विष्णुस्मृतिः

श्रीगणेशायनमः।

महामते!महाप्राज्ञ! सर्वशास्त्रविशारद!।
अक्षीणकर्म बन्धस्तुपुरुषो द्विजसत्तम!॥१॥

सततं किं जपन् जप्यं विबुधः किमनुस्मरन्॥
मरणे यज्जपं जप्यं यञ्च भाव मनुस्मरन्॥२॥

यच्चध्यात्वा द्विजश्रेष्ठ!पुरुषो मुत्यु मागतः।
परम्पद मवाप्नोति तन्मे वद महामुनेः॥३॥

शौनक उवाच॥

इदमेव महाराज!पृष्टवांस्ते पितामहः।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥४॥

युधिष्ठिर उवाच॥

पितामह! महाप्राज्ञ! सर्वशास्त्रविशारद!।
प्रयाणकाले यच्चिन्त्यं सूरिभि स्तत्वचिन्तकैः॥५॥

किन्नुस्मरन् कुरुश्रेष्ठ! मरणे पर्युपस्थिते।
प्राप्नुयात् परमां सिद्धिं श्रोतुमिच्छामि तद्वद॥६॥

भीष्म उवाच॥

अद्भुतं च हितं सूक्ष्मं उक्तंप्रश्नं त्वयानघ!।
शृणुष्वावहितो राजन्! नारदेन पुरा श्रुतम्॥७॥

श्रीवत्साङ्कं जगद्वीजमनन्तं लोकसाक्षिणम्।
पुरा नारायणं देवं नारदः परिपृष्टवान्॥८॥

नारद उवाच॥

त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम्।
आहुर्वेद्यंपरं धाम ब्रह्मादि कमलोद्भवम्॥९॥

भगवन्! भूतभव्येश!श्रद्दधानैजितेन्द्रियैः।
कथं भक्तैर्विचिन्त्योऽसि योगिभिर्देहमोक्षिभिः॥१०॥

किं च जप्यं जपेन्नित्यं कल्यमुत्थाय मानवाः।
कथं युञ्जन् सदा ध्यायन् ब्रूहि तत्त्वंसनातनम्॥११॥

भीष्म उवाच॥

श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाचस्पतिः स्वयम्।
प्रोवाच भगवान् विष्णुर्नारदं वरदः प्रभुः॥१२॥

श्रीभगवानुवाच॥

हन्त ते कथयिष्यामि इमांदिव्यामनुस्मृतिम्।
मरणे मामनुस्मृत्य प्राप्नोति परमां गतिम्॥१३॥

यामधीत्यप्रयाणेतु मद्भावायोपपद्यते।
ओङ्कारमग्रतःकृत्वामां नमस्कृत्य नारद॥१४॥

एकाग्रः प्रयतो भूत्वाइमं मन्त्रमुदीरयेत्।
अवशेनापि यन्नाम्निकीर्तिते सर्वपातकैः॥१५॥

पुमान् विमुच्यते सद्यःसिंहत्रस्तैर्मृगैरिव।
ओमित्येव परं ब्रह्मशाश्वतं परमव्ययम्॥१६॥

एतदुच्चारयन्मर्त्योब्रह्मभूयाय कल्पते।
ब्रह्माविष्णुश्च रुद्रश्च सर्वमोमिति चोच्यते॥१७॥

सम्पन्नेऽसुरसंयानेनम्यते च मुमुक्षुभिः।
मोक्षश्च ज्ञानिनां प्रोक्तोमोहश्चाज्ञानिनां स्मृतः॥१८॥

यस्य यादृग्विधोभावस्तस्य तादृग्विधो हरिः।
भवे भवनविश्वात्मा भूतानां हितकाम्यया॥१९॥

सृजते आत्मनात्मानमात्मन्येव स्वमायया।
हरिरेव सतां नित्यं शरण्यः शरणार्थिनाम्॥२०॥

नहि नारायणादन्यस्त्रिषु लोकेषु विद्यते।
वसत्यमृतमक्षय्यं यस्मिन् लोकाः ससागराः॥२१॥

त एव सृजते लोकान् सृष्टिकाले जगत्प्रभुः।
तेजांसि येन दिव्यन्ते महोत्पन्नेनतेजसा॥२२॥

वासुदेवात्मकं सर्वं तत्तेजोऽपि हि नान्यथा।
वासनाद्यास्तु ये भावाः संभवन्ति युगे युगे॥२३॥

लोकत्रयहितार्थाय स्वोपकाराय नोहरिः।
यतश्चोत्पद्यते विश्वं यस्मिन्नेव प्रलिप्यते॥२४॥

क्षराक्षरविसृष्टस्तु सोऽच्युतः पुरुषोत्तमः।
अव्यक्तंशाश्वतं देवं प्रभवं पुरुषोत्तमम्॥२५॥

प्रपद्ये प्राञ्जलिर्विष्णुमक्षय्यं भक्तवत्सलम्।
पुराणं पुरुषं दिव्यमद्भुतं लोकपावनम्॥२६॥

प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम्।
लोकनाथंसहस्राक्षमक्षरं परमं पदम्॥२७॥

भगवन्तं प्रपन्नोऽस्मि भूतभव्यप्रभुंविभुम्।
स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखम्॥२८॥

पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम्।
हिरण्यगर्भममृतं भूगर्भं परतः परम्॥२९॥

प्रभुंविभुमनाद्यन्तंप्रपद्ये तं रविप्रभम्।
सहस्रशीर्षंपुरुषं महर्षिं सत्यभावनम्॥३०॥

प्रपद्येसूक्ष्ममचलं वरेण्यमभयप्रदम्।
नारायणं पुराणेशं योगात्मानं सनातनम्॥३१॥

संज्ञानां सर्वसत्वानां प्रपद्ये ध्रुवमीश्वरम्।
यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम्॥३२॥

चराचरगुरुर्देवःस मे विष्णुः प्रसीदतु।
यस्मादुत्पद्यते ब्रह्मापद्मयोनिः पितामहः॥३३॥

ब्रह्मयोनिर्हि विश्वस्य स मे विष्णुः प्रसीदतु।
चतुर्भिश्चचतुर्भिश्चद्वाभ्यां पञ्चभि रेवच॥३४॥

हूयते च पुनर्द्वाभ्यांस मे विष्णुः प्रसीदतु।
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये॥३५॥

गुणाकरः समेविष्णुर्वासुदेवः प्रसीदतु।
अग्निसोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम्॥३६॥

यस्तेजयति तेजांसि स मेविष्णुः प्रसीदतु।
कार्यं क्रिया च करणं कर्त्ताहेतुः प्रयोजनम्॥३७॥

अक्रिया करणी कार्यं स मे विष्णुः प्रसीदतु।
शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः॥३८॥

रिपुगर्भस्य यो गर्भः स मे विष्णुः प्रसीदतु।
अबलो येन बालेन कंसमल्लोमहाबलः॥३९॥

चाणूरो निहतो रङ्गेस मे विष्णुः प्रसीदतु।
शङ्खः करवरे यस्य स मे विष्णुः प्रसीदतु॥४०॥

येन क्रान्तास्त्रयो लोकादानवाश्च वशीकृताः।
शरणं सर्वभूतानां स मेविष्णुः प्रसीदतु॥४१॥

योगावास! नमस्तुभ्यं सर्वावास! वरप्रद।
सर्वादि वासनाद्यादि वासुदेव! प्रधानकृत्॥४२॥

यज्ञगर्भ! हिरण्याङ्ग? पञ्चयज्ञ! नमोऽस्तुते।
चतुर्मूर्त्तिःपरन्धाम लक्षानन्दवरार्चित॥४३॥

अजस्त्वमगमः पन्था ह्यमूर्त्तिविश्वमूर्त्तिधृक्।
श्रीकर्तः! पञ्चकालज्ञ! नमस्ते ज्ञानसागर॥४४॥

अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः।
यस्मात्परतरन्नास्ति तमस्मि शरणं गतः॥४५॥

न प्रधानो नच महान् पुरुषश्चेतनोह्यजः।
अनयोग्यः परतरस्तमस्मि शरणं गतः॥४६॥

चिन्तयन्तोऽपि यन्नित्यं ब्रह्मेशानादयः प्रभुम्।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः॥४७॥

जितेन्द्रिया जितात्मानो ज्ञानध्यानपरायणाः।
यं प्राप्य न निवर्त्तन्ते तमस्मि शरणं गतः॥४८॥

एकांशेन जगत् कृत्स्नमवष्टभ्य विभुः स्थितः।
अग्राह्योनिर्गुणो नित्यस्तमस्मि शरणं गतः॥४९॥

सोमार्काग्निगतन्तेजो याच तारामयी द्युतिः।
दिविसंजायते यो यः स महात्मा प्रसीदतु॥५०॥

सूर्यमध्यस्थितः सोमस्तस्य मध्ये च यास्तिता।
भूतबाह्याचरा दीप्तिः स महात्मा प्रसीदतु॥५१॥

सगुणे निर्गुणश्चासौ लक्ष्मीवान् चेतनो ह्यजः।
सूक्ष्मः सर्वगतो देहीस महात्मा प्रसीदतु॥५२॥

साङ्ख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु॥५३॥

अव्यक्तःसमधिष्ठाता ह्यचिन्त्यः सदसत्परः।
आस्थितः प्रकृतिं भुङ्क्तेस महात्मा प्रसीदतु॥५४॥

क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः।
निर्विकार! नमस्तेऽस्तु साक्षिक्षेत्रिध्रुवस्थितः॥५५॥

अतीन्द्रिय! नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे।
येच त्वांनाभिजानन्ति संसारे सञ्चरन्ति ते॥५६॥

कामक्रोधविनिर्मुक्ताभक्तास्त्वां प्रविशन्ति च।
अव्यक्तमत्यहङ्कारा मनोभूतेन्द्रियाणि च॥५७॥

त्वयि तानि चलेषु त्वं नतेषु त्वं नते त्वयि।
एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम्॥५८॥

समोहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।
समत्वमभिकाङ्क्षन्तम्भक्त्यावै नान्यचेतसः॥५९॥

चराचरमिदं सर्वं भूतग्रामञ्चतुर्विधम्।
त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणाइव॥६०॥

स्रष्टो! भोक्तासि कूटस्थो ह्यतत्वस्तत्वसंज्ञितः।
अकर्ता हेतुरचरः पृथगात्मन्यवस्थितः॥६१॥

न मे भूतेषु संयोगो न भूतत्वगुणाधिकः।
अहङ्कारेण बुद्ध्या वा न मे योगास्त्रिभिर्गुणैः॥६२॥

न मे धर्मो ह्यधर्मो वा नामभोजन्नवा पुनः।
जरामरणमोक्षार्थं त्वां प्रपन्नोस्मि सर्वगः॥६३॥

विषयैरिन्द्रियैर्बापि न मे भूयः समागतः।
ईश्वरोऽसि जगन्नाथ! किमतः परमुच्यते॥६४॥

भक्तानां यद्धितं देव! तद्देहि त्रिदशेश्वर।
पृथिवीं यातु मे घ्राणं यातु मे रसनञ्जलम्॥६५॥

रूपं हुताशनं यातु स्पर्शो यातु च मारुतम्।
श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः॥६६॥

इन्द्रियाणि गुणान्यातुस्वासु स्वासु चयोनिषु।
पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम्॥६७॥

वायुराकाशमप्येतु मनश्चाकाशमेव च।
अहङ्कारं मनो यातु मोहनं सर्वदेहिनाम्॥६८॥

अहङ्कारस्तथा बुद्धिं बुद्धिरव्यक्तमेव च।
प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते॥६९॥

वियोगः सर्वकरणैर्गुणैर्भूतैश्च मेऽभवत्।
सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे॥७०॥

निष्कैवल्यं पदं देवकांक्षितं परमन्तपः।
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः॥७१॥

नमो भगवते तस्मैः विष्णवे प्रभविष्णवे।
त्वद्बुद्धिस्तद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः॥७२॥

त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते।
पूर्वदेहिकृता ये मे व्याधयः प्रविशन्तु माम्॥७३॥

आर्दयन्तु च दुःखानि ऋणं मे न भवेदिति।
उपदिष्टन्तु मे सर्वे व्यधयः पूर्वचिन्चिताः॥७४॥

अनृणो गन्तुमिच्छामि तद्विष्णोः परमम्पदम्।
अहं भगवतस्तस्य मम वासः सनातनः॥७५॥

तस्याहं न प्रणस्यामि सच मे न प्रणश्यति।
कर्मेन्द्रियाणि संयम्य पञ्चबुद्धीन्द्रियाणि च॥७६॥

दशेन्द्रियाणि मनसो ह्यहङ्कारेण वा पुनः।
अहङ्कारं तथा बुद्धौ बुद्धिमात्मनि योजयेत्॥७७॥

आत्मबुद्धीन्द्रियम्पश्येद्बुद्धौ बुद्धेःपरायणम्।
ममायमपि तस्याहं येन सर्वमिदन्ततम्॥७८॥

आत्मनात्मनि संयोज्यममात्मन्यनुसंस्मरेत्।
एवं बुद्धेः परंबुद्ध्वा लभते न पुनर्भवम्॥७९॥

ॐ नमो भगवते तस्मै देहिनां परमात्मने।
नारायणाय भक्तानामेकनिष्ठाय शाश्वते॥८०॥

हृदिस्थाय च भूतानां सर्वेषां च महात्मने।
इमामनुस्मृतिन्दित्र्यां वैष्णवीं पापनाशनीम्॥८१॥

स्वयम्बिबुद्धश्चपटेद्यत्र तत्रसमभ्यसेत्।
मरणे समनुप्राप्ते यस्त्विमामनुसंस्मरेत्॥८२॥

अपि पापममाचारःस याति परमाङ्गतिम्।
यद्यहङ्कारमाश्रित्य यज्ञदानतपः क्रियाः॥८३॥

कुर्वस्तत्फलमाप्नोति पुनरावर्तते नतु।
अभ्यर्चयन् पितॄन्देवान् पठन् जुह्णन् बलिन्ददन्॥८४॥

ज्वलदग्निं स्मरेद्यो मां लभते परमाङ्गतिम्।
यज्ञोदानं तपःकर्म पावनानि मनीषिणाम्॥८५॥

यज्ञोदानं तपस्तस्मात्कुर्यादाशाविवर्जितः।
पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः॥८६॥

श्रावयेच्छ्रद्दधानांश्चमद्भक्तांश्चविशेषतः।
नम इत्येवयो ब्रूयान्मद्भक्तः श्रद्धयान्वितः॥८७॥

तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद।
किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम्॥८८॥

श्रद्धावन्तो यतात्मानस्ते मां यान्ति मदाश्रिताः।
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽनन्तमश्नुते॥८९॥

मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः।
अवाप्स्यसितपः सिद्धिं लभ्यसे च पदं मम॥९०॥

अज्ञानामिच्छया ज्ञानं दद्याद्धर्मोपदेशनम्।
कृत्स्नां वा पृथिवीं वद्यात्तेन तुल्यं न तत्फलम्॥९१॥

अस्मात् प्रदेयं साधुभ्यो जन्मबन्धभयापहम्।
अश्वमेधसहस्राणां सहस्रं यः समाचरेत्॥९२॥

नासौ फलमवाप्नोति मद्भक्तैर्यदवाप्यते।

भीष्म उवाच॥

एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा।
यदुवाच तथा शम्भुस्तदुक्तं तव सुव्रत॥९३॥

त्वमप्येकमना भूत्वा ध्येयं ज्ञेयंगुणाधिकम्।
भज सर्वेण भावेन परमात्मानमव्ययम्॥९४॥

श्रुत्वैतत् नारदो वाक्यंदिव्यं नारायणेरितम्।
अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेयिवान्॥९५॥

नारायणमृषीन्देवं दशवर्षाण्यनन्यभाक्।
इदं जपन्वैप्राप्नोति तद्विष्णोः परमं पदम्॥९६॥

किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः॥९७॥

नारायणाय नम ओमिति वेदमन्त्रं-
यो नित्यमेव मनसापि समभ्यसेच्च।
पापैः प्रमुच्य परमे तृषयातिविष्णोः-
स्थानं हि सर्वमिति वेदविदो वदन्ति॥९८॥

किं तस्य दानैः किं तीर्थैःकिं तपोभिः किमम्बरैः।
यो नित्यं ध्यायते देव!नारायण मनन्यधीः॥९९॥

चीरवासा जपी वापि त्रिदण्डी मुण्ड एववा।
भूषितो वा द्विजश्रेष्ठ! न लिङ्गं धर्मकारणम्॥१००॥

ये नृशंसा दुरात्मानः पापधर्मविवर्जिताः।
तेऽपि यान्ति परं स्थानं नारायणपरायणाः॥१०१॥

अन्यथा मन्दबुद्धीनां प्रतिभाति दुरात्मनाम्।
कुतर्कज्ञानदृष्टीनां विश्रान्तेन्द्रियवर्त्मनाम्॥१०२॥

नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम्।
अन्तकाले जपन्नेति तद्विष्णोः परमंपदम्॥१०३॥

आचारहीनो मुनिप्रवीर भक्त्या विहीनोऽपितु विन्दतोऽपि।
संकीर्त्य नारायणशब्दमात्रं विमुक्तपापो विशतेऽच्युतां गतिम्॥१०४॥

कान्तारवनदुर्गेषु कृत्स्नेष्वापत्सु संयुगे।
दस्युभिः सन्निरोधेच नामभिर्मां प्रकीर्तयेत्॥१०५॥

न दिव्यपुरुषो धीमान् येषु स्थानेषु मां स्मरेत्।
चौरव्याघ्रमहासर्पैः क्रूरैरपि न वाध्यते॥१०६॥

जन्मान्तरसहस्रेषु तपोध्यानसमाधिमिः।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते॥१०७॥

नामास्ति याति शक्तिश्च पापे निर्हरणे हरेः।
श्वपचोऽपि नरः कर्तुं क्षमस्तावन्न किल्बिषम्॥१०८॥

न तावत् पापमस्तीह यावन्नामहतं हरेः।
अतिरेक भयादाहुः प्रायश्चित्तान्तरं बुधाः॥१०९॥

गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः॥११०॥

न वासुदेवात्परमस्ति मङ्गलं न वासुदेवात्परमस्ति पावनम्।
न वासुदेवात्परमस्ति दैवतं न वासुदेवं प्रणिपत्य सीदति॥१११॥

इमां रहस्यां परमामनुस्मृतिं ह्यधीत्य बुद्धिं लभते च नैष्ठिकम्॥

विहाय दुःखानि विमुच्य सङ्कटात्।
स वीतरागो विचरेन्महीमिमाम्॥११२॥

गङ्गायां मरणं

चैव दृढा भक्तिश्च केशवे।
ब्रह्मविद्याप्रबोधश्च नाल्पस्य तपसः फलम्॥११३॥

“इति विष्णुस्मृति” समाप्ता॥

__________

विष्णुस्मृतिः

॥अथ॥

<MISSING_FIG href="../books_images/U-IMG-1725378091Screenshot2024-09-03132952.png"/>विष्णुस्मृतिः।<MISSING_FIG href="../books_images/U-IMG-1725378091Screenshot2024-09-03132952.png"/>

श्रीगणेशाय नमः।

तत्र प्रथमोऽध्याय।

ब्रह्मरात्र्यांव्यतीतायां प्रबुद्धे पद्मसम्भवे।
विष्णुः सिसृक्षुर्भूतानि ज्ञात्वा भूमिं जलानुगाम्॥१॥

जलक्रीड़ारुचि शुभं कल्पादिषु यथा पुरा।
वाराहमास्थितोरूपमुज्जहार वसुन्धराम्॥२॥

वेदपादो यूपदंष्ट्रः क्रतुवक्त्रश्चितामुखः।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः॥३॥

अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः।
आज्यनासः श्रवस्तुण्डः सामवोषमहास्वनः॥४॥

धर्मसत्यमयः श्रीमान् क्रमविक्रमसत्कृतः।
प्रायश्चित्तमयो वीरः प्रांशुजानुर्महाबृषः॥५॥

उद्गात्रन्त्रो होमलिङ्गो वीजौषधिमहाफलः।
वेद्यन्तरात्मामन्त्रस्फिग्विकृतः सोमशोणितः॥६॥

वेदस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान्।
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरन्वितः॥७॥

दक्षिणाहृदयो योगमहामन्त्रमयो महान्।
उपाकर्मोष्ठरुचिरः प्रवर्ग्यावर्त्तभूषणः॥८॥

नानाच्छन्दोगतिपथो गुह्योपनिषदासनः।
छायापत्नीसहायोऽसौ मणिशृङ्गइवोदितः॥९॥

महीं सागरपर्यान्तां सशैलवनकाननाम्।
एकार्णवजलभ्रष्टानेकार्णवगतः प्रभुः॥१०॥

दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया।
आदिदेवो महायोगी चकार जगतीं पुनः॥११॥

एवं यज्ञवराहेण भूत्वा भूतहितार्थिना।
उद्धृता पृथिवी सर्वा रसातलगता पुरा॥१२॥

उद्धृत्य निश्चले स्थाने स्थापिता च तथा स्वके।
यथास्थानं विभज्यापस्तद्गता मधुसूदनः॥१३॥

सामुद्र्यश्चसमुद्रेषु नादेयाश्च नदीषु च।
पल्ललेषु च पाल्लल्यः सरःसु च सरोवराः॥१४॥

पातालसप्तकं चक्रे लोकानां सप्तकं तथा।
द्वीपानामुदधीनाञ्च स्थानानि विविधानि च॥१५॥

स्थानपालांल्लोकपालान्नदीशैलवनस्पतीन्।
ऋषिंश्चसप्त धर्मज्ञान् वेदान् साङ्गान् सुरासुरान्॥१६॥

पिशाचोरगगन्धर्वयक्षराक्षसमानुषान्।
पशुपक्षिमृगाद्यांश्च भूतग्रामं चतुर्व्विधम्॥१७॥

मेघेन्द्रचापसम्पातान् यज्ञांश्च विविधांस्तथा।
एवं वराहो भगवान् कृत्वेदं सचराचरम्॥१८॥

जगज्जगाम लोकानामविज्ञातां तदा गतिम्।
अविज्ञातां गतिं याते देवदेवे जनार्द्दने॥१९॥

वसुधा चिन्तयामास का धृतिर्म्मे भविष्यति।
पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम्॥२०॥

मदीयां वहते चिन्तां नित्यमेव महामुनिः।
एवं स निश्चयं कृत्वा देवी स्त्रीरूपधारिणी॥२१॥

जगाम कश्यपं द्रष्टुं दृष्टवांस्ताञ्च कश्यपः।
नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम्॥२२॥

अलिसङ्घालकांशुभ्रां बन्धुजीवाधरां शुभाम्।
सुशुभ्रस्पृष्टदशनां चारुनासां नतभ्रुवम्॥२३॥

कम्बुकण्ठींसंहतोरूं पीनोरुजघनस्थलीम्।
विरेजतुस्ततो यस्याः समौ पीनौ निरन्तरौ॥२४॥

मत्तेभकुम्भसङ्काशौ शातकुम्भसमद्युती।
मृणालकोमलौ बाहूकरौकिशलयोपमौ॥२५॥

रुक्मस्तम्भनिभावूरू गूढ़े श्लिष्टे च जानुनी।
जङ्घे विरोमे सुषमे पादावतिमनोरमौ॥२६॥

जघनञ्च घनं मध्यं यथा केशरिणः शिशोः।
प्रभायुता नखास्ताम्रा रूपं सर्व्वमनोहरम्॥२७॥

कुर्वाणां वीक्षितैर्नित्यं नीलोत्पलयुता दिशः।
कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः॥२८॥

सुसूक्ष्मशुक्लवसनां रत्नोत्तमविभूषिताम्।
पदन्यासैर्वसुमतीं सपद्मामिव कुर्वतीम्॥२९॥

रूपयौवनसम्पन्नां विनीक्त्वदुपस्थिताम्।
समीपमागतां दृष्टापूजयामास कश्यपः॥३०॥

उवाच तां वरारोहे! विज्ञातं हृद्गतं मया।
धरे तव विशालाक्षि! गच्छदेवि जनार्द्दनम्॥३१॥

स ते वक्ष्यत्यशेषेण भाविनी ते यथा स्थितिः।
क्षीरोदे वसतिस्तस्य मया ज्ञाता शुभानने॥३२॥

ध्यानयोगेन चार्वङ्गि तज्ज्ञानं तत्प्रसादतः॥

इत्येवमुक्ता सम्पूज्य कश्यपं वसुधा ततः।
प्रययौकेशवं द्रष्टुं क्षीरोदमथ सागरम्॥३३॥

सा ददर्शामृतनिधिं चन्द्ररश्मिमनोहरम्।
पवनक्षोभसंजातवीचीशतसमाकुलम्॥३४॥

हिमवच्छतसङ्काशं भूमण्डलमिवापरम्।
वीचोहस्तैर्धवलितैराह्वयानमिव क्षितिम्॥३५॥

तैरेव शुभ्रतां चन्द्रे विदधानमिवानिशम्।
अन्तरस्थेनहरिणा विगताशेषकल्मषम्॥३६॥

यस्मात्तस्मात्तु विभ्रन्तं सुशुभ्रां तनुमूर्ज्जिताम्।
पाण्डरं खगमागम्यमधोभुवनवर्त्तिनम्॥३७॥

इन्द्रनीलकडाराढ्यं विपरीतमिवाम्बरम्।
फलावलीसमुद्भूतवनसङ्घसमाचितम्॥३८॥

निर्म्मोकमिवशेषाहेर्विस्तीर्णं तमतीव हि।
तं दृष्ट्वा तञ्च मध्यस्थं ददृशे केशबालयम्॥३९॥

अनिर्द्देश्यपरामाणमनिर्द्देश्यर्द्धिसंयुतम्।
शेषपर्यङ्कशं तस्मिन् ददर्श मधुसूदनम्॥४०॥

शेषाहिफणरत्नांशुदुर्विभाव्य मुखाम्बुजम्।
शशाङ्कशतसङ्काशं सूर्यायुतसमप्रभम्॥४१॥

पीतवाससमक्षोभ्यं सर्वरत्नविभूषितम्।
मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम्॥४२॥

संवाह्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः शुभैः।
शरीरधारिभिः शस्त्रैः सेव्यमानंसमन्ततः॥४३॥

तं दृष्ट्वापुण्डरीकाक्षं ववन्दे मधुसूदनम्।
जानुभ्यामवनीं गत्वा विज्ञापयति चाप्यथ॥४४॥

उद्धृताहं त्वया देव! रसातलतलङ्गता।
स्वे स्थाने स्थापिता विष्णो! लोकानां हितकाम्यया॥४५॥

तत्राधुना मेदेवेश! का धृतिर्वै भविष्यति।
एवमुक्तस्तदा देव्या देवो वचनमब्रवीत्॥४६॥

वर्णाश्रमाचाररताः शास्त्रैकतत्परायणाः।
त्वां धरे! धारयिष्यन्ति तेषां तद्भार आहितः॥४७॥

एवमुक्ता वसुमतीदेवदेवमभाषत।
वर्णानामाश्रमाणाञ्च धर्मान् वद सनातनान्॥४८॥

त्वत्तोऽहं श्रोतुमिच्छामि त्वं हि मे परमा गतिः।
नमस्ते देव! देवेश! देवारिबलसूदन!॥४९॥

नारायण! जगन्नाथ! शङ्खचक्रगदाधर!।
पद्मनाभ! हृषीकेश! महाबलपराक्रम!॥५०॥

अतीन्द्रिय! सुदुष्पार! देव! शार्ङ्गधनुर्द्धरः!।
वराह! भीम! गोविन्द! पुराण! पुरुषोत्तम!॥५१॥

हिरण्यकेश! विश्वाक्ष! यज्ञमूर्त्ते! निरञ्जन!।
क्षेत्र! क्षेत्रज्ञ! लोकेश! सलिलान्तरशायक!॥५२॥

यन्त्रमन्त्रवहाचिन्त्य! वेदवेदाङ्गविग्रह!।
जगतोऽस्य समग्रस्य सृष्टिसंहारकारक!

॥५३॥

सर्वधर्मज्ञ! धर्माङ्ग! धर्मयोने! वरप्रद!।
विश्वक्सेनामृत! व्योम! मधुकैटभसूदन!॥५४॥

बृहतां वृहणाजेय! सर्व! सर्वाभयप्रद!।

वरेण्यानघ! जीमूताव्यय! निर्वाणकारक!॥५५॥

आप्यायन! अपांस्थान! चैतन्याधार! निष्क्रिय!।
सप्तशीर्षाध्वरगुरो! पुराण! पुरुषोत्तम!॥५६॥

ध्रुवाक्षर! सुसूक्ष्मेश! भक्तवत्सलपावन!।
त्वंगतिः सर्व देवानां त्वंगतिर्ब्रह्मवादिनाम्॥५७॥

तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम!।
प्रपन्नास्मि जगन्नाथ! ध्रुवं वाचस्पतिं प्रभुम्॥५८॥

सुब्रह्मण्यमनाधृष्यं वसुखेलं वसुप्रदम्।
महायोगबलोपेतं पृश्निगर्भं धृतार्च्चिषम्॥५९॥

वासुदेवं महात्मानं पुण्डीकाक्षमच्युतम्।
सुरासुरगुरुं देवं बिभुं भूतमहेश्वरम्॥६०॥

एकव्यूहं चतुर्वक्त्रं जगत्कारणकारणम्।
ब्रूहि मे भगवन्! धर्म्मांश्चातुर्वण्यस्य शाश्वतान्॥६१॥

आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान्।
एवमुक्तस्तु देवेशः पुनः क्षौणीमभाषत॥६२॥

श्रृणु देवि! धरे! धर्म्मांश्चातुर्वर्ण्यस्य शाश्वतान्।
आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान्॥६५॥

ये तु त्वां धारयिष्यन्ति सन्तस्तेषांपरायणान्।
निषण्णा भव वामोरु! काञ्चनेऽस्मिन् वरासने॥६६॥

सुखासीना निबोध त्वं धर्मान्निगदतो मम।
शुश्रुवे वैष्णवान् धर्म्मान् सुखासीना धरा तदा॥६७॥

इति वैष्णवेशर्मशास्त्रे प्रथमोऽध्यायः॥

___________

अथ द्वितीयोऽध्यायः।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति वर्णाश्चत्वारः।
तेषामाद्या द्विजातयः।

तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत् क्रियासमूहः।
तेषाञ्चधर्माः ब्राह्मणस्याध्यापयनं क्षत्रियस्य शस्त्रनिष्ठता
वैश्यस्य पशुपालनं शूद्रस्य द्विजातिशुश्रूषा।
द्विजानांयजनाध्ययने।

अथैतेषां वृत्तयः ब्राह्मणस्य याजनप्रतिग्रहौ क्षत्रियस्य
क्षितित्राणं कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि
वैश्यस्य, शूद्रस्य सर्वशिल्पानि। आपद्यनन्तरा वृत्तिः।

क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः।
अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया॥

आर्ज्जवत्वमलोभश्च देवब्राह्मणपूजनम्।
अनभ्यसूया च तथा धर्मः सामान्य उच्यते।

इति वैष्णवे धर्मशास्त्रे द्वितीयोऽध्यायः।

__________

अथ तृतीयोऽध्यायः।

अथ गजधर्माः॥

प्रजापरिपालनं वर्णाश्रमाणां स्वे स्वे धर्मे व्यवस्थापनम्।
राजा च जाङ्गलं पशव्यं शस्योपेतं देशमाश्रयेत्
वैश्यशूद्रपादञ्च तत्रधन्वनृमहीवारिवृक्षगिरिदुर्गाणामन्यतमं
दुर्गमाश्रयेत्। तत्र ग्रामाध्यक्षानपि कुर्यात्।
दशाध्यक्षान्। शताध्यक्षान्।
ग्रामदोषाणां ग्रामाध्यक्षः परीहारं कुर्य्यात्।
अशक्तोदशग्रामाध्यक्षाय निवेदयेत्।
सोऽप्यशक्तःशताध्यक्षाय। सोऽप्यशक्तो देशाध्यक्षाय।
देशाध्यक्षोऽपि सर्व्वात्मना दोषमुच्छिन्द्यात्।
आकरशुल्कतरनागवनेष्वाप्तान्नियुञ्जीत।
धर्मिष्ठान् धर्मकार्य्येषु। निपुणानर्थकार्य्येषु।
शूरान् संग्रामकर्म्मसु। उग्रानुग्रेषु षण्ढान् स्त्रीषु।
प्रजाभ्यो वल्यर्थं सम्बत्सरेण धान्यतःषष्ठमंशमादद्यात्।
सर्वशस्येभ्यश्च द्विकं शतम्। पशुहिरण्येभ्यो वस्त्रेभ्यश्च।

मांसमधुघृतौषधिगन्धमूलफलरसदारु पत्राजिनमृद्भाण्डाश्मभाण्डवैदलेभ्यः षष्ठभागम्।
ब्राह्मणेभ्यः करादानं न कुर्यात् ते हि राज्ञो धर्मकरदाः।
राजा च प्रजाभ्यः सुकृतदुष्कृतषष्ठांशभाक्।
स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् परदेशपण्याच्च
विंशतितमम्। शुल्कस्थानमपक्रामन् सर्वापहारित्वमाप्नुयात्।
शिल्पिनः कर्मजीविनश्च शूद्राश्च मासेनैकं राज्ञः कर्म कुर्य्युः।
स्वाम्यमात्यदुर्गकोषदण्डराष्ट्रमित्राणि प्रकृतयः।
तद्दूषकांश्चहन्यात्। स्वराष्ट्रपरपाष्ट्रयोश्च चारचक्षुः स्यात्।
साधूनां पूजनं कुर्य्यात्। दुष्टांश्चहन्यात्।
शत्रुमित्रोदासीनमध्यमेषु सामभेददानदण्डान् यथार्हं
यथाकालं प्रयुञ्जीत।
सन्धिविग्रहयानासनसंश्रयद्वैधीभावांश्च यथाकालमाश्रयेत्।
चैत्रे मार्गशीर्षे वा यात्रां यायात्। परस्य व्यसने वा।
परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात्।
परेणाभियुक्तश्चसर्व्वात्मना राष्ट्रं गोपायेत्।
नास्ति राज्ञांसमरे तनुत्यागसदृशोधर्मः।
गोब्राह्मणनृपतिमित्रधनदारजीवितरक्षणाद्ये हतास्ते स्वर्गभाजः।
वर्णशङ्कररक्षणार्थे च।
राजा पुरावाप्तौ तत्र तत्कुलीनमभिषिञ्चेत्॥
न राजकुलमुच्छिन्द्यात्। अन्यत्राकुलीनराजकुलात्।
मृगयाक्षस्त्रीपानेष्वभिरतिं न कुर्य्यात्।

वाक्पारुष्यदण्डपारुष्ये च नार्थदूषणं कुर्यात्।
आद्यद्वाराणि नोच्छिन्द्यात्। नापात्रवर्षी स्यात्।
आकरेभ्यः सर्वमादद्यात्॥
निधिं लब्ध्वा तदर्द्धं ब्राह्मणेभ्यो दद्यात् द्वितीयमर्द्धं कोशे–
प्रवेशयेत्। निधिं ब्राह्मणोलब्ध्वा सर्वमादद्यात्।
क्षत्रियश्चतुर्थमंशंराज्ञे दद्यात् चतुर्थमंशं–
ब्राह्मणेभ्योऽर्द्धमादद्यात्।
वैश्यश्चतुर्थमंशं राज्ञे दद्यात् ब्राह्मणेभ्योऽर्द्धमंशमादद्यात्।
शूद्रश्चावाप्तं द्वादशधाविभज्य पञ्चांशान् राज्ञे दद्यात्
पश्चांशान् ब्राह्मणेभ्योंऽशद्वयमादद्यात्।
अनिवेदितविज्ञातस्य सर्वमपहरेत्।
स्वनिहिताद्राज्ञे ब्राह्मणवर्ज्जंद्वादशमंशं दद्युः।
परनिहितं स्वनिहितमिति ब्रुवंस्तत्समं दण्डमावहेत॥
बालानाथस्त्रीधनानि च राजा परिपालयेत्।
चौरहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्योदद्यात्।
अनवाप्य च स्वकोशादेव दद्यात्।
शान्तिस्वस्त्ययनैर्दैवोपघातान् प्रशमयेत्।
परचक्रोपघातांश्च शस्त्रनित्यतया।
वेदेतिहासधर्मशास्त्रार्थकुशलं कुलीनमव्यङ्गं–
तपस्विनं पुरोहितञ्चवरयेत्।
शुचीनलुब्धानवहिताञ्छक्तिसम्पन्नान् सर्व्वार्थेषु च–
सहायान् स्वयमेव व्यवहारान् पश्येद्विद्वद्भिब्राह्मणैः सार्द्धम्।

व्यवहारदर्शने ब्राह्मणं वा नियुञ्ज्यात्।
जन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्य्यारिपौमित्रे च—
ये समाः कामक्रोधलोभादिभिः कार्य्यार्थिभिरनाहार्य्याः।
राजा च सर्वकार्य्येषु सम्बत्सराधीनः स्यात्।
देवब्राह्मणान् सततमेवपूजयेत्।
वृद्धसेवी भवेत्। यज्ञयाजी च।
नचास्य विषये ब्राह्मणः क्षुधार्त्तोऽबसीदेत्।
नचान्योऽपि सत्कर्मनिरतः।
ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत्।
येषाञ्च प्रतिपादयेत्तेषां स्ववंश्यानन्तरप्रमाणं दानच्छेदोपवर्णनञ्च पटेताम्रपात्रे वा लिखितं स्वमुद्राङ्कितञ्चागामिनृपविज्ञापनार्थं
दद्यात्। परदत्ताञ्च भूवं नापहरेत्।
ब्राह्मणेभ्यः सर्वदायान् प्रयच्छेत्।
सर्वतस्त्वात्मानं गोपायेत् सुदर्शनश्च स्यात्।
विषघ्नागदमन्त्रधारी च। नापरीक्षितमुपयुञ्जयात्।
स्मितपूर्व्वाभिभाषी स्यात्। वध्येष्वपि न भ्रुकुटीमाचरेत्।
अपराधानुरूपञ्च दण्डं दण्ड्येषु दापयेत्।
सम्यग्दण्डप्रणयनं कुर्य्यात्। द्वितीयमपराधं न कस्यचित् क्षमेत।
स्वधर्म्ममपालयन्नादण्ड्योनामास्ति राज्ञः।

यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भरः।
प्रजास्तत्र विबर्द्धन्ते नेता चेत् साधु पश्यति।
स्वराष्ट्रे न्यायदण्डः स्याद्भृशदण्डश्चशत्रुषु।

सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः।
एवं वृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः।
विस्तीर्यते यशोलोके तैलबिन्दुरिवाम्भसि।

प्रजासुखेसुखीराजा तद्दुःखेयश्चदुःखितः।
स कीर्त्तियुक्तो लोकेऽस्मिन् प्रेत्यस्वर्गे महीयते॥

इति वैष्णवे धर्मशास्त्रे तृतीयोऽध्यायः॥

___________

॥अथ चतुर्थोऽध्यायः॥

जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञकम्।
तदष्टकं लिख्या। तत्त्रयं राजसर्षपः। तत्त्रयं गौरसर्षपः।
तत्षट्कं यवः। तत्त्रयं कृष्णलम्। तत्पञ्चकं माषः।
तद्द्वादशकमक्षार्द्धम्। अक्षार्द्धमेव सचतुर्माषकं सुवर्णः।
चतुःसुवर्णकोनिष्कः। द्वे कृष्णले समधृते रूप्यमाषकः।
तत्षोडशकं धरणम्। ताम्रकार्षिकः कार्षापणः।

पणानां द्वे शते सार्द्धेप्रथमः साहसः स्मृतः।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः॥

इति वैष्णवे धर्मशास्त्रे चतुर्थोऽध्यायः॥

_________

॥अथ पञ्चमोऽध्यायः॥

अथमहापातकिनो ब्राह्मणवर्ज्जं सर्वे बध्याः।
न शारीरो ब्राह्मणस्य दण्डः।
स्वदेशाद्ब्राह्मणं कृताङ्कं विवासयेत्।
तस्य च व्रस्त्रहत्यायामशिरस्कं पुरुषं ललाटे कुर्यात्।
सुराध्वजं सुरापाने। श्वपदं स्तेये। भगं गुरुतल्पगमने।
अन्यत्रापि बध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत्।
कूटशासनकर्तृृंश्च राजा हन्यात्। कूटलेख्यकाराश्च।
ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः।
धरिममेयानां शतादप्यधिकम्।
ये चाकुलीना राज्यमभिकामयेयुः।
सेतुभेदकांश्च प्रसह्यतस्कराणाम्बावकाशभक्तप्रदांश्च।
अन्यत्र राजाशक्तेः स्त्रियमशक्तभर्तृकां तदतिक्रमणाञ्च।
हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्तदेवास्य शातयेत्।
एकासनोपवेशी कट्यां कृताङ्को निर्व्वास्यः।
निष्ठीव्योष्ठद्वयविहीनः कार्यः अवशब्दयिता च गुदहीनः।
आक्रोशयिता च विजिह्वः।
दर्पेण धर्मोपदेशकारिणो राजा तप्तमासेचयेत्तैलमास्ये।
द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्लिखेयः।
श्रुतदेशजातिकर्मणामन्यथावादी कार्षापणशतद्वयम् दण्ड्यः।
गुरुनाक्षिपन् कार्षापणशतम्।
परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम्।

उपपातकयुक्ते मध्यमं त्रैविद्यवृद्धाक्षेपे जातिपूगानाञ्च।
ग्रामदेशयोः प्रथमसाहसम्।
व्यङ्गतायुक्ताक्षेपे कार्षापणशतम्।
मातृयुक्ते तूत्तमं सवर्णाक्रोशने द्वादशपणान् दण्ड्यः।
हीनवर्णाक्रोशने षड्दण्ड्यः।
यथाकालमुत्तमसवर्णाक्षेपे तत्प्रमाणोदण्डः।
तयोर्वाकार्षापणास्त्रयः शुष्कवाक्याभिवाने त्वेवमेव।
पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः।
हीनवर्णागमने मध्यमं गोगमने च।
अन्त्यागमने बध्यः पशुगमने कार्षापणशतं दण्ड्यः॥
दोषमनाख्याय कन्यां प्रयच्छंश्च ताञ्च विभृयात्।
अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम्।
गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः।
विमांसविक्रयी कार्षापणशतं ग्राम्यपशुघाती च—
पशुस्वामिने तन्मूल्यं दद्यात्।
आरण्यपशुघाती पञ्चाशतं कार्षापणान्।
पक्षिघाती मत्स्यघाती च कार्षापणान्।
फलोपगमद्रुमच्छेदी कीटोपघाती तूत्तमसाहसं दण्ड्यः।
पुष्पोपगमद्रुमच्छेदी मध्यमम्।
वल्लीगुल्मलताच्छेदी कार्षापणशतम्।
तृणच्छेद्येकं सर्वे च तत्स्वामिनां तदुत्पत्तिम्॥
हस्तेनावगोरयितादशकार्षापणान्।

पादेन विंशतिम्। काष्ठेन प्रथमसाहसम्।
पाषाणेन मध्यमम्। शस्त्रेणोत्तमम्।
पादकेशांशुककरलुण्ठने दशपणान् दण्ड्यः।
शोणितेन विना दुःखमुत्पादयिता द्वात्रिंशत्पणान्।
सह शोणितेन चतुःषष्टिम्।
करपाददन्तभङ्गे कर्णनासाविकर्त्तने मध्यमम्।
चेष्टाभोजनवाग्रोधे प्रहारदाने च।
नेत्रकन्धराबाहुसक्थ्यंसभङ्गे चोत्तमम्।
उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान्न विमुञ्चेत्।
तादृशमेव वा कुर्यात्।
एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्विगुणः।
क्रोशन्तमभिधावतां तत्समीपवर्त्तिनां संसरताञ्च।
सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः॥
ग्राम्यपशुपीडाकराश्च।
गोश्वोष्ट्रगजापहार्येकपादकरः कार्यः अजाव्यपहार्येककरश्च।
धान्यापहार्येकादशगुणंदण्ड्यः।
शस्यापहारी च॥
सुवर्णरजतवस्त्रणां पञ्चाशतस्त्वभ्यधिकमपहरन्—
विकरः तदूनमेकादशगुणं दण्ड्यः।
सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणुमृण्मयलोहदण्डानामपहर्त्तामूल्यात्त्रिगुणं दण्ड्यः॥

पक्वान्नानाञ्चपुष्पहरितगुल्मवल्लीलतापर्णानामपहरणेपञ्चकृष्णलान्।
शाकमूलफलानाञ्चरत्नापहार्युत्तमसाहसम्।
अनुक्तद्रव्याणामपहर्त्ता मूल्यसमम्।
स्तेनाः सर्वमपहृतं धनिकस्य दाप्याः।
ततस्तेषामभिहितदण्डप्रयोगः।
येषां देयः पन्थास्तेषामपथदायी कार्षापणानां पञ्चविंशति
दण्ड्यः आसनार्हस्यासनमददच्च।
पूजार्हमपूजयंश्च।
प्रातिवेश्यब्राह्मणे निमन्त्रणातिक्रमे च।
निमन्त्रयित्वा भोजनादायिनश्च।
निमन्त्रितस्तथेत्युक्तवानभुञ्जानः
सुवर्णमाषकं निमन्त्रयितुश्च द्विगुणमन्नम्।
अभक्ष्येण ब्राह्मणदूषयिता षोडशसुवर्णान्।
जात्यपहारिणा शतं सुरया बध्यः।
क्षत्रियं दूषयितुस्तदर्द्वम्। वैश्यं दूषयितुस्तदर्द्धमपि।
शूद्रं दूषयितुः प्रथमसाहसम्।
कामकारेणास्पृश्यस्त्रैवर्णिकंस्पृशन् बध्यः।
रजस्वलां शिफाभिस्ताडयेत्।
पथ्युद्यानोदकसमीपेशुचिकारी पणशतम्। तच्चापास्यात्।
गृहभूकुड्याद्युपभेत्ता मध्यमसाहसं दण्ड्यः।तच्च योजयेत्।
गृहेपीडाकरं द्रव्यं प्रक्षिपन् पणशतम्॥

साधारण्यापलापी च। प्रोषितस्याप्रदाता च।
पितृपुत्राचार्ययाज्यर्त्विजामन्योन्यापतितत्यागी च।
न च तान् जह्यात्।
शूद्रप्रव्रजितानां दैवे पित्र्ये भोजकश्च।
अयोग्यकर्मकारी च। समुद्रगृहभेदकः।
अनियुक्तः शपथकारी पशूनां पुंस्त्वोपघातकारी च।
पितापुत्रविरोधे तु साक्षिणां दशपणो दण्डः।
यस्तयोश्चान्तरः स्यात्तस्योत्तमसाहसम्।
तुलामानकूटकर्मकर्तृृंश्च।
तदकूटे कूटवादिनश्च द्रव्याणां प्रतिरूपविक्रयिकस्य च।
सम्भूयवणिजां पण्यमनर्घेणावरुन्धताम्।
प्रत्येकं विक्रीणताञ्च।
गृहीतमूल्यं पण्यन्तु क्रेतुर्नैव दद्यात्तस्यासौ सोदयं दाप्यः।
राज्ञा च पणशतं दण्ड्यः।
क्रीतमक्रीणतो या हानिः सा क्रेतुरेव स्यात्।
राजविनिषिद्धं विक्रीणतस्तदपहारः।
तारिकः स्थलजं शुल्कं गृह्णन् दश पणान् दण्ड्यः।
ब्रह्मचारिवानप्रस्थभिक्षुगुर्व्विणीतीर्थानुसारिणां नाविकः
शौल्किकः शुल्कमाददानश्च।
तच्च तेषांदद्याद्। द्यूते कूटाक्षदेविनां करच्छेदः।
उपधिदेविनां सन्दंशच्छेदः। ग्रन्थिभेदकानां करच्छेदः।
दिवा पशूनां वृकाद्युपघाते पाते त्वनापदि पालदोषः।

विनष्टपशुमूल्यञ्च स्वामिने दद्यात्।
अननुज्ञातांदुहन् पञ्चविंशतिकार्षापणान् दण्ड्यः।
महिषीचेच्छस्यनाशं कुर्य्यात्तत्पालकस्त्वष्टौमाषकान् दण्ड्यः।
अपालायाः स्वामी अश्वस्तूष्ट्रोगर्द्दभो वा।
गौश्चेत्तदर्द्ध तदर्द्धमजाविकम्।
भक्षयित्वोपविष्टेषु द्विगुणम्।
सर्व्वत्र स्वामिने बिनष्टशस्यमूल्यञ्च।
पथिग्रामसीमान्ते न दोषः अनावृते च अल्पकानाम्
उत्सृष्टवृषभसूतिकानाञ्च।
यस्तूत्तमवर्णान् दास्ये नियोजयेत्तस्योत्तमसाहसदण्डः।
त्यक्तप्रव्रज्यो राज्ञोदास्यं कुर्य्यात्।
भृतकश्चापूर्णकाले भृतिंत्यजन् सकलमेव मूल्यं दद्यात्।
राज्ञे च पणशतं दद्यात् तद्दोषेण यद्विनश्येत्तत् स्वामिने।
अन्यत्र दैपोवघातात्।
स्वामी चेद्भृतकमपूर्णे काले जह्यात्तस्य सर्व्वं मूल्यं दद्यात्।
पणशतञ्च राजनि अन्यत्र भृतकदोषात्।
यः कन्यां पूर्व्वदत्तामन्यस्मै दद्यात् स चौरवच्छास्यः।
वरदोषं विना निर्द्दोषां परित्यजन पत्नीञ्च अजानन्प्रकाशं
यः परद्रव्यं क्रीणीयात्तत्र तस्यादोषः।
स्वामी द्रव्यमाप्नुयात्।
यद्यप्रकाशं हीनमूल्यञ्च क्रीणीयात्तदा क्रेता
विक्रेताच चौरवच्छास्यौ॥

गणद्रव्यापहर्त्ता विवास्यः तत्सम्बिदं यश्च लङ्घयेत्।
निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः।
राज्ञाचौरवच्छास्यः यश्चानिक्षिप्तं निक्षिप्तमिति ब्रूयात्।
सीमाभेत्तारमुत्तमसाहसं दण्डयित्वा पुनः सीमां लिङ्गान्वितां कारयेत्।
जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः।
अभक्ष्यस्याविक्रेयस्य च विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डनीयः।
भिषङ्मिथ्याचरन्नुत्तमेषुपुरुषेषु।
मध्यमेषुमध्यमं तिर्यक्षु प्रथमम्।
प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्ड्यः।
कूटसाक्षिणां सर्वस्वापहारः कार्य्यः।
उत्कोचोपजीविनां सभ्यानाञ्च।
गोचर्ममात्राधिकां भुवमन्यस्याधीकृतां तस्मादानिर्मोच्यान्यस्य
यः प्रयेच्छेत् स वध्यः। ऊनाञ्चेत् षोड़शसुवर्णान् दण्ड्यः।

एकोऽश्नीयाद्यदुत्पन्नं नरः सम्वत्सरं फलम्।
गोचर्ममात्रा सा क्षीणी स्तोका वा यदि वा बहुः॥

ययोर्निक्षिप्तआधिस्तौ विवदेतां यदा नरौ।
यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता॥

सागमेन च भोगेन भुक्तं सम्यग्यदा भवेत्।
आहर्त्ता लभते तत्र नापहार्य्यन्तु तत् क्वचित्॥

पित्रा भुक्तन्तु यद्द्रव्यं भुक्त्याचारेण धर्मतः।
तस्मिन् प्रेते न वाच्योऽसौ भुक्त्वा प्राप्तं हि तस्य तत्॥

त्रिभिरेव च या भुक्ता पुरुषैर्भूर्यथाविधि।
लेख्याभारेऽपि तां तत्र चतुर्थः समवाप्नुयात्॥

नखिनांदंष्ट्रिणाञ्चैव शृङ्गिणामाततायिनाम्।
हस्त्यश्वानां तथान्येषां बधे हन्ता न दोषभाक्॥

गुरुं वा बालवृद्धौ वा बाह्मणं वा बहुश्रुतम्।
आततायिनमायान्तं हन्यादेवाविचारयन्॥

नाततायिबधेदोषो हन्तुर्भवति कश्चन।
प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृच्छति॥

उद्यतासिविषाग्निञ्च शापोद्यतकरं तथा।
आथर्व्वणेन हन्तारं पिशुनञ्चैव राजसु॥

भार्यातिक्रामणञ्चैव विद्यात् सप्ताततायिनः।
यशोवित्तहरानन्यानाहुधर्मार्थहारकान्॥

उद्देशतस्ते कथितो धरे! दण्डविधिर्मया।
सर्वेषामपराधानां विस्तरादतिविस्तरः॥

अपराधेषु चान्येषु ज्ञात्वा जातिं धनं वयः।
दण्डं प्रकल्पम्येद्राजा सम्मन्त्र्य ब्राह्मणैः सह॥

दण्ड्यंप्रमोचयन् दण्ड्याद्द्विगुणं दण्डमावहेत्।
नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः॥

यस्य चौरः पुरे नास्ति नान्यस्रीगो न दुष्टवाक्।
न साहसिक

दण्डरूतौ स

राजा शक्रलोकभाक्॥

इति वैष्णवे धर्मशास्त्रे पञ्चमोऽध्यायः॥

__________

अथोत्तमर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात्।
द्विकं त्रिकं चतुष्कं पञ्चकञ्च शतं वर्णानुक्रमेण
प्रतिमासं सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः।
अकृतामपि वत्सराति क्रमेण यथाविहिताम्।
आध्युपभोगेवृद्ध्यभावः।
दैवराजोपघाताट्टते विनष्टमाधिमुदृमर्णोदद्यात्।
अन्तवृद्धौप्रविष्टायामपि।
न स्थावरमाधिमृते वचनात् गृहीतधनप्रवेशार्थमेव
यत् स्थावरं दत्तंतद्गृहीतधनप्रवेशे दद्यात्।
दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्द्धते।
हिरण्यस्य परा वृद्धिर्द्विगुणा। धान्यस्य त्रिगुणा।
वस्त्रस्य चतुर्गुणा। सन्ततिः स्त्रीपशूनाम्।
किण्वकार्पाससूत्रचर्मायुधेष्टकाङ्गाराणामक्षया।
अनुक्तानां द्विगुणा।
प्रयुक्तमर्थं यथाकथञ्चित् साधयन्न राज्ञो वाच्यः स्यात्।
साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः।
उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमर्णो राज्ञे
धनदशभागसम्मितं दण्डंदद्यात्।
प्राप्तार्थश्चोत्तमर्णो विंशतितममंशम्।
सर्व्वापलाप्येकदेशविभावितोऽपि सर्वं दद्यात्।
तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समक्रिया च।
ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात्।

लिखितार्थप्रविष्टोलिखितं पाटयेत्।
असमग्रदाने लेख्यासन्निधाने चोत्तमर्णोलिखितं दद्यात्।
धनग्राहिणि प्रेतेप्रव्रजिते द्विदशसमाः प्रवसिते वा
तत्पुत्रपौत्रैर्धनं देयम्। नातः परमनीप्सुभिः।
सपुत्रस्य वाऽपुत्रस्य वा ऋक्थग्राही ऋणं दद्यात्।
निर्धनस्य स्त्रीग्राही। न स्त्री पतिपुत्रकृतम्।
नस्त्रीकृतं पतिपुत्री न पिता पुत्रकृतम्।
अविभभक्तैः कृतमृणं यस्तिष्ठेत् स दद्यात्।
पैतृकमृणमविभक्तानां भ्रातॄणाञ्च।
विभक्ताश्च दायानुरूपमंशम्।

गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पतिर्दद्यात्।
वाक्प्रतिपन्नं नादेयं कस्यचित्। कुटुम्बार्थे कृतञ्च।

यो गृहीत्वा ऋणंसर्वं श्वोदास्यामीतिसामकम्।
न दद्याल्लोभतः पश्चात्तथा वृद्धिमवाप्नुयात्॥

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते।
आद्यौतु वितथेदाप्यावितरस्यसुता अपि॥

बहवश्चेत् प्रतिभुवो दद्युस्तेऽर्थंयथाकृतम्।
अर्थेऽविशेषिते तेषु धनिकच्छन्दतःक्रिया॥

यमर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः।
ऋणिकस्तं प्रतिभुवेद्विगुणं दातुमर्हति॥

इति वैष्णवे धर्मशास्त्रे षष्ठोऽध्यायः॥

____________

अथ लेख्यं त्रिविधं राजसाक्षिकं ससाक्षिकमसाक्षिकञ्च।
राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं
राजसाक्षिकम्।
यत्र क्वचन येन केनचिल्लिखितं
साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकम्।
स्वहस्तलिखितमसाक्षिकम्। तद्बलात्कारितमप्रमाणम्।
उपधिकृताश्च सर्व एव।
दूषितकर्म दुष्टसाक्ष्यं तत्सामाक्षिकमपि।
तादृग्विधेनलिखितञ्च।
स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतञ्च।
देशाचाराविरुद्धं व्यक्ताधिकृतलक्षणमलुपक्रमाक्षरं प्रमाणम्।

वर्णैश्चतत्कृतैश्चिह्नैःपत्रैरेव च युक्तिभिः।
सन्दिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपितैः॥

यत्रर्णी धनिको वापि साक्षी वा लेखकोऽपि वा।
म्रियते यत्र तल्लेख्यंतत्स्वहस्तैः प्रसाधयेत्॥

इति वैष्णवे धर्मशास्त्रे सप्तमोऽध्यायः॥

___________

अथाष्टमोऽध्यायः।

अथ साक्षिणः न राजश्रोत्रियप्रव्रजितकितबतस्करपराधीन-स्त्रीबालसाहसिकातिवृद्धमत्तोन्मत्ताभिशस्तपतितक्षुत्तृष्णार्त्तव्यसनिरागान्धाः।
रिपुमित्रार्थसम्बन्धिविकर्मदृष्टदोषहायाश्च।
अनिर्द्दिष्टस्तुसाक्षित्वे यश्चोपेत्य ब्रुयात्। एकश्चासाक्षी।
स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः।
अथ साक्षिणः कुलजावृत्तवित्तसम्पन्ना यज्वनस्तपस्विनः
पुत्रिणोधर्मज्ञा अधीयानाः सत्यवन्तस्त्रैविद्यवृद्धाश्च।
अभिहितगुणसम्पन्नउभयानुमत एकोऽपि।
द्वयोर्विवदमानयोर्यस्य पूर्ववादरतस्य साक्षिणः प्रष्टव्याः।
आधर्य्यं कार्यवशाद्यत्र पूर्वपक्षस्यभवेत्तत्र प्रतिवादिनोऽपि।
उद्दिष्टसाक्षिणि मृते देशान्तरगते वातदभिहितज्ञातारःप्रमाणं
समक्षदर्शनात् साक्षी श्रवणाद्वा।
साक्षिणश्चसत्येन पूयन्ते। वर्णिनां यत्र बधस्तत्रानृतेन।
तत्पावनाय कुष्माण्डीभिर्द्विजोऽग्निंजुहुयात्।
शूद्र एकाह्णिकं गोदशकस्य ग्रासंदद्यात्।
स्वभावविकृतौ मुखवर्णविनाशेऽसम्बद्धप्रलापे च
कूटसाक्षिणं विद्यात्।
साक्षिणश्चाहुयादित्योदये कृतशपथान् पृच्छेत्।
ब्रूहीति ब्राह्मणं पृच्छेत्। सत्यं ब्रूहीति राजन्यम्।

गोवीजकाञ्चनैर्वैश्यम्। सर्वमहापातकैस्तु शूद्रम्।
साक्षिणः श्रावयेत्।
ये महापातकिनो लोका ये चोपपातकिनस्ते कूटसाक्षिणामपि।
जननमरणान्तरे कृतहानिश्च।
सत्येनादित्यस्तपति सत्येन भाति चन्द्रमाः।
सत्येन वाति पवनः। सत्येन भूर्धारयति।
सत्येनापस्तिष्ठन्ति। सत्येनाग्निस्तिष्ठति।
खव्च सत्येन। सत्येन देवाः। सत्येन यज्ञाः॥

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥

जानन्तोऽपि हि ये साक्ष्ये तुष्टीम्भूता उपासते।
ते कूटसाक्षिणां पापैस्तुल्या दण्डेन वाप्यथ॥

एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः।
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्॥

अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः।
बहुत्वं प्रतिगृह्णीयात् साक्षिद्वैधे नराधिपः॥

समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान्।
यस्मिन् यस्मिन् विवादे कूटसाक्ष्यनृतं वदेत्।
तत्तत्कार्यं निवर्त्तेत कृतं वाप्यकृतं भवेत्॥

इति वैष्णवे धर्मशास्त्रेऽष्टमोऽध्यायः॥

_____________

अथाष्टमोऽध्यायः।

अथ साक्षिणः न राजश्रोत्रियप्रव्रजितकितबतस्करपराधीन-
स्त्रीबालसाहसिकातिवृद्धमत्तोन्मत्ताभिशस्तपतितक्षु-
त्तृष्णार्त्तव्यसनिरागान्धाः।
रिपुमित्रार्थसम्बन्धिविकर्मदृष्टदोषसहायाश्च।
अनिर्द्दिष्टस्तुसाक्षित्वेयश्चोपेत्य ब्रुयात्। एकश्चासाक्षी।
स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः।
अथ साक्षिणः कुलजावृत्तवित्तसम्पन्ना यज्वनस्तपस्विनः
पुत्रिणोधर्मज्ञाअधीयानाः सत्यवन्तस्त्रैविद्यवृद्धाश्च।
अभिहितगुणसम्पन्न उभयानुमत एकोऽपि।
द्वयोर्विषदमानयोर्यस्य पूर्ववादात्तस्य साक्षिणः प्रष्टव्याः।
आधर्म्यंकार्यवशाद्यत्र पूर्वपक्षस्य भवेत्तत्र प्रतिवादिनोऽपि।
उद्दिष्टसाक्षिणि मृते देशान्तरगते वातदभिहितज्ञातारः प्रमाणम्
समक्षदर्शनात् साक्षी श्रवणाद्वा।
साक्षिणश्चसत्येन पूयन्ते। वर्णिनां यत्र बधस्तत्रानृतेन।
तत्पावनाय कुष्माण्डीभिर्द्विजोऽग्निंजुहुयात्।
शूद्र एकाह्णिकं गोदशकस्य प्रासंदद्यात्।
स्वभावविकृतौ मुखवर्णविनाशेऽसम्बद्धप्रलापे च
कूटसाक्षिणं विद्यात्।
साक्षिणश्चाहुयादित्योदये कृतशपथान् पृच्छेत्।
ब्रूहीति ब्राह्मणं पृच्छेत। सत्यं ब्रूहीति राजन्यम्।

गोबीजकाञ्चनैर्वैश्यम्। सर्वमहापातकैस्तु शूद्रम्।
साक्षिणः श्रावयेत्।
ये महापातकिनो लोका ये चोपपातकिनस्ते कूटसाक्षिणामपि।
जननमरणान्तरे कृतहानिश्च।
सत्येनादित्यस्तपति सत्येन भाति चन्द्रमाः।
सत्येन वाति पवन। सत्वेनभूर्धारयति।
सत्येनापस्तिष्ठन्ति। सत्येनाग्निस्तिष्ठति।
स्वञ्चसत्येन। सत्येन देवाः। सत्येन यज्ञाः॥

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव बिशिष्यते॥

जानन्तोऽपि हि ये साक्ष्ये तुष्टीम्भूता उपासते।
ते कूटसाक्षिणां पापैस्तुल्या दण्डेन वाप्यथ॥

एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः।
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्॥

अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः।
बहुत्वं प्रतिगृह्णीयात् साक्षिद्वैधेनराधिपः॥

समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान्।
यस्मिन् यस्मिन् विवादे कुटसाक्ष्यनृतं वदेत्।
तत्तत्कार्यं निवर्त्तेत कृतं वाप्यकृतं भवेत्॥

इति वैष्णवे धर्मशास्त्रेऽष्टमोऽध्यायः॥

————

सा च न वाति वायौ।
न कुष्ठसमर्थलोहकाराणामग्निर्देयः।
शरद्ग्नीऽष्मयोश्च न कुष्ठिपैत्तिकब्राह्मणानां विषंदेयं -
प्रावृषिच न श्लेष्मव्याध्यर्द्दितानां भीरुणां -
श्वासकासिनामम्बुजीविनाञ्चोदकम्।
हेमन्तशिशिरयोश्च नास्तिकेभ्यः कोशोदेयः –
न दशे व्याधिमयकोपसृष्टे च।

सचैलं स्नातमाहूय सूर्योदय उपोपितम्।
कारयेत् सर्वदिव्यानि देवब्राह्मणसन्निधौ॥

इति वैष्णवेधर्मशास्त्रे नवमोऽध्यायः॥

————

॥अथ दशमोऽध्यायः॥

अथ घटः।

चतुर्हरतोच्छितो द्विहरतायतः।
तत्र सारवृक्षोद्भवपञ्चहस्तायतोभयतः शिष्यातुला।
ताश्च सुवर्णकारकांस्यकाराणामन्यतमोविधृयात्।
तत्र चैकस्मिन् शिक्ये पूरूषमारोपयेद्द्वितीये प्रतिमानं शिलादि।
प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषमवतारयेत्।
घटञ्चसमयेन गृह्णीयात् तुलाधारञ्च॥

ब्राह्मघ्नोये स्मृता लोका ये लोकाःकूटसाक्षिणः।
तुलाधारस्य ते लोकास्तुलां धारयतोमृषा॥

धर्मपर्यायवचनैर्धट इत्यभिधीयते।
त्वमेव घट! जानीषे न विदुर्यानि मानुषाः॥

व्यवहाराभिशस्तोऽयं मानुष स्तुल्यते त्वयि।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि॥

ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम्।
तुलितो यदि वर्द्धेत ततः स धर्मतः शुचिः॥

शिक्यच्छेदेऽक्षभङ्गेषुभूयस्त्वारोपयेन्नरम्।
एवं निःसंशयं ज्ञानं यतो भवति निर्णयः॥

इति वैष्णवे धर्मशास्त्रे दशमोऽध्यायः॥

————

॥अथ एकादशोऽध्यायः॥

अथाग्निः।

षोडशाङ्गुलं तावदन्तरं मण्डलं सप्तकं कुर्यात्।
ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य समाश्वत्थ पत्राणि
करयौर्दद्यात्।
तानि च करद्वयसहितानि सूत्रेण वेष्टयेत्।

ततस्तत्राग्निवर्णं लोहपिण्डं पञ्चाशत्पलिकं संन्यसेत्।
तमादायनातिद्रुतं नाविलम्बितं मण्डलेषु पदन्यासं कुर्वन् ब्रजेत्।
ततः सप्तम मण्डलमतीत्य भूमौपिण्डं जह्यात्।

यद्यन्यचिह्नितकरस्तमशुद्धं विनिर्द्दिशेत्।
न दग्धः सर्वथा यस्तु स वै शुद्धो भवेन्नरः॥

भयाद्वा पातयेद्यस्तु दुग्धो वा न विभाव्यते।
पुनस्तं धारयेत् पिण्डं समयस्याविशोधनात्॥

करौ विमृदितव्रीहेस्तस्यादादेव लक्षयेत्।
अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत्॥

त्वमग्ने! सर्व्वभूतानामन्तञ्चरसि साक्षिवत्।
त्वमेवाग्ने ! विजानीषे न विदुर्यानि मानवाः॥

व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि॥

इति वैष्णवे धर्मशास्त्रे एकादशोऽध्यायः॥

————

॥अथ द्वादशोऽध्यायः॥

अथौदकम्।

पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि।
तत्र नाभिमग्नस्यारागद्वेषिणः पुरुषस्यान्यस्य जानुनी
गृहीत्वाभिमन्त्रितस्तम्भ प्रविशेत्।
तत्समकालञ्च नातिक्रूरमृदुना धनुषा पुरुषोऽपरः
शरक्षेपंकुर्यात्।

तञ्चापरश्च पुरुषो यवेन शरमानयेत्।
तन्मध्ये यो दृश्येत सशुद्धः परिकीर्तितः॥

अन्यथा त्वविशुद्धः स्यादेकाङ्गस्यापि दर्शने।
स्वयम्भः! सर्वभूतानामन्तश्चरसि साक्षिवत्॥

त्वमेवाम्भो ! विजानीषे न विदुर्यानि मानुषाः।
व्यवहाराभिशस्तोऽयं मानुषस्त्वयि मज्जति।
तदेनं संशयादस्माद्धर्मतत्त्रातुमर्हसि॥

इति वैष्णवे धर्मशास्त्रे द्वादशोऽध्यायः॥


॥अथ त्रयोदशोऽध्यायः॥

अथ विषम्।

विषाण्यदेयानि सर्व्वानि ऋते हिमाचलोद्भवाच्छार्ङ्गात्।
तस्य च यवसप्तकं घृतप्लुतमभिशस्तायदद्यात्।

विषंवेगक्रमापेतं सुखेन यदि जीर्यते।
विशुद्धं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत्॥

विपत्वाद्विषमत्याच्चक्रूर! त्वं सर्व्वदेहिनाम्।
त्वमेव विष! जानीषे न विदुर्यानि मानुषाः॥

व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति।
तदेनं संसायादस्माद्धर्मतस्त्रातुमर्हसि॥

इति वैष्णवे धर्मशास्त्रे त्रयोदशोऽध्यायः॥

————

॥अथ चतुर्दशोऽध्यायः॥

अथ कोशः।

उग्रान्देवान् समभ्यर्च्चय तत्स्नानोदकात् प्रसृतित्रयं पिबेत्।
इदं मया न कृतमिति व्याहरन् देवताभिमुखः।
यस्य पश्येत्द्विसप्ताहात्त्रिसप्ताहादथापि वा॥

रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा।
तमशुद्धं विजानीयात्तथा शुद्धं विपर्यये।
दिव्ये च शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः॥

इति वैष्णवे धर्मशास्त्रेचतुर्द्दशोऽध्यायः॥

॥अथ पञ्चदशोऽध्यायः॥

अथ द्वादश पुत्रा भवन्ति।

स्वेक्षेत्रे संस्कृतायामुत्पादितः स्वयमौरसः प्रथमः।
नियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः।
पुत्रिकापुत्रस्तृतीयः।
यस्तस्याः पुत्रः स मे पुत्रोभवेदिति या पित्रा दत्ता सा पुत्रिका-
पुत्रिकाविधिना प्रतिपादिता पितृभ्रातृविहीना पुत्रिकैव।
पौनर्भवश्चतुर्थः अक्षता भूयः संस्कृता पुनर्भूः।
भूयस्त्वसंस्कृतापि परपूर्वा। कानीनः पञ्चमः।
पितृगृहेऽसंस्कृवैवोत्पादितः।
स च पाणिग्राहस्य गृहे च गूढोत्पन्नः षष्ठः।
यस्य तल्पजस्तस्यासौ सहोढःसप्तमः।
गर्भिणी या संस्कृयते तस्याः पुत्रः स च पाणिग्राहस्य -
दत्तकश्चाष्टमः।
स च मातापितृभ्यां यस्यदत्तः क्रीतश्चनवमः।
स च येन क्रीतः स्वयमुपगतो दशमः।
स च यस्योपगतः अपविद्धस्त्वेकादशः।
पित्रा मात्रा च परित्यक्तः स च येन गृहीत् -
यत्र क्वचनोत्पादितश्च द्वादशः।
एतेषांपूर्वः पूर्वः श्रेयान्। स एव दायहारः॥
स चान्यान्विभृयात्।

अनूढनां स्ववित्तानुरूपेण संस्कारं कुर्यात्।
पतितक्लीवाचिकित्सरोगविकला स्त्वभागहारिणः।
ऋक्थग्राहिभिस्ते भर्त्तव्याः।
तेषाञ्चौरसाः पुत्रा भागहारिणः।
न तु पतितस्य पतनीये कर्मणि कृते त्वनन्तरोत्पन्नाः।
प्रतिलोमासु स्त्रीषु चोत्पन्नाश्चाभागिनः
तत्पुत्राः पैतामहेऽप्यर्थे अंशग्राहिभिस्ते भरणीयाः।
यश्चार्यहरः स पिण्डदायी।
एकोढानामप्येकस्याः पुत्रः सर्वासां पुत्र एव च।
भ्रातॄणामेकजातानाञ्च।
पुत्रः पितृबित्तालाभेऽपि पिण्डं दद्यात्।

पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः।
तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा॥

ऋृणमस्मिन् सन्नयति अमृतत्वञ्च गच्छति।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतोमुखम्॥

पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति पिष्टपम्॥

पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते।
दौहित्रोऽपि ह्यपुत्रं तं सन्तारयति पौत्रवत्॥

इति वैष्णवे धर्मशास्त्रे पञ्चदशोऽध्यायः॥

॥अथ षोडशोऽध्यायः॥

समानवर्णासुपुत्राः सवर्णा भवन्ति।
अनुलोमासु मातृवर्णाः। प्रतिलोमास्वार्य्यविगर्हिताः।
तत्रवैश्यापुत्रः शूद्रेणायोगवः।
पुक्वसमागधौ क्षत्रियापुत्रौ वैश्यशूद्राभ्यां।
चाण्डालवैदेहकसुताश्च ब्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः।
सङ्करसङ्कराश्चासंख्येयाः। रङ्गावतरणमायोगवानाम्।
व्याधता पुकसानाम्। स्तुतिक्रिया भागधानाम्।
पञ्चपातित्वं चाण्डालानाम्।
स्त्रीरक्षा तज्जीवनञ्च वैदेहकानाम्। अश्वसारथ्यं सूतानाम्।
चाण्डालानां वहिर्ग्रासनिवसनं मृतचैलधारणमिति विशेषः।
सर्व्वेषाञ्चसमानजातिभिर्विहाराः स्वपितृवित्तानुहरणञ्च।

सङ्करे जानयस्त्वेताः पितृमातृप्रदर्शिता।
प्रच्छना वा प्रकाशा वावेदितव्याः स्वकर्म्मभिः॥

ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः।
स्त्रीबालाभ्युपपत्तौच बाह्यानंसिद्धिकारणम्॥

इति वैष्णये धर्मशास्त्रेषोडशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725548742Screenshot2024-09-05203438.png"/>

॥अथ सप्तदशोऽध्यायः॥

पिता चेत् पुत्रान् विभजैस्तस्य स्वेच्छा स्वयमुपात्तेऽर्थे।
पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वम्।

पितृविभक्ताविभागानन्तरोत्पन्नस्य भागंदद्युः।
अपुत्रस्य धनं पत्न्यभिगामि। तदभावे दुहितृगामि।
तदभावे पितृगामि। तदभावे मातृगामि।
तदभावे भ्रातृगामि।तदभावे भ्रातृपुत्रगामि।
तदभावे बन्धुगामि। तदभावे सकुल्यगामि।
तदभावे सहाध्यायिगामि।
तदभावे ब्राह्मणधनवर्ज्जंराजगामि। ब्राह्मणार्थोब्राह्मणानाम्।
वानप्रस्थधनमाचार्य्यो गृह्णीयात् शिष्यो वा।

संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः।
दद्यादपहरेच्चाशं जातस्य च मृतस्य च॥
पितृमातृसुतभ्रातृदत्तमध्यग्न्युपागतम्॥

आधिवेदनिकं बन्धुदत्तं शुल्कमन्वाधेयकमिति स्त्रीधनम्।
ब्राह्मादिषु चतुर्षु विवाहेष्वप्रजायामतीतायां तद्भर्त्तुः।
शेषेषु च पिता हरेत्।
सर्वेष्वेव प्रसूतायायद्धनं तद्दुहितृगामि।

पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत।
न तं भजेरन् दायादा भजमानाः पतन्ति ते॥

अनेकपितृकाणाञ्च पितृतो भागकल्पना।
यस्य यत् पैतृकं रिक्थं स तद्गृह्णीत नेतरः॥

इति वैष्णवे धर्मशास्त्रे सप्तदशोऽध्यायः॥

॥अथ अष्टादशोऽध्यायः॥

ब्राह्मणस्य चतुर्षु वर्णेषु चेत्पुत्रा भवेयुस्ते पैतृकमृक्थंदशधाविभजेयुः तत्र ब्राह्मीपुत्रश्चतुरोंऽशानादद्यात्।
क्षत्रियापुत्रस्त्रीन्।द्वावंशौवैश्यापुत्रः।
शूत्रापुत्रस्त्वेकं अथ चेच्छूद्रापुत्रवर्ज्जं ब्राह्मणस्य पुत्रत्रयं -
भवेत्तदा तद्धनंनवधाविभजेयुः।
वर्णानुक्रमेण चतुस्त्रिद्विभागकृतानंशानादद्युः।
वैश्यवर्ज्जमष्टधाकृतं चतुरस्त्रीनेकञ्चादद्यः।
क्षत्रियवर्ज्जं सप्तधाकृतं चतुरो द्वावेकञ्च।
ब्राह्मणवर्ज्जं षड्धाकृतं त्रीन्द्वावेकञ्च।
क्षत्रियस्य क्षत्रियावैश्याशूद्रापुत्रेष्वयमेव विभागः।
अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौपुत्रौ स्यातां तदा सप्तधा -
कृताद्धनाद् ब्राह्मणश्चतुरोंऽशानादद्यात्त्रीन् राजन्यः।
अथ ब्राह्मणस्य ब्राह्मणवैश्यो तदा षड्धाविभक्तस्य -
चतुरोंऽशान् ब्राह्मण आदद्याद्द्वावंशौवैश्यः।
अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां तदा तद्धनं -
पञ्चधाविभजेयातां चतुरोंऽशान् ब्राह्मणस्यादद्यादेकं शूद्रः।
अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ स्यातां तदा तद्धनं -
पञ्चधा विभजेयातां त्रीनंशान् क्षत्रियस्त्वादद्याद्द्वावंशौवैश्यः।
अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां तदा -
तद्धनं चतुर्द्धा विभजेयातां त्रीनंशान् क्षत्रियस्त्वादद्यादेकं शूद्रः।
अथ ब्राह्मणस्य क्षत्रियत्य वैश्यस्य वा वैश्यशूद्रौपुत्रौ स्यातां-

स्यातां तदा तद्धनं त्रिधा विभजेयातां द्वावंशौ
वैश्यस्त्वादद्यादेकं शूद्रः।
अथैकपुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः।
क्षत्रियस्य राजन्यवैश्यौ। वैश्यस्य वैश्याः। शूद्रः शूद्रस्य।
द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्द्धहरः।
अपुत्रऋृक्थस्य या गतिः सात्रार्द्धस्य द्वितीयस्य।
मातरः पुत्रभागानुसारेण भागहारिण्यः।
अनूढाश्च दुहितरः। समवर्णाः पुत्राः समानंशानादद्युः।
ज्येष्ठाय श्रेष्ठमुद्धारं दद्युः।
यदि द्वौ ब्राह्मणीपुत्रौ स्यातामेकः शूद्रापुत्रस्तदा ब्राह्मणपुत्रावष्टौभागानादद्यातामेकं शूद्रापुत्रः।
अथ शूद्रापुत्रावुभौ स्यातामेकोब्राह्मणीपुत्रस्तदा षड्विभक्त-
स्यार्थस्य चतुरोंऽशान् ब्राह्मणस्त्वादद्याद्द्वावंशौ शूद्रापुत्रौ।
अनेन क्रमेणान्यत्राप्यंशकल्पना भवति।

विभक्ताः सहजीवन्तो विभजेरन् पुनर्यदि।
समस्तत्र विभागः स्याज्ज्यैष्ठंतत्र न विद्यते॥

अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम्।
स्वयमीहितलब्धंतन्नाकामो दातुमईति॥

पैतृकन्तु यदा द्रव्यमनवाप्य यदाप्नुयात्।
न तत् पुत्रैर्भजेत् सार्द्धमकामः स्वयमर्ज्जितम्॥

वस्त्रं पत्रमलङ्कारः कृतान्नमुदकं स्त्रियः।
योगक्षेमं प्रचारञ्चन विभाज्यञ्चपुस्तकम्॥

इति वैष्णवे धर्मशास्त्रेऽष्टादशोऽध्यायः॥

॥अथ एकोनविंशोऽध्यायः॥

मृतं द्विजं न शूद्रेण निर्हारयेत्। न शूद्रंद्विजेन।
पितरं मातरञ्च पुत्रानिर्हरेयुः।
न द्विजं पितरमपि शूद्राः ब्राह्मणमनाथंये ब्राह्मणा -
निर्हरन्ति ते स्वर्गलोकभाजः।
निर्हत्य च बान्धवं प्रेतं सत्कृत्याप्रदक्षिणेन
चितामभिगम्याप्सु सवाससो निमज्जनं कुर्युः।
प्रेतस्योदकनिर्वपणंकृत्यैकपिण्डं कुशेषु दद्युः।
परिवर्त्तितवाससश्च निम्नपत्राणि विदश्चद्वार्य्यस्मनिपदन्यासं कृत्वा गृहं प्रविशेयुः।
अक्षतांश्चाग्नौ क्षिपेयुः चतुर्थे दिवसेऽस्थिसञ्चयं कुर्य्युः।
तेषाञ्चगङ्गाम्भसि प्रक्षेपः।
यावत् सङ्घयमस्थि पुरुषस्य गङ्गाम्भसि तिष्ठति -
तावद्वर्षसहस्राणि स्वर्गलोकमधितिष्ठति।
यावदाशौचं तावत् प्रेतस्योदकं पिण्डमेकञ्चदद्युः।
क्रीतलब्धाशनाश्च भवेयुः। अमांसाशनाश्च।
स्थण्डिलशायिनश्च। पृथक्शायिनश्च।
ग्रामान्निष्कम्याशौचान्ते कृतश्मश्रुकर्म्माणस्तिलकल्कैः -
सर्पपकल्कैर्व्वास्राताः परिवर्तितवाससो गृहं प्रविशेयुः।
तत्र शान्तिंकृत्वा ब्राह्मणानाञ्च पूजनं कुर्य्युः।
देवाः परोक्षदेवाः प्रत्यक्षदेवा ब्राह्मणाः।
ब्राह्मणैर्लोकाधार्यन्तेI

ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः।
ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित्॥

यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति।
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः॥

दुःखान्वितानां मृतबान्धवानामाश्वासनं कुर्य्युरदीनसत्त्वाः।
वाक्यैस्तुयैर्भूमि तवाभिधास्ये वाक्यान्यहं तानि मनोऽभिरामे॥

इति वैष्णवे धर्मशास्त्रे एकोनविंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725608834Screenshot2024-09-06005213.png"/>

॥अथ विंशोऽध्यायः॥

यदुत्तरायणं तदहर्द्देवानाम्। दक्षिणायनं रात्रिः।
सम्बत्सरोऽहोरात्रः तत्त्रिंशता मासाः मासा द्वादश वर्षम्।
द्वादशवर्षशतानि दिव्यानि कलियुगम्। द्विगुणानि द्वापरम्।
त्रिगुणानि त्रेता चतुर्गुणानि कृतयुगम् -
द्वादशवर्षसहस्राणि दिव्यानि चतुर्युगम्।
चतुर्युगानामेकसप्ततिर्मन्वन्तरम्। चतुर्युगसहस्रञ्च कल्पः।
स च पितामहस्याह। तावती चास्य रात्रिः।
एवंविधेनाहोरात्रेण मासवर्षगणनया सर्व्वस्यैव -
ब्रह्मणोवर्पशरुमायुः
ब्रह्मायुषाच परिच्छिन्नः पौरुषो दिवसः।
तस्यान्ते महाकल्पः। तावत्येवास्य निशा।

पौरुषाणामहोरात्राणामतीतानां संख्यैवनास्ति।
न च भविष्याणाम्। अनाद्यन्तेता कालस्य॥

एवमस्मिन्निरालम्बे काले सततयायिनि।
न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्ध्रुवा॥

गङ्गायाः सिकताधारास्तथा वर्षति वासवे।
शक्या गणयितुं लोके न व्यतीताःपितामहाः॥

चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः।
सर्वलोकप्रधानाञ्चमानवश्च चतुर्द्दश॥

बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च।
विनष्टानीह कालेन मनुजेष्यथ का कथा॥

राजर्षयश्च बहवः सर्वे समुदिता गुणैः।
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः॥

ये समर्था जगत्यस्मिन् सृष्टिसंहारकारिणः।
तेऽपि कालेन लीयन्ते कालोहि दुरतिक्रमः॥

आक्रम्य सर्वः कालेन परलोकञ्चनीयते।
कर्मपाशवशो जन्तुः का तत्र परिदेवना॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।
अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता॥

शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तिः॥

सुकृतंदुष्कृतञ्चोभौ सहायौ यस्य गच्छतः।
बान्धवैस्तस्य किं कार्यं शोचद्भिरथवा न वा॥

बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति।
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः॥

अर्वाक्सपिण्डीकरणात् प्रेतो भवति यो मृतः।
प्रेतलोकगतस्यान्नंसोदकुम्भं प्रयच्छत॥

पितृलोकगतश्चान्नं श्राद्धेभुङ्क्ते स्वधामयम्।
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत॥

देवत्वेयातनास्थाने तिर्य्यग्योनौ तथैव च।
मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः॥

प्रेतस्यश्राद्धकर्त्तुश्चपुष्टिः श्राद्धेकृते ध्रुवम्।
तस्माच्छ्राद्धं सदा कार्यं शोकं त्वक्ता निरर्थकम्॥

एतावदेव कर्त्तव्यं सदा प्रेतस्य बन्धुभिः।
नोपकुर्यान्नरः शोकात् प्रेतस्यात्मन एव वा॥

दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान्।
धर्म्ममेकं सहायार्थं वरयध्वं सदा नराः!॥

मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम्।
जायावर्ज्जंहि सर्वस्य याम्यः पन्था विरुध्यते॥

धर्म एकोऽनुयात्येनं यत्र क्वचन गामिनम्।
नन्वसारे नृलोकेऽस्मिन् धर्मं कुरुत मा चिरम्॥

श्वः कार्यमद्य कुर्वीत पूर्वाह्णेचापराह्णिकम्।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वाऽकृतम्॥

क्षेत्रापणगृहासक्तमन्यत्र गतमानसम्।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति॥

न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते।
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम्॥

नाप्राप्तकालो म्रियते बिद्धः शरशतैरपि ।
कुशाग्रेणापि संस्पृष्टःप्राप्तकालो न जीवति॥

नौषधानि न मन्त्राश्चन होमा न पुनर्जपाः।
त्रायान्ते मृत्युनोपेतं जरया वापि मानवम्॥

आगामिनमनर्थंहि प्रविधानशतैरपि ।
न निवारयितुं शक्तस्तत्र का परिदेवना॥

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्।
तथा पूर्वकृतं कर्म्म कर्त्तारं विन्दते ध्रुवम्॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ।
अव्यक्तनिधनान्येव तत्र का परिदेवना॥

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥

गृह्णातीह यथा वस्त्रं त्यक्त्वापूर्वधृताम्बरम्।
गृह्णात्येवंनवं देहं देही कर्म्मनिबन्धनम्॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
नचैनं क्लेदयन्त्यापो न शोषयति मारुतः॥

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्यएव च।
नित्यः सततगः स्धाणुरचलोऽयं सनातनः॥

अव्यक्तोऽयमचिन्त्योऽयमविकार्य्योऽयमुच्यते।
तस्मादेवं विहित्वैनं नानुशोचितुमर्हथ॥

इति वैष्णवे धर्मशास्त्रे विंशोऽध्यायः॥

॥अथ एकविंशोऽध्यायः॥

अथाशौचव्यपगमे सुस्नातः सुप्रक्षालितपाणिपाद आचान्तस्त्वेवंबिधान् ब्राह्मणान् यथाशक्त्युदङ्मुखान् गन्धमाल्यवस्त्रालङ्कारादिभिः पूचितान् भोजयेत्।
एकवन्मन्त्रानूहेतैकोद्दिष्टे।
उच्छिष्टसन्निधावेकमेव तन्नामगोत्राभ्यां पिण्डं निर्वपेत्।
भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां
दत्ताक्षय्योदकश्चतुरङ्गुलपृथ्वीस्तावदन्तरास्तादधःखाता
वितस्त्यायतास्तिस्रःकर्षूःकुर्य्यात्।
कर्पूसमीपे चाग्नित्रयमुपसमाधाय परिस्तीर्य्यतत्रैकैकस्मिन्नाहुतित्रयं जुहुयात्।
सोमाय पितृमते स्वधा नमः।
अग्नये कव्यवाहनाय स्वधा नमः।
यमायाङ्गिरसे स्वधा नमः।
स्थानत्रये च प्राग्वत्पिण्डनिर्वपणं कुर्य्यात्।
अन्नदधिघृतमधुमांसैःकर्पूत्रयं पूरयित्वैतदिति जपेत्।
एवं मृताहे प्रतिमासं कुर्य्यात्।
सम्बसरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहस्य -
च ब्राह्मणान् देवपर्व्वान् भोजयेत्।
अत्राग्नौ करणमावाहनं पाद्यञ्चकुर्य्यात्।
संसृजतु त्वापृथिवीसमानीव इति च प्रेतपाद्यापात्रे -
पितृपाद्यपात्रत्रये योजयेत्।
उच्छिष्टसन्निधौ पिण्डचतुष्टयंकुर्य्यात्।

ब्राह्मणांश्च स्वाचान्तान्दत्तदक्षिणांश्चनुब्रज्यविसर्जयेत्।
ततःप्रेतपिण्डंपाद्यपात्रोदकवत् पिण्डत्रये निदध्यात्।
कर्पूत्रयसन्निकर्षेऽप्येवमेव।
सपिण्डीकरणं मासिकार्थवद्द्वादशाहं श्राद्धं कृत्वा
त्रयोदशेऽह्निवा कुर्य्यात्।
मन्त्रवर्जं हि शूद्राणां द्वादशेऽह्नि।
सम्वत्सराभ्यन्तरे यद्यधिमासो भवेत्तदा मासिकार्थे
दिनमेकञ्चवर्द्धयेत्।

सपिण्डीकरणं स्त्रीणां कार्य्यामेवं तथा भवेत्।
यावज्जीवं तथा कुर्य्याच्छ्राद्धन्तु प्रतिवत्सरम्॥

अर्वाक् सपिण्डीकरणं यस्यसम्बत्सरात् कृतम्।
तस्याप्यन्नं सोदकुम्भंदद्याद्वर्षंद्विजन्मने॥

इति वैष्णवे धर्मशास्त्रे एकविंशोऽध्यायः॥

————.

॥अथ द्वाविंशोऽध्यायः॥

ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहमशौचम्।
द्वादशाहंराजन्यस्य। पञ्चदशाहं वैस्यस्य। मासं शूद्रस्य।
सपिण्डताच पुरुषे सप्तमे विनिवर्त्तते।
अशौचे होमदानप्रतिग्रहस्वाध्याया निवर्त्तन्ते।
नाशौचे कस्यचिदन्नमश्नीयात् ।

ब्राह्मणादीनामशौचे यः सकृदेवान्नमश्नाति तस्य -
तावदशौचं यावत्तेषाम्।
अशौचापगमे प्रायश्चित्तं कुर्य्यात्।
सवर्णस्याशौचे द्विजो भुक्त्वास्रवन्तीमासाद्य तन्निमग्नस्त्रिरघमर्षणंजप्त्वोत्तीर्य्यगायत्र्यष्टसहस्रं जपेत्।
क्षत्रियाशौचे ब्राह्मणस्त्वेतदेवोपोषितः कृत्वा शुद्धति।
वैश्याशौचे राजन्यश्च।
वैश्याशौचे ब्राह्मणस्त्रिरात्रोपोषितश्च। ब्राह्मणाशौचे राजन्यः -
क्षत्रियाशौचे वैश्यः स्रवन्ती मासाद्य गायत्रीशतपञ्चकं जपेत्।
वैश्यश्चब्राह्मणाशौचे गायत्र्यष्टशतं जपेत्।
शूद्राशौचे द्विजो भुक्त्वा प्राजापत्यव्रतञ्चरेत्।
शूद्रश्च द्विजाशौचे स्नानमाचरेत्।
शूद्रः शूद्राशौचे स्नातः पञ्चगव्यं पिवेत्।
पत्नीनां दासानामानुलोम्येन स्वामिनस्तुल्यमशौचम्।
मृते स्वामिन्यात्मीयम्।
हीनवर्णानामधिकवर्णेषु तदपगमे शुद्धिः।
ब्राह्मणस्य क्षत्रविट्शूद्रेषु षड्रात्रत्रिरात्रौकरात्रैः।
क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्याम्।
वैश्यस्य शूद्रेषु षड्रात्रेण। मासतुल्यैरहोरात्रैर्गर्भस्रावे।
जातमृते मृतजाते वा कुलस्य सद्यःशोचम्।
अदन्तजाते बाले प्रेते सद्य एव।
नास्याग्निसंस्कारो नोदकक्रिया।

दन्तजाते त्वकृतचूडेत्वहोरात्रेण।
कृतचडंत्वसंस्कृतेत्रिरात्रेण। ततः परं यथोत्तकालेन।
स्त्रीणां विवाहः संस्कारः।
संस्कृतासु स्त्रीषु नाशौचं भवति पितृपक्षे।
तत्प्रसवमरणेचेत् पितृगृहे स्यातां तदैकरात्रंत्रिरात्रञ्च।
जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्तदा पूर्व्वाशौचव्यपगमे शुद्धिः। रात्रिशेषे दिनद्वयेन।
प्रभाते दिनत्रयेण। मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम्।
श्रुत्वा देशान्तरस्थजननमरणे रोषेण शुध्येत्।
व्यतीतेऽशौचे सम्वत्सरान्तस्त्वेकरात्रेण।
ततः परं स्नानेन। आचार्य्येमातामहे च व्यतीते त्रिरात्रेण॥
अनौरसेषु पुत्रेषु जातेषु च मृतेषु च।
परपूर्व्यासु भार्य्यासु प्रसूतासु मृतासु च।
आचार्य्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वशुर्य्यसहाध्यायि -
शिष्येष्बतीतेष्वेकरात्रेण। स्वदेशराजनि च।
असपिण्डे स्ववेश्मनि मृते च।
भृग्वग्न्यनाशकाम्वुसंग्रामविद्युन्नृपहतानां नाशौचम्।
न राज्ञां राजकर्म्मणि। न ब्रतिनां व्रते।
न शत्रिणां सत्रे। न कारूणां स्वकर्म्मणि।
न राजाज्ञाकारिणां तदिच्छया।
न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोः।
न देशविप्लवे। आपद्यपि च कष्टायाम्।

आत्मत्यागिनः पतिताश्च नाशौचोदकभाजः।
पतितस्य दासी मृतेऽह्निपादाभ्यां घटमपवर्ज्जयेत्।
उद्बन्धनमृतस्य यः पाशं च्छिन्द्यात् स तप्तकृच्छ्रेण शुध्यति।
आत्मघातिनां संस्कर्त्ता च। तदश्रुपातकारी च।
सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन।
अकृते त्वस्थिसञ्चये सचैलस्नानेन।
द्विजः शूद्रप्रेतानुगमनं कृत्वा स्रवन्तीमासाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वोत्तीर्य्य गायत्र्यष्टसहस्रं जपेत्।
द्विजप्रेतस्याष्टशतम्।
शूद्रः प्रेतानुगमनं कृत्वा स्नानमाचरेत्।
चिताधूमसेवने सर्वे वर्णाः स्नानमाचरेयुः।
मैथुने दुःस्वप्नेरुध्रिरोपगतकण्ठे वमनविरेकयोश्च।
श्मश्रुकर्म्मणि कृते च।
शवस्पृशञ्च स्पृष्ट्वा रजस्वलाचाण्डालयूपांश्च।
भक्ष्यवर्ज्जं पञ्चनखशवं तदस्थि सस्नेहञ्च।
सर्वेष्वेतेषु स्नानेषु पूर्वं वस्त्रं नाप्राक्षालितं विभृयात्।
रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति।
रजस्वला हीनवर्णंरजस्वलां स्पृष्ट्वान तावदश्नीयाद्यावन्न शुद्धा।
सवर्णामधिकरणां वा स्पृष्ट्वा स्नात्वाश्नीयात्।
क्षुत्वा सुप्त्वाभोजनाध्ययने पीत्वा स्नात्वा निष्ठीव्यवासः परिधाय रध्यामाक्रम्य मूत्रपुरीषे कृत्वा पञ्चनखस्य-
सस्नेहास्थि स्पृष्ट्वाचाचामेत्।

चाण्डालम्लेच्छसम्भाषणेच।
नाभेरधस्तात् प्रवाहेषु च कायिकैर्मलैःसुराभिर्व्योपहतोमृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्यति।
अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्यस्नानेन।
वक्तोपहतम्तुपोष्यस्नात्वा पञ्चगव्येन।
दशनच्छदोपहतश्च॥

वसा शुक्रमसृङ्मज्जामूत्रविट्कर्णविड्नस्वाः।
श्लेष्माश्रुदुषिकास्वेदो द्वादशैते नृणां मलाः॥

गौड़ी माध्वीच पैष्टी च विज्ञेया त्रिविधा सुरा।
यथैवैकातथा सर्व्वा न पातव्या द्विजातिभिः॥

माधुकमैक्षवं टाङ्कं कौलं स्वार्ज्जुरपानसे।
मृद्विकारसमाध्वीके मैरेयं नारिकेलजम्॥

अमेव्यानि दशैतानि मद्यानि ब्राह्मणस्य च।
राजन्यश्चैव वैश्यश्च स्पृष्ट्वैतानि न दुष्यतः॥

गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन्।
प्रेताहारैःसमं तत्र दशरात्रेण शुध्यति॥

आचार्य्यं स्वमुपाध्यायं पितरं मातरं गुरुम्।
निर्हृत्य तु ब्रती प्रेतान्नव्रतेन वियुज्यते॥

आदिष्ठीनोदकं कुर्य्यादाब्रतस्य समापनात्।
समाप्ते तदुकंकृत्वा त्रिरात्रेण विशुध्यति॥

ज्ञानंतपोऽग्निराहारो मृण्मनोवार्य्युपाञ्जनम्।
वायुः कर्म्मार्ककालौच शुद्धिकर्तॄणि देहिनाम्॥

सर्वेषामेव शौचानामन्नशौचं परं स्मृतम्।
योऽन्ने शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः॥

क्षान्त्याशुद्ध्यन्ति विद्वांसो दानेनाकार्यकारिणः।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमः॥

मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुद्ध्यति।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः॥

अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति।
विद्यातपोभ्यांभूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति॥

एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः।
नानाविधानां द्रव्याणां शुद्धेः शृणु विनिर्णयम्॥

इति वैष्णवे धर्मशास्त्रे द्वाविंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725814090Screenshot2024-09-06192603.png"/>

॥अथ त्रयोविंशोऽध्यायः॥

शारीरैर्मलैःसुराभिर्मद्यैर्व्यायदुपहतं तदत्यन्त्योपहतम्।
अत्यन्तोपहतं सर्व्वं लोहभाण्डमग्नौप्रक्षिप्तं शुद्ध्येत्।
मणिमयमश्ममयमब्जञ्चसप्तरात्रं महीनिस्वनेन।
शृङ्गदंष्ट्रास्थिमयं तक्षणेन। दारवं मृण्मयञ्चजह्यात्।
अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं विरज्येत तच्छिन्द्यात्।
सौवर्णराजताब्जमणिमयानां निर्लेपानामद्भिःशुद्धिः।
अश्ममयानाञ्चमसानां ग्रहाणाञ्च।
चरुस्रुक्स्रुवाणामुष्णेनाम्भसा।

यज्ञकर्मणि यज्ञपात्राणांपाणिना संमार्ज्जनेन।
स्पयशूर्पशकटमुषलोलूषलानां प्रोक्षणेन।
शयनयानासनानाञ्च।
बहूनाञ्चधान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससाञ्च।
शाकमूलफलपुष्पाणाञ्च। तृणकाष्ठशुष्कपलाशानां च।
एतेषां प्रक्षालनेन। अल्पानाञ्च। ऊषैःकौशेयाविकयोः।
अरिष्टकैः कुतपानाम्। श्रीफलैरंशुपदानाम्।
गौरसर्षपैः क्षौमाणाम् शृङ्गास्थिदन्तमयानाञ्च।
पद्माक्षैमृगलोमिकानाम्।
ताम्ररीतित्रपुसीसमयानामम्लोदकेन।
भस्मनाकांस्यलौहयोः। तक्षणेन दारवाणाम्।
गोबालैःफलसम्भवानाम्। प्रोक्षणेन संहतानाम्।
उत्पवनेन द्रव्याणाम्।
गुड़ादीनाभिक्षुविकाराणां प्रभूतानां गृहनिहितानां-
वार्य्यग्निदानेन।
सर्वलवणानाञ्च। पुनः पाकेन मृण्मयानाम्।
द्रव्यवत्कृतशौचानां देवतार्ञ्चानां भूयः प्रतिष्ठापनेन।
असिद्धस्यान्नस्य यावन्मात्रमुपहतं तन्मात्रं परित्यज्य-
शेषस्य कण्डनप्रक्षालने कुर्यात्।
द्रोणाद्यधिकं सिद्धमन्नमुपहतंन दुष्यति।
तस्योपहतमात्रमपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः-

प्रक्षिपेत् वस्तस्य च प्रदशयेदग्नेः।

पक्षिजग्धंगवाघ्रातमवधूतमवक्षुतम्।
दूषितं केशकीटैश्चमृदः क्षेपेण शुद्ध्यति॥

यावन्नापैत्यमेध्याक्ताद्गन्धोलेपश्च तत्कृतः।
तावन्मृद्वारि देयं स्यात् सर्वासु द्रव्यशुद्धिषु॥

अजाश्वंमुखतो मेध्यं न गौर्ननरजा मलाः।
पन्थानश्च विशुद्ध्यन्ति सोमसूर्यां शुमारुतैः॥

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः।
मारुतेनैव शुद्ध्यन्ति पयवेष्टकचितानि च॥

प्राणिनामथ सर्वेषां मृद्भिरद्भिश्चकारयेत्।
अत्यन्तोपहतानाञ्च शौचं नित्यमतन्द्रितः॥

भूमिष्ठमुदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत्।
अव्याप्तञ्चेदमेध्येन तद्वदेव शिलागतम्॥

वह्निप्रज्वालनं कुर्य्यात् कूपे पक्वेष्टकाचिते।
पञ्चगव्यं न्यसेत् पश्चान्नवतोयसमुद्भवे॥

जलाशयेष्वथाल्पेषु स्थावरेषु वसुन्धरे!।
कूपवत् कथिता शुद्धिर्महत्सु च न दूषणम्॥

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्।
अदृष्टमद्भिर्निर्णिक्तं यच्चवाचा प्रशस्यते॥

नित्यं शुद्धः कारुहस्तः पण्यं यच्चप्रसारितम्।
ब्राह्मणान्तरितं भोक्ष्यमाकराः सर्वएव च॥

नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः॥

श्वभिर्हतस्य यन्मासं शुचि तत् परिकीर्तितम्।
क्रव्याद्भिश्च हतस्वान्यैश्चाण्डालाद्यैश्च दस्युभिः॥

उर्द्धं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत्।
यान्यधस्तान्यमेध्यानि देदाच्चैव मलाश्च्युताः॥

मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः।
रजोभूर्वायुरग्निश्चमार्जारश्चसदा शुचिः॥

नोच्छिष्टंकुर्वते मुख्या विप्रुषोऽङ्गे न यान्ति याः।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम्॥

स्पृशन्ति विन्दवः पादौ य आचामयतः परान्।
भौमिकैस्ते समाज्ञेया न तैरप्रयतो भवेत्॥

उच्छिष्टेन तु संसृपृष्टो द्रव्यहस्तः कथञ्चन।
अनिधायैव तद्द्रव्यमत्वान्तः शुचिताभियात्॥

मार्ज्जनोपाञ्जनैर्वेश्मप्रोक्षणेन च पुस्तकम्।
समार्ज्जनेनाञ्जनेन सेकेनोल्लेखनेन च॥

दाहेन च भुवः शुद्धिर्वासेनाप्यथवा गवाम्।
गावः पवित्रं मङ्गल्यंगोषुलोकाः प्रतिष्ठिताः।
गावो वितन्वते यज्ञंगावः सव्वार्धसूदनाः॥

गोमूत्रं गोमयं सर्पिःक्षीरं दधिच रोचना।
षड़ङ्गमेतत्परमं मङ्गल्यंसर्वदा गवाम्॥

शृङ्गोदकं गवां पुण्यं सर्व्वाधविनिसुदनम्।
गवां कण्डुयनञ्चैव सर्वकल्पपनाशनम्।
गवां ग्रासप्रदानेन स्वर्गलोके महीयते॥

गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथा सा रजसि प्रवृद्धा।
लक्ष्मीः करीषे प्रणतौ च धर्म्मस्तासां प्रणामं सतञ्चकुर्य्यात्॥

इति वैष्णवे धर्मशास्त्रे त्रयोविंशोऽध्यायः॥

————

॥अथ चतुर्विंशोऽध्यायः॥

अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भार्य्याभवन्ति-
तिस्रः क्षत्रियस्य। द्वे वैश्यस्य। एका शूद्रस्य।
तासां सवर्णावेदने पाणिर्ग्राह्यः।
असवर्णावेदने शरः क्षत्रियकन्यया।
प्रतोदो वैश्यकन्यया। वसनदशान्तः शूद्रकन्यया।
न सगोत्रान समानार्षप्रवरां भार्य्यां विन्देत्-
मातृतस्त्वा पञ्चमात् पुरुषात् पितृतश्चासप्तमात्।
नाकुलीनाम् न च व्याधिताम्। नाधिकाङ्गीम्।
न हीनाङ्गम्। नातिकपिलाम्। न वाचाटाम्।
अथाष्टौ विवाहा भवन्ति।
ब्राह्मौ दैव आर्षः प्राजापत्यो गान्धर्व आसुरो-
राक्षसः पैशाचश्चेति। आहूय गुणवते कन्यादानं ब्राह्मः।
यज्ञस्थऋृत्विजे दैवः। गोमिथुनग्रहृणेनार्षः।
प्रार्थिताप्रदानेन प्राजापत्यः।
द्वयोः सकामयोर्म्मातापितृरहितो योगो गान्धर्वः।

क्रयेणासुरः। युद्धहरणेन राक्षसः।
सुप्तप्रमत्ताभिगमनात् पैशाचः।
एतेष्वाद्याश्चत्वारोधर्म्याः। गान्धर्व्वोऽपि राजन्यानाम्।
ब्राह्मीपुत्रः पुरुषादेकविंशतिं पुनीते। दैवीपुत्रश्चतुर्द्दश।
आर्षीपुत्रश्चसप्त। प्राजापत्यश्चतुरः।
ब्राह्मेण विवाहेन कन्यां ददद्व्रह्मलोकं गमयति।
दैवेन स्वर्गम्। प्राजापत्येन देवलोकम्।
गान्धर्वेण गन्धर्वलोकं गच्छति
पिता पितामहो भ्राता सकुल्यो मातामहो माता-
द्येति कन्याप्रदाः। पूर्व्वाभावे प्रकृतिस्थः परः परः।

ऋतुत्रयमुपास्यैव कन्या कुर्यात् स्वयम्बरम्।
ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा॥

पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता।
सा कन्या वृषली ज्ञेयाहरंस्तांन विदुष्यति॥

इति वैष्णवे धर्मशास्त्रे चतुर्विंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725816495Screenshot2024-09-08114906.png"/>

॥अथ पञ्चविंशोऽध्यायः॥

अथ स्त्रीणां धर्म्माः।

भर्त्तुःसमानव्रतचारित्वम्।
श्वश्रुश्वशुरगुरुदेवतातिथिपूजनम्। सुसंस्कृतोपस्करता।
अमुक्तहस्तता।पुगुप्तभाण्डता।
मूलक्रियास्वनभिरतिः। मङ्गलाचारतत्परता।
भर्त्तरि प्रवासितेऽप्रतिकर्म्मक्रिया। परगृहेष्वनभिगमनम्।
द्वारदेशगवाक्षकेषु नावस्थानम्। सर्व्वकर्म्मस्वस्वतन्त्रता।
बाल्ययौवनवार्द्धकेष्वपि पितृभर्तृपुत्राधीनता।

मृते भतरि ब्रह्मचर्य्यं तदन्वारोहणं वा।
नास्ति स्त्रीणां पृथक्यज्ञो न व्रतं नाप्युपोषणम्।
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते॥

पत्यौ जीवति या योषिदुपवासव्रतञ्चरेत्।
आयुः सा हरते भर्तुर्नरकञ्चैव गच्छति॥

मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता।
स्वर्गंगच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः॥

इति वैष्णवे धर्मशास्त्रे पञ्चविंशोऽध्यायः॥

————

॥अथ षड्विंशोऽध्यायः॥

सवर्णासु बहुभार्य्यासुविद्यमानासु ज्येष्ठया सह-
धर्म्मकार्य्यं कुर्य्यात्।
मिश्रासु च कनिष्ठ्यापि समानवर्णया।
समानवर्णाभावे त्वनन्तरयैवापदि च। नन्वेव द्विजः शूद्रया।

द्विजस्य भार्य्या शूद्रा तु धर्म्मार्थेन भवेत् क्वचित्।
रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता॥

हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः।
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम्॥

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु।
नादन्ति पितृदेवास्तु न च सर्गं स गच्छति॥

इति वैष्णवे धर्मशास्त्रे षड्विंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725860348Screenshot2024-09-09110823.png"/>

॥अथ सप्तविंशोऽध्याय॥

गर्भस्य स्पष्टताज्ञाने निषेककर्म्म।
स्पन्दनात् पुरा पुंसवनम् षष्ठेऽष्टमे वा सीमान्तोन्नयनम्।
जाते च दारके जातकर्म। अशौचव्यपगमने नामधेयम्।
मङ्गल्यं ब्राह्मणस्य। बलवत् क्षत्रियस्य। धनोपेतं वैश्यस्य।
जुगुप्सितं शूद्रस्य। चतुर्थेमास्यादित्यदर्शनम्।
षष्ठेऽन्नप्राशनम्। तृतीयेऽब्दे चूडाकरणम्।

एता एव क्रियाः स्त्रीणाममन्त्रकाः।
तासां समन्त्रको विवाहः।
गर्भाष्टमेऽब्देब्राह्मणस्योपनयनम्। गर्भैकादशे राज्ञः।
गर्भद्वादशे विशः। तेषां मुञ्जज्यावल्यजमय्यो मौञ्ज्यः।
कार्पासराणाविकान्युपवीतानि वासांसि च।
मार्गवैयाघ्रवास्तानि चर्म्माणि।
पालाशखादिरौडुम्बरा दण्डाः।
केशान्तललाटनासादेशतुल्याः सर्व्व एव वा।
भवदाद्यं भवन्मध्यं भवदन्तञ्चभैक्ष्यचरणम्।

आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्त्तते।
आद्वाविंशात् क्षत्रबन्धोराचतुर्विशतेर्विशः॥

अत ऊर्द्ध्वंत्रयोऽप्येते यथाकालमसंस्कृताः।
सावित्री पतिता व्रात्या भवन्त्यार्यविगर्हिताः॥

यद्यस्य विहितं चर्म यत्सूत्रंया च मेखला।
यो दण्डो यच्चवसनं तत्तदस्य व्रवेष्वपि॥

मेखलामजिनं दण्डमुपवीतं कमण्डलुम्।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्॥

इति वैष्णवे धर्मशास्त्रे सप्तविंशोऽध्यायः॥

————

॥अथ अष्टाविंशोऽध्यायः॥

अथ ब्रह्मचारिणां गुरुकुले वासः। सन्ध्याद्वयोपसनम्।
पूर्वांसन्ध्यां जपेत्तिष्ठन् पश्चिमामासीनः।
कालद्वयमभिषेकाग्निकर्मकरणम्।
अप्सुदण्डवन्मज्जनम्। आहूताध्ययनम्
गुरोः प्रियहिताचरणम्। मेखलादण्डाजिनोपवीतधारणम्।
गुरुकुलवर्जं गुणवत्सु भैक्ष्याचरणम्।
गुर्वनुज्ञातो भैक्ष्याभ्यवहरणम्।
श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्ट-
प्राणिहिंसाशीलपरिवर्ज्जनम्।
अधः शय्या। गुरोः पूर्वोत्थानं चरमं संवेशनम्।
कृतसन्ध्योपासनञ्च गुर्व्वभिवादनं कुर्यात्।
तस्य च व्यत्यस्तकरः पादावुपस्पृशेत्।
दक्षिणं दक्षिणेनेतरमितरेण।
स्वञ्चनामास्याभिवादनान्ते भोःशब्दान्तं निवेदयेत्।
तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मुखश्च-
नास्यामिभाषणं कुर्यात्।
आसीनस्योपस्थितः कुर्यातिष्ठतोऽभिगच्छन्नागच्छतः-
प्रत्युद्गम्य पश्चाद्धावन् धावतः।
पराङ्मुखस्याभिमुखःदूरस्थस्यान्तिकमुपेत्यः।
शयानस्य प्रणम्य।
तस्य च चक्षुर्विषये न यथेष्टासनःस्यात्।

नचास्य केवलं नाम ब्रूयात्।
गतिचेष्टाभाषितादिकं नास्य कुर्यात्।
तत्रास्य निन्दापरीवादी स्यातां न तत्र तिष्ठेत्।
नास्यैकासनो भवेत्। ऋते शिलाफलकनौयानेभ्यः।
गुरोगुरौ सन्निहिते गुरुवद्वर्त्तेत।
अनिर्दिष्टोगुरुणा स्वान् गुरून्नाभिवादयेत्।
बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्त्तेत।
नास्य पादौ प्रक्षालयेत् नोच्छिष्टमश्नीयायात्।
एवं वेदं वेदौवेदान् वास्वीकुर्यात्। ततो वेदाङ्गानि।
यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौससन्तानः शूद्रत्वमेति।
मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम्।
तत्रास्य माता सावित्री भवति पिता त्याचार्य्यः।
एतेनैव तेषां द्विजत्वम्।
प्राङ्मौञ्जीबन्धनाद्द्विजः शूद्रसमो भवति।
ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यम्।
वेदस्वीकरणादूर्ध्वंगुर्व्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात्।
ततो गुरुकुल एव जन्मनः शेषं नयेत्।
तत्राचार्य्ये प्रेते गुरुवद्गुरुपुत्रे वर्त्तेत।
गुरुदारेषु सवर्णेषु या।
तदभावेऽग्निश्रुषुर्नैष्ठिको ब्रह्मचारी स्यात्॥

एवञ्चरतियो विप्रो ब्रह्मचर्यमतन्द्रितः।
स गच्छत्युत्तमं स्थानं न चेहा जायते पुनः॥

कामतो रेतसः सेको ब्रतस्थस्य द्विजन्मनः।
अतिक्रमब्रतस्याहुर्ब्रह्मज्ञा ब्रह्मवादिन्॥

एतस्मिन्नेनसि प्राप्ते वसित्वागर्द्दभाजिनम्।
साप्तागारचरेद्भैक्ष्यस्वकर्म परिकीर्त्तयन्॥

तेभ्यो लब्धेन भैक्ष्येण वर्त्तयन्नेकालिकम्।
उपस्पृशंस्रिषवणमब्देन स विशुद्ध्यति॥

स्वप्ने सिक्त्वाब्रह्मचारी द्विजः शुक्रमकामतः।
स्नात्वार्कमर्च्चयित्वा त्रिः पुनर्मामित्र्यृचंजपेत्॥

अकृत्वा भैक्ष्यचरणमसमिध्य च पावकम्।
अनातुरः सप्ररात्रमवकीर्णो ब्रतञ्चरेत्॥

तञ्चेदभ्युदियात् सूर्यंशयानं कामकातर।
निम्लोचेद्वाप्यविज्ञानाज्जपन्नुसेहिनम्॥

इति वैष्णवे धर्मशास्त्रेऽष्टाविंशोऽध्याय॥

<MISSING_FIG href="../books_images/U-IMG-1725864928Screenshot2024-09-09122357.png"/>

॥अथ एकोनत्रिंशोऽध्यायः॥

यस्तूपनीय ब्रतादेशं कृत्वा वेदमध्यापयेत्तमाचार्यं विद्यात्।
यस्त्वेनमल्पेनाध्यापयेत्तमुपाध्यायमेकादेशं वा।

यो यस्य यज्ञे कर्माणि कुर्य्यात्तमृत्विजं विद्यात्।
नापरीक्षितं याजयेत् नाध्यापयेत् नोपनयेत्॥

अधर्मेण च यः प्राह यश्च धर्मेण पृच्छति।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति॥

धर्मार्थौयत्र न स्यातां शुश्रूषा वापि तद्विधा।
तत्र विद्या न वक्तव्या शुभं वीजमिवोपरे॥

विद्याह वै ब्राह्मणमाजगाम गोपाय मां शेवधिस्तेहमस्मि।
असूयकायानृजवेऽयताय न मां ब्रुया वीर्य्यवती तथा स्याम्॥

यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्य्योपपन्नम्।
यस्तेन द्रुह्येत् कतमांश्चनाह तस्मै मां व्रुया बिधिपाय ब्रह्मन्!॥

इति वैष्णवे धर्मशास्त्रे एकोनत्रिंशोऽध्यायः॥

————

॥अथ उनत्रिंशोऽध्यायः॥

श्रावण्यां पौष्ठपद्यं वा च्छन्दांस्युपाकृत्यार्द्ध पञ्चमान-
मासानधीयीत।
ततस्तेषामुत्सर्गं बहिः कुर्यान्नानुपाकृतानाम्।
उत्ससर्गोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं कुर्यात्।
नाधीयीताहोरात्रं चतुर्द्दश्यष्टमीषु च।
नात्वन्तरग्रहसूतके। नेन्द्रियप्रयाणे।
न वाति चण्डपवने। नाकालवर्षविद्युत्स्तनितेषु।
न भूकम्पोल्कापातदिग्दाहेषु।

नान्तःशवेग्रामे। न शस्त्रसंपाते।
नश्वशृगालर्द्दभनिह्नादे। न वादित्रशब्दे।
न शूद्रपतितयोः समीपे।
न देवतायतनश्मशानचतुष्पथरथ्यासु। नोदकान्तः।
न पीठोपहितपादः। न हस्त्यश्रोष्ट्रनौगोयानेषु। न वान्तः।
न विरिक्तः। नाजीर्णी। न पश्चनखान्तरागमने।
न राजश्रोत्रियगोब्राह्यणव्यसने। नोपाकर्म्मणि।
नोत्सर्गे न सामध्वनावृग्ययुषी। नापररात्रमधीत्य शयीत।
अभियुक्तोऽप्यनध्यायेष्वध्ययनं परिहरेत्।
यस्मादनध्ययनाधीतं नेहनामुत्र फलदम।
तदध्ययनेनायुषः क्षयो गुरुशिष्ययोश्च।
तस्मादनध्यायवर्जं गुरुणा व्रह्मलोककामेन विद्या-
सच्छिष्यक्षेत्रेषु वक्तव्य।
शिष्येण व्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्य्यम्।
प्रणवश्च व्याहर्त्तव्यः।
तत्र च यद्दचोऽधीते तेनास्याज्येन पितॄणां तृप्तिर्भवति।
यद्यजूंषितेन मधुना। यत्सामानि तेन पयसा।
यञ्चाथर्व्वणन्तेन मासेन।
यत्पुराणेतिहासवेदाङ्गधर्म्मशास्त्राण्यधीते तेनास्यान्नेन-
यश्वविद्यामासद्यास्मिंल्लोके तया जीवेन्न सा तस्य-
परलोके फलप्रदा भवेत्।
यश्चविद्यया यशः परेषांहन्ति।

अनुज्ञातश्चान्यस्मादधीयानान्न विद्यामादद्यत।
तददानमस्य ब्रह्मणः स्तेयं नरकाय भवति।

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा।
आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन॥

उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता।
ब्रह्मजन्म हि विप्रयस्य प्रेत्य चेह च शाश्वतम्॥

कामान्माता पिता चैनं यदुत्पादयती मिथः।
सम्भूतिं तस्य तां विद्याद्यद्योनाविह जायते॥

आचार्य्यस्तस्य यांजातिं बिधिवद्वेदपारगः।
उत्पादयति सावित्र्या सा सत्या साजरामरा॥

य आवृणोत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन्।
तं वै मन्येत् पितरं मातरञ्च तस्मै न द्रुह्येत् कृतमस्य जानन्।

इति वैष्णवे धर्मशास्त्रे त्रिंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725875190Screenshot2024-09-09143127.png"/>

॥अथ एकत्रिंशोऽध्यायः॥

त्रयः पुरुषस्यातिगुरो भवन्ति।
माता पिता आचार्य्यश्च।
तेषां नित्यमेव शुश्रूषुणा भवितव्यम्।
यत्ते ब्रूयुस्तत्कुर्य्यात्। तेषां प्रियहितमाचरेत्।
न तैरननुज्ञातः किञ्चिदपि कुर्य्यात् ।

एत एव त्रयोवेदा एत एवत्रयः सुराः।
एतएव त्रयो लोका एत एवा त्रयोऽग्नयः॥

पितागार्हपत्योऽग्निर्दक्षिणाग्निर्माता गुरुराहवनीयः।
सर्वे तस्यादृता धर्म्मा यस्यैते त्रय आदृताः॥

अनादृतास्तुयस्यै ते सर्वास्तस्याफलाः क्रियाः।
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्॥

गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते।

इति वैष्णवे धर्मशास्त्रे एकत्रिंशोऽध्यायः॥

—————

॥अथ द्वात्रिंशोऽध्यायः॥

राजर्त्विक्श्रोत्रियाधर्म्मप्रतिषेध्युपाध्यायपितृव्यमातामह-
मातुलश्वशुरज्येष्ठभ्रातृसम्वन्धिनश्राचार्य्यवत्।
पत्न्या एतेषां सवर्णाः।
मातृष्वसा पितृष्वसा ज्वेष्ठास्वसा च।
श्वशुरपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थान-
मेवाभिवादनम्।
हीनवर्णानां गुरुपत्नीना दूरादभिवादनं न पादोपसंस्पर्शनम्।
गुरुपत्नीनांगात्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनं
न कुर्य्यात्।

असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा।
न च गुरुणां त्वमिति ब्रुयात्।
तदतिक्रमे निराहारो दिवसान्ते तंप्रसाद्याश्नीयात्।
न च गुरुणा सह विगृह्य कथां कुर्य्यात्।
नैव चास्य परीवादम्। न चानभिप्रेतम्।

गुरुपत्नी तु युवतिर्न्नाभिवाद्येह पादयोः।
पूर्णे विंशतिवर्षे च गुणदोषौ विजानता॥

कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि।
अभिवादनकं कुर्य्यादसावहमिति ब्रुवन्॥

विप्रोष्यपादग्रहणमन्वहञ्चाभिवादनम्।
गुरुदारेषु कुर्व्वीत सतां धर्ममनुस्मरन्॥

वित्तं बन्धुर्वयः कर्म्म विद्या भवति पञ्चमी।
एतानि मानस्थानानि गरीयो यद्यदुत्तरम्॥

ब्राह्मणं दशवर्षञ्चशतवर्षञ्चभूमिपम्।
पिता पुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणान्तु वीर्य्यतः।
वैश्यानां धान्यधनतः शुद्राणामेव जन्मनः॥

इति वैष्णवे धर्मशास्त्रेद्वात्रिंशोऽध्यायः॥

————

॥अथ त्रयस्त्रिंशोऽध्यायः॥

अथ पुरुषस्य कामक्रोधलोभास्व्यंरिपुत्रयं सुघोरं भवति।
परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिनः।
तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोप-
पातकेषु प्रवर्त्तते।
जातिभ्रंशकरेषु सङ्करीकरणेष्वपात्रीकरणेषु च।
मलावहेषु प्रकीर्णकेषु च।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामक्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥

इति वैष्णवे धर्मशास्त्रे त्रयस्त्रिंशोऽध्यायः॥

————

॥अथ चतुस्त्रिंशोऽध्यायः॥

मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि।
अविपातकिनस्त्वेते प्रविशेयुर्हुताशनम्।
नाह्यन्या निस्कृतिस्तेषांविद्यते हि कथञ्चन।

इति वैष्णवे धर्मशास्त्रे चतुस्त्रिंशोध्याय॥

———

॥अथ पञ्चत्रिंशोऽध्यायः॥

ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमिति -
महापातकानि। तत्संयोगश्च।
सम्वत्सरेण पतति पतितेन सहाचरन्।
एकयानभोजनाशनशयनैः।
यौनस्त्रौवमौखसम्बन्धात् सद्य एव।

अश्वमेधेन शुद्धेयुर्महापातकिनस्त्विमे।
पृथिव्यां सर्वतीर्थानां तथानुसरणेन वा॥

इति वैष्णवेधर्मंशास्त्रे पञ्चत्रिंशोऽध्यायः॥

————

॥अथ षट्त्रिंशोऽध्यायः॥

यागस्थस्यक्षत्रियस्य वैश्यस्य च रजस्वलायाश्चार्न्तर्व्व-
त्र्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च -
घातनं ब्रह्महत्यासमानीति।
कौटासाक्ष्यं सुहृदबधएतौ सुरापानसमौ।
ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमम्।
पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं -
गुरुदारगमनसमम्। पितृष्वसृमातृष्वसृस्वसृगमनञ्च।

श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनञ्च।
स्वसुः सख्याःस गोत्राया उत्तमवर्णायाःकुमार्य्यां -
अन्त्यजायारजस्वलायाः शरणागतायाः प्रव्रजिताया-
निक्षिप्तायाश्च।

अनुपातकिनस्त्वेते महापातकिनो यथा।
अश्वमेधेन शुद्ध्यन्ति तीर्थानुसरणेन वा॥

इति वैष्णवेधर्मशास्त्रे षट्त्रिंशोऽध्यायः॥
————

॥अथ सप्तत्रिंशोऽध्यायः॥

अनृतवचनमुत्कर्षे। राजगामि च पैशुन्यम्।
गुरोश्चार्लोकनिर्बन्धः। वेदनिन्दा।अधीतस्य च त्यागः।
अग्निमातृपितृसुतदाराणाञ्च। अभोज्यन्नाभक्ष्यभक्षणम्।
परस्वापहरणम्। परदाराभिगमनम्। अयाज्ययाजनम्।
विकर्मणाजीवनश्च असत्प्रतिग्रहश्च। क्षत्त्रविट्शूद्रगोबधः।
अविक्रेयविक्रयः। परिवित्तितानुजेन ज्येष्टस्यपरिवेदनम्।
तस्य च कन्यादानम्। याजनञ्च। ब्रात्यता।
भृतकाध्यापनम्। भृताश्वाध्ययनादानम्।
सर्वाकरेष्वधिकारः। महायत्त्रप्रवर्त्तनम्।
द्रमगुल्मवल्लीलतौषधीनांहिंसा। स्त्रीजीवनम्।

अभिचारबलकर्मसु प्रवृत्तिः। आत्मार्थे क्रियारम्भः।
अनाहिताग्निता। देवर्षिपितृऋणानामनपाक्रिया।
असच्छास्त्राभिगमनम्। नास्तिकता। कुशीलवता।
मद्यपस्त्रीनिषेवणम्। इत्युपपातकानि।

उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः।
पराकञ्चतथा कुर्युर्यजेयुर्गोमखेन वा॥

इति वैष्णवे धर्मशास्त्रे सप्तत्रिंशोऽध्यायः॥

॥अथ अष्टात्रिंशोऽध्यायः॥

ब्राह्मणस्य रुजः करणम्। अपेयमद्ययोर्घ्रातिः जैह्मयम्।
पशुषुमैथुनाचरणं पुंसि च। इति जातिभ्रंशकराणि।

जातिभ्रंशकरं कर्म कृत्यान्यतममिच्छया।
कुर्यात् सान्तपनं कृन्छ्रं प्राजापत्यमनिच्छया॥

इति वैष्णवे धर्मशास्त्रे अष्टात्रिंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725939590Screenshot2024-09-09183835.png"/>

॥अथ द्विचत्वारिंशत्तमोऽध्यायः॥

यदनुक्तं तत्प्रकीर्णकम्।

प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम्।
प्रायश्चित्तं बुधः कुर्याद् ब्राह्मणानुमतः सदा॥

इति वैष्णवे धर्मशास्त्रे द्विचत्वारिंशत्तमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725945573Screenshot2024-09-09185417.png"/>

॥अथ त्रिचत्वारिंशत्तमोऽध्यायः॥

अथ नरकाः। तामिस्रम्। अन्धतामिस्रम्। रौरवम्।
महारौरवम्। कालसूत्रम्। महानरकम्। संजीवनम्।
अवीचि। तापनम्। सम्प्रतापनम्। संघातकम्।
काकोलम्। कण्डूलम्। कुट्टानम्। पूतिमृत्तिकम्।
लोहशङ्कुः। ऋचीसम्। विषमपन्थानम्।
कण्टकशाल्मलिः। दीपनदी। असिपत्रवनम्।
लोहचारकमिति।
एतेष्वकृतप्रायश्चित्ता अतिपातकिनःपर्यायेण कल्पं पच्यन्ते।
महापातकिनो मन्वन्तरम्। अनुपातकिनश्चातुर्युगम्।
कृतसङ्करीकरणाश्चसम्वत्सरसहस्रम्।
कृतजातिभ्रंशकरणाश्च। कृतापात्रीकरणाश्च।
कृतमलिनीकस्णाश्च। प्रकीर्णकपातकिनञ्च बहून् वर्षयुगान्।

कृतपातकिनः सर्वे प्राणत्यागादनन्तरम्।
याम्यं पन्थानमासाद्य दुःखमश्नन्ति दारुणम्॥

यमस्यपुरुत्रैर्घोरैःकृष्यमाणा यतस्ततः।
सुकृच्छ्रेणानुकारेण नीयमानाञ्चते यथा॥

श्वभिः श्रृगालैःक्रव्यादैःकाककङ्कवकादिभिः।
अग्नितुण्डेर्भक्ष्यमाणा भुजङ्गैर्वृश्चिकैस्तथा॥

अग्निना दह्यमानाश्च नुद्यमानाश्च कण्टकैः।
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया॥

क्षुवयाव्यथमानाश्च घोरैर्व्याघ्रगणैस्तथा।
पूयशोणितगन्धेन मूर्च्छमानाः पदे पदे॥

परान्नपानं लिप्सन्तस्तड्यमानाश्च किङ्करैः।
काककङ्कवकादीनां भीमानांसदृशाननैः॥

क्वचित् क्वाथ्यन्ति तैलेन ताड्यन्ते मुषलैः क्वचित्।
आयसीषु च बिष्यन्ते शिलासु च तथा क्वचित्॥

क्वचिद्वान्तमथाश्नन्ति क्वचित् पूयमसृक् क्वचित्।
क्वचिद्विष्ठां कचिन्मासं पूयगन्धि सुदारुणम्॥

अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित्।
कृमिभिर्भक्ष्यमाणाश्चवह्नितुण्डैश्च दारुणैः॥

क्वचिच्छीतेनबाध्यन्ते क्वचिद्वा मेध्यमध्वगाः।
परस्परमथाश्नन्तिक्वचित् प्रेताःसुदारुणाः॥

क्वचिद्भूतेन ताड्यन्तेलम्वमामानास्तथा क्वचित्।
क्वचित् क्षिप्यन्ति वाणौवैरुत्कृत्यन्ते तथा क्वचित्।
कण्ठेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः।
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः॥

भग्नपृष्ठशिरोग्रीवाःसूचीकण्ठाः सुदारुणाः।
कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः॥

एवं पातकिनः पापमनुभूय सुदुःखिताः।
तिर्यग्योनौप्रपद्यन्ते दुःखानि विविधानि च॥

इति वैष्णवेधर्मशास्त्रे त्रिचत्वारिंशत्तमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725958789Screenshot2024-09-09183835.png"/>

॥अथ चतुश्चत्वारिंशत्तमोऽध्यायः॥

अथ पापात्मनंनरकेष्वनुभूतदुःखानां तिर्यग्योनयो भवन्ति।
अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः।
महापातकिनाञ्च कृमियोनयः।
उपपातकिनां जलजयोनयः।
कृतजातिभ्रंशकराणां जलचरयोनयः।
कृतसङ्करीकरणकर्मणांमृगयोनयः।
कृतापात्रीकरणकर्मणां पशुयोनयः।
कृतमलिनीकरणकर्मणां मनुष्येष्वसृश्ययोनयः।
प्रकीर्णेषु प्रकीर्णा हिंस्राः क्रव्यादा भवन्ति।
अभोज्यान्नाभक्ष्याशी कृमिः। स्तेन श्येनः।
प्रकष्टवर्त्मापहारी विलेशयः। आखुर्धान्यहारी।

हंसः कांस्यापहारी। जलं हृत्वाभिप्लवः। मधु दंशः।
पयः काकः। रसं श्वा। घृतं नकुलः। मासं गृध्रः।
वसां मद्गुः। तैलं तैलपायिकः। लवणं वीचिवाक्।
दधि बलाका। कौशेयं हृत्वा भवति तित्तिरिः।
क्षौमं दर्द्दुरः। कार्पासतान्तवं क्रौञ्चः। गोधा गाम्।
वान्तुदीगुड़म्। छुच्छ्वन्दरिर्गन्धान्। पत्रशाकंवर्ही।
कृतान्नं श्वावित्। अकृतान्नंशल्लकः। अग्निंवकः।
गृहकार्यपस्करम्। रक्तवासांसि जविञ्जविकः।
गजं कुर्म्मः। अश्वंव्याघ्रः। फलं पुष्पं वा मर्कटः।
ऋक्षः स्त्रियम्। यानमुष्ट्रः। पशूनजः। प्रेतः पारजायी।

यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः।
अवश्यं याति तिर्यक्त्वंजग्ध्वाचैवाहुतं हविः॥

स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः।
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः॥

इति वैष्णवे धर्मशास्त्रे चतुश्चत्वारिंशत्तमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725961576Screenshot2024-09-10122943.png"/>

॥अथ पञ्चचत्वारिंशोऽध्यायः॥

अथ नरकानुभूत दुःखानां तिर्य्यत्क्वमुत्तीर्णानां
मनुष्येषु लक्षणानि भवन्ति।

कुष्ठ्यतिपातकी। ब्रह्महा यक्ष्मी। सुरापः श्यावदन्तकः।
सुवर्णहारः कुनख। गुरुतल्पगो दुश्चर्म्मा।
पूतिनासः पिशुनः। पूतिवक्त्रः सूचकः।
धान्यचौरोऽङ्गहीनः। मिश्रचौरोऽतिरिक्ताङ्गः।
अन्नापहारकस्त्वामयावी। वागपहारको मूकः।
वस्त्रापहारकः श्वित्री। अश्वापहारकः पङ्गुः।
देवब्राह्मणकोशको मूकः। लोलजिह्णोगरदः।
उन्मत्तोऽग्निदः। गुरुप्रतिकूलोऽपस्मारी।
गोध्नस्त्वन्धः।दीपापहारकश्च। काणश्च दीपनिर्व्वापकः।
त्रपुचामरसीसकविक्रयी रजकः।
एकशफविक्रयी मृगव्याधः। कुण्डाशी भगास्यः।
घाण्टिकः स्तेनः। वार्द्धुपिको भ्रामरी।
मिष्टाश्येकाकीवातगुल्मी। समयभेत्ता खल्वाटः।
श्लीपद्यवकीर्णी। परवृत्तिनोदरिद्रः।
परपीडाकरो दीर्घरोगी।

एवं कर्मविशेषेण जायन्ते लक्षणान्विताः।
रोगान्वितास्तथान्धाश्चकुञ्जखञ्जैकलोचनाः॥

वामना वधिरा मूका दुर्बलाश्चतथापरे।
तस्मात् सर्वः प्रयत्नेन त्रायश्चित्तं समाचरेत्॥

इति वैष्णवे धर्मशास्त्रे पञ्चचत्वारिंशत्तमोऽध्याय॥

<MISSING_FIG href="../books_images/U-IMG-1725963650Screenshot2024-09-10130409.png"/>

॥अथ षट्चत्वारिंशोऽध्यायः॥

अथ कृच्छ्राणि भवन्ति।

त्र्यहं नाश्नीयात् प्रत्यहञ्च त्रिषवणं स्नानमाचरेत्त्रिः प्रति-
स्नानमप्सु मज्जनं मग्नस्त्रिरघमर्पणं जपेत् दिवास्थित-
स्तिष्ठेत् रात्रावासीनः कर्मणोऽन्ते पयस्विनीं
दद्यादित्यधमर्यणम्।
त्र्यहं सायं त्र्यहंप्रातस्त्र्यहमयाचितमश्नीयादेवःप्राजापत्यः।
त्र्यहमुष्णाः पिवेदपस्त्र्यहमुष्णं घृतं त्र्यहमुष्णं पयस्त्र्यहञ्च
नाश्नीयादेप तप्तकृच्छ्रः। एषएव शीतैः शीतकृच्छ्रः।
कृच्छ्रातिकृच्छ्रः पयसादिवसैकविंशतिक्षपणम्।
उदकसत्कूनांमासाभ्यवहारेणोदककृच्छ्रः।
विसाभ्यवहारेणमूलकृच्छ्रः।
विल्वाभ्यवहारेण श्रीफलकृच्छ्रः पद्माक्षैर्वा।
निराहारस्य द्वादशाहेनैव पराकः।
गोमूत्रगोमयक्षीरदधिसर्पिः कुशोदकान्येकदिवसमश्नीयाद् -
द्वितीयमुपवसेदेतत्सान्तपनम्।
गामूत्रादिभिः प्रत्यदाभ्यस्तैर्महासातपनम्।
त्र्यहाभ्यस्तैश्चातिस्रस्तैन्तपनम्।
पिण्याकाचमतक्रोदकसत्कूनामुपवासान्तरितोऽभ्य-
वहारस्तुलापुरुषः।
कुशपलाशोडुम्बरपद्मशङ्खपुष्पीवटब्रह्मसुवर्ज्वलानांपत्रैः -
क्वथितस्यम्भसः प्रत्येकं पानेन पर्णकृच्छ्रः॥

कृच्छ्राण्येतानि सर्व्वाणि कुर्वीत कृतपावनः।
नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः॥

स्त्रीशूद्रपतितानाञ्च वर्ज्जयेच्चाभिभाषणम्।
पवित्राणि जपेन्नित्यं जुहुयाच्चैव शक्तितः॥

इति वैष्णवे धर्मशास्त्रे षट्चत्वारिंशत्तमोऽध्यायः॥

————

॥अथ सप्तचत्वारिंशत्तमोऽध्यायः॥

अथ चान्द्रायणम्।

ग्रासानविकारानश्नीयात्तांश्चन्द्रकलाभिवृद्धौ क्रमेण वर्द्धयेद्धानौ -
ह्रासयेदमावास्यां नाश्नीयादेवचान्द्रायणो यवमध्यः।
पिपीलिकामध्यो वा।
यस्यामावास्या मध्ये भवति स पिपीलिकामध्यः।
यस्य पौर्णमासी स यवमध्यः।
अष्टौ ग्रासान् प्रतिदिवसं मासमश्नीयात् स यतिचान्द्रायणः।
सायं प्रातश्चतुरश्चतुरः स शिशुचान्द्रायणः यथा कथञ्चित्
षट्कोनां त्रिशतीं मासेनाश्नीयात् स सामान्यचान्द्रायणः।

व्रतमेतत् पुरा भूम कृत्वा सप्तर्षयो वरम्।
प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस्तथैव च॥

इति वैष्णवेधर्मशास्त्रे सप्तचत्वारिंशत्तमोऽध्यायः॥

————

॥अथ अष्टचत्वारिंशत्तमोऽध्याय॥

अथकर्म्मभिरात्मकृतैर्गुरुमात्मानं मन्येतात्मार्थे-
प्रसृतियावकं श्रपयेत्। न ततोऽग्नौ जुहुयात्।
न चात्रवलिकर्म। अशृतं श्रयमाणं शृतञ्चाभिमन्त्रयेत्।
श्रुष्यमाणे रक्षां कुर्य्यात्।
ब्रह्मा देवानां पदवीकवीनां ऋषिर्विप्राणां श्येनो-
गृध्राणां महिषोमृगाणां स्वधितिर्वनानां सोमः-
पवित्रमभ्येति रेभन्निति दर्भान् वध्नाति।
शृतञ्चतमश्नीयात् पात्रेनिषिच्य।
ये देवामनोजाता मनोजुबसुदक्षा दक्षपितर।
ते न पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्यात्मनि -
जुहुयात्। अथाचान्तो नाभिमालभेत।
स्नाताः पीता भवन्तो यूयमापोऽस्माकमुदरे यवा।
ता अम्ममनमी वाअपेक्ष्या अनागसा सन्तु -
देवीरमृता ऋता वृद्ध इति। त्रिरात्रमेधावी।
षड्रात्रं पापकृत्।
सप्तरात्रंपीत्वा महापातकिनामन्यतमः पुनाति।
द्वादशरात्रेण पूर्वपुरुषकृतमपि पापं निर्दहति।
मासं पीत्वासर्वपपानि।
गोनिर्हारमुक्तानां यवानामेकविंशतिरात्रञ्च।

यवोऽसि धान्यराजोऽसि वारुणौमधुसंयुतः।
निर्णादः सर्वपापानां पवित्र मूषिभिः स्मृतम्॥

धृतमेव मधु यवा आपो वा अमृतं यवाः।
सर्वे पुनीत मे पापं यन्मे किञ्चन दुष्कृतम्॥

वाचा कृतं कर्मकृतं मनसा च विचिन्तितम्।
अलक्ष्मी कालकर्णीञ्चनाशयध्वं यवा!मम॥

श्वशूकरावलीढञ्च उच्छिष्टोपहतञ्च यत्।
मातापित्रोरशुश्रूषां पुनीध्वञ्च यवा!मम॥

गणान्नं गणिकान्नञ्च शूद्रान्नं श्राद्धसूतकम्।
चोरस्यान्नं नवश्राद्धं पुनीध्वञ्च यवा! मम॥

इति वैष्णवेधर्मशास्त्रे अष्टाचत्वारिंशत्तमोऽध्यायः॥

—————

अथ उनपञ्चाशत्तमोऽध्यायः।

मार्गशीर्षशुक्लैकादश्यामुपोषितो द्वादश्यां भगवन्तं-
वासुदेवमर्च्चयेत्। पुष्पवुपानुलेपनद्दीपनैवेदैर्ब्राह्मणतर्पणैश्च।
व्रतमेतत् सम्वत्सरं कृत्वापाप्येभ्यः पूतो भवति।
यावज्जीवं कृत्वाश्वेतद्वीपमवाप्नोति।
उभयद्वादशीष्वेकं स्वर्गलोकं प्राप्नोति यावज्जीवं कृत्वा-
विष्णोर्लोकमाप्नोति। एवमेव पञ्चदशीष्वपि।

ब्रह्मभूतममावास्यांपौर्णमास्यान्तथैव च।
योगभूतं परिचरन् केशवं महदाप्नुयात्॥

दृश्येत सहितौ यस्यां दिवि चन्द्र बृहस्पती।
पौर्णमासोतु महती प्रोक्तासम्बत्सरे तु सा॥

तस्यां दानोपवासाद्यमक्षतं परिकीर्त्तितम्।
तथैव द्वादशी शुक्लाया स्याच्छ्रवणसंयुता॥

इति वैष्णवेधर्मशास्त्रे एकोनपञ्चांशत्तमोऽध्यायः॥

————

॥पञ्चाशात्तमोऽध्यायः॥

वने पर्णकुटींकृत्वा वसेत्त्रिषवणंस्नायात स्वकर्म-
चाचक्षाणो ग्रामे ग्रामे भैक्ष्यमाचरेत् तृणशायी च स्यात्।
एतन्महाव्रतं ब्राह्मणं हत्वाद्वादशसम्वत्सरं कुर्प्यात्।
यागस्थंक्षत्रियं वा। गुर्व्विणींरजस्वलांवा।
अत्रिगोत्रांवा नारीम्। मित्रं वा।
नृपतिवधे महाव्रतमेव द्विगुणं कुर्य्यात्।
पादोनं क्षत्रियबधेअर्द्धं वैश्यबधे। तदर्द्धं शुद्रबधे।
सर्वेषु शावशिरोध्वजीस्यात्। सर्वेषु जीवेषु क्षमीस्यात्।
मासमेकं कृतपावनो गावानुगमनं कुर्य्यात् आसीनास्वासीत-
स्थितासु स्थितः स्यात् अवसन्नाञ्चोद्धरेतभयेभ्यश्चरक्षेत्
तासां शीतादित्राणमकृत्वानात्मनः कुर्य्यात् गोमूत्रेण-
स्नायात् गोरसैश्च वर्त्तेत। एतद्रोब्रतं गोवधे कुर्य्यात्।

गजं हत्वा पञ्च नीलान् वृषभान् दद्यात्।
तुरगं वासः। एकहायनमड्वाहं खरवधे।
मेपाजबधे च। सुवर्णकृष्णलमुष्ट्रवधे।
श्वानं हत्वा त्रिरात्रमुपवसेत्।
हत्वा मूषकमार्ज्जारनकुलमण्डूकडुण्डुभाजगराणामन्यत-
ममुपोषितः कृपरान्नं भोजयित्वा लोहदण्डं दक्षिणां दद्यात्।
गोधोलूककाकझषबधे त्रिरात्रमुपवसेत्।
हंसबकबलाकमद्गुवानरश्येनभासचक्रवाकानामन्यतमं
हत्वा ब्राह्मणाय गां दद्यात्।
सर्पं हत्वाभ्रींकार्ष्णायसीम्। पण्डं हत्वा पलालभारकम्।
वराहंहत्वा घृतकुम्भम्। तित्तिरिं तिलद्रोणम्।
शुकं द्विहायनं वत्सम्। क्रौञ्चंत्रिहायणम्।
क्रव्यादमृगबधे पयस्विनीं गां दद्यात्।
अक्रव्यादमृगवधे वत्सतरीम्। अनुक्तमृगवधे
त्रिरात्रं पयसा वर्त्तेत।
पक्षिबधे नक्ताशी स्यात् रूप्यमाषकं वा दद्यात्।
हत्वा जलचरमुपवसेत्।

अस्थिमताञ्च सत्वानां सहस्रस्य प्रमापणे।
पूर्णे चानस्यनस्थ्नान्तु शूद्रहत्याव्रतञ्चरेत्॥

किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे।
अनस्थ्नां चैव हिंसायां प्राणायामेण सुध्यति॥

फलदानान्तु वृक्षाणां छेदने जप्यमृक्शतम्।
गुल्मवल्लीलतानाञ्च पुष्पितानाञ्च वीरुधाम्॥

अन्नजानाञ्च सत्वानां रसजानाञ्च सर्वशः।
फलपुष्पोद्भवानाञ्च घृतप्राशो विशोधनम्॥

कृष्टजानामोषधीनां जातानाञ्च स्वयं वने।
वृथालम्भे तु गच्छेद्गांदिनमेकं पयोव्रतम्॥

इति वैष्णवे धर्मशास्त्रे पञ्चाशत्तमोऽध्यायः॥

————

॥ अथ एकपञ्चाशत्तमोऽध्यायः॥

सुरापः सर्वकर्मवर्जितः कणान् वर्षमश्नीयात्।
मलानां मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्य्यात्।
लशुनपलाण्डुगञ्जनैतद्गन्धिविड्वराहग्राम्यकुक्कुटवानर-
गोमांसभक्षणे च।
सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्य्यात्।
वपनमेखलादण्डभैक्ष्यचर्य्याग्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि।
शशकशल्लकगोधाखड्गकूर्मवर्जंपञ्चनखमांसाशने-
सप्तरात्रमुपवसेत्।
गणगणिकास्तेनगायनाग्नानि भुक्त्वासप्तरात्रं पयसा वर्त्तेत।
तक्षक्वाग्नंचर्मकर्त्तुश्च।

वार्द्युपिककदर्य्यदीक्षितबद्धनिगडाभिशस्तपण्डानाञ्च।
पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोप्रोच्छिष्टभोजिनाञ्च।
अवीरास्त्रीसुवर्णकारसपत्नपतितानाञ्च।
पिशुतानृतवादिक्षतधर्मात्मरसविक्रयिणाञ्च।
शैलूपतन्तुवायकृतघ्नरजकानाञ्च।
कर्मकारनिपादरङ्गावतारिवेणशस्त्रविक्रयिणाञ्च।
श्वजीविशौण्डिकतैलिकचैलनिर्णेजकानाञ्च।
रजस्वलासहोपपतिवेश्मनाञ्च।
भ्रूणघ्नावेक्षितमुदक्या संस्पृष्टं पतत्रिणाबलीढंशुना संस्पृष्टं गवाघातञ्च।
कामतो यदा संस्पृष्टमपक्षुतम्।
मत्तकुद्धातुराणाञ्च। नार्च्चितं वृथामांसंच।
पाठीनरोहितराजीवसिंहतुण्डशकुलवर्जसर्वमत्स्यमांसाशने त्रिरात्रमुपवसेत्।
सर्वजलजमांसाशनेषु च।
आपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतम्पयः पिवेत्।
मद्यभाण्डस्थाश्च पञ्चरात्रम् ।
सोमपःसुरापस्यात्रायास्यगन्धमुदकमग्नस्त्रिरघमर्पणंजप्त्या घृतप्राशनो भवेत्।
खरोष्ट्रकाकमांसाशने चान्द्रायणं कुर्य्यात्।
प्राश्याज्ञातं सूनास्थं शुष्कमांसञ्च।
क्रव्यादमृगपश्निर्मासाशने तप्तकृच्छ्रम्।

कलविलुप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहशुकसारिकावकवलाकाकोकिलखञ्जरीटाशने त्रिरात्रमुपवसेत्।
एकशफोभयदन्ताशने च।
तित्तिरिकापिञ्जललावकवर्त्तिकामयूरयज्जंसर्वपक्षिमांसाशने चाहोरात्रम्।
कीटाशने दिनमेकं ब्रह्मासुवर्चलां पिबेत्।
शुनां मांसाशने च। च्छ्त्राककरकाशने सान्तपनम्।
ववगोधूमपयोविकारं स्नेहाक्तं शुकं स्वाण्डवञ्च वर्जयित्वा पप्युपितं तत्प्राश्यौपवसेत्।
ब्रश्चनामेष्यप्रभवांल्लोहितांश्चवृक्षनिर्यासात्।
शालूकपृथाकृसरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि च।
गोऽजामहिपीबज्जं सर्वपयांसि च।
अनिर्दशाहानि तान्यपि।
स्यन्दिनीसन्धिनीवियत्साक्षीरञ्च।
अमेष्यभुजश्च। दधिवर्ज्जंकेवलानि च शुकानि।
ब्रह्मचर्य्याश्रमी श्राद्धभोजने त्रिरात्रमुपवसेत् दिनमेकंयोदके वसेत्।
मधुमांसाशने प्राजापत्यम्।
विडालराकनकूलासूच्छिष्टभक्षणंब्रह्मसुवर्चलां पिबेत्।
स्वोच्छिष्टाशने दिनसेकसुपोषितः पञ्चगव्यं पिबेत्।
पञ्चनखविण्मूत्राशने सप्तरात्रम्।
आमश्राद्धाराने त्रिरात्रं पयसा वर्त्तेत।

ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रम्।
वैश्योच्छिष्टाशने पञ्चरात्रम्।
राजन्योच्छिष्टाशने त्रिरात्रम्।
ब्राह्मणोच्छिष्टाशनेत्वेकाहम्।
राजन्यः शूद्रोच्छिष्टाशी पञ्चरात्रम्।
वैश्योच्छिष्टाशी त्रिरात्रम्। वैश्यः शूद्रोच्छिष्टाशी च।
चाण्डालान्नं भुक्त्वात्रिरात्रमुपवसेत्।
सिद्धंभुक्त्वापरांकः।

असंस्कृतान् पशून्मन्त्रैर्नाद्याद्विप्रः कथञ्चन।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः॥

यावन्ति पशुरोमाणि तावत् कृत्येह मारणम्।
वृथा पशुघ्नःप्राप्नोति प्रेत्य चेह च निष्कृतिम्॥

यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा।
यज्ञोेहिभूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः॥

न तादृशं भवत्येनो मृगं हन्तुर्धनार्थिनः।
यादृशं भवति प्रेत्यवृथामांसानि खादतः॥

औषध्यःपशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा।
यज्ञार्थे निधनं प्राप्ताःप्राप्नुवन्त्युत्थितीःपुनः॥

मधुपर्के च यज्ञे च पितृदैवतकर्मणि।
अत्रैव पशवो हिंस्या नान्यत्रेति कथञ्चन॥

यज्ञार्थेषु पशून् हिंसन् वेदतत्त्वार्थचिद्द्विजः।
आत्मानञ्च पशूश्चैव गमयत्युत्तमां गतिम्॥

गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः।
नावेदविहितां हिंसामापद्यपि समाचरेत्॥

या वेदविहिता हिंसानियतास्मिंञ्चराचरे।
अहिंसामेव तांविद्याद्वेदाद्धर्मोहि निर्बभौ॥

योऽहिंसकानि भूतानि हिनस्यात्मसुखेच्छया।
स जीवंश्च मृतश्चैवन क्वचित् सुखमेधते॥

यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति।
स सर्वस्य हितप्रेप्सुःसुखमत्यन्तमश्नुते॥

यद्ध्यायति यत्कुरुते रतिं बध्नातियत्र च।
सदवाप्नोतियत्नेन यो हिनस्ति न किञ्चन॥

नाकृत्वाप्राणिनां हिंसां मांसमुत्पद्यते क्वचित्।
न च प्राणिबधःस्वर्गस्तस्मान्मांसं विवर्जयेत्॥

समुत्पत्तिञ्च मांसस्यबधबन्धौ चदेहिनाम्।
प्रसमीक्ष्यनिवर्त्तेत सर्वमांसस्य भक्षणात्॥

न भक्षयति यो मांसं विधिं हित्वापिशाचवत्।
स लोके प्रियतां याति व्याधिभिश्चन पीड्यते॥

अनुमन्ता विरासिता निहन्ता क्रयविक्रयी।
संस्कर्त्ताचोपहर्त्ता च स्वादकश्चेतिघातकाः॥

स्वमांसंपरमांसेन यो बर्द्धयितुमिच्छति।
अनभ्यर्च्यपितॄन् देवास्ततोऽन्यो नास्त्यपुण्यकृत्॥

वर्षे वर्षेऽश्वमेघेन यो यजेत शतं समाः।
मांसानि च न स्वादेद्यस्तस्य पुण्यफलं समम्॥

फलमूलाशनैर्दिव्यैर्मुन्यन्नानाञ्च भोजनैः।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात्॥

मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्मश्चहम्।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः॥

इति वैष्णवे धर्मशास्त्रे एकपञ्चाशत्तमोऽध्यायः॥

—————————————

॥अथ द्विपञ्चाशत्तमोऽध्यायः॥

सुवर्णस्तेयकृद्राज्ञे कर्म्माचक्षाणो मुपलमर्पयेत्।
बधात्र्यागाद्वा प्रयतो भवति।
महाव्रतं द्वादशाब्दानि वा कुर्य्यात्।
निक्षेपापहारी च। धान्यधनापहारी च कृच्छ्रमब्दम्।
मनुष्यस्त्रीकूपक्षेत्रवापीनामपहरणे चान्द्रायणम्।
द्रव्याणामल्पसाराणां सान्तपनम्।
भक्ष्यभोज्यपानराय्यासनपुष्पमूलफलानां पञ्चगव्यपानम्।
तृणकाष्ठद्रुमशुष्कान्नगुडवस्त्रचर्म्मामिपाणांत्रिरात्रमुपवसेत्।
मणिमुक्ताप्रबालताम्ररजतायकांस्यानां द्वादशाहंकणानश्नीयात्।
कार्पासकीटजीर्णाद्यपहरणे त्रिरात्रं पयसा वर्त्तेत।
द्विशफैकशफहरणे त्रिरात्रमुपवसेत्।
पक्षिगन्धौषधिरज्जुर्वेदलानामपहरणे दिनमुपवसेत्॥

दत्त्वैवापहृतं द्रव्यं धनिकस्याप्युपायतः।
प्रायश्चित्तं ततः कुर्य्यात् कल्मषस्यापनुत्तये॥

यद्यत्परेभ्य आदद्यात् पुरुषस्तु निरङ्कुशः।
तेन तेन विहीनः स्याद्यत्र यत्राभिजायते॥

जीवितं धर्म्मकामौ च धने यस्मात् प्रतिष्ठितौ।
तस्मात् सर्वप्रयत्नेन धनहिंसा विवर्जयेत्॥

प्राणिहिंसापरो यस्तु धनहिंसारस्तथा।
महादुःख गवाप्नोति धनहिंसापरस्तयोः॥

इति वैष्णवे धर्म्मशास्त्रे द्विपञ्चाशत्तमोऽध्यायः॥


॥अथ त्रिपञ्चाशत्तमोऽध्यायः॥

अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा पतेप्राजापत्यं कुर्य्यात्। परदारमने च। गोव्रतं गोगमने च।पुंस्ययोनायाकारोऽप्सु दिवा गोयाने च सवासाः स्नानमाचरेत्।चाण्डालीगमने तत्साम्यमवाप्नुयात्।
अज्ञानतश्चास्त्रायणद्वयं कुर्य्यात्।पशुप्रयागमने प्राजापत्यम्।सकृद्दुष्टा सो यत् पुरुषायपरदारे राहतं कुर्य्यात्।

यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः।
तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति॥

इति वैष्णवे धर्मशास्त्रे त्रिपश्चाशत्तमोऽध्यायः॥
———————

॥अथ चतुःपञ्चाशत्तमोध्यायः॥

यः पापात्मा येन सह संयुज्यते स तस्यैव प्रायश्चित्तं कुर्य्यात्।
मृतपञ्चनखात् कूपादत्य तोपहताच्चोदकं पीत्वा-
ब्राह्मणस्त्रीरात्रमुपवसेत्। द्व्यहं राजन्यः। एकाहंवैश्यः।
शूद्रो नक्तम्। सर्वे चान्ते व्रतस्य पञ्चगव्यंपिबेयुः॥

पञ्चगव्यं पिवेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत्।
उभौ तौ नरकं यातैमहारौरवसंज्ञितम्॥

पर्व्वानारोग्यवर्जमृतावगच्छन् पत्नीं त्रिरात्रमुपवसेत्।
कूटसाक्षी ब्रह्महत्याब्रतश्चरेत्।
अनुदकमूत्रपुरीषकरणे सचैलस्नानं महाव्याहृतिहोमश्च।
सूर्य्याभ्युदितनिर्म्मुक्ता सचैलस्नातः सावित्र्यष्टशतमावर्त्तयेत्।
श्वशृगालविड्यराहस्वरवानरवायसपुंश्चलीभिर्दष्ठः-
स्रवन्तीमासाद्य षोडश प्राणायामान् कुर्य्यात्।
वेदाग्न्युत्सादी त्रिपवणस्नाय्यवशायी सम्वत्सरं सकृद्रैक्ष्यैणवर्त्तेत।

विष्णुस्मृतिः।

समुत्कर्षातृते गुरोश्चालीकनिर्बन्धे तदाक्षेपणे च मांसपयसा वर्त्तेत।

नास्तिको नास्तिकवृत्तिःकृतघ्नः कूटव्यवहारौ ब्राह्मणवृत्तिघ्नश्चतेसत्यत्सरं भैक्ष्येण वर्तेरन्।
परिचित्तिः परिवेत्ता या च परिवेत्ता या च परिविद्यतेदाता याजकश्चचान्द्रायणं कुर्यात्।
प्राणिभूपुण्यलोमविक्रयी तप्तकृच्छ्रंकुर्य्यात्।
आर्द्रौपधिगन्धपुष्पफलमूलचर्म्मवेत्रवैदलतुषकपालकेशभस्मास्थिगोरसपिण्याकतिलतैलचिकपोप्राजापत्यम्।
श्लेष्मजतुमधुच्छिदृशमन्त्रिपुशुक्तिसीसकृष्णलोहोडुम्बरखड्गपात्रविकयो चान्द्रायणं कुर्यात्।
रक्तवस्त्ररङ्गरत्नगन्धगुडमधुरसोर्णाविक्रयो त्रिरात्रमुपवसेत्।
मांसवणलाक्षाक्षीरविक्रयीचान्द्रायणं कुर्य्यात्।

तश्च भूयश्चोपनयेत्।

उष्ट्रेणस्वरेण वा गत्वानग्नः स्नात्वा सुप्त्वाभुक्त्वाप्राणायामत्रयं कुर्यात्॥

जपित्वात्रीणि सावित्र्याः सहस्राणि समाहितः।
मासंगोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिवहात्॥

अयाज्ययाजनं कृत्वा परेषामन्त्यकर्म्मच।
अभिचारमहोनश्च त्रिभिः कृच्छैर्व्यपोहति॥

चेषां द्विजानां सावित्री नानूच्येत यथाविधि।
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपतापयेत्॥

प्रायश्चित्तं चिकीर्षन्ति विकर्म्मस्थास्तु ये द्विजाः।
ब्राह्मण्याञ्च परित्यक्तास्तेषामप्येतदादिशेत्॥

यद्गर्हितेनार्जयन्ति कर्म्मणा ब्राह्मणा धनम्।
तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसा तथा॥

वेदोदिवानां नित्यानां कर्म्मणां समतिक्रमे।
स्नातकत्रतलोपे च प्रायश्चितमभोजनम्॥

अवगूर्य्य चरेत्कृच्छ्रमतिकृच्छंनिपातने।
कृच्छ्रातिकृच्छं कुर्व्वीत विप्रस्योत्पाद्य शोणितम्।
एनस्विभिरनिर्णिक्तैर्नाथं कश्चित् समाचरेत्॥

कृतनिर्णेजनांश्चैतान्न जुगुप्सेतधर्म्मवित्।
वालघ्नांश्चकृतघ्नांश्चनिशुद्रानपि धर्म्मतः।
शरणागतहन्तुंश्च स्त्रीहन्तुंश्चन संवसेत्॥

अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः।
प्रायश्चित्तार्द्धमर्हति स्त्रियो रोगिण एव च॥

अनुक्तनिश्रुतीनाञ्च पापानामपनुत्तये।
शक्तिञ्चावेक्ष्य पापञ्च प्रायश्चित्तं प्रकल्पयेत्॥

इति वैष्णवे धर्मशास्त्रे चतुःपञ्चाशत्तमोऽध्यायः॥

————————

॥अथ पञ्चपञ्चाशत्तमोऽध्यायः॥

अथ रहस्यप्रायश्चित्तानि भवन्ति।

स्रवन्तीमासाद्य स्नातः प्रत्यहं षोडश प्राणायामान्-
कृत्वैककालं हविष्याशी मासेन पूतोव्रहाहा भवति।
कर्म्मणोऽन्ते पयस्विनी गां दद्यात्।
व्रतेनाघमर्पणेन च सुरापः पूतो भवति।
गायत्रीदशसाहस्रजपेन सुवर्णस्तेयकृत त्रिरात्रोपोषितः-
पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः॥

यथाश्वमेधःक्रतुराट् सर्वपापापनोदतः।
तथाघमर्पणं सूक्तंसर्वपापपनोदनम्॥

प्राणायामं द्विजः कुर्य्यात् सर्वपापापनुत्तये।
दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु॥

सव्याहृतिं प्रणवां गायत्रीं शिरसा सह।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते॥

अकारश्चाप्युकारश्चनकारश्चप्रजापतिः।
वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च॥

त्रिभ्य एव च वेदेभ्यः पादं पादमदूदुहत्।
तदित्र्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः॥

एतदक्षरमेवाश्चजपन् व्याहृतिपूर्विकाम्।
सन्ध्ययोर्वेदविदुषो वेदपुण्येनयुज्यते॥

सहस्रकृत्वरत्वभ्यस्य बहिरेतत्त्रिकं द्विजः।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते॥

एतयाऽपरिसंयुक्ता काले च क्रियया स्वया।
विप्रक्षत्रियविड्जातिर्गर्हणं याति साधुषु॥

ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽत्र्ययाः।
त्रिपदाचैव गायत्री विज्ञेयं ब्रह्मणोमुखम्॥

योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः।
स ब्रह्म परमभ्येति वायुभूतः स्वमूर्त्तिमान्॥

एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः।
सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते॥

क्षरन्ति सर्ववैदिक्यो जुहोति यजतिक्रियाः।
अक्षरं त्वक्षरं ज्ञेयें ब्रह्माचैव प्रजापतिः॥

विधियज्ञाजपयज्ञो विशिष्टो दशभिर्गुणैः।
उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः॥

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम्॥

जप्येनैव तु संसिद्धयेद्ब्राह्मणो नात्र संशयः।
कुर्य्यादन्यन्नवाकुर्यान्मैत्रो ब्राह्मण उच्यते॥
इति वैष्णवे धर्म्मशास्त्रे पञ्चपञ्चाशत्तमोऽध्यायः॥


॥अथ षट्पश्चाशत्तमोऽध्यायः॥

अथातः सर्ववेदपवित्राणि भवन्ति। येषां जपैश्चहोमैश्च द्विजातयः पापेभ्यः पूयन्ते। अधमर्पणं देववृतं शुद्धवत्यःतत्सम्भदीयं कुमाण्ड्यःपावमान्यः दुर्गां सावित्री अनीपङ्गाः पदस्तोमाः सामानि व्याहृतयः भारुण्डानि चन्द्रसापुरुषस्तेभासं बार्हस्पर्त्य गोसूक्तम्अश्वसूक्तं सामनीचन्द्रसूक्तेच शतरुद्रीयं अथर्वशिरः त्रिसुपर्णं महारतं नारायणीयं पुरुषसूक्तश्च। त्रीण्याज्यदोहानि रथश्चरञ्चअग्निव्रतं वामदेव्यं वृहच्च। एतानि गीतानि पुनन्ति जन्तून् जातित्मरत्वं लभते च इच्छेत्।

इति वैष्णवे धर्म्मशास्त्रे षट्पञ्चाशत्तमोऽध्यायः॥

—————

अथ सप्तपञ्चाशत्तमोऽध्यायः॥

अथ त्याज्याः।

व्रात्या पतितास्त्रिपुरुषंमातृतः पितृश्चाशुद्धाः-सर्वं एवाभोज्याश्चाप्रतिग्राह्याः। अप्रतिग्राह्येभ्यश्चप्रतिग्रहप्रसङ्गं वर्जयेत्। प्रविपद्देण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति। द्रव्याणां वाऽविज्ञाय प्रतिपदविधिंयः प्रतिग्रहंकुर्प्यात् सदात्रा सह निमज्जति।

अष्टपञ्चाशत्तमोऽध्यायः।

प्रतिग्रहसमर्थश्च यः प्रतिग्रहं वर्ज्जयेत् स दातृलोकमवाप्नोति। एधोदकमूलफलाभयामिपमधुशय्यासनगृहपुष्पदधिशाकांश्चाभ्युद्यतान्न निर्णुदेत॥

आहूयाभ्युद्यतां भिक्षां पुरस्तदनुचोदिताम्।
ग्राह्मां प्रजापतिर्मेने अपि दुष्कृतकर्म्मणः॥

नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्चच।
न च हत्र्यं वहत्यग्निर्यस्तामभ्यवमन्यते॥

गुरून् भृत्यानूज्जिहोर्पूरर्च्चिष्यन् पितृदेवताः।
सर्वतः प्रतिगृह्णीयान्नतु तृप्येत् स्वयं ततः॥

एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे।
नादद्यात् कुलटापण्डपतितेभ्यस्तथा द्विपः॥

गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन्।
आत्मनोवृत्तिमन्विच्छन् गृह्णीयात् साधुतः सदा॥

अर्द्धिकः कुलमित्रञ्च दासगोपालनापिताः।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्॥

इति वैष्णवे धर्मशास्त्रे सप्तपञ्चाशत्तमोऽध्यायः॥

———————

॥अथ अष्टपञ्चाशत्तमोऽध्यायः॥

अथ गृहोश्रमिण स्त्रिविधोऽर्धोभवति। शुल्कः शवलोऽसितश्चार्थः।

शुल्केनार्थेन यदैहिकं करोति तद्देवमासादयति। यच्छवलेन तन्मानुष्यम्। यत्कृष्णेन तत्तिर्य्यक्त्वम्। स्ववृत्त्युपार्जितं सर्व्वंसर्वेषां शुल्कम्। अनन्तरवृत्त्युपात्तं शवलम्। अन्तरितवृत्त्युपात्तञ्च कृष्णम्।

क्रमागतं प्रीतिदायं प्राप्तञ्च सह भार्यया ।
अविशेषेण सर्वेषां धनं शुल्कं प्रकीर्त्तितम्॥

उत्कोचशुल्कसंप्राप्तमविक्रयस्य विक्रये।
कृतोपकारादाप्तञ्च शवलं समुदाहृतम्॥

पार्श्विकद्यूतचौर्याप्तं प्रतिरूपकसाहसौ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम्॥

यथाविधेन द्रव्येण यत्किञ्चित् कुरुते नरः।
तथा विधमवाप्नोति स फलं प्रेत्य चेह च॥

इति वैष्णवे धर्मशास्त्रे अष्टपञ्चाशत्तमोऽध्यायः।

———

॥अथ एकोनषष्टितमोऽध्यायः॥

गृहाश्रमी वैवाहिकाग्नौपाकयज्ञान् कुर्य्यात्।
सायं प्रातस्त्राग्निहोत्रम्। देवताभ्योजहुयात्।

चन्द्रार्कसन्निकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां यज्ञेत्।
प्रत्ययनं पशुना। शरदूग्रीष्मयोश्चाप्रदायणेन।

व्रीहियवयोर्वा पाके। त्रैवार्षिकाभ्यधिकान्नः प्रत्यब्दं सोमेन। वित्ताभावे इष्ट्यावैश्वानर्य्या। शूद्रान्नं यागे परिहरेत्। यज्ञार्थं भिक्षितमवाप्तमर्थं सकलमेव वितरेत्। सायं प्रातर्वैश्वदेवं जुहुयात्। भिक्षां च भिक्षवे दद्यात्। अर्च्चितभिक्षादानेन गोदानफलमवाप्नोति। भिक्ष्वभावे तन्मात्रं गवां दद्यात्। वह्णौवा प्रक्षिपेत्।

भुक्ताऽप्यन्ने विद्यमानेन भिक्षुकं प्रत्याचक्षीत। कण्डनी पेषणी चुल्ली कुम्भ उपस्कर इति पञ्चसूना गृहस्थस्य। तन्निकृत्यर्थञ्च ब्रह्मदेवभूतपितृनरयज्ञान् कुर्य्यात्। स्वाध्यायो ब्रह्मयज्ञः। होमो दैवः। वलिर्भौतः। पितृ तर्पणं पित्र्यः। नृयज्ञश्चातिथिपूजनम्।

देवतातिथिभृत्यानां पितॄणामात्मनस्तथा।
न निवपति पञ्चानामुच्छ्वसन्न स जीवति॥

ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात्।
तस्मादभ्यागतानेतान् गृहस्थो नावमानयेत्॥

गृहस्थ एव यजते गृहस्थस्तप्यते तपः।
ददाति च गृहस्थस्तु तस्माज्ज्येष्ठो गृहाश्रमी॥

ऋषयः पितरो हेवा भूतान्यतिथयस्तथा।
अरशासते कुटुम्बिभ्यस्तस्माच्छ्रेष्ठोगृहाश्रमी॥

त्रिवर्गसेवां सततान्नदानं सुरार्धनं ब्राह्मणपूजननञ्च।
स्वाध्यायसेवां पितृतर्पणञ्च कृत्वा गृही शक्रपदं प्रयाति॥

इति वैष्णवेधर्मशास्त्रे एकोनषष्टितमोऽध्यायः॥

————————

॥अथ षष्टितमोऽध्यायः॥

ब्राह्मेमुहूर्त्ते उत्थाय मूत्रपुरीपोत्सर्ग कुर्य्यात्। दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः सन्ध्ययोश्च। नाप्रच्छादितायो भूमौ। न फालकृष्टायाम्। न च्छायायाम्। न चोपरे। न शाद्वले। न ससत्वे। न गर्त्ते। न वल्मीके। न पथि। न रथ्यायाम्। न पराशुचौ। नोद्याने। नोद्यानोदकसमीपयोः। नाङ्गारे। ने भस्मनि। न गोमये। न गोव्रजे। नाकाशे। नौदके। न प्रत्यनिलानलेन्दुर्कस्त्रीगुरुवाह्यणानाञ्च। नैवावगुण्ठितशिराः। लौष्टेष्टकाभिः परिमृज्य गुदं गृहीतशिश्नोश्चोत्थायाद्धिर्मृद्भि श्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्य्यात्॥

एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश।
उभयोः सप्त दातव्या सूदस्तिस्रस्तु पादयोः॥

एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्।
त्रिगुणञ्च वनस्थानां यतीनाञ्च चतुर्गुणम्॥

इति वैष्णवे धर्मशास्त्रे षष्टितमोऽध्यायः॥

—000—

॥अथ एकषष्टितमोऽध्यायः॥

अथ पालाशं दन्तधावनं नाद्यात्। नैवश्लेष्मातकारिष्टविभीतकधववधन्बनजम्। न च बन्धूकनिर्गुण्डीशिपुतिल्बतिन्दुकजम्। न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजम्। न पारिभद्रकाम्लिकामोचकशाल्मलीशणजम्। न मधुरम्। नाम्लम्। नोदुर्ध्वशुष्कम्। न शुशिरम्। न पुतिगन्धि। न पिच्छिलम्। न दक्षिणापराभिमुखः। अद्याच्चोदङ्मुखः प्राङ्मुखोवा। वटासनार्कखदिरकरञ्जबदरसर्ज्जनिम्वारिमेदापामार्ग मालतीककुभविल्वानामन्यतमम्। कषायं तिक्तं कटुकञ्च॥

कनीन्यग्रसमस्थौल्यं सकूर्च्चंद्वादशाङ्गुलम्।
ग्रासर्भूत्वाच यतवाक् भक्षयेद्दन्तधावनम्॥

प्रक्षाल्य भुक्त्वातज्जह्याच्छुचौ देशे प्रयव्रतः।
अमावास्यां न चाश्नीयाद्दन्तकाष्ठं कदाचन॥

इति वैष्णवे धर्मशास्त्रे एकषष्टितमोऽध्यायः॥

॥अथ द्विषष्टितमोऽध्यायः॥

अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम तीर्थम्। अङ्गुष्टमूले व्राह्यम्। अङ्गुल्यग्रे देवम्। तर्ज्जनीमूले पित्र्यम्। अनग्न्युष्णाभिरफेनिलाभिर्नशूद्रैककरावर्जिताभिरक्षराभिरद्भिः शुचौ देशे स्वासीनो तर्ब्रानुः प्राङ्मुखश्चोदङ्मुखोवातन्मनाः सुमनाश्चाचामेत्। ब्रार्ह्मेण तीर्थेन विराचामेत्। द्विःप्रमृज्यात्।खाल्यद्भिर्मूर्द्धानं हृदयं स्पृशेत्।

हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः।
शुद्धयेरन् स्त्री च शूद्रश्चसकृत्स्पृष्टाभिरन्ततः॥

इति वैष्णवे धर्मशास्त्रेद्विषष्टितमोऽध्यायः॥

—————

॥अथ त्रिषष्टितमोऽध्यायः॥

अथ योगक्षेमार्थमीश्वरमुपगच्छेत्। नैकोऽध्वानं प्रपद्येत। नाधार्म्मिकैःसार्द्धम्। न वृषलैः। न द्विषद्भिः। नातिप्रत्यूपसि। नातिसायम्। न सन्ध्ययोः। न मध्याह्ने सन्निहितपानीयम्। नातितूर्णम्। न रात्रौ। न सन्ततं व्याल व्याधितार्त्तैर्वाहनैः। न हीनाङ्गैःन रोगिभिः। न दीनैः। न गोर्भिः।

त्रिषष्टितमोऽध्यायः।

नादान्तैः। यवसोदकैर्वाहनानामदत्त्वात्मनः क्षुत्तृष्णापनोदने न कुर्य्यात्। न चतुष्पथमधितिष्ठेत्। न रात्रौ पृक्षमूलम्। न शून्यालयं न तृणम्। न पशूनां बन्धनागारम्। न केशतुपकपालस्थिभस्माङ्गारान्। न कार्पासास्थि। चतुष्पथं प्रदक्षिणीकुर्य्यात् देवताञ्च प्रज्ञासाश्चवनस्पतीन्। अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्द्धमाननन्द्यावर्तीश्चतालदन्तचामराश्वगजाजगोद-धिक्षीरमधुसिद्धार्थकांश्च वीणाचन्दनायुधार्द्रगोमयपुष्पशाक- गोरोचनादूर्व्वाप्ररोहांश्चउष्णाीषालङ्कारमणिकनकरजत-वस्त्रासनयानामिषांश्चभृङ्गारोद्धृतोर्म्यरारज्जुबद्धपशु कुमारोमीनांश्चदृष्ट्वाप्रयादिति।अधमत्तोन्मत्तव्यङ्गान् दृष्ट्वानिवर्त्तेत्। वान्तविविक्तमुण्डमलिनवसनजटिलबामनांश्च। कषायिप्रव्रजितमलिनांश्च। तैलगुढशुष्कगोमवेन्धनतृणकुशपलाशभस्माङ्गारांश्च। लवणपासवनपुंसकापांसरज्जुनिगढमुक्तकेशाश्च वीणाचन्दनार्द्रशाकोष्णीपालकुरणकुमारीः-प्रस्थानकालेऽभिनन्दयेदिति।देवब्राह्मणगुरुवधूदीक्षितानां च्छायां नाक्रामेत्। निष्ठूनवान्तरुधिरविष्णुब्रह्मानोदकानि वा।न वत्सतन्त्री लक्ष्येत्। प्रवर्षति न धावन्। न वृथा नदीतरेत्।

न देवताभ्यः पितृभ्यश्चेदकामं प्रदाय। न बाहुभ्याम्। न भिन्नया नावा। न कच्छमधितिष्ठेत।न कूपमवलोकयेत् न लङ्घयेत्॥

वृद्धमारिनृपस्नातस्त्रीरोगिवरचक्रिणाम्।
पन्था देयो नृपस्त्वेषांमान्यः स्नातश्च भूपतेः॥

इति वैष्णवे धर्मशास्त्रे त्रिषष्टितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725351989Screenshot2024-07-22081715.png"/>

॥अथ चतुषष्टितमोऽध्यायः॥

परनिपानेषु न स्नानमाचरेत्। आचरेत् पञ्चपिण्डानुद्धृत्यापदि। नाजीर्णे। न चातुरः। न नग्नः। न रात्रौ राहुदर्शनवर्जम्। न सन्ध्ययोः।

प्रातः स्नाय्यरुणकिरणग्रस्तां प्राचीमवलोक्य स्नायात्। स्नातः शिरो नावधुनेत्। नाङ्गेभ्यस्तोयमुद्धरेत्। न तैलवस्तु स्पृशेत्। नाप्रक्षालितं पूर्वधृतं वसनं विभृयात्। स्नातः सोष्णीपो धौतवाससी विभृयात्। न म्लेच्छान्त्यजपत्तितैःसह सम्भाषणं कुर्य्यात्। स्नायात् प्रास्रवणदेवस्यातसरोवरेषु। उद्धृताद्भूमिष्टमुदकं पुण्यं स्थावरात् प्रस्रवणं तस्मान्नादेयंतस्मादपि साधुपरिगृहीतं सर्वत एव गाङ्गम्।

मृत्तोयैः कृतमलापकर्षोऽप्सु निमज्यापोहिष्ठेति तिसृर्भिर्हिरण्यवर्णा इति चतसृभिरिदमापः प्रयहत इति चतुर्थमभिमन्त्रयेत्। तवोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत्। तद्विष्णोः परमं पदमिति वा। द्रुपदां सावित्रीं वा। युञ्जते मन इत्यनुपाकं वा। पुरुषसूक्तं वा। स्नातश्चाद्रवासा देवपितृतर्पणमम्भःस्थ एवं कुर्य्यात्। परिवर्तितयासाश्चेत्तीर्थमुत्ती।अकृत्वा देवपितृतर्पणं सानवस्रादि न पीडयेत्। स्नात्याचम्य विधिवदुपस्पृशेत्। पुरुषसूक्तेन प्रग्य्रधं पुरुषाय पुष्पाणि दद्यात्। उदकाञ्जलिं पश्चात्। आदावेवदिव्येनतीर्थेन देवतानां कुर्य्यात्। तदनन्तरं पित्र्येण पितृृणाम्। तत्रादौ स्वयंस्नानांतर्पणंकुर्य्यात्। ततः सम्बन्धिबान्धवानाम्। ततः गुदद्दाम। एवं नित्यस्नायी स्यात्। स्नातश्च पवित्राणि यथाशक्ति जपेत्। विशेषतः सावित्री त्यवश्यं जपेत् पुरुषसुक्तञ्च। नैताभ्यामधिकमस्ति॥

स्नातोऽधिकारी भवति दैवेपित्र्येच कर्मणि।
पवित्राणां तथा जप्ये दाने च विधिनोदिते॥

अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम्।
स्नातस्य जलमात्रेण नश्यते इति धारणा॥

याम्यं हि यातनादुःखं नित्यस्नायोन पश्यति।
नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः॥

इति वैष्णवे धर्मशास्त्रे चतुःषष्टितमोऽध्यायः॥

॥अथ पञ्चषष्टितमोऽध्यायः॥

अथातः सुस्नातः प्रक्षालितपाणिपादः त्वाचान्तोदेवतार्श्चायां स्थलेवा भगवन्तमनादिनिधनं वासुदेवसभ्यर्च्चयेत्। अश्विनेैःप्राणैस्त्वेते इति कीचकीयमन्त्रेणाष्टव्य जीवस्य भगवतोजीवादानं दत्त्वा युज्जतेमन इत्यनुवाकेनावाहनं कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्य्यात्। आपोहिष्ठेति तिभूमिरध्यं निवेदयेत्। हिरण्यवर्णा इति चतसृभिः पाद्यम्। शन्न आपो धन्वन्या इत्याचमनीयम्। इदमापः प्रवहत इति स्नानीयम्। रथे स्वर्क्षेषु वृषभराजा इत्यनुलेपना लङ्कारौ। युवा सुवासा इतिवासः। पुष्पवतीरितिपुष्पम्। घूरसि धूपमितिधूपम्। तेजोऽसि शुक्रमितिदीपम्। दधिक्रावण इति मधुपर्कः। हिरण्यगर्भं इत्यष्टाभिर्नैवेद्यम्।

चामरं व्यजनं मात्रां छत्रं पानासने तथा।
सावित्रेणैव तत् सर्व्वं देवाय विनिवेदयेत्॥

एवमभ्यर्च्च्यच जपेत् सूक्तं वै पौरुषं ततः।
तेनैव जुहुयादाज्यं य इच्छेत्शाश्वतं पदम्॥

इति वैष्णवे धर्मशास्त्रे पञ्चषष्टितमोऽध्यायः॥

——————

॥अथ षट्षष्टितमोऽध्यायः॥

न नक्तं गृहीतेनोदकेन देवपितृकर्म्म कुर्य्यात्। चन्दनमृगमदागुरुकर्पूरकुङ्कुमजातीफलवर्जमनुलेपनं न दद्यात्। न वासो नीलीरक्तम्। न मणिसुवर्णयोः प्रतिरूपमलङ्करणम्। नागन्धि। नोग्रगन्धि। न कण्टकिजम्। कण्टकिजमपि शुक्लं सुगन्धिकं दद्यात्। रक्तमपि शुक्लं सुगन्धिकं दद्यात्।न धूपार्थे जीवजातम्। न घृततैलं विना किञ्चन दीपार्थे। नाभक्ष्यं नैवेद्यार्थे। न भक्ष्ये अप्यजामहिपीक्षीरे।पञ्चनखमत्स्यधराहमांसानि च।

प्रयतश्च शुचिर्भूत्वा सर्व्वमेव निवेदयेत्।
तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः॥

इति वैष्णवे धर्मशास्त्रे षट्षष्टितमोऽध्यायः॥

॥अथ सप्तषष्टितमोऽध्यायः॥

अथाग्निं परिसमूह्य पप्युक्ष्य परिस्तीर्य्य परिषिच्य सर्वतः पाकादग्रमुद्धृत्य जुहुयात्।

वासुदेवाय सङ्कीर्णायप्रद्युम्नायानिरुद्धायपुरुषायसत्यायाच्युताय वासुदेवाय।

अधाग्नये सोमाय मित्राय वरुणाय इन्द्रायेन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यः प्रजापतये अनुसत्यै धन्वन्तरयेवास्तोष्पतवे अग्नये स्विष्टिकृते च।

ततोऽत्रशेषेण वलिमुपहरेत्। भक्ष्योपभक्ष्याभ्यामभितः पूर्वेणाग्नेः।

अबानामासीति त्वलानामासीति नितन्तीनामासीतिक्षिप्रणिकानामासीति सर्व्वासाम्।

नन्दिनि सुभगे सुमङ्गलि भद्रकालीतिस्वरिपष्वभिप्रदक्षिणाम्। स्थूणायां ध्रुवायां श्रियैः। हिरण्यकेश्यैवनस्पतिभ्यः। धर्म्माधर्म्मयोद्वारे मृत्यवे च। उदपाने वरुणाय। विष्णव इत्युलूखले। मरुद्भ्यइति दशदि। उपरिशरणं वैश्रवणाय राज्ञेभूतेभ्यश्च। इन्द्रायेन्द्रपुरुषेभ्य इति पूर्व्वार्द्धे। यमाय यमपुरुषेभ्य इति दक्षिणार्द्धे। वरुणाय वरुणपुरुषेभ्य इति पश्चार्द्धे। सोमाय सोमपुरुषेभ्य इत्युत्तरार्द्धे

ब्रह्मणे ब्रह्मपुरुषेभ्यइति मध्ये। ऊर्द्धमाकाशाय। दिवाचरेभ्यो भूतेभ्य इतिस्पण्डिलं। नत्तञ्चरेभ्य इति नत्तम्। ततो दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यैप्रपितामह्यैस्वनामगोत्राभ्याञ्च पिण्डनिर्व्वपणं कुर्य्यात्।

पिण्डानावचानुलेपन पुष्यधूपनैवेद्यादि दद्यात्। उदककलशमुपनिधाय स्यात्ययनं वाचयेत्। स्वकाकश्चपचानां भुवि निर्वपेत्। भिक्षाञ्चदद्यात्।

अतिथिपूजने च परं फलमधितिष्ठेत्। सायमतिथिं प्राप्तं प्रयत्नेनार्च्चयेत्। अनाशितमतिथि गृहे न वासयेत्। यथा वर्णानांब्राह्मणः प्रभुर्यथा स्त्रीणां भर्त्ता तथा गृहस्थस्यातिथिः। तत्पूजायां स्वर्गमाप्नोति॥

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते।
तस्मात् सुकुतमादाय दुष्कृतन्तु प्रयच्छति॥

एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः।
अनित्या द्वि स्थितिर्यस्मात्तस्मादतिथिरुच्यते॥

नैकग्रामीणमतिथि विप्रं साङ्गतिकं तथा।
उपस्थितं गृहे विद्याद्भाम्यां यत्राग्नयोऽपि वा॥

यदि त्वतिथिधर्मेण क्षत्त्रियो गृहमागतः।
भुक्तवत्सु च विप्रेषु कामं तमभिपूजयेत्॥

॥अथ सप्तषष्टितमोऽध्यायः॥

अथाग्निं परिसमूह्य पप्युक्ष्य परिस्तीर्य्य परिषिच्य सर्वतः पाकादग्रमुद्धृत्य जुहुयात्। वासुदेवाय सङ्कीर्णायप्रद्युम्नायानिरुद्धायपुरुषाय सत्यायाच्युताय वासुदेवाय। अधाग्नये सौमाय मित्राय वरुणाय इन्द्रायेन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यः प्रजापतये अनुमत्यै धन्वन्तरये वास्तोव्पतवे अग्नये स्विष्टिकृते च। ततोऽत्रशेषेण वलिमुपहरेत्। भक्ष्योपभक्ष्वाभ्यामभितः पूर्वेणाग्नेः। अबानामासीति त्वलानामासीति नितन्तीनामासीतिक्षिप्रणिकानामासीति सर्व्वासाम्। नन्दिनि सुभगे सुमङ्गलि भद्रकालीतिस्वस्थिष्वभिप्रदक्षिणाम्। स्थूणायां ध्रुवायां श्रियैः। हिरण्यकेश्ये वनस्पतिभ्यः। धर्म्माधर्म्मयोद्वारे मृत्यवे च। उदपाने वरुणाय। विष्णव इत्युलूखले। मरुद्भ्यइति दशदि। उपरिशरणं वैश्रवणाय राज्ञेभूतेभ्यश्च। इन्द्रायेन्द्रपुरुषेभ्य इतिपूर्व्वार्द्धे। यमाय यमपुरुषेभ्य इनिदक्षिणार्द्धे। वरुणाय वरुणपुरुषेभ्य इतिपश्चार्द्धे। सोमाय सोमपुरुषेभ्य इत्युत्तरार्द्धे

ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये। ऊर्द्धमाकाशाय। दिवाचरेभ्यो भूतेभ्य इति स्थण्डिले। नक्तञ्चरेभ्य इति नक्तम्। ततो दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यैस्वनामगोत्राभ्याञ्च पिण्डनिर्व्वषणं कुर्य्यात्।

पिण्डानाञ्चानुलेपन पुष्यधूपनैवेद्यादि दद्यात्। उदककलशमुपनिधाय स्वस्त्ययनं वाचयेत्।स्वकाकस्वपचानां भुवि निर्वपेत्। भिक्षाञ्च दद्यात्। अतिथिपूजने च परं फलमधितिष्ठत्। सायमतिथिप्राप्तं प्रयत्नेनार्च्चयेत्। अनाशितमतिथि गृहे न वासयेत्। यथा वर्णानां ब्राह्मणः प्रभुर्यथा स्त्रीणां भर्त्ता तथा-गृहस्थस्यातिथि। तत्पुजायां स्वर्गमाप्नोति॥

अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते।
तस्मात् सुकृतमादाय दुष्कृतन्तु प्रयच्छति॥

एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः।
अनित्वा हि स्थितिर्यस्मात्तस्मादतिथिरुच्यते॥

नैकग्रामीणमतिथिविप्रं साङ्गतिकं तथा।
उपस्थितं गृहे विद्याद्भार्य्यायत्राग्नयोऽपिवा॥

यदि त्वतिथिधर्मेण क्षत्रियो गृहमागतः।
भुक्तवत्सु च विप्रेषु कामं तमभिपूजयेत्॥

वैश्यशूद्रावपि प्राप्तौकुटुम्बेऽतिथिधर्मिणौ।
भोजयेत् सह भूत्यैस्तावानृशंस्यं प्रयोजयन्॥

इतराण्यपि सख्यादीन् संप्रीत्या गृहमागतान्।
प्रकृतान्नयथाशक्ति भोजयेत् सह भार्य्यया॥

सुवासिनी कुमारीञ्च रोगिणीं गुर्ब्विणीं तथा।
अतिथिभ्योऽग्रएवैतान् भोजयेदविचारयन्॥

अदत्त्वा यस्तु एतेभ्यः पूर्वं भुक्तेऽविचक्षणः।
स भुञ्जानो न जानाति स्वगृध्वैर्जग्धिमात्मनः॥

भुक्तवत्सु च विप्रेषु भृत्येषु स्वेषु चैव हि।
भुञ्जयीतां ततः पञ्चादवशिष्टन्तु दम्पती॥

देवान् पितृृन् मनुष्यांश्च भृत्यान् गृह्याश्चदेवताः।
पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत्॥

अयं स केवलं भुङ्क्ते यः पचत्त्वात्मकारणात्।
यज्ञ शिष्टाशतंह्येतत् सतामन्नंविधीयते॥

स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा।
न चाप्नोति गृही लोकान् यथा त्वतिथिपूजनात्॥

सायं प्रातस्त्वतिथये प्रदद्यादासनोदकम्।
अस्रन्नैवयथा शक्त्यासत्कृत्य विधिपूर्वकम्॥

प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम्।
प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम्॥

इति वैष्णवे धर्मशास्त्रे सप्तषष्टितमोऽध्यायः॥

॥अथ अष्टषष्टितमोऽध्यायः॥

चन्द्रार्कोपरागे नाश्नीयात्। स्नात्वा मुक्तयोरश्नीयात्। अमुक्तयोरस्तंगतयोर्दृष्ट्वा स्नात्वा चापरेऽह्नि। न गोब्राह्मणोपरागेऽश्नीयात्। न राजव्यसने। प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्येव तदाश्नीयात्। यदा कृतं मन्येत वैश्यदेवमपि। पर्वणि च यदा कृतं मन्येत पर्व। नाश्नीयाच्चाजीर्णे। नार्द्धरात्रे। न मध्याह्णे। न सन्ध्योः। नार्द्रवासाः। नैकवासाः। न नग्नः। न जलस्थः।नोत्कुटुकः। न भिन्नासनगतः। न च शयनगतः।न भिन्नभाजने। नोत्सङ्गे। न भुवि। न पाणौ। लवणञ्चयत्र दद्यात् न चाश्नीयात्। न बालकान्निर्भर्त्सयेत्। नैको मिष्टम्। नोद्धृतस्नेहम्। न दिवा धानाः। न रात्रौ तिलसंयुत्तम्। न दधि सक्तून्। न कोविदारवटपिप्पलशाणशाकम्। नादत्त्वा। नाहुत्वा। नानार्द्रपादः। नानार्द्रकरमुखश्च। नोच्छिष्टश्च घृतमादद्यात् न चन्द्रार्कतारका निरीक्षेत। न मूर्द्धानं स्पृशेत्। न ब्रह्मा कीर्त्तयेत्। प्राङ्मुखोऽश्रीयात् दक्षिणामुखो वा। अभिपूज्यान्नम्। सुमनाः स्रग्व्यनुलिप्तः। न निःशेषकृत्स्यात्। अन्यत्र दधिमधुसर्पिःपयः सक्तुपलमोदकेभ्यः।

नाश्नीयाद्भार्य्यया सार्द्धं नाकाशे न तथोत्थितः।
बहूनां प्रेक्षमाणानां नैकस्मिन् बहवस्तथा॥

शून्यागारे वह्णिगृहे देवगारे कथञ्चन।
पिवेन्नाञ्जलिना तोयं नातिसौहित्यमाचरेत्॥

न तृतीयमथाश्नीयान्नचापथ्यंकथञ्चन।
नातिप्रमे नातिसायं न सायं प्रातराशितः॥

न भावदुष्टमश्नीयान्न भाण्डे भावदूषिते।
शयानः प्रौढपादश्च कृत्वा चैवायसविथकाम्॥

इति वैष्णवेधर्मशास्त्रे अष्टषष्टितमोऽध्यायः॥

——————

॥अथ एकोनसप्ततितमोऽध्यायः॥

नाष्टमीचतुर्द्दशीपञ्चदशीषु स्त्रिमुपेयात्। न श्राद्धं भुक्त्वा। न श्रार्द्धं दत्त्वा। नोपनिमन्त्रितः श्राद्धम्। न स्नात्वा। न हुत्वा। न व्रतो। नोपौष्यभुक्त्वावा। न दीक्षितः। न देवायतनश्मशानशून्यालयेषु। न वृक्षमूलेषु। न दिवा। न सन्ध्योः। न मलिनाम्। न मलिनः। नाभ्यकाम्। नाभ्यक्तः।न रोगार्चाम्। न रोगार्तः।

न हीनाङ्गो नाधिकाङ्गो तथैव च वयोधिकाम्।
नोपेयाद्गुर्विणीं नारीं दीर्घमायुर्जिजीवितुः॥

इति वैष्णवे धर्म्मशास्त्रे एकोनसप्ततितमोऽध्यायः॥

नार्द्रपादः स्वप्यात्। नोत्तरापरावाक्शिराः। न नग्नः। नार्द्रवंशे। नाकाशे। न पलाश शयने। न पञ्चदारुकृते। न गजभग्नकृते। न विद्युद्दग्धकृते न भिन्ने। नाग्निव्युष्टे। न घटासिक्तद्रुमजे। न श्मशानशून्यालयदेवतायतनेषु। न चपलमध्ये।न नारीमध्ये। न धान्यगोगुरुहुताशनसुराणामुपरि।

नोच्छिष्टो न दिवा स्वप्यात् सन्ध्ययोर्न च भस्मनि।
देशे न चाशुचौ नार्द्रे न च पर्वतमस्तके॥

इति वैष्णवे धर्मशास्त्रे सप्ततितमोऽध्यायः॥

॥अथ एकसप्ततितमोऽध्यायः॥

अथ न कञ्चनावमन्येत।

न च हीनाङ्गाधिकाङ्गान्मूर्खान् धनहीनानवहसेत्। न हीनान् सेवेत। स्वाध्यायविरोधि कर्म्म नाचरेत्। योऽनुरूपं वेशं कुर्य्यात् श्रुतस्याभिजनस्य धनस्य देशस्य च। नोद्धतः। नित्यं शास्त्राद्यवेक्षी स्यात्। सति विभवे न जीर्णमलवद्वासाः स्यात्। न नास्तीत्यभिभाषेत। न निर्गन्धोप्रगन्धिरक्तश्च माल्यं विभृयात्। विभृयाज्जलजं रक्तमपि। यष्टिञ्चवैणवीम्।

कमण्डलुश्च सोदकम्। कार्पासमुपवीतम्। रौपमेच कुण्डले। नादित्यमुद्यन्तमीक्षेत। नान्तं यान्तम्। न वाससा तिरोहितम्। न चादर्शं जलमध्यगतम्। न मध्याह्नेः। न कुद्धस्य गुरोर्मुखम्। न तैलोकयोः स्वच्छायाम्। न मलवत्यादर्शे। स्यादर्शे। न पत्नींभोजनसमये। न स्त्रियंनग्नाम्। न कञ्चन मेहमानम्। न चालानभ्रष्टकुञ्जरम्। न च विपमस्थोकुषादियुद्धम्। न मत्तम्। नामेध्यमग्नौप्रक्षिपेत्। नासृक्। न विषम्। नापस्वपि। नाग्निं लङ्घयेत्। न पादौ प्रतापयेत्। न कुशैस्तेषु वा परिमृज्यात्। न कांस्यभाजते चार्पयेत्। न पादं पादेन। न भुवमालिखेत्। न लोप्टमद्दींस्यात्। न तृणच्छेदी स्यात्। न दन्तैर्नखलोमानि च्छिन्द्यात्। द्यूतं वर्जयेत्बालातपसेवाश्च। वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत्। न शूद्राय मति दद्यात् नोच्छिष्टहविषी नतिलान्। न चास्योपदिशेद्धर्म्म न व्रतम् न संहताभ्यांपाणिभ्यां शिर उदरञ्चकण्डूयेत। न दधि सुमनसी प्रत्याचक्षीत। नात्मनः स्रजमपकर्षयेत्। सुप्तं नप्रबोधयेत्। नोदक्यामभिभाषेत न म्लेच्छान्त्यवान्।

अग्निदेवब्राह्मणसन्निधौ प्रदक्षिणम् पाणिमुद्धरेत्। न परक्षेत्रे चरन्तीं गामाचक्षीत न पिवन्तं वत्सकम्।नोद्धतान् प्रहर्षयेत्। न शूद्रराज्ये निवसेत्। नाधार्म्मिकजनाकीर्णे। न संवसेद्वैद्यहीने। नोपसृष्टे। न चिरं पर्वते। न वृथाचेष्ठां कुर्य्यात्। न नृत्यगीते। नास्फोटनं कार्य्यम्। नाश्लीलं कीर्त्तयेत्। नानृतम्। नाप्रियम्। न किञ्चन्मर्म्माणि स्पृशेत्। नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः। चिरं सन्ध्योपासनं कुर्य्यात्। न सर्पशस्त्रैःक्रीडेत। अनिमित्ततःखानि खानि न स्पृशेत्।परस्य दण्डं नोद्यच्छेत। शास्त्रं शासनार्थं ताडयेत्। तन्वा वेणुदलेन रज्ज्वावा पृष्ठे। देवब्राह्मणशास्त्रमहात्मानां परीवादं परिहरेत्। धर्मविरुद्धौ चार्थकामौ। लोकविद्विष्टञ्चधर्ममपि। पर्वसु शान्तिहोमं कुर्य्यात्। न तृणमपि च्छिन्द्यात्। अलङ्कृतश्चतिष्ठेत्। एवमाचारसेवी स्यात्॥

श्रुतिस्मृत्युदितं सम्यक् साधुभिश्च निषेवितम्।
तमाचारं निषेवेत धर्मकामो जितेन्द्रियः॥

आचाराल्लभते चायुराचारादीप्सितां गतिम्।
आचाराद्धनमक्षय्यमाचाद्धन्त्यरक्षणम्॥

सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः।
श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति॥

इदि वैष्णवे धर्मशास्त्रे एकसप्ततितमोऽध्यायः॥

——————————

॥अथ द्विसप्ततितमोऽध्यायः॥

दमयमेन तिष्ठेत्। दगश्चेन्द्रियाणां प्रकीर्त्तितः दान्तस्यालं लोकः परश्च। नादान्तस्य क्रिया काचित् समृध्यति॥

दमः पवित्रं परमं मङ्गल्यं परमं दमः।
दमेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति॥

दशार्द्धयुक्तेन रथेन याति मनोवशेनार्य्यपथानुवर्त्तिना।
तत्र्चेंद्रयं नापहरन्ति वाजिनस्तथागतं नापजयन्तिशत्रवः॥

आपर्प्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकानी॥

इति वैष्णवे धर्मशास्त्रे द्विसप्ततितमोऽध्यायः॥

————————

॥ अथ त्रिसप्ततितमोऽध्यायः ॥

अथश्रार्द्धेषु पूर्वद्युब्राह्मणानामन्त्रयेत्। द्वितीयेऽप्रश्नस्य पूर्वाद्धे कृष्णपक्षत्यापराते विप्रान्

सुस्नातान् स्वाचान्तान् यथाभूयो विद्याक्रमेण कुशोत्तरेष्वासनेपूपवेशयेत्। द्वौ दैवं प्राड्मुखौ श्रीश्चपित्र्ये उदङ्मुखान् एकैकमुभयत्र वेति। आमश्राद्धेषु काम्येषु च प्रथम पञ्च केनाग्निं हुत्वा। पशुश्राद्धेषु मध्यमपञ्चकेन। अमावास्यासूत्तमपञ्चकेन। आग्रहायण्या उर्द्धंकृष्णाष्टकासु च क्रमेणैव प्रथममध्यमोत्तमपञ्चकैः। अन्वष्टकासु च। ततो ब्राह्मणामुज्ञातः पितॄनावाहयेत्। अपयान्त्वसुराइति श्राद्धविघ्नकर्त्तृन्। यातुधानानपसार्य्य तिलैर्यातुधानानां विसर्जनं कृत्वा। एत पितरः सर्व्वास्तान् श्रमाय सन्त्वेतद्वः पितरइत्यावाहनं कृत्वा कुश तिलमिश्रेण गन्धोदकेन यस्तिष्ठन्त्यमृतागावितियन्मेमातेति च पाद्यंनिर्वर्त्य निवेद्याध्यं कृत्वा निवेद्यं चानुलेपनं कृत्वा कुशतिलवस्त्रपुष्पालङ्कारघूपदीपैर्यथाशक्त्याविप्रान् समभ्यर्च्च वृतष्टुत्मन्द्रमादायादित्यारुद्रावसव इतिवीक्ष्याग्नौ करवाणीत्युक्त्वा तत्र विप्रैः कुर्वित्युक्ते आहुतित्रयं दद्यात्। ये मामकाः पित्तर एतद्वः पितरोऽयं यज्ञे इति च हविरनुमन्त्रणं कृत्वायथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नं नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राड्मुखयोर्न्निवेदयेत्। पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदड्मुखेषु। तददत्सु ब्राह्मणेषु यन्मे प्रकामा अहोरात्रैर्यद्वाक्रव्यादिति जपेत्। इतिहासपुराणधर्मशास्त्राणि चेति।

उच्छ्रिष्ठसन्निधौ दक्षिणाग्रेषु दर्भेषु पृथिवी दर्व्वीरक्षिता इत्येकं पिण्डं पित्रे निदध्यात्। अन्तरीक्षं दर्व्वीं रक्षिता इति द्वितीयं पितामहाय। द्यौर्दर्व्वींरक्षिता इति तृतीयं प्रपितामहाय। अत्रपितरः प्रेता इति वासोदेयम्। धीरान्नः पितरो घन्त इत्यन्नम्। अत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति दर्भमूले करघर्षणम्। तजं वहन्तीरित्यतेनसोदकेन प्रदक्षिणं पिण्डानां विकरणंसेचनं कृत्वा अर्धपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि च निवेदयेत्। उदकपात्रञ्चमधुवृततिलैः संयुक्तञ्च। भुक्तवत्सु ब्राह्मणेषु तृप्तिमागतेषुमामेश्रेष्ठेत्यन्नं सतृणमभ्युक्ष्यान्नविकिरमुच्छिष्टाग्रतःकृत्वा नृप्ताभवन्तः सम्पन्नमिति पृष्टोदङ्मुखेष्वाचमनप्रादौदत्त्वा ततः प्राङ्मुखेषु दत्त्वा ततश्च मुमुप्रोक्षितमिति श्राद्धदेशं संप्रोक्ष्य दर्भपाणिः सर्व्वं कुर्य्यात्। ततः प्राङ्मुखाप्रतोयन्मे नाम इति प्रदक्षिणं कृत्वा प्रत्येत्य च यथाशक्ति दक्षिणाभिः समभ्युर्च्याभिरमन्तु भवन्त इत्युक्त्वा तैरूक्तोऽभिरताः रम इति दैवाश्च पिरतश्चेत्यभिजपेत्। अक्षप्योदकञ्चनामगोत्राभ्यां दत्त्वाविश्वे देवाः प्रोवन्तामिति प्रास्मुखेन्यस्ततः प्राम्बुलिरिदं सम्भनाः सुमनायाचेत दातारो जोऽभियर्द्धन्तां वेशः सन्ततिरेव च। श्रद्धा च नो मादेवश्च नोऽस्त्यिति।

तथास्त्विति ब्रूयुः। अन्नञ्चनोबहु भवेदतिर्थीश्च लभेमहि। याचितारश्च नः सन्तु मा च याचिष्म कञ्चन। इत्येताभ्यामाशिषः प्रतिगृह्य।

बाजेबाजे इति ततो ब्राह्मणांश्च विसर्जयेत्।
पूजयित्वा यथान्यायमनुव्रज्याभिवाद्य च॥

इति वैष्णवे धर्मशास्त्रे त्रिसप्ततितमोऽध्यायः॥

———————

॥अथ चतुःसप्ततितमोऽध्यायः॥

अष्टकासु देवपूर्व्वं शाकमांसापूपैः श्रार्द्धं त्वन्यष्टकास्वष्टकावद्वह्णौ दैवपूर्वमेवं हुत्वा मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद्-ब्राह्मणान् भोजयित्वा दक्षिणाभिश्चाभ्यच्चर्यानुव्रज्य विसर्जयेत्। ततः कर्पूःकुर्य्यात्। तन्मूले प्रागुदगग्न्युपसमाधानं कृत्वा पिण्डनिर्वपणम्। कर्पूत्रयमूले पुरुषाणां कर्पत्रयमूले स्त्रीणाम्। पुरुषकर्पत्रयं सान्नेनोदकेन पूरयेत्। स्त्रीकर्पूत्रयंसान्नेन पयसा। दध्ना मांसेन पयसा च प्रत्येकं कर्पत्रयं पूरयित्वाजपेद्भवतीभ्योऽस्तु चाक्षरम्।

इति वैष्णवे धर्मशास्त्रे चतुःसप्ततितमोऽध्यायः॥

———————

॥अथ पञ्चसप्ततितमोऽध्यायः॥

पितरि जीवति यः श्राद्धं कुर्य्यात् स येषां पिता कुर्य्यात्तेषां कुर्य्यात्। पितरि पितामहे च जीवति येषां पितामहःकुर्य्यात्तेषां कुर्य्यात्। त्रिषु जीवत्सु नैव कुर्य्यात्। यस्य पिता प्रेतः स्यात् सपित्रे पिण्डं निधाय प्रपितामहात् परं द्वाभ्यां दद्यात्। यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामहपितामहाय दद्यात्। यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्डं निधाय प्रपितामहात्परं द्वाभ्यांदद्यात्। यस्य पिता प्रपितामहश्चप्रेतौ स्यातां स पित्रे पिण्डं निधायपितामहात् परं द्वाभ्यां दद्यात्।

मातामहानामप्येवं श्राद्धं कुर्य्याद्विचक्षणः।
मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम्॥

इति वैष्णवेधर्मशास्त्रे पञ्चसप्ततितमोऽध्यायः॥

————————

॥अथ षट्सप्ततितमोऽध्यायः॥

अमावास्यास्तिस्रोऽष्टकास्तिस्रोऽन्वष्टकामाघी प्रौष्ठपद्यूर्द्धकृष्णत्रयोदशी प्रोहियवपाकौचेति।

एतास्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः।
श्राद्धमेतेष्वकुर्वाणोनरकं प्रतिपद्यते॥

इति वैष्णवे धर्मशास्त्रे षट्सप्ततितमोऽध्यायः॥

—————————

॥अथ सप्तसप्ततितमोऽध्याय॥

आदित्यसंक्रमणं विषुवद्वयं विशेषेणायनद्वयं व्यतीपासोजन्मर्क्षमभ्युदयश्च। एतास्तु श्राद्धकालान् वै काम्यानाह प्रजापतिः। श्राद्धमेतेषु यद्दतं तदानन्त्याय कल्पते।

सन्ध्यारात्र्योर्न कर्त्तव्यं श्रार्द्ध खलु विचक्षणैः।
तयोरपि च कर्त्तव्यं यदि स्याद्राहुदर्शनम्॥

राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम्।
गुणवत् सर्वकामीयं पितॄणामुपतिष्ठते॥

इति वैष्णवे धर्मशाखे सप्तसप्ततितमोऽध्यायः॥

—————————

॥अथ अष्टसप्ततितमोऽध्यायः॥

सततमादित्येऽह्निश्रार्द्धं कुर्वन्नारोग्यमाप्नोति। सौभाग्यं चान्द्रे। समरविजयं कौजे।

सर्व्वान् कामान् वौधे। विद्यामभीष्टां जीवे। धनं शौक्रेजीवितं शनैश्चरे। स्वर्गं कृत्तिकासु। अपत्यं रोहिणीषु। ब्रह्मवर्तस्यं सौम्ये कर्मसिद्धिं रौद्रे। भुवं पुनर्वसौ पुष्टिं पुण्ये। श्रियं सर्पे। सर्व्वान् कामान् पैत्रे। सौभाग्यं भाग्ये। धनमार्य्यमणे। ज्ञातिश्रेष्ठ्यंहस्ते। रूपवतः सुतां स्वाष्ट्रे। वाणिज्यसिद्धिं स्वाती। कनकंविशाखासु। मित्राणि मैत्रे। राज्यं शाके। कृषिं मूले। समुद्रयासिद्धिभाप्ये। सर्वान् कामान् वैश्वदेवे। श्रेष्ठमभिजिति। सर्व्वान् कामान् श्रवणे। लवणंवासवे। आरोग्यं वारुणे। कुयद्रव्यमाजे। गृहमाहिर्व्रघ्ने। गाः पौष्णे। तुरद्रमाश्विने। जीवितं याम्ये। गृहसुरूपाः स्त्रियः प्रतिपदि। कन्यां वरदां द्वितीयायाम्। सर्व्वान् कामास्तृतीयायाम्। पशुश्चतुर्थ्याम्। प्रियंपश्यम्याम्। द्यूत विषयंषष्ठ्याम्। कृषिं सप्तम्याम्। वाणिज्यमष्टभ्याम्। पशून्नवम्याम् वाजिनो दशम्याम्। ब्रह्मचर्यस्विनः पुत्रानेकादश्याम्। आयुर्वसुराज्यजयान् द्वादश्याम्। सौभाग्यं त्रयोदश्याम्। सर्वकामान् पञ्चदश्याम् शस्त्रहतानाम्। श्राद्धकर्मणि चतुर्दशी शस्ता। अपि पितृगीते गाथे भवतः।

अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः।
प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः॥

मधूत्कटेन यः श्राद्धं पायसेन समाचरेत्।
कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च॥

इति वैष्णवे धर्मशास्त्रे अष्टसप्ततितमोऽध्यायः॥

————————

॥ अथ एकोनाशीतितमोऽध्यायः॥

अथ न नक्तं गृहीतेनोदकेन श्रार्द्धं कुर्य्यात्। कुशाभावे कुशस्थाने काशान् दुर्व्वां वा दद्यात्। वाससोऽर्थेकार्पासोत्थं सूत्रम्। दशां विवर्जयेद् यद्यप्याहतवस्त्रजा स्यात्। जगन्धीन्यगन्धीनि कण्टकिजातानि रक्तानि च पुष्पाणि। शुक्लानि सुगन्धीनि कण्टकिजातान्यपि जलजानि रक्तान्यपिदद्यात्। वसां भेदञ्चदीपार्थे न दद्यात्। घृतं तैलं वा दद्यात्। जीवजं सर्वधूपार्थे न दद्यात्। मधुघृतसंयुक्तं गुग्गुलुं दद्यात्। चन्दनकुङ्कुमकर्पूरागुरुपद्मकान्यनुलेपनार्थे। न प्रत्यक्षलवणं दद्यात् हस्तेन च घृतव्यञ्जनादि। तैजसानि पात्राणि दद्यात्। विशेषतो राजतानि।

खङ्गकुतपकृष्णाजिनतिलसिद्धार्थकाङ्क्षतानि न पवित्राणि रक्षोघ्नानि चेति दद्यात्। पिणलीमुकुन्दकभूस्तृणशिसुसर्पपसुरसासर्जकसुवर्च्चलकुष्माण्डालावुवार्त्ताकुपालङ्क्योपोढकीतण्डुलौय-ककुसूम्भपिण्डालुकमहिषोक्षीराणि वर्जयेत्। राजमापमसूरपर्य्युपितकृतलवणानि च। कोपं परिहरेत्। नाश्रुपातयेत्। न त्वरा कुर्य्यात्। घृतादिदाने तैजसानिपात्राणि खड्गपात्राणिफल्गुपात्राणि च प्रशस्वानि। अत्र च श्लोकोभवति।

सौवर्णराजलाभ्याञ्चखड्गनौडुम्बरेण च।
दत्त मक्षय्यतां याति फल्गुपात्रेण चाप्यथ॥

इति वैष्णवे धर्मशास्त्रे एकोनाशीतितमोऽध्यायः॥

———————————

॥अथाशीतिमोऽध्यायः ॥

तिलैर्व्रीहियवैमांसैर्मूलफलैः शाकैः श्यामाकैः प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैर्यमारां प्रीयन्ते। द्वौ मासौ मत्समांसेन त्रीन् द्दयरिणेन। चतुरस्त्रौरघ्नेणपञ्चशाकुनेन। षट्छागेन। सप्त रौखेण अष्टौ पार्षतेन। नवगयनेन। दश माहिषेण। एकादश कोर्मेण। सम्वत्सरं गुलपेन पयसा तद्विकारैर्न्वां। अत्र पितृगीता गाथा भवति॥

कालशाकं महाशल्कं मांसं वाध्रीणसस्य च।
विषाणवज्यांये खड्गास्तांस्तु भक्षामहे सदा॥

इति वैष्णवे धर्मशास्त्रेऽशीतितमोऽध्यायः॥

————————

॥अथ एकाशीतितमोऽध्यायः॥

चान्नमासनमारोपयेत्। न पदा स्पृशेत।
उच्छेषणं भूमिगतमजिह्मस्याशठस्य वा।
दासवर्गस्य तत्पित्रे भागधेयं प्रचक्षते।

इति वैष्णवे धर्मशास्त्रे एकाशीतितमोऽध्यायः॥

——————————

॥ अथ द्वत्यशीतितमोऽध्यायः ॥

दैवे कर्म्मणि ब्राह्मणं न परीक्षेत। प्रयत्नात् पित्र्ये परीक्षेत। हीनाधिकाङ्गान् विवर्जयेत्।

विकर्म्मस्थांश्चवैड़ालन्नतिकान् वृथालिङ्गिनो नक्षत्रजीविनोदेवलकांश्च चिकित्सकान् अनूढापुत्रान् तत्पुत्रान् बहुयाजिनोग्रामयाजिनः शूद्रयाजिनोऽयाज्ययाजिनो व्रात्यांस्तद्याजिनः पर्वकारान् सूचकान् भृतकाध्यापकान् भूतकाध्यापितान्शूद्रान्नपुष्टान् पतितसंसर्गान् अनधीयानान् सन्ध्योपासना-

ननुष्ठान् राजसेवकान् नग्नान्पितृमातृगुर्वग्निस्वाध्यायत्यागिनश्चेति॥

ब्राह्मणायसदा ह्येते कथिताः पङ्क्तिदूषकाः।
एतान् विवर्जयच्छेषाच्छ्राद्धकर्म्मणि पण्ढितः॥

इति वैष्णवेधर्मशास्त्रे द्व्यशीतितमोऽध्यायः॥

———————

॥अथ त्र्यशीतितमोऽध्यायः॥

अथ पङ्क्तिपावनाः।

त्रिणाचिकेतः पथ्वाग्निर्ज्येष्ठसामगो वेदपारगो वेदाङ्गस्याप्येकस्य पारगः पुराणेतिहासव्याकरणधारणोधर्म्मशास्त्रस्याप्येकस्य पारगस्तीर्थपूतो यज्ञपूत स्तपःपूतःसत्यपूतोमन्त्रपूतो गायत्रीजपनिरतो ग्रामदेवानुसन्तानस्त्रिसुपर्णोजामाता दौहित्रश्चेति।

विशेषेण च योगिनः। अत्र पितृगीता गाथा भवति॥

अये सस्वात् कुलेऽस्माकं भोजयेद्यस्तु योगिनम्।
विप्रं श्राद्धेप्रयत्नेन येन तृष्यामहे वयम्॥

इति वैष्णवे धर्म्मशास्त्रे त्र्यशीतितमोऽध्यायः॥

——————————

॥अथ चतुरशीतितमोध्यायः॥

न म्लेच्छविषये श्राद्धं कुर्य्यात्। न गच्छेत्म्लेच्छविषयम्। परनिपानेष्वपः प्रीत्वा तत्साम्यमुपगच्छीति॥

चातुर्वर्णव्यवस्थानं यस्मिन् देशे न विद्यते।
स म्लेच्छदेशो विज्ञेय आर्यावर्त्तस्ततः परः॥

इति वैष्णवे धर्म्मशास्त्रे चतुरशीतितमोऽध्यायः॥

———————

॥अथ पञ्चाशीतितमोऽध्यायः॥

अथ पुष्करेषु श्राद्धम्।

जप्यहोमतपांसि च।
पुष्करे स्नानसाव्रतः सर्वपापेभ्यः पूतो भवति। एवमेव गयाशीर्षे अक्षयवटे अमरकण्टकपर्वते वराहपर्वते यत्र क्वचन नर्म्मदातीरे यमुनातीरे गङ्गायां विशेषतः कुशावर्त्ते विल्वके नीलपर्वते कनखले कुजाम्रेभृगुतुङ्गे केदारे महालये नडन्तिकायां सुगन्धायां शाकम्भर्य्यां फल्गुतीर्थंमहागङ्गायां त्रिलिकाश्रमेकुमारधारायां प्रभासे यत्र क्वचन सरस्वत्यां विशेषतः।

गङ्गाद्वारे प्रयागे च सङ्गासागरसङ्गमे।
सततं नैमिषारण्ये वाराणस्यां विशेषतः॥

अगस्त्याश्रमे कण्वाश्रमे कौशिक्यां सरयूतीरे शोणस्य-

ज्योतिषायाश्चसङ्गमे श्रीपर्वते कालोदके उत्तरमानसेषड़वाया मतङ्गवाप्यां सप्तार्षे विष्णुपदे स्वर्गमार्गपदे गोदावर्य्यांगोमत्यां वेत्रवत्यां विपाशायां वित्तस्तायां शतद्रुतीरे चन्द्रभागायां इरावत्यां सिन्धोस्तीरे दक्षिणे पञ्चनदे औजसे।

एवमादिष्वथान्येषु तीर्थेषु सरिद्वरासु सर्वेष्वपि स्वभावेषु पुलिनेषु प्रस्रवणेषु प्राणषु पर्वतेषु निकुञ्जेषु वनेषु-

पवनेषु गोमयपलिप्तेषु मनोज्ञेषु।
अत्र च पितृगीता गाथा भवन्ति॥

कुलेस्माकं स जन्तुः स्याद्यो नो दद्याज्ज्वलाञ्जलीन्।
नदीषु बहुतोयासु शीतलासु विशेषतः॥

अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः।
गयाशीर्षे वटेश्रार्द्धं यो नः कुर्य्यात् समाहितः॥

एष्टब्धा

बहवः पुत्रा यद्येकोऽपि गयांब्रजेत्।
यजेत वाश्वमेघेन नीलं वा वृषमुत्सृजेत्॥

इति वैष्णवे धर्मशास्त्रे पश्चाशीतितमोऽध्यायः ॥

——————

॥ अथ षडशीतितमोऽध्यायः॥

अथ वृषोत्सर्गः कार्त्तिक्यमाप्त्ययुज्यां वा।तत्रादविव वृषभंपरीक्षेत। जीवद्वत्प्तायाः पयस्विन्याःपुत्रं सर्वलक्षणोपेतं नीलं

लोहितं वा मुखपुच्छपादशृङ्गशुक्लं युपस्याच्छादकम्। ततो गवां मध्ये सुसमिद्धमग्निं परिस्तीर्य्य पौष्णं चरुं पयसा श्रपयित्वापूषागा अन्येतु न इह रतिरिति च हुत्वावृषमयस्कारस्त्वङ्कयेत्।

एकस्मिन् पार्श्वे चक्रेणापरस्मिन् पार्श्वे शूलेन। अङ्कितञ्च हिरण्यवर्णा इति चतसृभिः शन्नोदेवीति च स्त्रापयेत्।

स्नायमलङ्कृतं स्नातालङ्कृताभिश्चतसृभिवेत्सतरीभिः सार्द्धमानीय रुद्रान् पुरुषसूक्तं कुष्माण्डीश्च जपेत्। पिता वत्सेतिवृषभस्यदक्षिणे कर्णे पठेत् इमञ्च।

यूपोहि भगवान् धर्म्मश्चतुष्पादः प्रकीर्तितः।
वृणोमि तमहं भक्त्या स मे रक्षतु सर्व्वतः॥

एनं युवानं पतिं वो ददाम्यनेन क्रीडन्तीश्चरथ प्रियेण!
महामहिप्रजया मातनुभिर्मारधाम द्विषते सोम! राजन्!॥

वृषं वत्सतरीयुक्तमैशान्यां कारयेद्दिशि।
होतुर्वस्त्रयुगं दद्यात् सुवर्णं कांस्यमेव च॥

अयस्कारस्य दातव्यं वेतनं मनसेप्सितम्।
भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत्॥

उत्सृष्टो वृषभो यस्मिन् पिवत्यथ जलाशये।
जलासयं तत्सकलं पितृस्तस्योपतिष्ठति॥

शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः।
पितॄणामन्नपानं तत् प्रभूतमुपतिष्ठति॥

इति वैष्णवे धर्मशास्त्रे षड़शीतितमोऽध्यायः॥

॥ अथ सप्ताशीतितमोऽध्यायः॥

अथ वैशाख्यां पौर्णमास्यां कृष्णमृगाजिनं सुवर्णशृङ्गं रौप्यखुरं मौक्तिकलाङ्गूलभूषितं कृत्वा आविके वस्त्रे च प्रसारयेत। ततस्तिलैः प्रच्छादयेत्। सुवर्णनाभिञ्च कुर्यात्।आहतेन वासोयुगेन प्रच्छादयेत्। सर्व्वगन्यरत्नैश्चालङ्कृतं कुर्प्यात्। चतसृषु दिक्षुचत्वारि तेजसपात्राणि क्षीरदधिमधुघृतपूर्णानि निधायाहिताग्नये ब्राह्मणायालङ्कृतायावासो युगेन प्रच्छादिताय दद्यात्। अत्र च गाथा भवन्ति॥

यस्तु कृष्णाजिनं दद्यात् ससुरं शृङ्गसंयुतम्।
तिलैः प्रच्छाद्य वासोभिः सर्व्वरत्नैरलङ्कृतम्॥

ससमुद्रगुहा तेन सशैलवनकाननाः।
चतुरन्ता भवेद्दत्तापृथिवी नात्र संशयः॥

कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी।
ददाति यस्तु विप्राय सर्वं तरतिदुष्कृतम्॥

इति वैष्णवे धर्मशास्त्रे सप्ताशीतितमोऽध्यायः॥

॥अथाष्टाशीतितमोऽध्यायः॥

अथ प्रसूयमाना गौः पृथिवी भवति तामलङ्कृता ब्राह्मणाय दत्त्वा पृथिवीदानफलमाप्नोति। अत्र च गाथा भवति।

सवत्सा रोमतुल्यानि युगान्युभयतोमुखीम्।
दत्त्वा स्वगमवाप्नोति श्रद्दधानः समाहितः॥

इति वैष्णवे धर्मशास्त्रेऽष्टाशीतितमोऽध्यायः॥

———————————

॥ अथ एकोननवतितमोऽध्यायः॥

मासः कार्त्तिकोऽग्निर्दैवत्यः। अग्निश्च सर्वदेवानां मुखम्। तस्मात्तु कार्त्तिकं मासं बहिःस्नायी गायत्रीजपनिरतः-सकृदेव हविष्याशी संवत्सरकृतात् पापात् पूतो भवति।

कार्त्तिकं सकलं मासं नित्यस्नायी जितेन्द्रियः।
जपन् हविष्यभुग्दाता सर्वपापैः प्रमुच्यते॥

इति वैष्णवे धर्म्मशास्त्रे एकोननवतितमोऽध्यायः॥

—————————

॥ अथ नवतितमोऽध्यायः॥

मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरसंयुक्तायां चूर्णित लवणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रदापयेत्।

अनेन कर्म्मणा रूपसौभाग्यवानभिजायते। पौपोचेत् पुज्ययुक्ता स्यात्तस्यां गौरसर्पपकल्कोद्वर्त्तितशरीरो गव्यधृतपूर्णकुम्भेनाभिषिक्तः सर्व्वोपधिभिःसर्वगन्धैःसर्वबीजेश्च स्नातो घृतेन भगवन्तं वासुदेवंस्नापयित्वागन्धपुष्पधूपदीपनैवेद्यादिभिश्चाभ्यर्च्य वैष्णवैः-शाक्रैर्बार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा स्रसुवर्णेन घृतेन ससुवर्णेन घृतेन ब्राह्मणान् स्वस्ति वाचयेत्।

वासोयुगं कर्त्रे दद्यात्। अनेन कर्म्मणा पुष्यते। मानो मघायुता चेत्तत्यां तिलैः श्राद्धं कृत्वा पूतो भवति। फाल्गुनी फल्गुनीयुता चेत्स्यात्तस्यां ब्राह्मणाय सुसंस्कृतंस्वारतीर्णं शयनं निबेद्यभार्य्यां मनोज्ञां रूपवती द्रविणयतीष्वाप्नोति। नार्य्यपि भर्त्तारम्। चैत्री चित्रायुता स्यात्तस्यां चित्रवस्त्रप्रदानेन सौभाग्यमाप्नोति । वैशाखी विशाखायुता चेतस्यां ब्राह्मणसप्तकंक्षौद्रयुक्तैस्तिलैः - सन्तर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति। ज्यैष्ठीज्येष्ठायुता चैत्तस्यां छत्रोपानहप्रदानेन गत्राधिपत्यं प्राप्नोति। आषाढ्यामाषाढायुक्तायामन्नपानदातेन तदेवाक्षय्यमाप्नोति। श्रावण्यां श्रवणयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गमाप्नोति। प्रोष्ठपद्यां प्रौष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति। आश्वयुज्यामश्विनो गते चन्द्रमसि घृतपूर्णं भाजनं सुवर्णयुतं-

विप्राय दत्त्वा दीप्नाग्निर्भवति। कार्त्तिकी कृत्तिकायुता चेत्तस्यांसितमुक्षाणमन्यवर्णं वा शशाङ्कोदये सर्वशस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा कान्तारभयं नश्यति। वैशाखशुक्लतृतीयायामुपोषितोऽक्षतैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति। यच्च तस्मिन्नहनि प्रयच्छवि दतक्षप्यमाप्नोति। पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातरितलोदकं दत्त्वा विलैर्वासुदेवमभ्यर्च्य तानेव हुत्त्वा दत्त्वा भुक्त्वाच पापेभ्यः पूतो भवति। माध्यां समतीतायां कृष्णद्वादश्यां सोपवासश्रवणं प्राप्य वासुदेवाग्रतोमहावर्त्तिद्वयेन दीपद्वयं दद्यात्। दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुला मष्टाधिकां दत्त्वा वामपार्श्वे तिलतैलतुलांसाष्टां दत्त्वा श्येतेन समग्रेण वाससा। एतत्कृत्वाकृतकृत्यो यस्मिन् राष्ट्रेऽभिजायते यस्मिन् देशेयस्मिन् कुले स तत्रोज्ज्वलो भवति। आश्विनं सकलं मासंब्राह्मणेभ्यः प्रत्यहं घृतं प्रदद्याश्विनौ प्रीणयित्वारूप भाग्भवति। तस्मिन्नेव मासि प्रत्यहं गोरसैब्राह्मणान् भोजयित्वा राज्यभाग्भवति। प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं रेवतीप्रीत्यै

परमान्नं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा रूपभाग्भवति। माघेमासेऽग्निं प्रत्यहं तिलैर्हुत्वा सघृत कुल्मापं ब्राह्मणान् भोजयित्वा दीप्ताग्निर्भवति। सर्व्वां चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा सर्व्वपापेभ्यः पूतो भवति।

यदीच्छेद्विपुलान् भोगान् चन्द्रसूर्य्यग्रहोपगान्।
प्रात स्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ॥

इति वैष्णवे धर्मशास्त्रे नवतितमोऽध्यायः॥

———————

॥अथ एकनवतितमोऽध्यायः ॥

अथ कूपकर्त्तुस्तत्प्रवृत्तं पानीये दुष्कृतस्यार्द्धं विनश्यति। तडागकृन्नित्यतृप्त्यो वारण लोकमश्नुते । जलपदः सदा तृप्तो भवति। वृक्षारोपवितुर्वृक्षा परलोके पुजा भवन्ति। वृक्षप्रदोवृक्षप्रसूनैर्द्देवान् प्रीणयति फलैश्चातिधीन् छायया चाभ्यागतान् देवंपर्षत्युदकेन पितॄन्। सेतुकृत्सर्गमाप्नोति देवायतनकारुर्यस्य देवायतनं करोति- दन्तैव लोकमाप्नोति। सुधासिक्तं कृत्वा यशसाविराजते।

विविक्तं कृत्वागन्धर्वलोकमाप्नोति।’ पुष्पप्रदानेन श्रीमान् भवति। अनुलेपनप्रदानेन कीर्त्तिमान् भवति। दीपप्रदानेन चक्षुष्मान् सर्वतो ज्वलश्च। अन्नप्रदानेन बलवान्। धूपप्रदानेनोर्द्ध्वंगच्छति। देवनिर्म्माल्यापनयनाद्गोप्रदानफलमाप्सोति। देवायतनमार्जनात्तदुपलेपनाद् ब्राह्मणोच्छिष्टमार्जनात् पादादिशौचोदकल्पपरिचरणाच्च॥

कूपारामतडागेषु देवतायतनेषु च।
पुनः संस्कारकर्त्ता च लभते मौलिकं फलम्॥

इति वैष्णवे धर्मशास्त्रे एकनवतितमोऽध्यायः॥

——————————

॥ अथ द्विनवतितमोऽध्यायः॥

सर्वदानाधिकमभयप्रदानम्। तत्प्रदानेनाभीप्सितं लोकमाप्नोति भूमिप्रदानेन च। गोचर्म्ममात्रमपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति। गोप्रदानेन स्वर्गलोकमाप्नोति। दशधेनुप्रदो गोलोकान्। शतधेनुप्रदो ब्रह्मलोकान्।
सुवर्णशृङ्गीं रौप्यस्वुरामुक्तालाङ्गुलां कांस्वोपदोहां बस्त्रोत्तरीया दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकमाप्नोति।

र्विशेषतः कपिलाम्। दान्तं धुरन्धरं दत्वा दशधेनुप्रदो भवति। अश्वदः सूर्यसालोक्यमाप्नोति। वासोदश्चन्द्रसालोक्यम्। सुवर्णदानेनाग्निसालोक्यम्। रूप्यप्रदानेन रूप्यम्। तैजसानां पात्राणां प्रदानेन पात्रं भवेत् सर्वकामानामौषधप्रदानेन च। लवणप्रदानेन च लावण्यम्। धान्यप्रदानेन तृप्तिं शस्यप्रदानेन च। अन्नदः सर्वम्। धान्यप्रदानेन सौभाग्यम्। अकीर्त्तितानामन्येषा दानात् स्वर्गमवाप्नुयादिति। तिलप्रदः प्रजामिष्टा इन्धनप्रदानेन दीप्ताग्निर्भवति। आसनप्रदानेन स्थानम्। शय्याप्रदानेन भार्य्याम्। उपानत्प्रदानेनाश्वतरीयुक्तं रथम्। छत्रप्रदानेन स्वर्गम्। तालवृन्तचामरप्रदानेनाध्वसुखित्वम्।वास्तुमदानेन नगराधिपत्यम्॥

यद्यदिष्टतमं लोके यथास्ति दयितं गृहे।
सत्तद्गुणक्ते देयं तदेवरक्षय्यमिच्छता॥

इति वैष्णवेधर्मशास्त्रेत्रयोदशोऽध्यायः॥

—————————

अब्राह्मणे दत्तं तत्सममेव पारलौकिकम्। द्विगुणंब्राह्मणब्रुवे। सहस्रगुणंप्राधीते। अनन्तं वेदपारगे। पुरोहितस्त्वात्मन एव पात्रम्। स्वसा दुहिता जामातरश्चपात्रम्॥

न वार्य्यपि प्रयच्छेत वैड़ाल्व्रतिके द्विजे।
न वकव्रतिके पापे नावेदविदि धर्मवित्॥

धर्मध्वजी सदालुब्धश्छाद्मिको लोकदाम्भिकः।
वैडालत्रतिको ज्ञेयो हिंस्रः सर्व्वाभिसन्धिकः॥

अधोदृष्टिर्नैष्कृतिकः सार्थसाधनतत्परः।
शठो मिथ्याविनीतश्च वकव्रतपरो द्विजः॥

ये वकव्रतिनो लोके ये च मार्जारलिङ्गिनः।
ते पतत्यत्यतामिस्रे तेन पापेन कर्मणा॥

न धर्मस्यापदेशेन पापं कृत्वाव्रतंचरेत्।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम्॥

प्रेत्येह चेदृशो विप्रो गृह्यते ब्रह्मवादिभिः।
छद्मनाचरितं यत्र तद्वै रक्षांसि गच्छति॥

अलिङ्गी लिङ्गिवेशेन यो वृत्तिमुपजीवति।
स लिङ्गेनाहरत्येन स्तिर्य्यायोनौ प्रजायते॥

न दानं यशसे दद्यान्न भयान्नोपकारिणम्।
न नृत्यगीतशोलेभ्यो धर्मार्थमिति निश्चितम्॥

इति वैष्णवेधर्मशास्त्रे त्रिनवतितमोऽध्यायः॥

॥अथ चतुर्नवतितमोऽध्यायः॥

गृही वलीपलितदर्शने बनाश्रयो भवेत्। अपत्यस्य चापत्यदर्शनेन वा। पुत्रेषु भार्य्यां निक्षिप्य तवानुगम्यमानो वा। तत्राप्यग्नीनुपचरेत्। अफालकृष्णेन पश्चयज्ञान्न हापयेत्। स्वाध्यायं च न जह्यात्। ब्रह्यचर्य्यं पालयेत्। चर्म्मचोरवासाः स्यात्। जटाश्मश्रुलोमनखांश्च विभृयात्। त्रिपवणस्नायी स्यात्।

कपोतवृत्तिमांसनिचयः सम्वत्सरनिचयो वा।
सम्वत्सरनिचयो पूर्वनिचितमाश्वयुज्यां जह्यात्॥

प्रामादाहृत्य वारनीयादष्टौग्रासान् वने वसम्।
पुटेनैव पलाशेन पाणिना शकलेन वा॥

॥इति वैष्णवे धर्मशास्त्रे चतुर्नवतितमोऽध्यायः॥

—————————

॥अथ पञ्चनवतितमोऽध्यायः॥

वानप्रस्थस्तपसा शरीरं शोषयेत्। ग्रीष्मे पश्चतपाः स्यात्।आकाशशायी प्रावृषि।आर्द्रवासा हेमन्ते। नक्ताशी स्यात्। एकान्तरद्र्यन्तरत्र्यन्तराशी वा स्यात्। पुष्पाशी फलाशी शाकाशी। पर्णाशी। मूलाशी।

यवान्नं पक्षान्तयोर्व्वासकृदश्नीयात्। चान्द्रायणैर्वा वर्त्तेत। अश्मकुटुः। दन्तोलूखलिको वा॥

तपोमूलमिदं सर्वं दैवमानुषजं जगत्।
तपोमध्यं तपोऽन्तञ्च तपसा च तथावृतम्॥

यद्दुश्चरं यद्दुरापं यद्दूरं यच्च दुष्करम्।
सर्वं सत्तपसा साध्यं तपोहि दुरतिक्रमम्॥

इति वैष्णवे धर्मशास्त्रे पञ्चनवतितमोऽध्यायः॥

———————

अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यामिष्टिं कृत्या सर्वं वेदं दक्षिणां दत्वा प्रव्रज्याश्रमी स्यात्। आत्मभ्यग्नीनारोप्य भिक्षार्थं ग्राममियात्। सप्तागारिकं भैक्ष्यमादद्यात्। अलाभे न व्यथेत। न भिक्षुकं भिक्षेत। भुक्तवति जनेऽतीते पात्रसम्पाते भैक्ष्यमादद्यात्। मृण्मये दारुपात्रेऽलावुपात्रे या। तेपाञ्च तस्याद्भिः शुद्धिः स्यात्। अभिपूजितलाभादुद्विजेत। शून्यागारनिकेनतःस्यात्। वृक्षमूलनिकेतनो वा। न ग्रामे द्वितीयां रात्रिमावसेत्। कौपीनाच्छादनमात्रमेव वसनमादद्यात्। दृष्टिपूतं न्यसेत् पादम्। वस्त्रपूतं जलमादद्यात्।

सत्यपूतं वदेत्। मनःपूतं समाचरेत्। मरणं नाभिकामयेत जीवितञ्च।अतिवादांस्तितिक्षेत। न कश्चनावमन्येत। निराशीः स्यात्। निर्नमस्कारः॥

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः।
नाकल्याणं च कल्याणं तयोरपि च चिन्तयेत्॥

प्राणायागधारणाध्याननित्यः स्यात्। संसारस्यानित्यतां पश्येत्। शरीरस्याशुचिभावम्। जरयारूपविपर्य्ययम्। शारीरमानसागन्तुकव्याधिभिश्चोपतापम्। सहजैश्च। नित्यान्धकारे गर्भे वसति सूत्रपुरीषमध्ये च। तत्रच शीतोऽगदुःखानुभवनम्। जन्मसमये योनिसङ्कटनिर्गमान्महद्दुःखानुभवनम्। वाल्ये गोहं गुरुपरवश्यताम्। अध्ययनादनेकक्लेशम्। यौवनं च विषयप्राप्तावमार्गेण तदवाप्तौ विषयसेवनान्नरके पतनम्। अप्रियैर्वसतिं प्रियैश्च विप्रयोगम्। नरकेषु च सुमहद्दुःखम्। संसारसंसृतौ तिर्य्यग्योनिषु च। एवमस्मिन्सततपापिनि संसारे न किञ्चित्। तदपि किञ्चिद्दुःखापेक्षया मुखसंज्ञं तदप्यनित्यम्। तत्सेवाक्तायलभने वा महद्दुःखम्। शरीरं चेदं सप्तधातुकं पश्येत् वसारुधिरमांसास्त्रिमेदोमब्जा-

शुक्रात्मकं चर्म्मावनद्धं दुर्गन्धि च मलायतनं सुखशतैरपि वृत्तं विकारि प्रयत्नादुद्धृतमपि विनाशि कामक्रोधलोभमोहमदमात्सर्य्यस्थानं पृथिव्यप्तेजोवाय्वाकाशात्मकम्अस्थिशिरा-धमनिश्नायुयुतं रजस्वलं पट्त्वक्पेशि अस्थ्नां त्रिभिः शतैः षष्ठ्यधिकैर्धार्य्यमाणम्। तेषां विभागः। सूक्ष्मैः सह चतु षष्टिर्दशनाः, विंशतिर्नखाः, पाणिपादशलाकाश्च, षष्टिरङ्गुलीनां पत्राणि, द्वे पाष्वर्यो, चतुष्टयंगुल्फेषु चत्कर्य्यरतन्योः चत्वारि जङ्घयोः द्वे द्वे, जानुकपोलयोः द्वे द्वे अक्षतालूपकश्रोणिफलकेषु, भगारध्येकं, पृष्ठास्थि पञ्चचत्वारिंशद्भागं, पश्चदशास्थोनि ग्रीवा, जान्वेकं तथा हनुः, तन्मूले च द्वे, द्वे ललाटाक्षिगण्डे, नासा घनास्थिका अर्बुदेःस्थानकैश्च सार्द्धं द्वासप्ततिः पार्श्वकाः, उरः सप्तदश, द्वौ शङ्खकौ, चत्वारि कपालानि शिरश्चेति। शरीरेऽस्मिन् सप्तशिराशतानि। नव स्तायुशतानि। धमनोशते द्वे। पश्चपेशीशतानि। क्षुद्रवमनीनामेकोनत्रिंशदाल्लक्षाणि नवशतानि षट्पञ्चाशद्वमन्यः। लक्षत्रयं श्मश्रुकेशकूपानाम्। सप्तोत्तरं मर्म्मशतम्। सन्विशते द्वे। चतुःपञ्चाशद्रोमकोटयः सप्तपक्षिणि। नाभिरोजोगुदं शुक्रं शोणितं शङ्खको मूर्द्धा कण्ठोहदयञ्चेति प्राणायतनानि। बाहुद्वयं जङ्घाद्वयं भव्यं शीर्षमिति षड्ङ्गानि। वसा वया अवहननं नाभिः क्लोमो यकृत, प्लीहाक्षुद्रान्त्रं बुक्वोवस्तिः पुरीपाधानमामाशयो हृदयं स्थूलान्त्रं-

गुदमुदरं गुदकोष्ठम्। कनीनिके अक्षिकूटेशष्कुली-कर्णौकर्णपत्रकौ गण्डौ भ्रुवौ शङ्खकौदन्तवेष्टावोष्ठौ ककुन्दरे वंक्षणौ वृषणौ बुक्वौश्लेष्मसङ्घातकौस्तनौ-तपजिह्वास्फिचौ बाहू जङ्घे ऊरूपिण्डिके तालदरेवस्तिशीर्षो चिबुकं गलगुण्डिके अवटश्चेत्यस्मिन् शरोरके स्थानानानि। शब्दस्पर्शरसरूपगन्धाश्चविषया। नासिकालोचनत्वग्जिह्वाश्रोत्रमिति बुद्धिन्द्रियाणि।

हस्तौपादौ पायूपस्थं जिह्वेति कर्मेन्द्रियाणि।
मनोबुद्धिरात्मा चाव्यक्तमितीन्द्रियातीताः॥

इदं शरीरं वसुधे! क्षेत्र मित्यभिधीयते।
एतद्यो वेत्ति तं प्राहुःक्षेत्रज्ञमिति तद्विदः॥

क्षेत्रज्ञमेय मा विद्धि सर्वक्षेत्रेषु भाविनि!।
क्षेत्र क्षेत्रज्ञविज्ञानं ज्ञेयं नित्यंमुमुक्षुणा॥

इति वैष्णवे धर्मशास्त्रे षणनवतितमोऽध्यायः॥

———————

॥ अथ अष्टनवतितमोऽध्यायः॥

उपोचोतानचरणः सत्र्ये करे करमिनरे न्यस्य तालुस्वा चलजिह्वोदन्तैर्दन्तानसैरपुरान् स्वनासिकाप्राणं पश्यन् दिशश्चानवलोकयन् विभोः प्रशान्तात्माचतुर्विशत्या तत्त्वै

व्यतीति चिन्तयेत्।

नित्यमतीन्द्रियमगुणं शब्दस्पर्शरसरूपगन्धातीतं सर्वज्ञमतिस्थूलं सर्वगमतिसूक्ष्मं सर्वतः पाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतः सर्वेन्द्रियशक्तिम्। एवं ध्यायेत्। ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति। अथ निराकारे लक्षबन्धं कर्त्तुं न शक्नोति तदापृथिव्यप्तेजोवाय्वाकाशमतोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वंपूर्वं ध्यात्वा तत्र तच्च लक्षन्तत् परित्यज्यापरमपरं ध्यायेत्। एवं पुरुषध्यानमारभेत। अत्राप्यसमर्थः स्वहृदयपद्मस्यावाङ्मुखस्य मध्ये दीपवत् पुरुषं ध्यायेत्। तत्राप्यसमर्थोभगवन्तं वासुदेवं किरीटिनं कुण्डलिनमङ्गदिनं श्रीवत्साङ्क वनमालाविभूपितोरस्कं सौन्यरूपं चतुर्भुजं शङ्खचक्रगदापद्मधरं चरणमध्यगतभुवं ध्यायेत् । यद्ध्यायति तदाप्नोति ध्यानगुह्यम्। तस्मात् सर्वमेव क्षरं त्यक्ता अक्षरमेव ध्यायेत्। न च पुरुपं विना किञ्चिदप्यक्षरमस्ति। तं प्राप्य मुक्तो भवति।

पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः।
तस्मात् पुरुष इत्येवं प्रोच्यते तत्त्वचिन्तकैः॥

प्राग्रात्रापररात्रेषु योगी नित्यमतन्द्रितः।
ध्यायेत पुरुषं विष्णुं निर्गुणं पञ्चविंशकम्॥

तत्त्वात्मानमगम्यञ्च सर्वतत्त्वविवर्जितम्।
असक्तं, सर्वभृच्चैव निर्गुणगुणभोक्तृ च॥

बहिरन्तश्च भूतानामचरं चरमेव च।
सूक्ष्मत्वात्तदविज्ञेयं दुरस्थञ्चान्तिके च तत्॥

अविभक्तञ्च भूतेन विभक्तमिव च स्थितम्।
भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च॥

ज्योतिषामपि तज्जोतिस्तमस परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्य हृदि सर्वस्य धिष्ठितम्॥

इति क्षेत्रं तथा ज्ञानं रोयञ्चोक्तं समासतः।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥

इति वैष्णवे धर्मशास्त्रे सप्तनवतितमोऽध्यायः॥

————————

॥अथ अष्टनवतितमोऽध्याय॥

इत्येवमुक्तावसुमती जानुभ्यां शिरसा च नमस्कारं कृत्वोवाच। भगवत्वत्समीपे सततमेवं चत्वारि महाभूतालयात्याकाशशङ्खरूपोवायुत्वकरूपोतेजश्चसदारूप्यम्भोऽम्भोरुहरूपिअहमवचनेनैव रूपेण भगवत्पादमध्यपरिवर्त्तिनो भवितुमिच्छामि। इत्येवमुतोभगवत्युवाच। वसुधापि लब्धकामा तथा चक्रे देवदेवश्चतुष्टाव।अरे नमस्ते देवदेव वासुदेव आदिदेव कामदेव महीपालजनादिमध्यनिधन प्रजापते सुप्रजापते महा-

प्रजापते ऊर्ज्जत्पते वाचस्पते जगत्पते दिवस्पते वनस्पते पयस्पते पृथिवीपते सलिलपते दिक्पते महत्पतेमरुत्पते लक्ष्मीपते ब्रह्मरूप ब्राह्मणप्रिय सर्वग अचिन्त्यज्ञानगम्य पुरुहूत पुरुष्टत व्रह्मण्य ब्रह्मप्रिय ब्रह्मकायिकमहाकायिक महाराजिक चतुस्महाराजिक भास्वर महाभास्वर सप्त महाभाग स्वर तुपित महातुपितप्रतर्दन परिनिर्मित अपरिनिर्मित वशवर्त्तिन् यज्ञ महायज्ञ यज्ञयोग यज्ञगभ्य यज्ञनिधन अजित वैकुण्ठ अपार पर पुराण लेख्य प्रजावर चित्राशसखण्डधर यज्ञभागहर पुरोडाशहर विश्वक् विश्वधर शुचिश्रवः अच्युतार्च्चन घृतार्च्चिःखण्डपरशो पद्मनाभ पद्मधर पद्मधाराधर हृषीकेश एकशृङ्ग महावराह द्रुहिण अच्युत अनन्त पुरुष महापुरुष कपिल सांख्यचार्य्य विश्वक्सेन धर्माधर्म्मद धर्माङ्ग धर्मवसुप्रद वरप्रद विष्णो जिष्णोसहिष्णो कृष्ण पुण्डरीकाक्ष नारायण परायण जगत्परायण नमोनम इति॥

स्तुत्वात्वेवं प्रसन्नेन मनसा पृथिवी तदा।
उवाच सम्मुखं देवं लब्धकामा वसुन्धरा॥

इति वैष्णवेधर्मशास्त्रेऽष्टनवतितमोऽध्यायः॥

॥ अथ नवनवतितमोऽध्यायः ॥

दृष्ट्वा श्रियं देवदेवस्य बिष्णोर्गृहीत पादा तपसा ज्वलन्तीम्।
सुतप्रजाम्बूनदचारुपर्णां पप्रच्छ देवी वसुधाप्रहृष्टा॥

उन्निद्रकोफनदचारुकरे वरेण्ये।
उन्निद्रकोकनदनाभि गृहीतपादे॥
उन्निद्रकोकनसद्मसदास्थितीते।
उन्निद्रकोकनदमध्यसमानवर्णे॥

नीलाञ्जनेत्रे तपनीयवर्णे शुक्लाम्बरेरत्नविभूषिताङ्गि।
चन्द्रानने सूर्यसमानभासे महाप्रभावे जगतः प्रधाने॥

त्यमेव निद्रा जगतः प्रधाना लक्ष्मीर्धृतिः श्रीर्विरतिर्जयाः च !
कान्ति प्रभा कीर्तिरथो विभूति सरस्वतीवागथ पावनी च॥

स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिसुदीक्षा न तथा सुनीतिः।
ख्यातिर्विशाला च तथानसूयास्वाहाच मेधा च तथैव बुद्धिः॥

आक्रम्य सर्वान्तु यथा त्रिलोकोतिष्ठत्ययं देयवरोऽसिताङ्गे।
तथा स्थिता त्वं वरदे तथापि पृच्छाम्यहंते वसतिं विभूत्याः॥

इत्येवमुक्तां वसुधा बभाषे लक्ष्मीस्तदादेवस्यातस्था
सदा स्थिवाहं मधुसूदनस्य देवस्य पार्श्वे तपनीयपूर्णे॥

अस्याज्ञयायं मनसा स्मरामि श्रियायुतं तं प्रवदन्ति सन्तः
संस्मारणं याप्यथ यत्र चाहं स्थिता सदा तच्छूणुलोकधाम्नि॥

साम्यधार्के च निशाकरे च तारागणढ्योगगने विमेधे।
मेघे तथालम्बपयोधरे च शक्रत्युपाढ्येच तडित्प्रकाशे॥

तथा सुवर्णे विमले च रूप्ये रत्नेषु वस्त्रेष्वमलेषु मूने।
प्रासादमालासु च पाण्डुरासु देवालयेषु ध्वजभूपितेषु॥

सद्य कृते चाप्यथ गोमये च मत्तेगजेन्द्रे तुरगे प्रहृष्टे।
यूपे तथा दर्पसमन्विते च विप्रे तथैवाध्ययनप्रपन्ने॥

सिंहासने चामलके च विल्ये च्छ्रवे च शङ्खे च तथैव पद्मे।
दीप्ते हुताशे विमले च खड्गे आदर्शविम्बे च तथास्थिताहम्।

पूर्णोदकुम्भेषु सचामरेषु सतालवृन्तेषु विभूषितेषु।
भृङ्गारपात्रेषु मनोहरेषुमृदिस्थिवाहञ्चनवोद्धतायाम्॥

क्षीरे तथा सर्पिषि शाद्वले च क्षौद्रे तथा दध्नि पुरन्धिगात्रे।
देहे कुमार्य्याश्चतथा सुराणां तपस्विनां यज्ञभृताञ्चदेहे॥

शरे च संग्रामविनिर्गते च स्थितामृते स्वर्गसदाप्रयाते।
वेदध्वनौ वाज्यथ शङ्खशब्दे स्वाहास्वधायामथ वाद्यशब्दे॥

राजाभिषेके च तथा विवाहे यज्ञे वरे स्नातशिरस्यथापि।
पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्वरासु॥

सरसु पूर्णेषु तथा जलेषु सशाद्वलायांभुवि पद्मखण्डे।
वने च वत्से च शिशौ प्रहृष्टेसाधौ नरे धर्म्मपरायणे च॥

आचारसेवित्यथ शास्त्रनित्वे विनोतवेशेच तथा सुवेशे।
सुशुद्धदान्ते मलवर्जिते च मिष्टाशने चातिथिपूजके च॥

स्वदारतुष्टे निरते च धर्मे धर्मोत्कटे चात्यशनाद्विरक्ते।
सदा सुपुष्पे च सुगन्धिगात्रे सुगन्धलिप्ते च विभूषिते च॥

सत्ये स्थिते भूतहिते निविष्टे क्षमार्चिते क्रोधविवर्ज्जिते च।
स्वकार्य्यदक्षे परकार्य्यदक्षेकल्याणचित्तेच सदा विनीते॥

नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु।
अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु वलिप्रियासु॥

सम्पृष्टवेश्मासु जितेन्द्रियासु कलिव्यपेतासु विलोलुपासु।
धर्म्मव्यपेक्षासु दयान्निवासु स्थिता सदाहं मधुसूदने तु॥

इति वैष्णवे धर्मशास्त्रे नवनवतितमोऽध्याय॥

———————

॥अथ शततमोऽध्यायः॥

धर्म्मशात्रमिदं श्रेष्ठं स्वयं देवेन भाषितम्।
ने द्विजाधारयिष्यन्ति तेषां सर्गे गतिः परा॥

इदं पवित्रं मङ्गल्यं स्वर्गमायुष्यमेव च।
ज्ञानञ्चैवयशस्यं च धनसौभाग्यवर्द्धनम्॥

अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यमेव च।
श्राद्धेषु श्रावणीयं च भूतिकामैर्नरैःसदा।

इदं रहस्यं परमं कथितं वसुधे। तव॥

मया प्रसन्नेन जगद्धितार्थं सौभाग्यमेतत् परमं रहस्यम्।
दुस्वप्ननाशं बहुपुण्ययुक्तं शिवालयं शाश्वतधर्मशस्त्रम्॥

इति वैष्णवे धर्म्मशास्त्रे शततमोध्यायः॥

——————

॥ समाप्ता चेयं श्रीभगवद्विष्णुस्मृतिः॥

ॐ तत्सत्।

॥ अथ ॥