शातातपस्मृतिः

<MISSING_FIG href="../books_images/U-IMG-1725278302go.png"/>

॥ श्रीगणेशाय नमः ॥

अथाऽकृतप्रायश्चित्तवर्णनम्।

प्रथमोऽध्यायः।

प्रायश्चित्तविहीनानांमहापातकिनां नृणाम्।
नरकान्ते भवेज्जन्मचिह्नाङ्कितशरीरिणाम् ॥१॥

प्रतिजन्म भवत्तेषां चिह्नं तत्पापसूचितम्।
प्रायश्चित्ते कृते याति पश्चात्तापवतां पुनः॥२॥

महापातकजं चिह्नं सप्तजन्मनि जायते।
उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम्॥३॥

दुष्कर्मजा नृणां रोगा यान्ति चोपक्रमैः शमम्।
जपैः सुरार्चनैर्होमैर्दानैस्तेषां शमोभवेत्॥४॥

सुवर्णशतनिष्कन्तु तदर्द्धार्द्धप्रमाणतः।
अश्वदाने मृदु श्वक्ष्णमश्वंसोपस्करं दिशेत्॥१६॥

महिषी माहिषेदाने दद्यात् स्वर्णा(ऽम्बरा) युधान्विताम्।
दद्याद्गजं महादाने सुवर्णफलसंयुतम्॥१७॥

लक्षसंख्यार्हणं पुष्पं प्रदद्यादेवतार्च्चने।
दद्याद्द्विजसहस्रायमिष्टान्नंद्विजभोजने॥१८॥

रुद्रं जपेल्लक्षपुष्पैः पूजयित्वा च त्र्यम्बकम्।
एकादश जपेद्रुदान् दशांश गुग्गुलैर्घृतैः॥१९॥

हुत्वाभिषेचनं कुर्य्यान्मन्त्रैर्वरुणदैवतैः।
शान्तिकेगणशान्तिश्च ग्रहशान्तिकपूर्वकम्॥२०॥

धान्यदाने शुभं धान्यं खारी यष्टिमितं स्मृतम्।
वस्त्रदाने पट्टवस्त्रद्वयंकर्पूरसंयुतम्॥२१॥

दशपश्चाष्टचतुर उपवेश्य द्विजान् शुभान्।
विधाय वैष्णवी पूजांसङ्कल्प्य निजकाम्यया॥२२॥

धेनुं दद्याद्द्विजातिभ्यो दक्षिणाञ्चापि शक्तितः।
अलङ्कृत्य यथाशक्ति वस्त्रालङ्करणैर्द्विजान्॥२३॥

याचेद्दण्डप्रमाणेन प्रायश्चित्तं यथोदितम्।
तेषामनुज्ञया कृत्वाप्रायश्चित्तं यथाविधि॥२४॥

पुनस्तान् परिपूर्णार्थानर्चयेद्विधिवद्द्विजान्।
सन्तुष्टाब्राह्मणा दद्युरनुज्ञां व्रतकारिणे॥२५॥

जपच्छिद्रंतपश्छिद्रंयच्छिद्रं यज्ञकर्मणि।
सर्वं भवति निश्छिद्रंयस्य चेच्छन्ति ब्राह्मणाः॥२६॥

ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः।
सर्वदेवमया विप्रा न तद्वचनमन्यथा॥२७॥

उपवासो व्रतञ्चैव स्नानं तीर्थफलं तपः।
विप्रैः सम्पादितं सर्वं सम्पन्नं तस्य तत्फलम्॥२८॥

सम्पन्नमिति यद्वाक्यं वदन्ति क्षितिदेवताः।
प्रणम्य शिरसा सार्धमग्निष्टोमफलं लभेत्॥२९॥

ब्राह्मणा जङ्गमं तीर्थं निर्मलं सार्वकामिकम्।
तेषांवाक्योदकेनैव शुद्ध्यन्ति मलिनोजनाः॥३०॥

तेभ्योऽनुज्ञामभिप्राप्य प्रगृह्य च तथाशिषः।
भोजयित्वा द्विजान् शक्त्याभुञ्जीत सह बन्धुभिः॥३१॥

इति शातातपीये कर्मविपाके साधारणविधिः प्रथमोऽध्यायः।

<MISSING_FIG href="../books_images/U-IMG-1725272946w.png"/>

॥ द्वितीयोऽध्यायः॥

अथ कुष्ठनिवारणप्रयोगवर्णनम्।

ब्रह्महानरकस्यान्ते पाण्डुकुष्ठीप्रजायते।
प्रायश्चित्तंप्रकुर्वीत स तत्पातकशान्तये॥१॥

चत्वारः कलशाः कार्य्याःपश्चरत्नसमन्विताः।
पश्चपल्लवसंयुक्ताः सितवस्त्रेण संयुताः॥२॥

अश्वत्थानादिमृद्युक्तास्तीर्थोदकसुपूरिताः।
कषायपश्चकोपेता नानाविधफलान्विताः॥३॥

सर्वौषधिसमायुक्ताः स्थाप्याः प्रतिदिशं द्विजैः।
रौप्यमष्टदलं पद्मं मध्यकुम्भोपरि न्यसेत्॥४॥

तस्योपरि न्यसेद्देवंब्रह्माणञ्चचतुर्मुखम्।
पलार्द्धार्द्धप्रमाणेन सुवर्णेन विनिर्मितम्॥५॥

अर्चेत् पुरुषसूक्तेनत्रिकालं प्रतिवासरम्।
यजमानः शुभैर्गन्धैःपुष्पैर्धूपैर्यथाविधि॥६॥

पूर्वादिकुम्भेषु ततो ब्राह्मणा ब्रह्मचारिणः।
पठेयुः स्वस्ववेदान्ते ऋग्वेदप्रभृतीन् शनैः॥७॥

दशांशेन ततो होमो ग्रहशान्तिपुरःसरः।
मध्यकुण्डे विधातव्यो घृताक्तैस्तिलहेमभिः॥८॥

द्वादशाहमिदं कर्म समाप्यद्विजपुङ्गवः।
तत्र पीठे यजमानमभिषिञ्चेद्यथाविधि॥९॥

ततो दद्याद्यथाशक्तिगोभूहेमतिलादिकम्।
ब्राह्मणेभ्यस्तथा देयमाचार्य्याय निवेदयेत्॥१०॥

आदित्या वसवो रुद्रा विश्वे देवा मरुद्गणाः।
प्रीताः सर्वे व्यपोहन्तु मम पापं सुदारुणम्॥११॥

इत्युदीर्य्य मुहुर्भक्त्यातमाचार्य्यं क्षमापयेत्।
एवं विवाने विदिते श्वेतकुष्ठी विशुध्यति॥१२॥

कुष्ठीगोवधकारी स्यान्नरकान्तेऽस्यनिष्कृतिः।
स्थापयेद्घटमेकन्तुपूर्वोक्तद्रव्यसंयुतम्॥१३॥

रक्तचन्दनलिप्ताङ्गंरक्तपुष्पाम्वरान्वितम्।
रक्तकुम्भन्तु तं कृत्वा स्थापयेद्दक्षिणां दिशम्॥१४॥

ताम्रपात्रं न्यसेत्तत्र तिलचूर्णेन पूरितम्।
तस्योपरि न्यसेद्देवं हेमनिष्कमयं यमम्॥१५॥

यजेत् पुरुषसूक्तेन पापं मे शाम्यतामिति।
सामपारायणं कुर्य्यात् कलशे तत्र सामवित्॥१६॥

दशांशं सर्षपैर्हुत्वा पावमान्यभिषेचने।
विहिते धर्मराजानमाचार्य्याय निवेदयेत्॥१७॥

यमोऽपि महिषारूढोदण्डपाणिभयावहः।
दक्षिणाशापतिर्देवो मम पापं व्यपोहतु॥१८॥

इत्युच्चार्य्यविसृज्यैनं मासं मद्भक्तिमाचरेत्।
ब्रह्मगोवधयोरेषाप्रायश्चित्तेन निष्कृतिः॥१९॥

पितृहाचेतनाहीनो मातृहान्धः प्रजायते।
नरकान्ते प्रकुर्वीत प्रायश्चित्तं यथाविधि॥२०॥

प्राजापत्यानि कुर्वीत त्रिंशच्चैव विधानतः।
व्रतान्ते कारयेन्नावं सौवर्णपलसम्मिताम्॥२१॥

कुम्भं रौप्यमयञ्चैव ताम्रपात्राणि पूर्ववत्।
निष्कहेम्नातु कर्त्तव्यो देवः श्रीवत्सलाञ्छनः॥२२॥

पट्टवस्त्रेण संवेष्ट्य पूजयेत्तं विधानतः।
नावं द्विजाय तांदद्यात्सर्वोपरकरसंयुताम्॥२३॥

वासुदेव ! जगन्नाथ ! सर्वभूताशयस्थित।
पातकार्णवमग्नं मां तारय प्रणतार्त्तिहृत्॥२४॥

इत्युदीर्य्य प्रणम्याथ ब्राह्मणाय विसर्जयेत्।
अन्येभ्योऽपि यथाशक्ति विप्रेभ्यो दक्षिणां ददेत्॥२५॥

स्वसृघाती तु वधिरो नरकान्ते प्रजायते।
मूको भ्रातृवधे चैव तस्येयं निष्कृतिः स्मृतौ॥२६॥

सोऽपि पापविशुद्ध्यर्थं चरेच्चाद्रायणब्रतम्।
व्रतान्ते पुस्तकं दद्यात् सुवर्णफलसंयुतम्॥२७॥

इमं मन्त्रं समुच्चार्य्यब्रह्माणंतंविसर्जयेत्।
सरस्वति!जगन्मातः ! शब्दब्रह्माधिदैवते॥२८॥

दुष्कर्मकरणात् पापात् पाहि मां परमेश्वरि।
वालघाती च पुरुषो मृतवत्सः प्रजायते॥२९॥

ब्राह्मणोद्वाहनञ्चैवकर्त्तव्यञ्च तेन शुद्धये।
श्रवणं हरिवंशस्य कर्त्तव्यञ्चयथाविधि॥३०॥

महारुद्रजपञ्चैवकारयेच्च यथाविधि।
षड्ङ्गैकादशै रुद्रै रुद्रःसमभिधीयते॥३१॥

रुद्रैस्तथैकादशभिर्महारुद्रः प्रकीर्तितः।
एकादशभिरेतैस्तु अतिरुद्रश्चकथ्यते॥३२॥

जुहुयाच्च दशांशेन दूर्वयायुतसंख्यया।
एकादशस्वर्णनिष्काःप्रदातव्याःसदक्षिणाः॥३३॥

पलान्येकादश तथा दद्याद्द्विजानुसारतः।
अन्येभ्योऽपि यथाशक्ति द्विजेभ्यो दक्षिणां दिशेत्॥३४॥

स्नापयेद्दम्पतीपश्चान्मन्त्रैर्वरुणदैवतैः।
आचार्य्याय प्रदेयानि वस्त्रालङ्करणानि च॥३५॥

गोत्रहा पुरुषा कुष्ठी निर्वंशश्चोपज्ञायते।
स च पापविशुद्ध्यर्थंप्राज्ञापत्यशतं चरेत्॥३६॥

व्रतान्ते मेदिनीं दद्याच्छृणुयादथ भारतम्।
स्त्रीहन्ता चातिसारी स्यादश्वत्थान्रोपयेद्दश॥३७॥

दद्याच्च शर्कराधेनुं भोजयेच्चशतं द्विजान्।
राजहाक्षयरोगी स्यादेषातस्य च निष्कृतिः॥३८॥

गोभूहिरण्यमिष्टान्नजलवस्त्रप्रदानतः।
घृतधेनुप्रदानेन तिलधेनुप्रदानतः॥३९॥

इत्यादिना क्रमेणैव क्षयरोगः प्रशाम्यति।
रक्तार्बुदी वैश्यहन्ता जायते स च मानवः॥४०॥

प्राजापत्यानि चत्वारि सप्त धान्यानि चोत्सृजेत्।
दण्डापतानकयुतः शूद्रहन्ता भवेन्नरः॥४१॥

प्राजापत्यं सकृच्चैवं दद्याद्धेनुं सदक्षिणाम्।
कारूणाञ्च बधे चैव रुक्षभावः प्रजायते॥४२॥

तेन तत्पापशुद्ध्यर्थं दातव्यो वृषभः सितः।
सर्वकार्य्येष्वसिद्धार्थोगजघाती भवेन्नरः॥४३॥

प्रासादं कारयित्वा तु गणेशप्रतिमां न्यसेत्।
गणनाथस्य मन्त्रस्तु मन्त्री लक्षमितं जपेत्॥४४॥

कुलत्थशाकैःपूपैश्च गणशान्तिपुरःसरम्।
उष्ट्रे विनिहते चैव जायते विकृतस्वरः॥४५॥

स तत्पापविशुद्ध्यर्थं दद्यात् कर्पूरजंफलम्॥४६॥

अश्वे विनिहते चैव वक्रतुण्डः प्रजायते।
शतं पलानि दद्याच्चचन्दनान्यघनुत्तये॥४७॥

महिषीघातने चैवकृष्णगुल्मः प्रजायते।
खरे विनिहते चैव खररोमा प्रजायते॥४८॥

निष्फत्रयस्य प्रकृतिं सम्पदद्याद्धिरण्मयीम्।
तरक्षौनिहते चैव जायते केकरेक्षण।
दद्याद्रत्नमयींधेनुं स तत्पातकशान्तये॥४९॥

शूकरे निहते चैव दन्तुरो जायते नरः।
स दद्यात्तुविशुद्ध्यर्थं घृतकुम्भं संदक्षिणम्॥५०॥

हरिणे निहते खञ्जःशृगाले तु विषादकः।
अश्वस्तेन प्रदातव्यः सौवर्णपलनिर्मितः॥५१॥

अजाभिघातेन चैव अधिकाङ्गःप्रजायते।
अजा तेन प्रदातव्याविचित्रवस्त्रसंयुता॥५२॥

उरध्रे निहते चैव पाण्डुरोगः प्रजायते।
कस्तूरिकापलं दद्याद्ब्राह्मणायविशुद्धये॥५३॥

मातरि निहते चैव पीतपाणिः प्रजायते।
पारावतंस सौवर्णंप्रदद्यान्निष्कमात्रकम्॥५४॥

शुकशारिकयोर्घाते नरः स्खलितवाग्भवेत्।
सच्छास्त्रपुस्तकं गद्यात् स विप्राय सदक्षिणम्॥५५॥

चक्रघाती दीर्घनसो दवाद्रांधवलप्रभाम्।
काकपाती कर्णहीनो दद्याद्रागसितप्रभाम्॥५६॥

हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता।
तदर्द्धार्द्धप्रमाणेन क्षत्रियादिष्वनुक्रमात्॥५७॥

इति शतातपीये कर्मविपाके हिंसाप्रायश्चित्तविधिर्नाम
द्वितीयोऽध्यायः॥

॥ तृतीयोऽध्यायः॥

अथ प्रकीर्णरोगाणां प्रायश्चित्तम्।

सुरापः श्यावदन्तः स्यात् प्राजापत्यन्तरन्तथा।
शर्करायास्तुलाः सप्त दद्यात् पापविशुद्धये॥१॥

जपित्वा तु महारुद्रं दशांशं जुहुयात्तिलैः।
ततोऽभिषेकः कर्तव्यो मन्त्रैर्वरुणदैवतैः॥२॥

मद्यपो रक्तपित्ती स्यात्स दद्यात् सर्पिषो घटम्।
मधुनोऽर्द्धघटञ्चैवसहिरण्यं विशुद्धये॥३॥

अभक्ष्यभक्षणाच्चैव जायते कृमिकोदरः।
यथावत्तेन शुद्ध्यर्थमुपोष्यं भीष्मपञ्चकम्॥४॥

उदक्यावीक्षितंभुक्त्वाजायते कृमिलोदरः।
गोमूत्रयावकाहारस्त्रिरात्रेणैव शुद्ध्यति॥५॥

भुक्त्वाचास्पृश्यसंस्पृष्टं जायते कृमिलोदरः।
त्रिरात्रं समुपोप्याथ स तत्पापात् प्रमुच्यते॥६॥

परान्नविघ्नकरणादजीर्णमभिजायते।
लक्षहोमं स कुर्वीत प्रायश्चित्तं यथाविधि॥७॥

मन्दोदराग्निर्भवति सति द्रव्येकदन्नदः।
प्राजापत्यत्रयंकुर्य्याद्भोजयेच्चशतं द्विजान्॥८॥

विपदः स्याच्छर्दिरोगी दद्याद्दशपयस्विनीः।
मार्गहापादरोगी स्यात् सोऽश्वदानं समाचरेत्॥९॥

पिशुनो नरस्यान्ते जायते श्वासकासवान्।
घृतं तेन प्रदातव्यं सहस्रपलसम्मितम्॥१०॥

धूर्तोऽपस्माररोगी स्यात् स तत्पापविशुद्धये।
ब्रह्मकूर्चमयीं धेनुं दद्याद्राश्चसदक्षिणाम्॥११॥

शूलोपरोपतापेन जायते तत्प्रमोचने।
सोऽन्नदानं प्रकुर्वीव तथा रुद्रं जपेन्नरः॥१२॥

दावाग्निदायकश्चैव रक्तातीसारवान् भवेत्।
तेनोदपानं कर्त्तव्यं रोपणीयस्तथा वटः॥१३॥

सुरालये जले वापि सकृण्मूत्रं करोति यः।
गुदरोगो भवेत्तस्यपापरूपः सुदारुणः॥१४॥

मासं सुरार्चनेनैव गोदानद्वितयेन तु।
प्राजापत्येन चैकेन शाम्यन्ति गुदजा रुजः॥१५॥

गर्भपातनजा रोगा यकृत्प्लीहजलोदराः।
तेषां प्रशमनार्थायप्रायश्चित्तमिदं स्मृतम्॥१६॥

एतेषु दद्याद्विप्राय जलधेनुं विधानतः।
सुवर्णरूप्यताम्राणां पलत्रयसमन्विताम्॥१७॥

प्रतिमाभङ्गकारी च अप्रतिष्ठः प्रजायते।
संवत्सरत्रयं सिञ्चेदश्वत्थंप्रतिवासरम्॥१८॥

उद्वाहयेत्तमश्वत्थंस्वगृह्योक्तविधानतः।
तत्रसंस्थापयेद्देवं विघ्नराजं सुपूजितम्॥१९॥

दुष्टवादी खण्डितः स्यात्स वैदद्याद्विजातये।
रूप्यं पलद्वयं दुग्धं घटद्वयसमन्वितम्॥२०॥

खल्लीटः परनिन्दावान् धेनुं दद्यात् सकाञ्चनम्।
परोपहासकृत् काणः स गां दद्यात् समौक्तिकाम्॥२१॥

सभायां पक्षपाती च जायते पक्षघातवान्।
निष्कत्रयमितं हेम स दद्यात् सत्यवर्त्तिनाम्॥२२॥

इति शातातपीये कर्मविपाके प्रकीर्णप्रायश्चित्तं नाम
तृतीयोऽध्यायः।

<MISSING_FIG href="../books_images/U-IMG-1725270203w.png"/>

॥ चतुर्थोऽध्यायः॥

अथ स्तेयप्रायश्चित्तम्।

कुलघ्नो नरकस्यान्ते जायते विप्रहेमहृत्।
स तु स्वर्णशतं दद्यात् कृत्वा चान्द्रायणत्रयम्॥१॥

औदुम्बरी ताम्रचौरो नरकान्ते प्रजायते।
प्राजापत्यं स कृत्वात्र ताम्रं पलशतं दिशेत्॥२॥

कांस्यहारी च भवति पुण्डरीकसमन्वितः।
कांस्यं फलशतं दद्यादलङ्कृत्य द्विजातये॥३॥

रीतिहृत्पिङ्गलाक्षः स्यादुपोष्य हरिवासरम्।
रीतिं पलशतं दद्यादलङ्कृत्य द्विजं शुभम्॥४॥

मुक्ताहारी च पुरुषो जायते पिङ्गमूर्द्धजः।
मुक्ताफलशतं दद्यादुपोष्य स विधानतः॥ ५॥

त्रपुहारी च पुरुषो जायते नेत्ररोगवान्।
उपोष्य दिवसं सोऽपि दद्यात् पलशतन्त्रपु॥६॥

सीसहारी च पुरुषो जायते शीर्षरोगवान्।
उपोष्य दिवसं दद्याद्घृतधेनुंविधानत॥७॥

दुग्धहारी च पुरुषो जायते बहुमूत्रकः।
स दद्याद्दुग्धधेनुञ्चब्राह्मणाय यथाविधि॥८॥

दधिचौर्य्येण पुरुषो जायते मदवान् यतः।
दधिर्धेनुःप्रदातव्या तेन विप्राय शुद्धये॥९॥

मधुचौरस्तु पुरुषो जायते नेत्ररोगवान्।
स दद्यान्मधुधेनुश्च समुपोष्यद्विजातये॥१०॥

इक्षोर्विकारहारी च भवेदुदरगुल्मवान्।
गुडधेनुः प्रदातव्या तेन तद्दोषशान्तये॥११॥

लोहहारी च पुरुषः कर्पूराङ्गः प्रजायते।
लोहं पलशतं दद्यादुपोष्यस तु वासरम्॥१२॥

तैलचौरस्तु पुरुषो भवेत् कण्ड्वादिपीडितः।
उपोष्य स तु विप्राय दद्यात्तैलघटद्वयम्॥१३॥

आमान्नहरणाच्चैवदन्तहीनः प्रजायते।
स दद्यादश्विनौहेमनिष्कद्वयविनिर्मितौ॥१४॥

पक्वान्नहरणाच्चैवजिह्वारोगः प्रजायते।
गायत्र्याः स जपेल्लक्षंदशांशं जुहुया(मयैः)त्तिलैः॥१५॥

फलहारी च पुरुषी जायते व्रणिताङ्गुलिः।
नानाफलानामयुतं स दद्यात्सद्विजन्मने॥१६॥

ताम्बूलहरणेनैव श्वेतौष्ठः सम्प्रजायते।
सदक्षिणं प्रदद्याच्चविद्रुमस्य द्वयं वरम्॥१७॥

शाकाहारी च पुरुषो जायते नीललोचनः।
ब्राह्मणाय प्रदद्याद्वैमहानीलमणिद्वयम्॥१८॥

कन्दमूलस्य हरणाद्ध्रस्वपाणिः प्रजायते।
देवतायतनं कार्य्यमुद्यानं तेन शक्तित॥१९॥

सौगन्धिकस्य हरणाद्दुर्गन्धाङ्गः प्रजायते।
स लक्षमेकं पद्मानां जुहुयाज्जातवेदसि॥२०॥

दारु(क्षीर)हारी च पुरुषः स्विन्नपाणिः प्रजायते।
स दद्याद्विदुषे शुद्धौ काश्मीरजपलद्वयम्॥२१॥

विद्य पुस्तकहारी च किल मूकंप्रजायते।
न्यायेतिहासं दद्यात् स ब्राह्मणाय सदक्षिणान्॥२२॥

वनहारी भवेत् कुष्ठीसम्पदद्यात्प्रजापतिन।
हेमनिष्कमितञ्चैव वस्त्रयुग्मं द्विजातये॥२३॥

ऊर्गाहारी लोमशः स्यात् स दद्यात् कम्बलान्वितम्।
स्वर्णनिष्कमितं हेमवह्निंदद्याद्द्विजातये॥२४॥

पट्टसूत्रस्य हरणान्निर्लोमा जायते नरः।
तेन धेनुः प्रदातव्या विशुद्ध्यर्थं द्विजन्मे॥२५॥

औषधस्यापहरणे सूर्य्यावर्त्तःप्रजायते।
सूर्य्यायार्घःप्रदातव्योमासं देयञ्चकाश्चनम्॥२६॥

रक्तवस्त्रप्रवालादिहारी स्याद्वक्तवातवान्।
सवस्त्रांमहिषीदद्यान्मणिरागसमन्विताम्॥२७॥

विप्ररत्नापहारी चाप्यनपत्यः प्रजायते।
तेन कार्य्यंविशुद्ध्यर्थं महारुद्रजपादिकम्॥२८॥

मृतवत्सोदितः सर्वो विधिरत्र विधीयते।
दशांशहोमः कर्तव्यः पलाशेन यथाविधि॥२९॥

देवस्वहरणाच्चैव जायते विविधो ज्वरः।
ज्वरो महाज्वरश्चैव रौद्रो वैष्णव एव च॥३०॥

ज्वरे रुद्रं जपेत् कर्णे महारुद्रमहाज्वरे।
अतिरौद्रं जपेद्रौद्रे वैष्णवे तद्द्वयं जपेत्॥३१॥

नानाविधद्रव्यचोरो जायते ग्रहिणीयुतः।
तेनान्नोदकवस्त्राणि हेम देयश्च शक्तितः॥३२॥

इति शातातपीये कर्मविपाके स्तेयप्रायश्चित्तं नाम
चतुर्थोऽध्यायः।

<MISSING_FIG href="../books_images/U-IMG-1725274437q.png"/>

॥ पञ्चमोऽध्यायः॥

अथ अगम्यागमनप्रायश्चित्तम्।

मातृगामी भवेद्यस्तु लिङ्गं तस्य विनश्यति।
चाण्डालीगमने चैव हीनकोषःप्रजायते॥१॥

तस्य प्रतिक्रियां कर्त्तुं कुम्भमुत्तरतो न्यसेत्।
कृष्णवस्त्रसमाच्छन्नं कृणमाल्यविभूषितम्॥२॥

तस्योपरि न्यसेद्देवं कांस्यपात्रे धनेश्वरम्।
सुवर्णनिष्कषट्केन निर्मितं नरवाहनम्॥३॥

यजेत् पुरुषसूक्तेन धनदं विश्वरूपिणम्।
अथर्ववेदविद्विप्रो ह्याथर्वणंसमाचरेत्॥४॥

सुवर्णपुत्रकांकृत्वानिष्कविंशतिसङ्ख्यया।
दद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन्॥५॥

निधीनामधिपो देवः शङ्करस्य प्रियः सखा।
सौम्याशाधिपतिः श्रीमान् ममपापं व्यपोहतु॥६॥

इमं मन्त्रं समुच्चार्यआचार्याययथाविधि।
दद्याद्देवं हीनकोषेलिङ्गनाशे विशुद्धये॥७॥

गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते।
तेनापि निष्कृतिः कार्य्या शास्त्रदृष्टेन कर्मणा॥८॥

स्थापयेत् कुम्भमेकन्तु पश्चिमायां शुभे दिने।
नीलवस्त्रसमाच्छन्नं नीलमाल्यविभूषितम्॥९॥

तस्योपरि न्यसेद्देवं ताम्रपात्रे प्रचेतसम्।
सुवर्णनिष्कषट्केननिर्मितं यादसाम्पतिम्॥१०॥

यजेत् पुरुषसूक्तेनवरुणं विश्वरूपिणम्।
सामविद्ब्राह्मणस्तत्रसामवेदं समाचरेत्॥११॥

सुवर्णपुत्रिकांकृत्यानिष्कविंशतिसङ्ख्यया।
दद्याद्विप्राय सम्पूज्य निष्पापोऽमिति ब्रुवन्॥१२॥

यादसामधिपो देवोविश्वेषामपि पावनः।
संसाराब्धौ कर्णधारो वरुणः पावनोऽस्तु मे॥१३॥

इमं मन्त्रं समुच्चार्य्यआचार्य्याययथाविधि।
दद्याद्देवमलङ्कृत्य मूत्रकृच्छ्रप्रशान्तये॥१४॥

स्वसुतागमने चैव रक्तकुष्ठंप्रजायते।
भगिनीगमने चैव पीतकुष्ठं प्रजायते॥१५॥

तस्य प्रतिक्रियां कर्त्तुंपूर्वतः कलशंन्यसेत्।
पीतवस्त्रसमाच्छन्नं पीतमाल्यविभूषितम्॥१६॥

तस्योपरि न्यसेत् स्वर्णपात्रे देवं सुरेश्वरम्।
सुवर्णनिष्कषट्केन निर्मितं वस्त्रधारिणम्॥१७॥

यज्ञेत् पुरुषसूक्तेनवासवं विश्वरूपिणम्।
यजुर्वेदं तत्र सामं ऋग्वेदश्व समाचरेत्॥१८॥

सुवर्णपुत्रिकां कृत्वासुवर्णदशकेन तु।
दयाद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन्॥१९॥

देवानामधिपो देवो वज्री विष्णुनिकेतनः।
शतयज्ञः सहस्राक्षः पापं मम निकृन्ततु॥२०॥

इमं मन्त्रं समुचार्य्य आचार्य्याययथाविधि।
दद्याद्देवंसहस्राक्षं स्वपापस्थापनुत्तये॥२१॥

भातृभार्य्याभिगमनाद्गलत्कुष्ठंप्रजायते।
(स्ववधूगमने चैव कृष्णकुष्ठं प्रजायते)॥२२॥

तेन कार्य्यं विशुद्ध्यर्थं प्रागुक्तस्यार्द्धमेव हि।
दशांशहोमः सर्वत्र घृताक्तैःक्रियते तिलैः॥२३॥

यद्गम्याभिगमनाज्जायते ध्रुब(दद्रु)मण्डलम् \।
कृत्वालोहमयींधेनुं पलषष्टिप्रमाणतः॥२४॥

कार्पासभाण्डसंयुक्तां कांस्यदोहां सवत्सिकाम्।
दद्याद्विप्राय विधिवदिमं मन्त्रमुदीरयेत्॥२५॥

सुरभिर्यण्णयोमाता मम पापं व्यपोहतु।
तपस्विनी (मातुः स पत्नी) सङ्गमने जायते चाश्मरीगदः॥२६॥

स तु पापविशुद्ध्यर्थं प्रायश्चित्तं समाचरेत्॥२७॥

दद्याद्विप्राय विदुषे मधुश्चेतुं यथोदितम्।
विलद्रोणशतञ्चैवहिरण्येन समन्वितम्॥२८॥

पितृष्वस्रभिगमनाद्दक्षिणा(ना)शव्रणी भवेत्।
तेनापि निष्कृतिः कार्य्यांअजादानेन शक्तितः॥२९॥

मातुलान्यान्तु गमने पृष्ठकुब्जःप्रजायते।
कृष्णाजिनप्रदानेन प्रायश्चित्तं समाचरेत्॥३०॥

मातृष्वस्रभिगमने वामाङ्गेव्रणवान् भवेत्।
तेनापि निष्कृतिः कार्य्यासम्यग्दासीप्रदानतः॥३१॥

मृतभार्य्याभिगमने मृतभार्य्यःप्रजायते।
तत्पातकविशुद्ध्यर्थंद्विजमेकं विवाहयेत्॥३२॥

सगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरः।
तेनापि निष्कृतिः कार्य्या महिषीदानयत्नतः॥३३॥

तपस्विनीप्रसङ्गेन प्रमेही जायते नरः।
मासं रुद्रजप कार्य्यो दद्याच्छक्तया च काञ्चनम्॥३४॥

दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तदृक्।
स पातकविशुद्ध्यर्थंप्राजापत्यद्वयञ्चरेत्॥३५॥

स्वजातिजायागमने जायते हृदयव्रणी।
तत्पापस्य विशुद्ध्यर्थं प्राजापत्यद्वयञ्चरेत्॥३६॥

पशुयोनौ च गमने मूत्राघातः प्रजायते।
तिलपत्रद्वयञ्चैव दद्यादात्मविशुद्धये॥३७॥

अश्वयोनौ च गमनाद्गुदस्तम्भः प्रजायते।
सहस्रकमलस्नानं मासं कुर्य्यात् शिवस्य च॥३८॥

एते दोषानराणां स्युर्नरकान्ते न संशयः।
स्त्रीणामपि भवेन्त्येते तत्तत्पुरुषसङ्गमात्॥३९॥

इति शातातपीये कर्मविपाके अगम्यागमन प्रायश्चित्तं नाम
पञ्चमोऽध्यायः।

——————

॥ अथ षष्ठोऽध्यायः॥

अनुचितव्यवहारफलम्।

अश्वशूकरशृङ्ग्याद्रिदुमादिशकटेन च।
भृग्वग्निदारुशस्त्राश्मविषोद्बन्धनजैर्मृताः॥१॥

व्याघ्रादिगजभूपालचौरवैरिवृकाहताः।
काष्ठशल्यमृता ये च शौचसंस्कारवर्जिताः॥२॥

साकिन्यादिप्रद्देर्यस्ताविद्युत्सहताश्च ये॥
अस्पृश्या अपवित्राश्च पतिताः पुत्रवर्जिताः।
पञ्चर्विंशत्प्रकारैश्च नाप्नुवन्ति गतिं मृताः॥३॥

पित्राद्याः पिण्डभाजः स्युस्त्रयो लेपभुजस्तथा।
यवनान्दो मुखाः प्रोक्ता स्रयोष्यश्रुमुखास्त्रयः॥४॥

द्वादशैते पितृगणास्तर्पिताःसन्ततिप्रदाः।
गतिहीनाः सुतादीनां सन्ततिंनाशयन्ति ते॥५॥

दशव्याघ्रादिनिहता गर्भंनिघ्नन्त्यमी क्रमात्।
द्वादशास्त्रादिनिहता आकर्षन्तिच बालकम्॥६॥

विषादिनिहता घ्नन्ति दशसु द्वादशस्वपि।
वर्षैकबालकं कुर्य्यादनपत्योऽनपत्यताम्॥७॥

व्याघ्रेण हन्यते जन्तुः कुमारीगमनेन च।
विषदश्चैवसर्पेणगजेन नृपदुःखकृत्॥८॥

राज्ञा राजकुमारघ्नश्चौरेण पशुहिंसकः।
वैरिणा मित्रभेदी च वकवृत्तिर्वृकेण तु॥९॥

गुरुघातीव शय्यायां मत्सरीशौचवर्जितः।
द्रोहीसंस्काररहितः शुना निक्षेपहारकः॥१०॥

नरो विहन्यतेऽरण्येशूकरेण च पाशिकः।
कृमिभिः कृत्तवासाश्चकृमिणाच निकृन्तनः॥११॥

शृङ्गिणा शङ्करद्रोही शकटेन च सूचकः।
भृगुणा मेदिनीचौरो वह्निना यज्ञहानिकृत्॥१२॥

दवेन दक्षिणाचौरः शस्त्रेण श्रुतिनिन्दकः॥
अश्मना द्विजनिन्दाद्विषेण कुमतिप्रदः।
उद्बन्धनेन हिंस्रः स्यात् सेतुभेदीजलेन तु॥१३॥

द्रुमेण राजदन्तिहृदतीसारेण लौहहृत्।
शाकिन्याद्यैश्च म्रियतेस्वदर्पाकार्य्यकारकः॥१४॥

अनध्यायेष्वधीयानाम्रियते विद्युता तथा।
अपृश्यस्पर्शसङ्गी च वान्तमाश्रित्य शास्त्रहृत्।

पतितोऽपत्यविक्रेतानपत्यो द्विजवस्त्रहृत्॥१५॥

अथ तेषांक्रमेणैव प्रायश्चित्तं विधीयते।
कारयेन्निष्कमात्रन्तु पुरुषं प्रेतरूपिणम्॥१६॥

चतुर्भुजं दण्डहस्तं महिषासनसंस्थितम्।
पिष्ठैः कृष्णतिलैःकुर्य्यात्पिण्डंप्रस्थप्रमाणतः॥१७॥

मध्याज्यशर्करायुक्तं स्वर्णकुण्डलसंयुतम्।
अकालमूलं कलशंपञ्चकुण्डलसंयुतम्॥१८॥

कृष्णवस्त्रसमाच्छन्नंसर्वौषधिसमन्वितम्।
तस्योपरि न्यसेद्देवं पात्रं धान्यफलैर्युतम्॥१९॥

सतधान्यन्तु सफलं तत्र तत् सफलं न्यसेत्।
कुम्भोपरि च विन्यस्य पूजयेत् प्रेतरूपिणम्॥२०॥

कुर्य्यात् पुरुषसूक्तेनप्रत्यहं दुग्धतर्पणम्।
षडङ्गश्च जपेद्रुदं कलशे तत्र वेदवित्॥२१॥

यमसूक्तेन कुर्वीत यमपूजादिकं तथा।
गायत्र्याश्चैवकर्तव्योजपः स्वात्मविशुद्धये॥२२॥

ग्रहशान्तिकपूर्वञ्चदशांशं जुहुयात्तिलैः।
अज्ञानामगोत्राय प्रेताय सतिलोदकम्॥२३॥

प्रदद्यात् पितृतीर्थेन पिण्डंमन्त्रमुदीरयेत् \।
इमं विलमयं पिण्डं मधुसर्पिसमन्वितम्॥२४॥

ददामि तस्मै प्रेताय यः पीढांकुरुते मम।
सजलान् कृष्णकलसास्तिलपात्रसमन्वितान्।
द्वादश प्रेतमुद्दिश्य दद्यादेकञ्च विष्णवे॥२५॥

ततोऽभिषिञ्चेदाचार्यो दम्पती कलशोदकैः।
शुचिर्वरायुध(रक्ताम्बर)धरो मन्त्रौर्वरुणदैवतैः।
यजमानस्ततोदद्यादाचार्य्यायसदक्षिणाम्॥२६॥

ततो नारायणबलिः कर्तव्यः शास्त्रनिश्चयात्।
एषसाधारणविधिरगतीनामुदाहृतः॥२७॥

विशेषस्तु पुनर्ज्ञेयो व्याघ्रादिनिहतेष्यपि।
व्याघ्रेण निहते प्रेतेपरकन्यां विवाहयेत्॥२८॥

सर्पदंशे नागबलिर्देयः सर्वेषु काञ्चनम्।
चतुर्निष्कमितं हेमगजं दद्याद्गजैर्हते॥२९॥

राज्ञा विनिहते दद्यात् पुरुषन्तु हिरण्मयम्।
चौरेण निहते धेनुं वैरिणा निहते वपम्॥३०॥

वृषेण निहते दद्याद्यथाशक्ति च काञ्चनम्।
शय्यामृते प्रदातव्या शय्या तुलीसमन्विता॥३१॥

निष्कमात्रसुवर्णस्य विष्णुना समधिष्ठिता।
शौचहीने मृतं चैव द्विनिष्कस्वर्णजं हरिम्॥३२॥

संस्कारहीने चमृते कुमारञ्च विवाहयेत्।
शुना हते च निक्षेप स्थापयेन्निजशक्तितः॥३३॥

शूकरेणहते दद्यान्महिषंदक्षिणान्वितम्।
कृमिभिश्चमृतेदद्याद्गोधूमान्नंद्विजातये॥३४॥

शृङ्गिणा च हते दद्याद्वपर्भ वस्त्रसंयुतम्।
शकटेन मृते दद्यादश्वंसोपस्करान्वितम्॥३५॥

भृगुपाते मृते चैव प्रदद्याद्धान्यपर्वतम्।
अग्निना निहते दद्यादुपानहं स्वशक्तितः॥३६॥

दवेन निहते चैव कर्त्तव्या सदने सभा।
शस्त्रेण निहते दद्यान्महिषींदक्षिणान्विताम्॥३७॥

अश्मना निहते दद्यात् सवत्सां गां पयस्विनीम्।
विषेण च मृतं दद्यान्मेदिनीं क्षेत्रसंयुताम॥३८॥

उद्बन्धनमृतेचापि प्रदद्याङ्गां पयस्विनीम्
मृतं जलेन वरुणं हैमं दद्यात्त्रिनिष्ककम्॥३९॥

वृक्षं वृक्षहते दद्यात् सौवर्णं स्वर्णसंयुतम्।
अतीसारमृते लक्षंं सावित्र्याः संयतोजयेत्॥४०॥

साकिन्यादिमृतेचैवं जपेद्रुदंयथोचितम्।
विद्युत्पातेन निहते विद्यादानं समाचरेत्॥४१॥

अस्पर्शं च मृतं कार्य्यं वेदपारायणं तथा।
सच्छास्त्रपुस्तकं दद्याद्वान्तमाश्रित्य संस्थिते॥४२॥

पातित्वेन मृते कुर्य्यात्प्राजापत्यानि षोड़श।
मृते चापत्यरहितेकृच्छ्राणांनवतिं चरेत्॥४३॥

निष्कत्रयमितस्वर्णं दद्यादश्वं हयाहते।
कपिना निहतेदद्यात् कपिं कनकनिर्मितम्॥४४॥

विसूचिकामृते त्वादु भोजयेच्चशतंद्विजान्।
विटधेनुः प्रदातव्या कण्ठेऽन्नफसलेमृते॥४५॥

केशरोगमृते चापि अष्टौ कृच्छ्रान् समाचरेत्।
एवं कृते विधानेन विदध्यादौर्ध्वदैहिकम्।
ततः प्रेतत्त्वनिर्मुक्ताः पितरस्तर्पितास्तथा॥४६॥

दद्युःपुत्रांश्चपौत्रांश्चआयुरारोग्यसम्पदः।
इति शातातपप्रोक्तो विपाकः कर्मणामयम्।
शिष्याय शरभङ्गायविनयात् परिपृच्छ्यते॥४७॥

इति शातातपीयेकर्मविपाके अगतिप्रायश्चित्तं नाम
षष्ठोऽध्यायः॥

समाप्ता चेयं शातातपस्मृतिः।

<MISSING_FIG href="../books_images/U-IMG-1725305338do.png"/>

समाप्तश्चायंधर्मशास्त्रस्य प्रथमो भागः।
ॐ तत्सद्ब्रह्मार्पणमस्तु।