श्रीगणेशायनमः ।
महामते ! महाप्राज्ञ ! सर्वशास्त्रविशारद ! । अक्षोणकर्म बन्धस्तु पुरुषो द्विजसत्तम ! ॥ १ सततं किं जपन् जप्यं विबुधः किमनुस्मरन् ॥ मरणे यज्जपं जप्यं यश्च भाव मनुस्मरन् ॥२ यच्च ध्यात्वा द्विजश्रेष्ठ ! पुरुषो मुत्यु मागतः । परम्पद मवाप्नोति तन्मे वद महामुनेः ॥३
शौनक उवाच ॥
इदमेव महाराज ! पृष्टवांस्ते पितामहः । भीष्मं धर्मभृतां श्रेष्ठ धर्मपुत्रो युधिष्ठिरः ॥४
युधिष्ठिर उवाच ॥
पितामह महाप्राज्ञ ! सर्वशास्त्र विशारद ! । प्रयाणकाले यश्चिन्त्यं सूरिभि स्तत्वचिन्तकैः ॥५
[[३६०]]
विष्णुस्मृतिः ।
किन्नु स्मरन् कुरुश्रेष्ठ ! मरणे पर्युपस्थिते । प्राप्नुयात् परमां सिद्धिं श्रोतु मिच्छामि तद्वद ॥६
भीष्म उवाच ॥
अद्भुतं च हितं सूक्ष्मं उक्त प्रश्नं त्वयानघ ! । शृणुष्वावहितो राजन् ! नारदेन पुरा श्रुतम् ॥७ श्रीवत्साङ्कं जगद्बीज मनन्तं लोकसाक्षिणम । पुरा नारायणं देवं नारदः परिपृष्टवान् ॥८
नारद उवाच ॥
त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम् । आहुवयं परं धाम ब्रह्मादि कमलोद्भवम् ॥६ भगवन् ! भूतभव्येश ! श्रदधाने जितेन्द्रियैः । कथं भक्तैर्विचिन्त्योऽसि योगिभिर्देहमोक्षिभिः ॥१० किं च जप्यं जपेन्नित्यं कल्यमुत्थाय मानवाः । कथं युञ्जन् सदा ध्यायन् ब्रूहि तत्त्वं सनातनम् ॥११
भीष्म उवाच ॥
श्रुत्वा तस्य तु देवर्षेवषियं वाचस्पतिः स्वयम् । प्रोवाच भगवान् विष्णुर्नारदं वरदः प्रभुः ॥ १२
श्रीभगवानुवाच ॥
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् । मरणे मामनुस्मृत्य प्राप्नोति परमां गतिम् ॥१३
ओंकार-वर्णनम् ।
यामधीत्य प्रयाणे तु मभावायोपपद्यते । ओङ्कार मग्रतः कृत्वा मां नमस्कृत्य नारद ॥१४ एकाग्रः प्रयतो भूत्वा इमं मन्त्र मुदीरयेत् । अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ॥ १५ पुमान् विमुच्यते सद्यः सिंहस्तं मृगैरिव । ओमित्येव परं ब्रह्म शाश्वतं परमव्ययम् ॥१६ एतदुच्चारयन्मर्त्यो ब्रह्मभूयाय कल्पते ।
ब्रह्मा विष्णुश्च रुद्रश्च सर्वमो मिति चोच्यते ॥ १७ सम्पन्नऽसुरसंयाने नम्यते च मुमुक्षुभिः । मोक्षश्च ज्ञानिनां प्रोक्तो मोहश्चाज्ञानिनां स्मृतः ॥ १८ यस्य यादृग्विधो भाव स्तस्य तादृग्विधो हरिः । भवे भवनविश्रात्मा भूतानां हितकाम्यया ॥ १६ सृजते आत्मनात्मान मात्मन्येव स्वमायया । हरिरेव सतां नित्यं शरण्यः शरणार्थिनाम् ॥२० नहि नारायणादन्य स्त्रिषु लोकेषु विद्यते । वसत्यमृतमक्षय्यं यस्मिन् लोकाः ससागराः ॥२१ त एव सृजते लोकान् सृष्टिकाले जगत्प्रभुः । तेजांसि येन दिव्यन्ते महोत्पन्नेन तेजसा ॥ २२ वासुदेवात्मकं सर्वं तत्तेजोऽपि हि नान्यथा । वासनाद्या स्तु ये भावाः संभवन्ति युगे युगे ॥२३ लोकत्रयहितार्थाय स्वोपकाराय नो हरिः ।
यतश्वोत्पद्यते विश्वं यस्मिन्नेव प्रलिप्यते ॥२४
[[३६१]]
विष्णुस्मृतिः ।
क्षराक्षरविसृष्टस्तु सोऽच्युतः पुरुषोत्तमः । अव्यक्त शाश्वतं देवं प्रभवं पुरुषोत्तमम् ॥ २५ प्रपद्ये प्राञ्जलिर्विष्णु मक्षयं भक्तवत्सलम् । पुराणं पुरुषं दिव्य मद्भुतं लोकपावनम् ॥२६ प्रपद्ये पुण्डरीकाक्षं देव नारायणं हरिम् । लोकनार्थं सहस्राक्ष मक्षरं परमं पदम् ॥२७ भगवन्तं प्रपन्नोऽस्मि भूतभव्यप्रभुंविभुम् । स्रष्टारं सर्वलोकाना मनन्तं विश्वतोमुखं ॥ २८ पद्मनाभं हृषीकेशं प्रपद्यं सत्यमच्युतम् । हिरण्यगर्भ ममृतं भूगर्भ परतः परम् ॥२६ प्रभुंविभुमनाद्यन्तं प्रपद्ये तं रविप्रभम् । सहस्रशीर्षं पुरुषं महर्षि सत्यभावनम् ॥३० प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् । नारायणं पुराणेशं योगात्मानं सनातनम् ॥३१ संज्ञानां सर्वसत्वानां प्रपद्ये धवमीश्वरम् । यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् ॥३२ चराचरगुरुर्देवः स मे विष्णुः प्रसीदतु । यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः पितामहः ॥ ३३ ब्रह्मयोनिर्हि विश्वस्य स में विष्णुः प्रसीदतुं । चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेवच ॥ ३४ हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु । पर्जन्यः पृथिवी संस्यं कालो धर्मः क्रियाक्रिये ॥३५विष्णोः प्रसीद-वर्णनम् ।
गुणाकरः स मे विष्णुर्बासुदेवैः प्रसीदतु । अग्निसोमार्कताराणां ब्रह्मरुद्रन्द्रयोगिनां ॥३६ यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु । कार्य क्रिया च करणं कर्त्ता हेतुः प्रयोजनम् ॥३७ अक्रिया करणी कार्य स मे विष्णुः प्रसीदतु । शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः ॥ ३८ रिपुगर्भस्य यो गर्भः स मे विष्णुः प्रसीदतु । अबलो येन बालेन कंसमल्लो महाबलः ॥ ३६ चाणूरो निहतो र स मे विष्णुः प्रसीदतु । शङ्खः करवरे यस्य स मे विष्णुः प्रसीदतु ॥४० येन क्रान्तास्त्रयो लोका दानवाश्च वशीकृताः । शरणं सर्वभूतानां स मे विष्णुः प्रसीदतु ॥ ४१ योगावास ! नमस्तुभ्यं सर्वावास ! वरप्रद । सर्वादि वासनाद्यादि वासुदेव ! प्रधानकृत् ॥४२ यज्ञगर्भ ! हिरण्याङ्ग ! पञ्चयज्ञ ! नमोऽस्तुते ।
!
चतुर्मूर्त्तिः परन्धाम लक्षानन्दवरार्चित ॥ ४३ अजस्त्वमगमः पन्था मूर्त्तिविश्वमूर्त्तिधृक् । श्रीकर्तः । पश्वकालज्ञ ! नमस्ते ज्ञानसागर ॥४४ अव्यक्ताद्वत्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः । यस्मात्परतरं नास्ति तमस्मिं शरणं गतः ॥४५ न प्रधानो नच महान् पुरुषश्चेतनोह्यजः । अनयोग्यः परतरस्तमस्मि शरणं गतः ॥४६
[[३६३]]
[[३६४]]
विष्णुस्मृतिः ।
चिन्तयन्तोऽपि यन्नित्यं ब्रह्मेशानादयः प्रभुम् । निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥४७ जितेन्द्रिया जितात्मानो ज्ञानध्यानपरायणाः ।
यं प्राप्य न निवर्त्तन्ते तमस्मि शरणं गतः ॥४८ एकांशेन जगत् कृत्स्नमवष्टभ्य विभुः स्थितः । अग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गतः ॥४६ सोमार्काग्निगतन्तेजो या च तारामयी द्युतिः । दिवि संजायते यो यः स महात्मा प्रसीदतु ॥५० सूर्य मध्य स्थितः सोमस्तस्य मध्येच यास्तिता । भूतबाह्याचरा दीप्तिः स महात्मा प्रसीदतु ॥ ५१ सगुण निर्गुणश्चासौ लक्ष्मीवान् चेतनो ह्यजः । सूक्ष्मः सर्वगतो देही स महात्मा प्रसीदतु ॥५२ सामययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः 1 यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥५३ अव्यक्तः समधिष्ठाता ह्यचिन्त्यः सदसत्परः । आस्थितः प्रकृति भुङ्क् स महात्मा प्रसीदतु ॥ ५४ क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः । निर्विकार ! नमस्तेऽस्तु साक्षिक्षेत्रिध्रुवस्थितः ॥५५ अतीन्द्रिय ! नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे । येच त्वां नाभिजानन्ति संसारे सभ्वरन्ति ते ॥५६ कामक्रोधविनिर्मुक्ता भक्तास्त्वां प्रविशन्ति च ।
अव्यक्तमत्यहङ्कारा मनोभूतेन्द्रियाणि च ॥५७
ईश्वरवर्णनम् ।
[[३६५]]
त्वयि तानि चलेषु त्वं नतेषु त्वं नते त्वयि । एकत्वान्यत्वनानात्वं ये विदु र्यान्ति ते परम् ॥५८ समोहं सर्वभूतेषु न मे द्वप्योऽस्ति न प्रियः । समत्वमभिकाङ्क्षन्तम्भतया वै नान्यचेतसः ॥ ५६ चराचरमिदं सर्वं भूतग्रामभ्वतुर्विधम् । त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणाइव ॥६० स्रष्टो ! भोक्तासि कूटस्थो ह्यतत्वस्तत्वसंज्ञितः । अकर्ता हेतुरचरः पृथगात्मन्यवस्थितः ॥३१ न मे भूतेषु संयोगो न भूतत्वगुणाधिकः । अहङ्कारेण बुद्धया वा न मे योगास्त्रिभिर्गुणैः ॥६२ न मे धर्मो धर्मो वा नामभोजन्नवा पुनः । जरामरणमोक्षार्थं त्वां प्रपन्नोमि सर्वगः ॥६३ विपयैरिन्द्रियैर्बापि न मे भूयः समागतः । ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ॥ ६४ भक्तानां यद्धितं देव । तद्दहि त्रिदशेश्वर । पृथिवीं यातु मे घ्राणं यातु मे रसनञ्जलम् ॥ ६५ रूपं हुताशनं यातु स्पर्शो यातु च मारुतम । श्रोत्रमाकाशमध्ये तु मनो वैकारिकं पुनः ॥६६ इन्द्रियाणि गुणान्यातु स्वासु स्वासु च योनिषु । पृथिवी यातु सलिलमापोऽग्नि मनलोऽनिलम् ॥ ६७ वायुराकाशमप्येतु मनश्चाकाशमेव च ।
अहङ्कारं मनो यातु मोहनं सर्वदेहिनाम् ॥ ६८.
[[३६६]]
विष्णुस्मृतिः ।
अहङ्कारस्तथा बुद्धि बुद्धिरव्यक्तमेव च । प्रधाने प्रकृति याते गुणसाम्ये व्यवस्थिते ॥ ६ वियोगः सर्वकरणैर्गुणैर्भूतैश्च मेऽभवत् ।
सत्वं रजस्तमश्चैव प्रकृति प्रविशन्तु मे ॥ ७० निष्कैवल्यं पदं देवकांक्षितं परमन्तपः । एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः ॥७१ नमो भगवते तस्मै विष्णवे प्रभविष्णवे ।
त्वद्बुद्धिस्तद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः ॥ ७२ त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते । पूर्वदेहिकृता ये मे व्याधयः प्रविशन्तु माम् ॥७३ आर्दयन्तु च दुःखानि ऋण में न भवेदिति । उपदिष्टन्तु मे सर्वे व्याधयः पूर्वचिन्तिताः ॥७४ अनृणो गन्तुमिच्छामि तद्विष्णोः परमम्पदम् । अहं भगवतस्तस्य मम वासः सनातनः ॥७५ तस्याहं न प्रणश्यामि सच मे न पंणश्यति । कर्मेन्द्रियाणि संयम्य पञ्च बुद्धीन्द्रियाणि च ॥७६ दशेन्द्रियाणि मनसो ह्यहङ्कारेण वा पुनः । अहङ्कारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् ॥७७ आत्मबुद्धीन्द्रियम्पश्येद्बुद्धौ बुद्धः परायणम् । ममायमपि तस्याहं येन सर्व मिदन्ततम् ॥ ७८ आत्मनात्मनि संयोज्य ममात्मन्यनुसंस्मरेत् । एवं बुद्धः परंबुद्ध वा लभते नं पुनर्भवम् ॥७
वरप्राप्तिवर्णनम् ।
ॐ नमो भगवते तस्मै देहिनां परमात्मने । नारायणाय भक्तानामेकनिष्ठाय शाश्वते ॥८० हृदिस्थाय च भूतानां सर्वेषां च महात्मने । इमामनुस्मृतिन्दित्र्यां वैष्णवीं पापनाशनीम् ॥८१ स्वयम्विबुद्धच पठेद्यत्र तत्र समभ्यसेत् । मरणं समनुप्राप्ते यस्त्विभामनुसंस्मरेत् ॥८२ अपि पापममाचारः स याति परमाङ्गतिम् । यद्यहङ्कारमाश्रित्य यज्ञदानतपः क्रियाः ॥ ८३ कुर्वस्तत्फलमाप्नोति पुनरावर्तते नतु ।
अभ्यर्चयन् पितॄन्देवान् पठन् जुह्वन् बलिन्ददन ॥८४ ज्वलदग्नि स्मरेद्यो मां लभते परमाङ्गतिम् । यज्ञोदानं तपः कर्म पावनानि मनीषिणाम् ॥८५ यज्ञोदानं तपस्तस्मात्कुर्यादाशाविवर्जितः । पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः ॥८६ श्रावयेच्छ्रद्दधानांश्चमद्भक्तांश्च विशेषतः ।
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ॥ ८७ तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद । किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् ॥८८ श्रद्धावन्तो यतात्मान स्ते मां यान्ति मदाश्रिताः । कर्माण्याद्यन्तवन्तीह मद्भक्तोऽनन्तमश्नुते ॥८६ मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः ।
अवाप्स्यसि तपः सिद्धिं लभ्यसे च पदं मम ॥ ६०
[[३६७]]
[[३६८]]
विष्णुस्मृतिः ।
अज्ञाना मिच्छया ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥६१ अस्मात् प्रदेयं साधुभ्यो जन्मबन्धभयापहम् । अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥६२ नासौ फल मवाप्नोति मद्भक्तैर्यदवाप्यते ।
भीष्म उवाच ॥
- एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा । यदुवाच तथा शम्भुस्तदुक्तं तव सुव्रत ॥ ६३ त्वमप्येकमना भूत्वा ध्येयं ज्ञेयं गुणाधिकम् । भज सर्वेण भावेन परमात्मान मव्ययम् ॥६४ श्रुत्वैतत् नारदो वाक्यं दिव्यं नारायणेरितम् । अत्यन्तभक्तिमान्देवे एकान्तित्व मुपेयिवान् ॥६५ नारायण नृपोन्देवं दशवर्षाण्यिनन्यभाक् । इदं जपन्वें प्राप्नोति तद्विष्णोः परमं पदम् ॥६६ किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्ब्रतैः । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ६७ नारायणाय नम ओ मिति वेदमन्त्रं- यो नित्यमेव मनसापि समभ्यसेच्च । पापैः
-
प्रमुच्य परमे तृपयातिविष्णोः- स्थानं हि सर्व मिति वेदविदो वदन्ति ॥ ६८ किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देव ! नारायण मनन्यधीः ॥ ६६
नारायण वर्णनम् ।
चीरवासा जपी वापि त्रिदण्डी मुण्ड एव वा । भूषितो वा द्विजश्रेष्ठ ! न लिङ्गं धर्मकारणम् ॥१०० ये नृशंसा दुरात्मानः पापधर्मविवर्जिताः । तेऽपि यान्ति परं स्थानं नारायणपरायणाः ॥ १०१ अन्यथा मन्दबुद्धीनां प्रतिभाति दुरात्मनाम् । कुतर्कज्ञानदृष्टीनां विश्रान्तेन्द्रियवर्त्मनाम् ॥ १०२ नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् । अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् ॥१०३
आचारहीनो
[[३६६]]
मुनिप्रवीर भक्तया विहीनोऽपितु विन्दतोऽपि । संकीर्त्य नारा शब्दमात्रं विमुक्तपापो विशतेऽच्युतां गतिम् ॥१०४
कान्तारवनदुर्गेषु कृत्स्तेष्वापत्सु संयुगे ।
दस्युभिः सन्निरोधे च नामभि र्मा प्रकीर्तयेत् ॥ १०५ न दिव्य पुरुषो धीमान् येषु स्थानेषु मां स्मरेत् । चौख्याघ्र महासपैः क्रूरैरपि न वाध्यते ॥ १०६ जन्मान्तरसहस्रेषु तपोध्यानसमाधिमिः ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ १०७ नामास्ति याति शक्तिश्च पापे निहरणे हरेः । श्वपचोऽपि नरः कर्तुं क्षमस्तावन्न किल्बिषम् ॥१०८ न तावत् पापमत्तीह यावन्नामहतं हरेः । अतिरेक भयादाहुः प्रायश्चित्तान्तरं बुधाः ॥ १०६ गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ ११०
[[४००]]
विष्णुस्मृतिः ।
न वासुदेवात्परमस्ति मङ्गलं न वासुदेवात्परमस्ति पावनम् । न वासुदेवात्परमस्ति दैवतं न वासुदेवं प्रणिपत्य सीदति ॥ १११ इमां रहस्यां परमामनुस्मृतिं ह्यधीत्य बुद्धिं लभते च नैष्ठिकम् ॥
विहाय दुखानि विमुच्य सङ्कटात्
स वीतरागो विचरेन्मही मिमाम् ॥ ११२ गङ्गायां मरणं चैव दृढा भक्तिश्च केशवे ब्रह्मविद्याप्रबोवश्व नाल्पस्य तपसः फलम् ॥११३
इति विष्णुस्मृतिः समाप्ता ॥
॥ 3727 11
विष्णुस्मृतिः
श्रीगणेशाय नमः ।
तत्र प्रथमोऽध्यायः ।
ब्रह्मरात्र्यां व्यतीतायां प्रबुद्ध पद्मसम्भवे विष्णुः सिसृक्षभूतानि ज्ञात्वा भूमिं जलानुगाम् ॥१ जलक्रीड़ाचि शुभं कल्पादिषु यथा पुरा । वाराहमास्थितोरूपमुज्जहार वसुन्धराम् ॥२ वेदपादो यूपर्दछ्रः क्रतुवक्तूश्चितामुखः । अमिजो दर्भमा ब्रह्मशीप महातपाः ॥३ अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूपणः । आज्यनासः श्रवस्तुण्डः सामवोपमहास्वनः ॥४ धमसयमयः श्रीमान् क्रमविक्रमसत्कृतः । प्रायश्चित्तमयो वीरः प्रांशुजानुर्महावृपः ॥५
उद्गात्रन्त्रो होमलिङ्गो वीजtपधिमहाफलः । वेद्यन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोगितः ॥६ वेदस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् । प्राग्वंशकायो द्युतिमान् नानादीक्षा भिरन्वितः ॥ ७ दक्षिणाहृदयो योगमहामन्त्रमयो महान् । उपाकर्मोष्टरुचिरः प्रवर्ग्यावर्त्तभूषणः ॥८
[[२६]]
[[४०२]]
विष्णुस्मृतिः ।
नानाच्छन्दोगतिपथो गुह्योपनिषदासनः । छायापत्नीसहायोऽसौ मणिशृङ्गइवोदितः ॥
महीं सागरपर्यान्तां सशैलवनकाननाम् । एकार्णवजलभ्रष्टाने कार्णवगतः प्रभुः ॥ १० दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया । आदिदेवो महायोगी चकार जगतीं पुनः ॥ ११ एवं यज्ञवराहेण भूत्वा भूतहितार्थिना । उद्धृता पृथिवी सर्वा रसातलगता पुरा ॥१२ उद्धृत्य निश्वले स्थाने स्थापिता च तथा स्वके । यथास्थानं विभज्यापस्तद्गता मधुसूदनः ॥ १३ सामुद्रयश्व समुद्रेषु नादेयाश्च नदीषु च । पल्ललेषु च पाल्लल्यः सरःसु च सरोवराः ॥१४ पातालसप्तकं चक्रे लोकानां सप्तकं तथा ।
द्वीपा नामुदधीनाञ्च स्थानानि विविधानि च ॥ १५ स्थानपालांल्लोकपालान्नदीशैलवनस्पतीन् ।
ऋषींश्च सप्त धर्मज्ञान वेदान् साङ्गान् सुरासुरान् ॥१६ पिशाचोरगगन्धर्वयक्षराक्षसमानुषान् । पशुपक्षिमृगाद्यांश्च भूतप्रामं चतुविधम् ॥१७ मेघेन्द्रचापसम्पातान् यज्ञांश्च विविधांस्तथा । एवं वराहो भगवान् कृत्वेदं सचराचरम् ॥१८ जगज्जगाम लोकानामविज्ञातां तदा गतिम् । अविज्ञातां गतिं याते देवदेवे जनार्द्दने ॥१६प्रथमोऽध्यायः ।
[[1]]
वसुधा चिन्तयामास का धृतिम्मे भविष्यति । पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम् ॥२० मदीयां वहते चिन्तां नित्यमेव महामुनिः ।
एवं स निश्चयं कृत्वा देवी स्त्रीरूपधारिणी ॥२१ जगाम कश्यपं द्रष्टुं दृष्टवांस्ताच्च कश्यपः । नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम् ॥२२ अलिसङ्गालकां शुभ्रां बन्धुजीवाधरां शुभाम् । सुशुत्रस्पृष्टदशनां चारुनासां नतभ्रुवम् ॥२३ कम्बुकण्डीं संहतोरू पीनोरुजघनस्थलीम् । विरेजतुस्ततो यस्याः समौ पीनौ निरन्तरौ ॥२४ मत्तंभकुम्भसङ्काशौ शातकुम्भसमद्युती । मृणालकोमलौ बाहू करौ किशलयोपमौ ॥२५ रुक्मस्तम्भनिभावून गूढ़े शिलने व जानुनी । जङ्घ विरोमे सुषमे पादावतिमनोरमौ ॥२६ जघनश्व घनं मध्यं यथा केशरिणः शिशोः । प्रभायुता नखास्ताम्रा रूपं सर्वमनोहरम् ॥२७ कुर्वाणां वीक्षितैर्नित्यं नीलोत्पलयुता दिशः । कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः ॥२८ सुसूक्ष्मशुक्लत्रसनां रत्नोत्तमविभूषिताम् । पदन्यासैर्वसुमतीं सपद्मामिव कुर्वतीं ॥२६
रूपयौवनसम्पन्नां विनीतवदुपस्थिताम् ।
समीपमागतां दृष्टा पूजयामास कश्यपः ॥ ३०
[[४०३]]
[[४०४]]
विष्णुस्मृतिः ।
उवाच तां वरारोहे ! विज्ञातं हृतं मया । घरे तव विशालाक्षि ! गच्छदेवि जनार्द्दनम् ॥३१ स ते वक्ष्यत्यशेषेण भाविनी ते यथा स्थितिः । क्षीरोदे वसतिस्तस्य मया ज्ञाता शुभानने ॥ ३२ ध्यानयोगेन चाङ्गि तज्ज्ञानं तत्प्रसादतः ॥ इत्येवमुक्ता सम्पूज्य कश्यपं वसुधा ततः । प्रययौ केशवं द्रयं क्षीरोदमथ सागरम् ॥३३ सा ददर्शामृतनिधि चन्द्ररश्मिमनोहरम् । पवनक्षोभ संजातवीचीशतसमाकुलम् ॥३४ हिमवच्छतसङ्काशं भूमण्डलमिवापरम् । वीचोहस्तंवलितैराह्वयानमिव क्षितिम् ॥३५
तैरेव शुभ्रतां चन्द्रं विधानमिवानिशम् । अन्तरस्र्धन हरिणा विगताशेपकल्पम् ॥ ३६ यस्मात्तस्मात्तु विभ्रन्तं सुशुभ्रां तनुमूर्जिताम् । पाण्डरं खगमागम्यमधोभुवनवर्त्तिनम् ॥३७ इन्द्रनीलकडाराढ्यं विपरीतमिवाम्बरम् । फलावली समुद्भूतव न सङ्घसमाचितम् ॥३८ निम्मकिमिव शेपाहेविस्तीर्णं तमतीव हि । तं दृष्टा तञ्च मध्यस्थं दहशे केशत्रालयम् ॥३६ अनिर्देश्यपरामाणमनिर्देश्य द्धिसंयुतम् ।
शेपपयङ्कशं तस्मिन् ददर्श मधुसूदनम् ॥४०
प्रथमोऽध्यायः ।
शेषाहिफणरत्नांशुडुर्विभाव्य मुखाम्बुजम् । शशाङ्कशतसङ्काशं सूर्यायुतसमप्रभम् ॥४१ पीतवाससमक्षोभ्यं सर्वरत्नविभूषितम् । मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ॥४२ संवाद्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः शुभैः । शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः ॥ ४३ तं पुण्डरीकाक्षं ववन्दे मधुसूदनम् । जानुभ्यामवनीं गत्वा विज्ञापयति चाप्यथ ॥४४ उद्घृताहं त्वया देव! रसातलतलङ्गता ।
[[४०५]]
स्वे स्थाने स्थापिता विष्णो ! लोकानां हितकाम्यया ॥४५ तत्राधुना मे देश ! का धृतिर्वै भविष्यति । एवमुक्तस्तदा देव्या देवो वचनमब्रवीत् ॥४६ वर्णाश्रमाचाररताः शास्त्रकतत्परायणाः ।
त्वां धरे ! धारयिष्यन्ति तेपां तद्भार आहितः ॥४७ एवमुक्ता वसुमती देवदेवमभाषत ।
वर्णानामाश्रमाणाञ्च धर्मान् वद् सनातनान् ॥४८ त्वत्तोऽहं श्रोतुमिच्छामि त्वं हि मे परमा गतिः । नमस्ते देव ! देवेश ! देवारिबलसूदन ! ॥४६ नारायण ! जगन्नाथ ! शङ्खचक्रगदाधर ! । पद्मनाभ ! हृषीकेश ! महाबलपराक्रम ! ॥५० अतीन्द्रिय ! सुदुपार ! देव ! शार्ङ्गधनुर्द्धर! ।
वराह ! भीम ! गोविन्द ! पुराण ! पुरुषोत्तम ! ॥ ५१
[[४०६]]
विष्णुस्मृतिः ।
हिरण्यकेश ! विश्वाक्ष ! यज्ञमूर्ते ! निरञ्जन ! । क्षेत्र ! क्षेत्रज्ञ ! लोकेश ! सलिलान्तरशायक ! ॥५२ यन्त्रमन्त्रवहाचिन्त्य ! वेदवेदाङ्गविग्रह ! ।
जगतोऽस्य समग्रस्य सृष्टिसंहारकारक ! ॥५३ सर्वधर्मज्ञ ! धर्माङ्ग ! धर्मयोने ! वरप्रद ! । विश्वक्सेनामृत ! व्योम ! मधुकैटभसूदन ! ॥५४ वृहतां वृहणाजेय ! सर्व ! सर्वाभयप्रद ! । वरेण्यानघ ! जीमूताव्यय ! निर्वाणकारक ! ॥५५ आप्यायन ! अपस्थान ! चैतन्याधार । निष्क्रिय । ।
!
सप्तशीर्षाध्वरगुरो ! पुराण ! पुरुषोत्तम ! ॥५६ ध्रुवाक्षर ! सुसूक्ष्मेश ! भक्तवत्सलपावन ! । त्वं गतिः सर्व देवानां त्वं गतिब्रह्मवादिनाम् ॥५७ तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम ! । प्रपन्नास्मि जगन्नाथ ! ध्रुवं वाचस्पति प्रभुम् ॥५८ सुब्रह्मण्यमनाधृष्यं वसुखेलं वसुप्रदम् । महायोगबलोपेतं पृश्निगर्भं धता विषम ॥५६ वासुदेवं महात्मानं पुण्डीकाक्षमच्युतम् । सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् ॥६० एकव्यूहं चतुर्वक्तं जगत्कारणकारणम् । ब्रूहि मे भगवन् ! धम्माचातुर्वण्यस्य शाश्वतान् ॥६१ आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान् । एवमुक्तस्तु देवेशः पुनः क्षौणीमभाषत ॥६२
द्वितीयोऽध्यायः ।
श्रृणु देवि ! धरे ! धम्माचातुर्वर्ण्यस्य शाश्वतान् । आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान् ॥६५ ये तु त्वां धारयिष्यन्ति सन्तस्तेषां परायणान् । निषण्णा भव वामोरु ! काञ्चनेऽस्मिन् वरासने ॥६६ सुखासीना निबोध त्वं धर्मान्निगदतो मम ।
[[४०७]]
शुश्रुवे वैष्णवान् धर्मान् सुखासीना धरा तदा ॥७६
इति वैष्णवे शर्मशास्त्रं प्रथमोऽध्यायः ॥
अथ द्वितीयोऽध्यायः ।
ब्राह्मणः क्षत्रियो वश्यः शूद्रश्चेति वर्णाश्चत्वारः । तेषामाद्या द्विजातयः ।
तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत् क्रियासमूहः । तेषाच धर्माः ब्राह्मणस्याध्यापयनं क्षत्रियस्य शस्त्रनिष्ठता वैश्यस्य पशुपालनं शूद्रस्य द्विजातिशुश्रूषा । द्विजानां यजनाध्ययने ।
अथैतेषां वृत्तयः ब्राह्मणस्य याजनप्रतिग्रहौ क्षत्रियस्य क्षितित्राणं कृषिगोरक्षबाणिज्यकुसीद योनिपोषणा नि वैश्यस्य, शूद्रस्य सर्व शिल्पानि । आपद्यनन्तरा वृत्तिः । क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः । अहिंसा गुरुशुश्रूषा तीर्थानुसरण दया ॥
[[४०८]]
विष्णुस्मृतिः ।
आर्जवत्वमलोभश्व देवब्राह्मणपूजनम् । अनभ्यसूया च तथा धर्मः सामान्यउच्यते । इति वैष्णवे धर्मशास्त्रे द्वितीयोऽध्यायः ।
अथ तृतीयोऽध्यायः ।
अथ राजधर्माः ॥
प्रजापरिपालनं वर्णाश्रमाणां वे स्वं धर्म व्यवस्थापनम् । राजा च जाङ्गलं पशव्यं शस्योपेतं देशमाश्रयेत् वैश्यशूद्रपादञ्च तत्र धन्वनृमहीवारिवृक्ष गिरिदुर्गाणा मन्यतमं दुर्गमाश्रयेत् । तत्र ग्रामाध्यमानपि कुर्यात् ।
दशाध्यक्षान् ।
।
शताध्यक्षान् ।
देशाध्यक्षांश्च ।
ग्रामदोषाणां ग्रामाध्यक्षः परीहारं कुर्य्यात् ।
अशक्तो दशग्रामाध्यक्षाय निवेदयेत् ।
सोऽप्यशक्तः शताध्यक्षाय । सोऽयशक्तो देशाध्यक्षाय । देशाध्यक्षोऽपि सर्व्वात्मना दोषमुच्छिन्द्यात् ।
आकरशुल्कतरनागवनेष्वाप्तान्नियुञ्जीत ।
धर्मिष्ठान् धर्मकाय्यषु । निपुगानर्थ कार्येषु ।
शूरान् संग्रामकर्म्मसु । उप्रानुप्रषु षण्ढान् स्त्रीषु । प्रजाभ्यो वल्यर्थ सम्वत्सरेण धान्यतः षष्ठमंशमादद्यात् । सर्वेशस्येभ्यश्च द्विकं शतम् । पशुहिरण्येभ्यो वस्त्रेभ्यश्च ।
तृतीयोऽध्याय ।
मांसमधुघृतौषधिगन्धमूलफलरसदारु पत्राजिनमृद्भाण्डा-
श्मभाण्डवैदलेभ्यः पष्ठभागम् ।
ब्राह्मणेभ्यः कराड़ानं न कुर्यात ते हि राज्ञो धर्मकरदाः ।
राजा च प्रजाभ्यः सुकृतदुष्कृतपष्ठांशभाक् ।
[[४०६]]
स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् परदेशपण्याच विंशतितमम् । शुल्कस्थानमपक्रामन् सर्वापहारित्वमाप्नुयात् । शिल्पिनः कर्मजीविनश्च शूद्राश्च मासेनैकं राज्ञः कर्म कुर्युः । स्वाम्यमात्य दुर्ग कोपदण्ड राष्ट्रमित्राणि प्रकृतयः । तदूषकांश्च हन्यात् । स्वराष्ट्रपरपाष्ट्रयोश्च चारचक्षुः स्यात् । साधूनां पूजनं कुर्य्यात् । दुष्टांश्च हन्यात् ।
शत्रु मित्रोदा सोनमध्यमेषु सामभेददानदण्डान् यथाह यथाकालं प्रयुञ्जीत ।
सन्धिविप्रहयानासनसंश्रयद्वैधीभावांश्च यथाकालमाश्रयेत् । चैत्रे मार्गशीर्षे वा यात्रां यायात् । परस्य व्यसने वा ।
परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् । परेणाभियुक्तश्च सर्व्वात्मना राष्ट्र गोपायेत् ।
नास्ति राज्ञां समरे तनुत्यागसदृशोधर्मः । गोब्राह्मणनृपतिमित्रवनदारजीवितरक्षणाद्ये हतास्ते स्वर्गभाजः ।
वर्णशङ्कररक्षणार्थे च ।
राजा पुरावाप्तौ तत्र तत्कुलीनमभिषिञ्चेत् ॥
न राजकुलमुच्छिन्द्यात् । अन्यत्राकुलीनराजकुलात् ।
मृगयाक्ष स्त्रीपानेष्वभिरतिं न कुर्य्यात् ।
[[४१०]]
विष्णुस्मृतिः ।
वाक्पारुष्य दण्डपारुष्ये च नार्थदूषणं कुर्य्यात् ।
आद्यद्वाराणि नोच्छिन्द्यात् । नापात्रवर्षी स्यात् । आकरेभ्यः सर्वमादद्यात् ॥
निधि लब्धा तदर्द्ध ब्राह्मणेभ्यो दद्यात् द्वितीयमर्द्ध कोशे- प्रवेशयेत् । निधि ब्राह्मणो लब्धा सर्वमादद्यात् । क्षत्रियश्चतुर्थमंशं राज्ञे दद्यात् चतुर्थमंशं - ब्राह्मणेभ्योऽर्द्ध मादद्यात् ।
वैश्यश्चतुर्थमंशं राज्ञे दद्यात् ब्राह्मणेभ्योऽर्द्ध मंशमादद्यात् । शूद्रश्चावा द्वादशधा विभज्य पश्वांशान् राज्ञे दद्यान पञ्चांशान् ब्राह्मणेभ्यो ऽशद्वयमादद्यात् ।
अनिवेदितविज्ञातस्य सर्वमपहरेत् ।
स्वनिहिताद्राशे ब्राह्मणव
द्वादशमंशं दद्युः ।
परनिहितं निहितमिति ब्रुवंस्तत्समं दण्डमावहेत् ॥
बालानाथस्त्रीधनानि च राजा परिपालयेत् ।
चौरहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्योदद्यात् ।
अनवाप्य च स्वकोशादेव दद्यात् ।
शान्तिस्वस्त्ययनैर्देवोपघातान् प्रशमयेत् ।
परचक्रोपघातांश्च शस्त्रनित्यतया ।
वेदेतिहासधर्मशास्त्रार्थकुशल कुलीनमव्यङ्गं-
तपस्विनं पुरोहितश्च वरयेत् ।
शुचीनलुब्धानवहिताञ्छक्तिसम्पन्नान् सव्र्व्वार्थेषु च-
सहायान् स्वयमेव व्यवहारान् पश्येद्विद्वद्भिब्राह्मणैः सार्द्धम् ।
तृतीयोऽध्यायः ।
व्यवहारदर्शने ब्राह्मण वा नियुञ्जयात् ।
[[४११]]
जन्मकर्मत्रतोपेताश्च राज्ञा सभासदः काय्र्यारिपौ मित्र च- ये समाः कामक्रोधलोभादिभिः कार्य्यार्थिभिरनाहाय्र्याः ।
राजा च सर्वकार्येषु सम्बत्सराधीनः स्यात् ।
देवब्राह्मणान् सततमेवपूजयेत् ।
वृद्धसेवी भवेत् । यज्ञयाजी च ।
नचास्य विषये ब्राह्मणः क्षुधार्त्ताऽबसीदेन ।
नचान्योऽपि सत्कर्मनिरतः ।
ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत् ।
येषाञ्च प्रतिपादयेत्तेषां स्ववंश्यानन्तरप्रमाण दानच्छेदोप- वर्णनश्च पटं ताम्नपात्रे वा लिखितं स्वमुद्राङ्कितच्चा- गामिनृपबिज्ञापनार्थं दद्यात् । परदत्ताञ्च भुवं नापहरेत् । ब्राह्मणेभ्यः सर्वदायान् प्रयच्छेत् ।
सर्वतस्त्वात्मानं गोपायेत् सुदर्शनश्च स्यात् ।
विषघ्नागदमन्त्रधारी च । नापरीक्षितमुपयुञ्जयात् ।
स्मितपूर्वाभिभाषी स्यात् ।
बध्येsपि न भ्रकुटीमाचरेत् ।
अपराधानुरूपञ्च दण्डं दण्डयेषु दापयेत् ।
सम्यग्दण्डप्रणयनं कुर्य्यात् । द्वितीयमपराधं न कस्यचित् क्षमेत । स्वधर्म्मम पालयन्नादण्ड्योनामास्ति राज्ञः ।
यत्र श्यामो लोहिताक्षो दण्डश्वरति निर्भरः । प्रजास्तत्र विबर्द्धन्ते नेता चेत् साधु पश्यति ।
स्वराष्ट्र न्यायदण्डः स्याद्भृशदण्डश्च शत्रुषु ।
[[४१२]]
विष्णुस्मृतिः ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः । एवं वृत्तस्य नृपतेः शिलोच्नापि जीवतः । विस्तीर्यते यशोलोके तैलविन्दुरिवाम्भसि । प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः । स कीर्त्तियुक्तो लोकेऽस्मिन् प्रेत्य स्वर्गे महीयते ॥
इति वैष्णवं धर्मशास्त्र तृतीयोऽध्यायः ॥
॥ अथ चतुर्थोऽध्यायः ॥
जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञकम् ।
तदुकं लिख्या । तत्त्रयं राजसर्षपः । तत्त्रयं गौरसर्षपः । तत्पदकं यवः । तत्त्रयं कृःणलम् । तत्पश्वकं माषः । तद्द्द्वादशकमक्षार्द्धम् । अक्षार्द्धमेव सचतुमधिकं सुवर्णः । चतुःसुवर्णको निष्कः । द्वे कृष्णले समधृते रूप्यमाषकः । तत्पोडशकं धरणम् । ताम्रकार्षिकः कार्षापणः ।
पणानां द्वे शते सार्द्ध प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥
इति वैष्णवे धर्मशास्त्रे चतुर्थोऽध्यायः ॥॥ अथ पञ्चमोऽध्यायः ॥
अथमहापातकिनो ब्राह्मणवजं सर्वे बध्याः । न शारीरो ब्राह्मणस्य दण्डः ।
स्वदेशः ब्राह्मणं कृताङ्क विवासयेत् ।
४१३ः
तस्य च वस्त्रहत्यायामशिरस्कं पुरुषं ललाटं कुर्यात् । सुराध्वजं सुरापाने । श्वपदं स्तेये । भगं गुरुतल्पगमने ।
। अन्यत्रापि बध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् ।
कूटलेख्यकारांश्च ।
कूटशासनकर्तृ च राजा हन्यात् ।
गरदादिप्रसह्यतस्करान् स्त्रीबालपुरुपघातिनश्च ।
ये च धान्यं दशभ्य कुम्भेभ्योऽधिकमपहरेयुः । धरिममेयानां शतादप्यधिकं ।
ये चाकुलीना राज्यमभिकामयेयुः ।
सेतुभेदकांश्च प्रसह्यतस्कराणाम्बा व काशभक्तप्रदांश्च । अन्यत्र राजाशक्तः स्त्रियमशक्तभर्तृकां तदतिक्रमणश्च । हीनवर्णोऽधिकवर्णस्य येनाङ्गनापराधं कुर्यात्तदेवास्य शातयेत् । एकासनोपवेशी कट्यां कृताङ्को निव्र्वास्यः ।
निष्ठीव्योष्ठद्वयविहीनः कार्यः अवशब्दयिता च गुदहीनः । आक्रोशयिता च विजिह्नः ।
दर्पेण धर्मोपदेशकारिणो राजा तपमासेचयेत्तैलमास्ये । द्रोहेण च नामजातिग्रहणं दशाङ्गुलोऽस्य शङ्कुलिखयः । श्रुतदेशजाति कर्मणामन्यथावादी कार्षापणशतद्वयम् दण्ड्यः । काणखञ्जादिनां तथावाद्यपि कार्षापणद्वयम् । गुरुनाक्षिपन् कार्षापणशतम् ।
परस्य पतनीयाक्षेपे कृते तूत्तमसाहसं ।
[[४१४]]
विष्णुस्मृतिः ।
उपपातकयुक्ते मध्यमम् त्रैविद्यवृद्धाक्षेपे जातिपूगान। भ्व ।
ग्रामदेशयोः प्रथमसाहसम् । व्यङ्गतायुक्ताक्षेपे कार्षापणशतम् ।
मातृयुक्ते तूत्तमं सवर्णाक्रोशने द्वादशपणान् दण्ड्यः । हीनवर्णाक्रोशने पडूदण्ड्यः ।
यथाकालमुत्तमसवर्णाक्षेपे तत्प्रमाणोदण्डः । तयोर्वाकार्षापणास्त्रयः शुष्कवाक्याभिवाने स्ववमेव । पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः । हीनवर्णागमने मध्यमम् गोगमने च ।
अन्त्यागमने बध्यः पशुगमने कार्षापणशतं दण्ड्यः ॥ दोषमनाख्याय कन्यां प्रयच्छंश्च ताञ्च विभृयात् । अदुष्टां दुष्टामिति वन्नुत्तमसाहसम् । गजाश्वोष्ट्रगोघाती येककरपादः कार्यः ।
विमांसविक्रयी कार्षापणशतम् ग्राम्यपशुवाती च-
पशुस्वामिने तन्मूल्यं दद्यात् ।
आरण्यपशुवाती पञ्चाशतं कार्षापणान् ।
पक्षिघाती मत्स्यघाती च कार्षापणान् ।
फलोपगमद्रुमच्छंदी कीटोपघाती तूत्तमसाहसं दण्ड्यः ।
पुःपोपगमद्रुमच्छंदी मध्यमम् ।
वल्लीगुल्मलताच्छंदी कार्षापणशतम् ।
तृणच्छेद्येकं सर्वे च तत्स्वामिनां तदुत्पत्तिम् ॥
हस्तेनाव गोरयिता दशकार्षापणान् ।
पञ्चमोऽध्यायः ।
पादेन विंशतिं । काष्ठेन प्रथमसाहसम् । पाषाणेन मध्यमम् । शस्त्रेणोत्तमम् । पादकेशांशु ककरलुण्ठने दशपणान् दण्ड्यः ।
शोणितेन विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् । सह शोणितेन चतुःपष्टि ।
करपाददन्तभङ्ग कर्णनासाविकर्त्तने मध्यमम ।
चेष्टाभोजनवाम्रो प्रहारदाने च ।
नेत्र कन्धराबा हुसक्थ्यं सभङ्ग चोत्तमम् ।
उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान्न विमुञ्चत् । तादृशमेव वा कुर्यात् ।
एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्विगुणः । क्रोशन्तमभिधावतां तत्समीपवर्त्तिनां संसरताच । सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्यः ॥ ग्राम्यपशुपीडाकराच ।
[[४१५]]
गोश्वो गजापहार्येकपाद करः कार्यः अजाव्यपहार्येककरश्च । धान्यापहार्येकादशगुणं दण्ड्यः ।
शस्यापहारी च ॥
सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमपहरन्- विकरः तदूनमेकादशगुणं दण्ड्यः ।
सूत्रकार्पास गोमयगुडदधिक्षी रतक्रतृणलवणमृद्भस्मपक्षि- मत्स्यघृततैलमांसमधुर्वेद लवेणुमृष्म यलोहदण्डानामपहन्त - मूल्यात्त्रिगुणं दण्ड्यः ।
[[४१]]
विष्णुस्मृतिः ।
पक्वान्नानाभ्वपुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे-
पञ्चकृष्णलान् ।
शाकमूलफलानाच रत्नापहार्युत्तमसाहसम् । अनुक्तद्रव्याणा मपहर्त्ता मूल्यसमम । स्तेनाः सर्वमपहृतं धनिकस्य दाप्याः । ततस्तेषामभिहितदण्डप्रयोगः ।
येषां देयः पन्थास्तेषामपथदायी कार्यापणानां- पञ्चविंशति दण्ड्यः आसनार्हस्यासन मददच । पूजार्हमपूजयंश्च ।
प्रातिवेश्यत्राह्मणं निमन्त्रण तिक्रमे च ।
निमन्त्रयित्वा भोजनादायिनश्च ।
निमन्त्रितस्तथेत्युक्तवानभुञ्जानः
सुवर्णमापकं निमन्त्रयितुश्च द्विगुणमन्नम् । अभक्ष्येग ब्राह्मणदूपयिता पोडशसुवर्णान् । जात्यपहारिणा शतं सुरया बध्यः ।
क्षत्रियं दृपयितुस्तदर्द्ध । वैश्यं दूषयितुस्तदर्द्ध मपि । शूद्रं दूपयितुः प्रथमसाहसम् । कामकारेणास्पृश्यत्रैवर्णिकंस्पृशन् बध्यः ।
रजस्वलां शिफाभिस्ताडयेत् ।
प युद्यानोदक समीपे शुचिकारी पणशतं । तच्चापास्यात् ।
गृहभूकुड्याद्युपभेत्ता मध्यमसाहसं दण्ड्यः ।
तच्च योजयेत् ।
गृहेपीडाकरं द्रव्यं प्रक्षिपन् पणशतं ॥
पञ्चमोऽध्यायः ।
साधारण्यापलापी च । प्रोषितस्याप्रदाता च । पितृपुत्राचार्ययाज्यत्विजामन्योन्यापतितत्यागी च ।
नं च तान् जह्यात् ।
शूद्रप्रत्रजितानां देवे पित्र्ये भोजकश्च । अयोग्य कर्मकारी च । समुद्रगृहभेदकः ।
अनियुक्तः शपथकारी पशूनां पुंस्त्वोपवातकारी च । पितापुत्रविरोधे तु साक्षिणां दशपणो दण्डः । यस्तयोश्चान्तरः म्यात्तम्योत्तमसाहसम् ।
तुलामानकूटकमकत च ।
तदकूट कूटवादिनश्च द्रव्याणां प्रतिरूपविक्रयिकस्य च । सम्भूयवणिजां पण्यमनर्घेणावरुन्धतां ।
प्रत्येकं विक्रीणताश्च ।
[[४१७]]
गृहीतमूल्यं पण्यः तु कंतुनैव दद्यात्तस्यासौ सोदयं दाप्यः ।
राज्ञा च पणशतं दण्ड्यः ।
क्रीतमक्रीणतो या हानिः सा क्रेतुरेव स्यात् ।
राजबिनिषिद्धं विक्रीणतस्त उपहारः ।
तारिकः स्थलजं शुल्कं गृह्णन् दश पणान् दण्ड्यः । ब्रह्मचारिवानप्रस्थ भिक्षुगुत्रिणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्कमाददानश्च ।
तञ्च तेषां दद्याद् । द्यूते कूटाक्षदेविनां करच्छेदः । उपधिदेविनां सदेशच्छेदः । ग्रन्थिभेदकानां करच्छेदः । दिवा पशूनां वृकाद्युपघाते पाते त्वनापदि पालदोषः ।
[[२७]]
[[४१८]]
विष्णुस्मृतिः ।
विनष्टपशुमूल्य स्वामिने दद्यात् ।
अननुज्ञातां दुहन् पञ्चविंशतिकार्षापणान् दण्ड्यः । महिषीचे छस्यनाशं कुर्यात्तत्पालकत्व माषकान दण्डयः । अपालायाः स्वामी अवस्तू ट्रोगर्दभो वा ।
गौश्वत्तदर्द्ध तद्धं मजाविकं ।
भक्षयित्वोपविष्टेषु द्विगुणं ।
सर्वत्र स्वामिने विनप्रशस्यमूल्यश्च ।
पथिग्रामसीमान्ते न दोपः अनावृते च अल्पकानां
उत्सृष्टवृषभसूतिकानाञ्च ।
यस्तूत्तमवर्णान् दास्ये नियोजयेत्तम्योत्तमसाहसदण्डः । त्यक्तप्रब्रज्यो राज्ञोदास्यं कुर्य्यात् ।
भृतका पूर्णकाले भृतिं त्यजन् सकलमेव मूल्यं दद्यात् । राज्ञे च पणशतं दद्यात् तदोषेण यद्विनश्येत्तत् स्वामिने । अन्यत्र पोवघातात् ।
स्वामी चंद्घृतकमपूर्ण काले जह्यात्तस्य सर्व्वं मूल्यं दद्यात् । पणशतञ्च राजनि अन्यत्र भृतकदशेषात् ।
यः कन्यां पूर्वदत्तामन्यस्मै दद्यात् स चौरवच्छास्यः । वरदोषं विना निर्दोषां परित्यजन् पत्नीञ्च अजानन्- प्रकाशं यः परद्रव्यं क्रीणीयात्तत्र तस्यादोषः ।
स्वामी द्रव्यमाप्नुयात् ।
यद्यप्रकाशं हीनमूल्यञ्च क्रीणीयात्तदा क्रेता
विक्रेताच चौरवच्छास्यौ ।
पञ्चमोऽध्यायः ।
गणद्रव्यापहर्त्ता विवास्यः तत्सम्बिदं यश्च लयेत् । निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः ।
राज्ञा चौरखच्छ्रास्यः यश्वानिक्षिप्त’ निक्षिप्तमिति ब्रूयात् । सीमाभेत्तारमुत्तमसाहसं दण्डयित्वा पुनः
[[४१६]]
सीमां लिङ्गान्वितां कारयेत ।
जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः ।
अभक्ष्यस्याविक्रयस्य च विक्रयी देवप्रतिमाभेदक- श्रोत्तमसाहसं दण्डनीयः ।
भिषमिथ्याचरन्नुत्तमेषु पुरुषेषु ।
मध्यमेषु मध्यमं तिर्यक्षु प्रथमम् ।
प्रतिश्रुतस्याप्रदायी तदापयित्वा प्रथमसाहसं दण्डयः ।
कूटसाक्षिणां सवर्वस्वापहारः कार्यः ।
उत्कोचोपजीविनां सभ्यानाञ्च ।
गोचर्ममात्राधिकां भुवमन्यस्याधीकृतां तस्मादानिर्मोच्यान्यस्य यः प्रयेच्छेत् स वध्यः । ऊनाञ्चेत् षोड़शसुवर्णान् दण्ड्यः ।
एकोऽश्नीयाद्यदुत्पन्नं नरः सम्वत्सरं फलम् । गोच मात्रा सा क्षीणी स्तोका वा यदि वा बहुः ॥
ययोर्निक्षिप्तआधिस्तौ विवदेतां यदा नरौ ।
यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता ॥
सागमेन च भोगेन भुक्तं सम्यग्यदा भवेत् । आहर्त्ता लभते तत्र नापहार्य्यन्तु तत् क्वचित् ॥
[[४२०]]
विष्णुस्मृतिः ।
पित्रा भुक्तन्तु यद्द्रव्यं भुक्क्याचारेण धर्मतः । तस्मिन् प्रेसे न वाच्योऽसौ भुक्का प्राप्त हि तस्य तत् ॥ त्रिभिरेव च या भुक्का पुरुषैभूर्यथाविधि । लेख्याभारेऽपि तां तत्र चतुर्थः समवाप्नुयात ॥ नखिनां दंष्ट्रिणाञ्चैव शृङ्गिणामाततायिनाम् । हस्त्यश्वानां तथान्येषां बधं हन्ता न दोषभाक् ॥ गुरु वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ नाततायिबधे दोनो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृच्छति ॥ उद्यतासिविषाग्निञ्च शापोद्यतकरं तथा । आथर्व्वणन हन्तारं पिशुनञ्चैव राजसु ॥ भार्यातिक्रामणञ्चैव विद्यात् सप्ताततायिनः । यशोवितहरानन्यानाहुधर्मार्थहारकान् ॥ उद्देशतस्ते कथितो धरे ! दण्डविधिर्मया । सर्वेषामपराधानां विस्तरादतिविस्तरः ॥ अपराधेषु चान्येषु ज्ञात्वा जातिं धनं वयः । दण्डं प्रकल्पम्येद्राजा सम्मन्त्र्य ब्राह्मणैः सह ॥ दण्ड्यं प्रमोचयन् दण्ड्याद् द्विगुणं दण्डमावहेत् । नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः ॥ यस्य चौरः पुरे नास्ति नान्यस्त्रोगो न दुष्टवाक्। न साहसिकौ स राजा शक्रलोकभाक् ॥
इति वैष्णवे धर्मशास्त्रे पञ्चमोऽध्यायः ॥
अथ षष्टमोऽध्यायः ।
अथोत्तमर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् ।
द्विकं त्रिकंचतुकं पञ्चकञ्च शतं वर्णानुक्रमेण प्रतिमासम् सर्व वर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः । अकृतामपि वत्सराति क्रमेण यथाविहिताम् । आध्युपभोगेवृद्धयभावः ।
देवराजोपवाताहते विनमाधिमुद्रमर्णो दद्यात् । अन्तवृद्धौ प्रविष्टायामपि ।
न स्थावरमाधिमृते वचनात् गृहीतधनप्रवेशार्थमेव यत् स्थावरं दत्तं तद्गृहीतधनप्रवेशे दद्यात् ।
दीयमानं प्रयुक्तममुत्तमर्णस्यागृहतस्ततः परं न बर्द्धते । हिरण्यस्य परा वृद्धिर्द्विगुणा । धान्यस्य त्रिगुणा । वस्त्रस्य चतुर्गुणा । सन्ततिः स्त्रीपशूनाम् । किण्वकार्पाससूत्रचर्माष्टकाङ्गाराणामक्षया ।
अनुक्तानां द्विगुणा ।
[[४०१]]
प्रयुक्तमर्थं यथाकथञ्चित् साधयन्न राज्ञो वाच्यः स्यात् । साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः । उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमर्णो राज्ञे
धनदशभागसम्मितं दडं दद्यात् ।
प्राप्तार्थश्चोत्तमर्णो विंशतितममंशम् ।
सर्व्वापलाप्येकदेशविभावितोऽपि सर्वं दद्यात् ।
तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समक्रिया च ।
ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् ।
[[४२२]]
विष्णुस्मृतिः ।
लिखितार्थप्रविष्टो लिखितं पाटयेत् ।
असमप्रदाने लेख्यासन्निधाने चोत्तमर्णालिखितं दद्यात् । धनग्राहिणि प्रेते प्रब्रजिते द्विदशसमाः प्रवसिते वा तत्पुत्रपौत्रैर्धनं देयम् । नातः परमनीप्सुभिः । सपुत्रस्य वाज्पुत्रस्य वा स्थग्राहो ऋणं दद्यात् । निर्धनस्य स्त्रीग्राही । न स्त्री पतिपुत्रकृतम् । नस्त्रीकृतं पतिपुत्री न पिता पुत्रकृतम् । अविभभकः कृतमृणं यस्तिष्ठेन स दद्यात् । पैतृकमृणमविभक्तानां भ्रातॄणाञ्च । विभक्ताश्च दायानुरूपमंशम् ।
દ
गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पतिर्दद्यान । वाक्प्रतिपन्न नादेयं कस्यचित्। कुटुम्बार्थे कृतश्च । यो गृहीत्वा ऋणं सर्व श्वोदास्यामीतिसामकम् । न लोभतः पश्चात्तथा वृद्धिमवानुयात् ॥ दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । आद्यौ तु वितथे दाप्यावितरम्य सुता अपि ॥ बहवश्चंत प्रतिभुवो दद्युस्तेऽथं यथाकृतम् । अर्थेऽविशपिते तेषु धनिकच्छन्दनः क्रिया ॥ यमर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः । ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ॥
इति वैष्णवे धर्मशास्त्रे पष्ठोऽध्यायः ॥सप्तमोऽध्यायः ।
अथ लेख्यं त्रिविधं राजसाक्षिकं ससाक्षिकमसाक्षिकच । राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकम् ।
यत्र क्वचन येन केनचिल्लिखितं
साक्षिभिः स्वहस्त चिह्नितं ससाक्षिकम् ।
स्वहस्तलिखितमसाक्षिकम । तद्बलात्कारितमप्रमाणम् ।
उपकृताच सर्व एव ।
दृषितकर्म दुसाक्ष्यं तत्समाक्षिकमपि ।
तादृग्विधेनलिखितश्च ।
स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतश्च ।
[[४२३]]
देशाचाराविरुद्ध व्यक्ताधिकृतलक्षणमलुपक्रमाक्षरं प्रमाणम ।
वर्णैश्च तत्कृतैचिह्नः पत्रैरेव च युक्तिभिः । सन्दिग्धं साधयेल्लेख्यं तद्यक्तिप्रतिरूपितैः ॥ यत्रण धनिको वापि साक्षी वा लेखकोऽपि वा । म्रियते यत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् ॥
इति वैष्णवे धर्मशास्त्र सप्तमोऽध्यायः ॥
[[४२४]]
विष्णुस्मृतिः ।
अथाष्टमोऽध्यायः ।
अथ साक्षिणः न राजश्रोत्रियप्रत्रजितकितबतस्करपराधीन-
स्त्रीबालसाहसिकातिवृद्धमत्तोन्मत्ताभिशस्तपतितक्षु-
तृष्णार्त्तव्यसनिरागान्धाः ।
एकश्वासाक्षी ।
रिपुमित्रार्थसम्बन्धिविकर्मदृष्टदोषसहायाश्च । अनिद्दिस्तु साक्षित्वं यश्चोपेत्य ब्रूयान । स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः ।
अथ साक्षिणः कुलजावृत्त वित्तसम्पन्ना यज्वनस्तपस्विनः पुत्रिणोधर्मज्ञाअधीयानाः सत्यवन्त त्रैविद्यवृद्धाश्च । अभिहितगुणसम्पन्न उभयानुमतएकोऽपि ।
द्वयोर्विवदमानयोर्यस्य पूर्ववादस्तस्य साक्षिणः प्रटव्याः । आधय्यं कार्यवशाद्यत्र पूर्वपक्षस्यभवेत्तत्र प्रतिवादिनोऽपि । उसाक्षिणि मृते देशान्तरगते वा तदभिहितज्ञातारः प्रमाणम समक्षदर्शनात् साक्षी श्रवणाद्वा ।
साक्षिणश्च सत्येन पूयन्ते । वर्णिनां यत्र वधस्तत्रानृतेन । तत्पावनाय कुष्माण्डीभिर्द्विजोऽग्नि जुहुयात ।
शूद्र एकाहिकं गोदशकस्य ग्रासं दद्यात् ।
स्वभावविकृतौ मुखवर्णविनाशेऽसम्बद्धप्रलापे च कूटसाक्षिणं विद्यात् ।
साक्षिणश्चाहूयादित्योदये कृतशपथान् पृच्छेत् ।
ब्रूहीति ब्राह्मणं पृच्छंत । सत्यं ब्रूहीति राजन्यम ।
अष्टमोऽध्यायः ।
[[४२५]]
गोवीजकाञ्चनैर्वैश्यम् ।
सर्वमहा पातकैन्तु शूद्रम । सर्वमहापातकैन्तु
साक्षिणः श्रावयेत् ।
ये महापातकिनो लोका ये चोपपातकिनस्ते कूटसाक्षिणामपि ।
जननमरणान्तरे कृतहानिश्च ।
सत्येनादित्यस्तपति सत्येन भाति चन्द्रमाः । सत्येन वाति पवन । सस्येन मूर्धारयति । सत्येनापति उन्ति । सत्येनाग्निस्ति उति ।
खबच सत्येन । सत्येन देवाः । सत्येन यज्ञाः ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ जानन्तोऽपि हि ये साक्ष्ये तुग्रीम्भूता उपासते । ते कूटसाक्षिणां पापैस्तुल्या दण्डेन वाप्यथ ॥ एवं हि साक्षिणः पृच्द्वर्णानुक्रमतो नृपः । यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ॥ अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः । बहुत्वं प्रतिगृह्णीयात् साक्षिद्वैधे नराधिपः ॥ समेषु च गुणोत्कृष्टान् गुणिद्वैधं द्विजोत्तमान् । यस्मिन् यस्मिन् विवादे तु कूटसाक्ष्यनृतं वदेत । तत्तत्कार्यं निवर्त्तेत कृतं वाप्यकृतं भवेत् ॥
इति वैष्णवे धर्मशास्त्रेऽष्टमोऽध्यायः ॥
[[४२६]]
विष्णुस्मृतिः ।
॥ अथ नवमोऽध्यायः ॥
अथ समयक्रिया ॥
राजद्रोहसाहसेषु यथाकामम् । निक्षेपस्तेयेष्वर्थप्रमाणम् । सर्वेष्येवार्थेषु मूल्यं कनकं कल्पयेत ।
तत्र कृष्णलोने शूद्रं दुर्वाकरं शापयेत् ।
द्विकृष्णलोने तिलकरम । त्रिकृष्णलोने रजतकरम् । चतु कृष्णलोने सुवर्णकरम् ।
पञ्चकृष्णलोने शीतोद्धृतमहीकरम ।
सुवर्णार्द्ध कोशो देयः शूद्रस्य ।
ततः परं यथा घटाग्न्युदकविशेपाणामन्यतमम् । द्विगुणेऽर्थे यथाभिहिता समयक्रिया वैश्यस्य । त्रिगुणं राजन्यस्य । कोशबजं चतुर्गुण ब्राह्मणस्य । न ब्राह्मणस्य कोशं दद्यात् । अन्यत्रागामिकालसमयनिबन्धनक्रियातः ।
कोशस्थाने ब्राह्मणं शीतोद्घृतमहीकरमेव शापयेत् । प्रागष्टदोषमल्पेयर्थे दिव्यानामन्यतम मेव कारयेत । सत्सु विदितसच्चरित्रं न महत्यर्थेऽपि ।
अभियोक्ता वर्त्तयेच्छ्रीर्ष । अभियुक्तच दिव्यं कुर्यात् । राजद्रोहसाहसेषु विनापि शीर्षवर्त्तनात् ।
स्त्री ब्राह्मण विकलासमर्थरोगिणां तुला देया ।
दशमोऽध्यायः ।
[[४२७]]
सा च न वाति वायौ ।
न कुष्ठसमर्थ लोहकाराणामग्निर्देयः ।
शरदुग्रीष्मयोश्च न कुष्ठिपैत्तिकब्राह्मणानां विषं देयं-
प्रावृषि च न श्लेष्मव्याध्यर्द्दितानां भीरुणां-
श्वासकासिनामम्बुजी विनाव्चोदकम् ।
हेमन्त शिशिरयोश्च नास्तिकेभ्यः कोशो देय - न दशे व्याधिमयकोपसृष्ट च ।
सचैल स्नातमाय सूर्योदय उपोषितम् । कारयेत् सर्वदिव्यानि देवब्राह्मणसन्निधौ ॥
इति वैष्णवे धर्मशास्त्रे नवमोऽध्यायः ॥
॥ अथ दशमोऽध्यायः ॥
अथ घटः ।
चतुहरताच्छितो द्विहस्तायतः ।
तत्र सारवृक्षोद्भवपश्वस्तायतोभयतः शिक्या तुला । ताभ्व सुवर्णकारकांस्यकाराणामन्यतमोविध्यात् ।
तत्र चैकस्मिन् शिक्ये पूरुपमारोपयेद्वितीये प्रतिमानं शिलादि । प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषमवतारयेत् । घटञ्च समयेन गृह्णीयात् तुलाधारभ्य ॥
[[४२८]]
विष्णुरमृतिः ।
ब्रह्मनो ये स्मृता लोका ये लोकाः कूटसाक्षिणः । तुलाधारस्य ते लोकास्तुलां धारयतोमृषा ॥ धर्मपर्यायवचनैर्घट इत्यभिधीयते ।
त्वमेव घट ! जानीषं न विदुर्यानि मानुषाः ॥ व्यवहाराभिशस्तो त्र्यं मानुष स्तुल्यते त्वयि । तदेनं संशयादस्माद्धर्मतत्रातुमर्हसि ॥ ततत्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् । तुलितो यदि वर्द्धत ततः स धर्मतः शुचिः ॥ शिक्यच्छदे क्षभङ्गपु भूयस्त्वारोपयेन्नरम् । एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥
इति वैष्णवे धर्मशास्त्रं दशमोऽध्यायः ॥
॥ अथ एकादशोऽध्यायः ॥
अथाग्निः ।
षोडशाङ्गुलं तावदन्तरं मण्डलं सप्तकं कुर्यात् ।
ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थ पत्राणि
करयोर्दद्यात् ।
तानि च करद्वयसहितानि सूत्रेण वेष्टयेत् ।
एकादशोऽध्यायः ।
ततस्तत्राग्निवर्ण लोहपिण्डं पञ्चशत्पलिकं संन्यसेन ।
[[४२६]]
तमादाय नातिद्रतं नाविलम्बितं मण्डलेषु पदन्यासं कुर्वन व्रजेत् । ततः सप्तम मण्डलमतीत्य भूमौ पिण्डं जह्यात् ।
यद्यन्यचिह्नितकरस्तमशुद्धं विनिद्दिशत । न दग्धः सर्वथा यस्तु स वै शुद्धो भवेन्नरः ॥ भयाद्वा पातयेयस्तु दग्धो वा न विभाव्यते । पुनस्तं धारयेत् पिण्डं समयस्याविशोधनात ॥ करौ विमृदितत्रहस्तस्यादादेव लक्षयेत् । अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेन ॥ त्वमग्ने ! सर्व्वभूतानामन्तञ्चरसि साक्षिवत् । त्वमेवाग्ने ! विजानीपं न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥
इति वैष्णवे धर्मशास्त्र एकादशोऽध्यायः ॥
[[४३०]]
विष्णुस्मृतिः ।
॥ अथ द्वादशोऽध्यायः ।
अथौदकम् ।
पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि ।
तत्र नाभिमग्नस्यारागद्वेपिणः पुरुपस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितस्तम्भः प्रविशेत् ।
तत्समकालश्च नातिक्रूर मृदुना धनुषा पुरुषोऽपरः शरक्षेपं कुर्यात् ।
तच्चापरच पुरुपो यवेन शरमानयेत् । तन्मध्ये यो न दृश्येत म शुद्धः परिकीर्तितः ॥ अन्यथा त्वविशुद्धः स्यादेकाङ्गस्यापि दर्शने । त्वमम्भः ! सर्वभूतानामन्तश्चरसि साक्षिवत् ॥ त्वमेवाम्भो । विजानीपं न विदुर्यानि मानुषाः ।
! व्यवहाराभिशप्तोऽयं मानुपस्त्वयि मज्जति । तदेनं संशयादस्माद्धर्मतन्त्रातुमर्हसि ॥
इति वैष्णवे धर्मशास्त्रे द्वादशोऽध्यायः ॥
त्रयोदशोऽध्यायः ।
॥ अथ त्रयोदशोऽध्यायः ॥ अथ विषम् ।
विषाण्यदेयानि सर्व्वानि ते हिमाचलोद्भवाच्छ्राङ्गत् । तस्य च यवसप्तकं घृतप्लुतमभिशस्तायदद्यात् ।
विषं वेगक्रमापेतं सुखेन यदि जीर्यते । विशुद्धं तमिति ज्ञत्या दिवसान्ते विसर्जयेत् ॥ विपत्वाद्विषमत्याच्च क्रूर ! त्वं सर्वदेहिनाम् । त्वमेव विप ! जानीपं न विदुर्यानि मानुषाः ॥ व्यवहाराभिशम्तोऽयं मानुषः शुद्धिमिच्छति । नदेनं संस्यादस्माद्धर्मतस्त्रातुमर्हसि ॥
इति वैष्णव धर्मशास्त्र त्रयोदशोऽध्यायः ॥
॥ अथ चतुर्दशोऽध्यायः ॥
अथ कोशः ।
[[11]]
[[४३१]]
उग्रान् देवान समभ्यर्च्चय तत्स्नानोदकात् प्रसृतित्रयं पिवेत ।
इदं मया न कृतमिति व्याहरन् देवताभिमुखः । यस्य पश्येद्विसप्ताहात्त्रिसप्ताहादथापि वा ॥ रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा । तमशुद्ध विजानीयात्तथा शुद्ध विपर्यये । दिव्ये च शुद्धं पुरुषं सत्कुद्धार्मिको नृपः ॥ इति वैष्णवे धर्मशास्त्रे चतुर्द्दशोऽध्यायः ॥
[[४३२]]
विष्णस्मृतिः ।
॥ अथ पञ्चदशोऽध्यायः ॥
अथ द्वादश पुत्रा भवन्ति ।
त्रे क्षेत्र संस्कृतायामुत्पादितः स्वयमौरसः प्रथमः । नियुक्तायां सपिण्डेोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः । पुत्रिकापुत्रस्तृतीयः ।
यस्तस्याः पुत्रः स मे पुत्रोभवेदिति या पित्रा दत्ता सा पुत्रिका- पुत्रिकाविधिना प्रतिपादिता पितृभ्रातृविहीना पुत्रिव । पौनर्भवश्चतुर्थः अक्षता भूयः संस्कृता पुनर्भूः ।
भूयस्त्वसंस्कृतापि परपूर्वा । कानीनः पञ्चमः । पितृगृहेऽसंस्कृतयैवोत्पादितः ।
स च पाणिग्राहस्य गृहे च गूढोत्पन्नः पष्ठः । यस्य तल्पजस्तस्यासौ सहोदः सप्तमः ।
गर्भिणी या संस्कृयते तस्याः पुत्रः स च पाणिग्राहस्य -
दत्तकचाःमः ।
स च मातापितृभ्यां यस्य दत्तः क्रीतश्च नवमः । स च येन क्रीतः स्वयमुपगतो दशमः ।
स च यस्योपगतः अपविद्धस्त्वेकादशः ।
पित्रा मात्रा च परित्यक्तः स च येन गृहीत - यत्र वचनोत्पादितश्च द्वादशः ।
एतेषां पूर्वः पूर्वः श्रयान् । स एव दायहारः । । स चान्यान्विभृयात् ।पञ्चदशोऽध्यायः ।
अनूढानां स्ववित्तानुरूपेण संस्कारं कुर्यात् । पतितक्लीवाचिकित्सरोगविकला स्त्वभागहारिणः । ऋक्थग्राहिभिस्ते भर्त्तव्याः ।
तेपाञ्चौरसाः पुत्रा भागहारिणः ।
न तु पतितस्य पतनीये कर्मणि कृते त्वनन्तरोत्पन्नाः । प्रतिलोमासु स्त्रीपु चोत्पन्नाश्चाभागिनः
तत्पुत्राः पैतामहऽज्यर्थे अंशप्राहिभिस्ते भरणीयाः ।
यश्चार्यहरः स पिण्डदायी । : ।
एकोढानामप्येकस्याः पुत्रः सर्वासां पुत्र एव च । भ्रातॄणामेकजातानाञ्च ।
पुत्रः पितृवित्तालाभेऽपि पिण्डं दद्यात् ।
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ऋणमस्मिन् सन्नयति अमृतत्वश्च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चज्जीवतोमुखम् ॥ पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति पिष्टपम् । पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते । दौहित्रोऽपि ह्यपुत्रं तं सन्तारयति पौत्रवत् ॥
इति वैष्णवे धर्मशास्त्रे पञ्चदशोऽध्यायः ॥
४३३ः
[[२८]]
[[४३४]]
विष्णुस्मृतिः ।
॥ अथ षोडशोऽध्यायः ॥
समानवर्णासु पुत्राः सवर्णा भवन्ति । अनुलोमासु मातृवर्णाः । प्रतिलोमास्वार्य्यविगर्हिताः । तत्र वैश्यापुत्रः शूद्रेणायोगवः । पुक्कसमागधौ क्षत्रियापुत्रौ वैश्यशूद्राभ्यां । चाण्डालवैदेहकसुताश्च ब्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः । सङ्करसङ्कराश्वा संख्येयाः । रङ्गावतरणमायोगवानां । व्याधता पुकसानां । स्तुतिक्रिया मागधानां । बध्यघातित्वं चाण्डालानाम् ।
स्त्रीरक्षा तज्जीवनश्च वैदेहकानाम्। अश्वसारथ्यं सूतानां । चाण्डालानां वहिग्रमनिवसनं मृतचैलधारणमिति विशेषः । सर्व्वेषाञ्च समानजातिभिर्विहाराः स्वपितृवित्तानुहरणच ।
सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्म्मभिः ॥ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृत । स्त्रीबालाभ्युपपत्तौ च वाह्यानां सिद्धिकारणम् ॥
इति वैष्णवे धर्मशास्त्रे पोडशोऽध्यायः ॥
**:
॥ अथ सप्तदशोऽध्यायः ॥
पिता चेत् पुत्रान् विभजेत्तस्य स्वेच्छा स्वयमुपात्तंऽर्थे ।
पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वम् ।
सप्तदशोऽध्यायः ।
पितृविभक्ताविभागानन्तरोत्पन्नस्य भागं दद्युः ।
अपुत्रस्य धनं पन्यभिगामि । तदभावे दुहितृगामि ।
तदभावे पितृगामि । तदभावे मातृगामि ।
तदभावे भ्रातृगामि । तदभावे भ्रातृपुत्रगामि ।
तदभावे बन्धुगामि । तदभावे सकुल्यगामि ।
तदभावे सहाध्यायिगामि ।
[[४३५]]
तदभावे ब्राह्मणधनवज्रं राजगामि । ब्राह्मणार्थी ब्राह्मणानाम् ।
वानप्रस्थधनमाचार्यो गृह्णीयात शिष्योवा ।
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । दद्यादपहरेचांशं जातस्य च मृतस्य च ॥ पितृमातृसुतभ्रातृदत्तमध्यग्न्युपागतम् ॥
आधिवेदनिकं बन्धुदत्तं शुल्कमन्वाधेयकमिति स्त्रीधनम् । ब्राह्मादिषु चतुर्षु विवाहेष्वप्रजायामतीतायां तद्भर्त्तुः ।
शेषषु च पिता हरेत् ।
सर्वेष्वेव प्रसूतायां यद्धनं तदुहितृगामि ।
पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ अनेकपितृकाणाञ्च पितृतो भागकल्पना । यस्य यत् पैतृकं रिक्थं स तद्गृहीत नेतरः ॥ इति वैष्णवं धर्मशास्त्रे सप्तदशोऽध्यायः ॥
[[४३६]]
विष्णुस्मृतिः ।
॥ अथ अष्टादशोऽध्यायः ॥
ब्राह्मणस्य चतुर्षु वर्णेषु चेत्पुत्रा भवेयुस्ते पैतृकमृक्थं दशधा-
विभजेयुः तत्र ब्राह्मणीपुत्रश्चतुरोंऽशानादद्यात । क्षत्रियापुत्रस्त्रीन् । द्वावंशौ वैश्यापुत्रः । शूत्रापुत्रस्त्वेकं अथ चंच्छूद्रापुत्रवर्ज ब्राह्मणस्य पुत्रत्रयं-
भवेत्तदा तद्धनं नवधा विभजेयुः ।
वर्णानुक्रमेण चतुस्त्रिद्विभागकृतानंशानादद्युः ।
वैश्य वर्ज मधाकृतं चतुरस्त्रीनेकश्चादद्यः । क्षत्रियवज्जं सप्तधाकृतं चतुरो द्वावेकञ्च ।
ब्राह्मणवर्ज पड्धाकृतं त्रीन् द्वावेकञ्च । क्षत्रियस्य क्षत्रियावैश्यशूद्रापुत्रेष्वयमेव विभागः ।
अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्यातां तदा सप्तधा-
कृताद्धनाद् ब्राह्मणश्चतुरोऽशानादद्यात्त्रीन् राजन्यः । अथ ब्राह्मणस्य ब्राह्मणवैश्यौ तदा षड्धाविभक्तस्य-
चतुरोऽशान् ब्राह्मण आदद्याद्वावंशौवैश्यः । अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां तदा तद्धनं- पञ्चधा विभजेयातां चतुरोऽशान् ब्राह्मणस्त्वादद्यादेकं शूद्रः । अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ स्यातां तदा तद्धनं- पञ्चधा विभजेयातां त्रीनंशान् क्षत्रियस्त्वादद्य । द्वावंशौ वैश्यः। अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां तदा- तद्धनं चतुर्द्धा विभजेयातां त्रीनंशान् क्षत्रियस्त्वादद्यादेकं शूद्रः । अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्यातां-
अष्टादशोऽध्यायः ।
[[४३७]]
स्यातां तदा तद्धनं त्रिधा विभजेयातां द्वावंशौ वैश्यस्त्वा-
दद्यादेकं शूद्रः ।
अथैकपुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः ।
क्षत्रियस्य राजन्यवैश्यौ । वैश्यस्य वैश्याः । शूद्रः शूद्रम्य ।
द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्द्ध हरः ।
अपुत्रऋक्थस्य या गतिः सात्रार्द्धम्य द्वितीयस्य ।
मातरः पुत्रभागानुसारेण भागहारिण्यः ।
अनूढाश्च दुहितरः । समवर्णाः पुत्राः समानंशानादद्युः । ज्येष्ठाय श्रेष्ठमुद्धारं दद्युः ।
यदि द्वौ ब्राह्मणीपुत्रौ स्यातामेकः शूद्रापुत्र स्तदा ब्राह्मणपुत्रा- वौ भागानादद्य तामेकं शूद्रापुत्रः ।
अथ शूद्र । पुत्रावुभौ स्यातामेकोब्राह्मणीपुत्रस्तदा षड्विभक्त- म्यार्थस्य चतुरोऽशान् ब्राह्मणस्त्वादद्य द्वावंशौ शूद्रापुत्रौ । अनेन क्रमेणान्यत्राप्यंशकल्पना भवति ।
विभक्ताः सहजीवन्तो विभजेरन् पुनर्यदि । समस्तत्र विभागः स्याज्ज्यैष्ठ तत्र न विद्यते ॥ अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम् । स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ पैतृकन्तु यदा द्रव्यमनवाप्य यदाप्नुयात् । न तत् पुत्रैर्भजेत् सार्द्ध मकामः स्वयमर्जितम् ॥ वस्त्रं पामलङ्कारः कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारञ्च न विभाज्यश्च पुस्तकम् ॥
इति वैष्णवे धर्मशास्त्रेऽष्टादशोऽध्यायः ॥
[[४३८]]
विष्णुस्मृतिः ।
॥ अथ एकोनविंशोऽध्यायः ॥
मृतं द्विजं न शूद्रेण निर्धारयेत् ।
न शूद्रंद्विजेन ।
पितरं मातरञ्च पुत्रानिईरेयुः ।
न द्विजं पितरमपि शूद्राः ब्राह्मणमनाथं ये ब्राह्मणा-
निर्हरन्ति ते स्वर्गलोकभाजः ।
निर्हृत्य च बान्धवं प्रेतं सत्कृत्याप्रदक्षिणेन चितामभि-
गम्याप्सु सवाससो निमज्जनं कुर्युः ।
प्रतस्योदक निर्वापणं कृत्वैकपिण्डं कुशेषु दद्युः ।
परिवर्त्तितवाससश्च निम्वपत्राणि विदश्य द्वाय्र्य्यश्मनि-
पदन्यासं कृत्वा गृहं प्रविशेयः ।
अक्षतांश्चाग्नौ क्षिपेयुः चतुर्थे दिवसेऽस्थिसञ्चयं कुर्युः । तेषाञ्च गङ्गाम्भसि प्रक्षेपः ।
यावत् सङ्घन्यमस्थि पुरुषस्य गङ्गाम्भसि तिष्ठति -
तावद्वर्षसहस्राणि स्वर्गलोकमधितिष्ठति ।
यावदाशौचं तावत् प्रेतस्योदकं पिण्डमेकञ्च दद्यः ।
क्रीतलन्धाशनाश्च भवेयुः । अमांसाशनाश्च ।
स्थण्डिलशायिनश्च । पृथक शायिनश्च ।
प्रामान्निष्क्रम्याशौचान्ते कृतश्मश्रुकर्माणस्तिलकल्कः- सर्पपककै स्नाताः परिवर्तितवाससो गृहं प्रविशेयुः । तत्र शान्ति कृत्वा ब्राह्मणानाञ्च पूजनं कुर्युः । देवाः परोक्षदेवाः प्रत्यक्ष देवा ब्राह्मणाः । ब्राह्मणैर्लोका धार्यन्ते ।
विंशोऽध्यायः ।
[[४३६]]
ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः । ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते कचित ॥ यद्ब्राह्मणास्तुतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति । तुषु तुष्टाः सततं भवन्ति प्रत्यक्ष देवेषु परोक्षदेवाः ॥ दुःखान्वितानां मृतबान्धवानामाश्वासनं कुर्युरदीनसत्त्वाः । वाक्यैस्तुयभूमि तवाभिधास्ये वाक्यान्यहं तानि मनोऽभिरामे ॥
इति वैष्णवे धर्मशास्त्रे एकोनविंशोऽध्यायः ॥
॥ अथ विंशोऽध्यायः ॥
यदुत्तरायणं तदहद्देवानाम् । दक्षिणायनं रात्रिः । सम्बत्सरोऽहोरात्रः तत्रिंशता मासाः मासा द्वादश वर्षम् । द्वादशवर्षशतानि दिव्यानि कलियुगम्। द्विगुणानि द्वापरम् । त्रिगुणानि त्रेता चतुर्गुणानि कृतयुगम-
द्वादशवर्षसहस्राणि दिव्यानि चतुर्युगम ।
चतुर्युगानामेकसप्ततिर्मन्वन्तरम् । चतुर्युगसहस्रञ्च कल्पः । स च पितामहस्याह । तावती चास्य रात्रिः । एवंविधेनाहोरात्रेण मासवर्षगणनया सर्व्वस्यैव-
ब्रह्मणोवर्षशतमायुः ।
ब्रह्मायुषा च परिच्छिन्नः पौरुषो दिवसः । तस्यान्ते महाकल्पः । तावत्येवास्य निशा ।
[[४४०]]
विष्णुस्मृतिः ।
पौरुषाणामहोरात्राणामतीतानां संख्यैव नास्ति । नच भविष्याणाम् । अनाद्यन्तता कालस्य ॥ एवमस्मिन्निरालम्बे काले सततयायिनि । न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्भुवा ॥ गङ्गायाः सिकताधारास्तथा वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ चतुर्द्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः । सर्वलोकप्रधानाश्च मनवश्च चतुर्द्दश ॥
बहूनीन्द्रसहस्राणि दैत्येन्द्र नियुतानि च । विनष्टानीह कालेन मनुजेष्वथ का कथा ॥ राजर्षयश्च बहवः सर्वे समुदिता गुणैः । देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ॥ ये समर्था जगत्यस्मिन् सृष्टिसंहारकारिणः । तेऽपि कालेन लीयन्ते कालोहि दुरतिक्रमः ॥ आक्रम्य सर्वः कालेन परलोकञ्च नीयते । कर्मपाशवशो जन्तुः का तत्र परिदेवना ॥ जातस्य हि ध्रुवो मृत्युधु वं जन्म मृतस्य च । अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता ॥ शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ सुकृतं दुष्कृतश्वोभौ सहायौ यस्य गच्छतः । बान्धवैस्तस्य किं कार्यं शोचद्भिरथवा न वा ॥
विंशोऽध्यायः ।
बान्धवानामशौचे तु स्थिति प्रेतो न विन्दति । अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ॥ अर्वाक् सपिण्डीकरणात् प्रेतो भवति यो मृतः । प्रेतलोकगतम्यानं सोदकुम्भं प्रयच्छत । पितृलोकगतश्चान्नं श्राद्ध भुङ्क्ते स्वधामयम । पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत ॥ देवत्वे यातनास्थाने तिर्य्यग्योनौ तथैव च । मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ॥ प्रेतस्य श्राद्धकर्त्तुश्च पुष्टिः श्राद्ध कृते ध ुवम् । तस्माच्छाद्ध सदा कार्य शोकं त्वक्ता निरर्थकम् ॥ एतावदेव कर्त्तव्यं सदा प्रेतस्य बन्धुभिः । नोपकुर्यान्नरः शोकात् प्रेतस्यात्मन एव वा ॥ दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान् । धर्ममेकं सहायार्थं वरयध्वं सदा नराः ! ॥ मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् । जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते ॥
धर्मएकोऽनुयात्येनं यत्र क्वचन गामिनम् । नन्वसारे नृलोकेऽस्मिन् धर्मं कुरुत मा चिरम् ॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्न चापराह्निकम् । न हि प्रतीक्षते मृत्युः कृतं वास्य न वाऽकृतम् ॥ क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् । वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥
।
[[४४१]]
[[४४२]]
विष्णुस्मृतिः ।
न कालस्य प्रियः कश्चिद्वेष्यश्चास्य न विद्यते । आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥ नाप्राप्तकालो त्रियते बिद्धः शरशतैरपि । कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः । त्रायान्ते मृत्युनोपेतं जरया वापि मानवम् ॥ आगामिनमनथं हि प्रविधानशतैरपि । न निवारयितुं शक्तस्तत्र का परिदेवना ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्त्तारं विन्दते ध्रुवम् ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ । अव्यक्त निधनान्येव तत्र का परिदेवना ॥ देहिनोऽस्मिन यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ गृह्णातीह यथा वस्त्रं त्यक्ता पूर्वधृताम्बरम । गृह्णा त्येवं नवं देहं देही कम्मनिबन्धनम् ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । नचैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ अच्छंद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हथ ॥
इति वैष्णवे धर्मशास्त्र विंशोऽध्यायः ॥
1॥ अथ एकविंशोऽध्यायः ॥
[[४४३]]
अथाशौचव्यपगमे सुनातः सुप्रक्षालितपाणिपाद आचा- न्तस्त्वेवंविधान् ब्राह्मणान् यथाशक्त्युदङ्मुखान् गन्धमाल्य- वस्त्रालङ्कारादिभिः पूचितान् भोजयेत ।
एकवन्मन्त्रानृतै कोद्दिष्टं ।
उच्छिष्टसन्निधावेकमेव तन्नामगोत्राभ्यां पिण्डं निर्वपेत् । भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्तक्षय्योदकश्चतुरङ्गुलपृथ्वीस्तावदन्तरास्ताबधःखाता वितस्त्यायतास्तिस्रः कर्पूः कुर्यात् ।
कर्पू समीपे चामित्रयमुपसमाधाय परिस्तीर्य्य तत्रैक- कस्मिन्नाहुतित्रयं जुहुयात् ।
सोमाय पितृमते स्वधा नमः ।
अग्नये कव्यवाहनाय स्वधा नमः ।
यमायाङ्गिरसे स्वधा नमः ।
स्थानत्रये च प्राग्वत्पिण्डनिर्वापणं कुर्य्यात् ।
अन्नदधिघृतमधुमांसः कर्पू त्रयं पूरयित्वेतदिति जपेन । एवं मृताहे प्रतिमासं कुर्यात् ।
सम्बसरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय -
च ब्राह्मणान् देवपर्व्वान् भोजयेत् ।
अत्रानौकरणमावाहनं पाद्यञ्च कुर्य्यात् ।
संसृजतु त्वा पृथिवीसमानीव इति च प्रतपाद्यपात्रे -
पितृपाद्यपात्रत्रये योजयेत् ।
उच्छिष्टसन्निधौ पिण्डचतुष्टयं कुर्य्यात् ।
[[४४४]]
विष्णुस्मृतिः ।
ब्राह्मणांश्च स्वाचान्तान्दत्तदक्षिणांश्चानुब्रज्य विसर्ज्जयेत् । ततः प्रेतपिण्डं पाद्यपात्रोदकवत् पिण्डत्रये निदध्यात् । कर्पूत्रयसन्निकर्षेऽप्येवमेव ।
सपिण्डीकरणं मासिकार्थवद्वादशाहं श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्य्यात् ।
मन्त्रवर्ज हि शूद्राणां द्वादशेऽह्नि ।
सम्वत्सराभ्यन्तरे यद्यधिमासो भवेत्तदा मासिकार्थे दिनमेकञ्च वद्ध येत् ।
सपिण्डीकरणं स्त्रीणां कार्य्यमेवं तथा भवेत् । यावज्जीवं तथा कुर्याच्छाद्धन्तु प्रतिवत्सरम् ॥ अर्वाक् सपिण्डीकरणं यस्य सम्बत्सरात् कृतम् । तस्याप्यन्न सोदकुम्भं दद्याद्वषं द्विजन्मने ॥
इति वैष्णवे धर्मशास्त्र एकविंशोऽध्यायः ॥
॥ अध द्वाविंशोऽध्यायः ॥
ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहमशौचम् । द्वादशाहं राजन्यस्य । पञ्चदशाहं वैस्यस्य । मासं शूद्रस्य । सपिण्डता च पुरुषे सप्तमे विनिवर्त्तते 1
अशौचे होमदानप्रतिग्रहस्वाध्याया निवर्त्तन्ते ।
नाशौचे कस्यचिदन्नमश्नीयात् ।
द्वाविंशोऽध्यायः ।
ब्राह्मणादीनामशौचे यः सकृदेवान्नमश्नाति तस्य-
तावदशौचं यावत्तेषाम् ।
अशौचापगमे प्रयश्चित्तं कुर्य्यात् ।
सवर्णस्याशौचे द्विजो भुक्ता स्रवन्तीमासाद्य तन्निमन्न- स्त्रिरघमर्षण जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् । क्षत्रियाशौचं ब्राह्मणरत्येतदेवोपोषितः कृत्वा शुद्धति । वैश्याशौचं राजन्यश्च ।
[[४४५]]
वैश्याशौचं ब्राह्मणस्त्रिरात्रोपोषितश्च । ब्राह्मणाशौचं राजन्यः- क्षत्रियाशौचे वैश्यः स्रवन्ती मासाद्य गायत्रीशतपञ्चकं जपेत् । वैश्यश्च ब्राह्मणाशौचे गायत्र्यष्टशतं जपेत् ।
शूद्राशौचे द्विजो भुक्ता प्राजापत्यव्रतश्चरेत् ।
शूद्रश्च द्विजाशौचे स्नानमाचरेत् ।
शूद्रः शूद्राशौचे स्नातः पञ्चगव्यं पिवेत् ।
पत्नीनां दासानामानुलोम्येन स्वामिनस्तुल्यमशौचम् । मृते स्वामिन्यात्मीयम् ।
हीनवर्णानामधिकवर्णेषु तदपगमे शुद्धिः ।
ब्राह्मणस्य क्षत्रविट्शूद्रेषु षड्रात्रत्रिरात्रैकरात्रैः । क्षत्रियस्य विट्शूद्रयोः षड़ात्रत्रिरात्राभ्याम् ।
वैश्यस्य शूद्रेषु षड्रात्रेण । मासतुल्यै रहोरात्रैर्गर्भस्रावे ।
।
जातमृते मृतजाते वा कुलस्य सद्यः शौचम् ।
अदन्तजाते बाले प्रेते सद्य एव ।
नास्याभिसंस्कारो नोदकक्रिया ।
[[४४६]]
विष्णुस्मृतिः ।
दन्तजाते त्वकृतचूडे त्वहोरात्रेण ।
कृतचडे त्वसंस्कृते त्रिरात्रेण । ततः परं यथोक्तकालेन । स्त्रीणां विवाहः संस्कारः ।
संस्कृतासु स्त्रीपु नाशौचं भवति पितृपक्षे ।
तत्प्रसवमरणे चेत् पितृगृहे स्यातां तदैकरात्रं त्रिरात्रश्च । जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्तदा पूर्वा- शौचव्यपगमे शुद्धिः । रातिशेषे दिनद्वयेन ।
प्रभाते दिनतयेण । मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम । श्रुत्वा देशान्तरस्थजननमरणे शेषेण शुध्येत् । व्यतीतेऽशौचं सम्वत्सरान्तस्त्त्रेकरात्रेण ।
ततः परं स्नानेन । आचार्ये मातामहे च व्यतीते गिरात्रेण ॥
अनौरसेपु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ।
आचार्यपत्री पुतोपाध्यायमा तुलश्वशुरश्वशुर्य्य सहाध्यायि- शिष्येष्यतीतेष्वेकरात्रेण । स्वदेशराजनि च ।
असपिण्डे स्ववेश्मनि मृते च ।
भृग्वग्न्यनाश काम्बुसंग्रामविद्युन्नृपहतानां नाशौचम् ।
न राज्ञां राजकर्म्मणि । न त्रतिनां व्रते । न शतिणां सत्रे । न कारूणां स्वकर्म्मणि ।
न राजाज्ञाकारिणां तदिच्छया । न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोः ।
न देशविप्लवे । आपद्यपि च कष्टायाम ।
द्वाविंशोऽध्यायः ।
आत्मत्यागिनः पतिताश्च नाशौचोदकभाजः ।
पतितस्य दासी मृतेऽह्निपादाभ्यां घटमपवज्र्जयेत् ।
[[४४७]]
उद्बन्धनमृतस्य यः पाशं च्छिन्द्यात् स तप्तकृच्छ्रेण शुध्यति । आत्मघातिनां संस्कर्त्ता च । तदश्रुपातकारी च । सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन । अकृते त्वस्थिसञ्चये सचैलस्नानेन ।
द्विजः शूद्रतानुगमनं कृत्वा स्रवन्तीमासाद्य तन्निमग्न- स्त्रिरघमर्पणं जप्त्वोत्तीर्य्य गायत्र्यप्रसहस्रं जपेत् । द्विजप्रेतस्याशतम् ।
शूद्रः प्रेतानुगमनं कृत्वा स्नानमाचरेत् । चिताधूमसेवने सर्वे वर्णाः स्नानमाचरेयुः । मैथुने दुःस्वप्ने रुधिरोपगतकण्टे वमनविरेकयोश्च । श्मश्रुकर्म्मणि कृते च ।
शवस्पृशञ्च स्पष्ट्रा रजखलाचाण्डालयूपांश्च ।
भक्ष्यव पञ्चनख तःस्थि सस्नेहश्च ।
सर्वेष्वेतेषु स्नानेषु पूर्वं वस्त्रं नाप्राक्षालितं विभृयात् ।
रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति ।
रजस्वला हीनवर्ण रजस्वलां सुष्वा न तावदश्नीयाद्यावन्न शुद्धा । सवर्णामधिकरणां वा स्पष्ट्रा स्नात्वाश्नीयात् ।
क्षुत्वा सुस्वा भोजनाध्ययने पीत्वा स्नात्वा निष्ठीव्य- वासः परिधाय रथ्यामाक्रम्य मूत्रपुरीषं कृत्वा पञ्चनखस्य- सस्नेहास्थि स्पष्ट्रा चाचामेत् ।
[[४४८]]
विष्णुस्मृतिः ।
चाण्डालम्लेच्छ्रसम्भाषणे च ।
नाभेरधस्तात् प्रवाहेषु च कायिकैर्मलैः सुराभिर्वोपहतो- मृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्यति ।
अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन । वक्तोपहतस्तूपोष्य स्नात्वा पञ्चगव्येन । दशनच्छदोपहता ॥
वसा शुक्रमसृङ्मज्जामूत्रविट्कर्णविडूनखाः । श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः ॥ गौड़ी माध्वी च पैी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्व्वा न पातव्या द्विजातिभिः ॥ माधकमैक्षवं टाङ्क कौलं खार्ज्जरपानसे । मृद्विकारसमाध्वीके मैरेयं नारिकेलजम् ॥ अमेव्यानि दशैतानि मद्यानि ब्राह्मणस्य च । राजन्यश्चैव वैश्यश्च स्पष्टृतानि न दुष्यतः ॥ गुरोः प्रतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रताहारैः समं तत्र दशरात्रेण शुध्यति ॥ आचाय्यं स्वमुपाध्यायं पितरं मातरं गुरुम् । निर्हृत्य तु ब्रती प्रेतान्न व्रतेन वियुज्यते ॥ आदिष्टी नोदकं कुय्यौदाव्रतस्य समापनात् । समाप्ते तूदकंकृत्वा त्रिरात्रेण विशुध्यति ॥ ज्ञानंतपोऽग्निराहारो मृण्मनोवार्य्युपाञ्जनम् । वायुः कम्मर्ककालौ च शुद्धिकर्तणि देहिनाम् ॥
त्रयोविंशोऽध्यायः ।
सर्वेषामेव शौचानामन्नशौचं परं स्मृतम् । योऽन्ने शुचिर्हि स शुचिनं मृद्वारिशुचिः शुचिः । क्षान्त्या शुद्धयन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुद्धयति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ अद्भिर्गात्राणि शुद्धयन्ति मनः सत्येन शुद्धयति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्धयति ॥ एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः । नानाविधानां द्रव्याणां शुद्धः शृणु विनिर्णयम् ॥ इति वैष्णवे धर्मशास्त्रे द्वाविंशोऽध्यायः ॥
$:8:4-
॥ अथ त्रयोविंशोऽध्यायः ॥
शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्त्योपहतम् । अत्यन्तोपहतं सर्व्वं लोहभाण्डमनौ प्रक्षिप्त शुद्धयेत् । मणिमयमश्ममयमब्जञ्च सप्तरात्रं महीनिखनेन ।
[[४४६]]
शृङ्गदंष्ट्रास्थिमयं तक्षणेन । दारवं मृण्मयश्च जह्यात् । अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं विरज्येत तच्छिन्द्यात् । सौवर्णराजताब्जमणिमयानां निर्लेपानामद्भिः शुद्धिः ।
अश्ममयान्राश्वमसानां महाणाश्च । चरुस्रुक्सुवाणामुष्णेनाम्भसा ।
[[२६]]
[[४५०]]
विष्णुस्मृतिः ।
यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन । स्फ्यशूर्पशकट मुषलोलुषलानां प्रोक्षणेन ।
शयनयानासनानाञ्च ।
बहूनाश्व धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससा । शाकमूलफलपुष्पाणाञ्च । तृणकाष्ठशुष्कपलाशानां च । एतेषां प्रक्षालनेन । अल्पानाभ्व । ऊषैः कौशेयाविकयोः । अरिष्टकैः कुतपानाम् । श्रीफलैरंशुपदानाम् । गौरसर्षपैः क्षौमाणाम् शृङ्गास्थिदन्तमयानाच्व । पद्माक्षैमृ गलोमिकानाम् । ताम्ररीतित्रपुसीसमयानामम्लोदकेन ।
भस्मनाकांस्यलौहयोः । तक्षणेन दारवाणाम् । गोबालैः फलसम्भवानाम् । प्रोक्षणेन संहतानाम् ।
उत्पवनेन द्रव्याणाम् ।
गुड़ादीनामिक्षुविकाराणां प्रभूतातां गृहनिहितानां-
वार्य्यग्निदानेन ।
सर्बलवणानाश्व । पुनः पाकेन मृण्मयानाम् । द्रव्यवत्कृतशौचानां देवतार्थानां भूयः प्रतिष्ठापनेन । असिद्धस्यान्नस्य यावन्मात्रमुपहतं तन्मात्रं परित्यज्य -
शेषस्य कण्डनप्रक्षालने कुर्यात् ।
द्रोणाद्यधिकं सिद्धमन्नमुपहतं न दुष्यति ।
तस्योपहतमात्रमपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः-
प्रक्षिपेत् वस्तस्य च प्रदशयेदग्नेः ।
त्रयोविंशोऽध्यायः ।
पक्षिजग्धं गवाघातमवधूतमवक्षुतम् ।
दूषितं केशकीटैश्च मृदः क्षेपेण शुद्धयति ॥ यावन्नापैत्यमेध्यात्क्तान्यो लेपश्च तत्कृतः । तावन्मृद्वारि देयं स्यात् सर्वासु द्रव्यशुद्धिषु ॥ अजाश्वं मुखतो मेध्यं न गौर्ननरजा मलाः । पन्थानश्च विशुद्धयन्ति सोमसूर्या शुमारुतैः ॥ रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुद्धयन्ति पक्वेष्टकचितानि च ॥ प्राणिनामथ सर्वेषां मृद्भिरद्भिश्च कारयेत् । अत्यन्तोपहतानाञ्च शौचं नित्यमतन्द्रितः ॥ भूमिष्ठमुदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् । अव्याप्तञ्चेदमेध्येन तद्वदेव शिलागतम् ॥ वह्निप्रज्वालनं कुर्य्यात् कूपे पक्वेष्टकाचिते । पञ्चगव्यं न्यसेत् पश्चान्नवतोयसमुद्भवे ॥ जलाशयेष्वथाल्पेषु स्थावरेषु वसुन्धरे ! कूपवत् कथिता शुद्धिर्महत्सु च न दूषणम् ॥ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अनुमद्भिर्निर्णिक्तं यच वाचा प्रशस्यते ॥ नित्यं शुद्धः कारुहस्तः पण्यं यच प्रसारितम् । ब्राह्मणान्तरितं भोक्ष्यमाकराः सर्व एव च ॥ नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने । प्रस्रवे च शुचिर्बत्सः वा मृगग्रहणे शुचिः ॥
[[४५१]]
[[४५२]]
विष्णुस्मृतिः ।
वभिर्हतस्य यन्मांसं शुचि तत् परिकीर्तितम् । क्रव्याद्भिश्च हतस्यान्येश्वाण्डालाद्यैश्च दस्युभिः ॥ ऊर्द्ध नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् । यान्यधस्तान्यमेध्यानि देहाचैव मलाश्च्युताः ॥ मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः । रजोभूर्वायुरग्निश्च मार्जारश्च सदा शुचिः ॥ नोच्छिएं कुर्वते मुख्या विप्रुषोऽङ्गे न यान्ति याः । न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ॥ स्पृशन्ति विन्दवः पादौ य आचामयतः परान् । भौमिकैस्ते समाज्ञेया न तैरप्रयतो भवेत् ॥ उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथञ्चन । अनिधायैव तद्द व्यमत्वान्तः शुचितामियात् ॥ मार्ज नोपाञ्जनैर्वेश्म प्रोक्षणेन च पुस्तकम् । समार्जनेनानेन सेकेनोल्लेखनेन च ॥ दाहेन च भुवः शुद्धिर्वासेनाध्यथवा गवाम् । गावः पवित्रं मङ्गल्यं गोषु लोकाः प्रतिष्ठिताः । गावो वितन्वते यज्ञं गावः सर्व्वाघसूदनाः ॥ गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना । षड़ङ्गमेतत्परमं मङ्गल्यं सर्वदा गवाम् ॥ शृङ्गोदकं गवां पुण्यं सव्र्व्वाघविनिसूदनम् । गवां कण्डूयनञ्चैव सर्वकल्मषनाशनम् । गवां प्रासप्रदानेन स्वर्गलोके महीयते ॥चतुर्विंशोऽध्यायः ।
[[४५३]]
गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथा सा रजसि प्रवृद्धा । लक्ष्मीः करीषे प्रणतौ च धर्म्मस्तासां प्रणामं सतञ्च कुर्य्यात् ॥
इति वैष्णवं धर्मशास्त्रे त्रयोविंशोऽध्यायः ॥
॥ अथ चतुर्विंशोऽध्यायः ॥
अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भाय्र्या भवन्ति- तिस्रः क्षत्रियस्य । द्वे वैश्यस्य । एका शूद्रस्य । तासां सवर्णावेदने पाणिग्रह्यः । असवर्णावेदने शरः क्षत्रियकन्यया ।
प्रतोदो वैश्यकन्यया । वसनदशान्तः शूद्रकन्यया । न सगोत्रां न समानार्षप्रवरां भाय विन्देत्- मातृतस्त्वा पञ्चमात् पुरुषात् पितृतश्वासप्तमात् । नाकुलीनाम न च व्याधिताम् । नाधिकाङ्गीम् । न हीनाङ्गींम् ।
नातिकपिलाम् । न वाचाटाम् ।
अथाष्टौ विवाहा भवन्ति ।
ब्राह्मो देव आर्षः प्राजापत्यो गान्धर्व आसुरो-
राक्षसः पैशाचश्चेति । आहूय गुणवते कन्यादानं ब्राह्मः । यज्ञस्थऋत्विजे देवः । गोमिथुनप्रहृणेनार्षः ।
प्रार्थिताप्रदानेन प्राजापत्यः ।
द्वयोः सकामयोर्मातापितृरहितो योगो गान्धर्वः ।
[[४५४]]
विष्णुस्मृतिः ।
क्रयेणासुरः । युद्धहरणेन राक्षसः ।
सुप्तप्रमत्ताभिगमनात् पैशाचः ।
एतेष्वाद्याश्चत्वारो धर्म्याः । गान्धर्वोऽपि राजन्यानाम् ।
ब्राह्मीपुत्रः पुरुषावेकविंशतिं पुनीते । दैवीपुत्रश्चतुर्द्दश ।
।
आर्षीपुत्रश्च सप्त । प्राजापत्यश्चतुरः ।
ब्राह्मण विवाहेन कन्यां ददद्ब्रह्मलोकं गमयति । दैवेन स्वर्गम् । प्राजापत्येन देवलोकम् । गान्धर्वेण गन्धर्वलोकं गच्छति
पिता पितामहो भ्राता सकुल्यो मातामहो माता- चेति कन्याप्रदाः । पूर्वाभावे प्रकृतिस्थः परः परः ।
ऋतुत्रयमुपास्यैव कन्या कुर्यात् स्वयम्बरम् । ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ॥ पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता । सा कन्या वृषली होया हरंस्तां न विदुष्यति ॥
इति वैष्णवे धर्मशास्त्रे चतुर्विंशोऽध्यायः ॥
॥ अथ पञ्चविंशोऽध्यायः ॥
अथ स्त्रीणां धर्माः ।
भर्तुः समानव्रतचारित्वम् ।
श्रश्रुश्वशुरगुरुदेवतातिथिपूजनम् । सुसंस्कृतोपस्करता ।
अमुक्तहस्तता । पुगुप्तभाण्डता । मूलक्रियास्वनभिरतिः । मङ्गलाचारतत्परता ।
[[४५५]]
भर्त्तरि प्रवासितेऽप्रतिकर्म्मक्रिया । परगृहेष्वनभिगमनम् । द्वारदेशगवाक्षकेषु नावस्थानम् । सर्व्वकर्मस्वस्वतन्त्रता । बाल्ययौवनवार्द्धकेष्वपि पितृभर्तृपुत्राधीनता ।
मृते भतरि ब्रह्मचर्यं तदन्वारोहणं वा । नास्ति स्त्रीणां पृथक्यज्ञो न ब्रतं नाप्युपोषणम् । पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ पत्यौ जीवति या योषिदुपवासव्रतञ्चरेत् । आयुः सा हरते भर्त्तुर्नरकञ्चैव गच्छति ॥ मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥
इति वैष्णवे धर्मशास्त्रे पञ्चविंशोऽध्यायः ॥
[[४५६]]
विष्णुस्मृतिः ।
॥ अथ षड्विंशोऽध्यायः ॥
सवर्णासु बहुभार्यासु विद्यमानासु ज्येष्ठया सह-
धर्म काय्यं कुर्य्यात् ।
मिश्रासु च कनिष्ठयापि समानवर्णया ।
समानवर्णाभावे त्वनन्तरयैवापदि च । नन्वेव द्विजः शूद्रया ।
द्विजस्य भार्या शूद्रा तु धम्र्म्मार्थे न भवेत् कचित् । रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता ॥ हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः । कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ॥ देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु । नादन्ति पितृदेवास्तु न च स्वर्गं स गच्छति ॥ इति वैष्णवे धर्मशास्त्रे षडविंशोऽध्यायः ॥
॥ अथ सप्तविंशोऽध्यायः ॥
गर्भस्य स्पष्टताज्ञाने निषेककर्म्म ।
स्पन्दनात् पुरा पुंसवनम् षष्ठेऽष्टमे वा सीमान्तोन्नयनं । जाते च दारके जातकर्म । अशौचव्यपगमने नामधेयं । मङ्गल्यं ब्राह्मणस्य । बलवत् क्षत्रियस्य । धनोपेतं वैश्यस्य । जुगुप्सितं शूद्रस्य । चतुर्थे माझ्यादित्यदर्शनम् । षष्ठेऽन्नप्राशनम् । तृतीयेऽब्दे चूडाकरणम् ।
।
[[1]]
सप्तविंशोऽध्यायः । :1
[[४५७]]
एता एव क्रियाः स्त्रीणाममन्त्रकाः ।
तासां समन्त्रको विवाहः ।
गर्भाष्टमेऽदे ब्राह्मणस्योपनयनं । गर्भेकादशे राज्ञः ।
गर्भद्वादशे विशः । तेपां मुञ्जज्यावल्वजमथ्यो मौज्यः । कार्पासराणाविकान्युपवीतानि वासांसि च ।
मार्गवैयाघ्रवास्तानि चम्र्माणि ।
पालाशखादिरौ डुम्बरा दण्डाः । केशान्तललाटनासादेशतुल्याः सर्व्व एव वा । भवदाद्यं भवन्मध्यं भवदन्तञ्च भैक्ष्यचरणम् ।
[[1]]
आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्त्तते । आद्वाविंशात् क्षत्रबन्धोराचतुर्विंशतेर्विशः ॥ अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्री पतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला । यो दण्डो यश्च वसनं तत्तदस्य व्रतेष्वपि ॥ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥
इति वैष्णवे धर्मशास्त्रे सप्तविंशोऽध्यायः ॥
[[४५८]]
विष्णुस्मृतिः ।
॥ अथ अष्टाविंशोऽध्यायः ॥
अथ ब्रह्मचारिणां गुरुकुले वासः । सन्ध्याद्वयोपासनम् । पूर्वी सन्ध्यां जपेत्तिष्ठन् पश्चिमामासीनः ।
कालद्वयमभिषेकाग्निकर्मकरणम् ।
अप्सु दण्डवन्मज्जनम् । आहूताध्ययनम्
गुरोः प्रियहिताचरणम् । मेखलादण्डाजिनोपवीतधारणम् । गुरुकुलवजं गुणवत्सु भैक्ष्याचरणम् ।
गुर्वनुज्ञातो भैक्ष्याभ्यवहरणम् ।
श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्ट-
प्राणिहिंसाशील परिवर्जनम् ।
अधः शय्या । गुरोः पूर्वोत्थानं चरमं संवेशनम् ।
कृत सन्ध्योपासनभ्च गुर्व्वभिवादनं कुर्यात् ।
तस्य च व्यत्यस्तकरः पादावुपस्पृशेत् ।
दक्षिणं दक्षिणेनेतरमितरेण ।
स्वश्व नामास्याभिवादनान्ते भोः शब्दान्तं निवेदयेत् ।
तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मुखश्च-
आसीनस्योपस्थितः कुर्यातिष्ठतोऽभिगच्छन्नागच्छतः-
नास्यामिभाषणं कुर्यात् ।
प्रत्युद्गम्य पश्चाद्धावन् धावतः ।
पराङ्मुखस्याभिमुखः दूरस्थस्यान्तिकमुपेत्यः ।
शयानस्य प्रणम्य ।
तस्य च चक्षुर्विषये न यथेष्टासनः स्यात् ।
अष्टाविंशोऽध्यायः ।
नचास्य केवलं नाम ब्रूयात् ।
गतिचेष्टाभाषितादिकं नास्य कुर्यात् ।
तत्रास्य निन्दापरीवादी स्यातां न तत्र तिष्ठेत् । नास्यैकासनो भवेत् । ऋते शिलाफलकनौयानेभ्यः । गुरोगुरौ सन्निहिते गुरुवद्वर्त्तेत ।
अनिर्दिष्टो गुरुणा स्वान् गुरून्नाभिवादयेत् । बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्त्तेत । नास्य पादौ प्रक्षालयेत् नोच्छिष्टमश्नीयात् ।
४५६.
एवं वेदं वेदौ वेदान् वा स्वीकुर्यात् । ततो वेदाङ्गानि । यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ ससन्तानः शूद्रत्वमेति । मातुर विजननं द्वितीयं मौञ्जिबन्धनम् ।
तत्रास्य माता सावित्री भवति पिता त्वाचाय्र्यः । एतेनैव तेषां द्विजत्वम् ।
प्राङ्मौञ्जबन्धनादुद्विजः शूद्रसमो भवति ।
ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यम् । वेदस्वीकरणादृध्वं गुर्व्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात् । ततो गुरुकुल एव जन्मनः शेषं नयेत् । तत्राचार्य्यं प्रेते गुरुवद्गुरुपुत्रे वर्त्तेत । गुरुदारेषु सवर्णेषु वा ।
तदभावेऽभिशुश्रूषुर्नैष्ठिको ब्रह्मचारी स्यात् ॥
एवभ्वरति यो विप्रो ब्रह्मचर्यमतन्द्रितः ।
स गच्छत्युत्तमं स्थानं न चेहा जायते पुनः ॥
[[४६०]]
विष्णुस्मृतिः ।
कामतो रेतसः सेको व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्ब्रह्मज्ञा ब्रह्मवादिनः ॥ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । साप्तागारं चरेद्भैक्ष्यं स्वकर्म परिकीर्त्तयन् ॥ तेभ्यो लब्धेन भैक्ष्येण वर्त्तयन्नेकालिकम् । उपस्पृशंस्त्रिषवणमब्देन स विशुद्धयति ॥ स्वप्ने सिक्का ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्र्यचं जपेत् ॥ अकृत्वा भैक्ष्यचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णी व्रतभ्वरेत् ॥ तञ्चदभ्युदियात् सूर्यः शयानं कामकातरः । निम्लोचंद्वाप्यविज्ञानाज्जपन्नुपसेद्दिनम् ॥
इति वैष्णवे धर्मशास्त्रेऽष्टाविंशोऽध्यायः ॥
8088-
॥ अथ एकोनत्रिंशोऽध्यायः ॥
यस्तूपनीय व्रतादेशं कृत्वा वेदमध्यापयेत्तमाचार्य विद्यात् ।
यस्त्वेनमल्पेनाध्यापयेत्तमुपाध्यायमेकादेशं वा ।
यो यस्य यज्ञे कर्माणि कुर्य्यात्तमृत्विजं विद्यात् ।
नापरीक्षितं याजयेत् नाध्यापयेत् नोपनयेत् ॥
उनत्रिंशोऽध्यायः ।
[[४६१]]
अधर्मेण च यः प्राह यश्च धर्मेण पृच्छति । तयोरन्यतरः प्रति विद्वेषं वाधिगच्छति ॥ धर्मार्थी यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वक्तव्या शुभं वीजमिवोषरे ॥ विवाह वे ब्राह्मणमाजगाम गोपाय मां शेवधिस्तेहमस्मि । असूयकायानृजवेऽयताय न मां ब्रुया वीर्य्यवती तथा स्याम् ॥ यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । यस्तेन दुह्येत् कतमांश्च नाह तस्मै मां त्रुया बिधिपाय ब्रह्मन् ! ॥
इति वैष्णवे धर्मशास्त्रे एकोनत्रिंशोऽध्यायः ॥
॥ अथ उनत्रिंशोऽध्यायः ॥
श्रावण्यां पौष्ठपद्यां वा च्छन्दस्युपाकृत्यार्द्ध पञ्चमान-
मासानधीयीत ।
ततस्तेषामुत्सगं वहिः कुर्यान्नानुपाकृतानां । उत्ससर्गोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं कुर्यात् । नाधीयीताहोरात्रं चतुर्द्दश्यष्टमीषु च ।
नत्वन्तरमहसूतके । नेन्द्रियप्रयाणे ।
न वाति चण्डपवने । नाकालवर्षविद्युत्स्तनितेषु ।
न भूकम्पोल्कापातदिग्दाहेषु ।
J
[[४६२]]
विष्णुस्मृतिः ।
नान्तः शवे ग्रामे । न शस्त्रसंपाते । नगालग भनिह्नादे । न वादिशब्दे । न शूद्रपतितयोः समीपे ।
न देवतायतनश्मशानचतुष्पथरथ्यासु । नोदकान्तः । न पीठोपहितपादः । न हस्त्यश्वोष्टनौगोयानेषु । न वान्तः । न विरिक्तः । नाजीर्णी । न पञ्चनखान्तरागमने । न राजश्रोत्रियगोब्राह्मणव्यसने । नोपाकर्म्मणि । नोत्सर्गे न सामध्वनावृग्ययुषी । नापररातमधीत्य शयीत । अभियुक्तोऽप्यनध्यायेष्वध्ययनं परिहरेत् ।
यस्मादनध्ययनाधीतं नेहनामुत्र फलदम ।
तदध्ययनेनायुपः क्षयो गुरुशिष्ययोश्च ।
तस्मादनध्यायवर्जं गुरुणा ब्रह्मलोककामेन विद्या- सच्छिष्यक्षेत्रेषु वक्तव्या ।
शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्य्यम् । प्रणवश्व व्याहर्त्तव्यः ।
तत्र च यद्वचोऽधीते तेनास्याज्येन पितॄणां तृप्तिर्भवति । यद्यजूंषि तेन मधुना । यत्सामानि तेन पयसा । यच्चाथर्व्वणन्तेन मांसेन ।
यत्पुराणेतिहास वेदाङ्गधर्मशास्त्राण्यधीते तेनास्यान्नेन - यश्व विद्यामासद्यास्मिल्लोके तया जीवेन्न सा तस्य- परलोके फलप्रदा भवेत् ।
यश्व विद्यया यशः परेषां हन्ति ।एकत्रिंशोऽध्यायः ।
[[४६३]]
अनुज्ञातश्चान्यस्मादधीयानान्न विद्यामादद्यात् । तदादानमस्य ब्रह्मणः स्तेयं नरकाय भवति ।
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं न तं ह्येत् कदाचन ॥ उत्पाद कब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रयस्य प्रेत्य चेह च शाश्वतम् ॥ कामान्माता पिता चैनं यदुत्पादयतो मिथः । सम्भूतिं तस्य तां विद्याद्यद्योनाविह जायते ॥ आचार्यस्तस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ य आवृणोत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन् । तं वै मन्येत् पितरं मातरश्च तस्मै न द्रुह्येत् कृतमस्य जानन् ।
इति ष्णवे धर्मशास्त्रे त्रिंशोऽध्यायः ॥
·:0:-
॥ अथ एकत्रिंशोऽध्यायः ॥
त्रयः पुरुषस्यातिगुरो भवन्ति ।
माता पिता आचार्यश्च ।
तेषां नित्यमेव शुश्रूषुणा भवितव्यम् ।
यत्ते ब्रूयुस्तत्कुर्य्यात् । तेषां प्रियहितमाचरेत् । न तैरननुज्ञातः किश्चिदपि कुर्य्यात् ।
[[४६४]]
विष्णुस्मृतिः ।
एत एव त्रयोवेदा एत एव त्रयः सुराः । एत एव त्रयो लोका एत एवा श्रयोऽग्नयः ॥ पितागार्हपत्योऽग्निर्दक्षिणाग्निर्माता गुरुराहवनीयः । सर्वे तस्याता धर्मा यस्यै ते त्रय आहताः ॥ अनाहतास्तु यस्यै ते सव्र्वास्तस्याफलाः क्रियाः । इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ॥ गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ।
इति वैष्णवे धर्मशास्त्रे एकत्रिंशोऽध्यायः ॥
॥ अथ द्वात्रिंशोऽध्यायः ॥
राजत्विक श्रोत्रियाधर्म्मप्रतिषेध्युपाध्यायपितृव्यमातामह-
मातुलश्वशुरज्येष्ठभ्रातृसम्वन्धिनश्चाचार्य्यवत् ।
पल्या एतेषां सवर्णाः ।
मातृष्वसा पिवृष्वसा ज्वेष्ठा स्वसा च । श्वशुरपितृव्यमातुलविंजां कनीयसां प्रत्युत्थान-
मेवाभि वादनम् ।
हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपसंस्पर्शनम् । गुरुपत्नीनां गात्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनं-
न कुर्य्यात् ।
द्वात्रिंशोऽध्यायः ।
[[४६५]]
असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा ।
न च गुरूणां त्वमिति ब्रूयात् ।
तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् ।
न च गुरुणा सह विगृह्य कथां कुर्य्यात् । नॅव चास्य परीवादम । न चानभिप्रेतम् । गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः । पूर्णे विंशतिवर्षे च गुणदोषौ विजानता ॥ कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि । अभिवादनकं कुर्य्यादसावहमिति ब्रुवन् ॥ विप्रोष्य पादग्रहणमन्वह श्वाभिवादनम । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मानस्थानानि गरीयो यद्यदुत्तरम् ॥ ब्राह्मणं दशवर्षश्च शतवर्षश्च भूमिपम् ।
पिता पुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणान्तु वीर्य्यतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मनः ॥
इति वैष्णव धर्मशास्त्रे द्वात्रिंशोऽध्याय ॥
[[३०]]
[[४६६]]
विष्णुस्मृतिः ।
॥ अथ त्रयस्त्रिंशोऽध्यायः ॥
अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति ! परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिनः । तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोप-
पातकेषु प्रवर्त्तते
[[1]]
जातिभ्रंशकरेषु सङ्करी करणेष्वपात्रीकरणेषु च । मलावहेषु प्रकीर्णकेषु च ।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामक्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥
इति वैष्णवे धर्मशास्त्रे त्रयस्त्रिंशोऽध्यायः ॥
॥ अथ चतुस्त्रिंशोऽध्यायः ॥
मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि । अतिपातकिनस्त्वेते प्रविशेयुहु ताशनम् ।
नान्या निस्कृतिस्तेषां विद्यते हि कथञ्चन ।
इति वैष्णवे धर्मशास्त्रे चतुस्त्रिंशोध्यायः ॥
पटूत्रिंशोऽध्यायः
॥ अथ पञ्चत्रिंशोऽध्यायः ॥
ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमिति-
महापातकानि । तत्संयोगश्च ।
सम्वत्सरेण पतति पतितेन सहाचरन् । एकयानभोजनाशनशयनैः ।
यौनत्रौ मौखसम्वन्धात् सद्य एव
अश्वमेधेन शुद्धयुर्महापातकिनस्त्विमे । पृथिव्यां सर्वतीर्थानां तथानुसरणेन वा ॥
इति वैष्णवे धर्मशास्त्रं पञ्चत्रिंशोऽध्यायः ॥
[[४६७]]
॥ अथ षत्रिंशोऽध्यायः ॥
यास्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चान्तर्व्व- श्रयाश्चात्रि गोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च -
घातनं ब्रह्महत्यासमानीति ।
कौटसाक्ष्यं सुहृदबध एतौ सुरापानसमौ ।
•
[[1]]
ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं-
गुरुदारगमनसमम् । पितृष्वसृमातृष्वसृस्वसृगमनश्च :
[[४६८]]
विष्णुस्मृतिः ।
श्रोत्रिय विगुपाध्यायमित्रपत्त्यभिगमनञ्च ।
स्वसुः सख्याः स गोत्राया उत्तमवर्णायाः कुमार्या- अन्त्यजाया रजस्वलायाः शरणागतायाः प्रव्रजिताया- निक्षिप्रायाश्च ।
अनुपातकिनस्त्वेते महापातकिनो यथा । अश्वमेधन शुद्धयन्ति तीर्थानुसरणेन वा ॥
इति वैष्णवे धर्मशास्त्र पत्रिँशोऽध्यायः ॥
॥ अथ सप्तत्रिंशोऽध्यायः ॥
अनृतवचनमुत्कर्पे । राजगामि च पैशुन्यम् । गुरोश्चालीकनिर्बन्धः । वेदनिन्दा । अधीतस्य च त्यागः । अग्निमातृपितृसुतदाराणाञ्च । अभोज्यान्नाभक्ष्यभक्षणम् । परस्वापहरणम् । परदाराभिगमनम् । अयाज्ययाजनम् । विकर्मणाजीवनश्च असत्प्रतिग्रहश्च । क्षत्त्रविट्शूद्रगोबधः । अविक्रेयविक्रयः । परिवित्तितानुजेन ज्येष्ठस्य परिवेदनम् ।
तस्य च कन्यादानम् । याजनञ्च । ब्रात्यता ।
भृतकाध्यापनम् । भृताच्चाध्ययनादानम् । सर्वाकरेष्वधिकारः । महायन्त्रप्रवर्त्तनम् । द्रमगुल्मवल्लीलतौषधीनां हिंसा । स्त्रीजीवनम् ।
।
अष्टात्रिंशोऽध्यायः ।
अभिचारबलकर्मसु प्रवृत्तिः । आत्मार्थे क्रियारम्भः । अनाहिताग्मिता । देवर्षिपितृऋणानामनपाक्रिया । असच्छास्त्राभिगमनम् । नास्तिकता । कुशीलवता । मद्यपस्त्रीनिषेवणम् । इत्युपपातकानि ।
उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः । पराकञ्च तथा कुर्युर्यजेयुर्गोमखेन वा ॥
इति वैष्णवे धर्मशास्त्रं सप्तत्रिंशोऽध्यायः ॥
॥ अथ अष्टात्रिंशोऽध्यायः ॥
ब्राह्मणस्य रुजः करणम् । अपेयमद्ययोर्घातिः जैाचम् । पशुषु मैथुनाचरणं पुंसि च । इति जातिभ्रंशकराणि ।
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ।
कुर्यात् सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥
इति वैष्णवे धर्मशास्त्रे अष्टात्रिंशोऽध्यायः ॥
-❀❀-
[[४६६]]
[[४७०]]
विष्णुस्मृतिः ।
॥ अथ एकोनचत्वारिंशत्तमोऽध्यायः ॥
ग्राम्यारण्यानां पशूनां हिंसा सङ्करीकरणम् । सङ्करीकरणं कृत्वा मासमश्नीत यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तन्तु कारयेत् ॥ इति वैष्णवे धर्मशास्त्रे एकोनचत्वारिंशत्तमोऽध्यायः ॥
॥ अथ चत्वारिंशत्तमोऽध्यायः ॥
निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनमसत्यभाषणं- शूद्र सेवनमित्यपात्रीकरणम ।
अपात्रीकरणं कृत्वा तपकुच्छण शुद्धयति । शीतकृच्छ ेण वा भूयो महासान्तपनेन वा ॥
इति वैष्णवे धर्मशात्रं चत्वारिंशत्तमोऽध्यायः ॥
॥ अथ एकचत्वारिंशत्तमोऽध्यायः ॥
पक्षिणां जलचराणां जलजानाञ्च घातनम् । कृमिकीटानाञ्च । मद्यानुगतभोजनम् । इति मलावहानि ।
मलिनीकरणीयेषु तर कुच्छ विशोधनम ।
कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् ॥
इति वैष्णवे धर्मशास्त्रे एकचत्वारिंशत्तमोऽध्यायः ॥
॥ अथ द्विचत्वारिंशत्तमोऽध्यायः ॥
यदनुक्तं तत्प्रकीर्णक्रम ।
प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम । प्रायश्चित्तं बुधः कुर्याद् ब्राह्मणानुमतः सदा ॥
इति वैष्णवे धर्मशास्त्रं द्विचत्वारिंशत्तमोऽध्यायः ॥
[[४०१]]
॥ अथ त्रिचत्वारिंशत्तमोऽध्यायः ॥
अथ नरकाः । तामिस्रम् । अन्धतामिस्रम् । रौरवम् । महारौरवम् । कालमूत्रम् । महानरकम् । संजीवनम् ।
।
अवीचि । तापनम् । सम्प्रतापनम् । संघातकम् । काकोलम् । कण्डूलम् । कुट्टानम् । पूतिमृत्तिकम् । लोहशङ्कः । ऋचीसम् । विषमपन्थानम् । कण्टकशाल्मलिः । दीपनदी । असिपत्रवनम् । लोहचारकमिति ।
एतेष्यकृतप्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते । महापातकिनो मन्वन्तरम् । अनुपातकिनश्चातुर्युगम् ।
कृतसङ्करीकरणाश्च सम्वत्सरसहस्रम् । कृतजातिभ्रंशकरणाश्च । कृतापात्रीकरणाश्च ।
कृतमलिनीकरणाश्च । प्रकीर्णकपातकिनश्च बहून् वर्षयुगान् ।
कृतपातकिनः सर्वे प्राणत्यागादनन्तरम् ।
याम्यं पन्थानमासाद्य दुःखमश्नन्ति दारुणम् ॥
[[४७२]]
विष्णुस्मृतिः ।
यमस्य पुरुत्रैर्घोरैः कृष्यमाणा यतस्ततः । सुकृच्छं णनुकारेण नीयमानाश्च ते यथा ॥ श्रभिः शृगालः क्रव्यादैः काककङ्कवकादिभिः । अग्नितुण्डैर्भक्ष्यमाणा भुजङ्गे विस्तथा ॥ अग्निना दह्यमानाश्च नुद्यमानाश्च कण्टकैः ।
कचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ क्षुवया व्यथमानाश्च घोरव्यघ्रगणैस्तथा । पूयशोणितगन्धेन मूर्च्छमानाः पदे पदे ॥ परान्नपानं लिप्सन्तस्त ड्यमानाश्च किङ्करैः । काककङ्कवकादीनां भीमानां सदृशाननैः ॥ क्वचित् काथ्यन्ति तैलेन ताड्यन्ते मुषलैः कचित् । आयसीपु च बिध्यन्ते शिलासु च तथा क्वचित् ॥ कचिद्वान्तमथाश्नन्ति कचिन पूयमसृक् कचित् । क्वचिद्विष्ठां क्वचिन्मांसं पूयगन्धि सुदारुणम् ॥ अन्धकारेषु तिष्ठन्ति दारुणेपु तथा कचित् । कृमिभिर्भक्ष्यमाणाश्च वह्निण्डैश्च दारुणैः ॥ कचिच्छीतेन बाध्यन्ते कचिद्वा मेध्यमध्यगाः । परस्परमथाश्नन्ति कचित् प्रेताः सुदारुणाः ॥ क्वचिद्भूतेन ताड्यन्ते लम्बमानास्तथा कचित् । कचित् क्षिष्यन्ति वाणवैरुत्कृत्यन्ते तथा कचित् । कण्ठेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः । पीड्यमानास्तथा यन्त्रः कृष्यमाणाश्च जानुभिः ॥चतुश्चत्वारिंशत्तमोऽध्यायः ।
भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः । कूट।गारप्रमाणैश्च शरीरयतिनाक्षमैः ॥ एवं पातकिनः पापमनुभूय सुदुःखिताः । तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ॥
इति वैष्णवे धर्मशास्त्र त्रिचत्वारिंशत्तमोऽध्यायः ॥
[[४७३]]
॥ अथ चतुश्चत्वारिंशत्तमोऽध्यायः ॥
अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो भवन्ति । अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः ।
महापातकिनाञ्च कृमियोनयः ।
उपपातकिनां जलजयोनयः ।
कृतजातिभ्रंशकराणां जलचरयोनयः ।
कृतसङ्करीकरणकर्मणां मृगयोनयः ।
कृतापात्रीकरणकर्मणां पशुयोनयः ।
कृतमलिनीकरण कर्मणां मनुष्येष्वस्वश्ययोनयः ।
प्रकीर्णेषु प्रकीर्णा हिस्राः क्रव्यादा भवन्ति । अभोज्यान्नाभक्ष्याशी कृमिः । स्तेन श्येनः ।
प्रकृष्टवर्त्मापहारी विलेशयः । आखुर्धान्यहारी ।
[[४७४]]
विष्णुस्मृति ।
हंसः कांस्यापहारी । जलं हत्वाभिप्लवः ।
मधु दंशः ।
पयः काकः ।
रसं श्रा ।
रसं वा । घृतं नकुलः ।
मांसं गृध्रः ।
वसां मद्गुः ।
तैलं तैलपायिकः । लवणं वीचिवाकू ।
दधि वलाका । कौशेयं हत्वा भवति तित्तिरिः ।
क्षौमं दद्दुरः । कार्पासतान्तवं क्रौञ्चः ।
वान्तुदो गुड़म् । छुच्छन्दरिर्गन्धान् ।
कृतान्नं श्रावित् । अकृतान्नं शल्लकः ।
गोधा गाम् ।
पत्रशाकं वहीं ।
अग्निं वकः ।
गृहकार्यपरकरम । रक्तवासांसि जविजविकः ।
गजं कुर्मः । अश्वं व्याघ्रः । फलं पुष्पं वा मर्कटः । ऋक्षः स्त्रियम । यानमुः । पशूनजः । प्रेतः पारजायी ।
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्तुं जग्धा चैवाहुतं हविः ॥ स्त्रियोऽप्येतेन कल्पेन हत्वा दोपमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ इति वैष्णवे धर्मशास्त्रे चतुश्चत्वारिंशत्तमोऽध्यायः ॥
- £3 : * € -
॥ अथ पञ्चचत्वारिंशोऽध्यायः ॥
अथ नरकानुभूत दुःखानां तिर्य्यक्तमुत्तीर्णानां -
मनुष्येषु लक्षणानि भवन्ति ।
पञ्चचत्वारिंशोऽध्यायः ।
[[४७५]]
कुष्ठ्यतिपातकी । ब्रह्मा यक्ष्मी । सुरापः श्यावदन्तकः ।
सुवर्णहारः कुनखः । गुरुतल्पगो दुश्चर्म्मा ।
पूतिनासः पिशुनः । पूतिवक्त्रः सूचकः । धान्य चौरोऽङ्गहीनः । मिश्रचौरोऽतिरिक्ताङ्गः । अन्नापहारकस्त्वामयावी । वागपहारको मूकः । वस्त्रापहारकः श्वित्री । अश्वापहारकः पङ्गुः । देवब्राह्मण कोशको मूकः । लोलजिह्वो गरदः । उन्मत्तोऽग्निदः । गुरुप्रतिकूलोपस्मारी ।
गोघ्नस्त्वन्धः । दीपापहारका । काणच दीपनिव्वपिकः । त्रपुचामरसीसकविक्रयी रजकः ।
एकशफविक्रयी मृगव्याधः । कुण्डाशी भगास्यः । घाण्टिकः स्तेनः । वार्द्धापिको भ्रामरी । मिष्टाश्येकाकीवातगुल्मी । समयभेत्ता खल्वाटः । श्लीपद्यवकीर्णी । परवृत्तिनो दरिद्रः । परपीडाकरो दीर्घरोगी ।
एवं कर्मविशेषेण जायन्ते लक्षणान्विताः । रोगान्वितास्तथान्धाश्च कुञ्जखञ्ज कलोचनाः ॥ वामना वधिरा मूका दुर्बलाश्च तथापरे । तस्मात् सर्वः प्रयत्नेन त्रायश्चित्तं समाचरेत् ॥
।
इति वैष्णवे धर्मशास्त्रे पञ्चचत्वारिंशत्तमोऽध्यायः ॥
-:०००ः-
[[४७६]]
विष्णुस्मृतिः ।
॥ अथ षट्चत्वारिंशोऽध्यायः ॥ अथ कृच्छ्राणि भवन्ति ।
त्र्यहं नाश्नीयात् प्रत्यहश्च त्रिपवणं स्नानमाचरेत्त्रिः प्रति- स्नानमप्सु मज्जनं मग्नस्त्रिरघमर्पणं जपेत् दिवास्थित- स्तिष्ठेत् रात्रावासीनः कर्मणोरुते पयस्विनीं- दद्यादित्यघमर्षणम् ।
त्र्यहं सायं त्र्यहं प्रातस्त्र्यहम याचितमश्नीयादेषः प्राजापत्यः । त्र्यहमुष्णाः पिवेदपरत्र्यहमुष्णं घृतं त्र्यहमुष्णं पयस्त्र्यहध्व- नाश्नीयादेप तप्तकृच्छ्रः । एप एव शीतैः शीतकृच्छ्रः । कृच्छ्रातिकृच्छ्रः पयसादिव सैकविंशतिक्षपणम् ।
उदकसक्तूनां मासाभ्यवहारेणोदककृच्छः ।
विसाभ्यवहारेण मूलकृच्छ्रः ।
विल्वाभ्यवहारेण श्रीफलकृच्छः पद्माक्षैर्वा ।
निराहारस्य द्वादशाहेनैव पराकः ।
गोमूत्र गोमय क्षीरदधिसर्पिः कुशोदकान्येकदिवसमश्नीयाद्- द्वितीयमुपवसेदेतत्सान्तपनम् ।
गोमूत्रादिभिः प्रत्यहाभ्यस्तैर्महासातपनम् । त्र्यहाभ्यस्तैश्चातिसस्तैन्तपनम् ।
पिण्याकाचमतक्रोदकसक्तूनामुपवासान्तरितोऽभ्य-
बहारस्तुलापुरुषः ।
कुशपलाशोडुम्बरपद्मशङ्खपुष्पीवटब्रह्म सुवर्चलानां पत्रः- कथितस्याम्भसः प्रत्येकं पानेन पर्णकृच्छ्रः ॥
सप्तचत्वारिंशोऽध्यायः ।
कृच्छ्राण्येतानि सर्वाणि कुर्वीत कृतपावनः । नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः ॥ स्त्रीशूद्रपतितानाश्च वर्जयेनाभिभाषणम् । पवित्राणि जपेन्नित्यं जुहुयाचैव शक्तितः ॥
इति वैष्णवे धर्मशास्त्रे पट्चत्वारिंशत्तमोऽध्यायः ॥
[[४७७]]
॥ अथ सप्तचत्वारिंशत्तमोऽध्यायः ॥
अथ चान्द्रायणम् ।
प्रासान विकारानश्नीयात्तांश्चन्द्रकलाभिवृद्धौ क्रमेण वर्द्धयेद्धानौ- ह्रासयेदमावास्यां नाश्नीयादेप चान्द्रायणो यवमध्यः ।
पिपीलिकामध्यो वा ।
यस्यामावास्या मध्ये भवति स पिपीलिकामध्यः । यस्य पौर्णमासी स यवमध्यः ।
अष्टौ प्रासान् प्रतिदिवस मासमश्नीयात् स यतिचान्द्रायणः । सायं प्रातश्चतुरश्चतुरः स शिशुचान्द्रायणः यथा कथञ्चित षट्कोनां त्रिशतीं मासेनाश्नीयात् स सामान्यचान्द्रायणः ।
व्रतमेतत् पुरा भूम कृत्वा सप्तर्षयो वरम् । प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस्तथैव च ॥
इति वैष्णवे धर्मशास्त्रे सप्तचत्वारिंशत्तमोऽध्यायः ॥
[[४७८]]
विष्णुस्मृतिः ।
॥ अथ अष्टचत्वारिंशत्तमोऽध्यायः ॥
अथ कर्म्मभिरात्मकृतेर्गुरुमात्मानं मन्येतात्मार्थे - प्रसृतियावकं श्रपयेत् । न ततोऽग्नौ जुहुयात् ।
न चात्र वलिकर्म । अमृतं श्रव्यमाणं श्रुतञ्चाभिमन्त्रयेत् । श्रव्यमाणे रक्षां कुर्य्यात् ।
ब्रह्मा देवानां पदवी कवीनां ऋषिर्विप्राणां श्येनो- गुत्राणां महिषो मृगाणां स्वधितिर्वनानां सोमः- पवित्रमभ्येति रेभन्निति दर्भान् बध्नाति ।
श्रुतञ्च तमश्नीयात् पात्र निपिच्य ।
ये देवा मनोजाता मनोजुषः सुदक्षा दक्षपितरः । ते नः पान्तु ते नोऽवन्तु तेभ्योनमस्तेभ्यः स्वाहेत्यात्मनि- जुहुयात् । अथाचान्तो नाभिमालभेत ।
स्नाताः पीता भवन्तो यूयमापोऽस्माकमुदरे यवाः । ता अम्ममनमी वा अपक्ष्या अनागसा सन्तु- देवीरमृता ऋता वृद्ध इति । त्रिरात्रं मेधावी । पात्रं पापकृत् ।
सप्तरात्रं पीत्वा महापातकिनामन्यतमः पुनाति । द्वादशरात्रेण पूर्वपुरुषकृतमपि पापं निर्दहति । मासं पीला सर्वपपानि ।
गोनिहरमुक्तानां यथानामेकविंशतिरात्रश्च ।
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्र मृषिभिः स्मृतम् ॥
उनपश्चाशत्तमोऽध्यायः ।
घृतमेव मधु यवा आपो वा अमृतं यवाः । सर्वे पुनीत मे पापं यन्मे किञ्चन दुष्कृतम् ॥ वाचा कृतं कर्मकृतं मनसा च विचिन्तितम् । अलक्ष्मी कालकर्णीश्व नाशयध्वं यवा ! मम ॥ श्रशूकरावलीढञ्च उच्छिष्टोपहतञ्च यत् । मातापित्रोर शुश्रूषां पुनीध्वञ्च यवा! मम ॥ गणानं गणिकान्नञ्च शूद्रान्नं श्राद्धमूतकम् । चौरस्यान्नं नवश्राद्धं पुनीध्वञ्च यवा ! मम ॥ इति चैष्णवं धर्मशास्त्रे अष्टाचत्वारिंशत्तमोऽध्यायः ॥
[[४७६]]
अथ उनपञ्चाशत्तमोऽध्यायः ।
मार्गशीर्ष शुक्लैकादश्यामुपोषितो द्वादश्यां भगवन्तं - वासुदेवमयेत् । पुष्पपातु लेपन दीपनै वेदेव ह्मणतर्पणैश्च । व्रतमेतत् सम्वत्सरं कृत्वा पाप्येभ्यः पूतो भवति । यावज्जीवं कृत्वा श्वेतद्वीपमवाप्नोति । उभयद्वादशीष्वेकं स्वर्गलोकं प्राप्नोति यावज्जीवं कृत्वा - विष्णोर्लोकमाप्नोति । एवमेव पञ्चदशीष्वपि ।
ब्रह्मभूतममावास्यां पौर्णमास्यान्तथैव च ।
योगभूतं परिचरम् केशवं महदाप्नुयात् ॥
[[1]]
[[४८०]]
विष्णुस्मृतिः ।
दृश्येत सहितौ यस्यां दिवि चन्द्र वृहस्पती । पौर्णमासी तु महती प्रोक्ता सम्बत्सरे तु सा ॥ तस्यां दानोपवासाद्यमक्षतं परिकीर्त्तितम् । तथैव द्वादशी शुक्ला या स्याच्छवणसंयुता ॥
इति वैष्णवे धर्मशास्त्रे एकोनपञ्चाशत्तमोऽध्यायः ॥
॥ पञ्चाशत्तमोऽध्यायः ॥
वने पर्णकुटीं कृत्वा वसेत् त्रिषवणं स्नायात् स्वकर्म- चाचक्षाणो ग्रामे ग्रामे भैक्ष्यमाचरेत् तृणशायी च स्या एतन्महात्रतं ब्राह्मगं हत्वा द्वादशसम्बत्सरं कुर्य्यात् । यागस्थं क्षत्रियं वा । गुविणीं रजस्वला वा । अत्रिगोत्रां वा नारीम् । मित्रं वा ।
नृपतिबधे महाव्रतमेत्र द्विगुणं कुर्य्यात् ।
।
पादोनं क्षत्रियबवे । अर्द्ध वैश्यबधे । तदर्द्ध शूद्रबधे सर्वेषु शवशिरोध्वजी स्यात् । सर्वेषु जीवेषु क्षमी स्यात् मासमेकं कृतपावनो गवानुगमनं कुर्य्यात् आसीनास्वासीत स्थितासु स्थितः स्यात् अवसन्नाञ्चोद्धरेत् भयेभ्यश्च रक्षेत्- तासां शीतादित्राणमकृत्या नात्मनः कुर्य्यात् गोमूत्रेण- स्नायात् गोरसैश्च वर्त्तेत । एतगोत्रसं गोवधे कुर्य्यात् ।
पचाशत्तमोऽध्यायः ।
गजं हत्वा पञ्च नीलान् वृपभान् दद्यात् । तुरगं वासः । एकहायनमनडाहं खरबधे । मेषाजबधे च । सुवर्णकृष्णलमुद्रवधे । श्रानं हत्वा त्रिरात्रमुपवसेत् ।
[[४८१]]
हत्वा मूपकमाज्जरिन कुलमण्डूकडुण्डुभा जगराणामन्यत- ममुपोषितः कृपरान्नं भोजयित्वा लोहदण्डं दक्षिणां दद्यात् । गोवोलूककाकभषवध त्रिरात्रमुपवसेत् ।
हंसबकबलाकमद्गुवानरश्येनभासचक्रवाकानामन्यतमं-
हत्वा ब्राह्मणाय गां दद्यात् ।
सर्प हत्वाकार्ष्णायसीम् । पण्डं हत्वा पलालभारकम् । वराहं हत्वा घृतकुम्भम । तित्तिरिं तिलद्रोणम् ।
शुकं द्विहायनं वत्सम् । क्रौञ्च त्रिहायणम् ।
क्रव्यादमृगबधे पयस्विनीं गां दद्यात् ।
अक्रव्यादमृगवधे वत्सतरीम् । अनुक्तमृगवधे- त्रिरात्रं पयसा वर्त्तेत ।
पक्षिवधे नक्काशी स्यात् रूप्यमाषकं वा दद्यात् । हत्वा जलचरमुपवसेत् ।
अस्थिमताश्च सत्वानां सहस्रस्य प्रमापणं । पूर्णे चानस्यनस्थ्नान्तु शूद्रहत्याव्रतञ्चरेत् ॥ किन्चिदेव तु विप्राय ददस्थितां वधे । अनस्थनां चैव हिंसायां प्राणायामेण सुध्यति ॥
[[३१]]
[[४८२]]
विष्णुस्मृतिः ।
फलदानान्तु वृक्षाणां छेदने जप्यमृशतम् । गुल्मवल्लीलतानाच पुष्पितानाञ्च वीरुधाम् ॥ अन्नजानाश्च सत्वानां रसजानाञ्च सर्वशः । फल.पु.पोद्भवानाञ्च घृतप्राशो विशोधनम् ॥ कृरजानामोषधीनां जातानाभ्व स्वयं वने । वृथालम्भे तु गच्छेद्रां दिनमेकं पयोव्रतम् ॥
इति वैष्णवे धर्मशास्त्रे पथ्वाशत्तमोऽध्यायः ॥
॥ अथ एकपञ्चाशत्तमोऽध्यायः ॥
सुरापः सर्वकर्मवर्जितः कणान् वर्षमश्नीयात् ।
मलानां मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्य्यात् । लशुनपलाण्डुगुञ्जनैतद्वन्धि विडुराहग्राम्य कुक्कुटवानर-
गोमांसभक्षणे च ।
सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्य्यात् । वपनमेखलादण्डभैक्ष्यचय्र्याव्रतानि पुनः संस्कार-
कर्मणि वर्जनीयानि ।
शशकशल्लकगोधाखड्गकूर्मवजं पञ्चनखमांसाशने- सप्तरात्रमुपवसेत् ।
गणगणिकास्तेन गायनान्नानि भुक्ता सप्तरात्रं पयसा वर्त्तेत । तक्षक्कानं चर्मकर्त्तुश्च ।एकपचाशत्तमोऽध्यायः ।
वार्धुषिककदर्य्य दीक्षितबद्वनिगडाभिशस्तपण्डानाश्च ।
पुंश्चली दाम्भिकचिकित्सकलुब्धककरोमोन्छि भोजिनाश्च । अवीरास्त्री सुवर्णकारसपत्नपतितानाश्च । पिशुनानृतवादिक्षतधर्मात्मरसविक्रयिणाञ्च । शैलूषतन्तुवाय कृतघ्नर जकानाञ्च । कर्मकारनिषादरङ्गावताविणशस्त्रविक्रयिणाञ्च । श्वजीविशौण्डिकतै लिकचैलनिर्णेजकानाञ्च । रजस्वलास होप पतिवेश्मनाञ्च ।
भ्रूणघ्ना वेक्षितमुक्या संस्पृां पतत्रिणावलीढं- शुना संस्पृरं गवाघातश्च ।
कामतो यदा संस्पृमत्रक्षुतम् ।
मत्तक्रुद्धातुराणाञ्च । नाचितं वृथामांसं च । पाठीनरोहितराजीवसिंहतुण्डशकुलवजं- सर्वमत्स्यमांसाशने त्रिरात्रमुपवसेत् ।
सर्वजलजमांसाशनेषु च ।
[[४८३]]
आपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीभृतम्पयः पिवेत् ।
मद्यभाण्डस्थाश्च पञ्चरात्रम् ।
सोमपः सुरापस्यात्रायास्य गन्धमुदकमग्नस्त्रिरघमर्षणं-
जप्त्वा घृतप्राशनो भवेत् ।
खरोष्ट्रकाकमांसाशने चान्द्रायणं कुर्य्यात् ।
प्राश्याज्ञातं सूनास्थं शुष्क मांसञ्च । क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रम ।
[[४८४]]
विष्णुस्मृतिः ।
कलविङ्कवचक्रवाकहंस रज्जुदालसारसदात्यूहशुकसारिका- यकबलाकाको किलखञ्जरीटाशने त्रिरात्रमुपवसेत् । एकशफोभयदताशने च ।
तित्तिरिकापिञ्जल्लावकवत्तिकामयूरवज्र्जं सर्वपक्षिमांसाशने -
चाहोरात्रम् ।
कीटाशने दिनमेकं ब्रह्मसुवचलां पिवेत् ।
शुनां मांसाशने च । च्छत्राककरकाशने सान्तपनम् । यवगोधूमपयोविकारं स्नेहाकं शुकं खाण्डवञ्च- वर्जयित्वा पय्युपितं तत्प्राश्योपवसेत् । ब्रश्चनामेव्यप्रभवांल्लोहितांच वृक्षनिर्यासान् ।
शालूकवृथाकृसरसंयावपाय सापूपशष्कुलीदेवान्नानि हवींषि च । गोजामहिषीव सर्वपयांसि च ।
अनिर्दशाहानि तान्यपि ।
स्यन्दिनीसन्धिनीविवत्साक्षीरञ्च ।
अमेध्यभुजश्च । दधिवज्र्ज केवलानि च शुक्तानि । ब्रह्मचर्याश्रमी श्राद्धभोजने त्रिरात्रमुपवसेत् दिनमेकं- चोदके वसेत्
मधुमांसाशने प्राजापत्यम् ।
विडाल काकनकुलाखूच्छिभक्षणे ब्रह्मसुवर्चलां पिवेत् । स्वोच्छिष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिवेत् । पञ्चनखविण्मूत्राशने सप्तरात्रम् । आमश्राद्धाशने त्रिरात्रं पयसा वर्त्तेत ।
एकपञ्चाशत्तमोऽध्यायः ।
[[४८५]]
ब्राह्मणः शूद्रोच्छिप्राशने सप्तरात्रम् ।
वैश्योच्छिष्टाशने पञ्चरात्रम् ।
राजन्योच्छिष्टाशने त्रिरात्रम् ।
ब्राह्मणेच्छिष्टाशने काहम् ।
राजन्यः शूद्रोच्छिष्टाशी पञ्चरात्रम् । वैश्योच्छिष्टाशी त्रिरात्रम् । वैश्यः शूद्रोच्छिष्टाशी च ।
चाण्डालान्नं भुक्ता त्रिरात्रमुपवसेत् ।
सिद्ध भुक्ता पराकः ।
असंस्कृतान् पशून्मन्त्रैर्नाद्याद्विप्रः कथञ्चन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ यावन्ति पशुरोमाणि तावत् कृत्वेह मारणम् । वृथा पशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कतिम् ॥ यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोहि भूत्यै सर्वस्य तस्माद्यज्ञे बधोऽवधः ॥ न तादृशं भवत्येनो मृगं हन्तुर्धनार्थिनः । यादृशं भवति प्रेत्य वृथांमांसानि खादतः ॥ औपध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थे निधनं प्राप्ताः प्राप्नुवन्त्युत्थितीः पुनः ॥ मधुपर्के च यज्ञे च पितृदैवतकर्मणि । अत्रैव पशवो हिस्या नान्यत्रेति कथञ्चन ॥ यज्ञार्थेषु पशून् हिंसन् वेदतत्त्वार्थवि द्विजः । आत्मानश्च पशूंश्चैव गमयत्युत्तमां गतिम् ॥
[[४८६]]
विष्णुस्मृतिः ।
गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः । मावेदविहितां हिंसामापद्यपि समाचरेत् ॥ या वेदविहिता हिंसा नियतास्मिंश्वराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्वभौ ॥ योऽहिंसकानि भूतानि हिनस्यात्मसुखेच्छया । स जीवंश्च मृतश्चैव न क्वचित् सुखमेधते ॥ यो बन्धनबधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ यद्धयायति यत्कुरुते रतिं बध्नाति यत्र च । तदवाप्नोति यत्नेन यो हिनस्ति न किश्वन ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वर्यस्तस्मान्मांसं विवर्जयेत् ॥ समुत्पत्तिञ्च मांसस्य बधबन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्त्तत सर्वमांसस्य भक्षणात् ॥ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ अनुमन्ता बिरासिता निहन्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्त्ता च खादकश्चेति घातकाः ॥ स्वमांसं परमांसेन यो बर्द्धयितुमिच्छति । अनभ्यचच पितॄन् दे॒वांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तस्य पुण्यफलं समम् ॥
द्विपञ्चाशत्तमोऽध्यायः ।
फलमूलाशनै दिव्यैर्मुन्यन्नानाव्च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ मांस भक्षयिताऽमुत्र यस्य मांसमिहाद्मयहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
इति वैष्णवे धर्मशास्त्र एकपञ्चाशत्तमोऽध्यायः ॥
[[४८७]]
॥ अथ द्विपञ्चाशत्तमोऽध्यायः ॥
सुवर्णस्तेयकृद्राज्ञे कर्म्माचक्षाणो मुपलमर्पयेत् । बधात्र्यागाद्वा प्रयतो भवति ।
महाव्रतं द्वादशाब्दानि वा कुर्य्यात् ।
निक्षेपापहारी च । धान्यवनापहारी च कृच्छ्रमन्दम् । मनुष्यस्त्रीकूपक्षेत्रत्रापीनामपहरणे चान्द्रायणम् ।
इत्र्याणा मल्पसाराणां सान्तपनम् ।
भक्ष्यभोज्यपान राय्यासनपु पमूलफलानां पञ्चगव्यपानम् । तृणकाष्ठद्र ुम शुष्कान्नगुडस्त्रचम्म मिराणां त्रिरात्रमुपवसेत । मणिमुक्ताप्रबालताम्ररजताय. कांस्यानां द्वादशाहं-
कणानश्नीयात् ।
कार्पासकीटजोर्णाद्यपहरणे त्रिरात्रं पयसा वर्त्तेत ।
द्विशफैकशफहरणे त्रिरात्रमुपवसेत् ।
पक्षिगन्धौषधिरज्जुर्वेदलानामपहरणे दिनमुपवसेत् ॥
[[४८८]]
बिष्णुस्मृतिः ।
दत्त्वैवापहृतं द्रव्यं धनिकस्याप्युपायतः । प्रायश्चित्तं ततः कुर्य्यात् कल्मषस्यापनुत्तये ॥ यद्यत्परेभ्य आदद्यात् पुरुषस्तु निरङ्कुशः । तेन तेन विहीनः स्याद्यत्र यत्राभिजायते ॥ जीवितं धर्मकामौ च धने यस्मात् प्रतिष्ठितौ । तस्मात् सर्वप्रयत्नेन धनहिंसा विवर्जयेत ॥ प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा । महादुःख मवाप्नोति धनहिंसापरस्तयोः ॥
इति वैष्णवे धर्मशास्त्रे द्विपञ्चाशत्तमोऽध्यायः ॥
॥ अथ त्रिपञ्चाशत्तमोऽध्यायः ॥
अथागम्यागमने महाव्रत विधानेनाब्दं चीरवासा वने- प्राजापत्यं कुर्य्यात् । परदारगमने च । गोत्रतं गोगमने च । पुंस्ययोनावाकाशेऽसु दिवा गोयाने च सवासाः स्नानमाचरेत् । चाण्डालीगमने तत्साम्यमवा’नुयात् ।
अज्ञानतश्चान्द्रायणद्वयं कुर्य्यात् ।
पशुवेश्यागमने प्राजापत्यम् ।
सकृदुष्टा स्त्री यत् पुरुषस्य परदारे तद्वतं कुर्य्यात् ।
चतुःपञ्चाशत्तमोऽध्यायः ।
यत्करोत्येकरात्रेण वृषलीसेवनाद्विजः ।
तद्वैभुग् जपन्नित्यं त्रिभिर्वर्षे त्र्येपपोहति ॥
इति वैष्णव धर्मशास्त्रं त्रिपश्चाशत्तमोऽध्यायः ॥
[[४८६]]
॥ अथ चतुःपञ्चाशत्तमोध्यायः ॥
यः पापात्मा येन सह संयुज्यते स तम्यैव प्रायश्चित्तं कुर्य्यात् । मृतपञ्चनखात् कूपादृत्य तोपहताच्चोदकं पीत्वा- ब्राह्मणस्त्रीरात्रमुपवसेत् । द्वयहं राजन्यः । एकाहं वैश्यः । शूद्रो नक्तम् । सर्वे चान्ते व्रतस्य पञ्चगव्यं पिवेयुः ॥
पञ्चगव्यं पिवेच्छूद्रो ब्राह्मणस्तु सुरां पिवेत् । उभौ तौ नरकं यातो महारौरवसंज्ञितम् ॥
पवनारोग्यवर्जमृतावगच्छन् पत्नीं त्रिरात्रमुपवसेत् । कूटसाक्षी ब्रह्महत्याव्रतश्चरेत् ।
अनूदकमूत्रपुरीषकरणे सचैलस्नानं महाव्याहृतिहोमश्च । सूर्याभ्युदित निर्मुक्तः सचैलस्नातः सावित्र्यशतमावर्त्तयेत् । वशृगालविड्वराहखरवानरवाय सपुंश्चलीभिर्दष्टः- स्रवन्तीमासाद्य षोड़श प्राणायामान् कुर्य्यात् । वेदाग्न्युत्सादी त्रिषवणस्नाय्यवशायी सम्वत्सरं- सक्ष्येण वर्त्तेत ।
[[४६०]]
विष्णुस्मृतिः ।
समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदाक्षेपणे च मांस- पयसा वर्त्तेत ।
नास्तिको नास्तिकवृत्ति कृतघ्नः कूटव्यवहारी- ब्राह्मण तिघ्नश्चैते सम्वत्सरं भैक्ष्येण वर्त्तेरन् । परिवित्तिः परिवेत्ता या च परिवेत्ता या च परिविद्यते- दाता याजकश्च चान्द्रायणं कुर्यात् । प्राणिभूपुण्यलोमविक्रयी ताकृछ कुर्य्यात् । आर्द्रापधिगन्धपुष्पफलमूलच मंत्र त्रैदल नुपकपालकेश- भस्मास्थि गोरस पिण्याकतिलतैलविक्रमी प्राजापत्यम् । श्लेष्म जतुमधूच्छि शङ्खत्रपुशुक्तिसी सकृष्णलो हो- डुम्बरखड्गपात्रबिकयो चान्द्रायणं कुर्यात् ।
रक्तवस्त्र रङ्गरत्नगन्धगुड़मधुरसोर्णाविक्रयो त्रितत्रमुपवसेत् । मांसलवणलाक्षाक्षीरविक्रयी चान्द्रायणं कुर्यात् ।
तञ्च भूयश्चोपनयेत् ।
उष्ण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्ता- प्राणायामत्रयं कुर्यात् ॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठ पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ अयाज्ययाजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनश्च त्रिभिः कृच्छ व्यपोहति ॥ येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनापयेत् ॥
चतुःपञ्चाशत्तमोऽध्यायः ।
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः । ब्राह्मण्याश्च परित्यक्तास्तेषामप्येतदादिशेत् ॥ यद्रहितेनार्जयन्ति कर्म्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्धयन्ति जप्येन तपसा तथा ॥ वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकत्रतलोपे च प्रायश्चितमभोजनम् ॥ अवगूर्य चरेत् कृच्छमतिकृच्छ निपातने । कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् । एनस्विभिरनिर्णिक्तैनाथं कञ्चित् समाचरेत् ॥ कृत निर्णेजनांश्चैतान्न जुगुसेत धर्म्मवित् । बालघ्नधि कृतनांश्च विशुद्रानपि धर्मतः । शरणागतहन्तृच स्त्रोहन्तश्च न संवसेत् ॥ अशीतिर्यस्य वर्षाणि बालो वाप्यनषोडशः । प्रायश्चित्तार्द्धमईन्ति स्त्रियो रोगिण एव च ॥ अनुक्तनिश्रुतीनाञ्च पापानामपनुत्तये ।
शक्तिञ्चावेक्ष्य पापञ्च प्रायश्चित्तं प्रकल्पयेत् ॥
इति वैष्णवे धर्मशास्त्रे चतुःपञ्चाशत्तमोऽध्यायः ॥
[[४६१]]
रहर्
विष्णुस्मृतिः ।
॥ अथ पञ्चपञ्चाशत्तमोऽध्यायः ॥
अथ रहस्यप्रायश्चित्तानि भवन्ति ।
स्रवन्तीमासाद्य स्नातः प्रत्यहं षोड़श प्राणायामान्- कृत्वैककालं हविष्याशी मासेन पूतोब्रह्महा भवति । कर्मणोऽन्ते पयस्विनीं गां दद्यात् ।
तेनाघमर्षणेन च सुरापः पूतो भवति । गायत्रीदशसाहस्रजपेन सुवर्णस्तेयकृत त्रिरात्रोपोषितः- पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः ॥
।
यथाश्रमेवः क्रतुराट् सर्वपापापनोदनः । तथाघमर्पणं सूक्तं सर्वपापपनोदनम् ॥ प्राणायामं द्विजः कुर्यात् सर्वपापापनुत्तये । दन्ते सर्वपापानि प्राणायामै द्विजस्य तु ॥ सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥
अकारञ्चाप्युकारश्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुह भूर्भुवः स्वरितीति च ॥
त्रिभ्य एव च वेदेभ्यः पादं पादमदूदुहत् । तदित्र्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥
एतदक्षरमेताञ्च जपन् व्याहृतिपूर्विकाम् ।
सन्ध्ययोर्वेदविदुषो वेदपुण्येन युज्यते ।पञ्चपञ्चाशत्तमोऽध्यायः ।
सहस्रकृत्वरत्वभ्यस्य वहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासास्वचेवाहिर्विमुच्यते ॥ एतयाऽपरिसंयुक्ता काले च क्रियया स्वया । विप्रक्षत्रिय विड्जातिर्गणं याति साधुषु ॥ ओङ्कारपूर्विकास्तित्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणोमुखम् ॥ योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । स ब्रह्म परमभ्येति वायुभूतः खमूर्त्तिमान् ॥ एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः । सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ क्षरन्ति सर्ववैदिकयो जुहोति यजतिक्रियाः । अक्षरं त्वक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः ॥ विधियज्ञाज्जपयज्ञो विशिष्ठो दशभिर्गुणैः । उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥ ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोड़शीम् ॥ जप्येनैव तु संसिद्ध ब्राह्मणो नात्र संशयः । कुर्यादन्यन्नवा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥
इति वैष्णवे धर्मशास्त्रे पञ्चपञ्चाशत्तमोऽध्यायः ॥
The command
४६३ .
[[४६४]]
विष्णुस्मृतिः ।
॥ अथ षट्पश्चाशत्तमोऽध्यायः ॥
अथातः सर्ववेदपवित्राणि भवन्ति ।
येषां जपैश्च होमैश्च द्विजातयः पापेभ्यः पूयन्ते । अघमर्षणं देवकृतं शुद्धवत्यः तरत्सम्मदीयं कुमाण्ड्यः- पावमान्यः दुर्गा सावित्री अनीपङ्गाः पदस्तोमाः सामानि- व्याहृतयः भारुण्डानि चन्द्रसामपुष्पवते मासं वार्हस्पत्यं - गोसूक्तं अश्वसूक्तं सामनीचन्द्रसूक्तं च शतरुद्रीयं अथर्व- शिरः त्रिसुपर्ण महाव्रतं नारायणीयं पुषसूक्त थ्व । त्रीण्याज्यदोहानि रथश्वरश्व अग्निव्रतं वामदेव्यं वृहश्च । एतानि गीतानि पुनन्ति जन्तून् जाति मरत्वं लभते य इच्छेत् ।
इति वैष्णवे धर्मस्त्रे पटपश्चाशत्तमोऽध्यायः ॥
अथ रूपश्वाशत्तमोऽध्यायः ॥
अथ त्याज्याः ।
ब्रात्या पतितास्त्रिपुरुषं मातृतः पितृतश्चाशुद्धाः- सर्व एवाभोज्याश्चाप्रतिप्राद्याः ।
अप्रतिप्रायेभ्यश्च प्रतिग्रहप्रसङ्गं वर्जयेत् ।
प्रतिनहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति ।
द्रव्याणां वाऽविज्ञाय प्रतिग्रहविधिं यः प्रतिग्रहं कुर्य्यात् स दात्रा सह निमज्जति ।
अष्टपञ्चाशत्तमोऽध्यायः ।
[[४६५]]
प्रतिग्रहसमर्थश्च यः प्रतिप्रहुं वर्जयेत् स दातृलोकमवाप्नोति । एघोदकमूलफलाभयामिषमधुशय्यासनगृह पुष्पदधि-
शाकांश्चाभ्युद्यतान्न निर्णुदेत ॥
आहूयाभ्युद्यतां भिक्षां पुरस्त दनु चोदिताम् । ग्राह्यां प्रजापतिर्तेने अपि दुष्कृतकर्म्मणः ॥ नाश्नन्ति पितरत्तस्य दशवर्षाणि पञ्च च । नच हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ गुरुन् भृत्यानूज्जिहीर्षुरचिष्यन् पितृदेवताः । सर्वतः प्रतिगृह्णीयान्नतु तृप्येत् स्वयं ततः ॥ एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे । नादद्यात् कुलटाषण्डपतितेभ्यस्तथा द्विषः ॥ गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् । आत्मनोवृत्तिमन्विच्छन् गृह्णीयात् साधुतः सदा ॥ अर्द्धिकः कुलमित्रभ्व दासगोपालनापिताः । एते शूद्रेषु भोज्यान्ना यचात्मानं निवेदयेत् ॥
इति वैष्णवे धर्मशास्त्र सप्तपञ्चाशत्तमोऽध्यायः ॥
अथ अष्टपञ्चाशत्तमोऽध्यायः ॥
अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति । शुल्कः शवलोsसितश्चार्थः ।
[[४६६]]
विष्णुरमृतिः ।
शुल्केनार्थेन यदैहिकं करोति तदेवमासादयति । यच्छव ेन तन्मानुष्यम्। यत्कृष्णेन तत्तिर्यक्तम् । स्ववृत्युपार्जितं सर्वं सर्वेषां शुल्कम ।
अनन्तरवृत्त्युपात्तंशवलम् । अन्तरितवृत्त्युपात्तञ्च कृष्णम ।
क्रमागतं प्रीतिदायं प्राप्तञ्च सह भार्यया । अविशेषेण सर्वेषां धनं शुल्कं प्रकीर्त्तितम् ॥ उत्कोचशुल्क संप्राप्तमविक्रयस्य विक्रये । कृतोपकारादाप्तञ्च शबलं समुदाहृतम् ॥ पार्श्विकद्युतचौर्याप्तं प्रतिपकसाहसौ । व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ यथाविधेन द्रव्येण यत्किञ्चित् कुरुते नरः । तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥
इति वैष्णवे धर्मशास्त्रं अष्टपञ्चाशत्तमोऽध्यायः ।
॥ अथ एकोनषष्टितमोऽध्यायः ॥
गृहाश्रमी वैवाहिकानौ पाकयज्ञान् कुर्य्यात् । सायं प्रातस्त्राग्निहोत्रम् । देवताभ्योजहुयात् चन्द्रार्कसन्निकर्षविप्रकर्षयोर्द्दर्शपूर्णमासाभ्यां यजेत । प्रत्ययनं पशुना । शरदप्रीष्म योश्चामहायणेन ।
[[1]]
एकोनषष्टितमोऽध्यायः ।
[[४६७]]
ब्रीहियवयोर्वा पाके । त्रैवार्षिकाभ्यधिकान्नः प्रत्यब्दं सोमेन । वित्ताभावे इष्टया वैश्वानय्यां । शूद्रान्नं यागे परिहरेत् । यज्ञार्थं भक्षितमवाप्तमर्थं सकलमेव वितरेत् ।
सायं प्रातर्वैश्वदेवं जुहुयात । भिक्षां च भिक्षवं दद्यात् । अर्चितभिक्षादानेन गोदानफलमवाप्नोति ।
भिक्ष्वभावे तन्मात्रं गवां दद्यात् ।
वौ वा प्रक्षिपेत ।
मुक्ताऽप्यन्न विद्यमानेन भिक्षुकं प्रत्याचक्षीत ।
कण्डनी पंपणी चुल्ली कुम्भ - उपस्कर इति पञ्चसूना गृहस्थस्य । तन्निः कृत्यर्थञ्च ब्रह्मदेवभूतपितृनरयज्ञान् कुर्य्यात् । स्वाध्यायो त्रह्मयज्ञः । होमो दैवः । वलिर्भीतः । पितृ तर्पणं पित्र्यः । नृयज्ञश्चातिथिपूजनम ।
देवतातिथिभृत्यानां पितृणामात्मनस्तथा । न निवपति पञ्चानामुच्छ्रसन्न स जीवति ॥ ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् । तस्मादभ्यागतानेतान् गृहस्थो नावमानयेत् ॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः । ददाति च गृहस्थस्तु तस्माज्ज्येष्ठो गृहाश्रमी ॥
ऋषयः पितरो हेवा भूतान्यतिथयस्तथा । आशासते कुटुम्बिभ्यस्तस्माच्छ्रष्ठो गृहाश्रमी ॥
[[३२]]
[[४६८]]
विष्णुस्मृतिः ।
त्रिवर्गसेवा सततान्नदानं सुराचनं ब्राह्मणपूजननञ्च । स्वाध्यायसेवां पितृतर्पणञ्च कृत्वा गृही शक्रपदं प्रयाति ॥
इति वैष्णवे धर्मशास्त्र एकोनषष्टितमोऽध्यायः ॥
॥ अथ पष्टितमोऽध्यायः ॥
ब्राह्मे मुहूर्त्ते उत्थाय मूत्रपुरीषोत्सगं कुर्य्यात् । दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः सन्ध्ययोश्च । नाप्रच्छादितायां भूमौ । न फालकृष्टायाम् ।
न च्छायायाम् । न चोषरे । न शाद्वले । न ससत्वे । न गर्ते ।
1 न वल्मीके । न पथि । न रथ्यायाम् । न पराशुचौ । नोद्याने । नोद्यानोदकसमीपयोः । नाङ्गारे । न भस्मनि । न गोमये । न गोत्रजे ।
नाकाशे । नोदके ।
न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानाश्व ।
नैवावगुण्ठितशिराः ।
लोष्टष्टकाभिः परिमृज्य गुदं गृहीतशिश्नश्चोत्थायाद्भिर्मुद्भि-
श्वोद्धृताभिर्गन्धलेपभयकरं शौचं कुर्य्यात् ॥
एका लिङ्गे गुदे त्रिस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या दस्तिस्रस्तु पादयोः ॥
एकषष्टितमोऽध्यायः ।
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणच वनस्थानां यतीनाञ्च चतुर्गुणम् ॥
इति वैष्णवं धर्मशास्त्र पष्टितमोऽध्यायः ॥
७००७-
[[४६६]]
॥ अथ - एकषष्टितमोऽध्यायः ॥
अथ पालाशं दन्तधावनं नाद्यात् । नैव श्लेष्मातकारिए बिभीतकधववधन्वनजम् । न च बन्धूकनिर्गुण्डीशिग्रुतिल्वतिन्दुकजम् । न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजम् । न पारिभद्रकालिकामोचकशाल्मलीशणजम् ।
न मधुरम् । नाम्लम् । नोर्श्वशुष्कम् ।
नो शुष्कम् । न शुशिरम । न पुतिगन्धि । न पिच्छिलम् । न दक्षिणापराभिमुखः ।
अद्याच्चोदङ्मुखः प्राङ्मुखोवा । वटासनार्कखदिरकरञ्जवदरसर्ज्जनिम्वारिमेदापामार्ग- मालतीककुभविल्वानामन्यतमम् । कषायं तिक्तं कटुकञ्च ॥
कनीन्यप्रसमस्थौल्यं सकूचं द्वादशाङ्गुलम् ।
प्रातर्भूत्वा च यतवाकू भक्षयेद्दन्तधावनम् ॥ प्रक्षाल्य भुक्ता तज्जह्याच्छुचौ देशे प्रयत्नतः । अमावास्यां न चाश्नीयाद्दन्तकाष्ठ कदाचन ॥
इति वैष्णवे धर्मशास्त्रे - एकषष्टितमोऽध्यायः ॥
[[५००]]
विष्णुस्मृतिः ।
॥ अथ द्विषष्टितमोऽध्यायः ॥
[ द्विषष्टितमोऽ-
अथ द्विजातीनां कनीनिकामूळे प्राजापत्यं नाम तीर्थम । अङ्गुष्ठमूले ब्राह्मम् । अङ्गुल्य दैवम । ।
तज्ज नीमूळे पित्र्यम् ।
अनग्न्युष्णाभिरफेनिलाभिर्नशूट्रैक करावर्जिताभिरक्षराभि-
रद्भिः शुचौ देशे स्वासीनो तर्ज्ञानुः प्राङ्मुखश्वोदङ्मुखोवा- तन्मनाः सुमनाश्चाचामेत् ।
ब्राह्मण तीर्थेन त्रिराचामेत् । द्विःप्रमृज्यात् ।
स्वान्यद्भिर्मूर्द्धानं हृदयं स्पृशेत् ।
हृत्कण्ठ तालुगाभिस्तु यथासंख्यं द्विजातयः । शुद्धयरन स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ इति वैष्णवे धर्मशास्त्र द्विपतिमोऽध्यायः ॥
॥ अथ त्रिपप्रितमोऽध्यायः ॥
अथ योगक्षेमार्थमीश्वरमुपगच्छेत् । नैकोऽध्वानं प्रपद्येत । नाधार्मिकैः सार्द्धम । न वृषलैः । न द्विषद्भिः ।
नातिप्रत्यूषसि । नातिसायम् ।
न सन्ध्ययोः । न मध्याह्न े न सन्निहितपानीयम् । नातितूर्णम् । न रात्रौ । न सन्ततं व्याल व्याधितार्त्तवाहनैः । न हीनाङ्गैः न रोगिभिः । न दीनैः । न गोभिः ।
ध्यायः ]
नादान्तैः ।
आचारकृत्यवर्णनम् ।
[[५०१]]
यवसोदकैवहनानामदत्त्वात्मनःक्षुत्तृष्णापनोदने न रात्रौ वृक्षमूलम ।
न कुर्य्यात् । न चतुष्पथमधितिष्ठेत् ।
न शून्यालयं न तृणम् । न पशूनां बन्धनागारम् । न केशतुपकपालास्थिभस्माङ्गारान् । न कार्पासास्थि । चतुष्पथं प्रदक्षिणीकुर्य्यात् देवतान्च प्रज्ञातांश्च वनस्पतीन् । अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्ष-
वर्द्धमाननन्द्यावत्तश्च तालदन्तचामराश्वगजाजगोदधि- क्षीरमधुसिद्धार्थकांच वीणाचन्दनायुधार्द्रगोमय पुष्पशाक- गोरोचनादूव्र्वाप्ररोहांश्च उष्णीपालङ्कारमणिकनकरजत- वासनयानामिपांच भृङ्गारोद्धृतोरारज्जुबद्धपशु- कुमारीमीनांश्च दृष्टा प्रयादिति ।
अथमत्तोन्मत्तव्यङ्गान् दृष्ट्वा निवर्त्तत ।
वान्तविविक्तमुण्डमलिनवसनजटिलवामनांश्च ।
कपायिप्रव्रजितमलिनांश्च ।
तैलगुडशुष्कगोमयेन्धनतृणकुशपलाशभस्माङ्गाराश्च । लवणक्कीवासवनपुंसककार्पासरज्जुनिगड़मुक्तकेशांश्च । वीणाचन्दनार्दशाकोष्णीषालङ्करणकुमारीः- प्रस्थानकालेऽभिनन्दयेदिति ।
देवब्राह्मणगुरुव दीक्षितानां च्छायां नाक्रामेत् । निष्ठुनवान्तरुधिरविण्मूत्रस्नानोदकानि वा ।
न वत्सतन्त्र लड्डयेत् । प्रवर्षति न धावन् । न वृथा नदीं तरेत् ।
[[५०२]]
विष्णुस्मृतिः ।
न देवताभ्यः पितृभ्यश्वेदकामं प्रदाय । न वाहुभ्याम । न भिन्नया नावा । न कच्छमधितिष्ठत । न कूपमवलोकयेत न लङ्घयेत् ॥
वृद्धभारिनृपस्नातस्त्रीरोगिवरच क्रिणाम् ।
पन्था देयो नृपत्वेषां मान्यः स्नातश्च भूपतेः ॥
इति वैष्णवे धर्मशास्त्रे त्रिपष्टितमोऽध्यायः ॥
॥ अथ चतुःषष्टितमो ध्यायः ॥
परनिपानेषु न स्नानमाचरेत् ।
आचरेत् पञ्चपिण्डानुद्धृत्यापदि । नाजीर्णे ।
[[1]]
नचातुरः । न नग्नः । न रात्रौ राहुदर्शनवर्जम् । न सन्ध्ययोः ।
प्रातःस्नाय्य रुणकिरणग्रस्तां प्राचीमवलोक्य स्नायात् । स्नातः शिरो नावधुनेत् । नाङ्गेभ्यस्तोयमुद्धरेत । न तैलवस्तु स्पृशेत् । नाप्रक्षालितं पूर्वघृतं वसनं विभृयात् । स्नातः सोष्णीषो धौतवाससी विभृयात् ।
न म्लेच्छान्त्यजपतितैः सह सम्भाषणं कुर्य्यात् ।
स्नायात् प्रस्रवणदेवखातसरोवरेषु ।
उद्घृताद्भूमिष्ठमुदकं पुण्यं स्थावरात् प्रस्रवणं तस्मान्नादेयं-
तम्मादपि साधुपरिगृहीतं सर्बत एव गानम् ।चतुःषष्टितमोऽध्यायः ।
मृत्तोयः कृतमलापकर्षोऽप्सु निमज्यापोहिष्ठेति तिसृ- भिर्हिरण्यवर्णा इतिचतसृभिरिदमापः प्रवहत इति चतुर्थ- मभिमन्त्रयेत् । ततोऽसु निमग्नस्त्रिरघमर्पणं जपेत् । तद्विष्णोः परमं पदमिति वा । द्रुपदां सावित्रीं वा । युञ्जते मन इत्यनुवाकं वा । पुरुषसूक्तं वा । स्नातश्वाद्रवासा देवपितृतर्पणमम्भःस्थ एव कुर्य्यात्। परिवर्तितवासाश्चेत्तीर्थमुत्तीर्य्य ।
अकृत्वा देवपितृतर्पणं स्नानवस्त्रादि न पीडयेत् ।
स्नात्वाचम्य विधिवदुपरपृशेत् ।
पुरुषसूक्तेन प्रत्र्यृचं पुरुषाय पुष्पाणि दद्यात् । उदकाञ्जलिं पश्चात् ।
आदावेव दिव्येन तीर्थेन देवतानां कुर्य्यात् ।
तदनन्तरं पित्र्येण पितॄणाम् ।
तत्रादौ स्ववंश्यानां तर्पणं कुर्य्यात् ।
ततः सम्बन्धिबान्धवानाम् । ततः सुहृदाम् ।
एवं नित्यस्नायी स्यात् ।
स्नातच पवित्राणि यथाशक्ति जपेत् ।
विशेषतः सावित्रीं त्ववश्यं जपेत् पुरुषसूक्तञ्च । नैताभ्यामधिकमस्ति ॥
स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि । पवित्राणां तथा जप्ये दाने च विधिनोदिते ॥
[[५०३]]
[[५०४]]
विष्णुस्मृतिः । [ पञ्चषष्टितमोऽ-
अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् । स्नातस्य जलमात्रेण नश्यते इति धारणा ॥ याम्यं हि यातनादु खं नित्यस्नायी न पश्यति । नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः ॥
इति वैष्णवे धर्मशास्त्रे चतुःपष्टितमोऽध्यायः ॥
॥ अथ पञ्चपतिमोऽध्यायः ॥
[[11]]
अथातः सुस्नातः प्रक्षालितपाणिपादः स्वाचान्तो देवता- चयां स्थले वा भगवन्तमनादिनिधनं वासुदेवमभ्यर्च्चयेत् । अश्विनैः प्राणैस्त्वेते इति कीचकीयमन्त्रेणाव्य जीवस्य- भगवतो जीवादानं दत्वा युञ्जते मन इत्यनुवाकेनावाहनं- कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्य्यात् । आपोहिष्ठेति तिमृभिरत्र्यं निवेदयेत् । हिरण्यवर्णाइति चतसृभिः पाद्यम् । शन्न आपो धन्वन्या इत्याचमनीयम् । इदमापः प्रवहत इति स्नानीयम् ।
रथे स्वर्थेषु वृषभराजा इत्यनुलेपना लङ्कारौ । युवा सुवासा इतिवासः । पुष्पवतीरितिपुष्पम् । धूरसि धूपमितिधूपम् । तेजोऽसि शुक्रमितिदीपम् । दधिक्रावण तिमधुपर्कः । हिरण्यगर्भ इत्यष्टाभिर्ने वेद्यम् ।
ध्यायः ]
देवपूजनवर्णनम् ।
चामरं व्यजनं मात्रां छत्रं पानासने तथा । सावित्रेणैव तत् सर्व्वं देवाय विनिवेदयेत् ॥ एवमभ्यर्च्य च जपेत् सूक्तं वै पौरुपं ततः । तेनैव जुहुयादाज्यं य इच्शाश्वतं पदम् ॥
इति वैष्णवे धर्मशास्त्रं पञ्चषष्टितमोऽध्यायः ॥
[[५०५]]
॥ अथ पटपटतमोऽध्यायः ॥
न नक्तं गृहीतेनोदकेन देवपितृकर्म कुर्यात् । चन्दनमृगमदागुरुकर्पूरकुङ्कुमजातीफलवर्जमनुलेपनं न दद्यात् ।
न वासो नीलीरक्तम ।
न मणिमुवर्णयोः प्रतिरूपमलङ्करणम् । नार्गान्धि । नोग्रगन्धि । न कण्टकिजम ।
कण्टकिजमपि शुक्लं सुगन्धिकं दद्यात् ।
रक्तमपि कुङ्कुमं जलजञ्च दद्यात् ।
न धूपार्थ जीवजातम् । न घृततैलं विना किश्वन दीपार्थे । नाभक्ष्यं नैवेद्यार्थे । न भक्ष्ये अप्यजामहिपीक्षीरे ।
पञ्चनखमत्स्यवराहमांसानि च ।
प्रयतश्च शुचिर्भूत्वा सर्व्वमेव निवेदयेत् । तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः ॥
इति वैष्णवे धर्मशास्त्रे षट्षष्टितमोऽध्यायः ॥
[[५०६]]
विष्णुस्मृतिः ।
॥ अथ सप्तषष्टितमोऽध्यायः ॥
अथाग्निं परिसमूह्य पय्युक्ष्य परिस्तीर्य्य परिषिच्य सर्वतः-
पाकादप्रमुद्धत्य जुहुयात् ।
वासुदेवाय सङ्कणाय प्रद्युम्नायानिरुद्धाय पुरुषाय- सत्यायाच्युताय वासुदेवाय ।
अथाग्नये सोमाय मित्राय वरुणाय इन्द्रायेन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यः प्रजापतये अनुमत्यै धन्वन्तरये- वास्तोष्पतये अग्नये स्विष्टिकृते च । ततोऽन्नशेषेण वलिमुपहरेत् । भक्ष्योपभक्ष्याभ्यामभितः पूर्वेणाग्नेः ।
अवानामासीति त्वलानामासीति नितन्तीनामासीति-
क्षिप्रणिकानामासीति सब साम ।
नन्दिनि सुभ सुमङ्गलि भद्रकालीतिस्वस्थिष्वभिप्रदक्षिणाम् ।
स्थूणाय धुवायां श्रियै । हिरण्यकेश्ये वनस्पतिभ्यः । धर्माधर्मयोद्वारे मृत्यवे च । उदपाने वरुणाय ।
विष्णव इत्लखले । मरुद्भय इति दृशदि ।
।
उपरिशरणे वैश्रवणाय राज्ञे भूतेभ्यश्च ।
इन्द्रायेन्द्रपुरुषेभ्य इति पूर्वार्द्ध ।
यमाय यमपुरुषेभ्य इतिदक्षिणाद्धं । वरुणाय वरुणपुरुषेम्य इतिपश्चार्द्ध । सोमाय सोमपुरुषेभ्य इत्युत्तरार्द्ध ।
सप्तषष्टितमोध्यायः ।
[[५०७]]
ब्रह्मणे ब्रह्मपुरुषेभ्य इतिमध्ये । ऊद्ध माकाशाय । दिवाचरेभ्यो भूतेभ्य इतिस्थण्डिले । नक्तव्चरेभ्य इतिनक्तम । ततो दक्षिणा दर्भेषु पित्रे पितामहाय प्रपितामहाय - मात्रे पितामह प्रपितामह्ये स्वनामगोत्राभ्याञ्च- पिण्डनिपणं कुर्य्यात् ।
पिण्डानावचानुलेपनपुर धूपनैवेद्यादि दद्यात् ।
उदककलशमुपनिधाय स्वस्त्ययनं वाचयेत् ।
श्वकाकश्वपचानां भुवि निर्वपेत् । भिक्षाञ्च दद्यात् ।
अतिथिपूजने च परं फलमधितिष्ठत् ।
सायमतिथिं प्राप्तं प्रयत्नेनार्चयेत् ।
अनाशितमतिथिं गृहे न वासयेत ।
यथा वर्णानां ब्राह्मण प्रभुर्यथा स्त्रीणां भर्त्ता तथा- गृहस्थस्यातिथिः । तत्पूजायां स्वर्गमाप्नोति ॥
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते । तस्मात् सुकृतमादाय दुष्कृतन्तु प्रयच्छति ॥ एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः । अनित्या हि स्थितिर्यस्मात्तस्मादतिथिरुच्यते ॥ नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा । उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपिवा ॥ यदि त्वतिथिधर्मेण क्षत्रियो गृहमागतः । भुक्तवत्सु च विप्रेषु कामं तमभिपूजयेत् ॥
[[५०८]]
विष्णुस्मृतिः ।
[ सप्तषष्टितमोऽ
वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ ।
भोजयेत् सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ इतराण्यपि सख्यादीन संप्रीत्या गृहमागतान् । प्रकृतान्न यथाशक्ति भोजयेत् सह भार्य्यया ॥ सुवासिनीं कुमारीश्च रोगिणीं गुत्रिणीं तथा । अतिथिभ्योऽय एवैतान् भोजयेदविचारयन् ॥ अदत्त्वा यस्तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । स भुञ्जानो न जानाति श्वगृध्वैर्जग्धिमात्मनः ॥ भुक्तवत्सु च विप्रेषु भृत्येषु स्त्रेषु चैव हि । भुञ्जयीतां ततः पश्चादवशिष्टन्तु दम्पती ॥ देवान् पितॄन् मनुष्यांश्च भृत्यान् गृद्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेपभुग्भवेत् ॥ अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञ शिष्टाशनं ह्येतन सतामन्न विधीयते ॥ स्वाध्यायेनाग्निहोत्रेण यज्ञन तपसा तथा । न चाप्नोति गृही लोकान् यथा त्वतिथिपूजनात् ॥ सायं प्रातस्त्वतिथये प्रदद्यादासनोदकम् । अन्नञ्चैव यथा शक्त्या सत्कृत्य विधिपूर्वकम् ॥ प्रतिश्रयं तथा शय्यां पादाभ्यङ्ग सदीपकम् ! प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ॥
इति वैष्णवे धर्मशास्त्रे सप्तषष्टितमोऽध्यायः ॥
ध्यायः ]
आचारे-स्नानादिकालवर्णनम् ।
चन्द्रार्कोपरागे नाश्नीयात् । स्नात्वा मुक्तयोरश्नीयात् । अमुक्तयोरस्तंगतयोर्हष्ट्रा स्नात्वा चापरेऽह्नि ।
न गोब्राह्मणोपरागेऽश्नीयात् । न राजव्यसने ।
[[५०६]]
प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्येन तदाश्नीयात् । यदा कृतं मन्येत वैश्वदेवमपि ।
पर्वणि च यदा कृतं मन्येत पर्व । नाश्नीयाच्चाजीर्णे
।
!
न सन्ध्योः । नार्द्रवासाः ।
नार्द्ध रात्रे । नैकवासाः ।
न मध्याह्न ।
न नग्नः ।
न जलस्थः ।
नोत्कुटुकः ।
न भिन्नासनगतः । नच शयनगतः । न भिन्नभाजने ।
नोत्सङ्ग े । न भुवि ।
न पाणौ ।
लवणञ्च यत्र दद्यात् न चाश्नीयात् ।
न वालकान्निर्भर्त्सयेत् । नैको मिम् ।
नोद्ध, तस्नेहम् ।
न दिवा धानाः । न रात्रौ तिलसंयुक्तम् । न दधि सक्तून् ।
न कोविदारवटपिप्पलशाणशाकम् । नादत्त्वा । नाहुत्वा । नानार्द्रपादः । नानार्द्रकर मुखश्च ।
नोच्छिष्टश्च घृतमादद्यात् न चन्द्रार्कतारका निरीक्षेत ।
न मूर्द्धानं स्पृशेत् । न ब्रह्म कीर्त्तयेत् ।
प्राङ्मुखोऽश्रीयात् दक्षिणामुखो वा ।
अभिपूज्यान्नम् । सुमनाः स्रव्यनुलिप्तः । न निःशेषकृत्स्यात् ।
अन्यत्र दधिमधुसर्पिः पयः सत्तुपलमोदकेभ्यः ।
नाश्नीयाद्भार्यया सार्द्ध नाकाशे न तथोत्थितः ।
बहूनां प्रेक्षमाणानां नैकस्मिन् वहवस्तथा ॥
।
[[५१०]]
विष्णुस्मृतिः ।
शून्यागारे वह्निगृहे देवगारे कथञ्चन । पिवेन्नाञ्जलिना तोयं न तिसौहित्यमाचरेत् ॥ न तृतीयमथाश्नीयान्नचापथ्यं कथञ्चन । नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ न भावदुष्टमश्नीयान्न भाण्डे भावदूषिते । शयानः प्रौढपादश्च कृत्या चैवावसक्थिकाम् ॥
इति वैष्णवे धर्मशास्त्रे अष्टषष्टितमोऽध्यायः ॥
॥ अथ एकोनसप्ततितमोऽध्यायः ॥
नामीचतुर्दशीपञ्चदशीषु स्त्रिमुपेयात् । न श्राद्धं भुक्ता । न श्राद्धं दत्त्वा । नोपनिमन्त्रितः श्राद्ध । न स्नात्वा । न हुत्वा । न व्रती । नोपोष्य भुक्ता वा । न दीक्षितः । न देवायतनश्मशानशून्यालयेषु । न वृक्षमूलेषु । न दिवा । न सन्ध्योः । न मलिनाम् । न मलिनः । नाभ्यक्ताम् । नाभ्यक्तः । न रोगार्त्ताम् । न रोगार्त्तः
न हीनाङ्गी नाधिकाङ्गीं तथैव च वयोधिकाम् । नोपेयाद्गुर्विणीं नारीं दीर्घमायुर्जिजीविषुः ॥ इति वैष्णवं धर्मशास्त्रे एकोनसप्ततितमोऽध्यायः ॥
-:००ः-
एकसप्ततितमोऽध्यायः ।
[[५११]]
नार्द्रपादः स्वप्यात् । नोत्तराप रावाक्शिराः । न नग्नः ।
नार्द्रवंशे । नाकाशे ।
न पलाश शयने । न पवदारुकृते । न गजभग्नकृते । न विद्युदग्धकृते न भिन्नं । नाग्निव्युष्टे । न घटासितद्रुमजे । न श्मशानशून्यालयदेवतायतनेषु । न चपलमध्ये । न नारीमध्ये ।
न धान्यगोगुरुडुताशनसुराणामुपरि ।
नोच्छिटो न दिवा स्वप्यात् सन्ध्ययोर्न च भस्मनि । देशे न चाशुचौ नार्द्रे न च पर्वतमस्तके ॥
इति वैष्णवं धर्मशास्त्रं सप्ततितमोऽध्यायः ॥
॥ अथ एकसप्ततितमोऽध्यायः ॥
अथ न कश्चनावमन्येत ।
न च हीनाङ्गाधिकाङ्गान्मूर्खान् धनहीनानवहसेत् । न हीनान् सेवेत । स्वाध्यायविरोधि कर्म्म नाचरेत् । वयोsनुरूपं वेशं कुर्यात् श्रुतस्याभिजनस्य धनस्य देशस्य च । नोद्धतः । नित्यं शास्त्राद्यवेक्षी स्यात् ।
सति विभवे न जीर्णमलवद्वासाः स्यात् ।
न नास्तीत्यभिभाषेत ।
न निर्गन्धोप्रगन्धिरक्तश्च माल्यं विभृयात् । विभृयाज्जलजं रक्तमपि । यष्टि वैणवीम् ।
[[५१२]]
विष्णुस्मृतिः । [ एकसप्ततितमोऽ-
कमण्डलुच सोदकम् । कार्पासमुपवीतम् । रौक्मे च कुण्डले । नादित्यमुद्यन्तमोक्षेत । नारतं यान्तम् । न वाससा तिरोहितम । न चादर्श जलमध्यगतम् । न मध्याह्न । न क्रुद्रस्य गुरोर्मुखम ।
न तलोदकयोः स्वच्छायाम । न मलवत्यादर्श । न पत्नीं भोजनसमये ।
न स्त्रियं नग्नाम् । न कञ्चन मेहमानम् । न चालानभ्रकुञ्जरम् । न च विषमस्थोवृषादियुद्धम । न मत्तम् । नामे यमग्नौ प्रक्षिपेत् ।
न विपम । नापस्वपि ।
नासृक् ।
नाग्नि लङ्घयेत् ।
न पादौ प्रतापयेत् । न कुशस्तेषु वा परिमृज्यात् । न कांस्यभाजने चापयेत् । न पाद पादेन । न भुत्रमालिखेत् । न लोष्टमर्दी स्यात् ।
न तृणच्छंदी स्यात् । न दन्तैर्नखलोमानि च्छिन्द्यात् । द्यूतं वर्जयेत् बालातपसेवाञ्च ।
वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत् ।
न शूद्राय मतिं दद्यात् नोच्छिष्टहविपी न तिलान् । न चास्योपदिशेद्धम्मं न व्रतम् ।
न संहताभ्यां पाणिभ्यां शिरउदरञ्च कण्डूयेत । न दधि सुमनसी प्रत्याचक्षीत ।
नात्मनः स्रजमपकर्षयेत् । सुप्तं न प्रवोधयेत् । नोदक्यामभिभाषेत न म्लेच्छान्त्यजान् ।५१३
ध्यायः ]
आचारवर्णनम् ।
अग्निदेवब्राह्मणसन्निधौ प्रदक्षिणम् पाणिमुद्धरेत ।
न परक्षेत्रे चरन्तीं गामाचक्षीत न पिवन्तं वत्सकम् । नोद्धतान प्रहर्षयेत् । न शूद्रराज्ये निवसेत् । नाधामिकजनाकीर्णे । न संग्रह ।
नोपसृ । न चिरं पर्वते । न वृथाचां कुर्य्यात् । न नृत्यगीते । नास्फोटनं काय्र्यम् ।
नालीलं कीर्त्तयेत् । नानृतम् । नाप्रियम् । न किञ्चन्मम्र्माणि स्पृशेत् ।
नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः ।
चिरं सन्ध्योपासनं कुर्य्यात् ।
न सर्पशस्त्रः क्रीत ।
अनिमित्ततः खानि खानि न स्पृशेत् ।
परस्य दण्डं नोद्यच्छेत । शास्यं शासनार्थं ताडयेत् । तन्वा वेणुदलेन रज्ज्वा वा पृष्ठे । देवब्राह्मणशास्त्रमहात्मानां परीवादं परिहरेत् । धर्मविरुद्ध चार्थकामौ । लोकविद्विष्टभ्व धर्ममपि । पर्वसु शान्तिहोमं कुर्य्यात् । न तृणमपि च्छिन्द्यात् । अलङ्कृतश्च तिष्ठत् । एवमाचारसेवी स्यात् ॥
श्रुतिस्मृत्युदितं सम्यक्साधुभिश्च निषेवितम् । तमाचारं निषेवेत धर्मकामो जितेन्द्रियः ॥
आचाराल्लभते चायुराचारादीप्सितां गतिम् । आचाराद्धनमक्षय्य माचाद्धन्त्यलक्षणम् ॥
[[३३]]
।
[[५१४]]
विष्णुस्मृतिः ।
[ एकसप्तति-
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥
इति वैष्णवे धर्मशास्त्रे एकसप्ततितमोऽध्यायः ॥
॥ अथ द्विसप्ततितमोऽध्यायः ॥
दमयमेन तिष्ठत् ।
दमश्वेन्द्रियाणां प्रकीर्त्तितः दान्तस्यालं लोकः परश्च । नादान्तस्य क्रिया काचित् समृध्यति ॥
दमः पवित्रं परमं मङ्गल्यं परमं दमः । दमेन सर्वमाप्नोति यत्किचिन्मनसेच्छति ॥ दशार्द्धयुक्तेन रथेन याति मनोवशेनार्य्यपथानुवर्त्तिना । तञ्चद्रथं नापहरन्ति वाजिनस्तथागतं नावजयन्ति शत्रवः ॥ आपर्य्यमाणमचलप्रतिष्ठ समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥
इति वैष्णवे धर्मशास्त्रे द्विसप्ततितमोऽध्यायः ॥
-8*8-
॥ अथ त्रिसप्ततितमोऽध्यायः ॥
अथ श्राद्ध पूर्वेद्युर्ब्राह्मणानामन्त्रयेत् ।
द्वितीयेऽह्निशुक्लपक्षस्य पूर्वाह्णे कृष्णपक्षस्यापराह्ने विप्रान्-
तमोऽध्यायः ]
श्राद्धवर्णनम् ।
[[५१५]]
सुस्नातान् स्वाचान्तान् यथाभूयो विद्याक्रमेण कुशोत्तरेष्वा- सनेपूपवेशयेत् ।
द्वौ देवे प्राङ्मुखौ त्रींश्च पित्र्ये उदङ्मुखान् एकैकमुभयत्र वेति । आमश्राद्धषु काम्येषु च प्रथम पञ्चकेनाग्नि हुत्वा । पशु श्राद्धषु मध्यमपञ्चकेन । अमावास्यासूत्तमपञ्चकेन । आग्रहायण्या उद्ध कृष्णाष्टकासु च क्रमेणैव प्रथम- मध्यमोत्तमपञ्चकः । अन्वष्टकासु च ।
ततो ब्राह्मणानुज्ञातः पितॄनावाहयेत् । अपयात्त्वसुरा इति श्राद्धविघ्नकर्त्तन् । यातुधानानपसार्य तिलैर्यातुधानानां विसर्जनं कृत्वा । एत पितरः सर्व्वीस्तान् श्रमाय सन्त्येतद्वः पितर इत्यावाहनं- कृत्वा कुश तिलमिश्रेण गन्धोदकेन यस्तिष्ठन्त्य मृतागाविति- यन्मेमातेति च पाद्यं निर्वर्त्य निवेद्याघ्यं कृत्वा निवेद्य- चानुलेपनं कृत्वा कुशतिलवस्त्र पुष्पालङ्कारधूपदीपर्यथाशक्त्या- विप्रान् समभ्यर्च्च वृतष्टुत्मन्द्रमादायादित्यारुद्रावसव इति- बीक्ष्याग्नौ करवाणीत्युक्ता तत्र विप्रैः कुर्वित्युक्तं आहुतित्रयं- दद्यात् । ये मामकाः पित्तर एतद्वः पितरोऽयं यज्ञ इति च- हविरनुमन्त्रणं कृत्वा यथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नं- नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राङ्मुखयोनिवेदयेत् । पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मुखेषु । तददत्सु ब्राह्मणेषु यन्मे प्रकामा अहोरात्रेर्यद्वाक्रव्यादिति जपेत् । इतिहासपुराणधर्मशास्त्राणि चेति ।
[[५१६]]
विष्णुस्मृतिः ।
[ त्रिसप्तति-
उच्छ्रिसन्निधौ दक्षिणाग्रेषु दर्भेषु पृथिवी दव्वीं रक्षिता-
इत्येकं पिण्डं पित्रे निदध्यात् ।
अन्तरीक्षं दवीं रक्षिता इति द्वितीयं पितामहाय ।
द्यौर्दo रक्षिता इति तृतीयं प्रपितामहाय ।
अत्र पितरः प्रेता इति वासोदेयम् ।
वीरान्नः पितरो धत्त इत्यन्नम् ।
अत्र पितरो मादयध्वं यथाभागमा वृषायध्वमिति- दर्भमूले करघर्षणम ।
उर्ज वहन्तीरित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकरणं- सेचनं कृत्वा अर्घपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि च- निवेदयेत् । उदकपात्रश्च मधुवृततिलैः संयुक्तञ्च । भुक्तवत्सु ब्राह्मणेषु तृप्तिमागतेषु मामेश्रेष्ठ त्यन्नं सतृण- मभ्युक्ष्यान्नविकिरमुच्छिष्टामतः कृत्वा तृप्ताभवन्तः सम्पन्न- मिति पृष्ट्रोदङ्मुखेष्वाचमनमादौ दत्त्वा ततः प्राङ्मुखेषु दत्त्वा - ततश्च सुसुप्रोक्षितमिति श्राद्धदेशं संप्रोक्ष्य दर्भपाणिः सव्वं- कुर्य्यात् । ततः प्राङ्मुखाग्रतोयन्मे नाम इति प्रदक्षिणं कृत्वा - प्रत्येत्य च यथाशक्ति दक्षिणाभिः समभ्यर्ष्याभिरमन्तु- भवन्त इत्युक्ता तैरुक्तोऽभिरताः स्म इति देवाश्च पिरतश्चेत्यभि- जपेत् । अक्षय्योदकश्च नामगोत्राभ्यां दत्त्वा विश्वे देवाः- प्रीयन्तामिति प्राङ्मुखेभ्यस्ततः प्राञ्जलिरिदं तन्मनाः सुमना- याचेत । दातारो नो ऽभिवर्द्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो मा व्यगमद्वहु देयश्व नोऽस्त्विति ।
तमोऽध्यायः ]
श्राद्धवर्णनम् ।
[[५१७]]
तथास्त्विति ब्रूयुः ।
अनभ्व नोबहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कञ्चन । इत्येताभ्यामाशिषः प्रतिगृह्य ।
वाजेवाजे इति ततो ब्राह्मणांश्च विसर्जयेत् । पूजयित्वा यथान्यायमनुव्रज्याभिवाद्य च ॥
इति वैष्णवे धर्मशास्त्रे त्रिसप्ततितमोऽध्यायः ॥
॥ अथ चतुःसप्ततितमोऽध्यायः ॥
अकासु दैवपूवं शाकमांसापूपैः श्राद्ध’ त्वन्वष्टकास्वष्टुका- वौ देवपूर्वमेवं हुत्वा मात्रे पितामह प्रपितामह्यं च पूर्ववद्- ब्राह्मणान् भोजयित्वा दक्षिणाभिश्चाभ्यच्चर्यानुब्रज्य विसर्जयेत् । ततः कर्षः कुर्य्यात् ।
तन्मूले प्रागुदद्गग्न्युपसमाधानं कृत्वा पिण्डनिर्वपणम् । कर्पूत्रयमूले पुरुषाणां कर्षत्रयमूले स्त्रीणाम् ।
पुरुषकर्षत्रयं सान्नेनोदकेन पूरयेत् ।
स्त्रीकर्षूत्रयं सान्नेन पयसा ।
दध्ना मांसेन पयसा च प्रत्येकं कर्षत्रयं पूरयित्वा -
जपेद्भवतीभ्योऽस्तु चाक्षरम् ।
इति वैष्णवे धर्मशास्त्रे चतुःसप्ततितमोऽध्यायः ॥
-0880-
[[५१८]]
विष्णुस्मृतिः ।
[ पञ्चसप्तति-
॥ अथ पञ्चसप्ततितमोऽध्यायः ॥
पितरि जीवति यः श्राद्धं कुर्य्यात् स येषां पिता कुर्य्यात्तेषां
कुर्य्यात् । पितरि पितामहे च जीवति येषां पितामहः- कुर्य्यात्तेषां कुर्य्यात् ।
त्रिषु जीवत्सु नैव कुर्य्यात् ।
यस्य पिता प्रेतः स्यात् सपित्रे पिण्डं निधाय-
प्रपितामहात् परं द्वाभ्यां दद्यात् ।
यस्य पिता पितामहश्च प्रतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा- पितामहपितामहाय दद्यात् ।
यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्डं निधाय प्रपिता- महात्परं द्वाभ्यां दद्यात् ।
यस्य पिता प्रपितामहश्च प्रेतौ स्यातां स पित्रे पिण्डं निधाय- पितामहान् परं द्वाभ्यां दद्यात् ।
मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः । मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ इति वैष्णवे धर्मशास्त्रे पञ्चसप्ततितमोऽध्यायः ॥
0:88:0
॥ अथ षट्शप्ततितमोऽध्यायः ॥
अमावास्यास्तिस्रोऽष्टकास्तिस्रोऽन्वष्टका माघी प्रोष्ठपद्यूद्ध. - कृष्णत्रयोदशी व्रीहियवपाकौ चेति ।
तमोऽध्यायः ]
श्राद्धवर्णनम् ।
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः । श्राद्धमेतेष्वकुर्वाणोनरकं प्रतिपद्यते ॥
इति वैष्णवे धर्मशास्त्रे षट्सप्ततितमोऽध्यायः ॥
॥ अथ सप्तसप्ततितमोऽध्यायः ॥
आदित्य संक्रमणं विषुवद्वयं विशेषणायनद्वयं- व्यतीपातोजन्मर्क्षमभ्युदयश्च ।
एतांस्तु श्राद्धकालान् वे काम्यानाह प्रजापतिः । श्राद्धमेतेषु यद्दतं तदानन्त्याय कल्पते ।
सन्ध्यारात्र्योर्न कर्त्तव्यं श्राद्धं खलु विचक्षणैः । तयोरपि च कर्त्तव्यं यदि स्याद्राहुदर्शनम् ॥ राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् । गुणवत् सर्वकामीयं पितॄणामुपतिष्ठते ॥
इति वैष्णवे धर्मशास्त्रे सप्तसप्ततितमोऽध्यायः ॥
[[०००००]]
॥ अथ अष्टसप्ततितमोऽध्यायः ॥
सततमादित्ये ऽह्नि श्राद्धं कुर्वन्नारोग्यमाप्नोति । सौभाग्यं चान्द्रे । समर विजयं कौजे ।
[[५१६]]
[[२०]]
विष्णुस्मृतिः ।
सर्व्वान् कामान् बौधे । विद्यामभीष्टां जीवे ।
।
धनं शौके जीवितं शनैश्वरे । स्वगं कृत्तिकासु ।
[ अष्टसप्तति-
अपत्यं रोहिणीषु । ब्रह्मवर्षस्यं सौम्ये कर्मसिद्धिं रौद्रे । भुवं पुनर्वसौ पुष्टिं पुष्ये । श्रियं सर्प ।
सर्व्वान् कामान् पैत्रे । सौभाग्यं भाग्ये ।
।
धनमार्यमणे । ज्ञातिश्रेठ्य हस्ते ।
रूपवतः सुतां त्वाष्ट्र ।
वाणिज्यसिद्धिं स्वातौ । कनकं विशाखासु ।
मित्राणि मंत्रे । राज्यं शाक्रे । कृषि मूले ।
समुद्रयानसिद्धिमाप्ये । सर्वान् कामान् वैश्वदेवे । श्रेष्ठमभिजिति । सर्व्वान् कामान् श्रवणे । लवणं वासवे । आरोग्यं वारुणे । कुप्यद्रव्यमाजे । गृहमा हिर्ब्रध्ने ।
गाः पौष्ये । तुरङ्गमाश्विने ।
जीवितं याम्ये ।
गृहसुरूपाः स्त्रियः प्रतिपदि ।
कन्यां वरदां द्वितीयायाम् ।
सर्व्वान् कामांस्तृतीयायाम् । पशुंश्चतुर्थ्याम् ।
श्रियं पञ्चम्याम् । द्यूत विषयं पष्ठयाम् । कृषि सप्तम्याम् । वाणिज्यमष्टम्याम् । पशून्नवम्याम् वाजिनो दशम्याम् । ब्रह्मवस्विनः पुत्रानेकादश्याम् ।
आयुर्वसुराज्यजयान् द्वादश्याम् । सौभाग्यं त्रयोदश्याम् । सर्वकामान् पञ्चदश्याम् शस्त्रह्तानाम् । श्राद्धकर्मणि चतुर्दशी शस्ता ।
अपि पितृगीते गाथे भवतः ।
तमोऽध्यायः ]
श्राद्धवर्णनम् ।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । प्रावृट्काले ऽसिते पक्षे त्रयोदश्यां समाहितः ॥ मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् । कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च ॥ इति वैष्णवे धर्मशास्त्रे असप्ततितमोऽध्यायः ॥
-❀❀❀-
[[५२१]]
॥ अथ एकोनाशीतितमोऽध्यायः ॥
अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्य्यात् । कुशाभावे कुशस्थाने काशान् दुर्वा वा दद्यात् । वाससोऽर्थे कार्पासोत्थं सूत्रम् ।
दशां विवर्जयेद् यद्यप्याहृतवस्त्रजा स्यात् ।
उग्रगन्धीन्यगन्धीनि कण्टकिजातानि रक्तानि च पुष्पाणि ।
शुक्लानि सुगन्धीनि कण्टकिजातान्यपि जलजानि रक्तान्यपि - दद्यात् । वसां मेदव दीपार्थे न दद्यात् ।
घृतं तैलं वा दद्यात् । जीवजं सर्वधूपार्थे न दद्यात् । मधुघृतसंयुक्तं गुग्गुलुं दद्यात् । चन्दनकुङ्कुमकर्पूरागुरुपद्मकान्यनुलेपनार्थे ।
न प्रत्यक्षलवणं दद्यात् हस्तेन च घृतव्यञ्जनादि । तेजसानि पात्राणि दद्यात् । विशेषतो राजतानि ।
[[५२२]]
विष्णुस्मृतिः ।
[ एकोनाशीति-
खड्गकुतप कृष्णाजिन तिलसिद्धाथकाक्षतानि न पवित्राणि -
रक्षोघ्नानि चेति दद्यात् ।
पिप्पलीमुकुन्दक भूस्तृणशिमसर्षपसुरसा सर्जक सुवर्चलकुष्माण्डा- लावुवार्त्ताकुपालङ्कयोपोढ़कीतण्डुलीयककुसूम्भपिण्डालुक-
महिषीक्षीराणि वर्जयेत् ।
राजमाषमसूर पर्युषितकृतलवणानि च ।
कोपं परिहरेत् । नाश्रुपातयेत् । न त्वरां कुर्य्यात् । घृतादिदाने तेजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि । अत्र च श्लोको भवति ।
सौवर्णराजताभ्याञ्च खड्गेनौडुम्बरेण च । दत्त मक्षय्यतां याति फल्गुपात्रेण चाप्यथ ॥
इति वैष्णवे धर्मशास्त्रे एकोनाशीतितमोऽध्यायः ॥
॥ अथाशीतितमोऽध्यायः ॥ तिलैब्रीहियवैर्मासेर्मूलफलैः शाकैः श्यामाकैः- प्रियङ्गुभिर्नीवारैर्मुद्गर्गाधूमैश्च मासं प्रीयन्ते । द्वौ मासौ मत्समांसेन । त्रीनहारिणेन ।
चतुरश्चरण पञ्च शाकुनेन । षट्लागेन । सप्त रौरवेण । अप्रैौ पार्षतेन । नव गवयेन । दश माहिषेण ।
एकादश कौर्मेण । सम्वत्सरं गव्येन पयसा तद्विकारैव । अत्र पितृगीता गाथा भवति ॥तमोऽध्यायः ]
श्राद्धवर्णनम् ।
कालशाकं महाशल्कं मांसं वाघ्रीणसस्य च । विषाणवर्ज्या ये खड्गास्तांस्तु भक्षामहे सदा ॥
इति वैष्णवे धर्मशास्त्र ऽशीतितमोऽध्यायः ॥
॥ अथ एकाशीतितमोऽध्यायः ॥
चान्नमासनमारोपयेत् ।
न पदा स्पृशेत ।
उच्छेषणं भूमिगतमजिह्मस्याशठस्य वा । दासवर्गस्य तत्पित्रे भागधेयं प्रचक्षते ।
इति वैष्णवे धर्मशास्त्र एकाशीतितमोऽध्यायः ॥
[[५२३]]
॥ अथ द्वयशीतितमोऽध्यायः ॥
दैवे कर्मणि ब्राह्मणं न परीक्षेत । प्रयत्नात् पित्र्ये परीक्षेत । हीनाधिकाङ्गान् वियर्जयेत् ।
विकर्म्मस्थांश्च वैडालव्रतिकान् वृथालिङ्गिनो नक्षत्रजीविनो- देवलकांश्च चिकित्सकान् अनूढापुत्रान् तत्पुत्रान् वहुयाजिनो- ग्रामयाजिनः शूद्रयाजिनोऽयाज्ययाजिनो
व्रात्यांस्तद्या-
जिनः पर्वकारान् सूचकान् भृतकाध्यापकान् भृतकाध्यापितान्- शूद्रान्नपुष्टान् पतितसंसर्गान् अनधीयानान् सन्ध्योपासना-
[[५२४]]
विष्णुस्मृतिः ।
[ द्वयशीति-
ननुष्ठान् राजसेवकान् नग्नान् पितृमातृगुर्बभिस्वाध्याय- त्यागिनश्चेति ॥
ब्राह्मणापसदा ह्येते कथिताः पङ्क्तिदूषकाः । एतान् विवर्जयच्छेषाच्छाद्धकर्म्मणि पण्डितः ॥
इति वैष्णवे धर्मशास्त्रे द्वयशीतितमोऽध्यायः ॥
॥ अथ त्र्यशीतितमोऽध्यायः ॥
अथ पक्तिपावनाः ।
त्रिणाचिकेतः पञ्चाग्निर्ज्येष्ठसामगो वेदपारगो वेदाङ्गस्या- प्येकस्य पारगः पुराणेतिहासव्याकरणपारगो धर्मशास्त्र- स्याप्येकस्य पारगतीर्थपूतो यज्ञपूत स्तपः पूतः सत्यपूतो- मन्त्रपूतो गायत्रीजपनिरतो ब्रह्मदेयानुसन्तानस्त्रिसुपर्णो- जामाता दौहित्रश्चेति ।
विशेषेण च योगिनः । अत्र पितृगीता गाथा भवति ॥ अये स स्यात् कुलेऽस्माकं भोजयेद्यस्तु योगिनम् । विप्रं श्राद्ध प्रयत्नेन येन तृप्यामहे वयम् ॥
इति वैष्णवे धर्मशास्त्रे त्र्यशीतितमोऽध्यायः ॥
तमोऽध्यायः ]
श्राद्धवर्णनम् ।
॥ अथ चतुरशीतितमोध्यायः ॥
[[५२५]]
न म्लेच्छविषये श्राद्धं कुर्य्यात् । न गच्छेत म्लेच्छविषयम् । परनिपानेष्वपः प्रीत्वा तत्साम्यमुपगच्छीति ॥ चातुर्वर्णव्यवस्थानं यस्मिन् देशे न विद्यते । स म्लेच्छदेशो विज्ञेय आर्यावर्त्तस्ततः परः ॥ इति वैष्णवे धर्मशास्त्रे चतुरशीतितमोऽध्यायः ॥
॥ अध पञ्चाशीतितमोऽध्यायः ॥
अथ पुष्करेषु श्राद्धम् ।
जप्यहोमतपांसि च ।
पुष्करे स्नानसात्रतः सर्वपापेभ्यः पूतो भवति । एवमेव गयाशीर्षे अक्षयवटे अमरकण्टकपर्वते वराह- पर्वते यत्र वचन नर्मदातीरे यमुनातीरे गङ्गायां- विशेषतः कुशावर्त्ते विल्वके नीलपर्वते कनखले कुजाम्र- भृगुतुङ्गे केदारे महालये नड़न्तिकायां सुगन्धायां- शाकम्भय फल्गुतीर्थे महागङ्गायां त्रिहलिकाश्रमे- कुमारधारायां प्रभासे यत्र वचन सरस्वत्यां विशेषतः ।
गङ्गाद्वारे प्रयागे च सङ्गासागरसङ्गमे ।
सततं नैमिषारण्ये वाराणस्यां विशेषतः ॥
अगस्त्याश्रमे कण्वाश्रमे कौशिक्यां सरयूतीरे शोणस्य -
[[५२६]]
[ पश्चाशीति-
विष्णुस्मृतिः । ज्योतिषायाश्च सङ्गमे श्रीपर्वते कालोदके उत्तरमानसे- बड़वायां मतङ्गवाप्यां सप्तार्पे विष्णुपदे स्वर्गमार्गपदे- गोदावय गोमत्यां वेत्रवत्यां विपाशायां वितस्तायां- शतद्रुतीरे चन्द्रभागायां इरावत्यां सिन्धोस्तीरे दक्षिणे- पश्वनदे औजसे ।
एवमादिष्वथान्येषु तीर्थेषु सरिद्वरासु सर्वेष्वपि - स्वभावेषु पुलिने प्रस्रवणेषु पर्वतेषु निकुजेषु वनेषृ- पवनेषु गोमयप लिप्तेषु मनोज्ञेषु ।
अत्र च पितृगीता गाथा भवन्ति ॥
कुलेस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् । नदीपु बहुतोयासु शीतलासु विशेषतः ॥
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । गयाशीर्षे वटे श्राद्धं यो नः कुर्य्यात् समाहितः ॥
एटव्या बहवः पुत्रा यद्यकोऽपि गयां ब्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ इति वैष्णवे धर्मशास्त्रे पश्चाशीतितमोऽध्यायः ॥
॥ अथ पडशीतितमोऽध्यायः ॥
अथ वृषोत्सर्गः कार्त्तिक्यमाश्वयुज्यां वा ।
तत्रादावेव वृषभं परीक्षेत ।
जीवद्वत्सायाः पयस्विन्याः पुत्रं सर्वलक्षणोपेतं नीलं-
तमोऽध्यायः ]
श्राद्ध - वृषोत्सर्गवर्णनम् ।
[[५२७]]
लोहितं वा मुखपुच्छपादशृङ्गशुक्लं ग्रूपस्याच्छादकम् । ततो गवां मध्ये सुसमिद्धमग्निं परिस्तीर्य पौष्णं च पयसा अपयित्वा पूवा गा अन्येतु न इह रतिरिति च हुत्वा वृषमयस्कारस्त्वङ्कयेत् ।
एकस्मिन् पार्श्वे चक्रेणापरस्मिन् पार्श्वे शूलेन ।
अङ्कितच हिरण्यवर्णा इति चतसृभिः शन्नोदेवीति च स्नापयेत् । स्नातमलङ्कृतं स्नातालङ्कृताभिश्चतसृभिवत्सतरीभिः- सार्द्धमानीय रुद्रान् पुरुषसूक्तं कुष्माण्डीश्च जपेत् । पिता वत्सेतिव्रप्रभम्य दक्षिणे कर्णे पठेत् इमध्व । वृपोहि भगवान् धर्म्मश्चतुष्पादः प्रकीर्त्तितः । वृणोमि तमहं भक्त्या स मे रक्षतु सर्व्वतः ॥ एनं युवानं पतिं वो ददाम्यनेन क्रीड़न्तीश्वरथ प्रियेण । महामहिप्रजया मातनुभिर्मारधाम द्विषते सोम ! राजन् ! ॥ वृषं वत्सतरीयुक्तमैशान्यां कारयेदिशि । होतुवस्त्रयुगं दद्यात् सुवणं कांस्यमेव च ॥ अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् । भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् ॥ उत्सृष्टो वृषभो यस्मिन् पिवत्यथ जलाशये । जलासयं तत्सकलं पितॄंस्तस्योपतिष्ठति ॥ शृणोल्लिखते भूमिं यत्र वचन दर्पितः । पितॄणामन्नपानं तत् प्रभूतमुपतिष्ठति ॥
इति वैष्णवे धर्मशास्त्रे षडशीतितमोऽध्यायः ॥
[[५२८]]
विष्णुस्मृतिः ।
॥ अथ सप्ताशीतितमोऽध्यायः ॥
[ सप्ताशीति
अथ वैशाख्यां पौर्णमास्यां कृष्णमृगाजिनं सुवर्णशृङ्ग- रौप्यखुरं मौक्तिकलाङ्ग लभूपितं कृत्वा आविके वस्त्रे च प्रसारयेत । ततस्तिः प्रच्छादयेत् । सुवर्गनाभिश्च- कुर्यात् । आहतेन वासोयुगेन प्रच्छादयेत् । सर्व्वगन्धरत्तैश्वालङ्कृतं कुर्यात् ।
चतसृषु दिक्षु चत्वारि तैजसपात्राणि क्षीरदधिमधुघृत- पूर्णानि निधायाहिताग्नये ब्राह्मणायालङ्कृताया- वासोयुगेन प्रच्छादिताय दद्यात् । अत्र च गाथा भवन्ति ॥
यस्तु कृष्णाजिनं दद्यात् सखुरं शृङ्गसंयुतम् । तिलैः प्रच्छाद्य वासोभिः सर्व्वरत्नैरलङ्कृतम् ॥ ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥ कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥
इति वैष्णवे धर्मशास्त्रे सप्ताशीतितमोऽध्यायः ॥
-:00:-
तमोऽध्यायः ]
श्राद्ध-वृषोत्सर्गवर्णनम् ।
[[५२६]]
॥ अथाष्टाशीतितमोऽध्यायः ॥
अथ प्रसूयमाना गौः पृथिवी भवति तामलङ्कृतां- ब्राह्मणाय दत्त्वा पृथिवीदानफलमाप्नोति । अत्र च गाथा भवति ।
सवत्सा रोमतुल्यानि युगान्युभयतोमुखीम् । दत्त्वा स्वगमत्राप्नोति श्रद्दधानः समाहितः ॥
इति वैष्णवे धर्मशास्त्राशीतितमोऽध्यायः ॥
.
"
॥ अथ एकोननवतितमोऽध्यायः ॥
मासः कार्तिकोऽग्निदेवत्यः । अग्निश्च सर्वदेवानां मुखम् ।
कार्त्तिकं मासं वहिःस्नायी गायत्रीजपनिरतः-
नस्मात्तु
सकृदेव हविष्याशी संवत्सरकृतात् पापात् पूतो भवति ।
कार्त्तिकं सकलं माझं नित्यस्नायी जितेन्द्रियः । जपन् हविष्यभुग्दाता सर्वपापैः प्रमुच्यते ॥
इति वैष्णवं धर्मशास्त्रे - एकोननवतितमोऽध्यायः ॥
॥ अथ नवतितमोऽध्यायः ॥
मार्गशीर्ष शुकुपथ्यदश्यां मृगशिरः संयुक्तायां चूर्णित लवणस्य- सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रदापयेत् ।
[[३४]]
[[५३०]]
बिष्णुस्मृतिः ।
[ नवतितमोऽ-
अनेन कर्मणा रूपसौभाग्यवग्नभिजायते । पौषीचेत् पुत्र्ययुक्ता स्यात्तस्यां गौरसर्वपकल्कोद्वर्त्तित- शरीरो गव्यघृतपूर्ण कुम्भेनाभिषिक्तः सव्र्वोषविभिः- सर्वगन्धैः सर्ववीजैश्च स्नातो घृतेन भगवन्तं वासुदेवं- स्नापयित्वा गन्धपुपधूपदीपनैवेद्यादिभिश्वाभ्यर्च्य वैष्णवैः- शार्वार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन- ब्राह्मणान् स्वस्ति वाचयेत् ।
वासोयुगं कर्त्रे दद्यात् । अनेन कर्मणा पुष्यते । माघी मघायुता चेत्तत्यां तिलैः श्राद्धं कृत्वा पूतो भवति । फाल्गुनी फल्गुनीयता चेत्स्यात्तस्यां ब्राह्मणाय सुसंस्कृतं- स्वारतीणं शयनं निवेद्य भाय्य मनोज्ञा रूपवर्ती द्रविण- वतीवाप्नोति । नार्य्यपि भर्त्तारम् ।
चैत्री चित्रायुता स्यात्तस्यां चित्रवस्त्रप्रदानेन सौभाग्यमाप्नोति । वैशाखी विशाखायुता चेत्तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः- सन्तर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति । ज्येष्ठी ज्येष्ठायुता चेत्तस्यां छत्रोपानह प्रदानेन गवाधिपत्यं- प्राप्नोति । आषाढ्या माषाढायुक्तायामन्नपानदानेन- तदेवाक्षय्यमाप्नोति ।
श्रावण्यां श्रवणयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां- दत्त्वा स्वर्गमाप्नोति ।
प्रोष्ठपद्यां प्रौष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुको भवति । आश्वयुज्यामश्विनीगते चन्द्रमसि घृतपूर्ण काजनं सुवर्णयुतं-
ध्यायः ]
दानफलवर्णनम् ।
विप्राय दत्त्वा दीप्नानिर्भवति ।
कार्त्तिकी कृत्तिकायुता चेत्तस्यां सितमुक्षाणमन्यवणं वा शशाङ्कोदये सर्बशस्यरत्नगन्धोपेतं दीपमध्ये ब्रह्मणाय दत्त्वा कान्तारभयं नश्यति ।
वैशाख शुक्ल तृतीयायामुपोषितोऽभूतैर्वासुदेवमभ्यर्यं तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति । यच्च तस्मिन्नहनि प्रयच्छति दतक्षण्यमाप्नोति । पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातस्तिलोदकं दत्त्वा तिलैर्वासुदेवमभ्यर्च्य तानेव हुत्त्वा दत्त्वा भुक्ता च पापेभ्यः पूतो भवति ।
माध्यां समतीतायां कृष्गद्वादश्यां सोपवास. श्रवणं प्राप्य वासुदेवायतो महावर्त्तिद्वयेन दीपद्वयं दद्यात् ।
दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुला मष्टाधिकां दत्त्वा वामपार्श्व तिलतैलतुला साष्ठां दत्त्वा श्वेतेन समग्रेण वाससा ।
एतत्कृत्वा कृतकृत्यो यस्मिन् राष्ट्रोऽभिजायते यस्मिन् देशे यस्मिन् कुले स तत्रोज्ज्वलो भवति ।
आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदद्याश्विनौ प्रीणयित्वा रूप भाग्भवति ।
[[५३५]]
तस्मिन्नेव मासि प्रत्यहं गोरसैब्राह्मणान् भोजयित्वा राज्य- भाग्भवति ।
प्रतिमासं रेवतीयते चन्द्रमसि मधुघृतमुर्त रेवतीप्रीत्य
[[५३२]]
विष्णुस्मृतिः ।
[ नवतितमोऽ-
परमान्नं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा
रूपभाग्भवति ।
माघ मासेऽग्नि प्रत्यहं तिहुत्वा सघृतं कुल्मापं ब्राह्मणान भोजयित्वा दीप्राग्निर्भवति ।
सत्र चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा सव्वपापेभ्यः पूतो भवति ।
यदीच्छंद्विपुलान् भोगान चन्द्रसूर्यग्रहोपगान् । प्रातः स्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ ॥
इति वैष्णवे धर्मशास्त्रे नवतितमोऽध्यायः ॥
॥ अथ एकनवतितमोऽध्यायः ॥
अथ कूपक सुस्तत्प्रवृत्तं पानीये दुष्कृतस्याद्धं विनश्यति । सड़ागकृन्नित्यतृप्त्वो वामणं लोकमश्नुते ।
अलप्रदः सदा तृप्तो भवति ।
वृक्षारोपयितुवृक्षाः परलोके पुत्रा भवन्ति ।
वृक्षप्रदो वृक्षप्रसूतैर्देवान् श्री गयति फलैश्चातिथीन् छायया-
याभ्यागतान् देवे वर्षत्युदकेन पितॄन् ।
सेतुकृत् स्वर्गमाप्नोति देवायतनकारुर्यस्य देवायतनं करोति- तस्यैव लोकमाप्नोति ।
सुधासिक्तं कृचा यशसा विराजते ।ध्यायः ]
दानफलवर्णनम् ।
[[५३३]]
विविक्तं कृत्वा गन्धर्वलोकमाप्नोति ।
पुत्रप्रदानेन श्रीमान् भवति ।
अनुलेपनप्रदानेन कीर्त्तिमान् भवति ।
दीपप्रदानेन चक्षुष्मान् सर्वतोज्वलश्च ।
अन्नप्रदानेन बलवान् । धूपप्रदानेनोद्ध्वं गच्छति । देवनिर्माल्यापनयनाद्गोप्रदानफलमाप्सोति । देवायतनमार्जनात्तदुपलेपनात्राह्मणोच्छिष्टमार्जनात् पादादिशौ चोदकल्पपरिचरणाच ॥
कूपारामतड़ागेषु देवतायतनेषु च । पुनः संस्कारकर्त्ता च लभते मौलिकं फलम् ॥
इति वैष्णवे धर्मशास्त्रे एकनवतितमोऽध्यायः ॥
॥ अथ द्विनवतितमोऽध्यायः ॥
सर्वदानाधिकमभयप्रदानम् ।
तत्प्रदानेनाभीप्सितं लोकमाप्नोति भूमिप्रदानेन च । गोचम्ममात्रमपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति । गोप्रदानेन स्वर्गलोकमाप्नोति । दशधेनुप्रदो गोलोकान् । शतधेनुप्रदो ब्रह्मलोकान् ।
सुवर्णशृङ्गी रौप्यखुरां मुक्तालाङ्गलां कांस्योप दोहां वस्त्रोत्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकमाप्नोति ।
[[५३४]]
विष्णुस्मृतिः ।
[ द्विनवति-
विशेषतः कपिलाम् । दान्तं धुरन्धरं दत्त्वा दशधेनुप्रदो भवति । अश्वदः सूर्यसालोक्यमाप्नोति । वासोदश्चन्द्रसालोक्यम । सुवर्णदानेनाग्निसालोक्यम् । रूप्यप्रदानेन रूप्यम् । तेजसानां पात्राणां प्रदानेन पात्रं भवेत्
सर्वकामानामौषधप्रदानेन च ।
लवणप्रदानेन च लावण्यम ।
धान्यप्रदानेन तृप्तिं शस्यप्रदानेन च । अन्नदः सर्वम् । धान्यप्रदानेन सौभाग्यम् । अकीर्त्तितानामन्येषां दानात् स्वर्गमवाप्नुयादिति । तिलप्रदः प्रजामिष्टां इन्धनप्रदानेन दीप्ताग्निर्भवति । आसनप्रदानेन स्थानम् । शय्याप्रदानेन भार्याम् । उपानत्प्रदानेनाश्वतरीयुक्तं रथम । छत्रप्रदानेन स्वर्गम । तालवृन्तचामरप्रदानेनाध्वसुखित्वम् । वास्तुप्रदार्जन नगराधिपत्यम् ॥
यद्यष्टितमं लोके यचास्ति दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता ।
इति वैष्णवं धर्मशास्त्रं त्रयोदशोऽध्यायः ॥
तमोऽयायः ]
दानफलवर्णनम् ।
अब्राह्मणे दत्तं तत्सममेव पारलौकिकम् ।
द्विगुणं ब्रह्मगब्रुवे । सहस्रगुणं प्राधीते ।
अनन्तं वेदपारगे । पुरोहितस्त्वात्मन एव पात्रम् । स्वसा दुहिता जामातरश्च पत्रम् ॥
न वार्य्यपि प्रयच्छंत वैडालब्रतिके द्विजे । न वकब्रतिके पापे नावेदविदि धर्मवित् । धर्मध्वजी सदालुब्धश्वाद्मिको लोकदाम्भिकः । वैडालव्रतिको ज्ञेयो हिंस्रः सर्व्वाभिसन्धिकः ॥ अधोहरिर्नष्कृतिकः सार्थसाधनतत्परः । शठो मिथ्याविनीतश्च वकत्रतपरोद्विजः ॥ ये वकब्रतिनो लोके ये च मार्जारलिङ्गिनः । ते पतन्यन्यतामित्रे तेन पापेन कर्मणा ॥ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् । प्रेत्येह चेदृशो विप्रो गृह्यते ब्रह्मवादिभि । छद्मनाचरितं यत्र तद्वै रक्षांसि गच्छति ॥ अलिङ्गी लिङ्गिनेशेन यो वृत्तिमुपजीवति । स लिङ्गनाहरत्येन स्तिर्यग्योनौ प्रजायते ॥ न दानं यशसे दद्यान्न भयान्नोपकारिणे । न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चितम् ॥ इति वैष्णवे धर्मशास्त्रे त्रिनवतितमोऽध्यायः ॥
[[५३५]]
[[५३६]]
विष्णुस्मृतिः ।
॥ अथ चतुर्नवतितमोऽध्यायः ॥
गृही वलोपलितदर्शने वनाश्रयो भवेत् ।
अपत्यस्य चापत्यदर्शनेन वा ।
पुत्रेषु भाय्य निक्षिप्य तयानुगम्यमानो वा ।
[ चतुर्नवति-
तत्राप्यग्नीनुपचरेत्। अफालकृष्णेन पञ्चयज्ञान्न हापयेत् । स्वाध्यायं च न जह्यात् । ब्रह्मचय्यं पालयेत् ।
चर्म्मचीरवासाः स्यात् । जटाश्मश्रुलोमनखांश्च विभृयात् । त्रिषवणस्नायी स्यात् ।
कपोतवृत्तिर्मासनिचयः सम्वत्सरनिचयो वा । सम्वत्सरनिचयो पूर्वनिचितमाश्वयुज्यां जह्यात् ॥
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् । पुटेनैव पलाशेन पाणिना शकलेन वा ॥
॥ इति वणवे धर्मशास्त्रे चतुर्नवतितमोऽध्यायः ॥
॥ अथ पञ्चनवतितमोऽध्यायः ॥
वानप्रस्थस्तपसा शरीरं शोषयेत् । ग्रीष्मे पञ्चतपाः स्यात् । आकाशशायी प्रावृषि । आर्द्रवासा हेमन्ते ।
नक्ताशी स्यात् । एकान्तरद्वयन्तरत्र्यन्तराशी वा स्यात् । फुपाशी । फलाशी । शाकाशी । पर्णाशी । मूलाशी ।
तमोऽध्यायः ]
संन्यासवर्णनम् ।
[[५३७]]
यवान्नं पक्षान्तयोर्वा सकृदश्नीयात् । चान्द्रायणैर्वा वर्त्तेत ।
अश्मकुट्टः । दन्तोलूखलिको वा ॥
तपोमूलमिदं सर्वं दैवमानुपजं जगत् ।
तपोमध्यं तपोऽन्तञ्च तपसा च तथावृतम् ॥ यद्द्दुवरं यदरापं यद्दूरं यच्च दुष्करम । सर्व तत्तपसा साध्यं तपोहि दुरतिक्रमम ॥
इति वैष्णवे धर्मशास्त्रं पञ्चनवतितमोऽध्यायः ॥
अथ त्रिष्वाश्रमेषु पक्ककषायः प्राजापत्यामिष्टिं कृत्वा सर्व वेदं दक्षिणां दत्वा प्रब्रज्याश्रमी स्यात् । आत्मन्यग्नीनारोप्य भिक्षार्थं ग्राममियात् ।
समागारिकं भैक्ष्यमादद्यात् । अलाभे न व्यथेत । न भिक्षुकं भिक्षेत ।
भुक्तवति जनेऽतीते पात्रसम्पाते भैक्ष्यमादद्यात् ।
मृण्मये दारुपागेऽलावपात्रे वा ।
तेषाच्च तस्याद्भिः शुद्धिः स्यात् ।
अभिपूजितलाभादुद्विजेत । शून्यागारनिकेनतः स्यात् । वृक्षमूलनिकेतनो वा । न ग्रामे द्वितीयां रात्रिमावसेत् । कौपीनाच्छादनमात्रमेव वसनमादद्यात् ।
दृष्टिपूतं न्यसेत् पादम् । वस्त्रपूतं जलमादद्यात् ।
।
(३८
विष्णुस्मृतिः ।
सत्यपूतं वदेत् । मनःपूतं समाचरेत् ।
[ गणनवति-
मरणं नाभिकामयेत जीवितश्च । अतिवादांस्तितिक्षेत । न कश्चनावमन्येत । निराशीः स्यात् । निर्नमस्कारः ॥
वास्येकं ततो वाहु चन्दनेनैकमुक्षतः । नाकल्याणं च कल्याणं तयोरपि च चिन्तयेत् ॥
प्राणायामचारणाध्याननित्यः स्यात् ।
संसारस्यानित्यतां पश्येत् । शरीरम्याशुचिभावम । जरया रूपविपर्ययम् ।
शारीरमानसागन्तुकव्याधिभिश्चोपतापम् । सहजैश्च । नित्यान्धकारे गर्भे वसतिं मूत्रपुरीषमध्ये च । तत्र च शीतोष्णदुखानुभवनम् ।
जन्मसमये योनिसङ्कट निर्गमान्महद्दुखानुभवनम् । बाल्ये मोहं गुरुरुरवश्यताम् । अध्ययनादनेकक्लेशम् । यौवन च विषयप्राप्तावमार्गेण तदवाप्तौ
विपयसेवनान्नरके पतनम् ।
अप्रियर्वसति प्रियैश्च विप्रयोगम् ।
नरकेषु च सुमहद्दुःखम् । संसारसंसृतौ तिर्य्यग्योनिषु च ।
एवमस्मिन् सततपापिनि संसारे न किञ्चित् ।
यदपि किवि खापेक्षया सुखसंज्ञं तदप्य नित्यम् ।
तत्सेवाशक्तावलभने वा महद्दु खम् ।
शरीरं चेदं सप्तधातुकं पश्येत् वसारुधिरमासारिखमेदोमज्जा-
समोऽध्यायः ]
संन्यासवर्णनम् ।
[[५३]]
शुक्रात्मकं चम्मबिनद्धं दुर्गन्धि च मलायतनं सुखशतैरपि वृ बिकारि प्रयत्नाद्धृतमपि विनाश कामको लोभमोहमद- मात्सय्र्यस्थानं पृथिव्यप्तेजोवाय्वाकाशात्मकं अस्थिशिरा- धमनिश्नायुयुतं रजस्वलं पट् त्वक्पेशि अस्नां त्रिभिः शतैः षष्ट्यधिकैर्धार्यमाणम् । तेषां विभागः । सूक्ष्मैः सह चतु पदेिशनाः, विंशतिर्नखाः, पाणिशलाकाश्च परङ्गुलीनां पर्व्वाणि द्वे पा चतुरयं गुल्फेयु चत्वय्यरस्योः चत्वारि जङ्घयोः द्वे द्वे, जानु कपोलयोः द्वे द्वे अक्षतालूपकश्रोणिफलकेषु, भगाहय्येकं, पृष्ठास्थि पञ्चत्वारिंशद्भागं पञ्चदशास्थीनि ग्रीवा, जान्वेकं, तथा हनुः, तन्मूळे च द्वे द्वे ललाटाक्षगण्डे, नासा घनास्थिका अर्बुदे स्थानकेश्च सार्द्धं द्वासततिः पार्श्वकाः, उरः सप्तदश, द्वौ शङ्खकौ, चत्वारि कपालानि शिरश्चेति । शरीरेऽस्मिन सप्तशिराशतानि ।
नव स्नायुशतानि । धमनीशते द्वे । पञ्चपेशीशतानि । क्षुद्रवमनोनामे कोनत्रिंशलक्षाणि नवशतानि षट्पञ्चाशद्धमन्य लक्षत्रयं श्मश्रुकेशकूपानाम् । सप्तोत्तरं मर्म्मशतम् । सन्विशते द्वे । चतुःपञ्चाशद्रोमकोटयः सप्तपष्टिश्च लक्षाणि नाभिरोजोगुवं शुक्रं शोणितं शङ्खको मूर्द्धा कण्ठोह्रदयञ्चेति प्राणायतनानि । बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षमिति षडङ्गानि क्ला बया अवहननं नाभिः क्लोमो यकृत प्लीहा- क्षुद्रान्त्रं वुकी वस्तिः पुरीषाधानमामाशयोहृदयं स्थूलान्-
[[१०]]
विष्णुस्मृतिः ।
[ पणनववि-
गुदमुदरं गुदकोष्ठम् । कनीनिके अक्षिकूटे शष्कुली- कर्णौ कर्णपत्रको गण्डौ भ्रुवौ शङ्खको दन्तवेटावोष्ठौ- ककुदरे वंक्षणौ वृषणौ वक्कौ श्लेष्मसङ्घातकौ स्तनौ- उपजिह्वा स्फिचौ बाहू जङ्घ
े ऊरूपिण्डिके तालदरं- वस्तिशीपों चिवुकं गलगुण्डिके अवटश्चेत्यस्मिन् शरी- रके स्थानानानि ।
शब्दस्पर्शर सरूपगन्धाश्च विषया ।
नासिकालोचनत्वग्जिह्वाश्रोत्रमिति बुद्धिन्द्रियाणि । हस्तौ पादौ पायूपस्थं जिह्वति कर्मेन्द्रियाणि । मनोबुद्धिरात्मा चाव्यक्तमितीन्द्रियातीताः ॥
इदं शरीरं वसुधे ! क्षेत्र मित्यभिवीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रमिति तद्विदः ॥ क्षेत्रज्ञमेव मां विद्धि सर्वक्षत्रेषु भाविनि ! क्षेत्रं क्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥
इति वैष्णवे धर्मशास्त्रे पणनवतितमोऽध्यायः ॥
॥ अथ अष्टनवतितमोऽध्यायः ॥
ऊरस्थोत्तानचरणः सव्ये करे करमितरं न्यस्य तालुस्था- चल जिह्रो दन्तैर्द· तानसंस्पृशन् स्वनासिकाग्रं पश्यन् दिश- श्वानवलोकयन् विभीः प्रशान्तात्मा चतुर्विंशत्या तस्तै- र्व्यतीतं चिन्तयेत् ।
तमोऽध्यायः ] विष्णुध्यानवर्णनम् ।
नित्यमतीन्द्रियमगुणं शब्दस्पर्शरसरूपगन्धातीतं सर्वज्ञ- मतिस्थूलं सर्वगम सूक्ष्मं सर्वतः पाणिपादं सर्वतोऽक्षि- शिरोमुखं सर्वतः सर्वेन्द्रियशक्तिम । एवं ध्यायेत् । ध्याननिरतम्य च संवत्सरेण योगाविर्भावो भवति । अथ निराकारे लक्ष्बन्धं कर्त्तुं न शक्नोति तदा- पृथिव्यप्तेजोवाय्वाकाशमतो द्वयात्माव्यक्तयुरूपाणां पूर्व- पूर्व ध्यात्वा तत्र तत्र लक्षन्तत् परित्यज्यापरमपरं ध्यायेत् । एवं पुरुषध्यानमारभेत ।
अत्राप्यसमर्थः स्वहृदयपद्मस्यावाङ्मुखस्य मध्ये दीप- वन् पुरुषं ध्यायेत् ।
तत्राप्यसमर्थोभगवन्तं वासुदेवं किरीटिनं कुण्डलिनमङ्ग- दिनं श्रीवत्साङ्कं वनमालाविभूषितोरस्कं सौत्यरूपं- चतुर्भुजं शङ्खचक्रगदापद्मधरं चरणमध्यगतभुवं ध्यायेत । यद्धयायति तदाप्नोति ध्यानगुह्यम् ।
तस्मात् सर्वमेव क्षरं त्यक्ता अक्षरमेव ध्यायेत् ।
[[५४१]]
न च पुरुषं विना किच्चि प्यक्षरमस्ति । तं प्राप्य मुक्तो भवति ॥
पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः ।
तस्मात् पुरुष इत्येवं प्रोच्यते तत्त्वचिन्तकैः ॥ प्रामात्रापररात्रेषु योगी नित्यमतन्द्रितः । ध्यायेत पुरुषं विष्णुं निर्गुणं पञ्चविंशकम् ॥ तत्त्वात्मानमगम्यश्च सर्वतत्त्वविवर्जितम् । असक्तं सर्वभृञ्चैव निर्गुणगुणभोक्तृ च ॥
[[५४२]]
विष्णुस्मृतिः ।
[ अष्टनवति-
वहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थञ्चात्तिके च तत् ॥ अविभक्तश्च भूतेन विभक्तमिव च स्थितम् । भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च ॥ ज्योतिषामपि तज्जोतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥ इति क्षेत्रं तथा ज्ञानं रोयश्वोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥
इति वैष्णवे धर्मशास्त्रे ममनवतितमोऽध्यायः ॥
[[1001]]
॥ अथ अष्टनवतितमोऽध्यायः ॥
इत्येवमुक्ता वसुमती जानुभ्यां शिरसा च नमस्कारं कृत्योवाच । भगवंस्त्वत्समीपे सततमेवं चत्वारि महाभूतालयान्या- काशः शङ्करूपी बायुश्चक्ररूपी तेजश्च गदारूण्यम्भो- Srasरूप अहमण्यतेनैव रूपेण भगवत्पादमध्यपरि- वर्त्तिनो भवितु मिच्छामि । इत्येवमुक्तो भगवांस्थेत्युवाच ।
वसुधापि लब्धकामा तथा चक्रं देवदेवच्च तुटाव । ओं नमस्ते देवदेव वासुदेव आदिदेव कामदेव मही- पाल अनादिमध्यनिधन प्रजापते सुप्रजापते महा-तमोऽध्यायः ]
जगत्परायणनारायणवर्णनम् ।
प्रजापते ऊर्जस्पते वाचस्पते जगत्पते दिवस्पते वनस्पते- पयस्पते पृथिवीपते सलिलपते दिक्पते महत्पते- मरुत्पते लक्ष्मीपते ब्रह्मरूप ब्राह्मणप्रिय सर्वग अचिन्त्य-
[[५४३]]
ज्ञानगम्य पुरुहूत पुरुष्टुत ब्रह्मण्य ब्रह्मप्रिय ब्रह्म कायिक- महाकायिक महाराजिक चतुम्महाराजिक भास्वर- महाभास्वर सम महाभाग स्वर तुपित महातुपित- प्रतईन परिनिर्मित अपरिनिर्मित वशवर्त्तिन् यज्ञ- महायज्ञ यजयोग यज्ञगम्य यज्ञनिवन अजित वैकुण्ड- अपार पर पुराण लेख्य प्रजावर चित्राशखण्डधर- यज्ञभागहर पुरोडाशहर विश्व विश्वधर शुचिश्रवः- अच्युतार्थन घृताचिः खण्डपरशो पद्मनाभ पद्मघर- पद्मधाराधर हृषीकेश एकशृङ्ग महावराह द्रुहिण अच्युत- अनन्त पुरुष महापुरुष कपिल सांख्यचार्य विश्वक्सेन- धम्मधर्म्मद धम्मङ्ग धर्मवसुप्रद वरप्रः विष्णो जिष्णो- सहिष्णो कृष्ण पुण्डरीकाक्ष नारायण परायण- जगत्परायण नमोनम इति ॥
स्तुत्वा त्वेवं प्रसन्नेन मनसा पृथिवी तदा । उवाच सम्मुखं देवं लब्धकामा वसुन्धरा ॥
इति वैष्णवे धर्मशास्त्रेऽनवतितमोऽध्यायः ॥
–:८०'-
[[५४४]]
दृष्ट्वा
विष्णुस्मृतिः ।
॥ अथ नवनवतितमोऽध्यायः ॥
[ नवनवति-
श्रियं देवदेवस्य विगृहीत पादां तपसा ज्वलन्तीम् । सुतप्रजाम्बूनदचारुपर्णा पप्रच्छ देवीं वसुधाप्रहृष्टा ॥
उन्निद्र कोकनदचारुकरे वरेण्ये ।
उन्निद्रकोकनदनाभि गृहीतपादे ॥ उन्निद्र कोकनदसद्मसदास्थितीते । उन्निद्रकोकनदमध्य समानवर्णे ॥
नीलाञ्जनेत्रे तपनीयवणं शुक्लाम्बरे रत्नविभूषिताङ्गि । चन्द्रानने सूर्य्यसमानभासे महाप्रभावे जगतः प्रधाने ॥ त्यमेव निद्रा जगतः प्रधाना लक्ष्मीर्धृतिः श्रीविरतिर्जया च ! कान्ति प्रभा कीर्तिरथो विभूतिः सरस्वती वागथ पावनी च । स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिःसुदीक्षा च तथा सुनीतिः । ख्यातिर्विशाला तथानसूया स्वाहा च मेधा च तथैव बुद्धिः ॥ आक्रम्य सन्तु यथा त्रिलोकीं तिष्ठत्ययं देववरोऽसिताङ्गे । तथा स्थिता त्वं वरदे तथापि पृच्छाम्यहंते वसतिं विभूत्याः ॥ इत्येवमुक्तां वसुधां वभाषे लक्ष्मीस्तदा देवरवाग्रतस्था । सदा स्थिताहं मधुसूदनस्य देवस्य पार्श्वे तपनीयवर्णे ॥ अस्याज्ञयायं मनसा स्मरामि श्रियायुतं तं प्रवदन्ति सन्तः । संस्मारणे वाप्यथ यत्न चाहं स्थिता सदा तच्छृणुलोकधात्रि ॥ वसाम्यथार्के च निशाकरे च तारागणाढ्य गगने विमेवे । मेघे तथालम्बपयोधरे च शक्रयुधाढ्य च तडित्प्रकाशे ॥
[[1]]
तमोऽध्यायः ]
लक्ष्मीनिवासस्थानवर्णनम् ।
५.४५
तथा सुवर्णे विमले च रूपये रत्नेषु वस्त्रेष्वमलेषु मूमे । प्रासादमालासु च पाण्डुरासु देवालयेषु ध्वजभूषितेषु ॥ सद्यः कृते चाप्यथ गोमये च मत्तं गजेन्द्र तुरगे प्रहृष्ठे । वृष तथा दर्पसमन्विते च विप्रे तथैवाध्ययनप्रपन्न ॥ सिंहासने चामलके च विल्वे च्छत्रे च शङ्ख च तथैव पद्म । दीप्ते हुताशे विमले च खड्गे आदर्शविम्वे च तथा स्थिताहम् । पूर्णोदकुम्भेषु सचामरेषु सतालवृन्तेषु विभूषितेषु । भृङ्गारपत्रषु मनोहरेषु मृदिस्थिताहञ्च नवोद्ध, तायाम् ॥ क्षीरे तथा सर्पिषि शाहले च क्षौद्रं तथा दध्नि पुरन्ध्रिगात्रे । देहे कुमाय्र्याश्च तथा सुराणां तपस्विनां यज्ञभृताश्च देहे ॥ शरे च संग्रामविनिर्गते च स्थितामृते स्वर्गसदाप्रयाते । वेदध्वनौ वान्यथ शङ्खशब्दे स्वाहास्वधायामथ वाद्यशब्दे ॥ राजाभिषेके च तथा विवाहे यहो बरे स्नातशिरस्यथापि । पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्वरासु ॥ सरसु पूर्णेषु तथा जलेषु सशालायां भुवि पद्मखण्डे । वने च वत्से च शिशौ प्रहृष्टे साधौ नरे धर्मपरायणे च ॥ आचारसेविन्यथ शास्त्रनित्ये विनोतबेशे च तथा सुवेशे । सुशुद्धदान्ते मलवर्जिते च मिष्टाशने चातिथिपूजके च ॥ स्वदारतुडे निरते च धर्मे धर्मोत्कटं चात्यशनाद्विरक्तं । सदा सुपुष्ये च सुगन्धिगात्रे सुगन्धलिप्ते च विभूषिते च ॥ सत्ये स्थिते भूतहिते निविष्ठे क्षमार्चिते क्रोधविवज्र्जिते च । स्वकार्य्यदक्षे परकार्य्यदक्ष कल्याणचित्ते च सदा विनीते ॥
[[३५]]
[[५४६]]
विष्णुस्मृतिः ।
नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु । अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥ सम्मृष्टवेरमासु जितेन्द्रियासु कलित्र्यपेतासु बिलोलुपासु । धर्म्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं मधुसूदने तु ॥ इति वैष्णवे धर्मशास्त्रे नवनवतितमोऽध्यायः ॥
॥ अथ शततमोऽध्यायः ॥ धर्मशास्त्रमिदं श्रेष्ठ स्वयं देवेन भाषितम् । ने द्विजाधारयिष्यन्ति तेषां स्वर्गे गतिः परा ॥ इदं पवित्रं मङ्गल्यं स्वर्गमायुष्यमेव च । ज्ञानञ्चैव यशस्यं च धनसौभाग्यबर्द्धनम् ॥
अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यमेव च । श्राद्धषु श्रावणीयं च भूतिकामैर्नरैः सदा । इदं रहस्यं परमं कथितं बसुधे ! तव ॥
मया प्रसन्नेन जगद्धितार्थं सौभाग्यमेतत् परमं रहस्यम् । दुःखप्ननाशं बहुपुण्ययुक्त शिवालयं शाश्वतधर्मशस्त्रम् ॥
इति वैष्णवे धर्मशास्त्रे शततमोध्यायः ॥
॥ समाप्ता चेयं श्रीभगवद्विष्णुस्मृतिः ॥
ॐ तत्सत् ।
॥ अथ ॥