अथादौ—व्रह्मचर्यवर्णनम्।
॥श्रीगणेशाय नमः॥
सम्बर्तमेकमासीनमात्मर्विद्यापरायम्।
ऋषयस्तु समागम्य पप्रच्छुधर्मकाङ्क्षिणः॥१॥
भगवन्! श्रोतुमिच्छामः श्रेयस्कर्म द्विजोत्तम! ।
यथापद्धर्ममाचक्ष्व शुभाशुभविवेचनम्॥२॥
वामदेवादयः सर्वे तमपृच्छन्, महौजसम्।
दानब्रवीन्मुनीन् सर्वान् प्रीतात्मा श्रूयतामिति॥३॥
स्वभावाद् यत्र विचरेत् कृष्णसारः सदा मृगः।
धर्म्यदेशः स विज्ञेयो द्विजानां धर्मसाधनम्॥४
उपनीतः सदा विप्रो गुरोस्तु हितमाचरेत्।
स्रग्गन्धमधुमांसानि ब्रह्मचारी विवर्जयेत्॥५॥
सन्ध्यां प्रातः सनक्षत्रामुपासीत यथाविधि।
साहित्यां पश्चिमां सन्ध्यामर्द्धास्तमितभास्करे॥६॥
आमणिबन्धनाद्धस्तौ पादावद्भिर्विशोधयेत्।
अशब्दाभिरनुष्णाभिः स्ववर्णरसगन्धिभिः॥१८॥
हृद्गताभिरफेनाभिस्त्रिश्चतुर्वाद्भिराचमेत्।
परिमृज्य द्विरास्यन्तु द्वादशाङ्गानि च स्पृशेत्॥१९॥
स्नात्वा पीत्वातथा भुक्त्वास्पृष्ट्वाचैव द्विजोत्तमाः।
अनेन विधिना विप्र आचान्तः शुचितामियात्॥२०॥
शूद्रः शुद्ध्यति हस्तेन वैश्यो दन्तेषु वारिभिः।
कण्ठागतैः क्षत्त्रियस्तु आचान्तः शुचिता मियात्॥२१॥
आसनारूढपादश्च कृतावशक्थिकस्तथा।
आरूढपादको वापि न शुद्ध्यति कदाचन॥२२॥
उपासीत न चेत्सन्ध्यामग्निकार्य्यंनवा कृतम्।
गायत्र्यष्टसहस्रन्तु जपेत् स्नात्वा समाहितः॥२३॥
सूतकान्नं नवश्राद्धं मासिकान्नं तथैव च।
ब्रह्मचारी तु योऽश्नीयात्रिरात्रेणैव शुध्यति॥२४॥
ब्रह्मचारी तु यो गच्छेत् स्त्रियं कामप्रपीडितः।
प्राजापत्यं चरेत् कृच्छ्रमथवैकंसुमन्त्रितः॥२५॥
ब्रह्मचारी तु योऽश्नीयान्मधुमांसं कथञ्चन।
प्राजापत्यन्तु कृत्वासौमौञ्जीहोमेन शुध्यति॥२६॥
निर्वपेच्च पुरोडाशं ब्रह्मचारी च पर्वणि।
मन्त्रैः शाकलहोमान्तैरग्नावाज्यश्चहोमयेत्॥२५॥
ब्रह्मचारी तु यः स्कन्देत् कामतः शुक्रमात्मनः।
अवकीर्णी व्रतं कुर्य्यात् स्नात्या शुद्ध्येदकामतः॥२८॥
प्रेतस्य तु जलं देयं स्नात्वा च गोत्रजैर्वहि।
प्रथमेऽह्नितृतीये च सप्तमे नवमे तथा॥३९॥
चतुर्थे सञ्चयं कुर्य्यात् सर्वैस्तु गोत्रजैः सह।
ततः सञ्चयनादूर्द्ध्वमङ्गस्पर्शो विधीयते॥४०॥
चतुर्थेऽहनि विप्रस्य षष्ठे वै क्षत्त्रियस्य च।
अष्टमे दशमे चैव स्पर्शः स्याद्वैश्यशूद्रयोः॥४१॥
जातस्यापि विधिर्दृष्ट एषएव मनीषिभिः।
दशरात्रेण शुध्यन्ति वैश्यदेवविवर्ज्जिताः॥४२॥
पुत्रे जाते पितुः स्नानं सचैलन्तु विधीयते।
माता शुध्येद्दशाहेन स्नातस्य स्पर्शनं पितुः॥४३॥
होमस्तत्र तु कर्त्तव्यः शुष्कान्नेन फलेन च।
पञ्चयज्ञविधानन्तु न कार्य्यं मृत्युजन्मनोः॥४४॥
दशाहात्तु परं सम्यग् विप्रोऽधीयीत धर्मवित्।
दानञ्च विधिना देयमशुभान्तकरं शुभम्॥४५॥
यद्यदिष्टतमं लोके यच्चापि दयितं गृहे।
तत्तदगुणवते देयं तदेवाक्षयमिच्छता॥४६॥
नानाविधानि द्रव्याणि धान्याति सुबहूनि च।
समुद्रजानि रत्नानि नरो विगतकल्मषः।
दत्त्वा विप्राय महते प्राप्नोति महतीं श्रियम्॥४७॥
गन्धमाभरणं माल्यं यः प्रयच्छति धर्मवित्।
स सुगन्धः सदा हृष्टोयत्र तत्रोपजायते॥४८॥
सर्वपापविशुद्धात्मा सर्वकामसमन्वितः।
वर्षाणि वसति स्वर्गे रोमसंख्याप्रमाणतः॥७१॥
धेनुश्चयोद्विजे दद्यादलङ्कृत्य पयस्विनीम्।
कांस्यवस्त्रादिभिर्युक्तां स्वर्गलोके महीयते॥७२॥
भूमिं शस्यवतीं श्रेष्ठां ब्राह्मणे वेदपारगे।
गां दत्वार्द्धं प्रसूताञ्च स्वर्गलोके महीयते॥७३॥
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्चगायः।
लोकास्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाञ्च महीञ्चदद्यात्॥७४॥
यावन्ति शस्यमूल्यानि आरोप्याणि च सर्वशः।
नरस्तावन्ति वर्षाणि स्वर्गलोके महीयते॥७५॥
सर्वेषामेव दानानामेकजन्मानुगं फलम्।
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम्॥७६॥
यो ददाति स्वर्णरौप्यैर्हेमशृङ्गीमरोगिणीम्।
सवत्सां वाससा बीतांसुशीलाङ्गां पयस्विनीम्॥७७
तस्यां यावन्ति रोमाणि सवत्सायां दिवं गतः।
तावद्वर्षसहस्राणि स नरोब्रह्मणोऽन्तिकैः॥७८॥
यो ददाति वलीवर्द्धमुक्तेन विधिना शुभम्।
अव्यङ्गं गोप्रदानेन फलाद्दशगुणं फलम्॥७९॥
जलदस्तृप्तिमतुलां वितृष्य सर्ववस्तुषु।
अन्नदः सुखमाप्नोति सुतृप्तः सर्ववस्तुषु॥८०॥
सर्वेषामेव दानानामप्रदानं परं स्मृतम्।
सर्वेषामेव जन्तूनां चतुस्तज्जीवितं फलम्॥८१॥
यस्मादन्नात् प्रज्ञाः सर्व्वाः कल्पे कल्पेऽसृजत् प्रभुः।
तस्मादन्नात् परं दानं न भूतो न भविष्यति॥८२॥
अन्नदानातू परं दानं विद्यते न हि किञ्चन।
अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः॥८३॥
मृत्तिकां गोशकृद्दर्भानुपवीतं यथोत्तरम्।
दत्त्वा गुणाग्यूविप्राय कुले महति जायते॥८४॥
मुखवासञ्चयो दद्याद्दन्तधावनमेव च।
शुचिगन्धसमायुक्तो वाक्पटुः स सदा भवेत्॥८५॥
पादशौचन्तु योदद्यात्तथा च गुदलिङ्गयोः।
यः प्रयच्छति विप्राय शुद्धबुद्धिः सदा भवेत्॥८६॥
औषधं पथ्यमाहारं स्नेहाभ्यङ्गंप्रतिश्रयम्।
यः प्रयच्छति रोगिभ्यः सर्वव्याधि विवर्ज्जितः॥८७॥
गुड़भिक्षुरसञ्चैव लवणंव्यञ्जनानि च।
सुरभीणि च पानानि दत्त्वात्यन्तसुखी भवेत्॥८८॥
दानेश्च विविधैः सम्यक् पुण्यमेददुदाहृतम्।
विद्यादानेन पुण्येन ब्रह्मलोके महीयते॥८९॥
अन्योन्यान्नप्रदा विप्रा अन्योन्यप्रतिपूजकाः।
अन्योन्यं प्रतिगृह्णन्ति तारयन्ति तरन्ति च॥९०॥
दानान्येतानि देयानि ह्यन्यानि च विशेषतः।
दीनान्धकृपणादिभ्यः श्रेयस्कामेन धीमता॥९१॥
ब्रह्मचारियतिभ्यश्च वपनं यस्तु कारयेत्।
नखकर्मादिकञ्चैव चक्षुष्मान् जायते नरः॥९२॥
देवागारे द्विजातीनां दीपं दद्याच्चतुष्पथे।
मेधाविज्ञानसम्पन्नश्चक्षुष्मान् जायते नरः॥९३॥
नित्ये नैमित्तिके काम्ये तिलान् दत्वा तु शक्तितः।
प्रजावान् पशुमांश्चैवधनवान् जायते नरः॥९४॥
यो दशत्यर्थितो विप्रे यत्तत् संप्रतिपादिते।
नृणकाष्ठादिकञ्चैव गोप्रदानसमं भवेत्॥९५॥
कृत्वा गार्ह्याणि कर्माणि स्वभर्य्यापोषणे नरः।
ऋतुकालाभिगामी स्यात् प्राप्नोति परमां गतिम्॥९६॥
उपित्वैधंगृहे विप्रो द्वितीयादाश्रमात् परम्।
वलीपलिवसंयुक्त्तस्तृतीयन्तु समाश्रयेत्॥९७॥
गच्छेदेवं वनं प्राज्ञःस्वभार्य्यां सहचारिणीम्।
गृहीत्वाचाग्निद्दोषञ्चहोमं तत्र न हापयेत्॥९८॥
कुप्याच्चैव पुरोडाशं वन्यैर्मध्यैर्यथाविधि।
भिक्षाञ्च भिक्षवेदद्याच्छाकमूलफलानि च॥९९॥
कुर्य्यादध्ययनं नित्यमग्निहोत्र परायणः।
इष्टिं पार्व्वायणीयाञ्चप्रकुर्य्यात् प्रतिपर्वसु॥१००॥
उषित्वैवं वने सम्यग्विधिज्ञःसर्ववस्तुषु।
चतुर्थमाश्रमं गच्छेद्धुतहोमो जितेन्द्रियः॥१०१॥
अग्निमात्मनि संस्थाप्य द्विजः प्रव्रजिती भवेत्।
वेदाभ्यासरतो नित्यमात्मविथापरायणः॥१०२॥
अष्टौ भिक्षाः समादाय स मुनिः सप्त पञ्चवा।
अद्भिः प्रक्षाल्यतत्सर्व्वंभुञ्जीतः च समाहितः॥१०३॥
अरण्ये निर्ज्जने विप्रः पुनरासीत भुक्तवान्।
एकाकी चिन्तयेन्नित्यं मनोवाक्कायसंयतः॥१०४॥
मृत्युञ्चनाभिनन्देत जीवितं वा कथञ्चन।
कालमेव प्रतीक्षेत यावद्वायुः समाप्यते॥१०५॥
संसेव्य चाश्रमान् विप्रो जितक्रोधोजितेन्द्रियः।
ब्रह्मलोकमवाप्नोति वेदशास्त्रार्थविद्द्विजः॥१०६॥
आश्रमेषु च सर्वेषु ह्युक्तः प्रासङ्गिको विधिः।
अथाभिवक्ष्ये पापानां प्रायश्चित्तं यथाविधि॥१०७॥
ब्रह्मघ्नश्च सुरापश्च स्तेयीच गुरुतल्पगः।
महापातकिनस्त्वेते तत्संयोगी च पञ्चमः॥१०८॥
ब्राह्मघ्नस्तु वनं गच्छेत् कल्कवासाजटी ध्वजी।
वन्यान्येव फलान्यश्नन् सर्व्वं कामविवर्जितः॥१०९॥
भिक्षार्थीच चरेद्ग्रामंवन्यैर्यदि न जीवति।
चातुर्वण्यं चरेद्भैक्षंखट्वाङ्गी संयतः पुमान्॥११०॥
भैक्षच्चैव समादाय वनं गच्छेत्ततः पुनः।
वनवासी सपापश्च सदांकालमतन्द्रितः॥१११॥
ख्यापयन्तेव तत्पापं ब्रह्मघ्नः पापकृन्नरः।
अनेन तु विधानेन द्वादशाब्दव्रतञ्चरेत्॥११२॥
संनियम्येन्द्रियग्रामं सर्वभूतहिते रतः।
ब्रह्महत्यापनोदाय ततो मुच्येत किल्विपात्॥११३॥
अतः परं सुरापस्य प्रवक्ष्यामि विनिष्कृतिम्।
श्रोतुमिच्छथ भो विप्रा! वेदशास्त्रानुरूपिकाम्॥११४॥
गौड़ी पैष्ठी तथा साध्वीविज्ञेया त्रिविधा सुरा।
यथैवैका तथा सर्वा न पातव्या द्विजैः सदा॥११५॥
सुरापस्तुसुरां तप्तां पिवेत्तत्पापमोक्षकः।
गोमूत्रमग्निवर्णञ्च गोमयं या तथा विधम्॥११६॥
धूतञ्चैव सुतातञ्चक्षीरं वापि तथाविधम्।
वत्सरं वाकणानश्नत्सर्वकामविवर्जितः॥११७॥
चान्द्रायणानि या त्रीणि सुरापोव्रतमाचरेत्।
मुच्यते तेन पापेन प्रायश्चित्तेकृते सति॥१२८॥
एवं शुद्धिः सुरापत्यभवेदिति न संशयः।
मद्यभाण्डौदकं पीत्वा पुनः संस्कारमर्हति॥११९॥
स्तेयं कृत्वा सुवर्णस्य राज्ञे शंसेत मानवः।
ततो मुपलमादाय स्तेनं हन्यात्ततो नृपः॥१२०॥
यदि जीवति स स्तेनस्तेतरतेयान् प्रमुच्यते।
अरण्ये चीरवासावा चरेद्ब्रह्महणो व्रतम्॥१२१॥
समालिङ्गेत्स्त्रियं वापि दीप्तां कृत्यायसा कृताम्।
एवं शुद्धिः कृता स्तेये साम्वर्तवचनं यथा॥१२२॥
गुरुतल्पे शवातस्तु तल्पे स्वप्यदयोमये।
चान्द्रायणानि या कुर्य्याच्चत्वारि त्रीणि वा द्विजः।
ततो विमुच्यते पापात् प्रायश्चिते कृतेसति॥१२३॥
एभिः सम्पर्कमायाति यः कश्चित् पापमोहितः।
षण्मासादधिकं वापि पूर्वोक्ततमाचरेत्॥१२४॥
महापातकिसंयोगे ब्रह्महत्यादिभिर्नरः।
तत्पापस्य विशुद्ध्यर्थं तस्य तस्यव्रतञ्चरेत्॥१२५॥
क्षत्त्रियस्य बधं कृत्वा त्रिभिः कृच्छ्रैर्विशुध्यति।
कुर्य्याच्चैवानुरूपेण त्रीणि कृच्छ्राणि संयतः॥१२६॥
वैश्यहत्यान्तु संप्राप्तः कथञ्चित् काममोहितः।
कृच्छ्रातिकृच्छ्रं कुर्व्वीत स नरो वैश्यघातकः॥१२७॥
कुर्य्याच्छूद्रवधं प्राप्तस्तप्तकृच्छ्रंयथाविधि॥१२८॥
गोध्नस्यातः प्रवक्ष्यामि निष्कृतिं तत्त्वतः पुमान्।
गोध्नःकुर्व्वीतसंस्थानं गोष्ठे गोरूपसंस्थिते॥१२९॥
तत्रैव क्षितिशायीस्यान्मासार्द्धं संयतेन्द्रियः।
शक्तुयावकपिण्याकपयो दधिसकृन्नर॥१३०॥
एतानि क्रमतोऽश्नीयाद्द्विजस्तु पापमोक्षकः।
शुद्ध्यते सार्द्धमासेन नखलोमविवर्ज्जितः॥१३१॥
स्नानं त्रिपवणंचास्य गवामनुगमस्तथा।
एतत् समाहितः कुर्य्यान्नरोविगतमत्सरः॥१३२॥
सावित्रीञ्च जपेन्नित्यं पवित्राणि च शक्तितः।
ततश्चीर्णव्रतः कुर्य्याद्विप्राणां भोजनं परम्॥१३३॥
भुक्तवत्सु च विप्रेषु गाञ्चदद्यात् सदक्षिणाम्॥१३४॥
व्यापादितेषु बहुषु बन्धने रोधनेऽपि वा।
द्विगुणं गोव्रतं तस्य प्रायश्चित्तं विशुद्धये॥१३५॥
एका चेद्बहुभिः कैश्चिद्दैवाद्व्यापादिता क्वचित्।
पादं पादन्तु हत्यायाश्चरेयुस्ते पृथक् पृथक्॥१३६॥
यन्त्रणे गोचिकित्सार्थं मूढगर्भविसोचने।
यदि तत्र विपत्तिः स्यान्न स पापेन लिप्यते॥१३७॥
निशाबन्धनिरूप्येषु सर्पव्याघ्रहतेयुः च।
अग्निविघ्ननिपातेन प्रायश्चित्तं न विद्यते॥१३८
प्रायश्चित्तस्य पादन्तु रोधेषु व्रतमांचरेत्।
द्वौ पादौ बन्धने चैव पादोनं कुट्टने तथा॥१३९॥
पाषाणैर्लगुडैर्दण्डैस्तथा शस्त्रादिभिर्नरः।
निपातने चरेत् सर्वं प्रायश्चित्तं विशुद्धये॥१४०॥
गजञ्चतुरगं हत्वा महिषोष्ट्रकपिन्तथा।
एषु कुर्व्वीत सर्वेषु सतरात्रमभोजनम्॥१४१॥
व्याघ्रंश्वानं तथा सिंहमृक्षं शूकरमेव च।
एतान् हत्वा द्विजः कृच्छ्रं ब्राह्मणानाञ्च भोजनम्॥१४२
सर्वासामेव जातीनां मृगाणां वनचारिणाम्।
त्रिरात्रोपोषितस्तिष्टेज्जपन्वै जातवेदसम्॥१४३॥
हंसं काकं बलाकञ्चपाराव्रतमथापि वा।
सारसञ्चासभासञ्च हत्वा त्रिदिवसं क्षिपेत्॥१४४॥
चक्रवाकं तथा क्रौञ्चं सारिकाशुकतित्तिरिम्।
श्येनगृध्राबुलूकञ्च कपोतफमथापि वा॥१४५॥
टिट्टिभं जालपादञ्च कोकिलं कुक्कुटं तथा।
एवं पक्षिषु सर्वेषु दिनमेकमभोजनम्॥१४६॥
मणडुकञ्चैव हत्वाच सर्पमार्ज्जारमूषिकम्।
त्रिरात्रोपोषितस्तिष्टेत् कुर्य्याद् ग्राहणभोजनम्॥१४७॥
अनस्थीन् ब्राह्मणो हत्वाप्राणायामेन शुध्यति।
अस्थिमतो वधे विप्रः किञ्चिद्दद्याद्विचक्षणः॥१४८॥
चाण्डालीं यो द्विजो गच्छेत् कथञ्चित् काममोहितः।
त्रिभिः कृच्छ्रैर्विशुद्ध्येत् प्राजापत्यानुपूर्वकैः॥१४९॥
पुक्कसीगमनं कृत्वाकामतोऽकामतोऽपि वा।
कृच्छ्रं चान्द्रायणं तस्य पावनं परमं स्मृतम्॥१५०॥
नटीं शैलूपिकीञ्चैव रञ्जकीं वेणुजीविनीम्।
गत्वा चान्द्रायणं कुर्य्यात्तथा चर्मोपजीविनीम्॥१५१॥
क्षत्रियामथ वैश्यां वा गच्छेद्यः काममोहितः।
तस्य सान्तपनं कृच्छ्रंभवेत् पापापनोदकम्॥१५२॥
शूद्रींतु ब्राह्मणोगत्वा मासं मासार्द्धमेव वा।
गोमूत्रयावकाहारोमासार्द्धेन विशुध्यति॥१५३॥
विप्रस्तु ब्राह्मणींगत्वा प्राजापत्यं समाचरेत्।
क्षत्त्रियां क्षत्त्रियोगत्वा तदेव व्रतमाचरेत्॥१५४॥
नरोगोगमनं कृत्वा कुर्य्याच्चान्द्रायणं व्रतम्॥१५५॥
गुरोर्दुहितरं गत्वा स्वसारं पितुरेव च।
तस्या दुहितरञ्चैव चरेच्चान्द्रायणं व्रतम्॥१५६॥
मातुलानीं सनाभिञ्चमातुलस्यात्मजां स्नुषाम्।
एता गत्वा स्त्रियो मोहात् पराकेण विशुध्यति॥१५७॥
पितृव्यदारगमने भ्रातृभार्य्यागमे तथा।
गुरुतल्पव्रतं कुर्य्यात्तस्यान्या निष्कृतिर्न च॥१५८॥
पितृदाराः समारुह्य मातृव्रजं नराधमः।
भगिनीं मातुलसुतांस्वसारं चान्यमातृजाम्।
एतास्तिस्त्रःस्त्रियो गत्वा तन्तकृच्छ्रं समाचरेत्॥१५९॥
मातरं योऽधिगच्छेच्चसुतां वा पुरुषाधमः।
भगिनीञ्च निजां गत्वानिष्कृतिनींविधीयते॥१६०॥
कुमारीगमने चैव व्रतमेतत् समादिशेत्।
पशुवैश्याभिगमनेप्राजापत्यं विधीयते॥१६१॥
सखिभार्य्यांकुमारीश्च श्वश्रूं या श्यालिकांतथा।
नियमस्थां व्रतस्थाञ्च योऽभिगच्छेत् स्त्रियं द्विजः।
स कुर्य्यात् प्राकृतं कृच्छ्रं धेनुं दद्यात् पयस्विनीम्॥१६२॥
रजस्वलाञ्च योगच्छेद्गर्भिणी पतितां तथा।
तस्य पापविशुद्ध्यर्थमतिकृच्छ्रं विधीयते॥१६३॥
वेश्याश्चब्राह्मणो गत्वाकृच्छ्रमेकं समाचरेत्।
एवं शुद्धिः समाख्याता सम्वर्त्तस्य वचो यथा॥१६४॥
ब्राह्मणो ब्राह्मणी गत्वाकृच्छ्रेणैकेणशुध्यति॥१६५॥
कथञ्चिद्ब्राह्मणोगत्वाक्षत्त्रियोवैश्य एव च।
गोमूत्रयावकाहारोमारोनैकेन शुध्यति॥१६६॥
ब्राह्मणो शूद्रसम्पर्के कथञ्चित् समुपागते।
कृच्छ्रं चान्द्रायणं कुर्य्यात् पावनं परमं स्मृतम्॥१६७॥
चाण्डालं पुष्पाध्वैय श्वपाकं पतितं तथा।
एतान् श्रेष्ठस्त्रियो गत्वा कुर्य्याच्चान्द्रायणव्रतम्॥१६८॥
अतःपरञ्चदुष्टानां निष्कृतिं श्रोतुमर्हथ।
सन्न्यस्य दुर्म्मतिः कश्चिदपत्यार्थं स्त्रियं व्रजेत्।
स कुर्य्यात् कृच्छ्रमश्रान्तः षण्मासन्तदनन्तरम्॥१६९॥
विपाग्निश्यामशवलास्तेषामेवं विनिर्द्दिशेत्।
स्त्रीणाञ्च तथाचरणं गर्ह्याभिगमनेषु च।
पतनेषु तथैतेषु प्रायश्चित्तविधिः स्मृतः॥१७०॥
नृृणां विप्रतिपत्तौ च पावनः प्रेतराडिह॥१७१॥
गोभिर्विप्रहते चैव तथाचैवात्मघातिनि।
नाश्रुप्रपातनं कार्य्यं सद्भिः श्रेयोऽनुकाङ्क्षिभिः॥१७२॥
एषामन्यतमं प्रेतं यो वहेत्तदहेतवे।
तथोदकक्रियां कृत्वा चरेच्चान्द्रायणव्रतम्॥१७३॥
तच्छवं केवलं स्पृष्ट्वा वस्त्रं वा केवलं यदि।
पूर्वः कृच्छ्रापहारी स्यादेकाहक्षपणं तथा॥१७४॥
महापातकिनाञ्चैव तथा चैषात्मघातिनाम्।
उदकं पिण्डदानञ्चश्राद्धं चैव तु यत्कृतम्।
नोपतिष्ठति तत्सर्वं राक्षसैर्विप्रलुप्यते॥१७५॥
चाण्डालैस्तुहता ये च जलदंष्ट्रिसरीसृपैः।
श्राद्धमेषां न कर्त्तव्यं ब्रह्मदण्डहताश्च ये॥१७६॥
कृत्वा मूत्रं पूरीपं वा भुक्तोच्छिष्टस्तथा द्विजः।
श्वादि स्पृष्टो जपेद्देव्याः सहस्रं स्नानपूर्वकम्॥१७७॥
चाण्डालं पतितं स्पृष्ट्वाशवमन्त्यजमेव च।
उदक्यां सूतिकां नारीं सवासाः स्नानमाचरेत्॥१७८॥
अस्पृश्यं संस्पृशेद्यस्तु स्रानं तेन विधीयते।
ऊदूर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा॥१७९॥
चाण्डालाद्यैस्तु संस्पृष्ट उच्छिष्टश्च द्विजोत्तमः।
गोमूत्रायावकाहारः पड्रात्रेण विशुध्यति॥१८०॥
शुना पुष्पवती स्पृष्टा पुष्पवत्यान्यया तथा।
शेषान्यहन्युपवसेत् स्नाता शुध्येद्धृताशनात्॥१८१॥
चाण्डालभाण्डसंस्पृष्टंपीत्वाकूपगतं जलम्।
गोमूत्रयावकाहारस्त्रिरात्रेण विशुध्यति॥१८२॥
अन्त्यजैःस्वीकृते तीर्थे तडागेषु नदीषु च।
शुध्यते पञ्चगव्येन पीत्वा तोयमकामतः॥१८३॥
सुराघटप्रपातोयं पीत्वाकाशजलं तथा।
अहोरात्रोषितो भूत्वा पञ्चगव्यं पिवेद्द्विजः॥१८४॥
कूपे विण्मूत्रसंस्पृष्टे प्राश्य चापोः द्विजातयः।
त्रिरात्रेणैव शुध्यन्ति कुम्भे शान्तपनं स्मृतम्॥१८५॥
वापीकूपतडागानां दूषितानां विशोधनम्।
अपां घटशवोद्धारःपञ्चगव्यञ्च निक्षिपेत्॥१८६॥
अविकैकशफोष्ट्रीणां क्षीरं प्राप्य द्विजोत्तमः।
तस्य शुद्धिविधानाय विरात्रं यावकं पिवेत्॥१८७॥
स्त्रीक्षीरमाक्षिकं पीत्वा सन्धिन्याञ्चैव गोः पयः।
तस्य शुद्धिस्त्रिरात्रेण पिड्भक्ष्याणाञ्च भक्षणे॥१८८॥
विण्मूत्रभक्षणे चैव प्राजापत्यं समाचरेत्।
श्वकाफोच्छिष्टगोच्छिष्टभक्षणे तु त्र्यहं द्विजः॥१८९॥
विडालमूषकोच्छिष्टे पञ्चगव्यं पिवेद्द्विजः।
शूद्रोच्छिष्टं तथा भुक्त्वात्रिरात्रेणेव शुध्यति॥१९०॥
पलाण्डुलशुनं जग्ध्वा तथैव ग्रामकुक्कुटम्।
छत्राकं विड्वराहञ्चचरेच्चान्द्रायणं द्विजः॥१९१॥
मानवःश्वखरोष्ट्राणां कपेर्गोमायुकङ्कयोः।
प्राश्य मूत्रं पुरीषं वा चरेच्चान्द्रायणव्रतम्॥१९२॥
अन्नं पर्य्युषितं भुक्त्वाकेशकीटैरुपद्रुतम्।
पतितैःप्रेक्षितं वापि पञ्चगव्यं पिवेद्द्विजः॥१९३॥
अन्त्यजाभाजने भुक्त्वाह्यदक्याभाजनेऽपि वा।
गोमूत्रयावकाहारोमासार्द्धेन विशुध्यति॥१९४॥
गोमांसं मानुषञ्चैव शुनोहस्तात् समाहितम्।
अभक्ष्यमेतत् सर्वन्तु भुक्त्वाचान्द्रायणं चरेत्॥१९५॥
चाण्डालस्य करे विप्रः श्वपाके पुक्वशेऽपि वा।
गोमूत्रयायकाहारोमासार्द्धेन विशुध्यति॥१९६॥
पतितेन सुसम्पर्के मासं मासार्द्धमेव वा।
गोमूत्रयायकाहारोमासार्द्धेन विशुध्यति॥१९७॥
यत्र यत्र च सङ्कीर्णमात्मानं मन्यते द्विजः।
तत्र कार्य्यस्तिलैर्होमो गायत्र्यावर्त्तनं तथा॥१९८॥
एष एवमया प्रोक्तः प्रायश्चित्तविधिः शुभः।
अनादिष्ठेषु पापेषु प्रायश्चित्तं तथोच्यते॥१९९॥
दानैर्होमैर्जपैर्नित्यं प्राणायामैर्द्विजोत्तमः।
पातकेभ्यः प्रमुच्येत वेदाभ्यासान्न संशयः॥२००॥
सुवर्णदानं गोदानं भूमिदानं तथैव च।
नाशयन्त्याशु पापानि ह्यन्यजन्मकृतान्यपि॥२०१॥
तिलधेनुञ्चयो दद्यात् संयताय द्विजन्मने।
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः॥२०२॥
माघमासे तु संप्राप्ते पौर्णमास्यामुपोषितः।
ब्राह्मणेभ्यस्तिलान् दत्त्वा सर्वपापैः प्रमुच्यते॥२०३॥
उपवासी नरो भूत्वा पौर्णमास्या च कार्त्तिके।
हिरण्यं वस्त्रमन्नं वा दत्वा मुच्येत दुष्कृतैः॥२०४॥
अमावास्या द्वादशी न संक्रान्तिश्च विशेषतः।
एताः प्रशस्तास्तिययोभानुवारस्तथैव च॥२०५॥
अत्र स्नानं जपो होमो ब्राह्मणानाञ्च भोजनम्।
उपवासस्तथा दानमेकैकं पावयेन्नरम्॥२०६॥
स्नातः शुचिर्धौतवासाः शुद्धात्मा विजित्तेन्द्रियः।
सात्विकं भावमाश्रित्य दानं दद्याद्विचक्षणः॥२०७॥
सतव्याहृतिभिर्होमो द्विजैःकार्य्योह्रितात्मभिः।
उपपातकसिद्ध्यर्थं सहस्रपरिसंख्यया॥२०८॥
महापातकसंयुक्तो लक्षहोमं सदा द्विजः।
मुच्यते सर्वपापेभ्यो गायत्र्याञ्चैव जापनात्॥२०९॥
अभ्यसेणमहापुण्यांगायत्री वेदमातरम्।
गत्वारण्ये नदीतीरे सर्वपापविशुद्धये॥२१०॥
स्नात्वा च विधियत्तत्र प्राणानायस्य वाग्यतः।
प्राणायामैर्स्त्रिभिः पूतो गायत्रीन्तु जपेद्द्विजः॥२११॥
अक्लिन्नवासाः स्थलगः शुचौ देशे समाहितः।
पवित्रपाणिराचान्तो गायत्र्या जपमारभेत्॥२१२॥
ऐहिकामुष्मिकं लोके पापंसर्वं विशेषतः।
पञ्चरात्रेण गायत्रीं जपमानो व्यपोहति॥२१३॥
गायत्र्यास्तु परं नास्ति शोधनं पापकर्मणाम्॥२१४॥
महाव्याहृतिसंयुक्तां प्राणामानेन संयुताम्।
गायत्री प्रजपन् विप्रः सर्वपापैः प्रमुच्यते॥२१५॥
ब्रह्मचारी मिताहारः सर्वभूतहिते रतः।
गायत्र्या लक्षजप्येन सर्वपापैः प्रमुच्यते॥२१६॥
अयाज्ययाजनं कृत्वा भुक्त्वाचान्नं विगर्हितम्।
गायत्र्यष्टसहस्रन्तु जप्यं कृत्वा विमुच्यते॥२१७॥
अहन्यहनि योऽधीते गायत्रीं वै द्विजोत्तमः।
मासेन मुच्यते पापादुरगः कञ्चुकाद्यथा॥२१८॥
गायत्रीं यः सदा विप्रो जपते नियतः शुचिः।
स याति परमं स्थानं वायुभूत स्वमूर्त्तिमान्॥२१९॥
प्रणवेन तु संयुक्ता व्याहृतिः सम नित्यशः।
गायत्रीं शिरसा सार्द्धं मनसा त्रिः पठेद्द्विजः॥२२०॥
निगृह्य चात्मनः प्राणान् प्राणायामो विधीयते।
प्राणायामत्रयं कुर्य्यान्नित्यमेव समाहितः॥२२१॥
मानसं वाचिकं पापं कायेनैव तु यत्कृतम्।
तत्सर्वं नश्यते तूर्णं प्राणायामत्रये कृते॥२२२॥
ऋग्वेदमभ्यसेद्यस्तु यजुःशाखामथापि वा।
सामानि सरहस्यानि सर्वपापैः प्रमुच्यते॥२२३॥
पावमानीं तथा कौत्सं पौरुषंसूक्तमेव च।
जप्त्वापापैः प्रमुच्येत पित्र्यञ्चमधुच्छन्दसाम्॥२२४॥
मण्डलं ब्राह्मणं रुद्रसूक्तोक्ताश्च वृहत्कथाः।
वामदेव्यं बृहत्साम जप्त्वा पापैः प्रमुच्यते॥२२५॥
चान्द्रायणन्तु सर्वेषां पापानां पावनं परम्।
कृत्वा शुद्धिमवाप्नोति परमं स्थानमेव च॥२२६॥
धर्मशास्त्रमिदं पुण्यं सम्बर्त्तेनतु भाषितम्।
अधीत्य ब्राह्मणो गच्छेद्ब्रह्मणः सद्म शाश्वतम्॥२२७॥
इति श्रीसम्यर्त्तेनोक्तं धर्मशास्त्रं समाप्तम्॥
ॐ तत्सत् ३
——————
॥ अथ॥