- ॥ शातातपस्मृतिः ॥-
॥ श्रीगणेशायनमः ॥
अथाः कृतप्रायश्चित्तवर्णनम् ।
प्रथमोऽध्यायः ।
प्रायश्चित्तविहीनानां महापातकिनां नृणाम् । नरकान्ते भवेज्जन्म चिह्नाङ्कितशरीरिणाम् ॥ १ प्रतिजन्म भवेत्तेषां चिह्न तत्पापसूचितम् । प्रायश्चित्ते कृते याति पश्चात्तापवतां पुनः ॥२ महापातकजं चिह्न सप्तजन्मनि जायते । उपपापोद्भवं पथ्य त्रीणि पापसमुद्भवम् ॥३ दुष्कर्मजा नृणां रोगा यान्ति चोपक्रमैः शमम् । जपैः सुरार्चनैर्होमैर्दानैस्तेषां शमोभवेत् ॥४
पूर्वजन्माकृतप्रायश्चित्त चिन्हम् ।
पूर्वजन्मकृतं पापं नरकस्य परिक्षये ।
बाधते व्याधिरूपेण तस्य जप्यादिभिः शमः ॥५ कुष्ठव राजयक्ष्मा च प्रमेो ग्रहणी तथा । मूत्रकृच्छ्राश्मरीकासा अतीसारभगन्दरौ ॥६ दुष्टत्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् । इत्येवमादयो रोगा महापापोद्भवाः स्मृताः ॥ ७ जलोदरं यकृत प्लीहा शूलरोगत्रणानि च । श्रासाजीर्णज्वरच्छर्द्दिभ्रममोह गलग्रहाः ।
रक्तार्बुद विसर्पाद्या उपपाषोद्भवा गदाः ॥८ दण्डापतानकश्चित्रवपुः कम्पविचर्चिकाः । वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ॥ अर्शभाद्या नृणां रोगा अतिपापाद्भवन्ति हि । अन्ये च बहवो रोगा जायन्ते वर्णसङ्कराः ॥१० उच्यन्ते च निदानानि प्रायश्चित्तानि वै क्रमात् । महापापेषु सवं स्यात्तदर्द्ध मुपपातके ॥११ दद्यात् पापेषु पष्ठांशं कल्यं व्याधिबलाबलम् । अथ साधारणत्तेषु गोदानादिषु कथ्यते ॥१२ गोदाने वत्सयुक्ता गौः सुशीला च पयस्विनी ॥ १३ वृषदाने शुभोऽनङ्कान् शुक्लाम्बर सकाभ्वनः । निवर्तनानि भूदाने दश दद्याद्विजातये ॥१४ दशहस्तेन दण्डेन त्रिशद्दण्डं निवर्तनम् ।
दश तान्येव : गोचर्म दत्वा स्वर्गे महीयते ॥१५
[[५६६]]
[[६००]]
शातातपस्मृतिः ।
[ प्रथमो-
सुबर्णशतनिष्कन्तु तदर्द्धार्द्ध प्रमाणतः ।
अवदाने मृदु लक्ष्णमव सोपस्करं दिशेत् ॥ १६
महिषीं माहिषे दाने दद्यान् स्वर्णा (Sम्बरा) युधान्विताम् । दद्याद्वजं महादाने सुवर्णफलसंयुतम् ॥१७
लक्षसंख्याहणं पुष्पं प्रदद्यादेवताने ।
दद्याद्विज सहस्राय मिष्टान्न द्विजभोजने ॥१८ रुद्रं जपेलक्षपुष्पैः पूययित्वा च त्र्यम्बकम् । एकादश जपेद्रुद्रान् दशांशं गुग्गुलैघृतैः ॥ १६ हुत्वाभिपंचनं कुर्यान्मन्त्रैर्वरुणदेव तैः ।
शान्तिके गणशान्तिश्च ग्रहशान्तिकपूर्वकम् ॥२० धान्यदाने शुभं धान्यं खारी यष्टिमितं स्मृतम् । वस्त्रदाने पट्टवस्त्रयं कर्पूरसंयुतम् ॥२१ दशपञ्चाष्टचतुर उपवेश्य द्विजान् शुभान् । विधाय वैष्णवीं पूजा सङ्कल्प्य निजकाम्यया ॥२२ धेनुं दद्याद्विजातिभ्योदक्षिणाञ्चापि शक्तितः । अलङ्कृत्य यथाशक्ति वस्त्रालङ्करणैर्द्विजान् ॥२३ याचेद्दण्डप्रमाणेन प्रायश्चित्तं यथोदितम् । तेषामनुज्ञया कृत्वा प्रायश्चित्तं यथाविधि ॥२४ पुनस्तान् परिपूर्णार्थानर्चयेद्विधिवद्विजान् । सन्तुष्टा ब्राह्मणा दद्युरनुज्ञां व्रतकारिणे ॥२५ जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि ।
सर्व भवति निच्छिद्रं यस्य चेच्छन्ति ब्राह्मणाः ॥२६
ऽध्यायः ]
ब्राह्मणमहत्ववर्णनम् ।
ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः । सर्वदेवमया विप्रा न तद्वचनमन्यथा ॥२७ उपवासोव्रतञ्चैव स्नानं तीर्थफलं तपः ।
विप्रैः सम्पादितं सर्व सम्पन्न तस्य तत्फलम् ॥२८ सम्पन्नमिति यद्वाक्यं वदन्ति क्षितिदेवताः । प्रणम्य शिरसा धार्य्यमग्निष्टोमफलं लभेत् ॥२६ ब्राह्मणा जङ्गमं तीर्थं निर्जलं सावकामिकम । तेषां वाक्योदकेनैव शुद्धयन्ति मलिना जनाः ॥३० तेभ्योऽनुज्ञामभिप्राप्य प्रगृह्य च तथाशिषः ।
[[६०१]]
भोजयित्वा द्विजान् शक्त्या भुञ्जीत सह बन्धुभिः ॥ ३१ इति शातातपीये कर्मविपाके साधारणविधिः प्रथमोऽध्यायः ।
-❀❀-
॥ द्वितीयोऽध्यायः ॥
अथ कुष्ठ निवारणप्रयोगवर्णनम् ।
ब्रह्मा नरकस्यान्ते पाण्डुकुष्ठी प्रजायते । प्रायश्चित्तं प्रकुर्वीत स तत्पातकशान्तये ॥१ चत्वारः कलशाः काय्र्याः पञ्चरत्नसमन्विताः । पञ्चपल्लवसंयुक्ताः सितवस्त्रेण युताः ॥२ अश्वस्थानादिमृयुक्तास्तीर्थोदकसुपूरिताः ।
कषायपाकोपेता नानाविधफलान्विताः ॥३
[[६०२]]
शातातपस्मृतिः ।
[ द्वितीयो-
सर्वोषधिसमायुक्ताः स्थाप्याः प्रतिदिशं द्विजैः । रौप्यमष्टदलं पद्म मध्यकुम्भोपरि न्यसेत् ॥४ तस्योपरि न्यसेदेवं ब्रह्माणञ्च चतुर्मुखम् । पलार्द्धार्द्ध प्रमाणेन सुवर्णेन विनिर्मितम् ॥५ अर्चेत् पुरुषसूक्तेन त्रिकालं प्रतिवासरम् । यजमानः शुभैर्गन्धैः पुष्पपर्यथाविधि ॥६ पूर्वादिकुम्भेषु ततो ब्राह्मणा ब्रह्मचारिणः । पठेयुः स्वरबवेदांते ऋग्वेदप्रभृतीन् शनैः ॥७ दशांशेन ततो होमो ग्रहशान्तिपुरःसरः । मध्यकुण्डे विधातव्यो घृताक्तैस्तिलहेमभिः ॥८ द्वादशाहमिदं कर्म समाप्य द्विजपुङ्गवः । तत्र पीठे यजमानमभिषिञ्चद्यथाविधि ॥ ततो यथाशकि गोभूहेम तिलादिकम् । ब्राह्मणेभ्यस्तथा देयमाचाय्य निवेदयेत् ॥१० आदित्या वसवो रुद्रा विश्वे देवा मरुद्गणाः । प्रीताः सर्वे व्यपोहन्तु मम पापं सुदारुणम् ॥११ इत्युदीर्य मुहुर्भतया तमाचार्यं क्षमापयेत् । एवं विधाने विहिते शेतकुष्ठी बिशुध्यति ॥ १२ कुष्ठी गोबधकारी स्यान्नरकान्तेऽस्य निष्कृतिः । स्थापयेद्घट मेकन्तु पूर्वोक्तद्रव्यसंयुतम् ॥ १३ रक्तचन्दनलिप्ताङ्गं रक्तपुः पाम्बरान्वितम् ।
रक्तकुम्भन्तु तं कृत्वा स्थापयेदक्षिणां दिशम् ॥१४ऽध्यायः ]
सामवेदेन - सर्वपापप्रायश्चित्तम्
ताम्रपात्रं न्यसेत्तत्र तिलचूर्णेन पूरितम् ।
।
तस्योपरि न्यसेदेवं हेमनिष्कमयं यमम् ॥ १५ यजेत् पुरुषसूकेन पापं मे शाम्यतामिति । सामपारायणं कुर्य्यात् कलशे तत्र सामवित् ॥१६ दशांशं सर्वपेहुत्वा पावमान्याभिषेचने । विहिते धर्मराजानमाचार्याय निवेदयेत् ॥ १७ यमोऽषि महिपारूढो दण्डपाणिभयावहः । दक्षिणाशापतिर्देवोमम पापं व्यपोहतु ॥ १८ इत्युचार्य विसृज्येनं माझं मद्भक्तिमाचरेत् । ब्रह्मगोबधयोरेषा प्रायश्चित्तंन निष्कृतिः ॥ १६ पितृहा चेतनाहीनो मातृहान्धः प्रजायते । नरकान्ते प्रकुर्बीत प्रायश्चित्तं यथाविधि ॥२० प्राजापत्यानि कुर्वीत त्रिंशचैव विधानतः । ब्रतान्ते कारयेन्नावं सौवर्णपलसम्मित । म् ॥२१ कुम्भ रौप्यमयञ्चैव ताम्रपात्राणि पूर्ववत् । निष्कहेना तु कर्त्तव्यो देवः श्रीवत्सलाञ्छनः ॥२२ पट्टबस्त्रेण संवेष्ट्य पूजयेत्तं विधानतः । नावं द्विजाय तं दद्यात् सर्वोपस्करसंयुताम् ॥२३ वासुदेव ! जगन्नाथ ! सर्वभूताशयस्थित । । पाठकार्बवमग्नं मां तारय प्रणतार्त्तिहृत्! ॥२४
इत्युदीर्य्य प्रणम्याथ ब्राह्मणाय विसर्जयेत् । अन्येभ्योऽपि यथाशक्ति विप्रेभ्योदक्षिणां ददेत् ॥२५
[[६०३]]
[[६०४]]
शातातपस्मृतिः ।
[ द्वितीयो-
स्वसृघाती तु बधिरो नरकान्ते प्रजायते । मूको भ्रातृबधे चैव तस्येयं निष्कृतिः स्मृता ॥२६ सोऽपि पापविशुद्धयर्थं चरेचाद्रायणत्रतम् । व्रतान्ते पुस्तकं दद्यात सुवर्णफलसंयुतम् ॥२७ इमं मन्त्रं समुच्चार्य्य ब्रह्माणीं तां विसर्जयेत् । सरस्वति ! जगन्मातः ! शब्दब्रह्माधिदेवते ! ॥२८ दुष्कर्मकरणात् पापात् पाहि मां परमेश्वरि ! । बालघाती च पुरुषो मृतवत्सः प्रजायते ॥ २६ ब्राह्मणोद्वाहनञ्चैव कर्त्तव्यं तेन शुद्धये । श्रवणं हरिवंशस्य कर्त्तव्यच यथाविधि ! ३० महारुद्रपञ्चैव कारयच्च यथाविधि । पड़ङ्गकादशैरुद्रैरुद्रः समभिधीयते ॥ ३१ रुद्रस्त वैकादशभिर्महारुद्रः प्रकीर्त्तितः । एकादशभिरेतैस्तु अतिरुद्रश्च कथ्यते ॥३२ जुहुयाच्च दशांशन दूर्वयायुतसंख्यया ।
एकादश स्वर्णनिष्काः प्रदातव्याः सदक्षिणाः ॥३३ पलान्येकादश तथा दद्याद् द्विजानुसारतः । अन्येभ्योऽपि यथाशक्ति द्विजेभ्योदक्षिण दिशेत् ॥३४
स्नापयेद्दम्पतीः पश्चान्मन्त्रैर्बरुणदैवतैः ।
आचार्य्याय प्रदेयानि वस्त्रालङ्करणानि च ॥ ३५ गोत्रहा पुरुषः कुष्ठी निवंशश्वोपजायते ।
स च पापविशुद्धयर्थं प्राजापत्यशतभ्वरेत् ॥३६
ऽध्यायः
हन्तृक - फलनाशायोपायवर्णनम् ।
व्रतान्ते मेदनीं दत्वा शृणुयादथ भारतम् । स्त्रीहन्ता चातिसारी स्यादश्वत्थान् रोपयेद्दश ॥ ३७ दद्याच शर्कराधेनुं भोजयेच शतं द्विजान् । राजहा क्षयरोगी स्यादेषा तस्य च निष्कृतिः ॥३८ गोभूहिरण्यमिष्टान्न जलवस्त्रप्रदानतः ।
घृतधेनुप्रदानेन तिलधेनुप्रदानतः ॥ ३६
इत्यादिना क्रमेणैव क्षयरोगः प्रशाम्यति । रक्तार्बुदी वैश्यहन्ता जायते स च मानवः ॥ ४० प्राजापत्यानि चत्वारि सप्त धान्यानि चोत्सृजेत् । दण्डापतानकयुतः शूद्रहन्ता भवेन्नरः ॥ ४१ प्राजापत्यं सकृचैवं दद्याद्धेन सदक्षिणाम् । कारुणाभ्व बधे चैव रूक्षभावः प्रजायते ॥४२ तेन तत्पाप शुद्धयर्थं दातव्यो वृषभः सितः । सर्वकार्येष्वसिद्धार्थो गजघाती भवेन्नरः ॥४३
प्रासादं कारयित्वा तु गणेशप्रतिमां न्यसेत् । गणनाथस्य मन्त्रस्तु मन्त्री लक्षमितं जपेत् ॥४४ कुलत्थशाकैः पूपैश्च गणशान्तिपुरःसरम् । उष्ट्र विनिहते चैव जायते विकृतस्वरः ॥४५ स तत्पापविशुद्धयर्थं दद्यात् कर्पूरकं फलम् ॥४६ अश्वे विनिहते चैव वक्रतुण्डः प्रजायते । शतं पलानि दद्याच चन्दनान्यधनुत्तये ॥४७
[[६०५]]
[[०६]]
शातातपरमृतिः ।
[ द्वितीय-
महिषीघातने चैव कृष्णगुल्मः प्रजायते । खरे विनिहते चैव खररोमा प्रजायतेः ॥४८ निष्कत्रयस्य प्रकृतिं सम्प्रदद्याद्धिरण्मयीम् । तरक्षौ निहते चैव जायते केरेक्षण । दद्यादन्नमयीं धेनुं स तत्पातकशान्तये ॥४६ शूकरे निहते चैव दन्तुरो जायते नरः । स दद्यात्तु विशुद्धयर्थं वृतकुम्भं सदक्षिणम् ॥५० हरिणे निहते खञ्जः शृगाले तु विषादकः । अवस्तेन प्रदातव्यः सौवर्णपलनिर्मितः ॥ ५१ अजाभिघातने चैत्र अधिकाङ्गः प्रजायते । अजा तेन प्रदातव्या विचित्रवस्त्रसंयुता ॥५२ उर निहते चैव पाण्डुरोगः प्रजायते । कस्तूरिकापलं दद्या ब्राह्मणाय विशुद्धये ॥५३ मार्जारे निहते चैव पीतपाणिः प्रजायते । पारावतं स सौवणं प्रदद्यान्निष्कमात्रकम् ॥१५४ शुकशारिकयोवते नरः स्खलितवाग्भवेत् । सच्छास्त्रपुस्तकं गद्यात् स विप्राय सदक्षिणम् ॥५५ वघाती दीर्घनसो दद्यानां धवलप्रभाम् । काकघाती कर्णहीनो दद्याद्रामसितप्रभाम् ॥५६ हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता । तर्द्धार्द्ध प्रमाणेन क्षत्रियादिष्वनुक्रमात् ॥५७ इति शातातपीये कर्मविपाके हिंसाप्रायश्चित्तविधिर्नाम
द्वितीयोऽध्यायः ।
ऽध्यायः ]
प्रकीर्णरोगाणांप्रायश्चित्तवर्णनम् ।
[[६०७]]
॥ तृतीयोऽध्यायः ॥
अथ प्रकीर्णरोगाणां प्रायश्चित्तम् ।
सुरापः श्यावदन्तः स्यात् प्राजापत्यन्तरन्तथा । शर्करायास्तुलाः सप्त दद्यात् पापविशुद्धये ॥१ जपित्वा तु महारुद्रं दशांशं जुहुयात्तिलैः । ततोऽभिषेकः कर्त्तव्यो मन्त्रैर्वरुणदेवतैः ॥२ मद्यपो रक्तपित्ती स्यात्स दद्यात् सर्पिपोघटम् । मधुनोऽर्द्ध घटकचैव सहिरण्यं विशुद्धये ॥३ अभक्ष्यभक्षणे चैव जायते कृमिकोदरः । यथावत्तेन शुद्धयर्थमुपोष्यं भीष्मपश्चकम् ॥४ उदक्यावीक्षितं भुक्ता जायते कमिलोदरः । गोमूत्रयावकाहारखि रात्रेणैव शुद्धयति ॥५
भुक्ता चास्पृश्य संस्पृउं जायते कृमिलोदरः । त्रिरात्रं समुपोष्याथ स तत्पापात् प्रमुच्यते ॥१६ परान्नविघ्नकरणादजीर्ण मभिजायते ।
लअहोमं स कुर्वीत प्रायश्चित्तं यथाविधि ॥७ मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः । प्राजापत्यत्रयं कुर्य्याद्भोजयेच्च शतं द्विजान् ॥८ विषदः स्याच्छर्दिरोगी दद्यादरा पयस्विनीः ।
मार्गहा पादसेवी स्यात् सोऽश्वदानं समाचरेत् ॥६
[[६०८]]
शातातपस्मृतिः ।
[ तृतीयो-
पिशुनो नरस्यान्ते जायते श्वासकासवान् । घृतं तेन प्रदातव्यं सहस्रपलसम्मितम् ॥१० धूर्त्ताऽपस्माररोगी स्यात् स तत्पापविशुद्धये । ब्रह्मकूर्चमयों धेनुं दद्यानाञ्च सदक्षिणाम् ॥११ शूली परोपतापेन जायते तत्प्रमोचने । सोऽन्नदानं प्रकुर्वीत तथा रुद्रं जपेन्नरः ॥१२ दावामिदायकश्चैव रक्तातिसारवान् भवेत् । तेनोदपानं कर्त्तव्यं रोपणीयस्तथा वटः ॥१३ सुरालये जले वापि शकृण्मूत्रं करोति यः । गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ॥१४ मासं सुरार्जुनेनैव गोदानद्वितयेन तु । प्राजापत्येन चैकेन शाम्यन्ति गुदजा रुजः ॥१५ गर्भपातनजा रोगा यकृलीहजलोदराः । तेपां प्रशमनार्थाय प्रायश्चित्तमिदं स्मृतम् ॥१६ एतेषु दच्चाद्विप्राय जलधेनु विधानतः । सुवर्णरूप्यताम्राणां पलत्रयसमन्विताम् ॥१७ प्रतिमाभङ्गकारी च अप्रतिष्ठः प्रजायते । सम्बत्सरत्रयं सिञ्चदश्वत्थं प्रतिवासरम् ॥१-
उद्वाहयेत्तमश्वत्थं स्वगृह्येोक्तविधानतः ।
तत्र संस्थापयेद्देवं विघ्नराजं सुपूजितम् ॥१६ दुष्टवादी खण्डितः स्यात् सवै दद्याद्विजातये । रूप्यं पलद्वयं दुग्धं घटद्वयसमन्वितम् ॥२०
ऽध्यायः ]
स्तेयप्रायश्चित्तम् ।
[[६०६]]
खल्लीः परनिन्दावान् धेनुं दद्यात् सकाञ्चनम् । परोपहासकृत् काणः स गां दद्यात् समौक्तिकाम् ॥२१ सभायां पक्षपाती च जायते पक्षघातवान् । निष्कत्रयमितं हेम स दद्यात् सत्यवर्त्तिनाम् ॥२२
इति शातातपोये कमविपाके प्रकीर्णप्रायश्चित्तं नाम
तृतीयोऽध्यायः ।
-❀❀-
-*
॥ चतुर्थोऽध्यायः ॥
अथ स्तेयप्रायश्चित्तम् ।
कुलघ्नो नरकस्यान्ते जायते विप्रहेमहत् । स तु स्वर्णशतं दद्यात् कृत्वा चान्द्रायणत्रयम् ॥ १ औडुम्बरी ताम्रचौरो नरकान्ते प्रजायते । प्राजापत्यं स कृत्वात्र ताम्रं पलशतं दिशेत् ॥२ कांस्यहारी च भवति पुण्डरीकसमन्वितः । कांस्यं पलशतं दद्यादलङ्कृत्य द्विजातये ॥ ३ रीतिहत् पिङ्गलाक्षः स्यादुपोष्य हरिवासरम् । रीति पलशतं दद्यादलङ्कृत्य द्विजं शुभम् ॥४ मुक्ताहारी च पुरुषो जायते पिङ्गमूर्द्धजः । मुक्ताफलशतं दद्यादुपोष्य स विधानतः ॥ ५ त्रपुहारी च पुरुषो जायते नेत्ररोगवान् । उपोष्य दिवसं सोऽपि दद्यात् पलशतन्त्रषु ॥ ६
[[३६]]
[[६१०]]
शातातपस्मृतिः ।
सीसहारी च पुरुषो जायते शीर्षरोगवान् । उपोष्य दिवसं दद्याद्घृतधेनुं विधानत ॥७ दुग्धहारी च पुत्रो जायते बहुमूत्रकः । स दद्यादुग्धधनुश्व ब्राह्मणाय यथाविधि ॥८ दधिचौर्येण पुरुषो जायते मदवान् यतः । दधिवेनुः प्रदातव्या तेन विप्राय शुद्धये ॥ मधुचौरस्तु पुरुषो जायते नेत्ररोगवान् । स दद्यान्मधुधनुध्व समुपोष्य द्विजातये ॥१० इक्षोविकारहारी च भवेदुदरगुल्मवान् । गुडधनुः प्रदातव्या तेन तद्दोषशान्तये ॥११ लोहहारी च पुरुषः कर्बराङ्गः प्रजायते । लोहं पलशतं दद्यादुपोष्य स तु वासरम् ॥१२ सैलचौरस्तु गुरुषो भवेत् कण्डादिपीडितः । उपोष्य स तु विप्राय दद्यात्तैलघटद्वयम् ॥१३ आमान्नहरणाश्चैव दन्तहीनः प्रजायते ।
स दद्यादश्विनौ हेमनिष्कद्वय विनिर्मितौ ॥१४ पक्कान्नहरणाचैव जिह्वारोगः प्रजायते ।
चतुर्थी-
गायत्र्याः स जपेल्लक्षं दशांशं जुहुया (यवैः) त्तिलैः ॥१५ फलहारी च पुरुषो जायते व्रणिताङ्गुलिः ।
नानाफलानामयुतं स दद्याच्च द्विजन्मने ॥१६ ताम्बूलहरणाश्चैव श्वेतौष्ठः सम्प्रजायते । सदक्षिणं प्रदद्याच विद्रुमस्य द्वयं वरम् ॥१७
ऽध्यायः ]
स्तेयप्रायश्चित्तम् ।
शाकहारी च पुरुषो जायते नीललोचनः । ब्राह्मणाय प्रदद्याद्वै महानीलमणिद्वयम् ॥१८ कन्दमूलस्य हरणापाणिः प्रजायते । देवतायतनं कार्य्यमुद्यानं तेन शक्तित ॥ १६ सौगन्धिकस्य हरणाद्दुर्गन्धाङ्गः प्रजायते । स लक्षमेकं पद्मानां जुहुयाज्जातवेदसि ॥ २० दारु ( क्षीर) हारी च पुरुषः स्त्रिन्नपाणिः प्रजायते । स दद्याद्विदुषे शुद्धौ काश्मीरजपलद्वयम् ॥२१ विद्य पुत्तकहारी च किल मूकः प्रजायते । न्यायेतिहासं दद्यात् स ब्राह्मणाय सदक्षिणाम् ॥ २२ वस्त्रहारी भवेत् कुष्ठी सम्प्रदद्यात्प्रजापतिन । हेम निष्कमितञ्चैव वस्त्रयुग्मं द्विजातये ॥२३ ऊर्गाहारी लोमशः स्यात् स दद्यात् कम्बलान्वितम् । स्वर्गनिष्कमितं हेमवह्नि दद्याद्विजातये ॥२४ पट्टसूत्रस्य हरणान्निर्लोमा जायते नरः । तेन धेनुः प्रदातव्या विशुद्धयर्थं द्विजन्ने ॥२५ औषधस्यापहरणे सूर्यावर्तः प्रजायते ।
सूर्यायार्घः प्रदातव्यो मासं देयथा काभ्वनम् ॥२६ रक्तवस्त्रप्रवालादिहारी स्याद्रक्तवातवान् ।
सवस्त्रां महिषीं दद्यान्मणिरागसमन्विताम् ॥२७ विप्ररत्नापहारी चाप्यनपत्यः प्रजायते ।
तेन काय्यं विशुद्धयर्थं महारुद्रजपादिकम् ॥२४
[[६११]]
६.१२
शातातपस्मृतिः ।
मृतवत्सोदितः सर्वोविचित्र विधीयते । दशांशहोमः कर्तव्यः पलाशेन यथाविधि ॥ २६ देवस्य हरणाचैव जायते विविधो ज्वरः । ज्वरोमहाज्वरचैव रौद्रो वैष्णव एव च ॥ ३० ज्वरे रौद्रं जपेत् कर्णे महारुद्र महाज्वरे । अतिरौद्रं जपेद्रोद्रे वैष्णवे तद्वयं जपेत् ॥३१ मानाविधद्रव्यचौरो जायते ग्रहिणीयुतः । तेनान्नोदकवस्त्राणि हेम देयश्च शक्तितः ॥ ३२
इति शातातपीये कर्मविपाके स्तेयप्रायश्चित्तं नाम
चतुर्थोऽयायः ।
-:00:-
॥ पञ्चमोऽध्यायः ॥
अथ अगम्यागमनप्रायश्चित्तम् ।
मातृगामी भवेद्यस्तु लिङ्गं तस्य विनश्यति । चाण्डालीगमने चैव हीनकोपः प्रजायते ॥ १ तस्य प्रतिक्रियां कत्तुं कुम्भमुत्तरतोन्यसेत् । कृष्णत्रस्त्रसमाच्छन्न कृणमाल्य बिभूपितम् ॥२ तस्योपरि न्यसेदवं कांस्यपात्रे धनेश्वरम् । सुवर्णनिष्कषट्केन निर्मितं नरवाहनम् ॥३ यजेत् पुषसूक्तेन धनदं विश्वरूपिणम् । अथर्ववेदविद्विप्रो ह्याथवणं समाचरेत् ॥४
पामो-ऽण्यायः ]
अगम्यागमनप्रायश्चित्तम् ।
सुवर्णपुत्रिकां कृत्वा निष्कविंशतिसङ्घयया । दद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन् ॥५ निधीनामधिपो देवः शङ्करस्य प्रियः सखा । सौम्याशाविपतिः श्रीमान् मम पापं व्यपोहतु ॥६ इमं मन्त्रं समुत्रार्य आचार्याय यथाविधि । दद्यादव होनकोप लिङ्गनाशे विशुद्धये ॥७ गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते ।
C
तेनापि निष्कृतिः कार्य्या शास्त्रदृष्टेन कर्मणा ॥८ स्थापयेत् कुम्भमेकन्तु पश्चिमायां शुभे दिने । नीलवस्त्रसमाच्छन्न नीलमाल्यविभूपितम् ॥६ तस्योपरि न्यसेवं ताम्रपात्रे प्रचेतसम । सुवर्णनिष्कपट्केन निर्मितं यादसाम्पतिम् ॥१० : यजेत् पुरुपसून वरुणं विश्वरूपिणम् । सामविवाह्मण तत्र सामवेदं समाचरेत् ॥११ सुवर्णपुत्रिकां कृत्वा निष्कविंशतिसङ्ख्यया । दयाद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन् ॥१२ यादसामधिपो देवोविश्वेषामपि पावनः । संसाराब्धौ कर्णधारो वरुणः पावनोऽस्तु मे ॥ १३ इमं मन्त्रं समुच्चार्य आचार्याय यथाविधि । दद्यादेवमलङ्कृत्य मूत्रकृच्छ्रप्रशान्तये ॥१४ स्वसुतागमने चैव रक्तकुष्ठ प्रजायते ।
भगिनीगमने चैव पीतकुष्ठ प्रजायते ॥१५
[[६१३]]
[[६१४]]
शातातपस्मृतिः ।
[ पथ्यमो-
तस्य प्रतिक्रियां कर्त्ती पूर्वत कलसं न्यसेत् । पीतवत्रतमाच्छन्न’ पोतमाल्यविभूषितम् ॥१६ तस्योपरि न्यसेत् स्वर्णपात्रं देवं सुरेश्वरम् । सुवनिष्कपट्केन निर्मितं वज्रधारिणम् ॥१७ यजेत् पुसून वासवं विश्वरूपिणम् । यजुर्वदं तत्र सामं ऋग्वेदञ्च समाचरेत् ॥ १८ सुवर्णपुत्रिकां कृत्वा सुवर्णदशकेन तु । दद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन् ॥१६ देवानामधिपोदेवो वज्री विष्णुनिकेतनः । शतयज्ञः सहस्राक्षः पापं मम निकृन्ततु ॥ २० इमं मन्त्रं समुच्चार्य्य आचार्याय यथाविधि ।
वादेवं सहस्राक्षं स्व पापस्यापनुत्तये ॥२१ भातृभाय्र्याभिगमनाद्गलत्कुष्ठ प्रजायते । ( स्ववधूगमने चैव कृष्ण कुष्ट प्रजायते) ॥ २२ सेन काय्र्य विशुद्धयथं प्रागुक्तस्यार्द्धमेव हि । दशांशहोम : सर्वत्र घृताक्तः क्रियते तिलैः ॥२३ यद गम्याभिगमनाज्जायते ध्रुव ( द ) मण्डलम् । कृत्वा लोहमयीं धेनुं पलषष्टिप्रमाणतः ॥२४ कार्पासभाण्डसंयुक्तां कांस्यदोहां सवत्सिकाम् । दद्याद्विप्राय विधिवदिमं मन्त्रमुदीरयेत् ॥२५ सुरभिर्वणो माता मम पापं व्यपोहतु ।
।
तपस्विनी (मातुः स पत्नी) सङ्गमने जायते चाश्मरीगदः ॥ २६
[[६१५]]
ऽध्यायः ]
अगम्यागमनप्रायश्चित्तम् ।
स तु पापविशुद्धयर्थं प्रायश्चित्तं समाचरेत् ॥ २७
दद्याद्विप्राय विदुषं मधुधनुं यथोदितम् । तिलद्रोगशतञ्चेत्र हिरण्येन समन्वितम् ॥२८ पितृष्वस्रभिगमनाद्दक्षिणां (ना) शत्रणी भवेत् ।
तेनापि निष्कृतिः काय्र्या अजादानेन शक्तितः ॥२६ मातुलान्यान्तु गमने पृकुजः प्रजायते । कृष्णाजिनमदानेन प्रायश्चित्तं समाचरेत् ॥ ३० मातृष्वभिगमने वामाङ्ग व्रणवान् भवेत् । तेनापि निष्कृति कार्या सम्यग्दासीप्रदानतः ॥ ३१ मृतभाय्र्याभिगमने मृतभार्यः प्रजायते ।
C
तत्पातक विशुद्ध द्विजमेकं विवाहयेत् ॥३२
सगोत्रोप्रसङ्गन जायते च भगन्दरः ।
तेनापि निष्कृतिः कार्या महिपीदानयत्नतः ॥ ३३ तपस्विनीप्रसङ्गन प्रमेही जायते नरः ।
मासं रुद्रजप कार्य्या दद्याच्छतया च काञ्चनम् ॥ ३४ दीक्षितस्त्रोप्रसङ्गेन जायते दुष्टरक्तदृक् ।
स पातकविशुद्धयर्थं प्राजापत्यद्वयञ्चरेत् ॥ ३५ स्वजातिजायागमने जायते हृदयत्रणी । तत्पापस्य विशुद्धयर्थं प्राजापत्यद्वय चरेत् ॥३६ पशुयोनौ च गमने मूत्राघातः प्रजायते । तिलपत्रद्वयञ्चैव दद्यादात्मविशुद्धये ॥ ३७
[[६१६]]
शातातपस्मृतिः ।
अश्वयोनौ च गमनाद्गुदस्तम्भः प्रजायते । सहस्रकमलस्नानं मासं कुर्य्यात् शिवस्य च ॥ ३८ एते दोषा नराणां म्युर्नरकान्ते न संशयः । स्त्रीणामपि भवेन्त्येते तत्तत्पुरुषसङ्गमात् ॥ ३६
[ षष्ठो-
इति शातातपीये कर्मविपाके अगम्यागमन प्रायश्चित्तं नाम
पञ्चमोऽध्यायः ।
॥ अथ पष्ठोऽयायः ॥
अनुचित व्यवहारफलम् ।
अशूकर याद्रिडुमादिशकटेन च । भृग्वग्निदारुरास्त्राश्मविषोद्बन्धनजैर्मृताः ॥ १ व्याघ्राहिगजभूपालचौरवैरिवृकाहताः ।
काष्ठशल्यमृता ये च शौच संस्कारवर्जिताः ॥२ साकिन्यादिग्रहैर्यस्ता विद्यत्पतताश्च ये ॥ अस्पृश्या पवित्राश्च पतिताः पुतवर्जिताः । पञ्चत्रिंशत्प्रकारैश्च नाप्नुवन्ति गर्ति मृताः ॥ ३ पित्रायाः पिण्डभाजः शुत्रयो लेपभुजस्तथा । ततोनान्दोमुखाः प्रोक्ता स्त्रयोज्यमुखास्त्रयः ॥४ द्वादशैते पितृगणास्तर्पिताः सन्ततिप्रदाः । गतिहीनाः सुतादीनां सन्ततिं नाशयन्ति ते ॥५
ऽध्यायः ]
अनुचितत्र्यवहारफलम्
दश व्याघ्रादिनिहता गर्भ निघ्नन्त्यमी क्रमात् । द्वादशास्त्रादिनिता आकर्षन्ति च बालकम् ॥३ विपादिनिहता घ्नन्ति दशसु द्वादशस्त्रपि । वर्षेrबालकं कुर्यादनपत्योऽनपत्यताम् ॥७ व्याघ्रेो हन्यते जन्तुः कुमारीगमनेन च । विषदश्चैव सर्पण गजेन नृपदुःखकृत् ॥८ राज्ञा राजकुमारघ्नश्चरेण पशुहिंसकः । वैरिणा मित्रभेदी च वकवृत्तिवृकेण तु ॥ गुरुघाती च शय्यायां मत्सरी शौचवर्जितः । द्रोही संस्काररहितः शुता निक्षेपहारकः ॥१० नरोविहन्यतेऽरण्ये शूकरेण च पाशिकः ।
कृमिभिः कृत्तवासाश्च कृमिणा च निकुन्तनः ॥११ शृङ्गिणा शङ्करद्रोही शकटन च सूचकः । भृगुणा मेदिनोचौरो वह्निना यज्ञहानिकृन् ॥१२ दवेन दक्षिणाचौरः शस्त्रेण श्रुतिनिन्दकः ॥ अश्मना द्विजनिन्दाकृद्विषेण कुमतिप्रदः । उद्बन्धनेन हिंस्रः स्यात् सेतुभेदो जलेन तु ॥ १३ द्रुमेण राजदन्तिहृदतीस रेण लौहहृत् । साकिन्याद्यैश्च म्रियते स्वर्पकार्यकारकः ॥ १४ अनध्यायेऽप्यधीयानो म्रियते विद्युता तथा । अपश्यस्पर्शसङ्गी च वान्तमाश्रित्य शास्त्रहत् । पतितोपत्य विक्रेतानपत्योद्विजवस्त्रहत् ॥१५
[[६१७]]
[[६१८]]
शातात स्मृतिः ।
अथ तेषां क्रमेणैव प्रायश्चित्तं विधीयते । कारयेन्निष्कमात्रन्तु पुरुषं प्रतरूपिणम् ॥१६ चतुर्भुजं दण्डहस्तं महिपासनसंस्थितम् ।
[ षष्ठो-
पिष्ठैः कृणतिलैः कुर्यात् पिण्डं प्रस्थनमाणतः ॥ १७ मध्याज्यशर्करायुक्तं स्वर्णकुण्डलसंयुतम् ।
अकालमूलं कलसं पञ्चपल्लवसंयुतम् ॥१८ कृष्णवस्त्रसमाच्छन्नं सर्वोपधिसमन्वितम् । तस्योपरिन्यसेदेवं पात्रं धान्यफलैर्युतम् ॥१६ सनधान्यन्तु सफलं तत्र तत् सफलं न्यसेत् । कुम्भोपरि च विन्यस्य पूजयेत् प्रतरूपिणम् ॥२० कुर्य्यात् पुरुषसूक्तेन प्रत्यहं दुग्धतपणम् । षड़ङ्गञ्च जपेदुद्रं कलशे तत्र वेदवित् ॥ २१ यमसूकेन कुर्वीत यमपूजादिकं तथा । गायत्र्याश्चैव कर्त्तव्यो जपः स्वात्मविशुद्धये ॥२२ प्रहशान्तिकपूर्वश्व दशांशं जुहुयात्तिलैः । अज्ञातनामगोत्राय प्रताय सतिलोदकम् ॥२३ प्रदद्यात् पितृतीर्थेन पिण्डं मन्त्रमुदीरयेत् । इमं तिलमयं पिण्डं मधुसर्पिसमन्वितम् ॥२४ ददामि तस्मै प्रेताय यः पीड़ां कुरुते मम । सजलान् कृष्णकलसां स्तिलपात्र समन्वितान् । द्वादश प्रेतमुद्दिश्य दद्यादेकभ्य विष्णवे ॥२५
ऽध्यायः ]
अगतिप्रायश्चित्तम् ।
ततोऽभिषिञ्चेदाचार्यो दम्पती कलशोदकैः । शुचिर्वरायुध (रक्ताम्बर ) धरो मन्त्रौर्वरुणदेव तैः । यजमानस्ततोदद्यादाचाय्र्याय सदक्षिणाम् ॥२६ ततोनारायणवलिः कर्तव्यः शास्त्रनिश्चयात् । एष साधारणविधिरगतीन मुद्दाहृतः ॥ २७ विशेषतु पुनर्ज्ञेयो व्याघ्रादिनिहतेष्वपि । व्याघ्रेण निहते ते परकन्यां विवाहयेत् ॥ २८ सर्पदंशे नागवलिर्देयः सर्वेषु काञ्चनम् । चतु निष्कमितं हेम गजं दद्याद्वजैर्हेते ॥२६ राज्ञा विनिहते दद्यात् पुरुषन्तु हिरण्मयम् । चौरण निहत धेनुं वैरिणा निहतं वपम् ॥३० वृषेण निहते दद्याद्यथाशक्ति च काञ्चनम् । शय्यामृते प्रदातव्या शय्या तुलीसमन्विता ॥ ३१ निष्कमात्रसुवर्णस्य विष्णुना समधिष्ठिता । शौचहीने मृत चेत्र द्विनिष्कस्वर्णजं हरिम् ॥३२ संस्कारहोने च मृते कुमारश्च विवाहयेत् 1 शुना हते च निक्षपं स्थापयेन्निजशक्तितः ॥ ३३ शूकरेग हते दद्यान्महिषं दक्षिणान्वितम् । कृमिभिश्च मृते दद्याद्गोधूमान्नं द्विजातये ॥ ३४ शृङ्गिणा च हते दद्य द्वषभं वस्त्रसंयुतम् । शकटेन मृते दद्यादश्वं सोपस्करान्वितम् ॥३५
[[६१६]]
[[६२०]]
[ षटो-
शातातपरमृतिः ।
भृगुपाते मृतेचैव प्रदद्याद्धान्यपर्वतम् ।
अमिना निहतं दद्यादुपानहं स्वशक्तितः ॥ ३६ दवेन निहते चैव कर्त्तव्या सदने सभा । शस्त्रेण निहतं दद्यान्महिषीं दक्षिणान्विताम् ॥३७ अश्मना निहते दद्यात् सवत्सां गां पयस्विनीम् । विषेण च मृत दद्यान्मेदिनीं क्षेत्रसंयुताम ॥३८ उद्बन्धनमृते चापि प्रदद्याद्वां पयस्विनीम् । मृत जलेन वरुणं हैमं दद्यात्त्रिनिष्ककम् ॥३६ वृक्षं वृक्षहते दद्यात् सौवर्णं स्वर्णसंयुतम् ।
[[1]]
[[1]]
अतीसारमृत लक्ष सावित्र्याः संयतोजयेत् ॥४० साकिन्यादिमृतं चैवं जपेद्रुद्रं यथोचितम् । विद्युत्पातन निहते विद्यादानं समाचरेत् ॥४१ अस्पर्श च मृतं काय्यं वेदपारायणं तथा । सच्छास्त्रपुस्तकं दद्याद्रान्तमाश्रित्य संस्थित ॥४२ पातित्येन मृतं कुर्य्यात् प्राजापत्यानि पोड़श । मृते चापत्यरहितं कृच्छाणां नवतिश्चरेत् ॥४३ निष्कत्रय मितस्वणं दद्यादश्वं हयाहते । कपिना निहतं दद्यात् कपिं कनकनिर्मितम् ॥४४ विसूचिकामृते स्वादु भोजयेच्च शतं द्विजान् । तिलधेनुः प्रदातव्या कण्ठेऽनकवले मृते ॥४५
[[1]]
ऽध्यायः ]
अगतिप्रायश्चित्तम् ।
द्व
केशरोगमृते चापि अष्टौ कृच्छ्रान् समाचरेत् । एवं कृतं विधानंन विदध्यादौ दैहिकम् । ततः प्रततत्वनिर्मुक्ताः पितरस्तर्पितास्तथा ॥४६ दयः पुत्रांश्च पौत्रांश्च आयुरारोग्यसम्पदः । इतिशातातपप्रोक्तो विपाकः कर्मणामयम् ।
शिष्याय शरभङ्गाय विनयात् परिपृच्छयते ॥४७
इति शातातपोये कर्मविपाके अगतिप्रायश्चित्तं नाम
षष्ठोऽध्यायः ॥
समाप्ता चेयं शातातपस्मृतिः ।
०ः
समाप्तश्चायं धमशास्त्रस्य प्रथमो भागः ।
ॐ तत्सब्रह्मार्पणमस्तु ।
{
[[६२१]]