टिट्टिभ - दात्यूहाः कपोत- पिक-सारिकाः । सेधाद्यांश्च पञ्चनखान् सिंहाद्यान्मत्म्यकांस्तथा ॥ ३२२
धर्मशास्त्रोदितानद्यात्सर्वाकारांश्च वर्जयेत् ।
भक्ष्यं प्राणात्यये मांसं श्राद्ध-यज्ञोत्सवेष्वपि ॥ ३२३ कृत्वा च विधिवच्छ्राद्धं पश्चात्तत स्वयमश्नुते । नाद्यादविधिना मांसं मृत्युकालेऽपि धर्मवित ॥ ३२४ यदैवाव्ययसम्पतिस्तदेवामन्त्रयेद् द्विजान् ।
यत्र वा तत्र वा काले नाद्यं त्वविधिनाऽऽमिषम् ॥ ३२५ भक्षयन्नरके तिष्ठेत्पशुलोमसमाः समाः ।
गृहस्थोऽपि हि यो नाद्यात्पिशितं तु कदा च न ॥ ३२६ स साक्षान्मुनिभिः प्रोक्तो योगी च ब्रह्मलोकगः । न स्वयं च पशु हन्याच्छ्राद्धकालेऽप्युपस्थिते ॥ ३२७ क्रव्यादेः सारमेयाद्यतं मृगादिमाहरेत् । एतच्छाकवदच्छन्ति पवित्रं द्विजसत्तमाः ॥ ३२८ समर्थो यस्य यस्तु स्यादन दत्वातु देहिनाम् । सतामिति निरातङ्को लोकदृष्टं निगद्यते ॥ ३२६
[[५०]]
[[७८५]]
[[७८६]]
[ षष्ठी-
बृहत्पराशरस्मृतिः ।
अन्नादेरपि भक्ष्यस्य स्नेह मद्या SSमिषस्य च । महाफला निवृत्तिःस्यात्प्रवृत्तिः स्वर्गसाधना ॥३३० एकोऽदशतमश्वेन यजेत पशुना द्विजः । नान्यस्तु मांसमश्नाति स्वर्गप्रामिस्तयोः समाः ॥३३१ हेमराजत- शङ्खानां पात्राणां वैणवस्य च । चर्मणो रज्जुवस्त्राणां शुद्धिर्जायेत वारिणा ॥ ३३२ स्फ्यादोनां यज्ञपात्राणां धन्यानां वाससामपि ।
अन्येषां चयरूपाणां प्रोक्षणान् शुद्धिरिष्यते ॥ ३३३ मार्जनान्मखपात्राणां हस्तेन मखकर्मणि ॥ अम्भोजपत्र कैरुष्णैः शुद्धयतः कौशिकाविके ॥ ३३४
॥ श्रीफलैरंशुपट्टानां सारिष्टः कुतपस्य च । मृण्मयानि पुनः पाकैः क्षौमाणि सितसर्वपैः ॥ ३३५ शुद्धय ेत काहस्तस्थं पण्यं यत्स्यात्प्रसारितम् । भैक्ष्यं च प्रोक्षणाच्छुद्ध त्स्पृष्टिः साक्षान्न यस्य तु ॥३३६ स्त्रीमुखं च सदा शुद्ध भूमिर्लेपविवर्जिता । अपरा दहनाद्यैश्च गृहं मार्जन - लेपनैः ॥३३७ द्रवद्रव्याणि शुद्धयन्ति वह्निना प्लावनेन च । क्रव्यादाद्यैह तं मासं सर्वदा शुचि कीर्तितम् ॥३३८ तृप्तिकृत्सौरभेयाश्च स्वभावस्थं महीगतम् । वदन्ति सूरयो वारि पवित्रमिव सर्वदा ॥३३६ गौर्वह्नि - भानवच्छाया जलमश्वं वसुन्धरा । विप्रुषो मक्षिका वायुर्न दुष्यन्ति कदा च न ॥ ३४०
ऽध्यायः ]
शुद्धिवर्णनम् ।
श्रुचिः प्रस्थापने वत्सो अजाश्वौ मुखतस्तथा । शुचिः प्रस्रवणं वत्सम्नथाजावी मुखे शुची । न तु गौर्मुग्वतो मेध्या न च गोमुखजा मलाः ॥ ३४१
सोम - भास्करयोर्भाभिः पथशुद्धिः प्रकीर्तिता ।
ओष्ठा
मकरी सनेहाँ भोजनादनु ॥ ३४२ नदुष्येच्छतिजः प्राह वाल-वृद्धौस्त्रियांमुग्वम् ॥३४३ स्नात्वा पीत्वा च भुक्त्वा च मुत्वा तत्वा तथैव च । गत्वा रथ्यादिके चैव शुद्धिराचमनेन तु ॥ ३४४ नापो मूत्र - पुरीपाभ्यां नाग्निर्दहति कर्मणा । नम्बी दुष्यति जारेण न वित्रो वेदकर्मणा ॥३४५
पद्माश्मलोहाः फल-काष्ठ चर्म- भाण्डस्थतोयैः स्वयमेव शौचात । पुंसां निशास्वध्वनि चाऽसखानां स्त्रीणां च शुद्धिर्विहिता सदापि ॥ ३४६ नभसः पंचदश्यां तु पंचम्यां च तथाऽपरे । नभस्यस्य चतुर्दश्यामुपाकर्म यथोदितम् ॥३४७ तद्विदः केचिदिच्छन्ति नभसः श्रवणेन तु । हस्तेन वाथ पश्वम्यामध्यायानां वदन्ति तन् ॥ ३४८ यच्छाखयोपनीतः स्यात ब्रह्मचारी द्विजोत्तमः । तच्छाखाविहितं तस्य उपाकर्मादि कीर्त्यते ॥ ३४६ अतो वेदाधिकारित्वं वेदपाठस्य कीर्तने ।
अनुपाकृतविप्रादेर्वेदाध्ययनदुष्कृतम् ॥३५०
[[७८७]]
[[७८८]]
वृहत्पराशरस्मृतिः ।
[ हो-
मुञ्जोपवीता जिनदण्डकाष्ठं त्याज्यं न तत्स्याद्व्रतचारिणापि । अकिष्टमेको व्रतलोपपापं संस्कारमन्यं पुनरर्हयेयुः ॥ ३५१
ओषधीनां तु सद्भावे स्वशाखाविहितं तु यन । रोहिण्यां च सहस्तम्य उपाकर्माणि कुर्वते ॥३५२ न भवेदनुपाकर्मा ब्राह्मणः स्नातको व्रती । कर्मच्युतो भवेद्वात्यो व्रात्यानिष्कृतिकृच्छुचिः ॥ ३५३ अथाऽतः स्यादनध्यायो मृतगुर्वादिपु त्र्यहम् । मित्रकादिष्वहोरात्रमधीत्यारण्यकः शुचिः ॥ ३५४ अष्टकामु तथाष्टम्यां पूर्णिमास्यां शशिक्षये । मन्वादौ युगपनादाविद्रचापांच्येषु च ॥३५५ चातुर्मास्य द्वितीयायां चतुर्दश्यामहर्निशम् । अहो रात्रे नृपे संस्थे त्रनिनि श्रोत्रिये यतौ ॥३५६ अत्र त्र्यहमनध्यायमिच्छन्ति चापरे द्वयम् । अशौचे मूतकान्ते च यावच्छुद्धिस्तयोर्भवेत् ॥३५७ देशान्तरगते प्रेते श्रुतेऽपि म्यादहर्निशम् । गुर्वादौ वा नृपत्यादौ इतिवासिष्ठजोऽब्रवीत् । प्रतिगृह्य त्वहोरात्रं भुक्त्वा श्राद्धिकमेव च । तज्ज्ञा ब्रूयुरनध्यायानृतुमन्धावहर्निशम् ॥ ३५६ पश्वाद्यरन्तरायातैरहोरात्रं विदुर्बुधाः ।
अकालगर्जिते वृष्टावग्निदाहे च सप्त सा ॥३६० मामेषु दुःखितानां च स्वरादीनां च निःस्वने ।
पतित-श्याब-शूद्रा-ऽन्त्यसन्निधाने न कीर्तयेत् ॥ ३६१
ऽध्यायः ]
अनध्यायवर्णनम् ।
आत्मन्यशुचि देशे तु विद्युत्स्तनितरोहिते । मृधे च कलहे देशविप्लवे लोकविग्रहे ॥३६२ पांशुवर्षेऽम्बुमध्ये च दिग्दाह - ग्रामदाहयोः । नीहारे च भवेद्विद्वान्मन्ध्ययोरुभयोरपि ॥ ३६३ धावंश्च न पठेद्विद्वान्पूतिगन्धस्तथैव च । विशिष्टं चागते गेहे गात्रासङ निर्गमे तथा ॥ ३६४ भोजनायोपविप्रस्य ह्युत्थितस्यार्द्रपाणिनः । वान्तेऽऽचान्ते तथाऽजीर्णे महारानंऽतिमारुते ॥ ३६७ रजोवृष्टौ च यानादौ आम्दस्य तथा द्विजः । एतानन्याश्च तत्कालाननाध्यायान्विदुर्बुधाः ॥ ३६६ यो वर्जयेदनध्यायान्वेदाध्ययनकृद्विजः । भवन्ति तस्य सफला वेदाः प्रोक्ताः फलप्रद्राः ॥ ३६७ ये चंतेपु पठत्यज्ञाः पाठलोभन लोभिताः । न शाश्वता भवेद्विद्या निष्फला चैव जायते ॥ ३६८ यः पठेद्विधिवद्वेदान् ब्रती चेन्द्रियसंयमी । ब्रह्मत्वमिह लोकेऽपि ऐश्वर्यसुखभाग्भवेत् ॥ ३६६ जनानां शृण्वतां मार्गे गच्छ न्यस्तु पठेदुद्विजः । निष्फलास्तस्य वेदाश्च वेद विप्लवदोषभाक् ॥ ३७० यः पठेत्स्वरहीनं तु लक्षणेन विवर्जितम् । सङ्कीर्णग्राममध्ये तु स भवेद्वेदविप्लवी ॥३७१ ये स्वाध्यायमधीयीरम् अनध्यायेषु लोभत । वस्त्ररूपेण ते मन्त्रारतेषां देहे व्यवस्थिताः ॥ ३७२
[[७८६]]
वृहत्पराशरस्मृतिः ।
[ षष्ठो-
नाक्रामेदमरादीनां च्छायां च परयोषिताम् । वान्त-ष्ठीवन- विण्मूत्र- कार्पासा ऽस्थि- कपालिकाः ॥ ३७३ नावज्ञेयाः कदापि म्युर्नृ प-विप्रोरगादयः । श्रियं कामं समाकांक्षेन्न स्पृशेन्मर्म कस्यचित् ॥ २७४ नित्यं वर्तेत चाजत्रं धर्मार्थौ च सदाऽर्जयेत् ।
न कश्वित्ताडयेद्धीमान्सुतं शिष्यं च ताडयेत । ताडयेन्नाभितोऽधस्तान्न तानन्यत्र ताडयेत् ॥ ३७५ आचारेण सदा विद्वान्वर्तत यो जितंद्रियः । स ब्रह्मपरमाप्नोति वरेण्योऽमुत्र चेह च ॥२७६
आचारमूलं श्रुतिशास्त्रवित्तम्
आचारशाखाश्च तदुक्तकृत्यम् । आचारपर्णानि हि तन्नियोग
आचारपुष्पाणि यशोधनानि ॥ ३७७
[[1]]
आचारवृक्षस्य फलं हि नाकस्तम्माञ्च सुम्वादुरसश्च मुक्तिः । सम्मादनन्तं फलदं तु तत्वमाचारमेवाश्रय यत्नपूर्वम् ॥३७८ ये धर्मशास्त्र विहिताश्च केचिद्धर्मा द्विजाग्योरपि ते च सर्वे । यत्नेन कार्याः पितृ-देवभक्तः श्राद्धानि कार्याण्यथ तानि वक्ष्ये ३७६ यत्नेन धर्मो गृहमेधिविप्रैः प्रीतेन वाचा वपुषा च कार्यः । आयुःप्रजा श्रीर्भुवि पूजितत्वं तस्माल्लभन्ते दिवि देवभोगान् ३८०
इति श्रीबृहत्पराशीये धर्मशास्त्रं सुव्रतप्रोक्तायां
धर्मस्मृत्यां षष्ठोऽध्यायः समाप्तः ॥ऽध्यायः ]
श्राद्धवर्णनम्।
॥ सप्तमोऽध्यायः ॥
अथ श्राद्धवर्णनम् ।
श्राद्धं वृद्धावचन्द्रभच्छाया - ग्रहण - सङ्क्रमे । व्यतीपात - विषुवत्कृष्णपक्ष पात्रार्थलब्धिषु ॥ १ अष्टका हायने द्वे च श्राद्धम्प्रति यदा रुचिः । पुण्य श्राद्धम्य कालोज्यमृपिभिः परिकीर्तितः ॥२ युगादिषु च कर्तत्र्यं मन्वन्तरादिकेऽपि च । श्राद्धकालो ह्ययं प्राक्तो मन्त्राद्यधर्मकर्तृभिः ॥३ नवान्नं नवतोये च नवच्छन्ने तथा गृहे । नावैवेषु चेहन्ते पितरां हि मघास्विव ॥४ काणः पौनर्भवो रोगी पिशुनो वृद्धिजीविकः । कृतघ्नो मत्सरो क्रूरो मित्रध्रुक् कुनखी गढ़ी ॥५ विद्धप्रजननः श्वित्रि - श्यावदन्तावकीर्णिनः । हीनाङ्गश्चातिरिक्ताङ्गी विक्लवः परनिन्दकः ॥६ क्लीवा ऽभिशस्त वाग्दुष्ट-भृतकाध्यापकास्तथा । कन्यादूषी वणिग्वृत्तिर्विनाभिः सोमविक्रयी ॥७ भार्याजितोऽनपत्यश्च कुण्डाशी कुण्डगोलकः । पित्रादित्यागकृत्स्तेनो वुपलीपति - तर्जकौ ॥८ अनुक्तवृत्तिस्त्वज्ञातः परपूर्वापतिस्तथा ।
अजापालो माहिषिकः कमंदुष्टाश्च निन्दिताः ॥
[[७६१]]
[[७६२]]
वृहत्पराशरस्मृतिः ।
[ तो-
यो ऽसत्प्रतिग्रहप्राही यश्च नित्यं प्रतिप्रही । महसूचक - दूतौ च पितृश्राद्ध पु वर्जिताः ॥ १० एकादशाहे भुञ्जन्तः शूद्रान्नरससंयुताः । गुरुतल्पगो ब्रह्मघ्नो यस्य चोपपतिगृहे ॥ ११ प्रेतस्पृक् तैलनिर्णेक्ता बहुयाजक- याचकौ । वक - काकविडाला ऽश्व शूद्रवृत्तिश्च गर्हितः ॥ १२ वाग्दुष्ट - बालदमकौ नित्यमप्रियवाक् च यः । आसक्तो द्यूतकामादावतिवाक् चैव दृषितः ॥ १३ निराचारश्च ये विप्राः पितृ-मातृविवर्जिताः । विद्वांसोऽपि हि नाभ्यर्ध्या पितृश्राद्ध पु सत्तमैः ॥१४ न वेढ़ेः केवलैर्वापि तपसा केवलेन वा । सद्वृत्तरेव मा प्रोक्ता पात्रता ब्राह्मणस्य च ॥ १५ यत्र वेदास्तपो यत्र यत्र वत्तं द्विजायगे । पितृश्राद्धषु तं यत्नाद्विद्वान्विप्रं समर्चयेत् ॥ १६ वेदशास्त्रार्थाविच्छान्तः शुचिर्धर्ममनाः सदा । गायत्रीब्रह्मचिन्ताकृत्पितृश्राद्धं पु पावनः ॥ १७ रथन्तरं बृहज्ज्येष्ठसामवित्त्रिसुपर्णकः । त्रिमधुश्चापि यो विप्रः पितृश्राद्धं पु पूजितः ॥ १८ मातामहश्च दौहित्रो भागिनेयोऽथ मातुलः । मातृस्वत्र्यतज्जश्च तथा मातुलजोऽपि वा ॥१६ जामाता श्वशुरो बन्धुर्भार्याभ्राता च तत्सुतः सुवृत्ताश्च सदाचाराचं श्राद्धषु पावनाः ॥२०
[[1]]
ऽध्यायः ]
श्राद्धवर्णनम् ।
ऋत्विग्गुरुरुपाध्याय आचार्यः श्रोत्रियोऽपरः ।
एते श्राद्धेषु वै पूज्याः ज्ञाति-सम्बन्धि - बान्धवाः ॥२१ अग्निहोत्री च यो बिप्र आवसथ्यानिकोऽपि च । पितृ-मातृपरावेतौ भोक्तव्यौ हव्यकव्ययोः ॥ २२ कृष्येकवत्तिजीवी यो भक्तो मात्रादिकेपु च । पट्कर्मनिरतः पूज्यो हव्यकव्ये सदैव हि ॥ २३ क्षत्रवृत्तिः सदाचारो मात्रादिभक्तितत्परः । शुचिः षट्कर्मयुक्तश्च हव्यकव्येषु पूजितः ॥२४ युगानुरूपतो यस्तु विद्याचारविमंयुतः । स पूज्योज्नभिशन्तश्च षट्कर्मनिरतो द्विजः ॥२५ इत्युक्तगुणसम्पन्नान्ब्रह्मणान्पूर्ववासरे ।
।
निमन्त्रयेत तान भक्त्या नियोगाख्यानपूर्वकम् ॥ सव्येन देवतार्थं तु पित्रर्थमपसव्यवान् । ततस्तैश्चरितव्यं स्यादुक्तं पितृव्रतं द्विजैः ॥ २७ जितेन्द्रियैस्तु भाव्यं स्यादहोरात्रमतन्द्रितैः । तस्मिन्नहनि प्रातर्वा यत्र श्राद्धमुपस्थितम् ॥२८ निमन्त्रयेत तान्भतया तेश्च भाव्यं जितेन्द्रियैः । विप्रोरः- पार्श्व- पृष्ठस्थाः पितृ-मातामहादयः ॥२६ भुञ्जन्ति क्रमशः श्राद्ध तथा पिण्डाशिनोऽपि च । निमन्त्रितो द्विजः श्राद्ध न शयीत स्त्रियासह ॥३० अध्वानं न तु वै यायान्न ब्रूयादनृतं वचः । नाधीयीत दिवा स्पापं न कुर्वीत न संवदेत् ॥ ३१
[[७६३]]
[[७६४]]
वृहत्पराशरस्मृतिः ।
न म्लेच्छ- पतितैः सार्धं न वदेव निषिद्धकम् ॥
प्रमुख दैविकौ विप्रो विप्रास्त्रय उदङ्मुखाः ॥ ३२ एकैको वोभयत्र म्यादसम्पत्ताविति क्रमः । पात्रं वा दैविकं कृत्वा विप्र एकस्तु पैतृके ॥३३
इति वा निवपेच्छ्राद्धं निधनश्चान्यदाचरेत् । गत्वारण्यममानुष्य मूर्ध्ववाहुर्विगैत्यदः ॥३४ निरन्नो निर्धनो देवाः पितरो माऽनृणं कृथाः । न मे स्ति वित्तं न गृहं न भार्या
श्राद्ध कथं वः पितरः करोमि । वने प्रविश्येह तं मयोचैर
भुजौ कृनौ वर्त्मनि मारुतस्य ॥ ३५ श्राद्धर्णमेतद्भवतां प्रदत्तं
मह्यं दयध्वं पितृदेवतायाः ।
आख्याय चोत्क्षिप्य भुजावितम्ततो दिवा च रात्रिं समुपोप्य तिष्ठेत् ॥ ३६ भवेन्नरस्तेन कृतेन तेपा-
मृणेन मुक्तः पितृदेवतानाम् । निर्वित्त-निर्भाग्य - निराश्रयाणां
श्राद्धस्य मार्गः कथितो मुनींद्रैः ॥३७
मयाऽऽख्यातं रुदित्वा वः पितरः श्राद्धदेवताः । श्राद्धर्णस्य विमुक्तोऽहं महिताः पितरो मया ॥३८
[ सप्तमो-
ऽध्यायः ]
श्राद्धवर्णनम् ।
कृतोपवासस्तत्राहि श्राद्धर्णान्मुच्यते द्विजः । एतच्चापि न यः कुर्यात्पितरस्तेन वै हताः ॥ ३६ सम्पत्तावर्थ पात्राणामेकैकस्य त्रयस्त्रयः । पित्रादेर्ब्राह्मणाः प्रोक्ताश्चत्वारो वैश्वदैविके ॥४० द्वौ वापि दैविके विप्रौ चकैको वा न दोषभाक् । स्यान्मातामहिकेऽप्येवमेकोऽपि वैश्वदैविके ॥४१ नत्वैवैकं तु सर्वेपामाश्वलायनमतस्थित । पितॄणामर्चयेद्विप्रमत्रपिण्डा निदर्शनम् ॥४२ न मानामहिकं श्राद्ध श्रोतमुक्तं तु साग्निकैः । अनमिकस्तु तत्कुर्यादिति केचिन्मतं विदुः ॥ ४३ साभिरपि कार्य स्याच्छाद्ध मातामहं द्विजैः । षट्दैवत्यमिति ह्येके एक तु पार्वणद्वयम् ॥४४ अपुत्रस्य पितृव्यस्य तत्पुत्रैर्भ्रातृजो भवत् । स एव तस्य कुर्वीत पिण्डदानोदकक्रियाः ॥४५ पार्वणं तेन कार्य म्यात्पुत्रवद् भ्रातृजेन तु । पितृस्थानेषु तं कृत्वा शेषं पूर्ववदुच्चरेत ॥४६ श्राद्धं पत्यापि कार्यं स्यादपुत्रायास्तु योषितः । तस्यापि हि तया कार्यमेकत्वं हि तयोर्यतः ॥४७ भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्राताऽनुजस्य च । दैवहीनं तु तत्कुर्यादिति धर्मविदो विदुः ॥४८ पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया ॥ पुत्राभावे तु पुत्री च तदभावे सहोदरः ॥४६
[[७६५]]
£ €
वृहत्पराशरस्मृतिः ।
मित्रादीनां च कर्तव्यं समीहन्ते यतोऽप्यमी । नावज्ञेयास्तु ते सर्वे कृते तु स्यान्महाफलम् ॥५० पितामहस्तदन्यो वा यस्य जीवन् भवेद्विजः । प्रत्यक्षास्तेऽपि वे पूज्याः संस्थित्यर्थ यतश्च तन ॥ ५१ विद्यमानत्रयाणां स्यात्प्रत्यक्षः पूज्य एव सः । गौतमस्य मतं त्येतदिति वासिष्ठजोऽब्रवीन ५२ विद्यमाने तु पितरि श्राद्धं कर्तुमुपस्थितः । पितृवत्पितृपित्रादेः कुर्याच्छाद्धमसंशयम् ॥५३ पुत्रिकायाः सुतः श्राद्धं निर्वपेन्मातुरेव सः । तत्पितुर्निर्वपत्यम्मात्तृतीयं तु पितुः पितुः ॥ ५४ अत एव द्विजः पुत्रीमुद्रन्न कथं च न । sai: पुत्रः पुत्रोऽसौ पुत्रोऽसौ मातुरेव हि ॥५५ पुत्रश्च दुहितुःपुत्रः समौ तौ धार्मिके पथि ।
[ सो
अर्थाहृतौ च विप्रांक्तौ तुल्यौ तौ शक्तिजोञ्जवीत् ॥५६ मुख्यं यथा पितुःश्राद्ध तथा मातामहस्य च । पुत्र- दौहित्रयोलोके विशेषो नोपपद्यते ॥ ५७ दौहित्रः पावनः श्राद्ध कालस्तु कुतपस्तथा । तथा कृष्णास्तिला विद्वन्निति शास्त्रविदो विदुः ॥५८ काम्यमाभ्युदयं चैव द्विविधं पार्वणं स्मृतम् । यथाकामं तु काम्यं स्याद्वृद्धावभ्युदये स्मृतम् ॥५६ क्षत्रियायां तु यो जातो वैश्यायां च तथा सुतः । ब्राह्मणस्य पितुस्तौ तु निर्वपेतां द्विजाम्बवत् ॥६०
ऽध्यायः ]
श्राद्धवर्णनम् ।
क्षत्रियस्य सुतश्चैव तथा वैश्यसुतोऽपि च । शृतान्नंन द्विजांस्तर्प्य श्राद्धद्वयं च निर्वपेत् ॥ १ आमान्नंन तु शूद्रस्य तूष्णीं च द्विजपूजनम् । कृत्वा श्राद्धं तु निर्वाप्य मजातीनाशयेत्तथा ॥६२ यः शूद्रो भोजयेद्विप्रांच्छ्रतपाकाशनेन तु । स तद्विप्रकृतनाभिलिप्यते शक्तिजोऽब्रवीत् ॥६३ शूद्रपार्क द्विजेभ्यश्च विभवान्धो ददाति यः । कृमी भवति पाताले स युगानेकविंशतिम् ॥ ६४ भोजितेन तु विप्रेण यत्पापं तस्य जायते । तेनामौ लिप्यते मूढो य शूद्रो भोजयेद्विजान् ॥ ६५ योऽहंमन्यो द्विजाचास्तु शूद्रश्रितेन भोजयेत । स गच्छेन्नरकं घोरं पुनरावृत्ति दुर्लभम ॥६६ यत्किचित्किल्बिषं विप्रं कृतपूर्वं तु तिष्ठति । तेनासौ लिप्यते पापी य. शूद्रो भोजयेद् द्विजान् ॥६७ शूद्रोच्छिष्टं तु यो भुङ्क्त मतिपूर्वं द्विजाधम । कृमित्वं याति विष्ठायां युगानि ह्येकविंशतिः ॥ ६८ शूद्रोच्छिष्टं तु यो भुङ्क्तं पञ्चाहानि द्विजाधमः । स तद्विष्ठाकृमित्वं तु प्राप्नोति हि शतं समाः ॥६६ अतो न भोजयेद्विप्रान्निर्वपेन्नैव पूजयेत् । शूद्रान्नं भोजनाद्युक्तं इति पाराशरोऽब्रवीत् ॥७० न भोजयेत् स्त्रियं श्राद्धं यद्यपि ब्रतचारिणीम । पात्रं तस्यै समप्यं स्यादिति धर्मविदब्रवीत । द्विजन्मानो न कुर्वीच्छ्राद्धमामाशनेन तु ॥७१
[[७६८]]
बृहत्पराशरस्मृतिः ।
।
[[1]]
यदैव स्युः प्रवासस्था भार्या यत्र न सन्निधौ । व्यवधानेन भार्याया ग्रहणे पुत्रजन्मनि । कुर्यादामशन श्राद्धमिति पाराशरोऽब्रवीन् ॥७२ अनौकरणपिण्डांश्च कुर्यादामाशनेन तु । सतिलैर्दधिमध्याज्यमम्पृक्तैः स कुशैरपि ॥७३ यवाचं संस्कृतान्नेन द्रव्यं वापि च निर्वपेत् । जलेन पयसा वापि न स्यादश्राद्धकृद्यथा ॥७४ आमान्तेन द्विजैः कार्य न कदाचिदपि द्विजाः । श्रपयित्वा द्विजौकम्सु तथापि पाकमाश्रयेत् ॥७४ न कुर्यात्परपाकेन नैकपाकेन तु द्वयम् । नैकश्राद्ध द्वयं कुर्यान्न च कुर्यात्परान्नभुक् ॥ ७५ पित्रादीनां सगोत्रा ये तथा मातामहस्य च । तेषामेकेन पाकेन कार्यं पिण्डविवर्जितम् ॥७६ केचित्मापिण्ड्यमिच्छन्ति समगोत्रतयाऽनघ । अपि मातामहो न स्याद्भिन्नगोत्रतया तथा ॥७७ पृथक्कर्तुमशक्यं स्यादर्थ - पात्राद्यसम्भवे । अवश्यं तत्र कर्तव्यमेकदेवमतः श्रयेत् ॥७८
येषां नोद्वाहसंस्कारा ह्यम्यसंस्कार संस्कृताः । साङ्कल्पिकं भवेत्तेपां श्राद्ध कार्य मृतेऽहनि ॥७६ केचित्सपिण्ड्यमिच्छन्ति ब्रह्मसंस्कारवत्तया । आद्यो हि ब्रह्मसंस्कारस्तस्मात्पिण्डः प्रदीयते ॥८०
सप्तमो-
ऽयायः ]
श्राद्धवर्णनम् ।
पर्वस्वपि निमित्तेषु कर्तव्यं पिण्डसंयुतम ।
पितणा त्रिविधा यस्मागतिः प्रोक्ता मुनीश्वरैः ॥८१ वैश्वदेवः सदा कार्यो श्राद्ध े च समुपस्थिते । पाकशुद्वर्य मेर्वमेव विधीयते ॥ ८२ वैश्वदेवमतश्चैव श्राद्धकाले विशेषतः ।
पाकशुद्धिस्तु विडोया भुक्तोच्छिष्टं तु वर्जयेत ॥ ८३ सम्प्राप्ते पार्वणश्राद्धं एकोदिये तथैव च । अग्रतो वैश्वदेवः स्यात् पश्वादेकादशेऽहनि ॥८४ एकोदि विशेषेण प्रागेव ह्यमिपूजनम । कालस्तु कुतपस्तप्य रोहणः पार्वणम्य च ॥८५ वामतश्चासनं दद्यात्पितृकार्येषु मत्तम । दैविकं दक्षिणं तद्वदिति पाराशरोऽत्रवीत् ॥८६ आसने चासनं दद्याद्वामे वा दक्षिणेऽपि वा । पितृकार्येषु वामं तु देवे कर्मणि दक्षिणम् ८७ पितृश्राद्धषु यो दद्याद्दक्षिणं दर्भमामनम् ।
नाश्नन्ति पितरस्तस्य मार्धानि वत्मराणि पट् ॥८८ तम्माद्वामत एवात्र पितृकर्मणि चासनम् । दैविके दक्षिणं तद्वदिति वासिष्ठ जोऽब्रवीत् ॥८६ कुत्र काले च कर्तव्यं श्राद्धं तत्पैतृकं प्रभो ! ।
वदम्व निश्चयं तत्र विवदन्त्यपरेऽत्र तु ॥ ६०
॥ पञ्चदशमुहूर्ताहस्तत्प्रागर्धदिनं स्मृतम् ।
अपराधं स्मृता रात्रिस्तन्मध्यः कुतपो मतः ॥ १
[[७६६]]
[[८००]]
वृहत्पराशरस्मृतिः ।
यथा यथा च हस्वत्वं पुंसः स्थानेन सम्भवेत् । तथा तथा पवित्रः स्यात्कालः श्राद्धार्चनादिषु ॥१२ छायेयं पुरुषस्यैवं तत्पादाधो भवेद्यथा । आधानश्राद्धदानादेः स कालोऽक्षयकृत्स्मृतः ॥६३ अयुतं तु मुहूर्तानामधं ह्यष्टदशाधिकम । त्रिंशद्भिस्तैरहोरात्रमिति माध्यन्दिनी श्रुतिः ॥६४ मध्याह्नं तु गते सूर्ये न पूर्वे न च पश्चिमे । तुल्याग्रसंस्थिते चैव सोमो भाग उच्यते ॥ ६५ दिवस्याष्टमे भागे मन्दो भवति भास्करः । स कालः कुतपो ज्ञेयस्तत्र दत्तं तु चाक्षयम ॥६ मध्याह्रचलितो भानुः किञ्चिन्मन्दगतिर्भवत् । स कालो रोहिणो नाम पितॄणां दत्तमश्नयम् ॥६७ तस्मात्सर्वप्रयत्नेन रोहिण तु न लङ्घयेन । अकाले विधिना दत्तं न देव - पितृगामि तत् ॥६८ अब्दवृद्धिर्भवेद्यत्र तत्राऽऽब्दमुभयात्मकम् । श्राद्धं तत्र च कुर्वीत मासयोरुभयोरपि ॥ ६६ नवन्ध्यं दिवसं कुर्यान्मासयोरुभयोरपि । पिण्डवर्जममङ्क्रान्ते सङ्क्रान्ते पिण्डसंयुतः । षष्टिभिर्दिवसैमसत्रिंशद्भिः पक्ष उच्यते ॥ १०० संक्रान्तिरहितः पक्षस्तत्र कार्य विपिण्डिकम् । सिनीवाली मतिक्रम्य यदा सङ्क्रमते रविः । युक्तः साधारणैर्मासैः स काल उत्तरो भवेत् ॥ १०१
।
[ साफ
समोऽध्यायः ]
श्राद्धवर्णनम् ।
सङ्क्रान्तिवर्जितः कालः समयः पापसम्भवः । रक्षस भागवेयोऽसौ उत्सवादिविवर्जितः ॥ १०२ तत्र नैमित्तिकं कार्यं श्राद्धं पिण्डविवर्जितम् । नित्यं तु मतनं कार्यमिति पाराशरोऽब्रवीत् ॥१०३ अहोभिर्गुणिनेर्यत्स्यात्तत्कार्य यत्र सर्वदा ।
तिथि-नक्षत्र योगाश्च जातकर्मादिकाश्च ये ॥१०४ नैमित्तिकाश्च ये चान्ये कार्यान्तेऽपि मलिम्लुचे । तीर्थस्नानं गजच्छायां द्विमुखीं गोप्रदानवन ॥ १०५ मलिम्लुचेऽपि कर्तव्यं सपिण्डीकरणादिकम् । आग्रयणममावास्याम एकाग्रहस मम ॥१०६ अधिमासेऽपि कार्यं स्यादिति पाराशरोऽब्रवीत् । नित्यं च नित्यशः कार्यमित्रीः काम्याश्च वर्जयेत् ॥ १०७ वार्षिकं पिण्डवजं स्यादन्यम्मिपिण्डसंयुतम् । इष्टिराग्रयणं श्राद्धमन्वाहार्य च सर्वदा ॥१०८ कर्तव्यं सततं विप्रैरिष्टीःकाम्याश्च वर्जयेत् । दैवे कर्मणि सम्प्राप्ते तिथिर्यत्रोदितो रविः । सा तिथिः सकला ज्ञेया विपरीता तु पैतृके ॥१०६ वृद्धिमद्दिवसे कार्यं श्राद्धमाभ्युदिकं द्विजैः ।
क्षीयमाणे दिने कार्य त्राद्धं विद्वन् ! क्षयाह्निकम् ॥ ११०
मित्रे चैव सगोत्रे च पितृ-मातृसहोदरे ।
आसनं नैव दातव्यं भोक्तव्या एवमेव ते ॥१११
ब्राह्मणं न सगोत्रं च पूजयेत्पितृकर्मणि ।
[[1]]
नोपतिष्ठति तत्तेपां कि तु स्याच निराशता ॥ ११२
[[५१]]
[[८०१]]
[[८०२]]
वृहत्पराशरम्मृतिः ।
।
म्वगोत्रं भोजयेद्यस्तु पितृश्राद्धेषु वै द्विजः । हताः स्यु. पितरम्तेन न भुक्तमुपतिष्ठते ॥११३ श्राद्धं कुर्वन्द्विजोऽज्ञानात् स्वगोत्रं यस्तु भोजयेत् । सलु पितृदेवस्सन्नरकं प्रतिपद्यते ॥११४ तम्मन्न गोत्रिणं विप्रं भोजयेद्विधिपूर्वकम् । ज्ञातिमत्त्रेन भोज्याम्ते उत्थितैस्तु द्विजोत्तमैः ॥ ११५ दक्षिण प्रवणे देशे श्राद्धं कुर्यात्त पैतृकम । पितॄणां पावनो देशः स प्रांतोऽभयतृनिकृत ॥ ११६ देशे काले च पात्रे च विधिना हविषा च यत् । तिलैश्च मन्त्रैश्च श्राद्धं स्याच्छुद्धयान्वितम् ॥ ११० तैजसानि तु पात्राणि व्यार्थ भोजनाय च । मृत्पापाणमयान्येके अपराण्यपरे विदुः ॥ ११८ पलाश - पद्य-पत्राणि अनिषिद्धानि यानि च । तानि श्राद्ध कार्याणि पितृ देवहितानि च ॥ ११६ वृद्धिश्राद्ध पु मन्यन्ते मृण्मयानि तु केचन । शौनकम्य मतं ह्येतद्यथा कार्य तु मृग्मयम् ॥ १२० एकद्रव्याणि कार्याणि पात्राणि भोजनार्घयोः । त्रीणि पत्रकपात्राणि द्वेदेवे वश्वदैविके ॥ १२१ एकस्य वैश्वदेवानि पैतृकाण्येकवस्तुनः । इति वा तानि कार्याणि भेदमेकत्र वर्जयेत् ॥ १२२ वटा ऽश्वत्थाऽर्कपत्रेषु कुम्भी-तिन्दुकयोरपि । कोविदार करजेषु न भुञ्जीत कदाच न ॥१२३
[ सप्तमो-
ऽध्यायः ]
श्राद्धवर्णनम् ।
सुरभी-नागकर्णाद्यैः करवीर - करञ्जकः ।
त्रिल्वैर्यस्त्वर्चयेद्विद्वान् पितृन् श्राद्ध ष्वगर्हितैः । तद्भुञ्जतेऽमुराः श्राद्धं निराशैः पितृभिर्गतैः ॥ १२४ सर्वाणि रक्तपुत्राणि निविद्वाण्यपराणि च । वर्जयेन पितृकार्येषु केतकी कुमुमानि च ॥ १२५ गो-रम्भा भृङ्गराजाद्यैमल्लिकाकुन्जकैरपि । समर्चयेद्विजान् श्राद्ध हव्यकव्यो द्वितैर्द्विजः ॥ १२६ न दद्याद्गुग्गुलं श्राद्ध द्विजानां पितृदेवते । धूपाभावे गुडो देयो घृतदीपं द्विजोत्तमाः ॥१२७ कुङ्कुमाद्यं चन्दनं च देयं गन्धविमिश्रितम् । ऊध्वं च तिलकं कुर्याद्देव पित्र्ये च कर्मणि ॥१२८ निराशाः पितरो यान्ति यस्तु कुर्यात्त्रिपुण्ड्रकम् । पवित्रं यदि वा दर्भ करे कृत्वा द्विजान्नरः ॥ १२६ समालभेद् द्विजानज्ञस्तच्छाद्धमासुरं भवेत् । गन्धाश्च विविधा देयाः कर्पूरागममिश्रिताः ॥ १३० शक्त्या वस्त्राणि देयानि तदभावे च निष्क्रयम । दीपश्च सर्पिपा देयस्तिलतैलेन वा पुनः १३१ नकाष्ठतैलैरन्यैस्तु कदाचित् सापपानसे ॥१३२ देशधमं समाश्रित्य वंशधमं तथापरे ।
सूरयः श्राद्धमिच्छन्ति पार्वणं च क्षयान्यपि ॥ १३२ स्त्रीणामपि पृथक् श्राद्धं ते मन्यन्ते, स्वधर्मतः । मातामहस्य गोत्रेण मातुस्तेन सपिण्डताम् ॥१३३
[[८०३]]
[[८०४]]
वृहत्पराशरस्मृतिः ।
मातामह्या सहेच्छन्ति मातुस्तेऽपि सपिण्डताम् । स्त्रीणां स्त्रीगोत्रसम्बन्धात्पुंगोत्रेण नृणां यतः ॥ १३४ सपिण्डी करणे काले श्राद्धद्वयमुपस्थितम् ।
देवाद्यं प्रथमं कुर्यातिगां तदनन्तरम् ॥१३५ देवाय पावणं प्रोक्तं प्रेतश्राद्धमथापरम् ।
एकत्वं तु ततः पश्चात्कृत्वा विप्रांश्च भोजयेत् ॥१३६ पितॄणाम पात्राणि पात्रमथापरम् । प्रेतात्रं तु तत्कृत्वा पितृपात्रेषु योजयेत् ॥ १३७ ये समाना इति द्वाभ्यां पूर्ववच्छेषमाचरेत् । सपिण्डीकरणं यस्य कृतं न स्याद्विजन्मनः ॥ १३८ अदेवं तम्य देयं स्यात्यिण्डमेकं तु निर्वपेत् । सपिण्डीकरण’ चैतत्रियश्चैव याह्निकम् ॥१३६ एकादशाह्निकं त्वाद्य मासि मासि च मासिकम् । वर्षे वर्षे च कर्तत्र्यं मृतेऽहनि च तत्पुनः ॥१४० नाऽनुत्रस्य सपिण्डत्वं केचिदिच्छन्ति तद्विदः । विशेषतोऽनपत्यम्य सत्यप्यत्राधिकारिणि ॥ १४१ विद्यमानः पिता यस्य सवेद्यदि विपद्यते । तदन्तरा सपिण्डत्वं वदन्ति श्राद्धवादिनः ॥ १४२ आभ्युदयिकसम्पत्तावर्चा प्रागेव कारयेत् । कुर्यात्परिजनेनैतत्स्त्रयं वापि द्विजोत्तमः ॥ १४३ सन्यसन्सर्वकर्माणि तच्छाद्धाय च तहिनम् ।
अग्निदाहादिनं चके केचिन्मृतदिनं विदुः ॥ १४४
[ सप्तमो-
ऽध्यायः ]
श्राद्धवर्णनम् ।
[[८०५]]
विदेशस्थं श्रुताहस्तु कृष्णा वा द्वादशी सिता । संग्रामे संस्थिताना च प्रतपक्षे शशिक्षये ॥ १४५ अभि-सर्पादिमृत्यूनां पण्मासोपरि सत्क्रिया । तेषां पार्वणमेवोक्तं क्षयाहेऽपि च मत्तमैः १४६ चन्द्रक्षयाऽनाशक- संयुगेषु यः प्रेतपक्षे मृतबान सपिण्डः । सपिण्डनानन्तरमाव्दिकानि भवन्ति तेनामिह पार्वणानि ॥ १४७
अनि सर्पादिमृत्यूनां पण्मासापरि मत्क्रियाः । । क्षयाह्निकानि कार्याणि ब्रूयुर्धर्मविदो जनाः ॥ १४८ अब्दादूर्ध्वं चरन्त्येके कृत्वा च वैष्णवं बलिम । विश्वचनं विना नावग्प्रिदत्तमुपतिष्ठति ॥ १४६ विद्युता वृक्षपातेन सर्पण महिषेण वा ।
इत्यादिकेन मृत्युः स्यात्तिथौ यत्र च नत्र व ॥ १५० तन्निमित्तस्य तृप्त्यर्थ मासि मामि क्षयाह्निकम् । कर्तव्यमवधौ यावत्ततः कुर्वीत सत्क्रियाम ॥६५१ अनाशक मृताना च क्षय हे पि च पार्वणम् । सन्न्यासवद्धि मन्यन्ते केचिद्विदुरदे विक्रम ॥ २५२ एकोद्दिष्टमदेवं स्यात्तथैकार्घ्य पवित्रकम । आवाहना-ऽग्नौकरणहीनं तदपमव्यवत् ॥ १८३ पूर्वोत्तरलवे देशे श्राद्ध म्यान्मातृपूर्वकम । सित- पितादिपिएन चर्चिते भूतले च तत् ॥ १५४ उहिष्टक्रतुकालस्य तत्प्रागेव विधीयते ।
आभ्युदयिकदेवानि पूर्वाह्नं स्युरितिस्मृतिः ॥ १५५
[[८०६]]
वृहत्पराशर स्मृतिः ।
तिलाक्षतोदकैर्युक्तान्यासनानि प्रदक्षिणात् । परिहृत्यादि पृष्ठेन कृत्वा च शान्तिपूर्वकम् ॥१५६
[ सप्तमो-
व्रीहयो यव- गोवूमा अक्षताश्चहताः स्मृताः । अक्षतामलकै पिण्डान्दद्धि-कर्कन्धुमिश्रितैः ॥१५७ नान्दीमुग्वेभ्यो देवेभ्यः प्रदक्षिणकुशासनम् । पितृभ्यस्तन्मुम्वभ्यश्च प्रदक्षिणमिति स्मृतिः ॥ १५८ कर्क-धुभिर्यवैः पुष्पैः शमीपत्रैस्तिलैस्तथा । तेभ्यो यः प्रदातव्यः पितृभ्यो देवतेसह ॥ १५६ मातामहानामप्येवं पदैवत्यं श्रिये द्विजः । माङ्गल्यपूर्वकं सर्वं गन्धाद्यपि च धारयेत् ॥ १६० तृमिकृत्पितृ-मातृणां धूपो देयश्च गुग्गुलः । घृताभिघारघृपो वा यथा म्यात्परिपूर्णता ॥ १६१ दीपाश्च बहवो देयाः विप्रं प्रतिवृतेन च । तैलेन येन केनापि नवनीतेन चैव हि ॥ १६२ मालत्या शतपत्र्या वा मल्लिका कुइयोरपि । केतक्या पाटलाया वा स्रजो देया न लोहिताः ॥ १६३ वासांसि च यथाशक्त्या दद्यात्तभ्योऽपि निष्क्रयम् । परिपूर्ण यथा तत्स्यात्तथा कार्य भवेदिति ॥१६४ सुवेप - भूपणैतत्र सालङ्कारैस्तथा नरैः । कुङ्कमाद्यनुलिप्ताङ्ग र्भाव्यं तु ब्राह्मणैः सह ॥ १६५ स्त्रियोऽपि स्युस्तथाभूता गीत-नृत्यादिहर्पिताः ।
दुन्दुभीनादहृष्टाङ्गा मङ्गल ध्वनिकारिकाः ॥ १६६
ऽध्यायः ]
श्राद्धवर्णनम् ।
सोमसदोऽग्निष्वात्ताश्च तथा वर्हिपदोऽपि च । सोमपाश्च तथा विद्वंस्तथैव च हविर्भुजः ॥ १६७
आज्यपाश्च तथा वत्स तथाह्यन्ये मुकालिनः । एते चान्ये च पितरः पूज्याः सर्व द्विजातिभिः ॥ १.६८ वसवश्च तथा रुद्रास्तथैवादितिसूनवः । देवता अपि यज्ञेषु स्वायम्भुवा हि कीर्तिताः १६६ एते च पितरो दिव्यास्तथा वैवस्वतादयः । एतत्पौत्रप्रपौत्राश्च असंख्याः पितरः स्मृताः ॥ १७० एते श्राद्धेषु मन्त उत्पन्नानैर्द्विजातिभिः ।
।
सन्तर्पिता इमे सर्वान्प्रीणयन्नि नृणां पितृन् ॥ १७१ प्रागेव केतितान्विप्रान् स्नातान्काले समागतान् । दत्वार्थ्यान् कृतसच्छौचानाचान्तानुपवेशयेत् ॥ १७२ ये स्पृशन्तस्तु खान्यद्भिराचामन्ति पिवन्ति च । तेषां न जायते शुद्धिराचमन्यसृजा हि ते ॥१७३ सर्वाणि स्वानि वस्त्राणि कायच्छिद्राणि चात्मनः । तैराचान्तर्भी छुद्धिग्शुचिस्त्वन्यथा भवे ॥१७४ व्याहृत्य वैष्णवान्मन्त्रान स्मृत्या च वेदमातरम् । शान्तस्वान्तो द्विजाच्छकरिष्ये श्राद्धमियथ ॥ १७५ करवे करवाणीति । ब्रूयुद्धिजाह्मनः ।
अनुजायै वचो तन कुन किनां कुरु ॥१७३
होतनकुन
ततो दर्भासनं दद्यादेवेभ्यः सयवं पुनः ।
दक्षिणं जानु मन्त्राम्य दक्षिणं व तथा मन ॥१७७
[[८०७]]
[[८०८]]
वृहत्पराशरस्मृतिः ।
पात्रद्वयमतोन्यार्थ तैजसं चैकत्रस्नुजम् ।
सापं च सपवित्रं तत्समभ्यर्च्य विधानतः ॥ १७८ प्राङ्मुग्वोऽमरतीर्येषु शन्नो देव्योदकं क्षिपेत् । यवोसीति यवांस्तत्र तूष्णीं पुष्पाणि चन्दनम् १७६
यवोऽसि पुण्यामृतमिश्रितोऽसि
समस्तधान्यप्रभुरम्यमुत्र ।
मरुन्मनुष्य - पितृवंशनृप्त्यै
क्षितावतीर्णोऽसि हितोऽसि पुंसाम् ॥१८० उत्पाद्यपूर्वकमिमानमृतेन वेधा
भूयः प्रसन्नमनमा तदुपामितः सन् । चिक्षेप तान् लोकहिताय शिक्ताः तेनामृता वरुणदेवता वभूवुः ॥ १८१ अनीतवान्विधिरिमान्वरुणस्य लोकात् अन्नप्रभूभुवि यवान्सुरलोकतृप्त्यं । तत्पष्पकविषा पितृदेवतानां
तृप्ता वसन्ति दिवि ते वरदानवाचः ॥ १८२ तनः सत्र्यं करं न्यस्य विप्रदक्षिण जानुनि । देवानावाहयिष्येऽहमिति वाचमुदीरयेत् ॥१८३ आवाहयेत्यनुज्ञातो विशेदेवास आगतम् । विश्वेदेवाः शृणुतेममिति मन्त्रद्वयं पठेत् ॥१८४ सोमेन सह राज्ञेति केचित्पठन्त्यदोऽपि च । व्याहृत्य मन्त्रमाबाह्य हग्ते दत्वा पवित्रकम् ॥१८५
[ सप्तमो-
ऽध्यायः ]
श्राद्धवर्णनम् ।
अर्चयेत्तं द्विजं पुप्पैर्दद्यादयं करे पुनः ।
विश्वेभ्यस्त्वेप देवेभ्यस्तुभ्यमर्घ्यः प्रदीयते ॥ १८६ या दिव्या इति मन्त्रेण पाणौ विप्रस्य तं क्षिपेत् । अपसव्यमतः कृत्वा निर्वत्र्त्य वैश्वदैविकम् ॥१८७ आपो भूमिगताः केचिदादित्येत्यभिमन्त्र्य च । पुनस्ताभिः कराभ्यां च कुर्वन्ति मुग्वमार्जनम् ॥१८८ उदकं गन्ध-धूपांश्च वासांसि चन्दनं स्रजः । दत्वाऽपसव्यवद्भूत्वा दद्यात्पितृकुशासनम् ॥१८६ सोदकाद्विगुणं भुग्नान्मतिलान्मकुशानपि । गोकर्णमात्रकान्स ग्रान्प्रदद्याद्वामपार्श्वतः ॥ १६० चतु यंतं सगोत्रं च पितृनाम च शर्मवत् । उच्चायं परयोस्तद्वदिदं तुभ्यं कुशासनम् ॥ १६१ पित्रर्थमर्घ्यपात्राणि सम्पूज्य दक्षिणामुखः । तिलोसीत्येतदुच्चार्य यवस्थाने तिलान्क्षिपेत् ॥ १६२ भूलग्नसन्यजानुः सन्पितृतीर्थेन चात्वरः । पितृध्यानमनाः कुर्यात्पितृकार्यमशेपतः ॥ १६३
आवाहविध्ये पित्रादीननुज्ञाऽऽवाहयेति च । उशन्नरत्वेति प्रोदीर्य तथाऽयन्तु न इत्यपि ॥ १६४ अन्येऽपहतासुर इत्यादपि पठन्ति हि । अन्नविघ्नव्यपोहार्थं वक्तव्यमिति केचन ॥ १६५ प्राग्वद्विप्रार्चनं कार्यं प्राग्वदार्यप्रसेचनम् । प्राग्वन्मंत्रं समुच्चार्य प्राग्वच्च मुखमार्जनम् ॥१६६
[[८०६]]
[[८१०]]
बृहत्पराशर स्मृतिः ।
[ सप्तमो-
एते तिलास्तु विधिना शशिलोकतस्तु प्राहत्य भोजनहितेन शुभाय धन्याः । क्षिप्त्वा मलानि पुरुषस्य च तर्पणाद्यैर्
ये घ्नन्ति तेषु भुवि सत्सु कुतो भयं स्यात् ॥ १६७ तिलोऽसि तारापतिदेवतोऽसि
हितोऽम्यशेप पितृ-देवतानाम् ।
कर्तामि तृप्रिं परमां पितॄणां
मुक्त ततस्त्वं विधिसम्भवोऽसि ॥ १६८ अर्घ्यपात्राणि सर्वाणि कृत्वा तान्याद्यपात्रके । पितृभ्य स्थानमसीति न्युजं कुर्यादश्च तत् ॥१६६ यस्तूद्धरेत्तदज्ञानादर्घ्यपात्रं तु पैतृकम ।
तद्धि श्राद्धमभोज्यं स्यात्क्रुद्धः पितृगणैर्गतैः ॥२०० आश्रित्य प्रथमं पात्रं तिन्ति पितरो नृणाम् । श्राद्धं तम्मान्न तद्विद्वानुद्धरेत्प्रथमं सुधीः ॥ २०१ वाचयेत्परिपृगं तु वासो दत्वा विधानतः ।
नत्वा सर्वाद्विजात्करिष्येनाविति द्विजः ॥ २०२ अस्त्येतत्परिपूर्णं तु ब्रूयुरेते द्विजातयः ।
समर्पि पात्रमादाय मपिधानं विधानतः ॥ २०३ कुरुष्वेति ह्यनुज्ञातां जुहोत्यग्नौ ततः पुनः ।
भोजने पितृविप्राणामिति म त्रमुदीरयेत् ॥ २०४ अग्निशब्दं चतुर्येकवचनान्तं समुचरेत । कव्यवाहनशब्दं च सोमं पितृमदित्यपि ॥ २०५ऽध्यायः ]
श्राद्धवर्णनम् ।
पंक्तिमूर्धन्यमेवात्र पृच्छेदिति हि केचन ।
पितृश्राद्धे प्रधानत्वात्मामात्येनाथ वा पुनः ॥२०६ तूष्णीं यत्र तु होमादौ प्रजापतिस्तु तत्र तु । तृतीयं मनसा दद्याद्यमायामिति वा पुनः ॥ २०७ अहन्येवास्मिम्तस्मिन्वा संवादोभून्मनोर्गिरः ।
अहव्या वाग्यतो वाणी अभूग्रज्ञ प्रजापतेः ॥२०८ अग्नावाहुतयः प्रोक्तास्तिस्र एव मनीषिभिः । अग्निवद्विपात्रेषु पश्चातज्जुहुय । द्विजः ॥२०६ अग्नौकरणशेषं तु पितृपात्रेषु दापयेत् । प्रतिपाद्य पितॄणां तु दद्याद्वै वैश्वदैविके ॥ २१० यश्चाग्नौकरणं दद्यात्पितृविप्रकरेषु च । तेनोच्छं पितमेतत्म्यात्समास्तावतैव तु ॥ २११ पितरः करवक्त्राश्च वहिवक्त्राश्च देवताः । अतः पाणौ न तद्दयं पात्रे देयं कुशान्वितं ॥ २१२ वैश्वदेविकविप्राणां पात्रे वा यदि वा करे ।
[[1]]
अनग्निस्तु तद्दद्यात्प्रथमं वैश्वदेवके ॥ २१३ हुतशेपमरोपाणां पात्र दद्याद्विजोत्तमः ।
पृच्छेत्सर्वाश्च यत्कृत्यं सामान्येन द्विजोत्तमान् ॥ २१४
दत्वाऽनौकरणं चान्यत् विप्राणां तृमिकुद्धविः ।
परिवेष्यमिति ब्रूयुस्तनो विधिरनन्तरम् ॥ २१५
प्रागग्नौकरणं दद्याद्दत्वा चान्यत्तु तृमिकृत् ।
एकीकृतं तु भुञ्जानाः प्रीणयन्ति नृणां पितृन् ॥ २१६
[[८११]]
[[८१२]]
बृहत्पराशर स्मृतिः ।
परिवेष्य हविः सर्वं तथं यच्च वै शृतम् ।
अभिमन्त्रय ततः पात्रे आपोशानप्रदानवत् ॥ २१७ अन्नपूगस्य पात्रस्य कर्तव्यमभिषेचनम् ।
अपो दत्वा तु सङ्कल्यमेप श्राद्धविधिर्वरः ॥ २१८ वर्जितानि न देयानि पितृप्रीति विजानता । हविष्याणि प्रदेयानि वक्ष्यमाणानि वर्जयेत् ॥२१६ निष्पावान् राजमापांश्च कुलित्थान कोरदूषकान् । मसूरान् शीनपार्क च पुलाकं शणमर्कटाः ॥ २२० आढक्यः सितसिद्धार्थ वल्लानि स्त्रिन्नधान्यकम । पिण्याकं परिदग्धं च मथितं च विवर्जयेन ॥ २२१ नापि नीरम-निर्गन्धं करञ्ज’ सर्वमक्कम । अप्रोक्षितं च यत्किञ्चित्पर्युपितं विवर्जयेत् ॥ २२२ लोहितान्नृक्ष निर्यामान्प्रत्यश्नलवणानि च । कृतकृष्णानि लवणं सर्वाः पलाण्डुजातयः ॥२२३ कृष्णजीरक-वंशाग्रास्तृणानि च विवर्जयेत् ।
[ सप्तमो-
कुम्भिका - ग्रुप - पालङ्क्यः कट्फलं तण्डुलोयकम् ॥२२४ नीलिका च सितच्छत्रा शोभाञ्जन - कुसुम्भिकाः । कोविदार करञ्जौ च मुमुखां मूलकं तथा ॥ २२५ कूष्माण्डं गौरवृन्ताकं बृहत्याश्च फलानि च । करीरफल - पुष्पाणि विडङ्गं मरिचानि च ॥ २२६ जम्भारिका सुजम्बीरा सुपवी बीजपूरकाः । जम्ब्वलावूनि पिप्पल्यः पटोलं पिन्डमूलकम् ॥ २२७
ऽध्यायः ]
श्राद्धवर्णनम् ।
मसूराञ्जनपुपं च श्राद्धं दत्वा पतयधः ।
विपच्छद्महतं मांसमन्यव चिरसंस्थितम् ॥२२८ नित्यं श्राद्ध ेऽपि वर्ज म्याद्विवराह-चकाग्योः । स्वायम्भुवादिभि सर्वैर्मुनिभिर्वर्मदर्शिभि. ॥२२६ निषिद्धानि न देयानि पितृणामहितानि च ।
[[८१३]]
एकेन किश्चित अपरेण किश्चित किञ्चिन्न किञ्चिच परर्मुनीन्द्रैः । श्राद्धे निषिद्धं ह्यशनादि विद्वन्सर्वं पितृणा ननु किश्च देयम ॥२३० सौवीर-ति कैलवणादिकन्तत्वात्रस्य शुद्धिर्भवतीह यस्तु । तद्वीजपूरान्मरिचादियोगात्मिद्धं प्रदेयं ननु दुष्यतीह ॥ २३१ श्राद्ध े तु यस्य द्विज दीयमानं पित्रादिकम्येव भवेन्मनुष्येः । यद्वस्तु यस्येह मनम्यभीष्टमामीत्युग तम्य तदेव देयम् ॥२३२ दातुश्च यस्मिन्मनसोऽभिलाप श्रद्वा भवेत्तत्र तु दीयमाने । श्राद्ध ेऽपि देयं विधिवत्तदेव तद्दत्तमय्यमिति प्रवाद. ॥२३३ आनीतमम्भो निशि यत्कथञ्चित् य पाणिदत्तं भवतीह विद्वन् । हेमाम्बु निक्षेपहरिस्मृतिभ्यामच्छिद्रतामेति पराशरोक्तिः ॥ २३४ यत् क्षीरसारैश्वखण्डयोगाच्द्राखाभिधेयं भवतीह विद्वन् । प्राण्यङ्गधूपान्मरिचादियोगात पाकस्य सिद्धिं प्रवदन्ति तज्ज्ञाः ॥ २३५
व्रीहयो यत्र - गोधूमा मुद्रा मापा तिलास्तथा । नीवारः श्यामकायं च अकृरसम्भवानि च ॥ २३६ आरण्यकालशाकादि प्रतिषिद्धापराणि च ।
माहेयीक्षीरमध्वादि ग्वगादिपिशितानि च ॥ २३७
[[८१४]]
वृहत्पराशरस्मृतिः ।
[ सप्तमो-
शर्करा - गुड-खण्डादि संगुद्ध क्षौद्रमेव च ।
पितृश्राद्ध हविर्मुख्यं यद्वा तद्वाप्यलाभतः ॥ २३८ यद्देहिनामत्र शरीरपुर धाता समर्जाशननाम किञ्चित् । तत्सर्व वान्यान्नमिति ह्यवाहि त्रेधा मुनीन्द्रेण पराशरेण ॥ २३६ शामावरच्या दिककम्बु जाति यत्किञ्चिदम्मिंस्तुपसारभूतम् । आरण्यजं वा कृपेसम्भवं वा सभ्यं तदुक्तं मुनिनाऽशनेषु ॥२४० काण्डोद्भवं यत्त्रशते किञ्चित् पङ्कोद्भवं वा स्थलसम्भवं वा । यत्तु सारं बहुसार मस्मि सर्वाणि धान्यानि च शूक्रवन्ति ॥२४१ यत्सर्वसारं सतुषं च भक्ष्यं निःशूकशूकान्तिमत्र किश्चित् । आप्यायनं देहभृतां च सद्यस्तत्त्रोक्तमन्न ह्यशनेन सद्भिः ॥ २४२
प्रतिश्रुतं च भुक्तं च कटुतिक्तं च यत्तथा । केचिदूचुरदेयानि यन् खातप्रतिरोपितम् ॥२४३ तुण्डिकेरान्यलाबूनि लिङ्गाख्यानि च यानि तु । श्राद्ध नित्यमदेयानि प्राह सत्यवतीपतिः ॥ २४४ सोङ्कारया वै गायत्र्या दशावर्तितया जलम् । पूतं तु तेन तत् प्रोक्ष्यं सर्वमन्न विशुद्धये ॥ २४५ शुद्धवत्योथ कूष्माण्ड्यः पावमान्यन्तरत्समाः । पूतं तु वारिणेताभिरन्नशोधनमुत्तमम् ॥ २४६ तद्विष्णोरिति मन्त्रेण गायत्र्या च प्रयत्नवान । प्रोक्षयेदशनं सर्व शूद्रदृष्ट्यादिशुद्धये ॥ २४७ गृहाग्नि- शिशु देवानां यतीनां ब्रह्मचारिणाम् । तावन्न दीयते किञ्चिद्यावत् पिण्डान्न निर्वपेत् ॥ २४८
ऽध्यायः ]
श्राद्धवर्णनम् ।
कांञ्जिकं दधि तक्रं च शृतं चाश्रुतमेव वा । पूर्वाह्णे न प्रदानव्यं एकोदिटेऽथ पावणे ॥२४६ आपिण्डदानतो दद्याद्य किश्चिच्छ्राद्धवासरे। तेनैव पितगे यान्ति श्राद्धं गृहन्ति नैव च ॥२५० परिवेपयेत्समं सवं न कार्य पंक्तिभेदनम् । पंक्तिभेदी वृथापाकी नित्यं ब्राह्मणनिन्दकः । आदेशी वेदविक्रेता पञ्चते ब्रह्मघातकाः ॥ २५१
यथेपतयां विपमं ददाति स्नेहाद्भयाद्वा यदि चार्थलोभात् । वेदैश्व दृष्टं ऋषिभिश्च गीतं तद्ब्रह्महत्यां मुनयो वदन्ति ॥ २५२
देवान्पितृन्मनुष्यांश्च वह्निमभ्यागतांस्तथा । अनभ्यच्य तु भुञ्जानो वृथापाक इति स्मृतः ॥ २५३ पृथ्वी ते पात्रमित्येतत्यौरपीति पिधानकम् । एतद्वै ब्राह्मगस्यास्ये जुहोमि चामृतेऽमृतम् ॥२५४ इदं विष्णुरिति ह्येतन्मन्त्रमुचार्य चापरे । द्विजाकु च तत्रान्ने निवेशयन्ति तद्विदः ॥ २५५ जप्त्वा व्याहृतिभिः साप्रां गायत्रीं मधुमतीरिति । सङ्कल्प्यान्नमपोशानं ब्रूयाश्च मधुमध्विति ॥ २५६ आपोशानं प्रदेयान’ न तत्संकल्पयेद्विजः । सङ्कल्पान्नर के याति निराशैः पितृभिर्गतैः ॥ २५७ आपोशानोदके विप्रपाणौ तिष्ठति यो द्विजः ।
सङ्कल्पं कुरुतेऽज्ञानात् स्युस्तस्य पितरो हताः ॥ २५८
[[८१५]]
[[८१६]]
वृत्पराशरस्मृतिः ।
[ सप्तमो-
जत्रा वै वैष्णवान्मन्त्रान्विप्रान्याद्यथामुखम् । भुञ्जीरन्वाग्यतास्तेतु पितृ देवहिते पिणः ॥ २५६ अत्युष्णमशनं कार्यं वचो वाच्यं पितृष्वदः । शूद्रं च शूकर- ध्वाङ्क्ष- कुक्कुटानपनाययेत् ॥ २६० भुञ्जते ब्राह्मणा यावत्तावत्युण्यं जपेज्जपम् । पावमान्यानि वाक्यानि पितृसूक्तानि चैव हि ॥ २६१ ततस्तृमान् द्विजान्पृच्छेत्तृनास्थेत्ययनुशासनम् । तृमारमेति द्विजा ब्रूयुम्तदन्नं विकिरेद्भुवि ॥ २६२ सकृत्सकृत्वपो दत्वा शपमन्न निवेदयेत् ।
यथानुज्ञा तथा कृत्वा पिण्डस्तदनु निर्वपेत् ॥ २६३ यद्यद्भुक्तं द्विजैरन्न’ तत्तदादाय वित्तरः ।
स्थालीपाकं तिलोपेतं दक्षिणाशा मुग्वस्ततः ॥ २६४ अवनिज्य तिलान्दर्भान्पिण्डार्थमवनीतले । तस्मिंश्च निर्वपेत्पिण्डान गोत्रनामकपूर्वकान् ॥२६५
ये देवलोकं पितृलोकमापुः प्राप्तास्तथैवं नरकं नरा ये ।
।
[[1]]
अग्नौ हुतेन द्विजभोजनेन तृप्यन्ति पिण्डैर्भुवि तैः प्रदत्तेः २६६ यदन्न लेपरूपं तु क्रमात्तंपु च निक्षिपेत् । प्रक्षाल्य मलिलं तत्र अवनेजनवत्पुनः ॥ २६७ निवृत्तान चयेत्पिण्डान् पुष्प- गन्व विलेपनैः । दीप वास. प्रदानेन पितॄनर्च्य समाहितः ॥ २६८ वासो वस्त्रदश दद्याद्विधिवन्मन्त्रपूर्वकम ।
केचिदत्राविकं लोम केचिन्मतं न तत्त्विति ॥ २६६
ऽध्यायः ]
श्राद्धवर्णनम् ।
।
पचाशद्वार्थिको यस्तु दयालोम स्वमंशुकम । तदवश्यं प्रदेयं म्याद्विधिसम्पूर्णताकृते ॥२७० पवित्रं यदि वा दर्भ करात्तत्र विनिःक्षिपेत् । प्रक्षाल्य हस्तावाचम्य प्राक्षणादिकमाचरेत ॥२७१ निर्वपन्त्यपरे पिण्डान् प्रागेव द्विजभोजनात् । खादयेयुः शकुन्तास्तान्पितॄणां तृप्तितत्पराः ॥२७२ मातामहानामप्येवं विप्रानाचामयेदथ । वाचयेत द्विजान्स्वस्ति दद्याचैवायोदकम् ॥ २७३ दक्षिणा हेम देवानां पितृगां रजतं तथा । शक्त्या दद्यात्स्वधाकारं व्याहरेच्छ्राद्धकृद् द्विजः ॥ २७४ तिष्ठन्पिण्डान्तिके ब्रूयाद्वाचयिष्ये स्वधामिति । वाच्यतामिति विप्रोक्तिः प्रवदेद्रोत्रपूर्वकम ॥२७५ स्वधोच्यतामिति ब्रूयादस्तु स्वधेति तद्वचः । ऊर्जं वहन्तीमवार्य जलं पिण्डेषु सेचयेत् ॥ २७६ याः काश्विदेवताः श्राद्ध विश्वशब्देन जल्पिताः । प्रीयतामिति च ब्रूयाद्विप्रैरुक्तमिदं जपेत् ॥ २७७ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्वा च नो माध्यगमद्वहु देयं च नोऽस्त्विति ॥२७८ न्युज पिण्डार्घ्यपात्राणि कृत्वोत्तानानि संश्रवात् । शिवा पिण्डेन्वतो विप्रान्पितृपूर्वं विसर्जयेत् ॥ २७६ वाजे वाजे इति ह्युक्त्वा आमावाजस्य तान् बहिः । ब्रूयात्म दक्षिणीकृत्य क्षमध्य मित्थमित्यपि ॥ २८०
[[५२]]
[[८१७]]
[[८१८]]
वृहत्पराशरस्मृतिः ।
पिण्डानां मध्यमं पिण्डं पितॄन्ध्यायन् समाहितः । प्राशयेत्पुत्रकामां तु भार्यां तच्छ्राद्धकृन्नरः ॥ २८१ स्नुपा वापि सगोत्रा वा पुत्रकामा द्विजाज्ञया । आधत्त पितरो गर्भ व्याहरेयुर्द्विजातयः ॥ २८२ महारोगगृहीतो वा तद्रोगोपशमाय च ।
[ सप्तमो-
घ्नन्तु मे पितरो रोगमित्युक्त्वा प्राशयेच्चरुम् ॥२८३ अन्यानप्सु हुताशे वा क्षिपेत्पण्डान्द्विजाय वा । अजाय वा प्रदद्याच्च पश्चाद्विप्रविसर्जनम् ॥२८४ उद्धारं पैतृकादेके पाकान्मातामहाय च । एकेनैव हि चैकेऽपि षट्दैवत्यादिति श्रुतिः ॥ २८५ उद्धारं पितृकादेके पाकान्मातामहाय तु । एकेनैव हि गच्छन्ति भिन्न गोत्रास्तथा द्विजाः ॥ २८६ निदध्युः पृथगुदुद्धृत्य पात्रे पिण्डार्थमोदनम् । तथा पाकमपीच्छन्ति भिन्नगोत्रतया द्विजाः ॥२८७ आव्दिके ऽक्षय्यस्थाने तु वक्तव्यमुपतिष्ठताम् । अभिरम्यतां स्वधास्थाने विप्रोक्तिरभिरताः स्मह ॥ २८८
ऊर्ध्वन्तुप्रोष्ठपद्यास्तु प्रतिपदादिकाश्च याः । पुण्यास्तास्तिथयः सर्वा दशापि सहपश्चभिः ॥ २८६ तेषां चतुर्दशी प्रोक्ता ये शस्त्रेण हता नराः । पितृभे च त्रयोदश्यां गयाश्राद्धादिकं फलम् ॥२६० न तत्र पातयेत्पिण्डान् सन्तानेप्सुः कदाचन । पिण्डदानेन कवयो वंशक्षयं वदन्ति हि ॥ २६१
ऽध्यायः ]
श्राद्धवर्णनम् ।
सन्ताने सुत्रयोदश्यां न पिण्डान् पातयेन्नरः । पातयेत्तमनिच्छंश्च प्राह सत्यवतीपतिः ॥२६२ मघायुक्तत्रयोदश्यां पिण्डनिर्वपणं द्विजः ।
[[८५६]]
स सन्तानो नैव कुर्यादित्यन्ये कवयो विदुः ॥२६३ यः समे भानुदिने च कुर्यादुपोषणं पारणकं द्विजन्मा । पिण्डप्रदानं पितृभं च तद्वज्ज्येष्ठो विपद्येत सुतो ऽनुजो वा पुत्रदा पञ्चमी कर्तुस्तथैवैकादशी तिथिः ।
सर्वकामा त्वमावास्या पञ्चम्यध्वं शुभाः स्मृताः ॥ २६५ अन क्षीरं घृतं क्षौद्रमैक्षवं कालशाकवत् । एतैस्नु तर्पितैर्विप्रैस्तर्पिताः पितरो नृणाम् ॥ २६६ देशः पर्व च कालश्च हविः पात्रं च सत्क्रियाः । पितृ- दैविकचित्तत्वं योगश्चेत्पितृभादिभिः ॥ २६७ शौचं च पात्रशुद्धिश्च श्रद्धा च परमा यदि । अनं तत्तृप्तिकृच्छ्राद्ध एतत्खलु न चामिषे ॥ २६८ यस्तु प्राणिवधं कृत्वा मांसेन तर्पयेन पितॄन् । सोऽविद्वाश्चंदनं दग्ध्वा कुर्यादङ्गारविक्रयम ॥२६ क्षिप्त्वा कूपे यथा किश्चिद्बाल आदातुमिच्छति । पतत्यज्ञानतः सोऽपि मांसेन श्राद्धकृत्तथा ॥३०० सर्वथाऽन्नं यदा न स्यात्तदैवामिपामाश्रयेत् । ब्राह्मणश्च स्वयं नाद्यात्तच श्वादिहतं यदि ॥ ३०१ अथान्यत् पापमृत्यूनां शुद्धयथं श्राद्धमुच्यते । कृतेन तेन येषां तु प्रदत्तमुपतिष्ठति ॥ ३०२
[[८००]]
वृहत्पराशरस्मृतिः ।
दन्ति-शृङ्गि गर- व्याल - नीराग्नि- बन्धनैग्तथा ।
विनिर्यात वृक्षैश्च विप्रैश्व स्वात्मना हताः ॥ ३०३
[ सप्तमो-
व्रणसञ्जात कीटैश्च म्लेच्छश्चैव हतास्तथा । पापमृत्यव एवैते शुभगन्यर्थमुच्यते ॥३०४ नारायणबलिः कार्यो विधानं तम्य चोच्यते । उर्ध्व पण्मासतः कुर्यादेके उध्वं तु वत्सरान् ॥ ३०५ तेपां पापव्यपोहार्थं कार्यो नारायणो वलिः । धौतवामाः शुचि. स्नात एकादश्यामुपोषितः ॥३०६ शुरुपक्षे तु सम्पूज्य विष्णुमीशं यमं तथा । नदीतीरं शुचिर्गत्वा प्रदद्याद्दश पिण्डकान् ॥३०७ क्षौद्राऽऽज्य-तिलसंयुक्तान् हविषा दक्षिणामुखः । अभ्यच्य पुप धूपाद्यैतन्नाम - गोत्रपूर्वकान् ॥३०८ विष्णुध्यानमनाः कुर्यात्ततः स्तानम्भसि क्षिपेत् । निमन्त्रयेत विप्रांश्च पंच सप्ताऽथ वा नव ॥ ३०६ द्वादश्यां कुतपे स्नातान्धौतवस्त्रान्समागतान् । कृष्णारावनकृद्भक्त्या पादप्रक्षालितच्छुभान् ॥ ३१० दक्षिणाप्रवणे देशे शुचिस्तानुपवेशयेत् ।
द्वौ देवे तु यः पित्र्ये प्राङ्मुखोदङ्मुखाद्विजान् ॥३११ आमना वाहनाच्यं च कुर्यात् पार्वणवदुद्विजः । भोजयेद्भक्ष्यभोज्यैश्व क्षौद्रवाज्य- पायसैः ॥ ३१२ तृनान ज्ञात्वा ततो विप्रांस्तृप्तिं पृच्छेद्यथाविधि । भोज्येन तिलमिश्रेण हविष्येण च तान् पुनः ॥३१३८९.५
ऽध्यायः 1
श्राद्धवर्णनम् ।
पञ्च पिण्डान्प्रदद्याद्वै देवं रूपमनुस्मरन् ।
विष्णु-ब्रह्म- शिवेभ्यश्च त्रीन्पिण्डांश्च यथाक्रमम् ॥३१४ यमाय सानुगायाथ चतुथं पिण्डमुत्सृजेत् । सुतं सध्वित्य मनसा गोत्र - नामक पूर्वकम् ॥३१५
विष्णु स्मृत्वा क्षिपेत्पिण्डं पश्वमध्व ततः पुनः । दक्षिणाभिमुखश्चैव निर्वपेत्पञ्च पिण्डकान् ॥३१६ आचम्य ब्राह्मणः पश्चात्त्रोक्षणादिकमाचरेत् । हिरण्येन च वासोभिर्गोभिर्भूम्या च तान्द्विजान् ॥३१७ प्रणम्य शिरसा पश्चाद्विनयेन प्रसादयेत् ।
तिलोदकं करे दत्वा प्रेतं संस्मृत्य चेतसि ।
गोत्रपूर्व क्षिपेत्पाणौ विष्णुं बुद्धौ निवेश्य च ॥ ३२८ बहिर्गत्वा तिलाम्भस्तु तस्मै दद्यात्समाहितः । मित्रभृत्यैर्निजैः सार्द्धं पश्चाद्भुञ्जीत वाग्यतः ॥६१६ एवं विष्णुमते स्थित्वा यो दद्यात्पापमृत्यवे । समुद्धरति तं प्रेतं पराशरखचो यथा ॥ ३२० सर्वेषां पापमृत्यूनां कार्यो नारायणो वलिः । तस्मादूर्ध्वं च तेभ्यो हि प्रदत्तमुपतिष्टति ॥ ३२१ एवं श्राद्धः समस्तान्यः सन्तर्पयति वै पितॄन् । ददत्यनुत्तमांस्तस्य पितरस्तर्पिता वरान् ॥३२२ विद्या- तपोमुग्वान्पुत्रान् पूज्यत्वमथ योषितः । सौभाग्येश्वर्य-तेजश्च वलं श्रेष्ठ्यमरोगताम् ॥ ३२३
[[૮૨૨]]
वृहत्पराशरस्मृतिः ।
[ सप्तमो-
यशः शुचित्वं कुप्यानि सिद्धिं चैवात्मवाञ्छिताम् । यशश्च दीर्घमायुश्च तथैवानुत्तमां मतिम ॥ ३२४ अथान्यत्किञ्चिदाख्यामि पितृणां तु हिताय वै । कृतेन स्वल्पकेनापि प्राप्नुवन्ति विधेः फलम् ॥३२५ उच्छिस्य विसर्गार्थं विधिस्तात्कालिको हि यः । श्राद्धज्ञैर्विहितं यत्प्राक् पितॄणां हितकाङ्क्षिभिः ॥ ३२६ आदाय सर्वमुच्छिष्टमवनेजनवबुधः । तत्रैव निक्षिपेन भूमौ तिल-दर्भ समन्वितम् ॥३२७ नरकेषु गता ये वे अपमृत्युमृता मम । एतद्वाध्यायनं तेपां चिरायास्त्विति चोच्चरेत् ॥३२८ करस्य मध्यतो देवाः करपृष्ठेतु राक्षसाः । पात्रस्यालम्भनादौ च तस्मात्तं न प्रदर्शयेन ॥३२६ दर्भाश्च स्वयमानेया दक्षिणाप्रवणोद्भवाः । तर्पणाद्युज्झिता ये वै इत्याद्यांश्च विवर्जयेत् ॥३३० न कुशं कुशमित्याहुर्दभमूलं कुश स्मृतः । छिन्ना दर्भा इति प्रोक्तास्तदयं कुतपः स्मृतः ॥ ३३१ हरिता यज्ञिया दर्भाः पीतकाः पाकयाज्ञिकाः । सकुशाः पितृदेवत्याच्छिन्ना वै वैश्वदेविकाः ॥ ३३२ दभमूले स्थितो ब्रह्मा दर्भमध्ये जनार्दनः । दुर्भाग्रे शङ्करस्तस्थौ दर्भा देवत्रयन्त्रिताः ॥३३३ अहन्येकादशे श्राद्ध प्रतिमासं तु वत्सरम् । प्रति संवत्सरं कार्यमेकोद्दिष्टं तु सर्वदा ॥३३४
ऽध्यायः ]
श्राद्धवर्णनम् ।
एकस्य प्रथमं श्राद्धमर्वागब्दाच्च मासिकम् । प्रतिसंवत्सरं चैव शेषं त्रिपुरुषं स्मृतम् ॥३३५ सपिण्डीकरणादूध्वं प्रतिसंवत्सरं सुतैः । माता-पित्रोः पृथक्कार्यमेकोद्दिष्टं क्षयाहनि ॥३३६ सपिण्डिकरणादूर्ध्वं प्रतिसंवत्सरं द्विजः । एकोद्दिष्टं प्रकुर्वीत पित्रोरप्यत्र पार्वणम् ॥३३७ चतुर्दश्यां तु यच्छ्राद्धं सपिण्डीकरणे कृते । एकोद्दिष्टविधानेन तत्कुर्याच्स्त्रपातिते ॥३३८ पित्रादयस्त्रयो यस्य शस्त्रपातास्त्वनुक्रमात् । सम्भूतैः पार्वणं कुर्यादष्टकानि पृथक् पृथक् ॥३३६ सपिण्डीकरणादृध्वं पितुर्यः प्रपितामहः ।
स तु लेपभु गित्येव प्रलुमः पितृपिण्डतः ॥ ३४० सपिण्डीकरणादृवं कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं विद्वच्छागलेयो विधिः स्मृतः ॥ ३४१ सपिण्डता तु कर्तव्या पितुः पुत्रैः पृथक् पृथक् । स्वाधिकारप्रवृत्तत्वादितरः श्राद्धकर्तृवन ॥ ३४२ तीर्थश्राद्धं गयाश्राद्धं श्राद्धं वा परपन्थिकम। सपिण्डीकरणे कुर्यादकृते तु निवर्तते ॥३४३ यस्य संवत्सरादर्वा सपिण्डीकरण भवेत् । प्रतिमासं तस्य कुर्यात् प्रतिसंवत्सरं तथा ॥ ३४४ अर्वाक् संवत्सराद्धौ पूर्णे संवत्सरेऽपि च । ये सपिण्डीकृताः प्रेता न तु तेषां पृथक्क्रिया ॥ ३४५
[[८२३]]
[[८२४]]
वृहत्पराशर स्मृतिः ।
एकपिण्डीकृतानां तु पृथक्त्वं नोपपद्यते । मपिण्डीकरणादृध्वं मृते कृष्ण चतुर्दशीम् ॥ ३४६
अर्वा संवत्सरादृवं मृते कृष्ण चतुर्दशीम् । ये सपिण्डकृतास्तेषां पृथक्त्वेनोपपद्यते । पृथक्करणे तस्य पुनः कार्या सपिण्डता ॥ ३४७
स्त्रियं शत्रा पतिर्मात्रा तयासह मपिण्डयेत् । तत्मद्भावे पितामह्या तन्मात्रा चापरे विदुः ॥३४८ नान्यथा तु पितामह्या मातामद्यास्तथाऽपरे । उदकं पिण्डदानं च सभत्र प्रदीयते ॥ ३४६
अपुत्रा अपना ये मृताः केचित्रियो वा पुरुषाऽपि वा ।
तेपामपि च देयं स्यादेकोदिएं च पार्वणम ॥ ३५०
।
[ सप्तमो-
अपुत्राश्च मृता ये च कुमाराः संस्कृता अपि । तेपां समानता न स्यान्न स्वधा नाभिरम्यताम् ॥ ३५१ भत्र सपिण्डता स्त्रीणां कार्येति कवयो विदुः । स्वम्रा सहापरे तस्यास्तन्मात्रा चापरे विदुः ॥ ३५२ अन्नमत्येषु प्रेतेषु न स्वधा नाभिरम्यताम् । एकोद्दिषु सर्वेषु न स्वधा नाभिरम्यताम् ॥३५३ मित्र बन्धु- सपिण्डेभ्यः स्त्री कुमारस्य चैवहि । दद्याद्वैमासिकं श्राद्ध संवत्सरं तु नान्यथा ॥ ३५४ अप्रत्ययगतश्चैव कुल-देशव्यवस्थया ।
यो यथा क्रियया क्यु स तयैव हि निर्वपेत् ॥ ३५५
ऽध्यायः ]
श्रवर्णनम् ।
दादथं दृश्यते रूढिर्मानवं लिङ्गमेव च । दृढोकृत्वा च विद्वद्भिर्लोकरू ढिर्गरीयसी ॥३५६ विकल्पेषु च सर्वेषु स्वयमेकैकमादित । अङ्गीकरोति यं कर्ता स विधिस्य नेतरः ॥ ३५७ बहून् हि याजयेद्यस्तु वर्णवाह्यांश्च नित्यशः । म्लेच्छांच शौण्डिकांश्चैव स विप्रो बहुयाजकः ॥ ३५८ यश्व धैर्येण दुष्टात्मा गो-सुवर्णापहारकः । सङ्गृहीतासवर्णस्त्रिः स विप्रो गण उच्यते ॥ ३५६ वर्तते यश्च चौर्येण सुवर्णनोपहारकः । सङ्ग्रहीतवर्णस्त्र स विप्रो गौण उच्यते ॥ ३६० मृते भरि या नारी रहम्यं कुप्ते पतिम । तत्य वैस्रावयेद्गमं सा नारी गणिका स्मृता ॥ ३६१ अन्यदत्ता तु या कन्या पुनरन्यत्र दीयते ।
अपि तस्या न भोक्तव्यं पुनर्भूः सा प्रकीर्तिता ॥ ३६२ कौमारं पतिमुत्सृज्य यात्वन्यं पुरुपं श्रिता । पुन. पत्युर्गृहं गच्छेत्पुनर्भूः मा द्वितीयका ॥३३३ असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते । सवर्णाय सपिण्डाय सा पुनर्भूतृतीयका ॥ ३६४ प्राप्ते द्वादश बर्पेन या रजो न बिभर्ति हि । धारितं तु तया रेतो रेतोधाः सा प्रकीर्तिता ॥ ३६५ या भर्तुर्व्यभिचारेण कामं चरति मित्यशः ।
तत्या अपि न भोक्तव्यं सा भवेत्कामचारिणी ॥ ३६६
[[८२५]]
[[८२६]]
वृहत्पराशर स्मृतिः ।
[ सप्तमो-
पतिं हित्वा तु या नारी गृहादन्यत्र गच्छति । वरेषु रमते नित्यं स्वैरिणी सा प्रकीर्तिता ॥ ३६७ भर्तुः शासनमुल्लंघ्य स्वकामेन प्रवर्तते 1 दीव्यन्ती च हसन्ती च सा भवेत्कामचारिणी ॥ ३६८
पर्ति विहाय या नारी सवर्णमन्यमाश्रयेत् । वर्तते ब्राह्मणत्वेन द्वितीया स्वैरिणी तु सा ॥३६६ मृते भर्तरि या याति क्षुत्पिपासातुरा परम् । तवाहमिति सम्भाष्य तृतीया स्वैरिणी तु सा ॥३७० देश - कालाद्यपेक्ष्यैव गुरुभिर्या प्रदीयते । उत्पन्न साहसाऽन्यस्मै चतुर्थी स्वैरिणी तु सा ॥ ३७१ आसु पुत्रास्तु ये जाता वज्यस्ति हव्यकव्ययोः । तथैव पतयस्तासां वर्जनीयाः प्रयत्नतः ॥ ३७२ श्राद्धं तैश्च न कर्तव्यं प्रतिलोमविधानतः । वैवश्राद्ध पितृश्राद्धं प्रतिलोमविधानतः । वर्णाश्रमवहिः स्थास्ते संकीर्णजन्मसम्भवाः ॥३७३ मातृणां च पितॄणां च स्त्रीयानां पिण्डदाः स्मृताः । उपपतिसुतो यस्तु यश्चैव दीधिपूपतिः ॥ ३७४ परपूर्वपतेर्जाताः सर्वे वर्ज्याः प्रयत्नतः । अजापालादिजाताश्च विशेषेण तु वर्जयेत् ॥३७५ मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । इतरेषु च वर्णेषु तपः परममुच्यते ॥ ३७६
ऽध्यायः ]
श्राद्धवर्णनम् ।
[[८२७]]
भर्तश्चित्यां समारोहेद्या च नारी पतिव्रता । अहन्येकादशे प्राप्ते पृथक्पिण्डे नियोजयेत् ॥ ३७७ श्रोतश्च स्मार्तमंत्रैश्च दम्पत्यावेकतां गतौ । एकमृत्युगतौ चैव वह्नावेकत्र तौ हुतौ ॥ ३७८ एकत्वं च तयोर्यस्माज्जातमाद्यावसानिकम् । एकादशाहिकं श्राद्धमेकमेव स्मृतं बुधैः ॥ ३७६ आरुह्य भर्तुश्चितिमंगना या प्राप्नोति मृत्युं बहु सत्वयुक्ता । एकादशाहे तु तयोर्विधेयं श्राद्धं पृथक्स्वर्गमपेक्ष्य सद्भिः ॥ ३८० एकत्त्रमिच्छन्ति पतिप्रहीणा एकादशाहादिषु ये नृनार्यः । ते स्वर्गमागं विनिहत्य कुर्युः स्त्रीसत्त्रघातान्नरकेऽधिवासम् ॥३८१
समानमृत्युना यस्तु मृतो भर्ता च योषिताम् । तस्याः सपिण्डता तेन पिण्डमेकत्र निर्वपेत् ३८२ स्त्रीपात्रं पतिपात्रे तु सिंचयेदेकमेव हि । श्राद्ध त्रिपुरुषे त्रीणि तत्प्रत्यक्षं पितॄन्प्रति ॥ ३८३ पत्या सह परात्यात्तनैवास्याः सपिण्डता । पितामद्यापि चान्यत्र ह्येतदाह पराशरः ॥ ३८४ अन्यप्रीतौ न चान्यम्य तृप्तिः कुत्रापि दृश्यते । एवं धीमानमुत्रापि तस्मान्नैकत्वमाश्रयेत् ॥ ३८५ एकत्वाश्रयणे धर्मो नार्या लुप्तो भवेद्ध्वम् । तस्याः सुकृतसामर्थ्यात्पत्युः स्त्रर्गमिष्यते ॥३८६ भर्त्रा सह मृता या तु नाकलोकमभीप्सती । साऽऽथश्राद्ध पृथक्पिण्डा नैकत्वं तु बुधैः स्मृतम् ॥३८७
[[८२८]]
वृहत्पराशरस्मृतिः ।
पतिमृत्युः स्त्रियो मृत्युर्निमित्तमेव जायते । निर्निमित्तो न वैमृत्युमृत्युना चैकता भवेत् ॥३८८
[ सप्तमी-
भर्त्रासह मृता भार्या भर्तारं सा समुद्धरेत् । तस्याः पतित्रताधर्मः पिण्डैक्येन हतो भवेत् ॥३८६ बलीयस्त्वेन धर्मस्य तुच्छत्वाच्चागसस्तथा । धर्मेण लुप्यते पापमेकत्वे समता तयोः ॥ ३६० नैकत्वं तु तयोरस्माद्वक्तव्यं श्राद्धकर्मणि । पृथगेव हि कर्तव्यं श्राद्धमेकादशाहिकम् ॥ ३६१ यानि श्राद्धानि कार्याणि तान्युक्तानि पृथक् पृथक् । कर्तव्यं यैस्तु तेऽयुक्ता विशेषं च निबोधत ॥ ३६२ औरसायाः स्मृताः पुत्रा मुनिभिर्द्वादशैव तु । यथा जात्यनुसारेण वर्णानामनुसारतः ॥ ३६३ पिण्डप्रदाः क्रमेग स्युः पूर्वाभावे परः परः । यस्माद्यो जायते पुत्रः स भवेत्तस्य पिण्डः ॥ ३६४ तस्मात्तस्मादपीते मृताः प्रेतत्वमागताः । तस्मादवश्यमेवं हि श्राद्धं कार्य विधानतः ॥ ३६५ शूद्रस्य दासिजः पुत्रः कामतस्तु स पिण्डदः । जात्या जातः सुतो मातुः पिण्डदः स्यात्सुतोऽपि च ॥ ३६६ जनकस्य न किञ्चित्स्यादर्थात्कामप्रवर्तनात् ।
वायुभूताश्च पितरो दत्ताभिकांक्षिणः सदा ।
तस्मात्तभ्यः सदा देयं नृभिर्धर्मरतैः सदा ॥ ३६७
ऽध्यायः
शुद्धिवर्णनम् ।
ये खाण्ड - मांस-मधु- पायस-मर्पिरन्नैर-
देशे च कालसहिते च सुपात्रदत्तेः । प्रीणन्ति देव - मनुजान्पितृवंशजातान
तेषां नृणां तु पितरो वग्दा भवन्ति ॥ ३६८
॥
मया श्राद्धविधिः प्रोको वर्णानां पितृकृन । एवं दास्यति यः श्राद्धं वरान्सर्वानवा स्यति ॥ ३६६ इति श्रीबृहत्पराशरी ये धर्मशास्त्रं सुव्रतप्रोक्तायां संहितायां श्राद्धाधिकारो नाम सप्तमोऽध्यायः समाप्तः ।
-:88:8:-
अष्टमोऽध्यायः
॥ अथ शुद्धिवर्णनम् ॥
अथातः सम्प्रवक्ष्यामि शुद्धिं पराशरोदिताम् । सूतके वाप्यशौचे वा यथावत्तां निबोधत ॥ १ प्रसवं सूतकं प्राहुरशौचं शावमुच्यते ।
।
यावत्कालं च यन्मात्रं तथा तावन्निगद्यते ॥२ केषां चित्तेन वै मासं केषां चिन्मरणान्तिकम् । सद्यः शौचास्तथा चान्ये अन्ये वैकाहिकाः स्मृताः ॥ ३ त्रि-षट्-दश दशद्वाभ्यां दशापि सह पश्चभिः ।
तान्येव त्रिगुणान्याहुर्दिनान्येव मनीषिणः ॥४
[[८२६]]
[[८३०]]
वृहत्पराशरस्मृतिः ।
[ अष्टमो-
वक्ष्यमाणं निबोधध्वमुक्तक्रम मिदं द्विजाः ।
शक्तिजो यन्मुनीनां च प्राग् ब्रवीत्कलिधमवित् ॥५
विष्णुध्यानरतानां च सदैव ब्रह्मचारिणाम् ।
गृहमेधिद्विजानां तु तथैव व्रतचारिणाम् ॥ ६
वेदतत्वार्थवेत्तॄणां नित्यस्नानकृतां तथा । अतत्संसर्गिणामेषां नाशौचं नापि सूतकम् ॥७ संसगँ वर्जयेद्यत्नात्संसर्गों दोपकारणम् । कुर्यान्नान्नादिसंसगं वर्जने स्यादकिल्विषी ॥८ वदन्ति मुनयः प्राच्याः संसर्गो दोषकारणम्’ असंसर्गः स्वकर्मस्थो द्विजो दोषर्न लिप्यते ॥ दानोद्वाहेष्टि - संग्रामे देशविप्लवकादिके । सद्यः शौचं द्विजातीनां सूतकाशौचयोरपि ॥ १० दातृणां वृतिनामेके कवयः सत्त्रिणामपि । सद्यः शौचसदोषाणामूचुर्धर्मविदः कलौ ॥११ सर्वमंत्र पवित्रस्तु अग्निहोत्री षडङ्गवित् ।
राजा च श्रोत्रियश्चैव सद्यः शौचाः प्रकीर्तिताः ॥ १२ देशान्तरगते जाते मृते वाऽपि सगोत्रिणि । शेषाहानि दशाहार्वाक् सद्यः शौचमतः परम् ॥१३ सत्यप्येकनिवासे तु सद्यः शौचं विशोधनम् । पिण्डनिर्वर्तने जाते मृते वापि सगोत्रजे ॥ १४ सद्यः शौचं विधातव्यमर्वाकू च दश जन्मनः । बान्धवादिषु विज्ञेयमन्यदृध्वं विधीयते ॥१५ऽध्यायः ]
शुद्धिवर्णनम् ।
[[८३१]]
नाऽऽशौच- सूतके स्यातां नृपतीनां कदा च न । यज्ञकर्मप्रवृत्तस्य मृत्विजो दीक्षितम्य च ॥ १६
पृथकूपिण्डमृते बाले निर्देशऽन्यत्र च श्रुते ।
जाते वापि च शुद्धिः स्यात्सद्यः शौचादसंशयम् ॥१७ सवेदः साभिरेकाहाद् ब्राह्मणः शुद्धिमाप्नुयात् । तथैकाहो नृपे संस्थे तथैव ब्रह्मचारिणि ॥ १८ दुर्भिक्षे राष्ट्रभङ्गे च आपत्काल उपस्थिते । उपसर्गान्मृते वापि सद्यः शौचं विधीयते ॥ १६ गो-विप्रार्थविपन्नाना माह्वेषु तथैव च ।
ते योगिभिः समा ज्ञेया सद्य शौचं विधीयते ॥२० विप्रे संस्थे बतादर्वाक श्रोत्रिये च तथा द्विजे । अनूचाने गुरौ चैव आचार्ये चापि संस्थिते ॥२१ असंस्कृत स्त्रियां राज्ञि श्रोत्रिये निधनं गते । त्रिरात्रमप्यशौचं स्यात्तथैवोदकदायिनः ॥२२ विद्वाननमिको विप्रस्त्रिरात्राच्छुद्धिमाप्नुयात् । मनीषिणः परे ब्रूयुरसपिण्डे अहं मृते ॥ २३ प्रेतीभूतं च यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । नियतं ह्यनुगच्छेत त्रिरात्रमशुचिर्भवेत् ॥ २४ षड्रात्रं नवरात्रं च शवस्पृशां विशुद्धिकृत् । त्र्यहं चैव विशुद्धयथं धर्मशास्त्रविदो विदुः ॥२५ अनाथ ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः । पदे पढ़े यज्ञफलमनुपूर्वं लभन्ति ते ॥ २६
[[८३२]]
वृहत्पराशरस्मृतिः ।
अशुचित्वं न तेषां तु पापं वाऽशुभकारणम् । जलाव - गाहनात्तेषां सद्यः शौचं विधीयते ॥ २७ असगोत्रम सम्वन्धं प्रेतीभूतं तथा द्विजम् ।
[ अष्टमो-
ऊवा दग्ध्वा द्विजाः सर्वे स्नानान्ते शुचयः स्मृताः ॥२८ एकरात्रं वदन्त्येके मद्य. स्नानं तथाऽपरे । गोग्राहादिमृतानां च मुनयः शुद्धिकारणम् ॥२६ हतः शूरो विपद्येत शत्रुभियंत्र कुत्रचित् । म मुक्तो यतित्रत्मद्य प्रविशेत्परवेधसि ॥३० संन्यासो युद्धसंस्थश्च मम्मुखं शत्रुभिर्नरः । सूर्यमण्डलमेत्ताराविति प्राहुर्मनीषिणः ॥३१ पराखे हते सन्ये यो युद्धाय निवर्तते । तत्पदानीष्टितुल्यानि स्युरित्याह पराशरः ॥ ३२ वदने प्रविशेद्येषां लोहितं शिरसः पतत् । सोमपानेन ते तुल्या बिन्दवो रुधिरस्य वै ॥ ३३ सन्यासेन मृता ये वै प्रधने ये तनुत्यजः । मुक्तिभाजो नरास्तेस्युरिति वेदोऽपि कीर्तयेत् ॥३४ सद्यः शौचं विधातव्यं शुद्धिरेवं विधीयते । नोभ्यन्ते ते मृता लोके सो ब्रह्मवपुर्गमाः ॥३५ सन्ध्याचारविहीनानां सूतकं ब्राह्मणे ध्रुवम् । अशौचं वा दशाहं स्यादिति पाराशरोऽब्रवीत् ॥३६ राज्ञां तु द्वादशाहः स्यात्पक्ष वैश्यस्य पावनः ! वृषभस्व तथा मासत्र्यहादेष्वपि धर्मतः ॥ ३७
ऽध्यायः ]
शुद्धिवर्णनम् ।
क्षपा च पक्षिणी सद्भिर्मातुलादिषु कीर्तिताः । गर्भस्रावे च पाते च रात्रयो माससम्मिताः ॥ ३८ स्रावं गर्भस्य विद्वांसो मासादर्वाक् चतुर्थकान । पातमूर्ध्वं वदन्त्येके तत्राधिक्यं च मूतकम् ॥३६ ऋणि व्यसनि-रोगार्त पराधीन - कर्यकाः । तृष्णावन्तो निराचाराः पितृ-मातृविवर्जिताः ॥४० स्त्रीजिताश्चानपत्याश्व देव-ब्राह्मणवर्जिताः । परद्रव्यं जिघृक्षन्तः सद्यः सूतकिनः सदा ॥ ४१ सूतके मृतशौचे वा अन्यदापद्यते यदि । पूर्वणैव शुद्धयत जाते जातं मृते मृतम् ॥४२ एक पिण्डा च दायादाः पृथकदार - निकेतनाः । जन्मन्यपि मृते वापि तेषां वै सूतकं भवेत् ॥४३ भृगु-वहि-प्रपाते च देशान्तरमृतेषु च ।
बाले प्रेते च सन्यन्ते सद्यः शौचं विधीयते ॥४४ अजातदन्ता ये बाला ये च गर्भाद्विनिर्गताः । न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥४५ विवाहोत्सव - यज्ञेषु कर्तारो मृत सूतके । पूर्वसंकल्पितानर्थान्भोज्यान्तानब्रवीन्मनुः ॥४६ शिल्पिनः कारुकाश्चैव दामी - दासास्तथैव च । इत्यादीनां न ते म्यातामनुगृह्णन्ति यान् द्विजाः ॥४७ पिता पुत्रेण जातेन दद्याच्छाद्ध यथाविधि । पितणां विधिवद्दानं दत्तं तत्राप्यनन्तकम् । तत्राप्यनन्तकं दानं कर्तव्यं पुत्रजन्मनि ॥४८
[[५३]]
[[८३३]]
[[८३४]]
वृहत्पराशरस्मृतिः ।
प्रसवे च द्विजातीनां न कुर्यात्सङ्करं यदि । दशाहाच्छुध्द्यते माता अवगाह्य पिता शुचिः ॥४६ अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात् । उद्बध्य म्रियते यत्तु न तत्याभिः प्रदीयते ॥ ५० न स्नायान्नोदकं दद्यान्नापि कुर्यादशौचताम् । सर्पेण श्रृंगिणा वापि जलेन चामिना तथा ॥ ५१ न स्नानादौ विपन्नस्य तथाचैवात्मघातिनः । अर्वाक् द्विहायनाग्नि न दद्यान्मृतकस्य च ॥ ५२ किन्तु तान्निखनेद्भूमौ कुर्यान्निवोदकक्रियाम् । सर्पादिप्राप्तमृत्यूनां वह्निदाहादिकाः क्रियाः ॥ ५३ षण्मासे तु गते कार्या मुनिः प्राह पराशरः । शास्त्रह बुधैः कार्यमस्थिसभ्वयनादिकम् ॥५४ तत्कृत्वा तूकदिवसैः शुद्धिमर्हति धर्मतः । अन्याय नृतविप्राणां ये वोढारो भवन्ति हि ॥ ५५ अग्निदाश्चैव ये तेषां तथोदकादिदायिनः ।
उद्बन्धनमृतस्यापि यश्चिन्याद्रज्जुपाशकम् ॥५६
[ अष्टमो-
ते सर्वे पापसंयुक्ताः प्रायश्चित्तस्य भाजनाः ॥ ५७ यः सूतकाशौचत्रिशुद्विकृत्स्यादाख्याय कालं तम नुक्रमेण । पराशरस्याम्बुन निःमृता या वाच्यास्ततो निष्कृत यो द्विजाते ॥५८
सूतकाशौचयोरुक्तः शुद्धिपन्थाऽनुपूर्वशः ।
सर्वेनसां विशुध्यर्थं प्राश्चित्तं यथाब्रवीत् ॥५६
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
मनुर्वा याज्ञवल्क्यस्तु वसिष्ठः प्राह निष्कृतिम । सा कृतादिवर्णानां सति धर्मे चतुष्पदे ॥ ६० मानमा वाचिका दोपास्तथा वै कार्यकारिताः । धर्माधीना नृणां सर्वे जायन्ते तेऽप्यनिच्छताम् ॥६ तेपामुपरताक्षाणां प्रत्यहं शुभमिच्द्रताम् । शक्तिजो निष्कृतिं प्राह युगधर्मानुरूपतः ॥ ६२ विकृतव्यवहाराणां पापो निष्कृतिकृद्विजः । कति विप्रैः कथं रूपैरिति वाच्या भवेद्धि सा ॥६३ तद्रूपं च प्रवक्ष्यामि यावद्भिः सा द्विजैर्भवेत । यथाविधाश्च विप्रास्युरिति विद्वन् प्रकीर्त्यते ॥ ६४ पर्पदशावरा प्रोक्ता ब्राह्म गर्वेदपारगैः ।
मा यद्रूपा स धर्मः स्यान स्वयम्भूरित्यकल्पयन ॥ ६५ वेद-शास्त्रविदो विप्रा यं ब्रूयुः सप्त पंच वा ।
यो वाऽपि स धर्मः स्यादेको वाऽध्यात्मवित्तमः ॥६६ संयमं नियमं वाऽपि उपवासादिकं च यत । तद्विरा परिपूर्ण स्यान्निष्कृतिर्व्यावहारिकी । ६७ न लक्षणापि मूर्खाणां न चैवाऽधर्मवादिनाम् । विदुषां नापि लुग्धानां न चापि पक्षपातिनाम् ॥८ श्रुताध्ययनसम्पन्नः सत्यवादी जितेन्द्रियः । सदा धर्मरतः शान्त एकः पर्यन्य महति ॥६६ न सा वृद्धर्न त ने सुल्पनान्वितः । त्रिभिरेकन पर्प न स्याद्विद्वद्भिर्विदुषापि च ॥७०
[[८३५]]
[[८३६]]
वृहत्पराशरस्मृतिः ।
[ अष्टमो-
वयमा लघवोऽपि स्युर्वृद्धा धर्मविदो द्विजाः । शिशवोऽपि हि मध्यस्थाः सर्वत्र ममदर्शनाः ॥ ७१ न मा वृद्ध भवेद्विप्रवृद्धा स्युर्धर्मवादिनः ।
यत्र सत्यं स धमः स्याच्च्छलं यत्र न गृह्यते ॥७२ नसा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम । धर्मो वृथा यत्र न सत्यमम्नि सत्यं न तयन्न हृदानुविद्धम ॥ ७३
निष्कृतौ व्यवहारे च व्रतस्याशंसने तथा ।
धर्मे वा यदि वाञ्धमं परिपप्राह तद्भवे ॥७४ स्त्रीणां च बाल-वृद्धानां क्षीणानां कुशरीरिणाम् । उपवासाद्यशक्तानां कर्तव्योऽनुग्रहश्च तैः ॥७५ ज्ञात्वा देशं च कालं च व्ययं सामर्थ्यमेव च । कर्तव्योनुग्रहः सद्भिर्मुनिभिः परिकीर्तितः ॥७३ लोभान्मोहाद्भयान्मैत्र्याद्यपि कुर्युरनुग्रहम् ।
नरकं यान्ति ते मूढाः शतधा वाप्तवाचिनः ॥ ७७ प्रविश्य पर्षदं ते वै सभ्यानामप्रतः स्थिताः । यथाकालं प्रकुर्युस्ते प्रायश्चित्तं तदीरितम् ॥७८ किन्त्वयं याचते देवा वदन्तोऽत्र द्विजातयः । सवं कुर्वन्ति नियमं गतपातं न संशयः ॥ ७६ प्रसाद द्विविधो यो दैव्यश्चासुर एव च । क्रीडयापि च तत्रैव देयाम्तथैव ते द्विजाः ॥८० व्यवहारे गोसमैस्तु प्रब्रूयाद्वापि वैरतः 1 यथाकृतं च तत्पापं तत्तथैव निवेदयेन ॥ ८१
ऽध्यायः ]
परिपवर्णनम् ।
यस्तेपामन्यथा ब्रूयात्म पापीयान्न संशयः । सत्यमसत्यमेवात्र विपर्यस्तं वदेद्यतः ॥८२
स एवानृतवादी म्यात्मोऽनन्तं नरकं व्रजेत् । ज्योतिषं व्यवहारं च प्रायश्चित्तं चिकित्मितम् ॥८३ अजानन् यो नरो ब्रूयात्साहमं किमतः परम् ? । व्यवहारश्च तैः प्रोक्तो मन्त्राद्यैर्धर्मवादिभिः ॥८४ प्रजाभिर्नतु सर्वाभिर्मान्यश्चैव तु मानवं । तच्छोधकप्रमाणानि लिखितादीनि तैर्विना ॥८५
जलादीनि च दिव्यानि माख्योक्तशपथानि च । अन्ये जनपदाचारा कुलधर्मस्तथापरः । परिपद्ब्राह्मणैर्मेध्या निर्णेतव्या यथाविधि ॥६
जन्मजात्यनुसारेण देश - कालादिधर्मत. । कर्तव्यः सत्तमैः सर्वैर्माननीयश्च वादिभिः ॥ ८७
गो-ब्राह्मणादीनां तथा दम्भादिकारिणाम् । तप्तकृच्छंण शुद्धि स्वादिति पाराशरोऽब्रवीत् ॥८८ भोजयेद्ब्राह्मणान्पश्चात्सवृपा गौश्च दक्षिणा । जायन्ते पापनिर्मुक्ताः शक्तिसूनोर्यथा वचः ॥८६ अनाशकान्निवृत्ता ये ब्रह्मचर्यात्तथा द्विजाः । बेंडालिकास्ते विज्ञेयाः सर्वधमविवर्जिताः ॥६० सर्वत्र प्रावशन्तो ये ये च बैडालिकैः समाः । तेषां सर्वाण्यपत्यानि पुल्कसः सह पातयेत् ॥ ६१
[[८३७]]
[[८३८]]
वृहत्पराशरस्मृतिः ।
[ अष्टमो-
स्त्रीणां च बाल-वृद्धानां क्ष्यीणां कुशरीरिणाम् । उपवासाद्यशक्तानां कर्तव्योऽनुग्रहश्च तैः ॥६२ ज्ञात्वा देशं च कालं च वयः सामर्थ्यमेव च । कत योऽनुग्रहः मद्भिर्मुनिभिः परिकीर्तितः ॥ ६३ ब्रह्मघ्नश्च मुरापश्च स्तेयी गुवङ्गनागमः । एतेषां निष्कृति ब्रूयादेतत्संसर्गिणामपि ॥६४ द्वादशाब्दं च विचरेन ब्रह्मनस्तत्कपालधृक् । सत्र व्यापयन्कर्म भिक्षा विप्रेषु संचरन् ॥६५ दृष्ट्वा सेतु समुद्रम्य नाला व लवणांभमि । ब्राह्मणेषु चरन् भिक्षां स्वकर्म ख्यापयन्च्छुचिः ॥६६ मुण्डितस्तु शिवावयः सकौपीनां निराश्रयः । चीर चीरवासा व त्रिः स्नायी मन शुचिव्रती ॥६७ संयताक्षश्वरेच्द्रान्तश्च्छत्रोपानट्टिवर्जितः । ब्रह्मन्नम्मीत्यहं वाचमिति सर्वत्र वै वदेत् ॥ ६८ गवां च विंशतिं दद्याद्दक्षिणां वृपसंयुताम् । ब्राह्मणेभ्यो निवेद्यैताः शुचिराख्याय भूपतेः ॥६ पूर्वोकप्रत्यवायानां प्रायश्चित्तमिदं स्मृतम् । ब्राह्मणानां प्रमादेन तीर्थेषु गमनेन च ॥१०० गोशतस्य प्रदानेन शुध्यन्ति नात्र संशयः । अवभृथे श्वमेधस्य स्नात्वा शुद्धिमवाप्नुयात् ॥१०१ आख्याय नृपतेर्वाऽपि तेन संशोधितः शुचिः । महापापानि सर्वाणि कथयित्वा महीपतेः ॥ १०२
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
निष्कृतिं तद्विरा दद्यादन्यथा तेऽपि तत्समाः । रोगात द्विजं वापि मार्गे वेदसमन्वितम् । दृष्ट्रा कृत्वा निगतं ब्रह्मघ्नः शुद्धिमा नुयान १०३ असंख्यातं धनं दत्वा विप्रेभ्यां वापि शुध्यति । अरण्ये निर्जने जन्वा शुध्ये वेदमंहिता ॥ १०४ सुरापम्य प्रवक्ष्यामि निष्कृतिं श्रोतुमथ । सुगपस्तु सुरां तप्तां पयो वा जलमेव वा ॥ १०५ नातं गोमूत्रमाज्यं वा मृतः पीत्वा विशुध्यति । जटी वा चैलवासी वा ब्रह्महत्यातं चरेत् ॥१०६ यद्यज्ञानान पिवेद्विप्रो द्विजातिर्वा सुरां पुनः ।
[[1]]
पुनः संम्कारकरणाच्छुद्ध वेदाह पराशरः ॥ १०७ स्तेयं कृत्वा सुवर्णम्य शुद्ध सर्वं द्विजातये । समप्यं, मुमलं राज्ञं ख्यापयेत्तेयकर्मकृत ॥ १०८ शक्ति चोभयतस्तीक्ष्णामायमं दण्डमेव च । खादिरं लगुडं वापि हन्यादेकेन तं नृपः ॥१०६ जीवन्नपि भवेच्छुद्धो मुक्तो वा तेन पाप्मना । मृतश्चत्येत्य संशुध्येदिति पाराशरोऽत्रवीत् ॥११० अयः प्रतिकृतिं कृत्वा वह्निवर्णा च तां धमेत् । गुवंगनागमं तस्यां लोहमय्यां तु शाययेत् ॥ १११ वृषणौ पुनरुत्कृत्य नैर्ऋ त्यामुत्सृजेत्तनुम् ।
स मृतः शुद्धिमाप्नोति नान्यतस्तस्य निष्कृतिः ॥११२
[[८३६]]
[[८४०]]
वृहत्पराशरस्मृतिः ।
संवत्सरं चरेत् कृच्छ्रं प्रजापत्यमथापि वा ।
चान्द्रायणं चरेद्वापि त्रीन्मासान नियतंद्रियः ॥ ११३ व्रतेत क्रियमाणे वै विपत्तिः स्यात्कथंचन । स मृतोऽपि भवेच्छुद्ध इति धर्मविनिर्णयः ॥ ११४ अनिर्दिष्टस्य पापस्य तथोपपातकस्य च । तच्छुभ्यैपावनं कुर्याच्चद्रं व्रतं समाहितः ॥ ११५ तिष्ठेन्मासं पयोऽशित्वा पराकं वा चरेद्व्रतम् । अनिर्दिष्टस्य पापस्य शुद्धिरेपा प्रकीर्तिता ॥ ११६
ब्राह्मणः क्षत्रियं हत्वा गवां दद्यात्सहस्रकम । वृषणैकेन संयुक्तं पापादस्मात्प्रमुच्यते ॥११७
[ अष्टमो-
त्रीणि वर्गाणि शुद्धयर्थं ब्रह्मघ्नस्य व्रतं चरेत् । चान्द्रायणानि वा त्रीणि कृच्छ्राणि त्रीणि वा ऽऽचरेत् ॥ ११८
वैश्यं हत्वा द्विजश्चैवमब्दमेकं व्रतं चरेत । गवां ह्येकशतं दद्याच्चरेचान्द्रायणानि च ॥ ११६ कृच्छ्राणि त्रीणि वा कुर्याद्वचनाद्विदुपामसौ । ये हन्युप्रदुष्टां स्त्रीं चातुर्वर्णा द्विजातयः । शूद्रहत्या ब्रतं ते तु चरन्तः शुद्धिमाप्नुयुः ॥ १२० शूद्रां ये चानुलोम्येन निहन्त्यव्यभिचारिणीम । मुनयः शुद्धिमिच्छन्ति चन्द्रब्रतेन केचन ॥१२१ व्यभिचारात्तु ते हत्वा योषितो ब्राह्मणादयः । तिलधेनुं बस्तमविक्रमाविशुद्धये ॥ १२२ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
साध्वीना तु नरो दत्वा गवां चैव सहस्रकम । चीर्णेन शुद्विमानांति योपाहत्याब्रतं चरेत् ॥१२३ अथ गोम्नस्य वक्ष्यामि निष्कृति श्रोतुमर्हथ । यथा यथा विपत्तिः स्याद्भवां तथोपपद्यते ॥ १२४ गोघाती पंचगव्याशी गोष्टशायी च गोनुगः । मासमेकं व्रतं चीत्वा गोप्रदानेन शुद्धयति ॥ १२५ एकपादे तु लामानि द्वये श्मश्रुनिकृन्तनम् । पादत्रये शिखावजं सशिखं तु निपातने ॥ १२३ सशिखं वपनं कृ वा द्विमन्ध्यमवगाहनम् । गवा मध्ये वसेद्रात्रौ दिवा गाः समनुव्रजेन ॥ १०७ तिष्ठन्तीभिश्च तिष्ठेत व्रजन्तीभि सह व्रजेत । पिवन्तीभिः पिवेत्तोयं संविशन्तीभिश्च संविशेत ॥ १२८ शृंग- कर्णादिसंयुक्तं चर्मोत्कृत्य तदावृतः ।
विप्रौक सु चरेद्विक्षा स्वकर्म ख्यापयन्त्रती ॥ १२६ गौघ्नम्य देहि मे भिक्षामिति वाचमुदीरयेत् । मासमेकं व्रतं कृत्वा गोप्रदानेन शुद्धयति ॥ १३० चौर व्याघ्रादिकेभ्यश्च सर्वप्राणः समुद्धरेन । गर्तप्रपात - पंकाच्च तथान्यादपकारतः ॥ १३१ भोजयेद्ब्राह्मणान्पश्चात्पुष्प धूपादिपूर्वकम । दयानां च वृषं चकं ततः शुद्धयति किल्विपात् ॥१३२ मुनयः केचिदिच्छन्ति विचित्रासु विपत्तिषु । यथासम्भवतम्तासु पृथक् पृथक् विनिष्कृतिम् ॥ २३३
[[८४५]]
[[८४२]]
वृहत्पराशर स्मृतिः ।
शस्त्र-वस्त्राश्म - मृत्पिण्ड यष्टि-मुष्टि- प्रधावनम । योक्त्रेण तारणं रोधो बन्धनं विद्युग्नयः ॥ १३४
[ अष्टमो-
ग्रह - पङ्क-प्रपातश्च वद्धव्याघ्रादिभक्षणम् । क्षुत्त्रट्-रोगचिकित्मा च तथाऽतिदोह - वाहने ॥ १३५ मृत्युस्थानानि चैतानि गवामति प्रधावनम् । प्रब्रूयात्थ तपु प्रायश्चित्तं पराशरः ॥ १३६ उपेक्षणं च पङ्कादौ तथोपविषभक्षणे । वक्ष्यमाणक्रमे तच्छ्रणुध्वं द्विजसत्तमाः ॥ १३७ शस्त्रेण त्रीणि कृच्छ्राणि तदर्थं वा समाचरेत । अश्मना द्वं चरेत्कृच्छ्रं मृत्पिण्डे नापि कृच्छ्रकम ॥ १३८ यष्ट्रयाघाते चरेत्कृच्छ्रं साक्षान्मुचा तु तच्चरेत । योक्त्रेण पादमेकं तु तारणे पादमेव च ॥ १.३६ रोधने कृच्छ्रपादे द्वे कृच्छ्रमेकं तु बन्धने । कूपपाते चरेत्कृच्छमधं वाप्यां समाचरेत ॥ १४० गोशस्कृत्पिण्डघाते च प्राजापत्यं चरेद्विजः । क्षुत्तड् रोगचिकित्सासु कृच्हमुत्प्रेक्षणे चरेत् ॥ १४१ पतितां पङ्कलग्नां वा अवलिप्तां च यो नरः । स्वस्य चान्यस्य चोपेक्ष्य साधं कृच्छ्र चरेच्छुचिः ॥१४२ एका चेद्रहुभिर्वद्धा क्ष्वेडिता चेन्द्रियेत गौः ।
पादं पादं चरेयुस्ते इति पाराशरोऽब्रवीन ॥१४३ सुबद्धां येऽवलिप्ताङ्गां पश्यन्तो नोपकुर्वते । घातनोत्प्रेक्षणं प्रोक्तं चरेयुस्ते व्रतं नराः ॥ १४४
[[1]]
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
या गर्तादौ विपद्यं त क्ष्वेडिता मम्प्रपत्य वा । पादे वेडितयोरुतं तत्कर्ता व्रतमाचरेत ॥१४५ प्रबद्धा रज्जु रोपण गोर्विपद्येत यस्य सः ।
व्रतपादं चच्छुये किचिद्दद्याच दक्षिणाम् ॥ १४६ योगामपालयन दुह्यादति वा वाहयेवृपम् । यदि म्रियेत तोप तदा कृच्छाई माचरेत् ॥ १४७ घासं यो न क्षुत्रार्तस्य तृपार्नम्य न वा जलम् । स्वीकृतस्य न चेदद्यान्म तत्पादत्रतं चरेन ॥ १४८ या तु बद्धा चिकित्मार्थं विशल्यकरणाय च । औषवादिप्रदानाय पिपत्तौ नास्ति पातकम् ॥१४६ विद्युत्पातादि - दाहाभ्या कुण्डम्य पतनादिभिः । गोभिर्विपत्तिमापन्नस्तत्र दोपो न विद्यते ॥१५- पालयन्पश्यतोऽरण्ये गौस्तु व्याघ्रादिभिर्हता । अकुर्वतः प्रतीकारं कृच्द्राधं तस्य पावनम् ॥१५ शृखन् शून्येषु पालेषु तथान्यारण्य गामिपु । पाले संभापयत्युर्हन्यात्तत्र न दोषभाक् ॥१५३ गभिगी गर्भशल्या तु तदर्भ तु विशल्यतः । यनतो गौर्विपद्यत तत्र दोपो न विद्यते ॥ १५३ गर्भस्य पातने पादं द्वौ पादौ गात्रसंभवे ।
पादोनं व्रतमाच हत्वा गर्भमचेतनम् ॥ १५४
अङ्ग प्रत्यंगभूतेन तद्दर्भे चेतनान्विते ।
द्विगुणं गोत्रतं कुर्यादेपा गोघ्नस्य निष्कृतिः ॥ १५५
[[८४३]]
[[८४४]]
वृहत्पराशरस्मृतिः ।
[ अष्टमो-
वस्त्राद्यत्वासने गौश्च गलदामकदोषतः । पादयोर्वधने चैव पादोनं व्रतमाचरेन ॥ १५६ घण्टाभरणदोपण गौश्चंद्वेधमवाप्नुयात् । चरेदधं व्रतं तत्र भूपणार्थं च यत्कृतम् ॥१५७ गोविपत्ति - बधाशङ्की कुर्याद्यो नैव निष्कृतिम् । सतगोरोमतुल्यानि नरकाण्याविशेत्समाः ॥१५८ यः स्नात्वा पापसम्भीत विप्राराधनतत्परः । तद्वत्तां निष्कृतिं कुर्याद्वतेनाः सोऽश्नुते शुभम ॥ १५६ अन्यत्प्राणित्रयस्याथ प्रवक्ष्यामि विशोधनम् । गजादिवधशुद्धयर्थं यद्वृतं या च दक्षिणा ॥१६० हस्तिनं तुरगं हत्वा वृषभं वरमेव च ।
वृषान्यं वा शतगुणं वृपं दद्याद्यथाक्रमम् ॥१६१ क्षणाहोनिष्कयं कृत्वा परगोवधकन्नरः । तस्याथ निष्कृतिं कुर्याद्वशुद्धिमपेक्षया ॥१६२ हंस श्येनं कपि गृध्रं जल-स्थल शिखण्डिनम् । भासं च हत्वा स्युर्गावः शुद्धच देयाः पृथक् पृथक् ॥ १६३ हंस - सारस चक्राव्ह - मयूर मद्गु-कुक्कुटान् । आटी-पारावत-क्रौंच शुक्रहा नक्तभोजनात् ॥१६४ मेपा - ऽजघ्नो वृपं दद्यात्प्रत्येकं शुद्धये द्विजः । मनीपिणो वदन्त्येनां प्राणिनां वधनिष्कृतिम् ॥१६५ क्रौंच - सारस -हंसादिशिखि- सारसकुक्कुटान् । शुक- टिट्टिभसंघघ्नो नक्ताशी बकहा शुचिः ॥१६६
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
॥
पारावत- कपोतघ्नः सारि - तित्तिर- चापहा । त्रिसंध्यांतर्जले प्राणानायम्य स्याच्छुचिर्द्विजः ॥ १६७ काकं गृधं च श्येनं च अन्य क्रव्यादपक्षिणम । हत्वा म्यादुपवासेन शुद्धिमाह पराशरः ॥ १६८ मार्जारं मूषकं सर्प हत्वा जगर - डिण्डिभौ । शकराभोजनं दण्डमायसं च ददन शुचिः ॥१६६ मेपं च शशकं गोधां हत्वा कुमं च शल्लकम् । वार्ताकं गुंजनं जग्ध्वा ऽहोरात्रोपोपणाच्छुचिः ॥ १७० वृकं च जंबुकं हत्वा तरक्षक्ष तथा द्विजः । त्रिरात्रोपोपितः शुद्धयेत्तिलप्रस्थप्रदानतः ॥ १७१ द्विजः शाखामृगं हत्वा सिंहं चित्रकमेव च । कृत्वा सप्तोपवासान्स दद्याद्ब्राह्मणभोजनम् ॥ १७२ महिषोष्ट्रगजाऽश्वानां हत्वा चान्यतमं द्विजः । त्रिः स्नात्वा चोपवासेन शुद्धः स्याद् द्विजपूजनात् ॥ १७३ वराहं यदि वा रोहं हत्वा मृगमकामतः । अफालकृष्टभोजी सन् नक्तंनैकेन शुद्धयति ॥ १७४ अथान्यत्सम्प्रवक्ष्यामि अस्पृश्यस्पर्शनादिषु । अभक्ष्यभक्षणादौ च निष्कृतिं श्रोतुमर्हथ ॥ १७५ उदक्या ब्राह्मणी स्पृष्टा मातंगपतितेन च । चान्द्रायणेन शुद्धयेन द्विजानां भोजनेन च ॥ १७६ कापालिकादिकां नारीं गत्वाऽगम्यां तथा पराम् । भुक्त्वा विप्रस्तद्दिनं स्याच्छुद्धिः चंद्रव्रतेन तु ॥ १७७
[[८४५]]
[[८४६]]
[ अष्टमो-
वृहत्पराशरस्मृतिः ।
कामतस्तु द्विजः कुर्यादुक्तस्त्रीगमनं यदि । चंद्रवतद्रयं शुध्यै प्राह पाराशरो मुनिः ॥ १७८ दुग्धं सलवणं सक्तून् सदुग्धान्निशि सामिपान् । दन्तच्छिन्न ।न्स कुर्द्दतान्पृथक् पीतजलानि च ॥ १७६ यो ज्यादुच्छरमाज्यं तु पीतरांपं जलं पिवेत् । एकैकशो विशुद्धयर्थं विप्रः चंद्रवतं चरेत् ॥ १८० वासांसि धावतो यत्र पतन्ति जलविन्दवः । तदपुत्र्यं जलम्धानं नरकस्य शिलान्तिकम् ॥ १८१ तत्र पीला जलं विप्रः श्रान्तस्तृद् परिपीडितः । तनसो विशुद्धयर्थं कुर्याच्चान्द्रायणं व्रतम् ॥१८२ नदीं शैन्यपिकीं चैव रजकीं वेणुवादिनीम् । गत्वा चान्द्रायणं कुर्यात्तथाचर्मोपजीविनीम् ॥१८३ गां नृपं चैत्र वैश्यं च शूद्रं वाप्यनुलोमजम । क्षत्रियादिस्त्रियं गत्वा विप्रश्चान्द्रायणं चरेत् ॥ १८४ ब्राह्मणान्नं ददच्छ्रद्रः शूद्रान्नं ब्राह्मणो ददन् । द्वावप्येतावभोज्यान्नौ चरेतां शशिनो व्रतम ॥१८५ विप्रेणामंत्रितोऽविप्रः शूद्राहूतश्च योऽश्नुते ।
।
आमंत्रयितृ-भोक्तारौ शुद्ध्येतामैन्दवेन तु ॥ १८६ सामानार्पा च यो गच्छन्मात्रा सह सगोत्रजाम । मातुलस्य सुतां चैव विप्रश्चान्द्रायणं चरेत् ॥ १८७ पीत रोपं जलं पीत्वा भुक्तशेषं तथा घृतम । अत्त्वा मूत्रपुरीषे तु द्विजश्चान्द्रायणं चरेत् ॥१८८
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
सूनिहस्ताच गोमांसमत्वामग्राम कामतः ।
पीत्वा चंद्रवतं कुर्यात्पावनं शुद्धिदं परम ॥१८६ सामिः सत्पंचयजान्यो न कुर्त्रीन द्विजाधमः । परपाकरतो नित्यं आत्मविवर्जितः ॥ १६० अदाता च सहा लुञ्यः श्वपचः परिकीर्तितः । यो द्विजोऽन्यान्नमश्नाति म कुर्याद्वैन्दवं व्रतम् ॥ १६१ गणिका - गणयोरन्नं यदन्नं बहुयाजकम । सीमान्तोन्नयने भुक्वा द्विजश्चान्द्रायणं चरेत ॥१६ अजानन् सम्यगरनीयात्पुत्रजन्मनि यो द्विजः । मोमममश्नाति द्विजश्चान्द्रायणं चरेत् ॥ १६३ महापातकिनामानं योद्यादज्ञानतो द्विज । अज्ञानात्तप्तकृच्छ्रं तु ज्ञानाचान्द्रायणं चरेत् ॥ १६४ प्रपात त्रिन वह्नयम्यु- प्रवज्यो इन्यनाशकात । च्युतो हतच हंता च प्रत्यवासनिकाः स्मृताः ॥ १६५ केचिदेतद्विशुद्रथमिन्छन्ति व्रत मैं दवम् ।
दक्षिणां सां गां च दद्यश्च द्विजभोजनम् ॥१६६ गृहद्वारेऽतिथौ प्राप्ते तत्याइत्वा समश्नुते । अभोज्यमरानं तच्च भुक्ला चन्द्राय गं चरेत् ॥ १६७ सन्न इन्तस्थिते दुर्भे यो द्विजः समुपरपुगेन् । असृम्यानेन तुल्यं च पीवा चान्द्रायणं चरेत ॥ १६८ भुक्त्वा शय्यागतः पीत्वा विप्रश्चान्द्रायणं चरेत् । अभक्ष्येग समं तद्वै प्रायश्चित्तं समं भवेत् ॥ १६६
[[૮૭]]
[[८४८]]
बृहत्पराशरम्मृतिः ।
आसनारूढपादः सन्वस्त्रम्यार्धमधः कृतम् ।
धरामुग्वन यो भुंक्तं द्विजश्चान्द्रायणं चरेत् ॥२०० उद्धृत्य वामहस्तेन यत्किंचित्पिवते द्विजः ।
सुरापानेन तत्तुल्यं पीत्वा चान्द्रायणं चरेत् ॥ २०१ स्पृग्न तेन संस्नायाद्यदि तच्छ्रुतमश्नुते ।
[ अष्टमो-
चरन् चान्द्रायण ं शुद्ध्यै त्रीणि कृच्छ्राणि वा द्विजः । २०२
अश्नीयाद्येन पृष्टेन उच्छिष्टं चाश्नुते हि सः ।
चरेच्चान्द्रायण शुद्ध त्रीणि कृच्छ्राणि च द्विजः ॥ २०३ चान्द्रायणं नवश्राद्ध पाराको मासिके मतः ।
न्यूनाब्दे पादकृच्छ्रं स्यादेकाहः पुनराब्दिके ॥ २०४
स्नानमन्येषु कुर्वीत प्राणायामं जपं तथा ।
यःम्वैरिणीनां च पुनर्भुवां च यः कामचारिद्विजयोषितां च । रेतोधृतां पाकमनाय दद्याद्विप्रः स चंद्रत्रतकृच्छुचिः स्यात् ॥ वेश्मन्यज्ञातचांडालो द्विजातेर्यदि तिष्ठति । ब्रह्मकृतं चरेन्मासं त्रिः स्नायी नियतेन्द्रियः २०६ स्नेहांश्च घृततैलादीन्त्रस्त्राणि चासनानि च । बहिः कृत्वा दहेद्गेहं संशुद्धो भोजयेद्विजान् ॥ २०७ गोविंशति वृपं चैकं तेभ्यो दद्याच्च दक्षिणाम् । इमं च निष्क्रयं ब्रूयुः केऽपि चांद्रायणत्रयम् ॥२०८ अल्पपापस्य शुद्ध्यर्थं चरेत्सांतपनं व्रतम् । इमं च निष्क्रयं दद्यादित्येके मुनयो विदुः ॥२०६
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
महापातक शुध्यर्थ मर्वा निष्कृतयो नरैः । नृप-प्रामेशविदितैः कुर्वाणैः शुद्धिराप्यते ॥ २१० सुरामूत्रपुरीषाणां लीढा त्वेकमकामतः । पुनः संस्कारकरणाच्छुद्धं यदाह पराशरः ॥२११ अभक्ष्यभक्षणो विप्रस्तथैवापयपानकृन । व्रतमन्यत्प्रकुर्वीत वदन्त्यन्ये द्विजोत्तमाः ॥ २१२ कुशा - ऽञ्जाऽश्वत्थ- पालाश बिल्वोदुम्बरवारिणा । पीतेन जायते शुद्धिः षडात्रण न संशयः ॥ २१३ द्रोण्यम्यूशी र कुम्भाभः श्रष्टुं केशवारि च । पीत्वारण्ये प्रपातोऽयं पंचगव्यं निवच्छ्रचिः ॥ २१४ भाण्डस्थितमभोज्यान्नं पयोदधि घृतं पिबन । द्विजातेरपवास स्याच्छूद्रो दानेन शुध्यति ॥ २१५ तत्तोयपीतजीणांगः तप्तकृच्छ्रं चरेद्विजः ।
वांते तु तज्जले सद्य. प्राजापत्यं समाचरेत् ॥२१६
तु
रजकाद्यंबुपानेन प्राजापत्यं बुधै स्मृतम् ।
वान्ते जले तघं तु शूद्रः स्यात्पादकृच्छ्रकृत् ॥ २१७ चाण्डालकूपपानेन महदेनः प्रजायते ।
[[८४६]]
गोमूत्र यावकाहाराः सुद्धं ययुर्दिवसैस्त्रिभिः ॥ २१८ घृतं दधि तथा दुग्धं गोष्ठे वाऽशौचसूतके । अभिचारस्य तदद्भुक्त्वा भुक्त्वा वा शूहभोजनम् ॥२१६ द्रुपदां वा तिजो जप्त्वा मानस्तोकमथापि वा । क्षुधातिपीडितः पश्चादिति प्राह पराशरः ॥२२०
[[५४]]
[[८५०]]
वृहत्पराशरस्मृतिः ।
।
सूतकानं द्विजो भुक्त्वा त्रिरात्रोपोषणाच्छुचिः । तोयपाने त्वसौ कुर्यात्पंचगव्यस्य चाशनम् ॥२२१ द्रोणाढकं तदधं वा प्रस्थं प्रस्थार्धमेव वा । घृतमुच्छि रसं प्रोक्षणाच्छुचितामियात् ॥ २२२ चरूपकं शृतं पत्र अन्नं काकाद्युपाहतम् । तद्द्यास स्थानसंत्यागात्पूतं हेमाम्बुसिंचनात् ॥ २२३ केचिद्वदन्ति तज्ज्ञास्तु तस्याग्निनावचूडनम् । केचित्प्रणवयुक्तंन वारिणा प्रोक्षणं विदुः ॥२२४ केश-कीटकसंदुष्टं अन्नं मक्षिकयापि च । मृद्भस्मवारिणा तत्र क्षेप्तत्र्यं शुद्धिकारणम् ॥२२५ उदक्या ब्राह्मणी स्पृष्टा क्षत्रियापि ह्युदक्यया । अर्ध कृच्छ चरेत्पूर्वा तदर्धमपरा चरंत ॥ २२६ प्राजापत्य विशःपत्या विट्पत्नी पादमाचरे । शूद्रास्पृटा चरेत्कृच्छ्रं शूद्री दानेन शुद्धयति ॥ २२७ ब्राह्मण्या ब्राह्मणी स्पृष्टा वेदुक्यो दक्यया च ते । चरतां पादकृच्छ्र द्वे कृते स्नाने विशुद्धयति ॥ २२८ ब्राह्मणी क्षत्रियां स्पृष्ट्रा ब्राह्मणीब्रतमाचरेत् । अपरा क्षत्रियायास्तु वक्तव्यमेवमन्ययोः ॥ २२६ रजस्त्रला तु संस्पृष्टा श्व-विट्-शूद्रैश्च वायसैः । स्नानं यावन्निराहारं पंचगव्येन शुद्धयति ॥ २३० उदक्या ब्राह्मणी स्पृटा मेढ़-मातंग - भिल्लकैः । गोमूत्रयावकाहारा षड़ात्रेण च शुद्धयति ॥२३१
[ अष्टमो-ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
उच्छिष्ठो ब्राह्मणः स्पृष्ट्वा द्विजातिस्त्रीं रजस्वलाम् । प्राजापत्येन संशुद्वयचीर्णकृष्ण वा पुन ॥ २३२ वदन्ति कवय केचिदेतद्दोषविशुद्धये ।
प्राणायामशतं चास्य पंचगव्यस्य भक्षणात ॥२३३ उच्छिष्ठो ब्राह्मण स्पृष्टो ब्राह्मम्युदक्यया चरेत । प्राजापत्यं च गायत्रीमयुतं नियतं सकृत् ॥ २३४ अत्रिण्यादिभिरुच्छिष्ट संस्पृष्टो व्रतमाचरेत । अनुच्छिष्टस्तु तत्पर्शे स्नानकर्म यतः स्मृतम् ॥२३५ रजकादिकसंस्पर्श द्विजन्मोदम्ययोषित । प्राजापत्यं चरेद्विप्रा अन्याश्चरेयुरंशतः ॥२३६ क्या ब्राह्मणी गत्वा क्षत्रियो वैश्य एव च । त्रिरात्रोपोषित. प्राश्य गव्यमाज्यं शुचिर्भवेत् ॥ २३७ क्षत्रिणीं चैव वैश्यां च जानन् गत्वा तु कामतः । चरेत्सान्तपनं विप्रस्तत्पापस्य विमोक्षकृत ॥ २३८ वंश्या च क्षत्रियो गत्वा वैश्यश्च शूद्रिणी तथा । प्राजापत्यं चरेतां ताविति प्राह पराशरः ॥२३६ उच्छ्रिष्टा ब्राह्मगी पृा शुना वा वृषलेन वा । अशुद्धा वा भवेत्तावद्यावन्नस्यादुपोषणम् । शुद्धा भवति सा तावद्यावत्पश्यति शीतगुम् ॥२४० विप्रोष्य स्वजनी वेश्या महिष्युष्टीमजा खरीम । प्राजापत्यं चरेद्रत्वा ह्येकैकस्य विशुद्धये ॥ २४१
[[८५५]]
[[८५२]]
वृहत्पराशरस्मृतिः ।
।
शूदीं तु ब्राह्मणो गत्या मासं मासार्धमेत्र वा । गोमूत्र यावकाहारी मासार्धेन विशुध्यति ॥ २४० नृपोऽप्यम्वजनां गत्वा प्राजापत्यं समाचरेत । वैश्यपत्रीममौ गया कृत्वा सांतपनं शुचिः ॥२४३
शूद्र तु क्षत्रियो गत्वा गोमूत्रयावकाशनः । दशभिर्दिवसैः शुद्ध ंश्यः सोऽप्येवमेव हि ॥२ः४ उत्तमागमनेनार्याः सब ते म्युः कराग्निना । महापथं च संत्राज्याः खरयानेन योपित ॥ २४८
चाण्डालीमेव भिल्लानामभिगम्य सकृत्त्रियम । चाण्डाल- मेद- भिल्लानामभिगम्य स्त्रियं नरः । शुद्ध पयोव्रतं कुर्यान्मासार्थमत्रमर्षणम् ॥ २४. पतितां च द्विजाग्रयस्त्रीं प्राजापत्यं चरेद्विजः । तैलिकस्य स्त्रियं गत्वा तथा मद्यकृतः स्त्रियम् ॥ २४५ अज्ञानाभिगतौ स्त्रीणां पुंसामनुलोमजस्य च । इमां निष्कृतिमिच्छन्ति घृतयोनिं च केचन ॥ २४८ पितृव्य-भ्रातृजायां च मातृष्वसारमेव च ।
[ अष्टमी-
भगितीं चैव धात्रीं च गत्वा कृच्छ्रं समाचरेत ॥ २४६ षण्मामान केचिदिच्छन्ति संगम्यैता विशुद्धये ।
कृच्छ्रं धर्मविदो विप्राः शुद्धिं तत्त्रार्थवेदिनः ॥ २५० गुरुपत्नीं द्विजो गत्वा मातृष्वसृ-दुहितृषु । क्षिपेध्यर्थमात्मानं सुममिद्धे- हुताशने ॥ २५१
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
उपाध्याय नृपा-ऽऽचार्य - शिष्य - योषिद्रमी नरः । पण्मासान् कृच्छ्चरणाच्छुद्धिमाह पराशरः ॥ २५२ कृतचाण्डालसंम्पर्शः शकृन्मूत्रकरोद्विजः । षड्रात्रोपोपणाच्छुत्वा ऽऽचान्तो नवयुभिः ॥ २५३ उच्छिष्टम्य संशुद्ध केचित्प्राजापतिव्रतम् । वराकं पञ्चगव्यं च केचिदाहुमनीषिणः ॥ २५४ उच्छि ब्राह्मणः पृट उत्रिएन द्विजेन तु । आचम्यैव तु शुभ्येतां बिष्णुन मानुकीर्तनात् ॥२५५ क्षत्रियेण तु संगे ब्राह्मणां नक्तभोजनात्। वैश्येन चैव संस्पृष्टा नक्काशी पंचगव्यपः ॥ २५६ शूद्रेण तु च संो एकरात्री पवासकृत । उच्छ्रिः पुनरेतनु प्रोक्तं द्विगुणमर्हति ॥ २५७ उच्छिरः शूद्रसंस्रः शुना वापि द्विजोत्तमः । उपोष्य पंचगव्येन शुद्धिः स्यादपरे विदुः ॥ २५८ अनुच्द्रिोऽपि यत्स्पर्शात्स्नाति वर्णी विशुद्धये । उच्छिष्टः तस्य संस्पर्शे चरेत्प्राजापतित्रतम । २५६ रजकाद्य त्यजैः स्पृष्टः शुद्धं चत्तस्यार्धमाचरन् । उदक्या ब्राह्मणी कृच्छ्रात्प्राजापत्यादथापरे । २३० उदक्या ब्राह्मणी स्वाशुता वा वृपलेन वा । तावत्तिष्ठेन्निराहारा स्नात्वा कालेन शुद्धयति । २६१ उदक्या सूतिका म्लेच्छ स्पर्शेऽस्तमिते रवौ । दिवाहताम्बुना स्नात्वा शुद्ध द्विप्राग्निसन्निधौ ॥२६२
[[८५३]]
[[८५४]]
वृहत्पराशर स्मृतिः ।
वदन्त्यपां पवित्रत्वं दिवा सूर्य । शु-मारुतैः ।
चन्दयित्वा पवित्रत्वं मन्दाकरश्मि - वायुभिः । मुनयो धर्मवेत्तारो रात्रौ चंद्रांशु - रश्मिभिः ॥ २६३ सकृच ब्राह्मणः प्राश्य षडहं पंचगव्यकम् ।
[ अष्टमो-
हेनो दद्याच षण्मासान्दत्वा गां च विशुद्यति ॥ २६४ पंचाहेन नृपः शुद्धयेत्पंचमासान्द्रदच गाः । चतुभिर्दित्र मैर्वैश्यश्चतुर्मासान गया सह ॥ २६५ त्र्यहेण तु चतुर्थस्तु ददन्मासत्रयं च गाम । सकृत्स्पर्शाद्भवेच्छुद्ध एतद्दाह पराशरः ॥ २६६ रक्तं निःसार्य विप्रस्य कामनोऽकामतोऽपि वा । गायत्र्यष्टमहत्रेण जातेन तु भवेच्छुचिः ॥ २६७ यो यस्य हरते भूमिं हेम गामश्रमेव वा । स तं यत्रात्प्रसाद्यापि तदुक्तः शुद्धिमाप्नुयात् ॥ २६८ आख्याय भूभृते वापि तेन संशोधितः शुचिः । द्रव्यदण्डाद्विमुक्तिर्वा तपसा वा शुचिर्नरः ॥ २६६ निराहाराज्जायते च एतदाहुर्मनीषिण ।
विनिर्गता यदा शूद्रादुदक्यान्ते व्यवस्थिताः ॥ २७० तदा द्विजैस्तु द्रष्टव्य इतिधर्मविदो विदुः । दुःस्वप्नदर्शने चेव वान्ते वा क्षुरकर्मणि । मैथुने कटधूमे च सद्यः स्नानं विधीयते ॥२७१ चितां च चितिकाष्ठ च यूपं चण्डालमेव च । स्पृष्टा देवलकं चैव सवासा जलमाविशेत् ॥ २७२
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
श्र- जंबुक-वृकाद्यैश्च यदि दष्टो भवेन्नरः ।
।
सचैलो जलमाविश्य दत्वाज्यं शुद्धिमर्हति ॥ २७३ शुनो घाणावलीढस्य नवैर्विलिखितस्य च । यतीनां दर्शनं कार्यमग्निना चोपचूलनम् ॥ २७४ अवज्ञां तु गुरोः कृत्वा नक्तं तस्य च भोजनम् । नक्षत्रदर्शनं अन्य इति प्राह पराशरः ॥ २७५ कुमारी तु शुना स्पृष्टा जम्बुकेन वृकेण वा । यां दिशं ब्रजते सूर्यम्तां दिशं सा विलोकयेत् ॥ २७६ दिवसे तु यदा ग्रामे शुना स्टो भवेद्विज । विप्रं प्रदक्षिणीकृत्य घृतं प्राश्य विशुध्यति ॥ २७७ चातुर्वर्ण्यात्तु या नारी कृताभिगमनापि च । प्रक्षाल्य नाभितो ऽधस्तादा चान्तम्तु शुचिनरः ॥ २७८ विप्रं मैथुनिनि स्नानं केचिद्राज्ञि शिरोविना । नाभि यावत् विशस्त इल्लिगशौचोऽन्त्यजः शुचिः ॥२७६ अभिगच्छन्सुतार्थं च तावृत्तौ स्त्रियं द्विजः । न च कुर्वीत स स्नानं नाभेरधस्तु शोधयेत् ॥ २८० त्वङ्कारं तु गुरोः कृत्वा हुंकारं तु गरीयस. । प्रसाद्यैतावनश्नन्स्यात्स्नात्वा शुद्ध द्विजोत्तमः ॥ २८१ विवादे शास्त्रतो जित्वा जयो यस्य न जायते । श्मशाने जायते तस्य तमोभावेन दुष्कृतम् ॥ २८२ ताडयित्वा तृणेनापि स्कन्ध वाऽऽबध्य रज्जुना । कलहादपि निर्जित्य तं प्रसाद्य विशुध्यति ॥ २८३
[[८५५]]
[[८५६]]
वृहत्पराशरस्मृतिः ।
अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।
[ अष्टमो-
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽस्यान्तरशोणिते ॥ २८४ प्रेतमूढा च दग्ध्वा च शुद्धिः स्नानादुद्विजन्मनाम् ।
उपवासेन चैकेन ब्रह्मकूचं च पावनम् ॥२८५
[[1]]
प्रेतीभूतं च यः शू ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् ॥ २८६ त्रिरात्रे तु ततः पूर्ण नहीं गत्वा समुद्रगाम । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ २८७ अंगुल्या दन्तकाष्ठ च प्रत्यक्षलवणं तथा । मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणम् ॥ २८८ कृत्वाऽन्यतममेतेषां शुद्यर्थमात्मनो हितम । चन्द्रशितं विप्र इति प्राहुर्मनीषिणः ॥ २८६ केचिद्वदन्ति मुनयः कृच्छ्रं सान्तपनं तथा । तदर्द्ध पादकृच्छ्रं वा प्राहुरन्ये द्विजोत्तमाः ॥ २६० अर्धोच्छिष्ट द्विजोऽज्ञानाद्यात्यधं नहि किंचन ।
भुक्त्वाऽनाचम्य वा कुर्याद्विण्मूत्रं केह निष्कृतिः ? ॥ २६१ नक्तोपवासी बाह्य तु अन्यत्र द्विगुणं चरेत् । अष्टोत्तरशतं जात्रा गायत्र्याः शुद्धिमर्हति ॥ २६२ अर्धाच्छिष्ट द्विजः स्पृष्टः शुना वा वृपलेन वा । नक्षत्रदर्शनेऽश्नीयातंचगव्यपुरस्सरम् ॥ २६३ अर्धोच्छिष्टाश्च विप्राद्यः श्वः शूद्रसंस्पृशः । उपवासेन शुद्धच्युः पंचगव्यस्य पानतः ॥ २६४
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
श्व-काकी काकसंस्पृष्टो भुञ्जानो ब्राह्मणश्च यः । तदन्नस्य परित्यागं कृत्वा नानेन शुध्यति ॥ २६५ विना यज्ञोपवीतेन भोजनं कुरुते यदि । अथ मूत्र- पुरीप वा रेत सेचनमेव वा ॥ २६६ त्रिरात्रोपोपितो विप्र. पादकृच्छ तु भूमिपः । अहोरात्रीपितो वैश्यः शुद्धिरेपा पुरातनी ॥ २६७ विप्रः क्षुत्कृत्य निष्ठीव्य कृत्वा चानृतभाषणम् । वचनं पतितः कृत्वा दक्षिणं श्रवण स्पृशत् ॥ २६८ विप्रस्य दक्षिणे कर्णे नित्यं वसति पावकः । अंगुष्ठं दक्षिणे पाणौ तम्मात्तन व सशत् ॥ २६६ प्रक्षणं शशिनोऽर्कस्य ब्रह्मश-विष्णुसंस्मृतिम् ।
गायत्र्याः शत माहस्रं सर्वपापहरं स्मृतम् ॥३०० गायत्र्यसहस्रं तु ब्रह्महत्याविशोधनम् ।
शूद्रवधं द्विजाग्यस्य गायत्र्यष्टमहत्रकम् ॥३०१ राज्ञः पंचसहस्रं तु स्याद्विशश्च तदधकम् ।
योगेन गतशीलस्नु यदि वा स्यात्मदा नरः ॥ ३०२ विप्रश्र सम्मताचारस्तावुभौ सर्वदा शुची ।
मक्षिका सन्ततीर्धारा विप्रुपो ब्रह्मविन्दवः । स्त्रीमुखं बालवृद्धौ च न दुष्यन्ति कदाचन ॥३०३ आत्मस्त्रीह्यात्मबालश्च आत्मवृद्वन्तथैव च ।
आत्मनः शुचयः सर्वे परेपामशुचीनि तु ॥ ३०४
[[८५७]]
[[८५८]]
वृहत्पराशर स्मृतिः ।
[ अष्टमो-
उत्पन्नमातुरे स्नानं दशकृस्त्वरत्व नातुरः ।
स्नात्वा स्नात्वा स्पृशेदेनं ततः शुद्रयत्स आतुरः ॥ ३०५
विवाहोत्सव - यज्ञेषु संग्रामे जलसंप्लवे ।
पलायने तथारण्ये स्पर्शदोपो न विद्यते ॥ ३०६ आद्यसङ्गी समो दोपी सङ्गसङ्गी तदर्धतः । तत्सङ्गी तृतीयभागी तुरीयस्तु न दोषभाक् ॥ ३०७ आग्रम्प्रष्टर्भवत्नानं द्वितीयस्यापि तन्मृतम् । शिरः प्रोक्षणमन्येपामन्यत्राऽऽचमनं स्मृतम् ॥३०८ पलाश - शिशिपाकाष्ठदन्तधावन कृन्नरः । दिवाकीर्तिसमस्तावद्यावदां नैव पश्यति ॥३०६
पद्माश्म - लोहं फल-काष्ठ-चर्म- भाण्डस्थतोयः स्वयमेव शौचात् । पुंसां निशाम्वध्वनि निःसखानां स्त्रीणां च शुद्धिर्विहिता सदैव ॥ ३१० स्नानं स्पृष्टेन येन स्यात्काष्ठद्य यदि तत्स्पृशत् । नावारोहणवत स्पर्श तत्रोपस्पर्शनाच्छुचिः ॥ ३११ म्लेच्छ लूताशनास्पर्शे क्षेत्र वा यदि वा स्थळे । उपस्पृशेत् शिरः प्रोक्ष्य संशुद्धो जायते द्विजः ॥ ३१२ वस्त्रसंस्पर्शने तस्य सचैलाङ्गावगाहनम् ।
अङ्गस्पर्शेनवत्तस्य वदन्ति द्विजसत्तमाः ॥३१३ चाण्डालोदकसंस्पृष्टः शुद्धः स्नानेन जायते । तथा तद्भाण्डसंस्पर्शे स्नानमाहुर्मनीषिणः ॥ ३१४
ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
उदक्या स्पर्शने स्नानमंशुकेनान्तराऽपि वा । तत्स्पृष्टेऽपि भवेत्नानं तुल्याः सर्वा रजस्वलाः ॥ ३१५ संस्पर्श मेद - भिल्लानां तथैव ब्रह्मघातिनाम । पतितानां च संम्पर्श स्नानमेव विधीयते ॥ ३१६ रजस्वलादिसंस्पर्शे उपस्पर्शनमेव च ।
उदक्ययास्त्रितीयेऽह्नि केचिदाचमनं विदुः ॥ ३१७ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थे तु विशुध्यति ॥३१८ पुरुहूतः पुरा दैत्यं त्रिशीर्षाख्यं जघान यत् । तद्बधं ब्रह्महत्यायाः स्त्रीणां स प्रददौ फलम् ॥३१६ आसां तत्प्रभृति स्त्रीणामस्पृश्यत्वं सदा भवेत् । अंशदिनत्रयं तच्छुक गुर्वादिकल्पितम् ॥ ३२० शबराश्च पुलिन्दाश्च कॅवर्ताश्च नटास्तथा । एतान् रजकसन्तुल्यान केचिदाहुर्मनीपिणः ॥ ३२१ रजक्याद्यभिगम्यत्वे वैश्या गो-मूत्र यावकम् । चरन्ति षड्गुणाहोभिः कृच्छ्रं वा द्विगुणं भवेत ॥३२० ब्रह्म क्षत्रिय विड्जाता शूद्रास्तेऽनुक्रमेण तु । क्रमातिक्रमतश्चान्ये म्लेच्छान्त्यवर्णसंभवाः ॥ ३२३ भोज्याशनास्तु सच्छ्रद्रा अभोज्यान्नाः परे स्मृताः । आमाशनानि भोज्यानि श्रुतमुमुच्यते ॥ ३२४ दास नापित गोपाल कुलमित्रा ऽर्घसीरिणः । भोज्यान्ना नापितश्चैव यश्वात्मानं निवेदयेत् ॥३२५
ረ
[[८६०]]
वृहत्पराशरस्मृतिः ।
[ अष्टमो-
पर्युषितं चिरस्थं च भोज्यं स्नेहसमन्वितम् । यव गोधूम माषाणां स्नेह गोरसविक्रयः ॥ ३२६ आपगतो द्विजोऽश्रीयाद्गृह्णीयाद्वा यतस्ततः । न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥ ३२७ ज्ञापितं शूद्र गेहेन कटु पक्वं च यद्भवेत् । नीत्वा नद्यन्तिकं तद्वै प्रोक्ष्य भुंजन्न दोषभाक् ॥३२८ गायत्र्योङ्कारपूताभिः केचिदद्भिश्च प्रोक्षणम् । मन्यन्ते विष्णुमन्त्रेण कलिधमं समाश्रिताः ॥ ३२६ आमं मांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः । म्लेच्छभाण्डस्थिता ह्येते निष्क्रान्ताः शुचयः स्मृताः ॥ ३३० आभीरभाण्डसंस्थानि पयो दधि घृतानि च ।
तावत्पूतं हि तद्भाण्डं यावत्तत्र तु तिष्ठति ॥३३१ पूतानि सर्वपण्यानि का हस्तस्थितानि च ।
अदत्तानि च भक्ष्याणि यत्नतस्तु द्विजातिभिः ॥३३२ सर्वस्वोपरकरैर्युक्ता शय्या रक्तांशुकानि च ।
पुष्पाणि चैव शुध्यन्ति प्रोक्षितानि च संशयः ॥३३३ अलेपं मृण्मयं भाण्डं भाण्डसंचयमेव च । प्रोक्षणादेव शुध्येत सलेपममितापनात् ॥३३४ कास्यं च भम्मना शुध्येत मद्यमांसविवर्जितम् । सुरा मूत्र पुरीषाभ्यां शुध्यते ताप लेपनैः ॥ ३३५ अलिप्तं मद्य मुत्राद्यस्ताम्रमम्लेन शुध्यति । रजसा स्त्री मनोदुष्टा नद्यश्च वेगसंयुताः ॥३३६ऽध्यायः ]
प्रायश्चित्तवर्णनम् ।
अवगमपि यद्भूरि सरिद्वारि हदे च यत् ॥ ।
सकृदम्पृश्य संस्पृष्टं न दुष्यति च तत् हृढः ॥३३७
सत्येन पूयते वाणी धर्मः सत्येन वर्धते ।
[[1]]
तस्मात्सत्यं हि वक्तव्यमात्मध्ये द्विजातिभिः ॥३३८ रध्या कर्दमतोयानि नावः पथि तृणानि च । मारुतार्केण शुध्यन्ति निशि चंद्र मामतः ॥३३६ यथासम्भवमुक्तानि प्रायश्चित्तानि सत्तम ।
उक्तानुक्तानि सर्वाणि ज्ञातव्यानि द्विजातिभिः ॥३४० प्रायश्चित्तं न यत्प्रोक्तं धर्मशास्त्रप्रवतृभिः । द्विजैस्तत्र प्रकल्यं स्याद्धर्मशास्त्रार्थचिन्तकः ॥ ३४९
उक्ता मया निष्कृतयः समासात्
मंशद्धये वर्णचतुष्टयम्य ।
व्रतानि तेषां विहितानि यानि
वक्ष्याम्यतस्तानि निबोवयेति ॥ ३४२
इति श्री बृहत्पराशरीये धर्मशास्त्रं सुव्रतप्रोक्ताया मनुस्मृत्यां
प्रायश्चित्तनिर्णयो नाम अष्टमोऽध्यायः ।
[[८६१]]
वृहत्पराशर स्मृतिः ।
[ नवमो-
नवमोऽध्यायः ।
॥ अथ व्रतोपवासविधिवर्णनम् ॥
व्रतान्यथ प्रवक्षामिन्दवादिक्रमेण तु । पापक्षयः कृतैयैः स्याद्धमर्थि तु महोदयः ॥ १ चन्द्रवृध्याश्नीयात् मासान् शुम्ले कृष्णे च हासयेत । चन्द्रक्षये न भोक्तव्यं यवमध्यं शशिव्रतम् ॥२ विपरीतक्रमेणाश्नन्नादावादाय हामयेत् । वर्धयेदन्यपक्षे तु पिपीलीमध्यमैन्दवम् ॥३ अष्टावटौ समश्नीयात्सव्रती प्रतिवासरम् । अष्टुप्रासिकमित्येतञ्चान्द्रायणमथापरम् ॥४ शतद्वयं तु पिंडानां चत्वारिंशत्समन्वितम् । मासेनैवोपभुजीत चांद्रायणमथापरम् ॥५ चतुरः प्रातरश्नीयात्सायं प्रासांश्च तावता । शिशुचांद्रायणं तज्ज्ञे. प्रोक्तं पापप्रणोदनम् ॥६ मध्यन्दिने यदश्नीयादृष्टौ ग्रासान् दिनंप्रति । चान्द्रायणं यतीनां तु व्रतज्ञैः परिकीर्तितम् ॥७ शिखण्डसम्मितान् ग्रामान् चन्द्रवतो प्रयोजयेत् । दोपः स्यादन्यथाभावे तस्मादुक्तं समाश्रयेत् ॥८ एकभुक्तैश्च नक्तैश्च तथैवाऽयाचितैरपि । उपवासैश्चतुर्भिश्च कृच्छः षोडशभिर्दिनैः ॥
ऽध्यायः ]
व्रतोपवासविधिवर्णनम् ।
उष्ण जलं पयः सर्पिरेकैकं च व्यहं पिवेत् । वायुभक्षस्त्र्यहं तिष्ठेत्तप्तकृच्छ्रोऽयमुच्यते ॥१० पलमेकं जलं पीत्वा पलमेकं तथा पयः । पलमेकं तथाज्यस्य मानमेतत्प्रकीर्तितम् ॥११ एतत्तुत्रिगुण तज्जैर्महासांतपनं स्मृतम् । प्राजापत्यं च कृच्छ्रं च पराकस्त्रिगुणो महान ॥१२ पद्मोदुम्बर- राजीव- बिल्वपत्रं कुशोदकम् । प्रत्येकं प्रत्यहं प्राश्य पर्णकृच्छ्र प्रकीर्तितः १३ प्रत्येकं प्रत्यहं गव्यं मूत्रं शकृत्पयो दधि । घृतं कुशोदकं पीत्वा उपवासश्च तत्समः ॥१४ एभिः सप्राशनैरुक्तं दिव्यं सान्तपनं द्विजैः । समाहेन तु कृच्छोऽयं मुनिभिः परिकीर्तितः ॥१५ एतत्तु त्रिगुणं तज्ज्ञैर्महासान्तपनं स्मृतम् । प्राजापत्यं च कृच्छ्रं च पराकस्त्रिगुणो महान् ॥१६ एकभुक्तं च नक्तं च अयाचित विशेषणं । पादकृच्छ्रोऽयमुद्दिष्टः स्त्रिघ्नं प्राजापतिव्रतम् ॥१७ अयमेवातिकृच्छ्रः स्यात्पाणिपूता (रा)न्न भोजनः । कृच्छातिकृच्छ्रः पयसा दिवसानेवविशतिः ॥ १८ दिनैर्द्वादशभिः प्रोक्तः पराकः समुपोषितैः । एक-द्वयह- त्र्यहादीनि नक्तं चैव यथाश्रुतम् ॥१६ सम्प्राश्य तिलपिण्याकं तकं तोयं कुशोदकम् । पञ्चमे ह्युपवासः स्यात्सौम्यकृच्छोऽयमुच्यते ॥२०
[[८६३]]
[[८६४]]
[ नवमो-
वृहत्पराशरस्मृतिः ।
चान्द्रायणे च कृच्छ्रे च त्रिकालं स्नानमाचरेन । स्नानद्वयं तु कर्तव्यं वतेष्वेवापरेषु च ॥२१ शक्तिं ज्ञात्वा शरीरस्य स्नानं कय तथा व्रतम असामर्थ्य तु कायस्य याच्यः पर्षदनुग्रहः ॥२२ ब्रह्मकूचं प्रवक्ष्यासि ब्रतानामुत्तमं व्रतम । कृतेन येन मुच्यन्ते प्राणिनः सर्वकिल्विषै ॥२३ नीलिकायास्तु गोमूत्रं कृष्णायाः शकृदुद्धरेन । पयस्त्वतिसुवर्णायाः पीतायाश्च तथा दधि ॥२४ कपिलाया घृतं तद्वन्महापातकनाशनम् । अभावे सर्ववर्णायाः कपिलायाः समुद्धरेन ॥ २५ पलानि पञ्च मूत्रस्य अाधं तु गोमयम । क्षीर समपलं ग्राह्यं तथा दध्नः पलत्रयम् ॥२६ घृतं चापलं ग्राह्यं पलमेकं कुशाम्भसः । मन्त्रः सर्वाणि चेतानि अभिमन्त्रयाथ मिश्रयेत् ॥ २७ गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति वै क्षीरं दधिक्राव्णस्तथा दधि ॥२८ तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । निष्नं पंचगव्यं च पात्रेषु क्रमतः पिवेत ॥२६ मध्यमेन पलाशस्य तत्पत्रेण पिवेद् द्विजः । द्वितीयं पद्मपत्रेण ब्रह्मपत्रेण चापरे ॥३० चतुथं ताम्रपात्रेण तत्पिबेद्वतकृदुद्विजः । आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन च ॥३१
ऽध्यायः ]
व्रतोपवासविधिवर्णनम
उद्धृन्य प्रणवेनैव प्राशयेत्प्रणवेन तु ।
।
विष्णुं संखापयेद्भक्त्या पंचगव्येन चार्चयेत ॥ ३२ कूष्माण्डैर्जुहुयान्मंत्रैः पञ्चगव्यं हुताशने । सव्याहृत्या च गायत्र्या तथैव प्रणवेन च ॥३३ ब्रह्मकूर्चमिदं प्रोक्तं वनं पंचदिनात्मकम् ।
[[८६५]]
पञ्चगव्यं च सम्प्राश्य पंचरात्रीपवासकृत ॥३४ नकेन वा समश्नीयाद्यावच्क्त्या दिनानि च । पाञ्चाह्निकं पारणकं व्रतस्यास्य प्रकीर्तितम् ॥ ३५ निर्दहेत्सर्वपापानि ब्रह्मकूर्चमिदं स्मृतम् । अन्ये वदन्ति कवय उपवासविना व्रतम् ॥३६ जप - होमादि कर्तत्र्यं देवतार्चनमेव वा । पञ्चगव्यं च होतव्यं पञ्चगव्यं समश्नियात् ॥३७ ब्राह्मणान् भोजयेत्तावद्यावत्कुर्यादिदं व्रतम् । यत्वगस्थिगतं पापं विद्यते पुरुषस्य च ॥३८ ब्रह्मकूच दहेत्मवं समिद्धोऽग्निरिवेन्धनम् ॥३६ यावन्ति पापानि भवन्ति पुंसां देवादकामादपि कामतो वा । उक्तानि तेषां मुनिना व्रतानि शुष्यर्थ मेतान्यपराणि चैवम् ॥४० धर्मार्थमेतानि कृतानि पुंसां दद्युर्दिवौकस्त्वविमुक्तसिद्धिः । अत्रापि पूज्यत्वम शेपलो कैस्तेजःशरीरी विचरन् विभाति ॥४१ यस्यास्ति भीतिः पुरुषस्य पापादिच्छेश्च कर्तुं क्षयमेनसां च । प्रीत्येव तं च वृतदानजप्यं प्रोद्दिश्यमेतन्न तदन्यतम्तु ॥४२
[[५५]]
[[८६६]]
वृहत्पराशरस्मृतिः ।
[ दशमो-
वदन्ति दानं मुनय प्रधानं कलौ युगे नान्यदिहास्ति किश्चित् ।
•
विशोधनं सर्वमिहापि पूज्यं वदामि तस्मादथ दानधर्मान् ॥४३
इति बृहत्पाराशरीये धर्मशास्त्रे मुवतप्रोक्तायां संहितायां ऐन्द्रवादिवत निर्णयो नाम नवमोऽध्यायः ॥ ६ ॥
-*-
दशमोऽध्यायः ।
॥ अथ सर्वदानविधिवर्णनम् ॥
दानानि विधिना साध जगौ यानि पराशरः । व्यासस्य तानि वक्ष्यामि श्रयतां द्विजसत्तमाः ॥१ दानेन प्राप्यते स्वर्गो दानेन सुखमश्नुते । इहामुत्र च दानेन पूज्यो भवति मानवः ॥२ न दानात परमो धर्मन्त्रिषु लोकेषु विद्यते । तस्माद्दानं प्रदातव्यं यथाशक्त्या सदा नरैः ॥ ३ मुमुक्षवोऽपि योगीशा भिनादानोपजीविनः । अन्नं तोय-समायुक्तं पृथगेते तथैव च ॥४ तोयमन्नं च वाच्छन्ति किं पुनः सानुरागिणः । सर्वोपरकरसंयुक्तं गृहं च गृहमातृकम् ॥५ वृषादियुक्तं सीरं च वृषमेकं तथैव च । गृह्णामिना प्रदानेन गोप्रदानं तथैव च ॥ ६
ऽध्यायः ]
सर्वेदान विधिवर्णनम् ।
सौरभेयीं द्विवक्त्रां च तिलधेनुमतः परम् । घृतधेनुं पयोवेनु हेमधेनु सुविस्तरम् ॥७
[[८६७]]
कृष्णाजिनप्रदानं च वाजिभ्यंदनमेव च ।
एकवाजिप्रदानं च तथा तस्य परिग्रहः ॥८
सुखासनानि यानानि हस्ति रथं तथा गजम् । एकहस्तिप्रदानं च कन्यादानफलं तथा ॥ भूमिदानफलं चैव तुलापुरुपमेव च । हेम-रूप्यप्रदानं च मणिकादिसमन्वितम् ॥१० त्रपु-सीसक- ताम्रादिसर्वधातुप्रदानवन । नक्षत्र - तिथि-योगेषु यद्यत्तद्दानजं फलम् ॥११ विद्यादानफलं चैव प्राणदानं तथैव च । अभयादिकदानानि प्रतिग्रहे यथा विधिः ॥१२ इष्टा पूर्ती फलोपेतौ सर्व विस्तरनो मया । शक्तिसूनोः श्रुतं पूर्व क्रमात्कथयतः शृणु ॥ १३ गोहिग्यादिदानानां सर्वेषामप्यनुत्तमम् । अन्नदानमपेक्षन्ते सर्वेऽपि हि दिवौकसः ॥ १४ अन्नाथं मातरिश्वायमन्नार्थं च तथाऽनलः । अन्नाथं सविता देवो वाति ज्वलति भासते ॥१५ अन्नकामः ससर्जेदं विधिरप्यखिलं जगत् । अन्नात्परतरं तत्वं न भूतं न भविष्यति ॥१६ दद्यादहरहस्तस्मादन्नं विप्राय मानवः ।
शृतं वा यदि वाचामं म स्वर्गे सुख मेधते ॥ १७
[[८६८]]
वृहत्पराशर स्मृति ।
शोभनान् संभृतान् कुम्भान् पक्कान्नपरिपूरितान् । अपूपैर्मोदकाद्यैश्च दत्वा दिवि सुखं वसेत् ॥१८ मणिकं कलशान्त्राऽपि यः पूरयति शक्तितः । सुशुभाद्भिर्द्विजौकरतु संपूर्णाशो दिवं व्रजेत् ॥१६ द्विजान् यः पाययेत्तोयं अन्यानपि पिपासितान् । प्रपां तु कारयेद्ग्रीष्मे देवलोकमवा’ नुयात् ॥ २० यद्वातृणादिकं दद्याद्वर्षासु च प्रतिश्रयम् । पादाभ्यङ्गं तथैधांसि शीते प्रावरणानि च ॥ २१ उपानत् पादुके चैव ददत्कामानवाप्नुयात् । सप्तधान्यसमायुक्तं सर्व स्नेहसमन्वितम् ॥२२ सर्वोपस्करसंयुक्तं सर्वालंकारभूषितम् । हिरण्य-गो-वृषा-श्वेश्व तूली- शय्योपधानकैः ॥२३ वरस्त्रीभूषणैयुक्तं सकाश्यं ताम्रभाजनम् । कण्डण्यादिसमायुक्तं ददन् पात्राय मानवः ॥२४ पक्वेष्टकचितं कृत्वा सर्वलक्षणसंयुतम् ।
मृण्मयं वा तथा सद्यः कृत्वा चाश्ममयं तथा ॥२५ दत्वा स्थानमवाप्नोति प्राजापत्यमसंशयम् । प्राकारा यत्र सौवर्णा गृहाण्युचैस्तराणि च ॥२६ माणिक्य - गारुडर्वत्र मौक्तिकेभूषितानि च । देवकन्यासहस्रेण स वृतो गीत-नृत्यकैः ॥२७ सेव्यमानोऽप्सरसः प्राजापतिसमं वसेत् । अनड्डाहौ च धूर्वाहौ बलवन्तौ सुलक्षणौ ॥२८
[ दशमो-
ऽध्यायः ]
सवदानविधिवर्णनम् ।
तरुणौ सुविषाणौ च घंटाभरणभूषितौ ।
अदुष्टावेकवर्णौ तु मशिरौ दक्षिणान्वितौ ॥२६ य आहूय द्विजाग्याय दद्याद्भतया तु मानवः । सोऽनडुद्रोम तुल्यानि स्वर्गे बर्पाणि तिष्ठति । अप्सराभिर्वृतो नित्यं सेव्यमानः सुरासुरैः ॥ ३० एकोऽपि हि वृपो देयो धूर्वहः शुभलक्षणः । अरोगश्चापरिक्लिष्टो यम्मात्म दशगोसम’ ॥३१
[[८६६]]
एकेन दत्तेन वृषेण यस्माद्भवन्ति दत्ता दश सौरभेयाः । माहेय्यतो यद्धरणीसमानात्तस्मादुपात पूज्यतमोऽस्ति नान्य ॥
गृष्टिदानं प्रवक्ष्यामि यथा देयं द्विजातिभिः । यो विधिर्दक्षिणायाश्च तथा सर्व निबोधत ॥ ३३ एकरात्रोषितः स्नातो गोदाता पञ्चगव्यपः । पश्चामृतेन संस्नाप्य सम्पूज्य गरुडध्वजम् ॥ ३४ सवत्सां वस्त्रसंयुक्तां सितयज्ञोपवीतिनीम । सुविषाणां सुरूपां च सर्वलक्षणसंयुताम् ॥३५ हेमकल्पितशृंगां च सुरूप्यचरणाप्रकाम् । पयस्विनी सुशीलां च हिरण्योपरिसंस्थिताम् ॥३६ प्रत्यङ्मुखाय विप्राय गृष्टिं तां च उदङ्मुखीम् । त्वमिमां प्रतिगृह्णीयाः प्रीतोऽस्तु केशवोऽनया । इति दत्वोदकं हस्ते पदान्यष्टौ विसर्जयेत् ॥३७ व्यावर्तेत ततः पश्चात्प्रणम्य शिरसा द्विजम् । अनेन विधिना धेनु यो विप्राय प्रयच्छति ॥ ३८
[[८७०]]
[ दशमो-
वृहत्पराशरस्मृतिः ।
स विष्णुप्रीणनाद्याति विष्णुलोकमसंशयम् ।
आत्मनः पुरुषान् सप्त प्रागधस्ताच्च सप्त च । आत्मानं सप्तजन्मोत्थात्पापाद्विमोचयेन्नरः ॥ ३६ पदे पदे तु यज्ञम्य गोर्वत्मस्य च मानवः । फलमाप्नोति विप्रेन्द्राः शुश्राव तत्पुरा हरेः ॥४० सर्वकामसमृद्धात्मा सर्वलोकेषु पूजितः । नाम्नाप्यघौघहन्ता च यावदिद्राचतुर्दश ॥४१ इक्ष्वाकुणा तथा चान्यैबहुधा वसुधाधिपैः । यैर्या नृभिरियं दत्ता जग्मुस्तेऽपि च विष्पम् ॥४२ पश्यन्ति दीयमानां ये ये भवन्त्यनुमोदकाः । तेऽपि पापाद्विनिर्मुक्ता विष्णुलोकमवा’ नुयुः ॥४३ पादद्वयं मुग्वं योऽन्यां प्रमवन्त्याः प्रदृश्यते । तदा च द्विमुखी गौः म्याद्दया यावन्न सूयते ॥४४ भोणीतुल्या तदा सा गाँ. सर्वरुक्ता मुनीश्वरः । सापि प्राग्विधिना देया सकांस्यदोहना द्विजाः ॥४५ एकत्र पृथिवी सर्वा मशैल - वन-कानना । तस्या गौर्ज्यायसी साक्षादेकत्रोभयतोमुखी ॥४६ गोर्वत्सस्य च लोमानि यावत्संख्यानि सत्तमाः । तावत्सङ्ख्यामि वर्षाणि ध्रुवं ब्रह्मजने वसेत् ॥४७ अरोगामपरिक्लिष्टां धेनुं गामथ वापि च । दत्वा स्वर्गमवाप्नोति यावदाभूत संक्षयम् ॥४८ऽध्यायः ]
सवदानविधिवर्णनम् ।
तिलधेनुं प्रवक्ष्यामि प्रीणनाय हरेरिमाम् ।
यथा तुष्यति गोविन्दो दत्तया नु गवाऽनघ ॥४६ ब्रह्मादिवर्णहा गोघ्नः पितृ-मातृसुहृद्वधान् । अग्निदो गुरुहा चैव तथैव गुरुतल्पगः ॥ ५० सर्वपापसमायुक्तो युक्तो यश्वोपपातकैः ।
सर्वेः पापैः प्रमुच्यंत तिलधेन्वा प्रदत्तया ॥ ५१ अनुलिप्ते महीपृष्ठं वस्त्राजिनसमावृते । धर्मज्ञाः केचिदिच्छन्ति कुतपे च तिलास्तृतं ॥ ५२ आम्तीर्य त्वाविकं भूमौ तत्र कृष्णाजिनं पुनः । तिलांस्तु प्रक्षिपेत्तत्र कृष्णाढकचतुष्टयम् ॥५३ कुर्यादुत्तरतोऽभ्यर्णे आढकेन तु वत्सकम् । सर्वरत्नैरलङ्कुर्यात्मौरभेयी सवत्मकाम् ॥४४ कार्ये हेममये शृङ्गे चरणा राजतास्तथा । मिष्टान्नरसनां कुर्याद्गंधघ्राणवती शुभाम् ।
आस्यं गुडमयं तस्याः सास्ना सूत्रमयी तथा ॥ ५५ ताम्रपृष्ठेक्षुपादा च कार्या मुक्ताफलेक्षणा ।
प्रशस्तपत्रश्रवणा फलदन्तवती तथा ॥५६
शुभ्रत्रययलाङ्गूला नवनीतम्तनान्विता । नारिङ्गैर्बीजपूरैश्च जम्बीरैर्नारिकेलकैः ॥५७ बदरा -ऽऽम्रकपित्थैश्च मणिमुक्ताफलाचिताम् । सितवत्रयुगच्छन्नां सितच्छत्रसमन्विताम् ॥५८
[[८७१]]
[[८७२]]
बृहत्पराशरस्मृतिः ।
[ दशमः
इग्विधां च तां कुर्यात् श्रद्धया परयान्वितः । hitranataraशवः प्रीयतामिति ॥ ५६ कुर्याच गृष्टिवद्विद्वान् इमामप्युत्तरामुखीम् । सम्यगुच्चार्य विधिना दत्तेन द्विजोत्तमः ॥ ६० सर्वपापविनिर्मुक्तः पितरं सपितामहम् । प्रपितामहं तथा पूर्व पुरुषाणां चतुष्टयम् ॥ ६१ पुत्रपौत्रमधस्तात्तथैव च चतुष्टयम् । द्विजेन्द्रान्तारयन्त्येतान निलधेनुप्रदा नराः ॥६२ यत्र गृह्णाति विधिवत्पुरुपान् सोऽपि तावत । चतुर्दश तथा ये च ददतश्चानुमोदकाः ॥६३ दीयमानां च पश्यन्ति निलधेनुं च ये नराः । शृण्वंति ये च तां भक्त्या दीयमाना द्विजोत्तमाः ॥ ६४ तेज्यशेपाघनिर्मुक्ताः प्रयान्ति विष्णुलोकताम् । प्रशान्ताय सुशीलाय तथाऽमत्सरिणे बुधः । तिलधेनु नरो दद्यादस्नाताय धर्मिणे ॥ ६५ त्रिरात्रं सतिलाहारस्तिलधेनुं ददाति य । एकरात्रं पुनर्भक्त्या तिलानत्ति प्रयत्नतः ॥ ६६ दातुविशुद्धपापस्य तस्य पुण्यवतो द्विजाः । चान्द्रायणादृप्यधिकं शतं तत्तिलभक्षणम् ॥६७
एवं प्रतिग्रहीतापि आदत्तं विधिना द्विजः । स तारयति दातारमात्मानं च न संशयः ॥ ६८
Starter: ]
सर्वदानविधिवर्णनम् ।
[[८७३]]
प्रतिग्रहसुदीप्ताग्निदग्धविप्रमुम्वरिताः ।
न स्फुरन्नीह मन्त्राश्च जप-होमादिकं च ॥ ६६ न दानं दीयते तम्य न नं कर्मणि योजयेत् । निष्फलं तत्कृतं कर्म मृतस्योपवदानव ॥ ७० अथातः संप्रवक्ष्यामि घृतवेनुमपपि द्विजा. ।
ये न सा विधिना देया तं प्रवक्षाम्यशेषतः । ७१ वदामि धेनुं घृतपूरकल्यां विधि च वनि च यः प्रकल्या । तस्याः प्रदानेन फलं हि यच क्रियाच पात्रं त्वनवं यच ॥७२ गोक्षीर-मर्पिर्मधु-ग्वण्ड-दध्ना संस्ताय विष्णं शुभवारिणा च । संपूज्य पुष्पंश्च विलय गन्ध (यान्निवेद्य) त्या नवद्यं च मधूप-दीपम् ॥ घृतं च वहिघृतमेव मोमो घृतं च गां घृतमेव वारि । प्रदेहि तस्मात घृतमेव विद्वन । धृत प्रदत्त सकलं प्रदत्तम् । घृतेन गव्येन तु पूर्णकुम्भं प्रवत्स्यते गौ करकेन वत्स । हिरण्यगर्भा मणि-रत्नशोभा कुरुप कर्परसुचाग्नासाम् ॥७५ शृङ्गे च कृष्णागरुदारखे च सौवणनेत्रं पटसूत्रमास्ना ।
।
क्षौमं च पुच्छं गुड- दुग्धवक्त्रं जिह्वा च तम्या वरशर्क गया. ॥७६
द्राक्षो यश्चैव खर्जूरन्यै स्वादुफलैरपि ।
उरस्तस्याः प्रकर्तव्यं पृष्ठ ताम्रं च धीमता ॥ ७७ इक्षुयष्टिमयाः पादाः शफा रौप्यमयास्तथा । धा यैश्च सप्तभिः पार्श्व लोमानि मितमर्पपैः ॥७८ कांस्यदोहा प्रकर्तव्या मितवस्त्रावृता तथा । सितच्छत्रसमायुक्ता सितचामरभूषिता ॥७६
[[८७४]]
वृहत्पराशरस्मृतिः ।
[ दशमो-
[[1]]
वत्सस्य कुर्यादिति भूषणानि प्रोक्तानि सर्वाण्यपि यानि धेनोः । अङ्गानि सर्वाणि च तद्वदस्य छत्रं सवत्रं च तथैव विप्राः ॥८० गृहाण चैनां मम पापहृत्त्यै दुस्तारसंमारपयोधिपोत । संसारतारो भव भूमिदेव ! स्वर्ग प्रदेह्यक्षयमङ्ग विद्वन् ॥८१ विष्णुः सुरेशो घृतरश्मिरस्याः प्रीतोऽस्तु दानेन वरं ददातु । व्याहृत्य चैतन्निजहस्त नोयं दत्वा क्षमस्येति च वाग्विधेया ॥८२ दात्रा द्विजेनात्र तु पूर्वमुक्तं संप्राश्य सर्पितमात्मशुष्यै । कार्यं प्रमु कोऽखिलकिल्विषैस्तु प्राप्नोति कामान् घृत- दुग्धमिश्रान् ॥
घृत क्षीरवहानयो यत्र पायसकर्द्दमाः । तेषु लोकेषु विप्रेन्द्र स पुण्यपूपजायते ॥८४ पिनुरुध्वं तु ये सम पुरुषास्तस्य येज्यवः । तेषु तान् द्विजलोकपु स नयतकिल्बिषः ॥८५ सकामानां प्रियं गृष्टिः कथिता तव सत्तम ! । विष्णुलोक नरा यान्ति सकामा घृतधेनुदाः । ८६ जलधेनु’ प्रवक्ष्यामि प्रीयते दत्तया यया । देवदेवो हृषीकेशः सर्वेशः सर्वभावनः ॥८७ जलकुम्भं द्विजश्रेष्ठ सुवर्णरजतस्थितम् । रत्नगर्भम शेपैस्तु ग्राम्यैर्वान्यैः समन्वितम् ॥८८ सितवत्रयुगच्छन्नं दूर्वा-पल्लवशोभितम् । कुर-मांसी-मुरोशीर - बालकामलकैर्युतम् ॥८६ प्रियंगुपप्रसंयुक्तं सितयज्ञोपवीतिनम् ।
सोपानत्कं च सच्छत्रं दर्भविष्टरसंस्थितम् ॥६०
ऽध्यायः ]
सर्वदानविधिवर्णनम् ।
चतुर्भिः संवृतैः पात्रैस्सिलपूर्णैश्चतुर्दिशम् ।
स्थगितं दधिपात्रेण घृत-क्षौद्रवता मुखं ॥ ६१ उपोषितः समभ्यर्च्य वासुदेवं सुरेश्वरम् । पुष्प-धूपोपहारैश्च यथाविभवसंभवम् ॥६२ तस्मि [ कुम्भे लिखेद्धेनु’ मवत्मा यक्षकर्दमः । प्रतिष्ठा तत्र कुर्वीत मंत्रैर्वेदचतुष्टयैः ॥६३ मङ्कल्प्य जलधेनुं च समभ्यर्च्य जनार्दनम् । पूजयेद्वन्सकं तद्वत्कृतं जलमयं बुधः ॥६४
अत्रोचुरपरे कंचित्पूजयेत घृतवत्मकम् । पञ्चशिन तु कुम्भम्य चतुर्थांशन चापरे । एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम् ॥६५ सितवस्त्रवरः शान्तो वीतरागो विमत्सरः । दद्याद्विप्राय तां विप्रः प्रीतये जलशायिनः ॥६६ जलशायी जगज्ज्योतिः प्रीयतां केशवो मम । इति चोच्चार्य विप्रेन्द्रो विप्राय प्रतिपादयेत् ॥६७
अपक्काशनिना स्थेयमहोरात्रमतः परम । अनेन विधिना दत्वा जलधनु द्विजोत्तमाः ॥६८ सर्वाह्नादमवनोति यद्यत् ध्यायति मानवः । शरीरारोग्य - दीर्घायुः प्रशस्यः सर्वकामुकः ॥ ६६ नृणां भवति दत्तायां जलधेन्वां न संशयः । इमामपि प्रशंसन्ति जलधेनु’ द्विजोत्तम ! ॥१००
[[८७५]]
[[८७६]]
वृहत्पराशरस्मृतिः ।
ये नरास्तेन वै यान्ति विष्णुलोकमसंशयम् । हेमा-ऽऽज्याम्भ-तिलैर्विद्वन् धनुर्यद्यपि कल्पिता । तथापि ते च भक्ष्याः स्युर्धर्मशास्त्रमतादृताः ॥ १०१ भक्षणीयं च यद्वस्तु धन्वंगेषु प्रकल्पितम् । तस्यादृश्यं तदभ्येति वेदमन्त्रः प्रतिष्ठितम् ॥ १०२ पुनः संवृतमन्त्रेषु तदाकुंचनमुद्रया । कृते विसर्जने तेनां वस्तुरूपं पुनर्भवेत ॥१०३ अथान्यत्संवक्ष्यामि दानादा मुत्तमं परम । यहत्वा मानवो याति सायुज्यं परवेधसः ॥१०४ धेनुदेया सुवर्णम्य कारयित्वा द्विजातये ।
यां दत्वा प्राङ् महीपाला ब्रह्मण. सदनं गताः ॥ १०५ सा चतुर्भिस्त्रीभिर्वापि शुद्धवर्णपलैर्द्विजः । पलाभ्यामपि च द्वाभ्यां पलेनैकेन वा पुनः ॥ १०६ हीनं तु नैव कर्तव्यं सत्यां सम्पदि स द्विजाः । हीनं तु कुर्वतो दानं दातुस्त निष्फलं भवेत् ॥ १०७ चतुर्थांशेन धेन्वास्तु हैमं वत्सं प्रकल्पयेत् । सर्वरत्नैरलङ्कुर्यात् वक्ष्यमाणक्रमेण तु ॥ १०८ राजतं वत्सकं कुर्या युरन्ये च तद्विदः । अलङ्काराश्च सर्वेऽपि गोवद्रत्नैः प्रकल्पयेत् ॥ १०६ सकाशाद्वासुदेवस्य यां शुश्राव युधिष्ठिरः ।
दत्वा प्राप्तो हरेलोकं सा मयेयमुदीरिता ॥ ११०
[ दशमो-
ऽध्यायः ]
सर्वदानविधिवर्णनम् ।
मुक्ताफलशफा कार्या प्रवालकविपाणिका ।
पद्मरागाक्षियुग्मा च घृतपात्रस्तनान्विता ॥ १११ कर्पूरा-ऽगरुलालाटा शर्करारदना स्मृता । मित्रान्नमुखसंयुक्ता शंखशृंगांतरा तथा ॥ ११२ जात्यशुक्तिललाटा च द्राक्षादिरसना तथा । सुपद्मयुग्मपाश्र्व सा श्रौमसाम्नावती तथा ॥ ११३ इश्वंविगुंडजानुश्च पञ्चगव्यगुदा स्मृता । नारीकेलैश्च कर्तव्यौ कर्णा पृष्ठं च कांस्यकम् ॥ ११४
सत्यट्टसूत्र लाङ्मूला सतधान्यसमावृता । फल- पुष्पोपसम्पन्ना छत्रोपानत्ममन्विता ॥ ११५
सुवर्णधेनुमार्याय विप्राय प्रतिपादयेत् ।
अमेघसहस्त्रस्य दत्वा फलमवाप्नुयात् ॥११६ कुलानां हि महस्रं तु स्वर्गं नयत्यसंशयम् । किमन्यैर्बहुभिर्दानैरलं हेमगवाऽनया ॥११७ हेमधेनुप्रदानेन कृतकृत्यो हि वर्तते ।
हिरण्यगर्भो भगवान् प्रीयतामिति कीर्तयेत् ॥११८ उपवासी विशुद्धात्मा दत्वा सोम - रविप्रहे ।
दीयमानां च पश्यन्ति ये नरा हेमगामिमाम् ॥ ११६ पश्यमानां च शृण्वन्ति तेऽपि यान्ति त्रिविष्टपम् । यत्रास्ते लिखिता गेहे स्वर्ण दानस्य संस्तुति ।
रक्षो भूत-पिशाचाद्या ततो नश्यन्ति सद्विजाः ॥ १२०
[[८७७]]
[[८७८]]
वृहत्पराशरस्मृतिः ।
[ दशमो-
एता मयोक्तास्तत्र वत्स ! सर्वा गृष्ट्यादिका विस्तरतोऽत्र गावः । इक्ष्वाकुभूभृः प्रभृतिक्षितीशा जग्मुर्दिवं या विधिवत्र दत्वा ॥ १२१
कृष्णाजिनम्य दानम्य प्रवक्ष्यामि शुभं विधिम् । प्रमाणं च विधिर्यस्य यस्मै विप्राय दीयते ॥ १२२
वैशाख्यां पूर्णिमायां च कार्तिक्यामथ वापि च ।
उभयो तत्प्रदातव्यं रवि- सोमग्रहेऽपि च ॥ १२३ अक्किमच्छिद्रमलोमकं च सत्राणरंध्र सरार्फ सशेफम् । साण्डप्रदेशं सविपाणवक्त्रं शस्तं प्रदाने मितकृष्णचम ॥१२४ एवमेतद्विधं चर्म गृहीत्वा द्विज पावनम् । कल्पयेर्द्धनुवत्तच हेमशृंगादिकं तथा ॥ १२५
शृङ्गे हेममये तस्य शफाश्च रजतस्य च । मुक्ताफलैश्च लागलं कुर्यात शाठ्यं विवजयेत् ॥ १२६
अनुलिप्ते महोपृष्ठे प्रसृते कुतपंशुके ।
तत्र प्रसारयेन्मागं तिलैस्तदपि पूरयेत ॥१२७ वदन्ति तद्विदः सर्वे चतुद्रणैस्तु पूरयेत् । पुंसो नाभिप्रमाणं तु अपरे कवयो विदुः ॥ १२८ नाभिमात्रं वदन्त्यन्ये राशि कुर्यादिति द्विजः । तिलैश्च पूरयेत् पश्चादजिनं च समन्ततः ॥ १२६ हेमनाभं च तं कुर्यात हेन्ना कर्पेण स द्विजः । शक्त्या वापि प्रकर्तव्यं मनः शुद्धिर्यथा भवेत् १३० सौवणं क्षीरपूर्ण तु पात्रं प्राच्यां निधापयेत् । राजतं दधिपूर्ण :तु तथा दक्षिणतो द्विजः ॥ १३१
ऽध्यायः ]
सर्वदानविधानवर्णनम् ।
ताम्रमाज्यभृतं पात्रं पश्चिमायां दिशि स्मृतम् । क्षौद्रपूर्ण तथा कांस्यं चतुर्दिक्षु क्रमेण तु ॥१३२ शक्त्या वापि च कर्तव्यं वित्तराज्यं विवर्जयेत् । दद्याद्वेदविदे चैव ब्राह्मणायाहितामये ॥१३३ परिधाप्याहते व अलङ्कृत्य च भूपणैः । चतम्रो गृष्टयः कार्या इत्यन्ये कवयो विदुः ॥१३४ वदन्ति मुनयो गाथां मार्गमाहात्म्यवेदिनः । नानाविधांश्व विद्वांसः पुराणार्धविदो विदुः ॥१३५ यस्तु कृष्णाजिनं दद्यात्पुरं शृंगसंयुतम् । तिलः प्रच्छाद्य वासोभि सर्वग्नग्नम् ॥१३६ ससमुद्रगुहा तेन मशैल-वन-कानना । चतुरस्रा भवेत्ता पृथिवी नात्र संशयः ॥ १३७ कृष्णाजिने तिलान् दत्वा हिरण्य-मधुसर्पिषा । ददाति यस्तु विप्राय सवं तरति दुष्कतम् ॥१३८ यः कृष्णाजिनमास्तीर्य हेमरत्नयुतैस्तिलै । वस्त्रावृतं सोपत्रासो विष्णोरायतने तथा ॥१३६ वैशाख्यां पूर्णिमायां वा कार्तिस्यां वा समाहितः । दद्याद्विप्रेोयुक्तं सद्वत्ते च यतेन्द्रिये ॥१४०
आहितानौ समन्ताने प्रदद्याद्भूरिदक्षिणप यावन्यजिनलोमानि तिला वस्त्रस्य तन्वतः ॥ १४१ तावन्त्यसहस्राणि दाता विष्णुपुरे वसेत् ।
विशेषमपरे युर्विपुवायनयोर्द्वयोः ॥ १४२
[[८७६]]
[[८८०]]
बृहत्पराशर स्मृतिः ।
तदत्रण बहिर्लोम प्राग्ग्रीवं तु प्रमारयेत् ।
[ दशमो-
चतसृषु तथा दिक्षु सुवर्ण रजतानि च ॥ १४३ निधाय शक्स्या पात्राणि श्रीराद्यै पूरितानि च । तस्य पश्चात्ममिद्धाग्निं परिमुह्य तं पुनः ॥ १४४ पर्युक्ष्य च परस्तीयं महाव्याहृतिभिस्तथा । साज्यान् हुत्वा तिम्तित्र विप्राय प्रतिपादयेत् ॥ १४५ नाभि स्पृशन्नदीनोयं मागं गृह्णाम्यहं त्विदम् । धीमान् दद्याद्विजेन्द्राय वाचयित्वा प्रतिग्रहम् ॥१४६ पश्चाद्वस्त्रादिकं दद्यादेपा प्रतिप्रहे स्थितिः । यमगीतामथो गाथामुदाहरन्नि तद्विदः । दातॄणां मत्तमानां तु विशेषप्रतिपत्तये ॥ १४७ गो-भू- हिरण्यसंयुक्तं मार्गमेकं ददाति यः ।
स सर्वपाप कर्मापि सायुज्जं ब्रह्मणो व्रजेत ॥१४८
प्रोक्तंन चैतेन मुनीश मागं दद्यादुद्विजेन्द्रे विधिना प्रयुक्तन् । पापानि हत्वा स पुरातनानि प्रयाति वेधोवपुषेष योगी ॥१४६ सुखासनं च यो दद्याज्जवनाख्यमथोत्तमम् । देवयानैर्दिवं याति स्तूयमानः सुरामुरैः ॥ १५० यो रथं हयसंयुक्तं हेमपुष्पैरलङ्कृतम् । कृतरज्जु च पट्टाद्येनेत्रपट्टकृतैरपि ॥ १५१ तत्सवं स्थगितैर्वस्त्रेः पट्टिपट्टालकेः शुभैः । मुक्ताफलैस्तथ ने कैर्मणिभिश्चोपशोभितम् ॥१५२ऽध्यायः ]
हस्तोदकदानविधिवर्णनम् । हयौ चैव शुभर्वभूषितावत्यलङ्कृतौ ।
तौ भूषणैरलङ्कृत्य मुग्वयन्त्रसुशोभितौ ॥१५३ सपर्याणौ कशायुक्तौ प्रोवाभरणभूषितौ । शुभलक्षणसंयुक्तौ तरुणौ तत्र योजयेत् ॥ १५४ रवि - सोमप्रहे दद्याच्छुभे वाऽन्यत्र पर्वणि । अयनयोर्द्विजाग्रथाय स प्राप्नोत्यर्कलोकताम् ॥१५५ वसेद्रविसमं तत्र सेव्यमानः स दवतैः ।
[[1]]
एकं वापि हयं दत्वा सर्वालङ्कारभूपितम् ॥१५६ सुलक्षणं युवानं च सोऽश्विलोकमवाप्नुयात् । दद्यादश्वरथं यस्तु हेमरत्नविभूषितम् ॥१५७ दिव्यवस्त्रपरिच्छन्नं नेत्रपट्टादिभिः शुभैः । सौवर्णैरधचन्द्रश्च राजतेर्वा विभूषितम् ॥१५८ शुभमक्ताफलेरन्ये नीलवस्त्रादिभिस्तथा । गजौ सुलक्षणोपेतौ सुशीलौ नीरुजावपि ॥ १५६ शुभदन्तौ सुरूपौ च हेमलङ्कारधारिणौ । दिव्य वस्त्रंः परिच्छन्नौ कर्णशंखावलम्बिनौ ॥ १६० पट्ट-नेत्रादिकक्षौ तौ विशिष्टमणिमण्डितौ । ईदृग् रथं च संयोज्य पताकाभिर्विभूपितम् ॥ १६१ शोभितं पुष्पमालाभिः शङ्ख- दुन्दुभिनिःस्वनेः । चतुर्वेदाय विप्राय त्रिवेदाय तथा पुनः ॥ ६२ शुचये च द्विवेदाय श्रोत्रियाय कृतेष्टये । अलङ्कृत्य समालाभिः परिधाप्य सुवाससी ॥ १६३
[[७६]]
[[1]]
[[८८१]]
[[८८२]]
वृहत्पराशरस्मृतिः ।
तस्य हस्तोदकं दद्यात्प्रीयतां केशवो मम । एवं हस्तिरथं दद्यात्समभ्यर्च्य द्विजातये । निहत्य सर्वपापानि विष्णुलोके महीयते ॥ १६४ वसेच्चतुर्भुजस्तत्र सेव्यमानश्चतुर्भुजैः ।
अनन्त कालमातिष्ठेच्छङ्ख-चक्र-गदाधरः ॥१६५
पश्यन्तीह रथं ये तु दीयमानं नरा द्विज ! ।
!!
तेऽपि विष्णुपुरं यान्ति वासिष्ठजवचो यथा ॥ १६६ एकमपीह यो दद्याद्धस्तिनं च सभूषगम् । सवस्त्रं हेमरदनं नखैरजतकल्पितैः ॥ १६७ मणि- मुक्ताफलैर्युक्तं सुवर्ण-रजतान्वितम् । पूत्र काय तु विप्राय चतुर्वेदाय वा द्विजाः ॥ १६८ यो दद्याद्विधिवत्सोऽपि सदा विष्णुपुरं वसेत् । विधिवद्यश्च गृह्णाति सर्वमेव प्रतिग्रहम् ॥१.६६ दातृलोकमवाप्नोति पराशरवचो यथा ।
अलङ्कृत्य तु यः कन्यां ब्राह्मोद्वाहेन यच्छति ॥१७०
अन्योद्वाहेन केनापि गजदानशतं लभेत् ।
गजदानस्य यत्पुण्यं तस्माच्छतगुणं फलम् ॥१७१
कन्यादा विधिवत्सर्वं प्राप्नुवन्ति ह्यसंशयम् । पुत्रदानं च वाञ्छन्ति केचिद्वत्स मनीषिणः ॥ १७२ कन्यादानात्परं ब्रूयुः पुत्रदानं शतोत्तरम् ।
भूमिं सस्यवतीं दद्यात् यस्तु विप्राय मानवः ॥ १७३
[ दशमो- '
ऽध्यायः ]
भूमिदानवर्णनम् ।
स मूल - शुकतुल्यानि विष्णुलोके सदा वसेत् । पभिस्तु सहितान् विप्रान् वंशानुभयतो दश । तानेव द्विगुणान्याहुरिति केचिन्निवर्तनम् ॥१७४ दशहस्तैर्भवेद्वंशश्चतुभिस्नैस्तु विस्तरः ।
देयेऽपि दशभिर्वशैर्गाचर्म परिकीर्तितम ॥१७५ अपि गोचर्ममात्रेण भूमिं दद्याद्विजातये । विष्णुलोकमवाप्नोति केचिदाहुर्मनीषिणः ॥ १७६ पञ्च हस्तकदण्डानां चत्वारिंशद् दशाहता । पञ्चभिर्गुणिता सा तु निवर्तनमिति स्मृतम् ॥१७७ बालवत्सकधेनूनां सहस्र ं यत्र तिष्ठति ।
तद्वै निवर्तनं ज्ञेयं इति केचिद्वदन्ति हि ॥ १७८ ताम्रपट्टे पटे वाऽपि लेखयित्वा च शासनम् । ग्रामं विप्राय वा दद्याद्दशसीरक्षितिं पुनः ॥ १७६ सीरस्यैकस्य वा दद्यात्तस्य पुत्र्यं किमुच्यते । भूम्यंशुकणिकातुल्याः समा विष्णुपुरे वसेत् ॥१८० भूमिदानात्परो धर्मस्त्रैलोक्येऽपि न विद्यते पादैकमात्रदानेन तस्य विष्णुपुरे स्थितिः ॥ १८१ तस्य दानात्परो धर्मस्तदुद्धृतेः पातकं परम् । तस्मात्तां यत्नतो दद्याद्धरणं च विवर्जयेत् ॥ १८२ इहैव भूमिदानस्य प्रत्यक्षं चिह्नमीक्ष्यते ।
क्षितिदः स्वर्गतो भ्रष्टः क्षितिनाथः पुनर्भवेत् ॥१८३
[[८८३]]
[[८८४]]
वृहत्पराशरस्मृतिः ।
[ दशमो-
भुनक्ति च पुनर्भोगान् यथा दिवि तथा भुवि । गजैरश्वैर्नरैर्युक्तो हेम - रत्नविभूषितः ॥ १८४ वरस्त्रीगणसंसेव्यः स्तूयमानः स्वबन्धुभिः । छत्रालङ्कारसंयुक्तो गीतवाद्योत्सवादिभिः ॥ १८५ इत्यादि भूमिदानस्य चिह्न ते वत्स ! कीर्तितम् । वित्तेनाऽपि हि यः क्रीत्वा भूमिं विप्राय यच्छति ॥ १८६ यावत्तिष्ठति सा भूमिस्तावत्स्वर्गे महीयते । गृहभूमिं च यो दद्याद्दद्यादाश्रममात्रकम् ॥१८७ गृहोपकरणं दत्वा गृहदानफलं लभेत् ।
हस्तमात्रां च यो दद्याद्भूमिं विप्राय मानवः ॥ १८८ किष्कुमात्रां च यो दद्याद्भूमिं वेदविदे नरः । तस्यापि हि महापुण्यं दद्यादंगुलमात्रकम् ॥१८६ नैतस्मात्परमं दानं किंचिदस्ति धरातले । पुण्यं फलं प्रवक्ष्यामि विशेषण तु तच्छृणु ॥ १६० यत्र हैमानि सद्मानि मणिभिर्भूषितानि च । प्राकारा यत्र सौवर्णाश्चद्वराः सतोरणाः ॥१६१ दिव्याश्चाप्सरसो यत्र तासां सङ्ख्या ह्यनेकशः । सुपर्वाणौकसा युक्तौ ग्रीवाभरणभूषितौ ॥ १६२ दृष्ट्र व कामदेवोऽपि भवेत्कामातुरः क्षणात । सुकेशा सुललाटाश्च बालचन्द्रोपमध्रुवः ॥१६३ सुनासा - कर्ण गण्डाश्च शुभोष्ठाधरपल्लवाः । सुग्रीवा भुजपाल्यप्राः पीनोत्तुङ्गस्तनास्तथा ॥ १६४
ऽध्यायः ]
भूमिदानवर्णनम् ।
सुमध्योरुनितम्वाश्च सुश्रेण्यश्व शुभोरुकाः । सुजानु-जड्ङ्घ-गुल्फाश्च सुपादाः सुनखास्तथा ॥ १६५ केन रूपेण ता वय भवन्त्यप्सरसो द्विजाः । वैष्णयो गणिकास्सर्वा दिव्यग्वस्त्रभूषणाः ॥ १६६ दिव्यानुलेपलिप्ताङ्गा दिव्यालङ्कारभूषिताः । मन्मथोऽपि हि ता दृष्ट्वाभवेत्कामातुरः स्वयम् ॥१६७ मुनीनामपि चेतांसि या दृष्ट्वा चुक्षुभुः क्षणान । वण्यन्ते ताः कथं देव्यो या लक्ष्मीप्रतिमोपमाः ॥ २६८ वैष्णवाप्सरसां सङ्घैर्वृतश्चामरधारिभिः । गोयमानश्च गन्धर्वैस्तूयमानश्च दैवतैः ॥१६६ वसेद्विष्णुपुरे तावद्यावद्विष्णुरजः क्षितौ ।
[[૮૮]]
पुण्यं च भूमिदानस्य कथितं तव वत्सक ! ॥ २०० मेरुर्धरित्री कुलपर्वताच पाथोऽर्णवः स्वर्गतलादिकादिः । देयानि सर्वाणि च सर्वकामैः प्रोक्तानि दानानि पुराणविद्भिः ॥२०१
आत्मतुल्यं सुवर्णं वा रजतं द्रव्यमेव च ।
यो ददाति द्विजाग्रंयभ्यस्तस्याप्येतत्फलं भवेत् ॥२०२ ब्रह्महत्यादिपापैस्तु यदि युक्तो भवेन्नरः ।
स तन्पापविनिर्मुक्तः प्रोक्तं विष्णुपुरे वसेत् ॥ २०३ तुलापुरुष-भूमी च दीयमाने च ये नराः ।
पश्यन्ति तेऽपि यान्ति द्यां ये च स्युरनुमोदकाः । २०४ गुडं वा यदि वा खण्डं लवणं चापि तोलितम । यो ददात्यात्मना तुल्यं नारी वा पुरुषोऽपिवा ॥ २०५
[[८८६]]
बृहत्पराशरस्मृतिः ।
[ दशमो-
पुमान्प्रद्युम्नवत् स स्यान्नारी स्यात्पार्वतीसमा । सौभाग्यरूपसंयुक्तो भुञ्जीताऽन्ते त्रिविष्टपम् ॥२०६ हिरण्यं दक्षिणायुक्तं सवस्त्रं भूपणान्वितम । अलडकृत्य द्विजाग्रंथ तं परिधाप्य च वाससी ॥ २०७ खण्डादि तोलितं पश्चाद्विप्राय प्रतिपादयेत् । सर्वकामसमृद्धात्मा चिरकालं वसेद्दिवि ॥२०८
उ खराजौ मपिं च मेषमश्रं करेणुं महिषोमजां च । ब्रूयुः खरोष्ट्री भविकां मुनीन्द्राः हेमादियुक्तं सकलं च दानम् ॥२०६ वराणि रत्नानि च हैम-रूप्यं शुभानि वासांसि च कांस्यताम्र े । उपाधिमात्र करमादि कृत्वा हेमादिदानं द्विज दोयते हि ॥ २१०
केचिद्रदन्ति चैतानि कृत्वा हममयानि च । सर्वोपरकरयुक्तानि देयानि हेमधेनुवत् ॥२११ अर्चयित्वा हृषीकेशं पुण्येऽह्नि विधिपूर्वकम् । अशुद्धं सुवर्णं च विप्रायाहूय यच्छति ॥ २१२ स मुक्त्वा विष्णुलोकं तु यदाऽऽगच्छति संसृतौ । तदाऽसौ तेन पुण्येन धनयुक्तो द्विजो भवेत् ॥१३ यो रूप्यमुत्तमं दद्यादर्थिने ब्राह्मणाय च । सोऽतीव धनसंयुक्तो रूपयुक्तश्च जायते ॥ २१४ माणिक्यानि विचित्राणि नानानामानि यो नरः । तथा ताम्रं च कांस्यं च त्रपु वा सीसकादिकम् ॥२१५ यो दद्याद्भक्तितो विप्रः सोमलोकमवाप्नुयात् । स सम्भुज्य तु तं लोकं रूपवानिह जायते ॥ २१६
ऽध्यायः ]
दानविधिवर्णनम् ।
घृतं ददाति यो विप्रः सोऽत्यन्तं सुखमश्नुते । भोजनाभ्यञ्जनार्थं वा भवेत्सोऽपि सुखी नरः ॥२१७
सततं तैल दानेन भोजनाभ्यञ्जनाय च । स्निग्धदेहोऽतितेजस्वी रूपयुक्तः प्रजायते ॥२१८ मृगनाभि च कर्परं तगरं चन्दनादिकम् । गन्धद्रव्याणि यो दद्याद्धनी भोगी स जायते ॥ २१६ ताम्बूलं पुञ्पमालाश्च पुष्पस्याभरणानि च । यो दद्याद्वेपवान्भोगी धनयुक्तः स जायते । सुमतिर्वीर्यवांश्चैव धनयुक्तश्च सर्वदा ॥ २२०
॥
शिशिरतौं च यो दद्यादनलं सेन्धनं नरः । स समिद्धोदरानिः सन् प्रज्ञासूर्ययुतो भवेत् ॥ २२१
यो दद्याद्दुर्लभानां च नित्यमेधांसि मानवः । श्रियायुक्तो भवेदत्र सङ्ग्रामे चापराजितः ॥ २२२ अथ किं बहुनोक्तेन दानधर्मविवेचने । यद्यदिष्टतमं यस्य तत्तस्मै प्रतिपादयेत् ॥ २३ तिलान् दभांश्च नित्यार्थं तृणान्यास्तरणाय च । भुक्त्वा स तु सुखं स्वर्गे जामचात्र भवेद्भुवि ॥ २२४ गुडमिक्षुरसं खण्डं दुग्ध- खर्जूर-खाद्यकान् । फलानि दत्वा सर्वाणि स्वादूनि मधुराणि च ॥ २२५ सर्वाणि फलशाकानि लवणानि तथा द्विज ! । स्थाल्यादिगृहपाकं च दत्वा गोत्राधिको भवेत् ॥२२६
[[८८७]]
[[८८८]]
वृहत्पराशरस्मृतिः ।
।
[ दशमो-
कूष्माण्डं त्रपुषं दत्वा वृन्ताकादि पटोलकाम् । शुभानि कन्दमूलानि सुहृष्टः पुत्रवान् भवेत् ॥ २२० बदरा - SS - कपित्थानि खर्जूर - दाडिमानि च । चिश्वाश्चामलकं दत्वा पुत्रवानिह जायते ॥ २२८ या नारी द्विज ! चैतानि द्विजे भक्त्योपपातयेत् । सर्व तस्या भवेत्तद्धि धेनुदानसमन्वितम् । सुपुत्रा सुभगा पुष्टा पावतीवेह जायते ॥२२६ योऽर्थिने तृण - काष्ठानि ब्राह्मणायोपपादयेत । सर्व दत्तं भवेत्तम्य धेनुदानसमं फलम् ॥२३० भोजनाच्छादने दत्वा दत्वा चोपानहौ द्विजः । स्वर्गलोकं तु सम्भुज्य पूर्णकामोऽत्र जायते ॥२३१ याः पण्यनार्योऽतिसकामपुंसं कामोपभुक्त्यं निजदत्तदेहाः । गीर्वाण चेतोहररूपवत्यः पौरंदरास्ता गणिका भवन्ति ॥२३२
गृहं वा मठिकं वाऽपि शयना - ऽसन - विष्टरम । दत्वा च कशिपुं विद्वान् विप्रान् यः पाठयेन्नरः ॥२३३ महीदानादिकं व्यास ! विद्यादानं शताधिकम् । विद्यार्थिनां च विप्राणां पादाभ्यङ्गमुपानही ॥२३४ यो ददाति द्विजश्रेष्ठ ब्रह्मलोकं स गच्छति । आदावारभ्य वेदांस्तु शास्त्रं वाऽन्यतमं द्विजः ॥२३५ अध्यापयेद्विजान् शिष्यान् विद्यादानं तदुच्यते । उपाध्यायं निवेश्याघ्रे तस्य कृत्वा च वेतनम् ॥२३६
ऽध्यायः ]
विद्यादानवर्णनम् ।
[[૮૮૨]]
विद्यां भक्त्या प्रयच्छेद्यः परब्रह्मण्यसौ विशेत् । विद्यार्थिने च विप्राय यो दद्याद्भोजनं द्विजः ॥२३७ पादाभ्यङ्गं तथा स्नानं सोऽपि विद्यांशभाग्भवेत । यः स्वयं पाठयेद्विप्रान् स्नात्वा भक्त्या च स द्विजः ॥ २३८ साक्षान् ब्रह्म समभ्येति भूयो नायाति संसृतौ । ऋचं वा यदि वाधं च पादं पादार्थमेव च ॥ २३६ अध्यापयति तस्याऽपि नास्ति शिष्यस्य निष्कृतिः । मन्त्ररूपं च यो दद्यादेकं वाऽपि शुभाक्षरम् । तस्य दानस्य वे शिष्यो निष्कृतिं कर्तुमक्षमः ॥ २४० यद्विप्र शिष्यप्रतिपादितेन विद्याप्रदानेन न तुल्यमस्ति । दानं धरित्र्यामविनाशि किंचितम्मात्प्रदेयं सततं नदेव ॥ २४१
रोगार्तस्यौषधं पथ्यं यो ददाति नरो यदि ।
अन्यस्यापि च कस्यापि प्राणदः स तु मानवः ॥२४२ किं रत्नेर्भूपणैर्दत्तगौभिर्वासोभिरेव च ।
किं वित्तर्भूपणैर्वस्त्रैरत्नैगोभिस्तुरंगमैः ।
आदत्तः प्राणहीनेन प्राणदानमतोऽधिकम् ॥ २४३ अन्नं प्राणो जलं प्राणः प्राणश्चषत्रमुच्यते । तस्मादौपधदानेन दाता सुरसमो द्विजाः ॥ २४४ प्राणदानं च यो दद्यात्सर्वेषामपि देहिनाम् । स याति परमं स्थानं यत्र देवश्चतुर्भुजः ॥२४५ यो दद्यान्मधुरां वाचमाश्वासनकरीमृताम् । रोग- क्षुधादिनार्तस्य स गोमेधफलं लभेत् ॥ २४६
[[૮૦]]
वृहत्पराशरस्मृतिः ।
क्लीबाऽन्ध-बधिरादीनां रोगार्त-कुशरीरिणाम् । तेषां यद्दीयते दानं दयादानं तदुच्यते ॥ २४७ ये यच्छन्ति दया दानं सानुकम्पेन चेतसा । तेऽपि तद्दानधर्मेण विष्णुलोकमवाप्नुयुः ॥ २४८ अथान्यः संप्रवक्ष्यामि तिथि - मासगतं द्विज ! । यत्प्रदाने मुनिश्रेष्ठ । विशिष्टं फलमिप्यते ॥ २४६ मासे मार्गशिरे दानं पूर्णचन्द्रतिथौ नरः । विधिना तत्प्रवक्ष्यामि यत्प्रदानं महत्फलम् ॥२५० कांस्यस्य पात्रमक्किष्टं लवणप्रस्थपूरितम् । हिरण्यनाभं वस्त्रेण कुम्भन च छादितम् ॥२५१ स्नातः स्नाताय विप्राय सवत्रं प्रतिपाद्य च । सौभाग्य-रूप-लावण्ययुक्तो भवति वै नरः ॥ २५२ गौर सर्पपकल्केन पौष्यामुत्सादितो नरः । स पुनरभिपेक्तव्यः कुम्भेन गव्यसर्पिपा ॥ २५३ सर्वगन्धोदकैस्तीर्थे . फल- रत्नसमन्वितेः । ससुवर्णमुग्वं कृत्वा प्रदद्यात्तद् द्विजन्मने ॥ २५४ घृतेन स्नापयेद्विष्णुं भक्त्या सम्पूजयेद्धरिम् । घृतं च जुहुयाद्वह्नौ घृतं दद्याद्विजातये ॥२५५ छत्रं वासोयुगं दद्यात्सोपवासः समाहितः । कर्मणा तेन धर्मज्ञः पुष्टिमाप्नोत्यनुत्तमाम् ॥२५६ माध्यां कुर्वन् तिलैः श्राद्धं मुच्यते सर्वपातकैः । शुभं शयनमास्तीर्य फाल्गुन्यां स द्विजातये ॥२५७
[ दशमो-ऽप्यायः ]
तिथिदानविधिवर्णनम् ।
रूप- द्रविणसंयुक्तो भार्या रूपवतीं लभेत् ।
नरः प्राप्नोति धमज्ञ प्रमाणं राजवेश्मनि ॥२५८ नारी च शुभभर्तारं रूप-सौभाग्यसंयुतम् ।
प्राप्नोति विपुलान्भोगान्नात्र कार्या विचारणा ॥ २५६ पौर्णमासीषु चैतासु मास संयुतासु च । एतेषामेव दानानां फलं दशगुणं लभेत ॥२६० महापूर्वासु चैतासु फलमक्षय्यमश्नुते । द्वादश्यां शुक्लपक्षस्य चैत्र वस्त्रप्रदां नरः ॥ २६१ अक्षयान् लभते भोगान्नाकलोकऽविनश्वरे । इत्येतत्कथितं विप्र फलं चैत्रस्य सत्तम ॥२६२ दयाद्ध में च वैशाखं द्वादश्या यो नरः सिते । शुम्ले छत्रोपानहौ च विष्णुलोकमवाप्नुयात् ॥ २६३ आस्तीर्य शयनं दत्वा प्रणम्य भोगशायिनम् । आषाढशुकादश्यां श्वेतद्वीपमवाप्नुयात् ॥ २६४ श्रावणे वस्त्रदानेन विष्णुसायुज्यमृच्छति । गोदः प्रयाति गोलोकं मासे भाद्रपदे द्विजः ॥ २६५ प्रीणयेदश्रशिरसं यश्च दत्वा तथाश्विने । विष्णुलोकमवाप्नोति कुलमुद्धरते स्वकम् ॥ २६६ कंबलम्य प्रदानेन कार्तिक्यां भोगमाप्नुयात् । प्रदानं लवणानां तु मार्गशीर्ष महाफलम् ॥ २६७ धान्यानां च तथा पौंप दारूणामप्यनन्तरम् । फाल्गुने सर्वगन्धानां भवेद्दानं महाफलम् ॥२६८
॥
[[८६१]]
[[८६२]]
वृहत्पराशरस्मृतिः ।
भगर्क्षसंयुता चैत्रे द्वादशी तु महाफला । मासे तु माधवे शुद्वादशी करसंयुता ॥ २६६ वायव्येन युता शुक्ले शुचौ मूलेन वैष्णवी । नभस्याश्विनयोः पुण्या श्रावण्यजर्क्षसंयुता ॥२७० पौष्णर्भसंयुता चोर्जे मार्गे च कृत्तिकायुता । सहस्ये तिष्यकोपेता तपस्यादित्यसंयुता ॥२७१ पश्येद्गुर्व संयुक्ता द्वादशी पावना स्मृता । नक्षत्रयुक्तास्तामु दत्तं दानाद्यनंतकम् ॥२७२ मेषं च मेपसंक्रान्तौ गोवृपं वृपसङ्क्रमे ।
शयना ऽऽसनदानं च मिथुनोपगमे तथा ॥ २७३
कर्कप्रवेशे सक्तून् हि प्रदद्याच्छर्करां तथा ।
।
सिंहप्रवेशे पात्राणां तैजसानां तथैव च ॥ २७४
कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च । तुलाप्रवेशे धान्यानां बीजानामपि चोत्तमम् ॥२७५
कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च ।
धनुःप्रवेशे शस्त्राणां यानानां तु तथैव च ॥ २७६
झपप्रवेशे सर्वेषामन्नानां दानमुत्तमम ।
कुम्भप्रवेशे दानं तु गवामर्थ तृणस्य च ।
[ दशमी-
मीनप्रवेशेऽम्लानानां माल्यानामपि चोत्तमम् ॥ २७७
दानान्यथैतानि मया द्विजेन्द्राः प्रोक्तानि कालेषु नरः प्रदाय । प्राप्नोति कामान्मनसा विमृष्टान् तम्मात्प्रशंसन्ति हि कालदानम् ॥२७८
ऽभ्यासः ]
दानकाल त्याज्यवर्णनम् ।
[[૮૯૩]]
अशौचे सूतके चैव न देयं न प्रतिग्रहः ।
सतोरपि तयोर्दया सदा चाभयदक्षिणा ॥२७६ रात्रौ दानं न दातव्यं दातव्यमभयं द्विजैः । इमानि त्रीणि देयानि विद्या - कन्याप्रतिग्रहः ॥२८० देवानामतिथीनां च गवामपि च पूजनम् । रात्रावपि हि कर्तव्यमिति पाराशरोऽत्रवीत् ॥२८१ शुचिः सन्नशुचिर्वाऽपि दद्याद्गृह्णीत चोभयम् ।
अभयस्य दानकालोऽयं यदा भयमुपस्थितम् ॥२८२ अन्यप्रतिग्रहो विद्वन् ग्राह्यश्व शुचिना द्विज । अशौचे सूतके वाऽपि न तु ग्राह्या भवन्ति ते ॥२८३
अभ्यक्तेन च धर्मज्ञ ! तथा मुक्तशिखेन च । स्नात्वाऽऽचम्य पयः स्पृश्य गृहीत प्रयतः शुचिः ॥ २८४ द्रव्यस्य नाम गृह्णीयाद्दाता तथा निवेदयेत् ।
तोयं दत्वा तथा दाता दाने विधिरयं स्मृतः ॥ २८५ प्रतिप्रहीता सावित्रं सर्वं मन्त्रमुदीरयेत् ।
साध्यं द्रव्येण तत्सर्वं तद्द्रव्यं च सदैवतम् ॥ २८६
।
समापय्य ततः पश्चात्कामं स्तुत्वा प्रतिग्रहम् । प्रतिग्रही पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् ॥ २८७ मन्दं पठेश्च राजन्यो उपांशु च तथा विशः । मनसा च तथा शूद्रात्कर्तव्यं स्वस्तिवाचनम् ॥२८८ सोङ्कारं ब्राह्मणो ब्रूयान्निरोङ्कारं महीपतिः । उपांशु च तथा वैश्यः स्वस्ति शूद्रं तथैव च ॥ २८६
[[૮૨૪]]
वृहत्पराशरस्मृतिः ।
[ दशमो-
न दानं यशसे दद्यान्न भयान्नोपकारिणे ।
।
न नृत्यगीतशीलेभ्यो हासकेभ्यश्च धार्मिकः ॥ २६० पात्रभूतोऽपि यो विप्रः प्रतिगृह्य प्रतिमहम् । असत्सु विनियुञ्जीत तस्मै देयं न तद्भवेत् ॥ २६१ सभ्वयं कुरुते यस्तु समादाय इतस्ततः । धर्मार्थं नोपयुञ्जीत न तं तस्करमर्चयेत् ॥ २६२ यस्मदिवसा द्विजाय स्यादुररीकृत्य तं नरः । दानं च हृदि सञ्चिन्त्य जलमध्ये जलं क्षिपेत् ॥ २६३ वदन्ति मुनयो गाथां परोक्षे दानस फलम् । परोक्षमक्षयं दानं प्रत्यक्षात्कोटिशो भवेत् ॥ २६४ पात्रं मनसि सचित्य गुणवन्तमभीप्सितम् । अप्सु ब्राह्मणहस्ते वा भूमौ वापि जलं क्षिपेत् ॥ २६५ दानकाले तु सम्प्राप्ते पात्रे चासन्निधौ जलम् । अन्य विप्रकरे दद्यादानं पात्राय दीयते ॥ २६६ विष्णुर्भर्वरुणो यत्र गृह्णत्वाह करोदकम् । तद्दानं ब्रह्मसम्प्राप्तमक्षय्यमिति विष्णुगीः ॥ २६७ लक्ष्मीभ्राय यद्दतं दरिद्रायार्थिने द्विजाः । तदक्षयं समुद्दिष्टमिति पाराशरोऽब्रवीत् ॥२६८ राज्यभ्रतुं च राजानं भूयो राज्ये निवेशयेत् । विष्णुलोकं चिरं भुक्त्वा भूयो भूमिपतिर्भवेत् ॥ २६६ प्रतिश्रुत्य द्विजायार्थं यो न यच्छति सं पुनः । न च स्मारयते विप्रस्तुल्यं तदुपपातकम् ॥३००
ऽध्यायः ]
दानार्थगोलक्षणवर्णनम् ।
प्रतिश्रुत्य च यत्किञ्चिद् द्विजेभ्यो न प्रयच्छति । स वे द्वादश जन्मानि शृगालयोनिमाप्नुयात् ॥३०१ गृष्ट्यादीनथ वक्ष्यामि यथालक्षणलक्षितान् । मानं भूमितिलादोनां यथावत्तन्निबोधत ॥ ३०२ अजातदन्ता या तु स्यादर्भदन्तसमन्विता । वर्षादक् चतुर्थाच्च वत्सिकेति निगद्यते ॥ ३०३ सुशीला च सुत्रर्णा च नीरोगा च पयस्विनी । सवत्सा प्रथमं सूता गृष्टिगौरभिधीयते ॥ ३०४ अरोगा या परिक्ला प्रसववत्यथ सूतिका ।
[[८६५]]
सूता याऽतिपयोयुक्ता सा गौ. सामान्यतः स्मृता ॥३०५ पूर्वोक्त गुणसंयुक्ता प्रत्यग्रप्रसवा तथा ।
साथ गौर्वनुरित्युक्ता वसिष्ठजवचो यथा ॥ ३०६
पथ्यगुञ्जो भवेन्मापः कर्षः षोडशभिश्च तैः
।
तैश्चतुर्भिः पलं प्रोक्तं दाने मानं च पुण्यदम् ॥३०७ भद्रं नरैकहस्ताभिः प्रसृतीभिश्चतसृभिः ।
मानकं तैश्चतुर्भिश्च सेतिकेति प्रकीर्तिता ॥ ३०८
ताभिधतसृभिः प्रस्थश्चतुर्भिराढकश्च तैः
।
द्रोणश्चतुर्भिरुक्तो धान्यमानमिति स्मृतम् ॥३०६ तिलप्रसृतिभिर्भाण्डं चतुर्भिर्यत्प्रपूर्वते ।
तैश्चतुर्भिश्च कर्मो हि तैश्चतुर्भिश्च वै पलम् ॥३१० पलैश्च तैश्चतुर्भिः स्यात् श्रीपाटी तच्चतुल्यम् । करक’ चतसृभिस्ताभिश्चतुभैिस्तैर्घटः स्मृतः ॥ ३११
[[८६]]
बृहत्पराशरस्मृतिः ।
इत्यन्यैर्मुनिभिः प्रोक्तं घृतगौरितलगौः समाः । किश्व वो बहुनोक्तेन दानस्य तु पुनः पुनः ॥३१२ दीयते यद्दरिद्राय कुटुम्बिने तदक्षयम् । सुकृद्बुधाय विप्राय भक्त्या परमया वसु ॥ ३१३ दीयते वेदविदुषं तदुपतिष्ठति यौवने ।
!
[ वशमो-
अथान्यत्सम्प्रवक्ष्यामि दानानि निष्फलानि तु ॥ ३१४ तथा निष्फलजन्मानि यथावत्तन्निबोधत । वृथा जन्मानि चत्वारि वृथा दानानि षोडश ॥ ३१५ पृथक् तानि प्रवक्ष्यामि निबोध त्वं द्विजोत्तम । । अपुत्रस्य वृथा जन्म ये च धर्मवहिष्कृताः ॥ ३१६ दरिद्रस्य वृथा जन्म व्याधितस्य तथैव च । अपुण्यस्थाने यद्दत्तं वृथा दानं प्रकीर्तितम ॥ २१७ ( पण्यस्थानेषु यद्दत्तं वृथा दानं तदुच्यते । ) आरूढपतिते दानं अन्यायोपार्जितं च यत् । व्यर्थमब्राह्मणे दानं पतिते तस्करेऽपि च ॥३१८ गुरोरप्रीतिजनके कृतघ्ने ग्रामयाजके । ब्रह्मबन्धौ च यद्दानं यद्दत्तं वृषलीपतौ ॥३१६ वेदविक्रयिणे चैव यस्य चोपपतिर्गृहे ।
स्त्रीजिते चैवं यद्दत्तं व्यालमाहे तथैव च ॥ ३२० परिचारकं तु यद्दत्तं वृथा दानानि पोडश । तमोवृत्तश्च यो दद्याद्भयात्क्रोधात्तथैव च ॥३२१ विद्वन्न दानं तत्सर्वं भुङ्क्ते गर्भस्थ एव हि ।
Sण्यायः ]
दानप्रापपुरुषलक्षणवर्णनम् ।
ईर्ष्याया मन्युना दानं यद्दानमर्थकारणात् । यो ददाति द्विजातिभ्यो बालभावे तदश्नुते ॥ ३२२ स्वयं नीत्वा च यद्दानं भक्त्या पात्रे प्रदीयते । अप्रमेयगुणं तद्धि उपतिष्ठति यौवने ॥ ३२३ यत्सद्विप्राय वृद्धाय भक्त्या च परया वसु । दीयते वेदविदुषे तदुपतिष्ठति वार्द्धके ॥ ३२४ तस्मात्सर्वास्ववस्थासु सर्वदानानि सत्तमाः । दातव्यानि द्विजातिभ्यः स्वर्गमार्गमभीप्सता ॥ ३२५ भूमेः प्रतिग्रहं कुर्याद्भूमिं कृत्वा प्रदक्षिणाम् । करे गृह्य तथा कन्यां दास दास्यौ तथा द्विजः ॥ ३२६ करं तु हृदि विन्यस्य धम्र्यो ज्ञेयः प्रतिग्रहः । आरुह्य च गजस्योक्तः कर्णेऽश्वस्य सटासु च ॥ ३२७ तथा चैकशफानां च सर्वेपाम विशेषतः । प्रतिगृह्णीत गां शृङ्गे पुच्छे कृष्णाजिनं तथा ॥ ३२८ कर्णजाः पशवः सर्वे ग्राह्याः पुच्छे विचक्षणैः । प्रतिग्रहं तथोष्ट्रस्य आरुह्यव तु पादुके ॥३२६ ईपायां तु रथोऽक्षे वा छत्रं दण्डे विधारयेत् । द्रुमाणमथ सर्वेषां मूले न्यस्तकरो भवेत् ॥३३० आयुधानि समादाय तथाऽऽमुच्य विभूषणम् । धर्मध्वजस्तथा स्पृष्टा प्रविश्य च तथा गृहम् ॥३३१ अवतीर्य तु सर्वाणि जलस्थानानि यानि तु । उपविश्य च शय्यायां स्पर्शयित्वा करेण वा ॥ ३३२
[[५७]]
[[८६८]]
वृहत्पराशरस्मृतिः ।
[ वुशमो-
द्रव्याण्यन्यानि चादाय स्पृष्ट्वा वा ब्राह्मणः पठेत् । कन्यादाने तु न पठेत् द्रव्याणि तु पृथक् पृथक् ॥३३३
प्रतिग्रहाद्विजश्रेष्ठ तत्रैवान्तर्भवन्ति ते । द्रव्याणामथ सर्वेषां द्रव्यसंश्रयणान्नरः ॥ ३३४
वाचयेज्जरमादाय ॐकारेण प्रतिग्रहम् । प्रतिग्रहस्य यो धम्यं न जानाति द्विजो विधिम् । स द्रव्यस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ ३३५
अथापि वक्ष्यामि विधेर्विशेषान् वाजिप्रदाने च प्रतिप्रहे च । दातृ-प्रहीत्रोरपि येन पुण्यं स्वर्गाय जायेत शृणुध्वमेतत् ॥ ३३६ गृह्णीत योऽश्वं विधिवद्विजेन्द्राः कुर्यादसौ पञ्चदिनानि पूर्वम् । पञ्चोपचारैरुत विष्णुपूजां कूष्माण्डमन्त्रैर्धृत दुग्धहोमम् ॥३३७ यद्ग्राम इत्यादि मरुत्वतीयं सोङ्कारभूरादिभिरन्वितं च । प्रत्येकमष्टौ जुहुयादुद्विजाम्यः सौर्येण मन्त्रेण च तद्वदष्टौ ॥३३८ षष्ठ्या प्रयुक्तं त्रिशतं जुहोति कुर्याच्च गायत्रिजपं सहस्रम् । पश्चात्स गृहन्तुरगं द्विजाग्युस्तथा स्वमात्मानमजं नयेत् ॥३३६ दाताऽपि चतद्व्रतमा विदध्याद् द्विजाग्यवत्प्राक्त नपापशुध्यै । द्वावप्यम् सूर्यजनं लभेते सर्वत्र पूज्यौ द्विज वृन्दमध्ये ॥ ३४० अश्वप्रतिग्रहविधिं च प्रतिप्रहं च जानाति योऽश्वस्य पुराणगाथाः । स एव धन्यः स च पूजनीयः इहैव लोके द्विज-देवमान्यः ॥ ३४१ विशेषपूज्यप्रतिपादनाय तिथौ प्रदत्तं द्विज यत्र यत्र । प्रागुक्तमेतत्पुनरुच्यते यत्तच्छ्रयतामत्र हि कथ्यमानम् ॥३४२
ऽध्यायः ] मासपक्ष तिथि विशेषणदानमहत्बवर्णनम् । श्रावण शुकपक्षे तु द्वादश्यां प्रीयते हरिः । गोप्रदानेन विप्रेन्द्र वदन्त्येतन्मनीषिणः ॥३४३ पौपे शुक्ल तथा वत्स द्वादश्यां घृतधेनुकाम । घृताचः प्रीणनायालं प्रदद्यात्फलदायिनीम् ॥३४४ तथैव माघद्वादश्यां प्रदत्ता तिलगौर्द्विजाः । केशवं प्रीणयत्याशु सर्वान् कामान् प्रयच्छति ॥ ३४५ ज्येष्ठे मासि सिते पक्ष द्वादश्यां जलधेनुकाम । दत्वा विप्राय विधिना प्रीणयत्यम्बुशायिनम् ॥ ३४६ यत्र वा तत्र वा काले यद्वा तद्वा प्रदीयते । विशेपार्थमिदं प्रोक्तं नान्यत्काले निषेधनम् ॥३४७ विष्णुमुद्दिश्य विप्रेभ्यो निःस्वेभ्यो यत्प्रदीयते । भवेतक्षयं दानं मुत्तमत्वात्परैरिदम ॥३४८ काले पात्रे तथा देशे धनं न्यायार्जितं तथा । यद्दत्तं ब्राह्मणश्रेष्ठे तदनन्तं प्रकीर्तितम् ३४६ चन्द्रे वा यदि वा सूर्य दृष्टे राहौ महामहे । अक्षय्यं कथितं सर्वं तदप्यर्के विशिष्यते ॥ ३५० द्वादशीसु च शुकासु विशेपात् श्रवणेन च । यत्र यदीयते किञ्चित्तदनंतं प्रजायते ॥३५१ विशेषादुधयुक्तेषु पक्षान्त्येषु च सर्वदा ।
तृतीयासु च सर्वासु शुक्लासु च विशेषतः ॥ ३५२
वैशाख शुकपक्षे तु विशेषादपि मानवः ।
आषाढी कार्तिकी चैव फाल्गुनी तु विशेषतः ॥ ३५३
[[८६६]]
[[६००]]
वृहत्पराशरस्मृतिः ।
तिस्रश्चैताः पौर्णमास्यो दाने विप्र महाफलाः । व्यतीपातेषु सर्वेषु समर्क्षेषु द्विजोत्तम ! ॥३५४ ग्रहसङ्क्रमकालेषु तीव्ररश्मेर्विशेषतः । तुला - मेषप्रवेशेषु योगेषु मिथुनस्य च ॥ ३५५ वेर्महाफलं दानं तेभ्योऽपि स्यान्महाफलम् । यदा भानुः प्रविशति मकरं द्विजसत्तमाः ॥ ३५६ आषाढऽभ्युज चैव पौष चैत्रे तथैव च । द्वादशीप्रभृति प्रोक्तं पुण्यं दिनचतुष्टयम् ॥३५७ मिथुनं च तथा कन्यां धन्विनं मीनमेव च । प्रवेशे भास्करे पुण्यं कधितं द्विजसत्तमाः । षडशीतिमुखं नाम दाने दिनचतुष्टयम् ॥३५८ अच्छिन्ननाले यद्दत्तं पुत्रे जाते द्विजोत्तमाः । संस्कारे चैव पुत्रस्य तदक्षय्यं प्रकीर्तितम् ॥३५६
[ दशले-
इष्ट्यश्च विविधाः प्रोक्तास्ताश्च कार्या यथोदिताः । सर्वा अपि हि सद्विरिवर्ममभीप्सुभिः ॥ ३६० सत्सद्ममेविद्विजनाकलब्धिसिद्ध पर्यमुक्तानि कियन्ति विप्राः । दानानि वक्ष्याम्यथ पूर्त्तधर्मं स्याद्येन पुंसां विहितेन पुण्यम् ॥३६१
ब्रह्मेश - हरि-सूर्याणां स्कन्दे भास्या - ऽश्विनां तथा ।
मातृणां च प्रहाणां च गृहाणि कारयेन्नरः ॥ ३६२ इष्टकादशकं वाऽपि यश्चार्पयति विष्णवे ।
अनेन विधिना कुर्याद्विष्णुलोकमवाप्नुयात् ॥३६३Sवाय ]
कूपतडागादिकीर्तिमहत्ववर्णनम् ।
एवं यः सर्वदेवानां मन्दिरं कारयेन्नरः ।
स याति वैष्णवं लोकं प्राप्यं योगशतैः कृतः ॥ ३६४ समाचरति यो भग्न सुधाभिधवलं यदि । कुरुते देवहम्यं च विशिष्टर्लेप - चित्रकैः ॥ ३५ सम्मार्जयति यश्चापि यतो यश्चानुलेपयेत् । प्रदीपं तत्र यो दद्यात्स याति विष्णुलोकताम् ॥ ३६६ पूजयेद्विधिना यस्तु पञ्चोपचारसंयुतः ।
स विष्णुलोकमभ्येति यावदाभूतसम्प्लवम् ॥३६७ यावन्त्यश्वष्टकास्तत्र चिता देवस्य सद्मनि । तावन्त्यब्दसहस्राणि तत्कर्ता स्वर्गमाविशेत् ॥ ३६८ सन्निहत्य तडागानि पुष्करिण्यश्च दीर्घिकाः ।
…
तथा कूपाश्च वाप्यश्च कर्तव्या गृहमेधिभिः ॥ ३६६ खातमात्रं प्रकतव्यमकाहिकमपि क्षितौ । यावत्पीत्वा जलं गौस्तु तृपार्ता वितृषा भवेत् ॥ ३७० पिबन्ति सर्वसत्वानि तृषार्तान्यम्भसामिह । वर्षाणि बिन्दुतुल्यानि तत्कर्ता दिवमावसेत ॥ ३७१ उपकुर्वन्ति यावन्ति गण्डूषाणि क्रियासु च । कुर्वन्ति स्नान - शौचादि तयैवाचमनान्यपि ॥३७२ तावत्सख्यानि वर्षाणि लक्षाणि दिवि मोदते । अपां स्रष्टा वसेत्स्वर्गे सेव्यमानोऽप्सरोगणैः ॥ ३७३ आरामाश्चापि कर्तव्याः शुमवृक्षैः सुशोभिताः । अश्वत्थोदुम्बर-लक्ष-चूत-राजाद-नीवरैः ॥ ३७४
[[६०१]]
[[६४२]]
वृहत्पराशरस्मृतिः ।
जम्बू- निम्ब-कदम्बैश्च खजूरैर्नारिकेलकैः । बकुलैश्चम्पकै द्यः पाटला- ऽशोक - किंशुकैः ॥३७५ दुमैर्नानाविधैरन्यैः फल-पुष्पोपयोगिभिः । जाती जपादिपुष्पैस्तु शोभिताश्च समन्ततः ॥ ३७६ भलोपयोगिनः सर्वे तथा पुष्पोपयोगिनः । आरामेषु च कर्तत्र्याः पितृ देवोपयोगदाः ॥ ३७७ गाथामुद्दाहरन्त्यत्र तद्विदः कवयोऽपरे ।
[ दशमो-.
वृक्षरोपकलोकानां उक्ता या पुष्पवाटिकाः ॥३७८ अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमकं दशचिंचिणीश्च । पञ्चम्पकं तालरातत्रयं च पश्चात्रवृशैर्नरकं न पश्येत् ॥ ३७६ कपित्थ- विल्वामलकीत्रयं च पंचामवापी नरकं नयाति ॥ ३८० यावन्ति खादन्ति फलानि वृक्षात्क्षुद्र ह्रिदग्धास्तनुभृद्रणाद्याः । वर्षाणि तावन्ति वसन्ति नाके वृक्षैकवापास्त्रिदशौ वसेव्याः ॥३८१ यावन्ति पुष्पाणि महीरुहाणां दिवौकसां मूर्ध्नि घरातले वा । पतन्ति तावन्ति च वत्सराणां कल्पानि वृक्षैदिवमारुहन्ति ॥ ३८२ यत्कालपक्वैर्मधुरैरजस्त्रं शाखाच्युतः स्वादुफलैर्न गाद्याः । सर्वाणि मत्वानि च तर्पयेयुक्तं श्राद्धदानेन च वृक्षनाथान् ॥ ३८३ उद्दिश्य विष्णु जगतामधीशं नारायण’ यः सुकृतं करोति । आनन्यमाप्नोति कृतं तु तस्मादनन्तरूपो भगवान्पुराण ॥३८४ दानानि सर्वाण्यभिधाय विद्वन्निष्टं च पूर्व गृहमेधिकर्म । कुर्वन्ति शान्ति मनुजाः शुभाय वक्ष्यामि तस्मादथ सर्वशान्तिम् ॥ ३८५
ऽध्यायः ]
विनायकशान्ति विधिवर्णनम् ।
उक्तानि सर्वदानानि इष्टापूर्त व सत्तमाः ।
अतः परं प्रवक्ष्यामि गणेशादिकशान्तयः ॥३८६
इति बृहत्पराशरीये धर्मशास्त्रे सुवतप्रोक्तायां स्मृत्यां दान वर्मेषु पूर्त विनिर्णयो नाम दशमोऽध्यायः ॥ १० ॥
अथैकादशोऽध्यायः ।
अथविनायकशान्तिविधिवर्णनम् ।
शान्तीनामथ सर्वासां ग्रहशान्तिः परा स्मृता । महेभ्योऽपि गणेशस्तु तस्य शान्तिरथोच्यते ॥ १ यदि पुङ्कृतकर्माणि भवन्ति फलदानि हि । तदा धर्मोऽर्थ - कामास्तु संनिध्येरन्सदा नृणाम् ॥२ तन्नृभिः क्रियमाणानां सर्वेषां कर्मणाममुम् । विघ्नार्थमसृजत्रह्मा शङ्करश्च विनायकम् ॥३ तेनोपहतपुंसां तु कर्म स्यान्निष्फलं कृतम् । स्त्रीणामपि तथा सवं क्रियमाणं तु निष्फलम् ॥४ जलावगाहनं स्वप्ने क्रव्यादारोहणं तथा ।
खरोष्ट्र- म्लेच्छसंसर्गो मुण्ड - काषायवाससम् ॥५ पश्यन्त्यात्मानमेवेह सीदन्तं प्रतिवासरम् ।
यानि कुर्वन्ति कर्माणि तानि स्युः क्लेशदानि च ॥६
[[६०३]]
[[६०४]]
बृहत्पराशरस्मृतिः ।
[ एकादशो-
राजपुत्रो न राज्याप्त्या वराप्त्या न तु कन्यका । अन्तर्वनी अपत्यात्या आचार्यत्वेन च द्विजः ॥७
अधीयानास्तु विद्याप्त्या कृपिकृत् सस्यसम्पदा । वणिग्वर्तनलाभेन युज्यते निर्धनश्च सन् ॥८ तस्मात्तदुपशान्त्यर्थं समभ्यर्च्य गणेश्वरम् । स्नपनं कारयेत्तस्य विधिवत्पुण्यवासरे ॥६ चतुर्थ्यां शुक्लपक्षे तु अयने चोत्तरे शुभे । पुण्यार्थ सर्वसिध्यथं कुर्याच्छान्ति विनायकीम् ॥१० स्वासनासीनं संस्थाप्य आरक्तार्षभचर्मणि । सितसर्षपकल्केन साज्येनाच्छादितस्य च ॥ ११
विलिप्तशिरसस्तस्य गन्धैः सर्वैस्तथोषधैः ।
[[1]]
अष्टौ वा चतुरो वापि स्वस्तिवाच्यान् द्विजान् शुभान् ॥१२ एकव श्चतुर्भिश्च पुम्भिः कुम्भैश्व यज्जलम् ।
समानीतं क्षिपेत्तत्र वक्ष्यमाणमृदस्तथा ॥ १३ अश्वेभस्थान- वल्मीक-हद-सङ्गममृत्तिकाः ।
रोचनां गुग्गुलं गन्धान् तस्मिन्नंभसि तान् क्षिपेत् ॥१४
एतद्वै पावनं स्नानं सहस्राक्षमृषिस्मृतम् ।
तेन त्वां शतवारेण पावमान्यः पुनन्त्वमुम् ॥१५ नवभिः पावमानीभिः कुम्भं तमभिमन्त्रयेत् । शकादिदशदिक्पाला ब्रह्मश - केशवादयः ॥१६ आपस्ते घ्नन्तु दौर्भाग्यं शान्ति ददतु सर्वदा । सुमित्रियान इत्याद्यैर्मन्त्रैरेकेऽभिषेचनम् ॥१७
।
ऽध्यायः ]
विनायकशान्तिविधिवर्णनम् ।
वदन्ति वदतां श्रेष्ठा दौर्भाग्यस्योपशान्तये । समुद्रा गिरयो नद्यो मुनयश्च पतिव्रताः ॥ १८ दौर्भाग्यं घ्नन्तु मे सर्वे शान्ति यच्छन्तु सर्वदा । पाद-गुल्फोरु-जङ्घा -ऽऽन्त्र - नितम्बोदर - नाभिषु ॥१६ स्तनोर - बाहु-हस्ताग्र- ग्रीवा - अंसाङ्गसन्धिषु । नासा - ललाट-कर्ण केशान्तेषु च यत् स्थितम् ॥२० तदापो घ्नन्तु दौर्भाग्यं शान्ति यच्छन्तु सर्वदा । स्नातस्य मस्तके दर्भान् साज्येन परिगृह्य च ॥ २१
[[1]]
जुहुयात्सार्षपं तैलमौदुम्बरस्रुवेण तत् । मितश्च सम्मितश्चैव तथा सालकटङ्कटौ ॥२२ कूष्माण्डो राजपुत्रश्चेत्यन्तेस्वाहा समन्वितैः । नामभिश्च बलिं दद्यान्मन्त्रैर्नमः स्वधान्वितैः । चतुष्पथं समाश्रित्य शूर्पे कृत्वा कुशांस्तथा ॥२३ निधाय तेषु दर्भेषु शुला शुक्लांश्च तण्डुलान् । ओदनं पललोपेतं पक्कामान्मत्स्यकानपि ॥२४ तथा मांसं च कुल्माषान् तथैव त्रिविधां सुराम् । पूरिकाण्डेर कापूपान्फलानि मूलकं त्रजः ॥२५ गणेशमातुः पार्वत्याः कुर्यादुपस्थिति पुनः । दूर्वा-सर्पष- पुष्पैश्च पूर्णमर्घाञ्जलि क्षिपेत् ॥ २६ सौभाग्यमम्बिके देहि भगं रूपं यशोऽपि च । स्त्रियं पुत्रांश्व कामांश्च तथा शौयं च देहि मे ॥ २७
।
[[६०५]]
[[६०६]]
बृहत्पराशरस्मृतिः ।
[ एकादशी-
गणेशमातर्फे बाले यत्किञ्चिन्मदभीप्सितम् । एकनाम्नैव तद्देवि देहि गौरि ! वरान् वरान् ॥२८ ततस्तु वाससी शुक्ले परिधायाऽहते शुभे । सितचन्दनलिप्ताङ्गः सितस्रग्भूषणान्वितः ॥२६ तानन्यांश्च द्विजान् सर्वान् भोजयेद्विविधाशनैः । वस्त्रयुग्मं गुरोर्दद्यात्तेषु तस्य वराशिपः ॥ ३०
एतेन सम्पूज्य गणाधिनाथं विघ्नोपशान्त्यै जननीं तथास्य । स्मार्तोक्तसम्यग्विधिना स कामान्प्रप्नोति चान्यान्मनसा यदिच्छेत्। ३१ स्नात्वा विधायार्चनमम्बिकायाः सम्पूज्य लोकान्सखिबन्धुमिश्रान् । आचार्यवृद्धान्वनिताः कुमारीः प्रध्वस्तविघ्नः श्रियमेति गुर्वीम् ॥३२ स्मृत्युक्तमन्त्रैर्विधिवत्प्रयुक्तैर्नित्यं शिनानन्दनपूजनं च । कृतान्तरायान्विनिहत्य सर्वान् कुर्यादथातो ग्रहयागमेनम् ॥३३
इति विनायकशान्ति विधिवर्णनम् ।
॥ अथ ग्रहशान्तिविधिवर्णनम् ॥
मुनीनां व्यासमुख्यानां शक्तिसूनुः पुरोऽत्रवीत् । शुभाय ग्रहपूजाया वदतस्तन्निबोधत ॥ ३४ यद्वर्णा यत्सुता विद्वन् जाता देशेषु ये च । तेषां तदधिदैवत्यं समिधो दक्षिणा च या ॥ ३५ यस्य यत्र च दिग्भागे मण्डलं स्याद्विवस्वतः । होमकर्मणि ये विप्रा या संख्या समिधामपि ॥३६
ऽध्यायः ]
ग्रहशान्ति विधिवर्णनम् ।
अग्निकुण्डप्रमाणं तु प्रमाणं समिधामपि । सर्वमेव यथोद्देशं वक्ष्यामि द्विजसत्तम ॥३७ रक्तः कश्यपजो भातुः शुक्को ब्रह्मपुतः शशी । रक्तो रौद्रसुतो भौमः पीतः सोमसुतो बुधः ॥३८ पीतो ब्रह्ममुराचार्यः शुक्लो शुक्रो भृगूद्वहः । कृष्णः शनी रवेः पुत्रः कृष्णो राहुः प्रजापतिः ॥ ३६ कृष्णः केतुः कृशानूस्थः कृष्णा पापास्त्रयोऽप्यमी । कालिङ्गोको यामुनः सोम आवन्त्यो भौम उच्यते ॥४० मागवो बुव इत्युक्तः सैन्धवस्तु बृहस्पतिः । सैन्धवो दानवाचार्यः सौरिः सौराष्ट्रदेशजः ॥ ४१ राहुः सिंहलदेशोत्थो मध्यदेशभवोनिजः । जन्मदेशा इमे प्रांक्ता ग्रहजातक वेत्तृभिः ॥४२ शम्भुं रविमुमां चन्द्रं स्कन्दं भौमं हरिं बुधम् । ब्रह्माणं च गुरुं विद्यात्च्छकं शुकं यमं शनिम् ॥४३ कालं राहुं चित्रगुप्त केतुमित्यधिदैवतम् । एतद्विज्ञाय यः कुर्यात्तत्सर्वं सफलं भवेत् ॥४४ अर्कस्त्वर्काय होतव्यः सर्वव्याधिविनाशनः । सुधांशवे च सोमाय पलाशः सार्वकामिकः ॥४५ खदिरश्वार्थलाभाय मङ्गलाय विवेकेभिः । स्वरूपकृद मार्गी होतव्यश्च बुवाय वै ॥४३ प्रभाप्रदस्तथाश्वत्थो होतव्योऽमरमन्त्रिणे ।
ऊर्जासौभाग्यकृद्दूर्वा दैत्यामात्याय सद् द्विजैः ॥ ४७
[[६०८]]
वृहत्पराशरस्मृतिः ।
[ एकाक्लो-
शमी पापोपशान्त्यर्थं होतव्या मन्दगामिने ।
दीर्घायुर्धर्मकृद्दूर्वा होतव्या राहवे द्विज ॥४८ धर्मविद्यार्थकृद्दर्भः सद्विप्रैर्वन्हिसूनवे ।
दधिक्षीराऽऽज्यसंमिश्राः समिधः शुभवृद्धये ॥४६ प्रादेशमात्रकाः सर्वा अष्टावष्टोत्तरं शतम् । अष्टाविंशतिरेकैकं संख्यैषा प्रतिदेवतम् ॥५० वृद्धौ तु फलभूयस्त्वमुक्तादन्यत्तु राक्षसम् । नवभवनकं लेख्यं चतुरस्रं तु मण्डलम् ॥५१ ग्रहास्तत्र प्रतिष्ठाप्या वक्ष्यमाणक्रमेण तु । मध्ये तु भास्करः स्थाप्यः पूर्वदक्षिणतः शशी ॥५२ दक्षिणेन धरासूनुर्बुधः पूर्वोत्तरेण तु । उत्तरम्यां सुराचार्यः पूर्वस्यां भृगुनंदनः ॥५३ पश्चिमायां शनिः कुर्याद्राहुर्दक्षिणपश्चिमे । पश्चिमोत्तरतः केतुरिति स्थाप्या ग्रहाः क्रमात् ॥५४ पटे वा मण्डले लेख्या ईशान्यां दिशि पावकात् । ताम्रोऽर्कः स्फाटिकश्चन्द्रो रक्तचन्दनकोऽपरम् ॥५५ सोमसूनु-सुराचार्यौ स्वर्णशोभौ प्रकीर्तितौ । राजतो भृगुपुत्रश्च कार्णश्च स शनैश्वरः ॥५६ राहुश्च सैसकः कार्यः कार्यः केतुश्च कांस्यजः । सर्वानेतन्मयान्कृत्वा समभ्यर्च्य सदा गृहे ॥५७ लेखयेद्वर्णकैः स्वः स्वैर्विधिवत्पकेन वा ॥ ग्रहाणां साधिदेवानां प्रतिष्ठापनमन्त्रकान् ॥५८
ऽन्यार्थः ]
प्रहशान्तिविधिवर्णनम् ।
वदन्ति मन्त्रत्वार्थवेदिनो द्विजसत्तमाः ।
आदित्यं गर्भमित्युक्तमग्निं दूतमनेन च ॥५६
एताभ्यां स्थापयेदकं त्र्यम्बकमिति च शङ्करम् । अप्स्वन्तरीति शीतांशु श्रीश्च ते इति पार्वतीम् ॥६० स्योनापृथिवीति भौमं च यदक्रदेति वा गुहम । इदं विष्णुर्विधि स्थाप्य तद्विष्णोरिति वै हरिम ॥६१ इन्द्र आसां सुराचार्य माब्रह्मन्निति वेधसम्म । इन्द्रं दैवी गोसून सजोषत्यमराधिपम् ॥ ६२
शन्नो देवी रवेः सूनु यमाय त्वा तथा यमम् । आयं गौरीति राहुश्च कालं कार्षीरमीति च ॥ ६३ ब्रह्मयज्ञेति केतुं च चित्रं चित्रावसोरिति । ब्रूयुरेतानि मंत्राणि मूलमन्त्रस्तथापरे ॥ ६४ आकृष्णेन च तीव्रांशोरिमन्देवा निशाकरम् । अग्निर्मूर्धति भृसूनोरुद्बुध्यध्वं बुधस्य च ॥ ६५ बृहस्पतेरिति गुरोरन्नात्परिश्रुतो भृगोः । शन्नो देवी शनैर्गम्तुः काण्डात्काण्डात्परम्य च ६६ केतुं कृण्न्नभिमूनोरिति मन्त्राः प्रकीर्तिताः । वेदमन्त्रैर्विना कश्विद्विधिर्नास्ति द्विजन्मनाम् । कर्तव्याः स्वम्वमन्य स्त्रैः स्वैश्च प्रतिदैवतम् ॥ ६७ सघृता सयवाश्चापि होतव्याश्च द्विजैस्तिलाः । मध्यमानामिकामूललग्नाङ्गुष्ठचतसृभिः ॥६८
[[६०६]]
[[६१०]]
वृहत्पराशरस्मृतिः ।
[ एकादशो-
यावन्तोऽङ्गुलिभिर्ब्राह्यास्तिलास्ताद्भिराहुतिम् ।
हस्तमात्रं पृथक्त्वेन वेधोऽपि तावतैव तु ॥६६
बाहुमात्रं वदन्त्येके एके चाऽरत्निमात्रकम् । चतुरस्र खनेत्कुण्डं एकयोनिसमन्वितम् ॥७० शुभमेखलया युक्तं सुशन्ति करमुत्तमम् । होमाथं मण्डपं कुर्याचतुर्द्वारं सतोरणम् ॥७१ चतुर्दिक्षु ध्वजाः कार्या नानावर्णा. शुभःवहाः । तथा तत्रोदकुम्भाश्च दूर्वा-पल्लवसंयुताः ॥७२ पुनर्नवीकृतं सन मण्डपाभाव आश्रयेत् । षट्कर्मनिरताः शान्ता ये न दग्धाः प्रतिप्रहैः ॥ ७३ नियोज्यास्तेऽभिकार्यादौ स्फुरन्मंत्रा द्विजोत्तमाः । प्रतिग्रहाग्निदग्धस्य जप- होमादि कुर्वतः ॥७४ यस्य मन्त्राण्यवीर्याणि तत्कृतं कर्म निष्फलम् । ओदनं सगुडं भानोः पायसं शशिनस्तथा ॥७५ हविष्यं भूमिपुत्रस्य क्षीरान्न च बुधस्य च । षष्ठिक्यं ब्रह्मपुत्रस्य दध्ना तु भार्गवस्य च । पूर्ण हविः शनैगंतुमासं राहोः शृताश्रुतम् ॥७६ चित्रान्नमभिसूनोश्च भोज्यानामभिशत्यजाः । कृतहोमस्तथाऽन्येऽपि ये सद्वृत्ता द्विजोत्तमाः ॥७७ यथावर्णानि वासांसि देयानि कुसुमानि च ।
देया गन्धाश्च सर्वेषां देयो धूपश्च गुग्गुलः ७८अवायः ]
ग्रहशान्तिविधिवर्णनम् ।
धेनुः शङ्खो वृषाः स्वर्ण वासांस्यश्वः सिता च गौः । अविशच्छागलकश्चैव क्रमशो दक्षिणाः स्मृताः ॥७६
प्रत्यहं प्रतिमासं च प्रत्यब्दं वा विधानतः । वर्णिभिश्च ग्रहाः पूज्या राजभिश्च सदैव हि ॥ ८० दुःखितो यस्तु यस्य स्यालूज्यस्तस्य स यत्नतः । वेधसैते नियुक्ताः प्राकू स्वभक्तं पूजयिष्यथ ॥ ८१ वरं यच्छन्ति संग विप्रा वह्निनुं पास्तथा । असन्तुट्टा दहन्त्येते तस्मात्तानर्चयेत्सदा ॥८२ ग्रहाधीनमिदं सर्वमुत्पत्ति-प्रलयात्मकम् । जगत्यभाव-भावौ च तस्मात्लूज्यतमा ग्रहाः ॥८३ सानुकूलैर्मदेर्यानि कुर्यात्कर्माणि मानवः ।
सफलानि भवन्त्यस्य निष्फलानि स्युरन्यथा ॥८४
[[६११]]
कुर्वन्ति चैतद्विधिना ग्रहाणामातिथ्यमन्दं प्रतिवासरं ये । आरोग्यदेहा धन-धान्ययुक्ताः दीर्घायुषः स्त्रीसहिता भवन्ति ॥ ८५
इति प्रहशान्ति विधिवर्णनम् ।
॥ अथ गुद्ध-काक-तियंग - यमल-शान्तिवर्णनम् ॥
॥
वसत्स्वकस्मात्सदनेऽतोऽद्भुतं वयोविशेयुर्यदरण्यवासिनः । बिशेषतो गृध्र- कपोत - पिच्छलास्तथैव चोलूकसकाक- वायसाः ॥८६ तरक्षु-गोमायु- मृगारि- मृक्षका दिवाप्यकस्मादकुतोऽपि निर्भयाः । विशन्ति यत्ते तदतीव चाद्भुतं गृहे पुरे शान्तिकमेव सिद्धये ॥ ८७
[[६१२]]
[ एकादशी-
वृहत्पराशरस्मृतिः ।
अथाद्भुतानि जायन्ते वर्णानां गृहमेधिनाम् । नानाविधानि तेषां त प्रशान्स्यै शान्तिरुच्यते ॥८८
यस्याद्भुतानि जायन्ते मृत्युं तस्य वदेद्विजः । धन-धान्यक्षयं चापि भार्या - पुत्रक्षयं तथा ॥ ८६ भयं वा जायते शत्रो राज्ञो वा जायते भयम् । शान्तिस्तत्र विधातव्या यथोक्ता मुनिपुङ्गवैः ॥६० यदि गोधूमशाखायां यवशाखोपजायते । यवे गोधूमशाखा स्यादेवं सर्वाशनेषु च ॥ ६१ सर्पपे तिलशाखा चेत्तिलशाखासु सर्पपम् । माषे मुद्रस्तु मुद्गेस्यादसृग्वृष्टिर्भवेद्यदि ॥६२ अम्भ. प्रपूर्णकुम्भेषु ज्वलदग्निमवेक्षते । उद्वर्तनं च कूपानां मत्तो वा मधुजालकम् ॥६३ विधिवद्वायुलिङ्गश्च निर्वाप्य पयसा चकम् । महावाताय सततं हृदयं तु प्रशाम्यतु ॥६४ त्रि-पञ्च- सप्त वा हुत्वा सर्वत्र ह्यत्र तुल्यता । स्त्रियो गावो महिष्यो वा सुतौ वत्सौ पण्ढकौ । द्वौ द्वौ यत्र प्रजायेते शान्तिस्तत्र विधीयते ॥ ६५ वृपवद्रोद्वयं नर्देन वडवाऽश्वं यदामहेत् । अश्वतरी प्रसूते ऽह्नि प्रस्वेदः प्रतिमासु च ॥६६ मृदङ्ग - पटहादीनामकुतोऽपि ध्वनिर्यदि । गृद्ध-काक- कपोताद्या विशेयुर्यदि वा गृहे ॥६७
ऽध्यायः ]
अद्भुतशान्तिवर्णनम् ।
यवपिन निर्वाप्य विधिवद्वारुणं चरुम ।
मन्त्रैर्वरुणदेव त्यैर्जुहुयाद्वरुणाय तम ॥६८
महावरुणदेवाय जलानां पतये तथा ।
अन्यैर्वरुणदेवत्यैर्मन्त्रैश्च जुहुयाच्चम्म् ॥६६ जुहुयादाहुतीस्तिस्रो मन्त्रैश्च वरुगाय तम् । अन्नस्य तुल्यतां कृत्वा स्वाहान्तैवेरुणदेवतैः ॥१०० इन्द्रचापेक्षणं रात्रौ शस्त्र ज्वलनं तथा । गजा -ऽश्वशफवस्त्रान्तर्जलनं च प्रतिक्षणम् ॥ १०१ स्थूणाप्ररोहणं यत्स्याद्भाण्डस्थान्नप्ररोहणम् । विद्युन्निर्घातवज्राणां पतनं वा भवेद्यदि ॥१०२ मृदाकुं काकसंसर्गं विपरीतप्रदर्शनम् । शुभाय चरुराग्नेयो निर्वाप्यो विधिवद्विजैः ॥१०३ अग्नये स्वग्निराजाय महावैश्वानराय च । हृदये मम यश्चैतत्तत्सवं च वदेद्बुधः ॥ १०४ ग्रहशान्तिश्च सर्वत्र शनेः पूजा विशेषतः ।
दक्षिणा सवृषा गौस्तु वस्त्रयुग्मं द्विजातये । प्रदद्याद्दोषशान्त्यर्थं सर्वोत्पातेषु वै द्विजः ॥१०५
[[६१३]]
एतेषु चान्येष्वपि चाद्भुतेषु जातेषु सावित्रजपं सहस्रम् । होमं विदध्यादपि विष्णुमन्त्रे ब्रह्मशमन्नौरपि वा द्विजोत्तमः ॥१०६
इति - अद्भुत शान्तिवर्णनम् ।
[[५८]]
[[६१४]]
वृहत्पराशरस्मृतिः ।
[ एकादशी-
॥ अथ रुद्रपूजाविधिवर्णनम् ॥
अभिधास्येऽथ रुद्राणां शान्तिर्या गृहभेविनाम् । पञ्चाङ्गानां विधानं तु यत्कृतं हन्ति पातकम् ॥ १०७ ब्राह्मगोधनाला सर्वोपद्रवनाशनम् । कुर्याद्विधानं रुद्राणां यजुर्विधाननिर्मितम् ॥१०८ इपत्वादिपु म पु खं ब्रह्मात्तेषु या क्रिया । दशण युक्तं भूर्भुवःसरितोति च ॥ १०६ आप छन्दश्च दैवत्यं न्यासं च विनियोगतः । पराशरोदितं वक्ष्ये शेषं मुनिविभाषितम् ॥ ११० मनो ज्योतिरोध्यग्निर्मूयनं चैव मर्माणि । मानातो के इतिह्यतलथम पञ्चकं स्मरेत् ॥ १११ याते रुद्रति चूडायां शिरोऽस्मिन्महत्यणवे । असयाताः सहस्राणि ललाटे विन्यसेद्विजः ॥ ११२ चक्षु गेविन्यसे तु व्यम्बकं तु यजामहे । मानस्तोक इति ह्यतन्नासिकायां न्यसेबुवः ११३ अवतत्यधनुवक्त्र्ये नीलग्रीवाय वा गले । नमस्ते आयुधत्येतस्म रेन्मन्त्रं प्रकोष्ठके ॥११४ विन्यसेद्वास्नुमन्त्रोऽयं ये तोर्थानीति हस्तयोः । नमोऽस्तु विकिरेभ्यो वै हृदये मलनाशनम् ॥११५ नाभ्यां विद्वान्न्यसेत्मत्रं नमो हिरण्यबाहवे । गुह्ये मन्त्रस्तु संस्मर्य इमा रुद्राय इत्यपि ॥ ११६
Sध्याय’ ]
रुद्रपूजाविधिवर्णनम् ।
मानो महान्त इत्यूर्वोः एष ते रुद्र जानुनोः । अव रुद्रमितिह्यतज्जङ्घयोर्मन्त्रमुच्चरेत् ॥ ११७ सत्र्यं च पादयोर्न्यम्य वामं न्यस्योरुमध्यतः । अघोरं हृदि विन्यस्य मुग्वं तत्पुरुवं न्यसेत् । ईशानं मुर्ति विन्यस्य हंसं नाम सदाशिवम । हम हंसेति यो ब्रूयात् इंमोनाम सदाशिवः । एवं न्यासविधिं कृत्वा ततः सम्पुरमाचरेत् । कवचं मध्यवोचद्वै तदुपरि बिल्मिनेत्यपि । नेत्रं तु नीलग्रीवाय प्रमुष्य धन्वतोऽस्त्रकम् ॥ ११८ य एतावन्त एतेन वियुर्दिकप्रबंधनम् ।
ॐ मोमिति नमस्कारं ततो भगवते पुनः ॥ ११६ रुद्रायेति विधानज्ञो दशाक्षरं ततो न्यसेत् । प्रणवं विन्यसेन् मूर्ध्नि नकारं नासिकान्तरे ॥ १२०
मोकारं तु ललाटे तु मकारं मुखमध्यतः ।
तु
गकारं कण्ठदेशे तु वकारं हृदये न्यसेत् ॥ १२१
तेकारं दक्षिण हस्ते रुकारं वामतो न्यसेत् । द्राकारं नाभिदेशे तु यकारं पादयोर्न्यसेत् ॥१२२ त्रातारमिंद्रं त्वन्नोऽग्ने सुगःपन्थामिति ह्यपि । तत्त्रायामि वदेद्दाने नियुद्भिरित्यपीरयेत् ॥१२३ वयं सोमं तमीशानमस्मे रुद्रा इति स्मरेत् ।
स्योना पृथिवीतिना ह्येतत् द्विजः कुर्वीत सम्पुटम् ॥१२४
[[६१५]]
[[६१६]]
[ एकादतो.
बृहत्पराशरस्मृतिः ।
सुत्रामादि दिशां पालान्प्राच्यादिषु स्मरेदथ । रौद्रीकरणमेतद्वै कृत्वा पापैः प्रमुच्यते ॥ १२५ यक्ष - रक्षः- पिशाचाद्याः प्रेत-भूत ग्रहादिकाः । दुष्टदैवत्य- शाकिन्यो रैवत्यो वृद्धाश्च याः ॥ १२६ सिंह- व्याघ्रादयोऽऽरण्या ये दुष्टश्वापदा द्विजाः । म्लेच्छा बन्धक - चोराद्या यमदूता वृकादयः ॥ १२७ रौद्रभूतमिमं सर्वे द्विजं पश्यन्ति वह्निवत् । दैदीप्यमानमर्चिर्भिदुदिग्बन्धकारकम् ॥१२८
[[1]]
दह्यमाना दवीयांसः सप्तधामसु धामभिः । प्रणश्यन्ति हि ये दुष्टा द्विजास्ते रुद्ररूपिणः ॥ १२६ पश्चास्यं सौम्यमात्मानं सर्वाभरणभूषितम् । मृगलांच्छनमूर्धानं शुद्धस्फटिकसन्निभम् ॥१३० फणा सहस्र विस्फूर्जदुरगेन्द्रेोपवीतिनम् । सप्ताचिंवज्ज्वलद्भालं जटाजूटकिरीटिनम् ॥१३१ सहस्रकरवद्भ्राजन् खट्वाङ्गाङ्गविभूषितम् । ब्रह्माण्डखण्डवस्त्रारं नृकपालकधारिणम् ॥१३२ दैदीप्यमानं चन्द्रार्कज्वलदग्नित्रिनेत्रिणम् । गैलोक्यद्युतिक्रुद्भास्वत्स्कन्धकापालमालिनम् ॥१३३
दीप्तनक्षत्रमालावदक्षमालाधरं द्विजः ।
निःशेषवारिसम्पूर्ण कमण्डलुधरं त्वजम् ॥१३४ जगद्वाधिर्यकृनादं दण्ड- डमरुधारिणम् । केयूरबद्धनागेन्द्रमूर्द्ध मणिचिराजित्तम् ॥१३५
अन्वायः ]
रुद्रपूजाविधिवर्णनम् ।
मेखला किंकिणीमालायुक्तारावविराजितम् । घर्घराव्यक्तनिर्गच्छद्गम्भीरारावनूपुरम् ॥१३६ सहेमपट्टनीलाभव्याघ्रचर्मोत्तरीयकम । विद्युल्लताप्रभागङ्गा धृतमूर्द्ध सुरार्चितम् ॥१३७ समस्तभुवनाभारधरणोक्षासनस्थितम् । त्रैलोक्यवनितामौलिनतदेहार्द्धपार्वतिम् ॥ १३८ लक्षसूर्यप्रभाभास्वत्त्रैलोक्य कृतपाण्डुरम् । अमृतप्लुतहृष्टाङ्गं दिव्य भोगसमाकुलम् ॥१३६ दिग्दैवतैः समायुक्तं सुरासुरनमस्कृतम् । नित्यं शाश्वतमव्यक्तं व्यापिनं नन्दिनं ध्रुवम् ॥१४० द्विजो ध्यात्वैवमात्मानं सम्यक् रुद्रस्वरूपिणम् । सम्प्रध्वस्तान्तरायः सन् ततो यजनमारभेत् । १४१ अनुलिते सुलिग्ते च देशे गोचर्ममात्रके । स्थण्डिलेऽम्बुजमालिख्य मन्त्रैः प्रक्षाल्य तत्पुनः ॥ १४२ तत्र पूजा प्रकर्तव्या नमश्च शम्भवाय च । मानो महान्तमिति च सिद्धमन्त्रं स्मरेद्बुधः ॥ १४३ स्वललाटे पुनर्ध्यायेत्तंजोरूपं शिवं द्विजः । दशाक्षरेण मन्त्रेण दद्यात्पाद्यादिकं पुनः ॥१४४ न्यासमन्त्रैश्च सोङ्कारैर्मानस्तोक इतीत्यपि । शम्भवायेति मन्त्रेण दद्याद्द्र धोदकादिकम् ॥ १४५ पुष्प - धूप- प्रदीपादि यथालाभं निवेद्यकम् । दशाक्षरेण तेनैव नमः कुर्यात्पुनर्द्विजः ॥१४६
[[६१७]]
[[६८]]
बृहत्पराशरस्मृतिः ।
[ एकादशो-
शिखा तस्य तु रुद्रस्योत्तरनारायणं द्विजः । शिरः पुरुषसूक्तं च शिवसङ्कल्पकं च हृन् ॥ १४७ कवचं चाप्रतिरथं नेत्रं विभ्राट् बृहत्पिबन । शतरुद्रोयमन्त्रण देवस्यास्त्रं प्रव लाये ॥ १४८ पञ्चाङ्गानि स्मरेदष्टप्रणवं च जपे द्विजः ।
नृत्य प्रगनेशं विकिरिंद्र विसर्जयेत् ॥ १४६ रुद्ररूपो द्विजो यश्च यत्कुर्यात्तद्धि सिध्यति । अक्षतान्वा तिलान्यापि यवान्वा समिवोऽपिवा ॥ १५० शम्भवायेति जुहुयात्मर्वा स्तानाज्यसि ककान् । पञ्चपञ्चाथ षट् पट् वा अष्टावौ तथापि वा ॥ १५१ दशदशैकादश वा जुहुयात्माधको द्विजः ।
द्विजः स्वदार संतुष्टः शुचिः स्नातो यतेन्द्रियः ॥१५२ जप तर्पण - होमादौ रतो यो वत्सरं जपन । दशानामश्वमेधानां फलं प्राप्नोति वै द्विजः ॥१५३ सौवर्णपृथिवीदानपुण्यभाक् जायते नरः । महापापोपपापैश्च मुक्तो रुद्रत्वमृच्छति ॥ १५४ एकादशगुणान् रुद्रानानृत्य याति रुद्रताम् ।
रुद्रनापी शुचिः पुण्यः पाङ्कयः श्राद्धभुग्वरः ॥ १५५
पूर्वजानां शतं सैकं ताडयेद्रुद्रजाप्यकृन् ।
एकतो योगिनः सर्वे ज्ञातिभिः सह तदुत्रतैः ॥१५६
एकतो रुद्रजापी तु मान्यः सर्वैस्तु दैवतैः ।
पात्रमत्र पवित्रं तु नाधिकं रुद्रजापिनः ॥ १५७
तु
ऽध्यायः ]
रुद्रशान्ति विधिवर्णनम् ।
[[६१६]]
[[1]]
तस्मै दत्तं च तद्भुक्तं सदा नश्याय कल्यते । वेदाङ्गवेदिनामतः शिवभक्तः सदाधिकः ॥ १५८
इति रुद्रपूजाविधिवर्णनम् ।
॥ अथ रुद्रशान्तिविधिवर्णनम् ॥
अथातः सिद्धिकाम सन्कन्दमूल्फाशन । गोमूत्र याचव क्षीरदनिशाकाऽऽज्य भोजनः ॥ १५६ हविष्य भोजनो वाऽसौ विप्रो योत्यन्न भोजनः । जपहोमादि कुर्वाणां यथोत्तफलभाग्भ त् ॥१६० शिरसा महद्राणां जातै दशशतैर्भावम् ।
सर्वे मन्त्रा भवन्त्यस्य ब्राह्मणम्योक्तकारिणः ॥ १६१ सिद्वा मत्रा द्विजे द्रम्य चिन्तितार्थफलप्रदाः । रुद्रस्यैवास्य सर्वे ते भवन्तीश्वरनोदिताः ॥ १६२
एकादश शुभान्कुम्भ न् आहृत्य विधिसम्मितान् । सहिण्यान्सवस्त्रांच फर पुष्पोपशोभितान् ॥१३३ गन्धोदकान तैर्युक्तान् पूजयेद्रुद्रभक्तिकृत् । अथेकादश रुद्रैश्च एकैकमभिमंत्रयेत् ।
एवं संपूज्य तान्कुम्भान् नमस्कृत्याभिमन्त्र्य च । पूजयेद्भक्तितो द्रानेकादश महागुणान् ॥१६४ एकादशाहमात्मानमन्यं वा हित काम्यया । विनायकोपसृष्टं च स्नायात्काकपदाहतम् ॥१६५
[[६२०]]
वृहत्पराशरस्मृतिः ।
घृतवत्सां काकवन्ध्यां स्नापयेच्च तथाऽऽतुराम् । जपदेतत्सकृद्विप्रः सर्वदोषैर्विमुच्यते ॥ १६६ अनड्राहं च वस्त्रं च दद्याद्धेनुं च दक्षिणाम् । भोजयेद्विदुषो विप्रान्समाप्तौ कर्मणो द्विजः ॥ १६७ भक्त्यकादशवस्त्राधैयथाशक्त्या समचयेत् ।
अथ वा चरुभिक्षाशी शिरोद्र सहस्त्रकम् ॥ १६८ जपेद्रोष्ठे तथारण्ये सिद्ध क्षेत्र शिवालये । अग्न्यागारे समुद्र च नदी - निर्भर -पर्वते ॥१६६ जपेदन्यत्र वा विद्वान् शुचौ देशे मनोरमे । धीरो दृढव्रतो मौनी त्यक्तक्रोधो यतेन्द्रियः ॥ १७० धौतवासास्त्वधःशायी रुद्रलाके महीयते ।
[ एकादशी-
नमो गणेभ्य इत्यस्य मन्त्रस्य ब्राह्मणोऽयुतम् ॥ १७१ जत्वा च श्रीफलेहु त्वा सवकार्येषु सिद्धिभाक् । नमोऽस्तु नीलग्रीवायेत्येतन्मंत्रण समधा ॥ आवयद कमामत्र्य विपतश्रवणे क्षिपत् । विषेण मुच्यते सद्यः कालोऽपि जीवति ॥ १७२ विपस्याभिभवो न स्यान्नरस्य तस्य कर्हिचित् । ग्रहग्रस्तं ज्वरग्रस्तं रक्षः शाकिनिदूषितम् ॥ १७३ ब्रह्मराक्षसग्रस्तं च अन्यदोपोपगृहितम । प्रमुख धन्वन इति भस्मना सर्वपैस्तथा ॥१७४ ताडयेन्मुश्च मुञ्चेति शीघ्रमेव विमुध्यति ।
नमः शम्भव इत्यस्य मन्त्रस्य चायुतं द्विजः ॥ १७५ऽध्यायः ]
रुद्रशान्ति विधिवर्णनम् ।
जप्त्वाखादिरसमिधो हुत्वा विप्रः सहस्रकम् । तीक्ष्णैतेलाप्लुतं मम्ययन्त्रान्ते चामुकं हन ॥ १७६ फटफट्कारेण जुहुयात्क्षयो रोगश्चिराद्भवेत् । जलमध्ये शतावत वृष्टिर्निगद्यते ॥ १७७ नाभिमात्र जले विप्रः प्रविश्य जुहुयाज्जलम् । कुर्यादेकार्णव धात्रीं मन्त्रमाहात्म्यतो भृराम ॥१७८ नम श्रभ्य इत्यमुना मन्त्रेण तु सहस्रकम् ।
लवण मध्वाहुतीनां तु राजा शीघ्रं वशी भवेत ॥१७६ द्विगुणा पलाशसमिधं महावाणी प्रजायते ।
त्रिगुणा नवपद्माना पाताले सिध्यति ध्रुवम् ॥ १८० चतुर्गुणेन मन्त्रेण वरदा श्रीः प्रवर्तते ।
[[1]]
समुद्रगानदीकूले पुलिने वा पवित्रके ॥१८१ खड्गोपरि श्रीफ ठाना हुत्वा त्रिंशन शतानि च । खडूविद्याधरो विप्रः शिवाज्ञात प्रजायते ॥ १८२ अणिमाद्यष्टगुणं त्या जपन्मन्त्रमहस्रकम् । अणिमादिकसिद्धीनां पतिरेव भ ेद्विजः ॥ १ ८३ छन्दोदैवतमार्षेयमथात शतरुद्रिये ।
ज्ञानेन कर्मसम्यक्त्वं द्विजानां येन जायते ॥ १८४ आद्यानुवाके रुद्राणामाद्यायां च चि द्विजः । छन्दो गायत्रमन्यासु अनुष्टुप् तिसृषु स्मृतम् ॥१८५ पङ्किम्तिमृषु विज्ञेया अनुष्टुभ् सप्तसु स्मृतम् । द्वयोश्च जगती विप्रा उक्तमाद्यानुवाकयोः ॥ १८६
[[६२१]]
[[६२२]]
वृहत्पराशरस्मृतिः ।
अद्यानुवाके प्रथमा बृहती जगती तथा ।
एकादशो-
अनुष्टुप् च तृतीयायां द्वयोस्त्रिपू स्मृता द्विज ॥ १८७
अपरामु तथानुष्टुप् अनुवाकद्वयं स्मृतम् ।
रुद्रः सर्वासु देवत्यं विनियोगो यथोचितः ॥१८८ यज्जायता दिपके च शिवसंवामात्रकम् । रुद्रस्तु देवता पट्सु विनियोगो जपादिनु ॥ १८६ सहस्रशीर्षा इत्यादि द्विगुणा देवता । पुरुषो यो जगद्वीजमृपिर्नारायणः स्मृतः ॥ १६० छन्दः सर्वा वाऽनुउपविनियोगो जपादिषु । अद्भ्यः सम्भूत उत्पाद उत्तरनाराय गन्तृपिः ॥१६१ आशु शिशान इत्यादिरप्रतिरथ उच्यते । पूर्वानुत्राज्ये देवत्यं त्रिभू छंद प्रकीर्तितम् ॥१६२
एतन्नाम्ना मुनिस्तत्र देवता अमरेश्वरः ।
आशु शिशान इत्यादिरप्रतिरथ उच्यते ।
त्रिष्टभ् छन्दो जपादौ च विनियोगो यथोचितम् ॥ १६३
त्र्यम्बकमिति चैत्रात्र वसिष्ठस्यापंमुच्यते ।
दैवत्योमापतित्र छन्दविप्रकीर्तित ॥ १६४
विभ्राट् बृहच इत्यादौ सूर्यो देवतमुच्यते ।
एतत्सञ्चिन्य सकलं द्विजाग्यो रुद्रजाप्यकृन् ॥१६५
यद्यदारभते तत्तथोक्तफलदं भवेत् ।
वेदाध्यायस्य दातृगां श्रद्धया द्रविणस्य च ॥ १६६
ऽध्यायः ]
रुद्रशान्ति विधिवर्णनम् ।
[[६२३]]
प्रजानामायुषः कीर्तेर्भूयस्त्वं रुद्रजापिनः ।
इमं मन्त्रं पवित्रं च रहस्यं पापनाशनम् ॥ १६७
रुद्रविधि विधिश्रेष्ठ कुर्याद्विप्रः शिवेरितः । शैवागमविशेषज्ञो वेद-वेदाङ्गपारग. ॥१६८
कुर्याद्यदेवं विविवद्विधानं शम्भोरजस्रं प्रथितं द्विजेन्द्राः । प्राप्नोति लोकं स शिम्य मानादत्रापि स म्याचि ववत्सुपूज्यः ॥१६६ मन्त्राणि सर्वाणि च सद्विजस्य निर्देशकनृणि भवन्ति तस्य । यः साधयेत्प्रोक्तविधानविज्ञो म त्राभिपूज्यः स तु श भुत्र म्यान ॥ २०० मन्त्रं त्रिनेत्रं जुहुयात् हुताशे यो बिल्वपत्रैर्धृत दुग्बमित्रैः । निहत्य मृत्युं श्रियमेति धात्र्यां प्राप्नोति पश्च चिद्रवलोकमेव ॥ २०१
पञ्चभागश्च षड्जातः पञ्चे ट्रं पञ्चवारुणम । षड्जाति च जपित्वा तु सर्वपापै प्रमुच्यते ॥ २०२
इति रुद्रशांतिविधिवर्णनम
॥ अथ तडागादि प्रतिष्ठाविधिवर्णनम् ॥
अथातः सम्प्रवक्षामि तडागादिविधिं शुभम् । कृतेन येन तेपां तु प्रतिष्ठा सम्प्रजायते ॥२०३ अस्मन्नामस्य त. तेन पृच्छते रघुपुङ्गवे ।
तडागाद्युत्सवे प्रोक्तो विधि ः सोऽयं प्रकीर्तितः ॥२०४ दीर्घिकासु तडागेषु सन्निहत्यासु यो विधिः ।
वं वसिष्ठोऽवदत्सम्यक् दशरथस्य पृच्छतः ॥ २०५
{ EY
बृहत्पराशरस्मृतिः ।
[ एकादशी-
तस्माच्च श्रुतवान् शक्तिः शुश्रावातः पराशरः । तत्प्रसादेन तत्प्रोक्तो यो विधिः सम्प्रचक्षते ॥२०५ तडागादिनिपानानां यावन्नोत्सर्जनं कृतम् । तावत्तत्परकीयं तु स्नानादीनामनर्हकम् ॥ २०७ अप्रतिष्ठित देवानां न कार्यं पूजनं नरैः । अप्रतिष्ठितखातानामपेयं तोयमुच्यते ॥२०८ तदुत्सर्गः प्रकर्तव्यो निजवित्तानुसारतः । वित्तशाठ्य प्रहेयं स्यादित्युवाच पराशरः ॥ २०६ तद्विधिज्ञः शुचिः शान्तो ब्राह्मणो धर्मवृद्धये । तदर्थं वरणीयोऽसौ चतुभिर्ब्राह्मणैः सह ॥ २१० आचार्यस्तत्र कर्तव्यः पूर्तधर्मविवृद्धये ।
॥
विपरीतमतिर्यः स्यात्तत्कृतं कर्मनिष्फलम् ॥२११ तडागपालिपण्ठे तु मण्डपं तत्र कारयेत् । पूर्वोत्तरलवे देश शुचिः स्वस्थः समाहितः ॥ २१२ चतुरस्रं चतुर्द्वारं दशहस्तप्रमाणकम् । स्वामिहस्तप्रमाणेन तोरणानि च कारयेत् ॥ २१३ पातका विविधाः कार्या नानावर्णाः समन्ततः । शुभपल्लवसंयुक्ता द्वारेषु कलशाः स्मृताः ॥२१४ यथावर्णं यथाकष्ठं यथाकार्य प्रमाणतः । तथा यूपान्प्रवक्ष्यामि वर्णानां हितकाम्यया ॥ २१५ पालाशो ब्राह्मणः प्रोक्तो न्यग्रोधो भूभुजः स्मृतः । वैल्वो वैश्यस्य यूपः स्याच्छूद्रस्यौदुम्बरः स्मृतः ॥ २१३
ऽयायः ]
तडागादिप्रतिष्ठा विधिवर्णनम् ।
शिरः प्रमाणो विप्रस्य आकण्ठं क्षत्रियस्य च ।
॥
उरः प्रमाणो वैश्यस्य शूद्रस्य नाभिमात्रकः ॥ २१७ वेदिका पादमूले तु यूपस्तत्र निखन्यते ।
[[1]]
यूपस्य दक्षिणे भागे तोरणं तत्र कारयेत् ॥२१८ ब्रह्मस्थानं च तन्मध्ये अष्टौ भागाः प्रकीर्तितः । तेषामुत्तरतः सोमं कुवेरं कुविदङ्गतम ॥२१६ धनदं धन्वनागेति ईशावास्येति शङ्करम ।
[[६२५]]
आकृष्णेनेत्यादिमन्त्रैश्च स्वैः स्वैः कल्यास्तथा ग्रहाः ॥ २२० त्रातारमिन्द्रमितीन्द्रं मग्निं दूतं च पावकम् ।
अग्निः पृथुरित्यादि धर्मराजं द्विजोत्तमः ॥२२१ तद्विगोरिति वै विष्णुं नमः सूतेति नै तिम् । सप्तर्षयस्तु इत्यादि मन्त्रैः सप्तऋषींस्तथा ॥ २२२ वरुणस्योत्तंभनमसि वरुणं च प्रपूजयेत् ।
एवं द्वाविंशतिस्थानानि मन्त्रोक्तानि पृथक् पृथक् ॥ २२३ इमं मे, त्वन्नः सत्वन्नस्तत्वायामि दुत्तमम् । समुद्रोऽसि समुद्रेति त्रीन् समुद्रान् निमीनपि ॥२२४ दशभिर्वारुणैर्मन्त्रैराहुतीनां शतद्वयम् ।
शतमधं शतं वापि विंशत्यष्टोत्तरं शतम् ॥ २२५
गोसहस्रं शतं वापि शताधं वा प्रदीयते ।
अलाभे चैव गां दद्यादेकामपि पयस्विनीम् ॥२२६
अरोगां बत्ससंयुक्तां सुरूपां भूषणान्विताम् ।
सौवर्णा राजतास्वानाः कांस्याः सोसाथ शक्तितः ॥२२७
[[५७]]
[[२६]]
वृहत्पराशरस्मृतिः ।
मत्स्या नक्रादयः कार्या विविध वर्तवृत्तयः ।
[ एकादशो-
गो-वत्तौ वस्त्रद्धौ च आग्नेय्यां दिशि संस्थितौ ॥२२८
वायव्याभिमुखौ तत्र कारयेद्वारिमध्यतः ।
वस्त्रयुग्मानि विप्रेभ्यो मुद्रिका - छत्रि कादयः ॥२२६ भक्त्या चैताः प्रदातव्याः प्रसाद्य यन्त्रतो द्विजाः । विप्रान् सन्तोष्य देयानि दानानि विविधान्यपि ॥ २३० हेमपुनसंयुक्तां शय्यां दद्य च शक्तितः । आसनानि प्रशस्तानि भाजनानि निवेदयेत् ॥ २३१ एतत्प्रदक्षिणीकृत्य स्वःश्मना च विपश्चितः । प्रसादयेत् द्विजान् सर्वान्तफलं नरः ॥२३२ कृताञ्जलिपुटो भूला विप्राणामप्रत स्थितः ।
ब्रूयादेवं भवन्तोऽत्र सर्व विप्रवपुर्धराः ॥ २३३ ते यूयं तारयध्वं मां संसारार्णवतो द्विजाः । आगता सम पुण्येन पूर्तकर्मप्रसाधकाः ॥२३४ कूर्मश्च मकरश्चैव सौवर्णस्तत्र कारयेत् ।
मोनाश्च रासभाश्चैव ताम्रा ददुरकाः स्मृताः ॥ २३५ जलकुञ्जर-गोधाश्च सैसास्तत्र प्रकल्पयेत् ।
अन्येऽनि जलजास्तत्र शक्तितस्तान्प्रकल्पयेत् ॥२३६ इमं पुण्यं प्रशस्तं च तडागादिविधि नरः । वापी-कूप-तडागादौ कारयेत् ब्राह्मणैर्युधैः ॥ २३७ खातयित्वा तडागादि स्वभावाच्छाठ्यवर्जितः । ’ मानत्रः क्रोडति स्वर्गे यावदिन्द्राश्चतुर्दश ॥ २३८
ऽध्यायः ]
लक्ष- होमविधिवर्णनम् ।
एतद्विधानं विदधाति भक्त्या खातेषु सर्वषु तडागकेषु ।
[[६२७]]
सोमुत्रकामै परिपूर्ण हो भुकं धरित्र्यामिह सर्वभोगान् ॥२३६ वदन्ति केचिद्वरुगम्य लोकं प्रयाति भोगा. वकस्य भुङ्क्ते ॥ भुक्त्वा चिरं तत्र पुनर्धरित्र्यां नरे व्रत मेति पराशरोक्तिः ॥ २४०
इति तडागादिप्रतिष्ठाविधिवर्णनम् ।
॥ अथ लक्ष - होमविधिवर्णनम् ॥
अथातः सम्प्रवक्ष्यामि द्विजेन्द्राः श्रूयतामितः । लक्षहोमविधिं पुण्यं कोटिहोमविधिं ततः ॥ २४१ स्वयंर्यगुनाच प्रागरमत्तातं पितामहः ।
तमिमं सम्प्रवक्ष्यामि श्रूयतां पापनाशनम् ॥ २४२ ये चेह ब्राह्मणाः कार्या भूमिर्वा यत्र मण्डपम् । समिधो याश्च ये मन्त्रा अन्यच्च तत्र यद्भवेत् ॥२४३ लक्षहोममिमं विप्राः कश्यम नं निबोधत ।
युग्माश्च ऋत्विजः कार्या ब्राह्मणा ये विपश्चितः ॥ २४४
नियमत्रतसंपन्ना सहिताः पार्थिवेन तु ।
।
नित्यं जपरता ये च नियोज्यास्तादृशा द्विजाः ॥ २४५
कन्द-मूल- फलाहारा दधि-क्षीराशिनोऽपि च । प्रागुद्दीच्यां समे देशे स्थण्डिलं यत्र कारयेत् ॥ २४६ तत्र वेदी कुत पञ्चहस्तप्रमाणिकाम् । दक्षिणोत्तर आयामे त्रिंशत्तु पूर्वपश्चि मे ॥२४७
[[६२८]]
वृहत्पराशरस्मृतिः ।
[ एकादशो-
कुण्डानि खनितव्यानि अङ्गुलान्येकविंशतिः । निधापयेद्धिरण्यं च रत्नानि विविधानि च ॥ २४८ सिकतोपरि दातव्या तत्राप्यग्निं समिन्धयेत् । ग्रहांश्चैव सनक्षत्रान् दिशि प्रच्यां समर्चयेत् ॥ २४६ अवदानविधानेन स्थालीपाकं समर्पयेत् । आज्यभागाहुतीहु त्वा नवाहुत्या च होमयेत् ॥ २५० अग्निं सोमं तथा सूर्य विष्णुं चैव प्रजापतिम् । विश्वेदेवान् महेन्द्रं च मित्रं स्विष्टकृतं तथा ॥ २५१ दधि - मधु- घृताक्तानां समिधां चैव याज्ञिकाः । होमयेच सहस्र
ं तु मंत्रेश्चैव यथाक्रमम् ॥ २५२ चतुर्विंशति गायत्र्या मानस्तोकेति पट् तथा । त्रिंशत् ग्रहादिमन्त्रैश्च चत्वारश्चैव वैष्णवैः ॥२५३ कूष्माण्डैर्जुहुयात्पश्व चिकिरेद्वाथ षोडश । जुहुयाद्दशसहस्राणि जातवेदस इत्यृचा ॥२५४ तथा पञ्चसहस्राणि जहुयादिन्द्रदैवतेः । हुते शतसहस्रं तु अभिषेक विधापयेत् ॥ २५५ पुण्याभिषेके यत्त्रोक्तं तत्प्रदाय शुभं भवेत् । अथ षोडशभिः कुम्भैः सहिरण्य. समङ्गलैः ॥ २५६ सर्वोषधिसमायुक्तैर्नानारत्नविभूषितैः ।
अभिषेकं तत. कुर्यात्मानमन्त्रैर्यथोचितैः ॥ २५७ समा’ते तु ततस्तस्मिन् प्रधाना दक्षिणाः स्मृताः । गजाश्वरथ यानानि भूमिं वागानि च ॥२५८
ऽध्यायः ]
कोटिहोमविधिवर्णनम् ।
अन्नं च गोशतं हेम त्विजां चैव दक्षिणा । वृषणैकादशनाथ दत्तत्र्या दश धेनवः ॥ २५६ स्वशक्त्यातः प्रदातव्यं वित्तशाठ्यं न कारयेत् । एवं कृते तु यत्किञ्चित् ग्रहपीडासमुद्भवम् ॥ २६० भौममाकाशगं वापि अरिष्टं यच्च जायते । तत्सर्वं लक्ष होमेन प्रशमं याति निश्चितम् ॥ २६१ शान्तिर्भवति पुष्टिश्च बलं तेजः प्रवद्ध ते । वृष्टिर्भवति राष्ट्रं च सर्वोपद्रवसंक्षयः ॥२६२
इति लक्षहोमविधिवर्णनम् ।
॥ अथ कोटिहोमविधिवर्णनम् ॥
अथातः सम्प्रवक्ष्यामि कोटिहोमविधिं द्विजाः । श्रूयतामादरेणैषः सर्वकामफलप्रदः ॥ २६३ सानुष्ठाना द्विजाः प्रोक्ता ऋत्विजो यागकर्मणि । विधिज्ञाश्चैव मन्त्रज्ञाः स्वदारनिरताश्च ये ॥ २६४ वरणीया विशेषेण ग्रहयागक्रियाविदः । एकाङ्गविकलो विप्रो धन-धान्यापहारकः ॥ २६५ सर्वाङ्ग विकलो यस्तु यजमानं हिनस्ति सः । तस्मात्सर्वप्रयत्नेन वेदाङ्गविधिकोविदाः ॥२६६ प्रकतंत्र्या विशेषण ग्रहयज्ञविदो द्विजाः । कार्यश्चैव प्रयत्नेन ग्रहयज्ञश्च वै द्विजैः ॥ २६७
[[५६]]
[[६२६]]
[[६६०]]
बृहस्पराशरस्मृतिः ।
[ एकादशो-
अध्येता चैव मन्त्राणां ऋचामष्टोत्तरंशतम् । स एव ऋत्विग् विज्ञेयः सर्वकामफलप्रदः ॥ २६८ आवाहनीयो यत्नेन प्रणिपत्य मुहुर्मुहुः । ग्रहाः फलन्तु नागाश्च सुराश्चैव नरेश्वराः ॥२६६ एवं कृते तु यत्किञ्चित् ग्रहपीडासमुद्भवम् । तत्सवं नाशयेद्दुःखं कृतघ्नसौहृदं यथा ॥ २७० अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयम्भुवा 1 आहुतीभिः प्रयत्नेन दक्षिणाभिः फलेन च ॥ २७१ पूर्ववद् प्रहदेवानां आवाहन - विसर्जने । होममन्त्रान्त एवोक्ताः स्नानं दानं तथैव च ॥ २७२ मण्डपस्य च वेद्याश्च विशेषं च निबोधत । कोटिहोमे चतुर्हस्तं चतुर्हस्तायतं पुनः ॥ २७३ योनिवक्त्रद्वयोपेतं तदप्याहुस्त्रिमेखलम् । द्वथङ्गुनोच्छ्रिता कार्या प्रथमा मेखला बुधैः ॥२७४ त्र्यङ्गुलैरुद्धृता तद्वद्वितीया मेखला स्मृता ।
उच्छ्राये मेखला या तु तृतीया चतुरङ्गुला ॥२७५
दूधगुलस्तत्र विस्तारः पूर्वयोरेव शस्यते ।
[[1]]
वितस्तिमात्रा योनिः स्यात्वट् - सप्ताङ्गुलविस्तृता ॥२७६
कूर्मपृष्ठोद्धृता मध्ये पार्श्वतश्चांगुलोच्छ्रिता ।
गजोष्ठसदृशा तद्वदायामछिद्रसंयुता ॥ २७७
एतत्सर्वेषु कुण्डेषु योनिलक्षणमीरितम् ।
मेखलोपरि सर्वत्र अश्वत्थपत्रसभिभा ॥२७८ऽध्यायः ]
कोटिहोमविधिवर्णनम ।
वेदी च कोटिहोमे स्यात् वितस्तीनां चतुष्टयम् । चतुरस्रा समा तद्वत्त्रिभिर्विप्रैः समावृता ॥२७६ विप्रप्रमाण पूर्वोक्तं वेदिकायास्तथोच्छ्रयः । ततः पोडशहम्तः स्यान्मण्डपश्च चतुर्मुखः ॥२८० पूर्वद्वारेऽपि संस्थाप्य बह्न चं वेदपारगम् ।
[[८]]
यजुर्वेदं तथा याम्ये पश्चिमं सामवेदिनम् ॥२८१ अथर्ववेदिनं तद्वदुत्तरे स्थापयेद्बुधः ।
अष्टौ तु होमकाः कार्या वेद-वेदाङ्गवेदिनः ॥ २८२ एवं द्वादश विप्राणां वस्त्रमाल्यानुलेपनैः । पूर्ववत्पूजनं कृत्वा सर्वाभरणभूषणैः ॥२८३
रात्रिसूक्तं च सौरं च पावमानं तु मङ्गलम् । पूर्वतो बह्वचः शान्ति पावमानमुदङ्मुखम ॥२८४ सूक्तं रौद्रं च सौम्यश्च कूष्माण्डं शान्तिमेव च । पाठयेदक्षिणे द्वारे यजुर्वेदिनमुत्तमम् ॥ २८५ सौपर्णमथ वैराजमाग्नेयीं रुद्रसंहिताम् । पञ्चभिः सप्तभिर्वाथ होमः कार्यश्च पूर्ववत् ॥ २८६
स्नाने दाने च ये मन्त्रास्त एव द्विजसत्तमाः । ज्येष्ठसाम तथा शान्ति छन्दोगः पश्चिमे जपेत् ॥२८७ स्वविधानं तथा शान्तिमथर्वोत्तरतो जपेत् । वसोर्धाराविधानं तु लक्ष होमवदिष्यते ।
अनेन विधिना यश्च ग्रहपूजां समाचरेत् ॥२८८
[[६३१]]
[[६३२]]
वृहत्पराशरस्मृतिः ।
सर्वान् कामानवाप्नोति ततो विष्णुपुरं व्रजेत् । यः पठेत् शृणुयाद्वापि ग्रहयागमिमं नरः ॥ २८६ सर्वपापविनिर्मुक्तः स गच्छेद्वैष्णवं पदम । अयमेवसहस्रं च दश चाष्टौ च धर्मवित् ॥ २६० कृत्वा यत्फलमाप्नोति कोटिहोमात्तदश्नुते । ब्रह्महत्यासहस्राणि भ्रणहत्यार्बुदानि च ।
।
नश्यन्ति कोटिहोमेन स्वयम्भुवचनं यथा ॥ २६१
[ एकादशो-
प्रपेदिरे येऽस्य पितामहाद्यः श्वभ्राणि पापेन गरीयसा तान् । उधृत्य नाकं स नयेद्धि सर्वान् यः कोटिहोमं नृपति करोति ॥ २६२ राष्ट्रं मनोवाञ्छितवृष्टियुक्तं धान्यैश्च रत्नैः पशुभिः समेतम् । निर्द्वन्द्वनी रोगमदस्यु तस्य यो लक्षकोटीहवनं विदध्यात् ॥ २६३ यो लक्षकोटि विदधाति भूभृत् तद्वन्नरो लक्षशतं जुहोति । प्रत्यन्दमानोति स दीर्घमायुर्भुङ्क्तं सपत्नान्विजयी धरित्रीम ॥२६४ यो ब्रह्मचाती गुरुदारगामी ग्रामादिदाहात् घ्र वपापयुक्तः । पापैरपैः पुष्यो विमुक्तः स कोटि होमाद्विवुत्त्रमेति ॥ २६५ तस्मात्तदा भूग्नयो विदभ्रृष्टि प्रजासौख्यबलस्य पुष्य । आयुः प्रवृद्धय विजयाय कीर्त्यै लनादिहोमं ग्रह्यागमेतम् ॥ २६६
इति कोटिहोम विधिवर्णनम् ।
॥ अथ पुत्रार्थ पुरुषसूक्तविधानवर्णनम् ॥
अथान्यत्सम्प्रवक्ष्यामि विधिं पावनमुत्तमम् । अस्मत्तातप्रतितोऽयं रघुपौत्रस्य धीमतः ॥ २६७
ऽध्यायः ]
पुत्रार्थपुरुषसूक्तविधानवर्णनम् ।
अनपत्यस्य पुत्रार्थमकरोद्वैभाण्डिकः स्वयम् ।
सहस्रशीर्षसूक्तस्य विधानं चरुपाककृत् ॥ २६८ यैयनृपैः कृतं पूर्वमन्यरपि द्विजोत्तमैः । उपासितानि सद्भत्त्या श्रोत्रियैः श्रुतिपारगैः ॥ २६६ आत्मविद्भिर्निराहारैः श्रौतिभिमंत्रवित्तमैः । सिध्यन्ति सर्वमन्त्राणि विधिविद्भिर्द्विजोत्तमैः ॥३०० क्रियमाणाः क्रियाः सर्वाः सिध्यन्ति व्रतचारिभिः । न पाठान्न धनात् स्नानादात्मनः प्रतिपादनात् ॥३०१ प्राक्तनात्कर्मणः पुंसां सर्वाः सिध्यन्ति सिद्धयः । शुक्लपक्षे शुभ वारे शुभनक्षत्रगोचरे ॥ ३८२ द्वादश्यां पुत्रकामो यश्च कुर्वीत वैष्णवम् । दम्पत्योरुपवासः म्यादेकादश्यां सुरालये ॥ ३०३ ऋग्भिः पोडशभिः सम्यगर्चयित्वा जनार्दनम् । चरुं पुरुषसूक्तंन श्रपयेत्पुत्रकाम्यया ॥ ३०४ प्राप्नुयाद् वैष्णवं पुत्रं चिरायुं सन्ततिक्षमम् ॥३०५ द्वादश्यां द्वादश चरून् विधिवन्निर्वपेद्विजः । यः करोति महायागं विष्णुलोकं स गच्छति ॥ ३०६ हुत्वाऽऽज्यं विधिवत्पवं ऋग्भिः षोडशभिस्तथा । समिधोऽश्वत्थवृक्षस्य हुत्वाज्यं जुहुयात्पुनः ॥३०७ उपस्थानं ततः कुर्यादुद्ध्यात्वा तु मधुसूदनम् । हविर्होमं ततः कृत्वा दद्यात्पभ्व घृताहुतीः ॥३०८
[[६३३]]
[[૪]]
वृहत्पराशरस्मृतिः ।
कामप्रदं नमस्कृत्य नारी नारायणं पतिम् ।
[ एकादशो-
सम्प्राश्य च हवि. शेषं वसेल्लघ्वाशनी गृहे ॥ ३०६ ततः कृत्वा इदं कर्म कर्तव्यं द्विजतर्पणम् । रजः स्त्रीपु निवर्तेत यावद्द्रभं न विन्दति ॥ ३१० असूता मृतपुत्रा वा या च कन्याः प्रसूयते । क्षिप्रं सा जनयेत्पुत्रं पराशरवचो यथा ॥ ३११ होमान्ते दक्षिणां दद्यात् गृहं वामम्तथा तिलान् । भूमिं हिरण्यं रत्नानि यथा सम्भवमेव वा ॥ ३१२ यः सिद्धमन्त्रः सततं द्विजेन्द्रः सम्पूज्य विष्णुं विधिवत्सुतार्थी । इमं विधानं विदधानि सम्यक् स पुत्रमाप्नोति हरेः प्रसादात् ॥३१३
इति पुत्रार्थं पुरुषसूक्तविधानवर्णनम् ।
॥ अथ शान्तिविधिवर्णनम् ॥
अथातः सन्प्रवक्ष्यामि प्रहमन्त्राधिदैवतम् ।
आषं छन्दश्च यज्ज्ञानात्कर्म स्यात्सफलं कृतम् ॥३१४ आकृष्णेनेति मन्त्रयेऽस्मिन्दैवत्यं सविता महत । ऋषिर्हिरण्यस्तूपाख्य स्त्रिष्टुप् छन्दः प्रकीर्तितम् ॥३१५ आप्यायस्वंति सोमात्र देवतं गौतमो मुनिः । गायत्री छन्द उद्दिष्टं विनियोगो यथेप्सितम् ॥३१६ अमिर्मूर्धेति मन्त्रोऽत्र दैवतं भौम उच्यते ।
विरूपाक्षो मुनिर्धीमान् छन्दो गायत्रमिष्यते ॥ ३१७
ऽध्यायः ]
शान्तिविधिवर्णनम् ।
उद्बुध्यस्वेति मन्त्रस्य बुधश्चैव तु दैवतम । मुनिर्बुधश्च मन्तव्यत्रिष्टुप् छन्दः प्रकीर्तितम् ॥३१८ बृहस्पते अतीत्यत्र देवतापि बृहस्पतिः ।
आर्षं गृत्स्मदोऽस्येति छन्दस्त्रिष्टुप् प्रकीर्तितम् ॥३१६ शुक्रः शुशुक्वेति हीत्यत्र शुक्र इत्यधिदेवतम् । शुक्रस्यापि तथाषं च विराट् छन्दः प्रकीर्तितम् ॥ ३२० शन्नो देवीति चेत्यत्र शनिदैवतमुच्यते ।
सिन्धुर्नाम ऋषिर्विद्वान् छन्दो गायत्रमुच्यते ॥ ३२१ काण्डात काण्डादिति राहुदैवतं हि तदुच्यते । ऋषिः प्रजापतिः प्रोक्तोऽनुष्टुप् छन्दः प्रकीर्तितः ॥ ३२२ केतुं कृण्वन्निति प्रोक्तं दैवतं केतुरेव हि । मधुच्छन्दस आषं च गायत्रं छन्द एव हि ॥ ३२३ स्योना पृथिवीति मन्त्रस्य स्कन्दश्च देवतास्मृता । आर्ष मेधातिथिश्चात्र स्वयम्भूर्देवतं परम ॥३२४ भर्गाख्यश्च मुनिश्चात्र बृहती छन्द उच्यते । इन्द्रकुत्सेति दैवत्यं इन्द्र एव स्मृतो बुधैः ॥ ३२५ आप कुत्सस्य चामुत्र त्रिष्टुप् छन्दः प्रकीर्तितम् । यस्मिवृक्षेति वाह्यत्र यमो वै देवता परा ॥ ३२६ ऋषिस्तु कुण्डलोमा च त्रिष्टुप् छन्दः स्मरेद्बुधः । ब्रह्मजज्ञानमित्यत्र कालो वै दैवतं महत् ॥ ३२७ मुनिर्धमतनुर्नाम त्रिष्टुप् छन्दोऽभिधीयते ।
आयातमिति च ह्यस्यां चित्रमस्तु देवतम् ॥३२८
[[१३५]]
[[६३६]]
वृहत्पराशरस्मृतिः ।
[ एकादशो-
आषं तु वामदेवोऽस्य त्रिष्टुप्छन्दो बुधैर्मतम् । अग्निं दूतमिति ह्यस्यां मग्निर्वै देवता स्मृता ॥ ३२६ आषं मेधातिथिर्नाम छन्दो गायत्रमेव हि । अप्सुमे सोम इत्यत्र सोमं वै दैवतं स्मरेत ॥३३० मेधातिथिरिहाप्यार्पमनुप् छन्द उच्यते । पुरुषसूक्तस्य दैवत्यं पुरुप एव मतं बुधैः ॥ ३३१ भूमिपृथिव्यन्तरिक्ष मित्यत्र दैवतं क्षितिः । ऋषिः शातातपो ह्यत्र छन्दश्चानुष्टुवुच्यते ॥३३२ आपं नारायणस्येह छन्दञ्चानुटु चित्यपि । इन्द्रायें दो मरुत्वते मरुन्वान्देवतं महत् ॥३३३ आषं तु काश्यपस्येह गायत्रं च्छन्द एव ह । ममत्वंतमिति ह्यत्र सुरेन्द्रो देवता मता ॥३३४ अत्रापि कश्यपम्यापं गायत्रं छन्द एव हि । उत्तानपर्णइत्यत्र इद्रो देवतमुच्यते ॥३३५ आषं साङ्ख्यस्य चात्रोक्तं मनुष्टुप् छन्द इत्यपि । प्रजापते इति ह्यत्र देवता च प्रजापतिः ॥३३६ हिरण्यगर्भस्याषं तु त्रिष्टुप् छन्दो मतं बुधैः ।
आयं गौरिति चैवात्र देवता फणिनो मता ॥३३७ सर्पराजो मुनिस्तत्र गायत्रं छन्द उच्यते । एष ब्रह्मा ऋत्विज इति ब्रह्मदेवोऽधिदैवतम् । ऋषिर्वै वामदेवोऽत्र गायत्रं छन्द इष्यते ॥३३८
ऽध्यायः ]
शान्तिविधिवर्णनम् ।
[[६३७]]
आतून इन्द्रवृत्रहं सुरेन्द्रः सगणेश्वरः ।
तथाषं वामदेवस्य गायत्रं छन्द इत्यपि ॥ ३३६ जातवेदस इत्यत्र जातवेदास्तु दैवतम । काश्यपस्यार्षमत्रापि छन्दोऽनुष्टुप् प्रकीर्तितम ॥३४० अनोनियुद्भिरित्यस्मिन्वायुर्देव तमुच्यते । आर्षमत्र वसिस्य अनुष्टुप् छन्द उच्यते ॥३४१ नमः प्रकाशदैवत्यं मुनिप्रोक्तं प्रजापतिः । छन्दो गायत्रमित्युक्तं विनियोगो यथेप्मितम् ॥ ३४२ एषो उपेति चाप्यत्र अश्विनौ दैवते स्मरेत । प्रस्कण्ववार्षमत्रापि गायत्रं च्छन्द उत्तमम ॥३४३ मरुतो यस्य हि क्षये ममदैवतमुच्यते ।
गौतमं च मुनि विद्धि वन्दश्च प्रथमं मुने ॥ ३४४ छन्दस्तथापं सहदैवतेन ज्ञात्वा द्विजो य कुते विधानम । वेदोक्तमर्थं प्रददाति सम्यक् सर्व फलं कर्तुरिहाग्यमुत्र ॥ ३४५ यो लक्षहोमं यदि कोटिहोम राजा विदध्यात्प्रतिवर्षमेकम् । राष्ट्र सुवृष्टिविजय सुभक्ष्यमारोग्यता म्यात्मुकृतम्य वृद्धिः ॥ ३४६ भवन्ति पुत्राः शुभवंशवृष्यै दीर्घायुपो राजहिता धरिष्याम् । सुकीर्तिमन्तो जयिनोऽपि राज्ये प्रतापवन्तो रवि - चन्द्रतुल्याः ॥
इति श्रीवृहत्पाराशरीये धर्मशास्त्र शान्तिविधिर्नाम
एकादशोऽध्यायः ।
-8***-
[[६३८]]
वृहत्पराशर स्मृतिः ।
[ द्वादशो-
द्वादशोऽध्यायः ।
अथ राजधर्मवर्णनम् ।
अथातो नृपतेर्धर्मं वक्ष्यामि हितकाम्यया । पराशरात् श्रुतं विप्रा वक्ष्यमाणं निबोधत ॥ १ भूभृद्भूमौ परो देवः पूज्योऽसौ परदेववत् । स विधातापि सर्वस्य रक्षिता शासिता च सः ॥ २ इन्द्राऽग्नि-यम-वित्तेशा ऽनलेश मातरिश्वनः । शीतांशुस्तीव्रभासश्च ब्रह्मादयोऽसृजन्नृपम् ॥३ नृपो वेधा नृपः शम्भुनृ पोर्को विष्टरश्रवाः । दाता हर्ता नृपः कर्ता नृणां कर्मानुसारतः ॥४ नासृक्षद्यदि राजानं नापि दण्डं व्यधास्यत । नामंस्यतो यदा चैपा का भविष्यज्जगत्स्थितिः ! ॥५ नाग्रहीष्यन् पुरोडाशान् मनुष्य - पितृ-देवताः । नाभविष्यत् श्व - काकानां भागधेयं हुतं हविः ॥६ निर्गुणोऽपि यथा स्त्रीणां सदा पूज्यः पतिर्भवेत् । तथा राजापि लोकानां पूज्यः स्याद्विगुणोऽपिसन् ॥७ स्वकर्मस्थान्नृपो लोकान् पिता पुत्रानिवौरसान् । शिक्षयेत् धर्मविद्दण्डैरधर्मकारिणो जनान् ॥८ नरान् दण्डधृतः कुर्यात् धर्मज्ञानार्थसाधकान् । समर्थानश्वपत्यादीन्शूरान् स्वामिहितोद्यतान् ॥६
ऽध्यायः ]
राजधर्मवर्णनम् ।
शुचीन् प्राज्ञान् स्वधर्मज्ञान् विप्रान् मुद्राकरान् हितान् । लेखकानपि कायस्थान् लेख्यकृत्य विचक्षणान् ॥१० अमात्यान मन्त्रिणो दूतान् यथोदितपुरोहितान् । प्राड्विवाकान् समस्तान् वा हिताश्च रक्षकानपि ॥ १४ शूरानथ शुचीन् प्राज्ञान् परविश्वासकारिणः । सर्वस्थानेषु चाध्यक्षान सत्कृत्य वेदिनी परे ॥१ महायनः कुमाराणामन्तः पुरस्य रक्षणं ।
वृद्धान् कञ्चुकिनो विप्रान् शुचीनान्याश्च वीरकान् ॥१३ यथोदितानि दुर्गाणि कुर्यात्तेष्वपि रक्षणम् । उद्वाहमुदितं स्त्रीणां यौनसम्बन्धकारणात ॥१४ सुगुप्रकृत्य विज्ञानमात्मरक्षा प्रयत्नतः । प्रातः सन्ध्यार्चनादूर्ध्व गूढपुंवचनश्रुतिः ॥१५ यथोक्तकार्ये राज्ये च नित्यं कुर्यात्परीक्षणम् । कोशेभाश्वरथादीनां हेतीनां वर्मणामपि ॥१६ कुर्यादालोकनं नित्यमनालस्यो महीपतिः । अमात्य मन्त्रि- योद्धृणां सम्मानं नित्यशोऽपि च ॥१७
देवानं सदा होमः शान्तिश्च वृद्धसेवनम् ।
यज्ञो दानं तथोत्पातसमये शान्तयोऽपि च ॥ १८ वर्जनं विषयासक्तेर्भूमिदानं सशासनम् ।
प्राणिवर्जितदेशे च नीतिज्ञो मन्त्रकृद्भवेत् ॥१६ नित्यमुत्साइयुक्तश्च विजिगीषुरुदायुधः । सदालङ्कारयुक्तध सदव प्रियभाषकः ॥ २०
[[६३६]]
[[६४०]]
वृहत्पराशरस्मृतिः ।
सदा प्रियहिते युक्तः पूज्यो नाकेऽप्यसौ नृपः । सदा साधपु सन्मानं विपरीतेषु घातनम् ॥२१
द्वादशो-
दण्डं दम्भेषु कुर्वाणो राजा यज्ञफलं लभेत् । वृद्धान् साधून् द्विजान् मौलान् यो न सन्मानयेन्नृपः ॥२२ पीडां करोति चामीपां राजा शीघ्रं क्षयं व्रजेत् । यस्तु सन्मानयेदेतान् देवान् विप्रांश्च पूजयेत् ॥२३ पराजयेत्सोप्य रीस्तान् दीर्घायुरपि जायते । पीड्यमानां प्रजां रक्षेत्कायस्थैश्चोरतस्करैः ॥२४ धान्येक्षुतृणतोयैश्व सम्पन्नं परमण्डलम् । हीनवाहनपुंस्त्वं तु मत्वैतत्प्रविशेन्नृपः ॥ २५ मासे महसि यात्रार्थी कृतपुण्याहघोषवान् । विधिवद्यानकं कुर्याद्यद्व्यूहैरक्षयन् बलम ॥२६ यत्राचलसरोरक्षा वृक्षरक्षा तु यत्र च । वासं तत्रविधायैव रात्रौ रक्षेत्रकं बलम् ॥२७ चतुर्दिक्षु च सैन्यस्य निशि शूरान् धनुर्धरान् । स्वयं राजा नियुञ्जीत समीक्ष्य भूबलाबलम् ॥२८ राज्यस्य षड् गुणान् मत्वा सन्धिविग्रहयानकान् । आसनं संशयं द्वैधं सम्यक् ज्ञात्वा समाचरेत् ॥ २६ निर्भेदं स्वबलं कुर्यान्निहन्याद्भिन्नचेतनम् । दासीकर्मकरान् दासान् भिन्दतो रक्षयेन्नृपः ॥३० निकटस्थायिनो नित्यं जानन्ति चेष्टितं प्रभोः ।
तस्मात्ते यत्नतो रक्ष्या भेदमूलं यतस्त्वमी ॥३१ऽध्यायः ]
राजधर्मवर्णनम् ।
एते परस्य यत्नेन भेनीयास्ततोऽपरे ।
यथा परो न जानाति तथा भेदं समाचरेत् ॥३२ परामात्य - प्रधानानां व्यलीकदूतशब्दितम् । उत्थापयेत्स्व सेनायाः स्याद्यथा चित्तभेदना ॥३३ परसैन्ये बहु गतान्त्रिविधान् कुहकानपि । कारयेत् गरदानादि वह्निपाताननेकशः ॥३४ स्वसैन्ये गरदान दि नृपो यत्नेन रक्षयेत् । नियुज्य विज्ञः पुरुषानुक्तं सर्वं निशामयेत् ॥३५ अन्तर्भी रून् बहिः शूरान् सानिकान् ब्राह्मणोत्तमान् । मर्मज्ञान् कुलसम्पन्नान् बिभृयादात्मसन्निधौ ॥३६
प्रविशन् परदेशे च प्रजां स्त्रीकृत्य संविशेत् । उत्सार्य मार्गतो लोकान् दूरीकृत्य व्रजेन्नृपः ॥ ३७ शस्यादि दाहयेत्सवं यवसानि धनानि च । भिन्द्यात्सर्वनिपानानि प्राकारान्यरिखास्तथा ॥३८ अपसृत्य समादाय भूमिं साधारणां नृपः । गमयेत् वार्तिकान्मासानासाद्य स्वधरां नृपः ॥ ३६ न युद्धमाश्रयेत्प्राज्ञा न कुर्यात्स्वबलक्षयम् । साम्ना भेदेन दानेन त्रिभिरेव वशं नयेत् ॥४० वदन्ति सर्वे नीतिज्ञा दण्डस्याज्जगतिका गतिः । तद्वजं वशमायाति तथा शत्रुस्तथा चरेत् ॥४१ आक्रान्ता दर्भसूच्योऽपि भधुद्वद्योऽपि भूतलम् । नातो यतेत युद्धाय युद्धसिद्धिरसिद्धिवत् ॥४२
[[६४१]]
[[६४२]]
वृहत्पराशरस्मृतिः ।
स्त्रधरात्यन्तिके देशे युद्धमिच्छेत्स्वधर्मवित् ।
[ द्वादशो-
न तु प्रविश्य तद्दूरभूमिं युद्धं समाचरेत् ॥ ४३ किश्चित्सुप्तेषु लोकेषु क्षपायां युद्धमाचरेत् । सुधीरव्यसने चापि योधयेत्परसैनिकैः ॥ ४४ व्यूहैर्व्यूह्य यथोक्तैर्वा रक्षां कृत्वापि चात्मनः । सैनिकांस्तान् समस्तांश्च प्रेरयेद्युद्धविन्नृपः ॥४५ सम्मानयेत्समस्तांश्च योद्धृन्सेनापतीन्नृपः । अन्विच्छन् जयलक्ष्मीं च नीतिज्ञः पृथिवीपतिः ॥४६ स्नेहेनापि समं पल्ल्या शय्यास्थोऽपि हि मानवः । पुष्पैरपि न युध्येत युद्धं तत्र विपत्तये ॥४७ हीनं परबलं मत्वा निरुत्साहमनादरम् । समस्तबलसंयुक्तः स्वयमुत्थाप्य योधयेत् ॥४८ न हन्यात् मुक्तकेशं च नाशयेन्न निरायुधम । पराङ्मुखं न पतितं न तवास्मीति वादिनम् ॥४६ अन्यानपि निषिद्धांश्च न हन्यात्धर्मविन्नृपः । हत्वा च नरकं यान्ति भ्रूणहत्यासमैनसा ॥५० पराङ्मुखीकृते सैन्ये यो युद्धान्न निवर्तते ।
।
तत्पादानीष्टितुल्यानि भूम्यथं स्वामिनोऽपि वा ॥५१ शिरोहतस्य ये वक्त्रे विशन्ति रक्तबिन्दवः । सोमपानेन ते तुल्या इति वासिष्ठोऽब्रवीत् ॥५२ युध्यन्ते भूभृतो ये च भूम्यर्थमेकचेतसः । इष्टस्तैर्बहुभियोगैरेवं यान्ति त्रिविष्टपम् ॥५३
Sध्यायः ]
राजधर्मवर्णनम् ।
एष एव परो धर्मो नृपतेर्यद्रणार्जितम् ।
विप्रेभ्यो दीयते वित्तं प्रजाभ्यश्चाभयं तथा ॥ ५४ यदा तु वशतां याति स देशो न्यायतोऽर्जितः । तद्देशव्यवहारेण यथावत्परिपालयेत् ॥५५ रणार्जितेन वित्तेन राजा कुर्यान्मखान्द्विजान् । अर्चयेद्विधवद्राजा साधून् सम्मानयेदपि ॥५६ मातुलः श्वशुरो बन्धुरन्यो वापि हि यो जितः । अदण्ड्यः कोऽपि नास्त्येव राजनीतिविदो विदुः ॥५७ सुसहायमतिप्रौढं शूरं प्राज्ञानुरागदम ।
सोत्साहं विजिगीपुं च मत्वा राजा नियामयेन ॥५८ मत्वा चार्थवतः सर्वान् युक्तानप्यर्थकृद्भवेन । सार्थकांश्च नियुञ्जीत सर्वतोऽर्थमुपार्जयेत् ॥५६ सर्वाण्यपि च वित्तानि यतस्ततोऽपि राजनि । प्रविशतीव तोयानि सर्वाण्यपि हि सागरे ॥ ६० नृपस्यापदि जातायां देवद्रव्याणि कोशवत् । आदाय रक्षेदात्मानं पुनस्तत्र च निःक्षिपेत् ॥६१ वित्तं वार्धुषिकाणां तु कदर्यस्यापि यद्धनम् । पाषण्डि-गणिकावित्तं हरनार्तो न किल्विषी ॥ ६२ देव-ब्राह्मण - पाषण्डिगणका गणिकादयः । वणिग्वार्धुषिकाः सर्वे स्वम्थे राजनि सुस्थिताः ॥ ६३ यथा वह्निश्च गोमांसं दहन्नपि न पातकी । आददानस्तथा राजा धनमात न किल्विषी ॥ ६४
[[६४३]]
[[६४४]]
वृहत्पराशरस्मृतिः
गृहीयात्सर्वदा राजा करानपीडयन्प्रजाः ।
[ द्वादशो-
म्तोके स्तोकान् पृथक् साम्ना स भुङ्क्तं सुचिरं धराम् ॥६५ सदा चोद्यमिना भाव्यं नृपेण विजिपीपुणा । विजिगीपुर्नृपो नान्यैः कदाचिदभिभूयते ॥ ६६ तदेवं हृदि सन्धाय धृतोत्साहो नृपो भवेत् ।
दव- पौरुपसंयोगो सर्वाः सिध्यन्ति सिद्धयः ॥ ६७ नैकेन चक्रेग रथः प्रयाति नचैकपक्षो दिवि याति पक्षी । एवं हि देवन न केवलेन पुंसोऽर्थसिद्धिनरकारतो वा ॥ ६८ केचिद्धि देवस्य तु केवलस्य प्राधान्यमिच्छन्ति मतिप्रवीणाः । पुंस्कारयुक्तस्य नरस्य केचिदप्यत्र इष्टा पुरुषार्थसिद्धिः ॥६६
अत्युद्यमी क्रियत एव च यः श्रमी च शौर्यान्वितश्च गुणवांश्च सुधीश्व विद्वान् । प्राप्नोति नैव विधिना स पराङमुग्वेन
स्वोयोदरस्य परिपूरणमन्नमात्रम् ॥ ७०
शुभ्राणि हर्म्याणि वराङ्गनाश्च नानाप्रकारो विभवो नरस्य । उर्वीपतित्वं (च) नृपकारता (नुकारता ) च सबं हि मंक्षु (मञ्जु) क्षयमेति दैवान् ॥७१
केषां (एपी) हि पुंसा महता हि देवात्स्थानस्थितानामपि चार्थसिद्धिः । केपां प्रभुत्वं बहुजीवितं च एको हि देवो बलवानतोऽत्र ॥७२ पुं-स्त्रीप्रयोगादथशुक्र- शोणितान को देहमध्ये विदधाति गर्भं । स्त्रीणां तु तद्विप्र न चापि पुंसां सर्वाणि चैषां (मनुजेश्वरं) ननु देवचेष्टा ॥ कासां तु गर्भस्य न सम्भवोऽस्ति केषां च शुक्रं ननु वीर्यहीनम् । दधाति गर्भ ननु कापि दैवात् काश्चित्तु गभ न दधाति दैवात् ॥७४
ऽध्यायः ]
राजधर्मवर्णनम् ।
[[६४५]]
धाता विधाता निज कर्मयोगात विधेमत्व भीष्टुं त्वनुभावभाव्यम् । देवासुराणां सह दैत्यकानां स ह्येव कर्ता च मनूद्भवानाम् ॥७५ दैवात् मघोनोऽपि सहस्रमगां देवाद्धिमांशोः क्षयगेगिताऽभून । दैवात्पयोलवणोदकत्वं दैवाद्भवेचितरा च वृष्टिः ॥ ७६ यदप्यमुष्मान्न परोम्ति देवान कुर्यात्तथापीह नगे नृकारम् । उद्दीपयेत्कर्मकरो नृकागदुद्दीपितं कर्म करोति लक्ष्मीः ॥७७ दैवेन केचित्प्रसभेन केचित्केचिन्नृकारेण नरस्य चार्थाः । सिध्यन्ति यत्नेन विधीयमानास्तेपा प्रधानं नरकारमाहुः ॥७८ स्वामिः प्रधानं नय-दुर्ग-कोशान् दण्डं च मित्राणि च नीतिविज्ञाः । अङ्गानि राज्यम्य वदन्ति सप्त सप्ताङ्गपूर्वो नृपतिर्वराभुक् ॥७६ दुर्वृत्त - सद्वृत्त नरेषु दण्डं राजा विधत्तं निपुणोऽर्थसिध्यै । दण्डस्य मत्त्रोर्जितवित्तमत्वं पुंसोऽर्थहीनस्य दमं तु हीनम् ॥८० अन्यायतो ये तु जनं नरेशाः सम्पीड्य वित्तानि हरन्ति लोभात् । तत्क्रोधवह्नौ परिदग्धदेहा गतायुपस्ते तु भवन्ति भूपाः ॥८१ दण्डो महान् मध्यमकाधमम्तु मानं तु तेषां त्रसरेणुकादि । सोऽशीतिसाहस्रपणो महान् स्यादर्वाद्धको तम्य तदर्धको वा ॥८२ सर्वार्थपादश्च हरश्च दण्डौ पात्यौ नृपेणेति वदन्ति सन्तः । पाण्यादिपच्छेदन-मारणं च निर्वासनं राष्ट्रत एव सद्यः ॥ ८३ ज्ञात्वापराधं मनुजस्य स्यस्तु देशं च कालं च वपुवयश्च । दंडयेषु दण्डं विदधाति भूभृन् साम्यं स बध्नाति पुरन्दरस्य ॥८४ यः शास्त्रदृष्टेन पथा नरेशो दण्डं विदध्याद्विधिवत्करांश्च । सोऽतीव कार्ति वितनोति गुवमायुश्च दीर्घ दिवि देवभोगान् ८५
[[६०]]
[[६४६]]
वृहत्पराशरस्मृतिः ।
[ द्वादशो-
यस्त्यक्तमार्गाणि कुलानि राजा श्रेणीश्च जातीश्च गगांश्च लोकान् । आनीय मार्गे विदधाति धर्म्ये नाकेऽपि गीर्वाणगणैः प्रशस्यते ॥८६
यः स्वधर्मे स्थितो राजा प्रजाधर्मेण पालयेत् ।
सर्वकामसमृद्धात्मा विष्णुलोकमवाप्नुयात् ॥८७
हर्यश्व- वह्नि-यम-वित्तनाथ - शीतांशुरूपाणि हि बिभ्रतीह । सर्वेऽपि भूपास्त्विह पथ्वरूपास्तं कथ्यमानं शृणुत द्विजेन्द्राः ॥८८ यदा जिगीषुर्धृतशस्त्रपाणि स्त्विषु समालम्ब्य स विद्धसैन्यः । सर्वान् सपत्नानिह जेतुकामस्तदा स हर्यश्व इवेह भाति ॥ ८६ अकारणात्कारणतोऽपि चैप प्रजां दहेत्कोपसमिद्धरोचिः । यदा तदेनं नृपनीतिविज्ञास्तनूनपातं प्रवदन्ति भूपम् ॥६० धर्मासनस्थः श्रुतिशास्त्रदृष्ट्या शुभाशुभाचारविचारकृत्स्यात् । धर्म्येषु दानं स्वकृत्सु दण्डं तदा ऽवनीशस्त्रिह धर्मराजः ॥ ६१ यदा स्वमात्य-द्विज याचकादीन् प्रहृष्टचित्तस्तु यथोचितेन । धनप्रदानेन करोति हृष्टान् भूभृत्तदाऽसौ द्रविणेशत्स्यात् ॥६२ समस्तशीतांशुगुणप्रयुक्तो यदा प्रजामेप शुभाय पश्येत् । प्रसन्न मूर्तिर्गतमत्सरः सन् तदोच्यते सोम इति क्षितीशः ॥ ६३ आज्ञा नृपाणां परमं हि तेजो यस्तां न मन्येत स शस्त्रवध्यः । ब्रूयाच कुर्याच्च वदेश्च भूभृत्कार्यं तदैवं भुवि सर्वलोकैः ॥६४ दुर्धर्षतिग्मांशुसमानदीप्तेब्रूयान् मनुष्यः परुषं नृपस्य ।
यस्तस्य तेजोऽप्यवमन्यमानः सद्यः स पंचत्वमुपैति पापात् ॥६४ योsहाय सर्व विदधाति पश्येत् शृणोति जानाति चकास्ति शास्ति । करतस्य चाज्ञां न बिभर्ति राज्ञः समस्तदेवांशभवो हि यस्मात् ॥६५
इति राजधर्मवर्णनम् ।
ऽध्यायः ]
वानप्रस्थभिक्षुधर्मवर्णनम् ।
॥ अथ वानप्रस्थ भिक्षुधर्मवर्णनम् ॥
अथ विप्रो वनं गच्छेद्विना वा सहभार्यया । जितेन्द्रियो वसेत्तत्र नित्यं श्रौताद्मिकर्मकृत् ॥६६ वन्यैर्मुन्यशनैर्मेध्यैः श्यामा- नीवार - कङ्गुभिः । कन्द-मूल- फलैः शाकैः स्नेहश्च फलसम्भवैः ॥६७ सायं प्रातच जुहुयात्त्रिकालं स्नानमाचरेत् । चर्मचीवरवासाः स्यात् श्मश्रु-लोम - जटाधरः ॥६८ पितॄंश्च तर्पयेन्नित्यं देवांश्चाजत्रमर्चयेत् । अर्चयेदतिथीन्नित्यं तथा भृन्यांश्च पोपयेत् ॥६६ न किञ्चित्प्रतिगृह्णीयात्स्वाध्यायं नित्यमाचरेत् । सर्वसत्वहितो दान्तः शान्तश्चाध्यात्म चिन्तकः ॥१०० सन्तुष्टस्वान्तको नित्यं दानशीलः सदा द्विजः । कचिद्भेदं समास्थाय सुवृत्त्या वर्तयेत्सदा ॥ १०१ एकाहिकं तु कुर्वीत मासिकं वाथ सध्वयम् । षाण्मासिकं चाब्दिकं बा यज्ञार्थं च वने वसन् ॥१०२ त्यक्त्वा तदाश्विने मासि स्थानमन्यत्समाश्रयेत् । यथावदग्निहोत्र ं तु समिदाज्यैस्तु पालयेत् ॥ १०३ चान्द्र-कृच्छ्र- पराकाद्यैः पक्ष - मासोपवासकैः । त्रिरागैरेकराचैश्व आश्रमस्थः क्षिपेद्बुधः ॥ १०४ तिष्ठेन्नाप्रति कस्तत्र स्वप्यादधस्तथा निशि । अतन्द्रितो भवेन्नित्यं वासरं प्रपदैर्नयेत् ॥ १०५
[[६४७]]
[[६४८]]
वृहत्पराशरस्मृतिः ।
योगाभ्यासरतो नित्यं स्थानाऽऽसन - विहारवान् । हेमन्त - ग्रीष्म-वर्पासु जलाग्न्याकाशमाश्रयेत् ॥१०६ दन्तोलूखलिको वापि कालपक्कभुगेव वा । म्याद्वाश्मकुट्टको विप्रः फलस्नेहैश्च कर्मकृत् ॥१०७ शत्रौ मित्रे समस्वान्तस्तथैव सुख-दुःखयोः । ममदृष्टिश्च सर्वेषु न विशेद्वनगह्वरम् १०८ म्लेच्छव्याप्तानि सर्वाणि वनानि स्युः कलौ युगे ।
।
[ द्वादशो-
न भूपाः शासितारश्च ग्रामोपान्ते वसेदतः ॥ १०६ ग्रामाश्च नगरादेशास्तथारण्य - वनानि च । क्षितीश रक्षितान्येव सर्वेषां फलदानि हि ॥ ११० प्रथमं भूपतेस्तस्मात्कृत्यं शंसेद् द्विजाग्रजाः । योगं वाऽरण्यवासं वा कुर्वीत तदनुज्ञया ॥ १११ सुत्रामा - ऽनलवायूनां यमस्येन्दोर्विवस्वतः । ईश - वित्तशयोर्ब्रह्ममात्राभ्यो निर्मितो नृपः ॥ ११२ पारत्रिकं तु यत्किञ्चिद्यत्किञ्चिदैहिकं तथा । नृपाज्ञया द्विजातीनां तत्सवं सिध्यति ध्रुवम् ॥ ११३
॥ नृपतेः प्रथमं तस्मात् साधोर्यज्ञादिकं द्विजः । रक्षार्थ कथयित्वा तु यथा कार्य समापयेत् ॥ ११४ धेनुः पूर्वं वसिष्ठस्य ह्यासीदुर्वाससोऽपि च । वनवासाश्रमस्थस्य वह्निकार्याय तां श्रयेत् ॥११५ फलस्नेहा यदा न स्युः कालवैगुण्यतो द्विजाः । तदा गोदुग्ध-सर्पिभ्यामग्निकार्य समापयेत् ॥ ११६
Sध्यायः ]
वानप्रस्थ भिक्षु वर्मवर्णनम् ।
[[६४६]]
तथा सर्वेषु कालेषु तथा सर्वाश्रमेषु च ।
गोदुग्धादि पवित्रं स्यात्सर्वकार्येषु सत्तमाः ॥११७ वनवासिषु सर्वेषु भिक्षां कुर्याद्वनाश्रमी । तदा सर्व प्रकुर्वीत पितृदेवार्चनादिकम् ॥१२१८ अष्टौ भुञ्जीत वा प्रासान् ग्रामादाहृत्य यत्नवान् । वासनासंक्षयं गच्छेदनिलाश प्रागुदी चिकः ११६ विधाय विप्रो वनवासधर्मान् सर्वानिमानुक्तविधिक्रमेग । स शोव्य पापानि वपुर्विशोध्य ब्रह्माधिगच्छेत्परमं द्विजेन्द्राः ॥ १२०
आश्रमत्रयधर्मान्वा चरित्वा प्राक् द्विजान्तन. । द्वयस्य वा तत पश्चाच्चतुर्थाश्रममाचरेत ॥१२० द्विजाग्रजो यदा पश्येत् वलीपलितमात्मनः । उपरामस्तथाक्षाणां क्षेण्यं कामस्य सदृद्विजाः ॥१२१ समीक्ष्य पुत्र पौत्रं वा दृष्टा वा दुहितुः सुतम । अधीत्य विधिवद्वेदान् कृत्वा यज्ञान्विधानतः ॥ १२२ निश्वयं मनसः कृत्वा चतुर्थाश्रममाविशत् । प्राजापत्यां विधायेष्टिं वनाद्वा सद्मनोऽपि वा ॥१२३ समस्तदक्षिणायुक्तान् सर्ववेदांस्ततश्च तान् । अमीनात्मनि चारोप्य दण्डान् विधिवदाहरेत ॥ १२४ किविद्भेदं समास्थाय तद्धर्मेण च वर्तयेत् ।
बाङ्-मनः- कायदण्डाश्च तथा सत्वादयो गुणाः ॥१२५ trist नियता यस्य स त्रिदण्डीति कथ्यते । कमण्डल्वक्षमाला च भिक्षापात्रमथापरम् ॥१२६
[[६५०]]
वृहत्पराशरस्मृतिः ।
[ द्वादशो-
काषायवासः कौपीनं कार्यार्थ वस्त्रमेव वा ।
शिखा यज्ञोपवीतं च दण्डानां त्रितयं तथा ॥ १२७ द्विकालं विधिवत्नानं भिक्षया चैकभोजनम् । शुद्ध वृत्तिविप्रेषु सत्कर्मनिरतेषु च ॥ १२८
भिक्षाचर्या यतेः प्रोक्ता व्रतचर्या तथैव च ।
।
असम्भाषश्च शूद्रेण तथा च शिल्पि - कारुभिः ॥ १२६ अवक्तृत्वं तथा स्त्रीभिः कृत्यमेतद्यतेः स्मृतम् । न कदम्बकसंरोधो नित्यमेकान्तशीलता ॥ १३० सदैव प्राणसंरोधः मदेवाध्यात्मचि . तनम् । मृद्वेणु दार्बलाब्वश्ममयं पात्रं यते स्मृतम् ॥१३१ शुद्धिरद्भिरमीपां तु गोवालैश्वावघर्षणम् ।
।
न दण्डैर्न च दण्डेन विना वा तेन वा तथा ॥ ८३२
मोक्षावाप्तिर्भवेत्पुंसां किंत्वस्याध्यात्मचिन्तनात् । समत्वं सुख- दुग्वेषु तथा विद्वेष- रागयोः ॥ १३३ आत्मान्ययोः समानत्वमजस्रं चात्मचिन्तनम् ॥१३४ यतिभिस्त्रिभिरेकत्र द्वाभ्यां पञ्चभिरेव वा ।
न स्थातव्यं कदाचित्स्यात्तिष्ठन्तो नाशमाप्नुयुः ॥१३५ बहुत्वं यत्र भिक्षूणां वार्तास्तत्र विचित्रकाः । स्नेह-पैशून्य- मात्सर्य भिक्षूणां नृपतेरपि ॥१३६ तस्मादेकान्तशीलेन भवितव्यं तपोर्थिना । आत्माभ्यासरतश्चैव ब्रह्मप्राप्त्यभिलाषुकः ॥१३७ऽध्यायः ]
वानप्रस्थभिक्षुधर्मवर्णनम् ।
[[६५१]]
त्रिदण्डग्रहणादेव यतित्वं नैव जायते ।
अध्यात्मयोगयुक्तस्य ब्रह्मावाप्तिर्भवेद्यतः ।
जितेन्द्रियो हि दण्डार्हो युवा न स्यात्तथा सरुक् ॥ १३८ युवा नीरुक तथा भिक्षुरात्मवृद्धिप्रदूषकः । भिक्षुर्गेहे वसन्यत्र कामार्त्तोऽन्योऽभिगच्छति ॥१३६ तत्सद्मनाथं वृद्धान्वै सह तेनैव पातयेत् । एकरात्रं तु निवसेद्भिर्यम्य गृहाङ्गणे ॥१४० तस्य वै तारयेत्पूर्वान् विंशतिं पितृमातृतः । भिक्षुर्यस्यान्नभुक् ब्रह्मयोगाभ्यासरतो भवेत् ॥ १४१ परिणामश्च योगेन कृतकृत्यो गृही भवेत् । निर्ममो निरहङ्कारः सर्वसहः प्रसन्नधीः ॥१४२ ब्रह्मण्यात्मनि गोमायौ मुनौ म्लेच्छे च तुल्यदृक् ।
चिह्नानि घात्रा कथितानि धत्ते वर्तत यो वै विहितेन भिक्षुः । योऽध्यात्मवेदी सततं जिताक्षः स ब्रह्मकाये गमनं करोति ॥ १४३
वनस्थ - भिक्षु वर्मान्व यानुवाच पराशरः ।
यथावदभिधायैतान् वक्षाम्याश्रमभेदकान् ॥१४४
इति वानप्रस्थ भिक्षुधर्मवर्णनम् ।
॥ अथ चतुर्णामाश्रमाणां भेदवर्णनम् ॥
अथातः सम्प्रवक्ष्यामि भेदमाश्रमसम्भवम् ।
ब्रह्मचर्यादिकानां तु याथातथ्यं निबोधत ॥ १४५
[[६५२]]
वृहत्पराशरम्मृतिः ।
चतुर्णामाश्रमाणां तु भेदो दृष्टो मनीषिभिः । प्रत्येकशो वदाम्येनं श्रुणुध्वं द्विजसत्तमाः ॥१४६ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एतद्भेदान् प्रवक्ष्यामि श्रणुध्वं पापनाशनम् ॥ १४७ चतुर्धा ब्रह्मचारी स्याद्गायत्रो वैधसस्तथा । प्राजापत्यो बृहति लक्षणानि पृथक् पृथक् ॥१४८ अक्षारलवणाशी स्यात् गायत्र्यभ्यास तत्परः । वर्तते भिक्षया नित्यं गायत्रोऽयं प्रकीर्तितः ॥ १४६ चतुर्धा द्वादशाद्वानि योऽधीयानचतुःश्रुतीः । भिक्षया ब्रह्मचर्येण तिष्ठेत ब्राह्मः स उच्यते ॥ १५० गुरोर्वा गुरुपुत्रम्य तत्पत्या वापि मन्निधौ । यो वसेद्भ्यसन ज्ञानं ब्रह्मवारी म नैष्ठिकः । १५१ ऋतुकालाभिगामी सन् परस्त्रीं पर्व वर्जयेन् । वेदानध्येति भिक्षामुक् प्राजापत्योऽयमुच्यते ॥ १५२ गृहस्थस्तु चतुर्भेदो बार्ता- शालीनवृत्तिकौ । यायावरस्तथा वान्यो घोरमन्या सिकस्तथा ॥ १५३ कृषि - गोरक्ष-वाणिज्यैः कुर्वन सर्वाः क्रिया द्विजः । विहतैरात्मविद्येश्व वातवृत्तिः स उच्यते ॥ १५४ ददात्यध्येति यजते याजयेन्न च पाठयेत । कुर्यात्कर्माप्रतिग्राही शालीनो ध्यानकृद् द्विजः ॥ १५५ उक्तः सन् कारयेदन्यांक्रियां कुर्यात्प्रतिग्रहम् । पाठयेश्च तथात्मानं यायावरः स उच्यते ॥ १५६
[ द्वादशो-
ऽध्यायः 1
चतुर्णामाश्रमाणां भेदवर्णनम् ।
तिष्ठेद्यश्च शिलोच्च्ाभ्यामुद्धृताभिश्च उच्यते ।
आत्मविश्च क्रियाः कुर्यात् घोरसंन्यासिकः स्मृतः ॥ १५७ वानप्रस्थश्चतुर्भेदो वैखानस उदुम्बरः ।
वालखिल्यो वनेवासी तल्लक्षणमधोच्यते ॥ १५८
फलैर्मूलैरकृष्टान्नैरनिकम वने वसन् ।
कुर्यात्पञ्चमहायज्ञान् स वैखानस आत्मवित् ॥१५६ प्रात प्रदिगानीतर्फला कृष्टाशनेन्धनैः । उदुम्बरो मतो ज्ञानी पश्चयज्ञाग्निकर्मकृत् ॥१६० चतुरो न्यामकृदग्निकार्यं कुर्वन्वने वसन् । फलस्नेहैर्वनान्नैश्च बहुभिः श्रुतिचोदितैः ॥१६१ उद्धृत्य परिपूत। द्भिस्तथाऽयाचितवृत्तिकः । फलैर्वन्यैर्वनान्नश्च फेनपः पञ्चयज्ञकृत ॥१.६२ वनस्थो वालखिल्यो यो धत्तं वल्कलचीवरम् । अग्निकार्यकृदात्मज्ञ ऊर्जान्ते संचितं त्यजन् ॥१६३ चतुर्भेदः परिब्राट् स्यात् कुटीचक- बहूदकौ । हंसाः परमहंसाश्च वक्ष्यन्ते ते पृथक् पृथक् ॥ १६४ पुत्रस्य भ्रातृपुत्रस्य भ्रातृ-दौहित्रयोरपि । तदुपातकुटीस्थो यः स भैक्ष्यवृत्तिभुक् द्विजः ॥१६५ प्रतिचर्या कृत सोऽपि यो वामः पूतवारिपः ।
तथा त्रिदण्डभृत शान्त आत्मज्ञः स कुटीचकः ॥१६६ ज्ञेयो बहूदको नाम यः पवित्रितपादुकः । शिखासनोपवीतानि धातुकाषायवस्त्रभृत् ॥१६७
[[६५३]]
[[६५४]]
वृहत्पराशरस्मृतिः ।
[ द्वादशो-
साधुवृत्तिर्द्विजौकस्सु भिक्षा भुगात्मचिन्तकः । बहूदकस्त्वयं ज्ञेयो यः परिव्राट् त्रिदण्डभृत् ॥१६८ एकदण्डधरा हंसा शिखोपवीतधारिणः । वार्याधारकराः शान्ता भूतानामभयङ्कराः १६६ वसन्त्येकक्षणां ग्रामे नगरे पश्वशर्वरीः । कर्षयन्तो व्रतैर्देहमात्मज्ञानरताः सदा ॥ १७० एकदण्डधरा मुण्डा कन्था - कौपीनवाससः । : अव्यक्तलिङ्गिनोऽव्यक्ता सर्वदैव च मौनिनः ॥ १७१ शिखादिरहिताः शान्ता उन्मत्तवेषधारिणः । भम-शून्यामरौकःसु वासिनो ब्रह्मचिन्तकाः ॥ १७२ एते परमहंसा वैनैष्ठिका ब्रह्मभिक्षवः । उक्तास्तद्गतभेदज्ञैरात्मनः प्रार्थनाकराः ॥ १७३ यो ब्रह्मचर्यव्रतचारिभेदो भेदो गृहस्थस्य तथैव यश्च । योऽरण्यवासिद्विजकर्मभेदो यतेस्तथा नैष्ठिकमुक्तिभेदाः ॥ १७४
चतुर्णामाश्रमाणां तु भेदमुक्त्वा पराशरः । अथाब्रवीत् द्विजा योगं श्रुणुध्वं पापनाशनम् ॥१७५ मुमुक्षवो विरज्यन्ते देहाद्गेहादितो यथा । शरीरज्ञास्तथा प्राहुः परब्रह्मलयं गमाः ॥ १७६ ख- वाय्वग्न्यंबु धात्रीभिरारब्धमाशुनाशि च । तन्मुख्यगुणसंयुक्तं तत्पश्वाक्षालयं त्यजेत् ॥ १७७ शुक्र- शोणितसंयोगात्स्त्रीकोष्ठपाकसम्भवम् । दुःखेन दशभिर्मासैर्व्यायतं भूरिदोहदैः ॥१७८
ऽध्यायः ]
योगवर्णनम् ।
जनन्या दोहदाभावे गर्भस्थस्यापि दुःखिताः ।
अत्यन्तं जायमानस्य योनियन्त्र निपीडनात् ॥१७६ जातस्य बालरोगाद्यैर्योगिनीग्रहदोषतः । देहिनः सर्वदा दुःखं दंत जन्मादिकैर्महैः ॥ १८० एवं बाल्ये महद्दुखं कौमार्ये यौवनेऽपि च । खिया विनापि साधं वा दारिद्र्यश्वर्ययोरपि ॥ १८१ क्षुत्तभ्यां प्रथमे वित्तरक्षणाद्यैर्द्वितीयके । वृद्धत्वेचानयोदु :खं तस्माद्दु मयं वपुः ॥१८२ मांसेन लेपितं बद्ध स्नायुभिः कुल्यस स्वयम् । मेदो मेहनसम्पूर्ण कफ-पित्त-वसाश्रयम् ॥१८३ अमेध्यपूर्ण भस्त्रावत्सवं वै सर्वदाऽशुचि ।
मृत्स्नया स्नान गधाद्यैर्निर्गन्धि क्रियते बहिः ॥ १८४ दुर्गन्धं सर्वरन्ध्रेषु स्वघ्राणोद्वंगकारकम् ।
सततं स्रवतेऽमेध्यं किं देहस्योच्यते शुभम् ॥१८५ यददग्धं भवेन्मृत्स्ना दग्धं भस्मत्वमाप्नुयात् । मृतस्य दृश्यते किञ्चित् तृष्णाको परतस्य तु ॥ १८६ क इहोत्पद्यते विद्वान् को वेह म्रियते पुनः । यन्त्रोपममिदं धीमान् वायुत्यक्तं मृतं भवेत् ॥ १८७ पृथगात्मा पृथक स्वान्तं पृथक खानि दशापि च । पृथक् पृथक् च भूतानि पृथक् तेषां गुणोत्करः ॥ १८८ पृथक् प्राणादिवायुश्च तद्गतिश्च पृथक् पृथक् ।
पृथक् पृथगिति ह्येतत् शरीरं किमिहोच्यते ॥ १८६
६५५.
[[६५६]]
वृहस्पराशरस्मृतिः ।
[ द्वादशो-
आरम्भकाणि यान्येव तेषु यान्ति तदंशकाः । आत्मा चान्यदवाप्नोति यातनीय पुनर्वपुः ॥ १६० यः पश्येत् शृणुयाजित्रेत स्वदेद्विद्य त्स्मरेद्वदेत् । स्वप्याच्च जागृयागच्छेद्भिन्द्यात् गायेत् जपेत् पठेत् ॥१६१ गृह्णीयादर्पयेद्दद्याज्जायेत जनयेदपि ।
सोऽस्ति कश्चित्परो देहाद्यो देवीति निगद्यते ॥ १६२ नैकवेत्स्यान्न देहेऽम्मिन् प्रत्यभिज्ञा कथं भवेन् । एकदृक्- दृष्टिरूपस्य पुनरन्येन पश्यतः ॥ १६३ अद्राक्षं यदहं वस्तु तदैवतत्स्पृशाम्यथ ।
यथाऽस्त्राक्षं च पश्यामि प्रतीतिर्यस्य जायते ॥ १६४ दर्शन - स्पर्शनाभ्यां च ग्रहणादेकवस्तुनः ।
अस्ति ह्यात्मा परो देहात्तथा देहास्ति कश्चन ॥ १६५ गृही च गृहमध्यस्थो भनं किंचित्समाचरेत् । देहे क्षतादिसंरोहात्ता देयस्ति कश्चन ॥ १६६ ज्ञानयोगफलेनायं कर्मयोगफलेन च ।
स एव भुज्यते कुर्वन् उद्देशौ तस्य ताविति ॥ १६७ तार्यते कर्मणा चायं बध्यते कर्मणापि च । उभयथापि नैवात्र प्रत्यक्षं दृश्यते द्विजाः ॥ १६८ मायावित्वं च मूकत्वमतिरिक्तांगता क्रमात् । अवाक्त्वं धान्यहर्तॄणां पैशून्ये पूतिनासिता ॥१६६ भरतो वर्णकैश्वित्रैः स्वदेहं चित्रयेद्यथा । कुर्वन्नानाविधं कर्म तथात्मा कर्मजास्तनूः ॥२००
ऽध्यायः ]
योगवर्णनम् ।
जरायुजाण्डजादीनि वपूंषि योऽयही निजैः । कर्मभिर्वर्णभेदैश्च चित्तदौर्गत्यरुग्युतः ॥ २०१
बधिर - कीब- निःस्वा ऽन्धा जायन्ते पुरुषाधमाः । निरेनसः पुनर्भूत्वा विद्वद्विप्रकुलेषु च ॥ २०२ महाकुलेषु चान्येषु जायन्ते लक्षणान्विताः । धनवन्तः प्रजावन्तो विद्यावन्तो यशस्विनः ॥ २०३ रूप-सौभाग्यसंयुक्ताः सर्वेषामुपकारकाः । ब्रह्माभ्यासरताः शान्ताः पट्कर्मनिरताम्तथा ॥ २०४ पञ्चयज्ञकृतो नित्यमग्निष्टोमादिषु स्थिताः । द्विजोपास्तिकरा नित्यं गुर्वाचार्यादिपूजकाः ॥ २०५ चतुराश्रमधर्माणां सेविनः समदर्शिनः ।
गुणैः सवः समायुक्ताम्तेजस्विनो जनप्रियाः ॥ २०६ एवंभूताश्च ये विप्रास्तेषां विष्णु सदान्तिके । विष्णुश्च सर्वदैवत्यस्तस्माद्विष्णुमना भवेत् ॥ २०७ देवतार्चाकृतां नित्यं गुरूपास्तिकृतां तथा । ब्रह्मैवाभ्यसतां सम्यक् ब्रह्मसान्निध्यमिष्यते ॥ २०८ उपास्यं तत्सदा ब्रह्म यावत्साधकतां वहेत् । बहायासाद्विदित्वा यत्संसरेन्नेह मानवः ॥ २०६ वदन्ति ब्रह्मवेत्तारो ब्रह्माभ्यासमनेकशः । ब्रह्मापि द्विविधं धीमन्नपरं परमेव ॥ २१० समत्वं परमं ब्रह्म शब्दब्रह्मेति कीर्तितम् ।
प्रणवाख्यं त्रिरूपं तत्प्रागेव हि विशेषत ॥२११
[[६५७]]
[[६५८]]
वृहत्पराशरस्मृतिः ।
प्राणायामैस्तदभ्यस्य पूरकाद्यैश्च वायुभिः । पूरक - कुम्भकौ वायू रेचकस्तु तृतीयकः ॥ २१२ येन व्यावर्तते वायुर्नासाग्रान्निः सरेद्वहिः । पूरयेत् श्वासयोगेन पूरकं तद्विदो विदुः ॥ २१३ आपूर्य निश्चलीकृत्य यः कश्चिद्धायतेऽनिलः । श्वासयोगं वदन्त्येनं कवयः कुम्भकं त्विति ॥ २१४ ब्रह्मध्यानसमायुक्तं वायुं यो न वहिर्नयेत् ।
कुम्भकः पवनः स स्याद्यो वहिर्नैव मुध्यते ॥ २१५ रेचकं तद्विदुस्तज्ज्ञा रेध्यते यः शनैः शनैः । न वेगाद्रेचयेद्वायुं सर्वथा विघ्नभाग् भवेत् ॥ २१६ मोचयेन्मन्दमन्दं तु बहिः स्यात्कुम्भितो यथा । नासाप्रस्थितपाणिस्तु सशिरश्चालनक्षमम् ॥ २१७ अनिलं रेचयेद्योगी न मन्दं नातिवेगतः ।
न ज्ञायतेऽनिलो यस्य निःसरम् नासिकाप्रतः । २१८ यस्यास्ते कुम्भितोऽजस्रं प्राणयोगी स उच्यते । दीर्घायुस्त्वं परं ज्ञानं समरता योगसिद्धयः ॥ २१६ देहे तस्याऽवतिष्ठन्ति प्राणो येन वशीकृतः । यत्र तिष्ठति जीवःस्यान्निःसृतेमृत उच्यते ॥ २२० स किन्न धार्यते प्राणो ब्रह्माप्तिः सति यत्र तु । प्राण एवायमात्मास्ते प्राणो देहस्य वाहकः ॥२२१ शरीरान्निःसृते प्राणे नात्मा विग्रहवाहकः ।
[ द्वादशो-
ऽध्यायः ]
योगवर्णनम् ।
देहं त्यक्त्वा यदा जीवो बहिराकाशमास्थितः ॥ २२२ तदा निर्विषयो वायुर्भवेदत्र न संशयः । तदा स सर्वदेहेषु नासाग्रमास्थितः शिवः ॥ २२३ प्रत्यक्षः सर्वभूतानां तिष्ठते न च लक्ष्यते । यदा न श्वसते वायुस्तदा निष्फलमुच्यते ॥२२४ नाभिसंस्थं तु विज्ञाय जन्मबन्धाद्विमुच्यते । देहस्थः सर्व सत्वानां स जीवति शृणोति च ॥ २२५ धर्माधर्मेरवष्टब्धो देहे देहे व्यवस्थितः ।
स हत्पंकज संस्थस्तु अध उध्वं प्रधावति । २२६ धर्माधर्मैर्महापाशैर्गृहीतः सन् प्रवर्तते ।
[[1]]
उर्ध्वमुच्छ्रसते यावत्प्राणाख्यस्तु समीरणः ॥२२७ तावत्प्राणस्तु विज्ञेयो यावन्नासाग्रमास्थितः । अत्रस्थं निष्कलं ब्रह्म यावन्न श्वसिति द्विज ॥२२८ श्वासेन हि समायोगादाकाशात्पुनरागत’ । नासारन्ध्रसमालीनस्तदा निष्फलमुच्यते ॥ २२६ स जीव इति विख्यातः स विष्णुः स महेश्वरः । ध्यातव्या देवतास्तत्र क्रमेण पूरकादिषु ॥२३० विष्णु - ब्रह्मेश्वरास्तेषु स्थानेषु स्थानविद्विजैः । नीलपङ्कजवत् श्याममासीनं नाभिमध्यतः ॥ २३१ महात्मानं चतुर्बाहुं पूरके तु हरिं स्मरेत् । हृत्पद्म कुम्भके ध्यायेत् ब्रह्माणं पङ्कजासनम् ॥२३२ रक्तेन्दीवरवर्णाभं चतुर्वक्त्रं पितामहम् ।
[[६५६]]
[[६६०]]
बृहत्पराशरस्मृतिः ।
रेचके शङ्करं ध्यायेल्ललाटस्थं त्रिशूलिनम् ॥२३३ शुद्वस्फटिकसङ्काशं संसारार्णवतारकम् । एवं श्वसनसंरोधाद्देवतात्रयचिन्तनात् ॥२३४ अग्नि- वाय्वंभसंयोगादन्तरं शुध्यते त्रिभिः । निरोधादभवद्वायुस्तस्मादग्निस्ततो जलम् ॥२३५ इति त्रिदेवतायोगात् शुद्धयन्तेऽन्तः पुनर्द्विजाः । व्याहृतिप्रणवोपेताः प्राणायामास्तु षोडश ॥ २३६ अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः । प्रातरहि च सायं च पूरकं ब्रह्मणोऽन्तिकम् ॥२३७ रेचकेन तृतीयेन प्राप्नुयात्परमं पदम् ।
न प्राणेनाप्यपानेन वायुं वेगेन रेचयेत् ॥ २३८ प्रागुक्तेन प्रयोगेण मोचयेत्प्राणसंयमी ।
[ द्वादशो-
शरीरं च शिरोग्रीवा विद्वान् प्राणी च पद्वयम् ॥२३६ सर्वाङ्गं निश्चलं धार्यमापूर्य सर्वनाडिकाः ।
संवृत्याङ्गानि सर्वाणि कूर्मवध्यानकृद् द्विजः ॥२४० बद्धासनोऽचलाङ्गस्तु कुर्यादसु निरोधनम् ।
कृत्वा सुसंयमं विद्वान्विधिवत्समुपस्पृशेत् ॥२४१ अन्तरं शुध्यते यम्यात्तस्मादाचमनं स्मृतम् । इत्युक्तः प्राणसंरोधो देवतात्रयसंयुतः ॥२४२ त्रिमात्रः प्रणवस्तत्र ध्यातव्यः सर्वयोगिभिः । स्मर्यमाणस्य यातस्य विश्रान्ति स्यादमातृके ॥ २४३ तत्परं निष्फलं ज्ञानं तद्विदुर्ब्रह्मचिन्तकाः ।ऽध्यायः ]
प्रणवध्यानविधिवर्णनम् ।
मृदुमध्यान्त सत्वाच्च स्थूलसूक्ष्मानुभावतः ॥ २४४ त्रिविधं प्राणसंरोधं विदुस्तत्तत्ववेदिनः । क्रियमाणो विशेपेण प्रत्याहारोऽयमुच्यते ॥ २४ सर्व प्रागुक्तमेवास्य विशेपं च निबोधत । वाह्यं वायुं यथोत्थाय आकृष्य यच्छनैः शनैः ॥ २४६ निरुन्ध्याद्विधिवद्योगी प्रत्याहारः स उच्यते । व्याहृत्याऽभिमुग्वीकृत्य खानि यत्र निरुध्य च ॥ २४७ चिन्तयेन्निश्चलीकृत्य प्रत्याहारः म उच्यते ।
प्राणाद्या वायवः स्थूलाः सङ्कल्पाद्यास्तथाऽणवः ॥२४८ निरोद्धव्या दशाप्येते प्राणसंयमकारिभिः ।
वायुरेकोऽपि देहस्थः क्रियाभेदेन भिद्यते ॥ २४६ प्रकर्पेणासमन्ताच नयनादिक्रियाः स्मृताः ।
[[६६१]]
भविष्या - ऽतीतकालेभ्यः कर्मभ्यश्चाशुसंयमी ॥ २५० सर्वानिलांस्तथा ग्वानि निरुन्ध्यैकत्र धारयेन । स धीमान्वेदविद्विदान स योगी ब्रह्मवित्तमः ॥ २५१
स्थानं द्विजन्मा विधिवत्त्वजस्त्रमभ्यम्य संयाति विधेः परस्य । पराशरोक्तैर्वहुभिः प्रकारैरुक्तो विधिः प्राणनिरोवनस्य ॥ २५२ प्रत्याहारो विशेषस्तु प्रोक्तस्तस्यैव वित्तमाः । यद्भ्यम्याप्नुयाद्ब्रह्म सर्वदानंदमव्ययम् ॥ २५३ एतैस्तु पुनरावृत्तिः कदाचिदिह दृश्यते ।
संसृतिं नाप्नुयाद्येन शक्तिसूनुस्तदब्रवीत ॥२५४
[[६१]]
[[६६२]]
वृहत्पराशरस्मृतिः ।
उक्तस्तु संयमः पूर्वं त्रिविधो मलनाशनः ।
निबोधत चतुथं तु ध्यानं प्रणत्रवेधसः ॥ २५५ विधिवत्प्रणवध्यानमेकचित्तस्तु योऽभ्यसेत् ।
[ द्वादशो-
ब्रह्माभ्येति स मुक्तात्मा स योगी योगिनां वरः ॥ २५६ तद्धयानमसुसंरोधस्तुय सम्यगिहोच्यते ।
तदन्यथानपेक्षं च चित्तक्षेपविवर्जितम् ॥ २५७ चतुर्णामाश्रमाणां तु भेदमुक्त्वा पराशरः । अथाब्रवीद्विजा योगं श्रुणुध्वं पापनाशनम् ॥ २५८ तच्छान्तं निर्मलं शुद्धं ध्यातव्यं हृत्सरोरुहे । तद्वंद्ययं तद्वरेण्यं च बीजं मुक्तस्तदुच्यते ॥ २५६ सच्चित्य व्याहृतीः सम प्रणवाद्यास्तदन्तकाः । सम्यगुक्तमिदं ध्यात्वा परब्रह्मणि योजयेत् ॥ २६० हुतभुक् पवनो जीवस्त्रयोऽप्यते हृदि स्थिताः । एतत्सवं तु चैकत्र संस्मरेत् ध्यानकृद्विजः ॥ २६१ ॐकारवर्त्मनान उद्धृत्योपरि योजयेत् । योजयेत्सर्वमप्येतत्सिद्धयोगी स उच्यते ॥ २६२
शून्य भूतम्तु यत्प्राणः श्वासं जीवेति संज्ञितम् । यम्मादुत्पद्यते श्वासः पुनस्तत्र निवेशयेन ॥ २६३ आद्यं तं प्रणवं विद्वान् घटाकाशवदभ्यसेत् ।
स पश्येन्निर्मलं शुद्धं पुरुषं तमसंशयम् ॥२६४ अन्तर्वक्रो वहिः (सम्यक) सर्पन् सर्पवत्कुण्डलाकृतिः ।
ऽध्यायः ]
प्रणवध्यानविधिवर्णनम
ध्यातव्यः प्रणवस्तत्र मध्यगं धाम संस्मरेत् ॥२६५ स मात्रा स च बिन्दुश्च तदेव परमं पदम् । तदभ्यस्यं हि तज्ज्ञात्वा स तस्मिन्नंव लीयते ॥ २६६ प्रथमं प्रणवो व्यक्त स्त्र्यक्षरः परमाक्षरः । सर्वज्ञत्वमवाप्नोति प्राप्नोति परमं पदम् ॥२६७ पञ्चमं तु पदं विद्वान् तत्सार्धमवतिष्ठते । नादबिन्दुसमभ्यासात् प्राप्नुयात्परमं पदम् ॥ २६८ पदं प्राप्य निवर्तन्ते धाम स्वं स्वान्तमेव च । सर्वेऽप्यमातृका वर्णाः पुनस्तत्र विशन्ति च ॥ २६६ वर्णात्मा सन्नवर्णस्तु समस्तवर्ण जीवनम् । न दीर्घं नापि ह्रस्वं च न घोषं नाप्यघोषवत् ॥ २७० न विसर्ग न तद्धीनं नानुम्वारविपर्ययः । हृद्याकाशनिविष्टं यदचलत्वं प्रयाति चेत् ॥ २७१ ज्ञानयोगे त्रिषटिव बिभ्रतीत्यक्षराणि तु ।
तत्पदं योगिभिध्येयं व्योम यस्य तु मध्यगम् ॥ २७२
व्योमान्तं सततं ध्येयमनंताकाशमव्ययम् ।
चिन्तयामो वयं यद्वै धियो यो नः प्रचोदयात ॥२७३
एतद्ा त्रयीरूपमेतद्भर्गस्त्रयीमयम् ।
एषा सा परमा मुक्तिर्गत्वा यां न निवर्तते ॥ २७४
[[६६३]]
आदाय चापं प्रणवं च बाणं सन्ध्याय चात्मानमवेक्ष्य लक्ष्यम् । स तद्विधिं तत्र निवेश्य योगी प्राप्नोति नित्यं स तु मुक्तिकामः ॥ २७५
[[६६४]]
वृहत्पराशरस्मृतिः ।
[ द्वादशो-
उद्देशः किंचिदवादि विद्वन् ध्यानं विधेर्यत्वनिपूर्वकस्य ।
सर्व निधानं विधिवत्र सम्यक् वक्तुं समर्थो विधिरेव चाम्य ॥ २७६
इति प्रणव ध्यान विधिवर्णनम् ।
अथ ध्यानयोगवर्णनम् ।
अथान्यत्सम्वक्ष्यामि विधानं ध्यान कर्मणाम् । नानामतोदितं कार्यं परब्रह्मातिकारकम् ॥२७७ कर्मात्मकस्त्विह प्रोक्तः कः परात्मा परं च किम । वक्ष्यमाणमिदं विप्राः श्रृणुध्वं भक्तितत्पराः ॥ २७८ स्वीयेन कर्मणा येपां शरीरग्रहणं भवेत् । कर्मात्मानस्त उच्यन्ते निर्गता परमात्मनः ॥२७६ यं न स्पृशन्ति दुःग्वाद्यास्तथा मत्वादयो गुणाः । कादाचित्कं न कर्मान्ति परमात्मा ततः परम ॥२८० निष्ठा नाशौ न विद्यते गुणा यं न स्पृशन्ति हि । अजः सन् कथमेतम्मिल्लोके जातोऽभिधीयते ॥२८१ स्वात्मानमेव चात्मानं वेष्टयेत्कोशकारवत् । कर्मणैव प्रजातन्तु वाह्यम्वार्थविमोहितः ॥२८२ तम्माद्विवर्जयेत्कर्म स्वर्गादपि साधकम । संसस्वर्गतः कर्मक्षये स तु पुनर्यतः ॥ २८३ सीमैषा परमा विद्वन् ब्रह्मणः पात- मोक्षयोः । कर्मस्थानमियं धात्री कृतमत्रोपभुज्यते ॥ २८४
ऽध्यायः ]
ध्यानयोगवर्णनम् ।
वैदिकः कर्मयोगश्च दिवोश्यावर्तकः स तु ।
योनेहावृत्तिकृत्तं च ज्ञानयोगमतोऽभ्यसेन ॥ २८५ हृदि निःसृतनाडीना सहस्राणां द्विसप्ततिः । तन्मध्यावस्थितं तेजः शशिप्रभं विभाति यन ॥२८६ तन्मध्यमण्डले ह्यान्मा विधूमाचलदीपवत ।
स ज्ञातव्यो विदित्वा तं संसरेन पुनर्यतः ॥ २८७ पुढीभूतमधोवक्त्रं तत्द्धृत्पद्मं व्यवस्थितम् । नाभ्युत्थोदानवातेन कृत्वोवस्यं विकासयेत् ॥ २८८ विकास्य तस्य मध्यस्थमचलं दीपशिखंव तत तदृध्व निःसरच्छुभ्रं सूक्ष्मं तत्तु विचिन्तयेन ॥२८६ ललनाद्वारनिर्गच्छन्योगी मूर्ध्नि तु चिन्तयेत् । तावत्तु चिन्तयेद्य वन्निरालम्बत्व मृच्छति ॥ २६० निरालम्बं यहा ध्यानं कुर्वाणो निश्चलो भवेत् । तदा तदुच्यते ब्रह्म स योगी ब्रह्मवित्तमः ॥ २६१ तत्पदं च पदातीतं तन्प्राप्तौ मुक्त उच्यते ।
इति ध्यानं विधातत्र्यं मुक्तिकृत्सद्विजैर्द्विजाः ॥२६२ भूतानामात्मभूतस्य तानि सम्यक् प्रपश्यतः । विमुद्यन्त्यमरा मार्ग पदं किमपदस्य तु ॥ २६३ यो न तिष्ठति नो याति न किश्चित्सर्व एव यः । अवाग्यो वाङ्मयो यश्च सकलश्रुतिरश्रुतिः ॥ २६४ योऽप्यन्तिके दवीयांश्च योऽस्ति नास्ति स्वरूपकः । यस्य तत्त्वस्य संवित्तिः स तस्मिन्नेव लीयते ॥ २६५
[[६६५]]
[[६६६]]
वृहत्पराशरस्मृतिः ।
यस्तु सर्वाणि भूतानि पश्यत्यात्मगतानि तु । आत्मानं तेषु सर्वेषु ततो यो न विरज्यते ॥ २६६ सर्वभूतात्मभूतात्मा यत्र पश्यति धीमतिः । शोकमोहौ च किं तस्य ह्येकत्वमनुपश्यतः ॥ २६७ समाप्तावृत्तमादिर्यन्मन्त्र- ब्राह्मणयोद्विजाः ।
ॐ खं त्रह्मेति चाम्नायो दर्शकस्त्वेप वेधसः ॥ २६८ आत्मनाने बहूपाया उक्तास्तद्धि मनीषिभिः । नैस्तैः सर्वैः स मन्तव्यो ज्ञातत्र्यश्वोपदेशतः ॥ २६६ न वेदज्ञयता तस्य न शास्त्रैर्वहुभिः श्रुतैः । न यज्ञन जपैर्होमैः शौचैर्वाग्नितयापि च ॥३०० गुरूपदेशनो भक्त्या सम्यगभ्यासतस्तथा । ज्ञान्त्र्यः परमात्वैवं भक्तिकृत्तत्परेण च ॥३०१ ध्यानज्ञानस्य तद्भक्तेर्यत्र विश्रमते मनः । तदेवापादिशत्तस्य वस्तु ज्ञानोपदेशकम् ॥३०२ मनो यम्य निषण्णं तु जायते यत्र वस्तुनि । स तु ध्यायेत्तदेवेति यावत्स्यात्ध्यानसन्ततिः ॥ ३०३ तत्र ध्याने तु संलग्ने हरावात्मनि वा पुनः । ध्यानं योजयते योगी तं निरालम्वर्ता नयेत ॥ ३०४ योगशास्त्रपु यत्प्रोक्तं रहस्यारण्यकेषु च । तत्तथोपदिशद्धयानं ध्यायेदपि तथैव च ॥३०५ प्रवदन्त्यन्यथा केचित् शुभादिभेदतस्त्वतः ।
त्रैविध्यं विदुषो विद्वन् सिद्धिदं च परापरम् ॥३०६
[ द्वादशो-
ऽध्यायः ]
ध्यानयोगवर्णनम् ।
चित्तजं श्रुतिजं भावं भावनाभवमेव च । त्रविद्यमात्मना सिध्येद्योगाभ्यामफलप्रदम् ॥३०७ आत्मशक्तिः शिवश्चेति चैतन्यमिति संज्ञितम् । उत्तरोत्तरवैशिष्ट्याद्योगाभ्यासः प्रवर्तते ॥३०८ स एको निश्चलीभूत कर्मात्मा यमुपार्जितः । न विभेति स एकाकी परेषां जायते भयम् ॥ ३०६ तदेवं गतिभिब्रह्मध्यानं यस्यास्ति योगिनः । स विशेत्तमजं शान्तं कदाचित्संसरेन्न तु ॥ ३१० त्र्यम्बकश्च चतुर्वक्त्रश्चतुर्बाहुः परेश्वरः । एक एव महेशो वै तज्ज्ञेस्त्रिधति कीर्त्यते ॥ ३११ नाभिमध्यस्थितं विद्धि वस्तु विद्वन् सुनिर्मलम् । रविवद् भ्राजमानं तु काश्मिगणैर्द्विज ॥ ३१२ चिन्तयेत् हृदि मध्यस्यं दीप्तिमत्सूर्यमण्डलम् । तस्य मध्यगतः सोमो वह्निश्चन्द्रशिखो महान् ॥ ३१३ तन्मध्ये तु परं सूक्ष्मं तद्धयायेद्योगमात्मनः । तन्मध्ये चिन्तयेदेतद्वक्ष्यमाणक्रमेण तु ॥ ३१४ विन्दुमध्यगतो नादो नादमध्यगतो ध्वनिः । ध्वनिमध्यगतस्तारस्तारमध्यगतों शुमान् ॥३१५ तस्यमध्यगतं ब्रह्म शान्तं तस्य तु मध्यगम । परं पदं तु यच्छान्तं सम्यग्व्याहृत्य योजयेत् ॥३१६ जीवात्मा कायमध्यस्थस्तत्रापि देहवर्जितः ।
वक्त्र- नासापुटस्थस्तु भुञ्जीत विपयान् प्रभुः ॥ ३१७
[[६६७]]
[[६६८]]
वृहत्पराशरस्मृतिः ।
[ द्वादशो-
इत्येतदुध्यानमागं तु वदन्ति कवयो द्विजाः । केचिदन्येऽन्यथा ब्रूयु रूपं ब्रह्मविदो विधः ॥ ३१८
।
न नामापि हि दुःग्वस्य शर्म यत्र निरन्तरम् । ब्रह्मणो रूपमानन्दं तन्मुक्तावुपलभ्यते ॥३१६ सर्वव्यापी य एकस्तु यश्चानन्तश्च भावुकः ।
स मन्तव्योऽनरो ह्यात्मा सर्व व्याप्य च यः स्थितः ॥ ३२० एकं व्योम यथानंकं गृहाद्यैरुपलक्ष्यते ।
एको ह्यात्मा तथानेको जलागारेपु सूयवत ॥ ३२१ विश्वरूपो मणिर्यद्वन् वर्णान् गृह्णात्यनेकशः । उपाधितस्तथात्मैको नानादेहेषु कर्मतः ॥ ३२२ कलाकाष्ठादिरूपेण वर्तमानादिमंदकृत् ।
एकः कालो यथा नाना तथात्मैकोऽप्यनेकधा ॥ ३२३ देहमध्यस्थितं देवं यो न ध्यायति मूढधीः ।
सोऽङ्कलब्धं मधु त्यक्त्वा क्लेशायाज्ञो गिरिं व्रजेत् ॥ ३२४ यस्तीर्थयानं जप यज्ञ - होमान् कुर्याद्वपुष्पान् न च वन्ति विष्णुम् ।
स मांसपिण्डं परिहृत्य दूरादज्ञः प्रधावेदधिरुह्य पृष्ठम् ॥ ३२५
सम्भ्राम्यते विधिवशात्करणोप्रचक्रं
पापेन कुम्भ इव धातृवरेण नूनम । आरोप्य स्वार्थधृतदण्डमुखेन पूर्ण
हृत्पद्मसंस्थ शिवतत्वमतिप्रहीणः ॥ ३२६
द्वौ मार्गावात्मनो ज्ञयौ ब्राह्मणैर्ब्रह्मचिन्तकैः ।
अभियाति विदित्वा यौ सायुज्यं परवेधसः ॥ ३२७
ऽध्यायः ]
ध्यानयोगवर्णनम् ।
विद्वान धूमादिरेको वै द्वितीयस्त्वचिरादिकः । प्रत्येतव्यौ प्रयत्नेन यत्प्रतीतिर्न जायते ॥ ३२८ धूपः क्षपाऽमितः पक्षो दक्षिणायनमेव च । लोकः पित्र्यश्च सोमश्च मातरिश्वानुकर्षणम् ॥ ३२६ यथा धातृक्रमादेते सम्भवन्ति समाश्रिताः । अचिर्दिनं सितः पक्षस्तथाचेवोत्तरायणम ॥३३० देवलोकस्तथा सूर्यो विद्युतश्च क्रमादिमान् । मानसाः पुरुषा यान्ति जानन्तो ब्रह्मलोकताम् ॥३३१ यत्र याताः पुनर्नह संसरन्ति द्विजाः कचित् । मार्गद्वयमिदं धीमन्मन्तव्यं सततं द्विजैः ॥३३२ ज्ञानेन येन विज्ञातुर्ज्ञान - मोक्षौ च सिध्यतः । गृहारण्यस्थ- भिक्षूणां त्रयाणामपि धीमताम् ॥३३३ ज्ञानमभ्यस्यमानं तु तथा दहति संसृतिम् । ज्ञानं समानमेतद् इति ब्रह्मविदो विदुः ॥ ३३४ यथा दहति चैधांसि समिद्धश्वाशुशुक्षणिः । तस्मान्मार्गद्वयेनापि आत्मा ज्ञेयो द्विजोत्तमैः ॥३३५ ये न जानन्ति ते यान्ति दन्दशूकादियोनिषु । यत्र गत्वा कृमित्वं वा कीटत्वमथ वाऽऽप्नुयुः ॥३३६ एताभ्योऽप्यधमास्वेव जायन्ते ते कुयोनिषु । विद्याविद्ये च मन्तव्ये ते हेतू स्वर्ग- मोक्षयोः ॥ ३३७ विद्या मोक्षप्रदा च स्यादविद्या मृत्युजन्मकृन् । ज्ञानयोगस्तथा कर्म विद्याविद्ये स्मृते बुधैः ॥ ३३८
[[६६६]]
[[६७०]]
वृहत्पराशर स्मृतिः ।
[ द्वादशा-
अपवर्गाय द्वे चापि कर्म कृत्वा निवेदयेत् ।
कर्मापि क्रियमाणं वै निरपेक्षं तु मोक्षकृत ॥३३६ विष्णवे गुरवे वापि कर्म कृत्वा निवेदयेन । आत्मनः फलमिच्छंस्तु यत्कर्म कुरुते नरः ॥ ३४० तेनैव वाञ्छितप्राप्तिस्तेनान्यद्वोपजायते । हरिर्वा नित्यमभ्यम्य सर्वभावेन सद्विजैः ॥३४१ तदभ्यासादवाप्नोति मृ यौ दृष्ट हरिस्मृतिम् । एक एव हि स ध्येयो यत्परं नास्ति किञ्चन ॥३४२ विराट् सम्म्राट् महानेष सदा ध्येयो जितेन्द्रियैः । महान्तं पुरुषं देवं रविरूपं तमः परम् ॥३४३ ब्रह्मवित्सोऽतिमृत्युं वै प्रयात्येवानिवर्तकम् । एष एव नृणां पन्था ब्रह्मा वै यमुपासते ॥३४४ ये ये जन्मम्वनेकेषु विधिवञ्चैकचेतसः ।
न भक्त्या नापि योगेन नाभ्यासैनकजन्मना ॥३४५ ब्रह्माप्तिर्जायते पुंसां किन्तु स्याद्भूरिजन्मभिः । यद्देवा सन्तताभ्यासान्न ब्रह्म प्रतिपेदिरे ॥ ३४६ तन्मनुष्यैः कथं प्राप्यमेकनैव च जन्मना । ज्ञानाभ्यासैर्न तद्ब्रह्म कृतैर्दभम्वरूपकैः ॥ ३४७
न प्राप्यते परं ब्रह्म न वाप्यासनमुद्रया । बहुभिः किमुपायैस्तु प्रोक्तैर्वा ग्रन्थिविस्तरैः ॥ ३४८ एकमेवाभ्यसेत्तत्वं येन चित्ते वसेद्धरिः ।ऽध्यायः ]
योगाभ्यासवर्णनम् ।
एकैव भावशुद्धिस्तु यथा स्यात्क्रियते तथा ॥ ३४६ अन्यत्कुर्यान्मनस्वन्यद्विरुद्धमिति सर्वथा ।
[[६७१]]
भावः स्वर्गाय मोक्षाय नरकायापि स स्मृतः ॥ ३५० तस्मात्तं शोधयेद्यत्नाच्छुचिः स्याद्भावशुद्धितः । एकस्याः पुत्रः - भर्तारौ हृदयोपरि योपितः ॥ ३५१ भिन्नभावौ भवेतां तौ भावमेवं विशोधयेत् । परिष्वक्तो नरो नार्या ह्लादमेति यथा युवा ॥३५२ तल्पस्थोऽपि सकामां तां भावहीनो न कामयेत् । एको भावो हरौ कार्यो यथाऽसौ निश्चलो भवेत् ॥ ३५३ तद्बुध्या पञ्चतां गच्छन् स्वर्गं मोक्षमवाप्नुयात् । त्यक्तत्रापि विविधान् भोगान तपस्तप्त्वातिदुष्करम् ॥३५४ मृत्युकाले मतिर्या स्यात्तां गतिं याति मानवः ॥ योगप्रयोगः कथितः समासाख्यानम्य मार्गो बहुधाऽभ्यधायि । योऽभ्यस्यमानस्तु भवेद्विधानात् ब्रह्माप्तिकृद्यश्च तथा द्विजानाम् ॥३५५
प्रत्याहरश्च योगश्च ध्यानं विस्तरतस्तथा । उक्तं द्विजहितार्थाय ब्रह्मावाप्तिकरं तथा ॥ ३५६ अङ्गुल्यङ्गुष्ठयोर्नादः क्षणः स्यात्तद्वयं त्रुटिः । द्वाभ्यां चैव लवम्ताभ्यां निमेपोऽपि लवद्वयम् ॥३५७ तै. पञ्चदशभिः काष्ठा ताश्च त्रिंशत्कला स्मृता । द्वाविंशतित्रिभागस्तु घटिकेति प्रकीर्तितः ॥ ३५८ सद्द्द्वयं च मुहूर्तःस्यात्तत्त्रिंशत्तु क्षपा - दिनम् । तत्पश्वदशकं पक्षस्तद्वयं मास उच्यते ॥ ३५६
[[६७२]]
बृहत्पराशरस्मृतिः ।
तद्वयं ऋतुरित्युक्तं तद्वयं काल उच्यते । तत्सार्धमयनं प्रोक्तं तद्द्वयं वत्सरस्तथा ॥ ३६० पञ्चभिस्तैर्युगं प्रोक्तं तद्द्वादशकपष्ठिकम् । पष्ठिकःःपष्ठिगुणितां वा पतेर्युगमुच्यते ॥ ३६१ तद्वयं तु कलिः प्रोक्तस्तद्वयं द्वापरो भवेत् । कलित्रयेण त्रेता स्यात्कृनः कलिचतुष्टयम् ॥३६२ परिघ्नः सोऽपि कालज्ञैः प्रजानाथयुगः स्मृतः ॥ ३६३ कलिभिर्दशभिर्ब्रह्मन् ! चतुर्युगमिति स्मृतम् । चतुर्युगसहस्रेण ब्रह्माहःकल्प उच्यते ॥ ३६४ अष्टयुगा भवेत्सन्ध्या सायंसन्ध्या च तावती । तदेकसप्ततिगुणं मन्वन्तरमिति स्मृतम् ॥ ३६५ मन्वन्तरद्वयेनेह शक्रपातः प्रकीर्तितः । एतन्मानेन वर्षाणां शतं ब्रह्मक्षयः स्मृतः ॥ ३६६ ब्रह्मक्षयशतेनापि विष्णोरे कमहभवेत् । एतद्दिवसमानेन शतवर्षेण तत्क्षयः ॥ ३६७ तत्क्षयस्त्रिगुणोष्टाभी रुद्रस्य त्रुटिरुच्यते । एवमाब्दिकमानेन प्रयातोऽब्दशते द्विजाः । रुद्रश्चात्मनि लीयेत निष्कलंकं निरामयम् ॥३६८ निष्प्रकम्पं जगत् व्योम व्योमातीतं परं पदम् ।
[ द्वादशो-
तन्निदिध्याससंशुध्या स तत्रैव विलीयते ॥ ३६६ परम्पराणां परमं विचिन्त्य परात्परं दिष्टपदादतीत्तम् । क्षणादिकालं क्रमशोऽब्दमेव प्रयाति तं तत्पदमव्ययं च ॥ ३७०
ऽध्यायः ]
योगाभ्यासवर्णनम् ।
तमात्मरूपं परमव्ययं च विश्वेश्वरं चित्तभरं प्रपद्ये ।
[[६७३]]
शान्ति च गत्वा विधिना च योगी प्रयानि तनुं पदमव्ययं च ॥ ३७१
कालज्ञानेन योगोऽयं योगिभिर्ध्यानकारिभिः ।
मुमुक्षुभिः सदा ज्ञेयं निरालम्बं परं पदम् ॥ ३७२ पराशरोदितं शास्त्रं चतुर्वर्णाश्रमाय च । वेदितव्यं प्रयत्नेन सदा ध्येयं द्विजातिभिः ॥३७३ दश द्वादश चाहौ वा सात पट पंच वा त्रयः । दैविके पैतृके वापि श्लोका श्राव्या द्विजातिभिः ॥ ३७४ श्रावयिष्यति यः श्राद्धं ब्राह्मणान्भक्तितत्परः । प्राश्यन्ति पितरस्तस्य तृप्ति के शावतीं द्विजाः ॥ ३७५
य इदं श्रुणुयाद्वापि श्रावयेत्पाटयेदपि ।
स प्रध्वस्ततमस्तोमो ब्रह्मलोकमवाप्नुयान् ॥३७६ त्रिभिः श्लोकसहस्रैस्तु त्रिभिर्वृ त्तशतेरपि । पराशरोदितं धर्मशास्त्रं प्रोवाच सुव्रतः ॥ ३७७ नमोऽस्तु याज्ञवल्क्याय मनवे विष्णवे नमः । गौतमाय वसिष्ठाय नमः पाराशराय च ॥३७८
इति श्री वृहत्पाराशरे धर्मशास्त्रे सुत्रतप्रोक्तायां स्मृत्यां योगनिरूपणो नाम द्वादशोऽध्यायः ।
॥ इति वृहत्पराशर स्मृतिः समाप्ता ॥
ॐ तत्सत
-❀❀-
॥ अथ ॥