अथादौ - ब्रह्मचर्यवर्णनम् ।
॥ श्रीगणेशाय नमः ॥
सम्बर्त्तमेकमासीनमात्मविद्यापरायम् ।
}
ऋषयस्तु समागम्य पप्रच्छुधर्मकाङ्क्षिणः ॥ १ भगवन् ! श्रोतुमिच्छामः श्रेयस्कर्म द्विजोत्तम ॥ यथावद्धर्ममाचक्ष्व शुभाशुभविवेचनम् ॥२ वामदेवादयः सर्वे तमपृच्छन् महौजसम् । तानब्रवीन्मुनीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥३ स्वभावाद् यत्र विचरेत् कृष्णसारः सदा मृगः । धर्म्यदेशः स विज्ञेयो द्विजानां धर्मसाधनम् ॥४. उपनीतः सदा विप्रो गुरोस्तु हितमाचरेत् । स्रग्गन्धमधुमांसानि ब्रह्मचारी विवर्जयेत् ॥५ सन्ध्यां प्रातः सनक्षत्रामुपासीत यथाविवि । साहित्यां पश्चिमां सन्ध्यामर्द्धास्तमितभास्करे
[[५४८]]
सम्वर्त्तस्मृतिः ।
तिघ्न् पूर्वी जपं कुर्याद्ब्रह्मचारी समाहितः । आसीनः पश्चिमां सन्ध्यां जपं कुर्य्यादतन्द्रितः ॥७ अमिकार्य्यं ततः कुर्यान्मेधावी तदनन्तरम् । ततोऽधीयीत वेदन्तु वीक्षमाणो गुरोर्मुखम ॥८ प्रगवं प्राक् प्रयुञ्जीत व्याहृतिस्तदनन्तरम् । गायत्री चानुपूर्वेण ततोवेदं समारभेत् ॥६ हस्तौ सुसंयतौ कायौं जानुभ्यामुपरिस्थितौ । गुरोरनुमतं कुय्यांत पठन्नान्यमतिर्भवेत् ॥ १० सायं प्रातस्तु भिक्षेत ब्रह्मचारी सदा व्रती । निवेद्य गुरवेऽश्नीयात प्राङ्मुखो वाग्यतः शुचि ॥११ सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नान्तरा भोजनं कुर्य्यादग्निहोत्रसमो विधिः ॥ १२ आचम्यैव तु भुञ्जीत भुक्का चोपस्पृशेद्विजः । अनाचार तस्तु योऽश्नीयात् प्रायश्चित्तीयते तु सः ॥ १३ अनाचान्तः पिवेद्यस्तु योऽपिवा भक्षयेद् द्विजः । गायत्र्यसहस्रन्तु जपं कृत्वा विशुध्यति ॥१४ अकृत्वा पादशौचन्तु तिष्ठन् मुक्तशिखोऽपिवा । विना यज्ञोपवीतेन आचान्तोऽथ शुचिर्द्विजः ॥ १५ आचामेद् ब्राह्मतीर्थेन सोपवीती ह्युदङ्मुखः । उपवीती द्विजोनित्यं प्राङमुखो वाग्यतः शुचिः ॥१६ जले जटस्थ : आचामेत् स्थलाचात्सोवहिः शुचिः । वहिरन्तस्थ आचान्त एवं शुद्धिमवाप्नुयात् ॥१७
ब्रह्मचर्यवर्णनम् ।
आमणिबन्धनाद्धस्तौ पादावद्भिर्विशोधयेत् । अशब्दाभिरनुष्णाभिः स्ववर्णरसगन्धिभिः ॥१८. हृद्रताभिरफेनाभिस्त्रिश्चतुर्वाद्भिराचमेत् ।
परिमृज्य द्विरास्यन्तु द्वादशाङ्गानि च ॥१६ स्नात्वा पीत्वा तथा भुक्ता स्पृष्ट्रा चैव द्विजोत्तमाः ! । अनेन विधिना विप्र आचान्तः शुचितामियात् ॥ २० शूद्रः शुद्धयति हस्तेन वैश्यो दन्तेषु वारिभिः । कण्ठागतैः क्षत्रियस्तु आचान्तः शुचिता मियान् ॥२१ आसनारूढपादश्च कृतावशक्थिकस्तथा ।
आरूढपादको वापि न शुद्रयति कदाचन ॥२२ उपासीत न चेन सन्ध्यामग्निकाय्य नवा कृतम् । गायत्र्यसहस्रन्तु जपेत् स्नात्वा समाहितः ॥ २३ सूतकान्नं नवश्राद्ध’ मासिकानं तथैव च । ब्रह्मचारी तु योऽश्नीयात्त्रिरात्रेणैव शुध्यति ॥२४. ब्रह्मचारी तु यो गच्छेत् स्त्रियं कामप्रपीडितः । - प्राजापत्यं चरेत् कुछमथबैकं सुमन्त्रितः ॥२५ ब्रह्मचारी तु योऽश्नीयान्मधुमांसं कथञ्चन । प्राजापत्यन्तु कृत्वासौ मौजोहोमेन शुध्यति ॥ २६ निर्वपेच पुरोडाशं ब्रह्मचारी च पर्वणि । मन्त्रैः शाकलहोमान्तैरग्नावाज्यच होमयेत् ॥२७ ब्रह्मचारी तु यः स्कन्देत् कामतः शुक्रमात्मनः । अबकीण व्रतं कुर्य्यात् स्नात्वा शुद्ध कामतः ५२८
सम्वर्त्त स्मृतिः ।
भिक्षाटनमतः कृत्वा स्वस्थो ह्येकात्मनः श्रुतिः । अस्नात्वा चैव यो भुङ्क्ते गायत्र्यष्टशतं जपेत् ॥२६ शूद्रहस्तेन योऽश्नीयात् पानीयं वा पिवेत् क्वचित् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥३० शुकपर्युषितोच्छिष्टं भुक्तान्नं केशदूषितम् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ ३१ शूद्राणां भाजने भुक्ता भुक्ता वा भिन्नभाजने । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥३२ दिवा स्वपिति यः स्वस्थो ब्रह्मचारी कथञ्चन । स्नात्वा सूर्य्यं समभ्यर्श्व गायत्र्यशतं जपेत् ॥ ३३ एष धर्मः समाख्यातः प्रथमाश्रमवासिनाम् । एवं संवर्त्तमानस्तु प्राप्नोति परमां गतिम् ॥३४ अथ द्विजोऽभ्यनुज्ञातः सवर्णा स्त्रियमुद्वहेत् । कुले महति सम्भूतां लक्षणैश्च समन्विताम् । ब्राह्मणैव विवाहेन शीलरूपगुणान्विताम् ॥३५ पश्ञ्चयज्ञ विधानश्च कुर्य्यादहरहर्द्विजः ।
न हापयेत् कचि विप्रः श्रेयस्कामः कदाचनः ॥३६ हानिं तस्य तु कुर्वीत सदा मरणजन्मनोः ॥३७ विप्रो दशाहमासीत दानाध्ययनवर्जितः ।
क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशैव तु ।
।
शूद्रः शुध्यति मासेन सम्वर्त्त वचनं यथा ॥ ३८
अशौचवर्णनम् ।
प्रेतस्य तु जलं देयं स्नात्वा च गोत्रजैर्वहिः । प्रथमेऽह्नि तृतीये च सप्तमे नवमे तथा ॥ ३६ चतुर्थे सभ्वयं कुर्य्यात् सर्वैस्तु गोत्रजैः सह । ततः सञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥ ४० चतुर्थेऽहनि विप्रस्य षष्ठे वै क्षत्रियस्य च । अमे दशमे चैव स्पर्शः स्याद्वैश्यशूद्रयोः ॥ ४१ जातस्यापि विधिर्द्धष्ट एष एव मनीषिभिः । दशरात्रेण शुध्यन्ति वैश्यदेवविवर्जिताः ॥४२ पुत्रे जाते पितुः स्नानं सचैलन्तु विधीयते । माता शुध्येद्दशाहेन स्नातस्य स्पर्शनं पितुः ॥ ४३ होमस्तत्र तु कर्त्तव्यः शुष्कान्नेन फलेन च । पञ्चयज्ञविधानन्तु न काय्यं मृत्युजन्मनोः ॥४४ दशाहात्तु परं सम्यग् विप्रोऽधीयीत धर्मवित् । दानवच विधिना देयमशुभान्तकरं शुभम् ॥४५ यद्यदिष्टतमं लोके यचापि दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥४६ नानाविधानि द्रव्याणि धान्याति सुबहूनि च । समुद्रजानि रत्नानि नरो विगतकल्मषः । दत्त्वा विप्राय महते प्राप्नोति महतीं श्रियम् ॥४७ गन्धमाभरणं माल्यं यः प्रयच्छति धर्मवित् ।
स सुगन्धः सदा हृष्टो यत्र वत्रोपजायते ॥४८
[[५५१]]
सम्बर्त्तस्मृतिः ।
श्रोत्रियाय कुलीनाय स्वर्थिने च विशेषतः । यद्दानं दीयते भक्त्या तद्भबेत्तु महत् फलम् ॥१४६ आहूय शीलसम्पन्न श्रुतेनाभिजनेन च । शुचिर्विप्रं महाप्राज्ञो हव्यकव्येषु पूजयेत् ॥५० नानाविधानि द्रव्याणि रसवन्तीप्सितानि च । श्रेयस्कामेन देयानि स्वर्गमक्षयमिच्छता । ५१ वस्त्रदाता सुवेशः स्याद्रौप्यदो रूपमेव हि । हिरण्यदो महच्चायुर्लभेत्तं जश्च मानवः ॥ ५२ भूताभयप्रदानेन सर्वकामानवाप्नुयात् । दीर्घमायुश्च लभते सुखी चैव तथा भवेत् ॥ ५३ धान्योदकप्रदायी च सर्पिदः सुखमश्नुते ।
अलङ्कृत्य त्वलङ्कारं दत्त्वा प्राप्नोति तत्फलम् ॥५४ फलमूलानि विप्राय शाकानि विविधानि च । सुरभीणि च पुष्पाणि दत्त्वा प्राज्ञश्च जायते ॥५५ ताम्बूलं चैष यो दद्याद्ब्राह्मणेभ्यो विचक्षणः । मेधावी सुभगः प्राज्ञो दर्शनीयश्च जायते ॥ ५६ पादुकोपानहौ वा शयनान्यासनानि च । विविधानि च यानानि दवा दिव्यगतिर्भवेत् ॥५७ दद्याच शिशिरे त्वग्नि बहुकाष्ट प्रयत्नतः । कायाग्निदीति प्राज्ञत्वं रूपसौभाग्यमाप्नुयात् ॥५८ औषधं स्नेहमाहारं रोगियां रोगशान्तये । दस्वा स्याद्रोगरहितः सुखी दीर्घायुरेव च ॥५६कन्याविवाहवर्णनम् ।
इन्धनानि च योदद्याद्विप्रेभ्यः शिशिरागमे । नित्यं जयति संग्रामे श्रिया युक्तस्तु दीप्यते ॥ ६० अलङ्कृत्य तु यः कन्यां वराय सदृशाय बैं 1 ब्राह्मयेण विवाहेन दद्यात्तान्तु सुपूजिताम् ॥ ६१ स कन्यायाः प्रदानेन श्रेयो विन्दति पुष्कलम् । साधुवादं लभेत् सद्भिः कीत्तिं प्राप्नोति पुष्कलाम् ॥६२ ज्योतिष्टोमादिसत्राणां शतं शतगुणीकृतम् । प्राप्नोति पुरुषो दत्त्वा होममन्त्रैस्तु संस्कृताम् ॥ ६३ अलङ्कृत्य पिता कन्या भूपणाच्छादनासनैः । दत्त्वा स्वर्गमवाप्नोति पूजितस्तु सुरादिषु ॥६४ रोमदर्शनसंप्राप्ते सोमो भुक्तेऽथ कन्यकाम् । रजोदृष्ट्रा तु गन्धर्वः कुचौ दृष्ट्ा तु पावकः ॥ ६५
अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी । दशवर्षा भवेत् कन्या अत ऊद्ध रजस्वला ॥६६ माता चैव पिता चैव ज्येष्ठो भ्राता तथैवच । त्रयस्ते नरकं यान्ति दृष्ट्रा कन्यां रजस्वलाम् ॥६७ तस्माद्विवाहयेत् कन्यां यावन्नर्त्तुमती भवेत् । विवाहोsgमवर्षायाः कन्यास्तु प्रशस्यते ॥६८ तैलमास्तरणं प्राज्ञः पादाभ्यङ्गं ददाति यः । प्रहृमानसो लोके सुखी चैब सदा भवेत् ॥६६ अनडाहौ ब यो क्यात् कीलसीरेण संयुतौ । अलह्कृत्य यथाशक्या धुर्व्वहौ शुभलक्षणौ ॥७०
व
।
[[५५३]]
[[५५४]]
सम्वर्त्तस्मृतिः ।
सर्वपापविशुद्धात्मा सर्वकामसमन्वितः । वर्षाणि वसति स्वर्गे रोमसंख्याप्रमाणतः ॥७१ धेनुश्च योद्विजे दद्यादलङ्कृत्य पयस्विनीम् । कांस्य वस्त्रादिभिर्युक्तां स्वर्गलोके महीयते ॥ ७२ भूमिं शस्यवतीं श्रेष्ठां ब्राह्मणे वेदपारगे । गां दत्वार्द्ध प्रसूताश्च स्वर्गलोके महीयते ॥७३ अग्नेरपत्यं प्रथमं सुवणं भूर्वेष्णवी सूर्यसुताश्च गावः । लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाश्च महीभ्व दद्यात यावन्ति शस्यमूल्यानि आरोपयाणि च सर्वशः । नरस्तावन्ति वर्षाणि स्वर्गलोके महीयते ॥ ७५ सर्वेषामेव दानानामेकजन्मानुगं फलम् । हाटकक्षितिगौरीणां सप्रजन्मानुगं फलम् ॥७६ यो ददाति स्वर्णरौप्यैर्हेमशृङ्गीमरोगिणीम् । सवत्सां वाससा वीतां सुशीलाङ्गां पयस्विनीम् ॥७७ तस्यां यावन्ति रोमाणि सवत्सायां दिवं गतः । तावद्वर्षसहस्राणि स नरो ब्रह्मणोऽन्तिके ॥७८ यो ददाति वलीवर्द्दमुक्तेन विधिना शुभम् । अव्यङ्गं गोप्रदानेन फलाद्दशगुणं फलम् ॥७६ जलदस्तृप्तिमतुलां वितृप्य सर्ववस्तुषु । अन्नदः सुखमाप्नोति सुतृप्तः सर्ववस्तुषु ॥८० सर्वेषामेव दानानामन्नदानं परं स्मृतम् । सर्वेषामेव जन्तूनां यतस्तज्जीवितं फलम् ॥८१
}
दानफलमहत्ववर्णनम् ।
यस्मादन्नात् प्रजाः सर्वाः कल्पे कल्पेऽसृजत् प्रभुः । तस्मादन्नात् परं दानं न भूतो न भविष्यति ॥ ८२ अन्नदानात् परं दानं विद्यते न हि किञ्चन । अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ॥ ८३ मृत्तिकां गोशकृद्दर्भानुपवीतं यथोत्तरम् ।
दत्त्वा गुणाग्यविप्राय कुले महति जायते ॥८४ मुखवासव यो दद्यादन्तधावनमेव च । शुचिगन्धसमायुक्तो वाक्पटुः स सदा भवेत् ॥८५ पादशौचन्तु योदद्यात्तथा च गुदलिङ्गयोः । यः प्रयच्छति विप्राय शुद्धबुद्धिः सदा भवेत् ॥८६ औषधं पथ्यमाहारं स्नेहाभ्यङ्ग प्रतिश्रयम् ।
यः प्रयच्छति रोगिभ्यः सवव्याधि विवर्जितः ॥८७ गुड़मिक्षुरसचैव लवणं व्यञ्जनानि च । सुरभीणि च पानानि दत्त्वात्यन्तसुखी भवेत् ॥८८ दानैश्च विविधैः सम्यक् पुण्यमेददुदाहृतम् । विद्यादानेन पुण्येन ब्रह्मलोके महीयते ॥ ८ह अन्योन्यान्नप्रदा विप्रा अन्योन्यप्रतिपूजकाः । अन्योन्यं प्रतिगृह्णन्ति तारयन्ति तरन्ति च ॥ ६० दानान्येतानि देयानि ह्यन्यानि च विशेषतः । दीनान्धकृपणादिभ्यः श्रेयस्कामेन धीमता ॥ ६१ ब्रह्मचारियतिभ्यश्च वपनं यस्तु कारयेत् ।
नखकर्मादिकञ्चैव चक्षुष्मान् जायते नरः ॥ ६२
[[५५५]]
[[५५६]]
सम्बर्त्तस्वतिः ।
देवागारे द्विजातीनां दीपं दद्याच्चतुष्पथे । मेधाविज्ञानसम्पन्नश्चक्षुष्मान् जायते नरः ॥६३ नित्ये नैमित्तिकं काम्ये तिलान् दत्वा तु शक्तितः । प्रजावान् पशुमांश्चैव धनवान् जायते नरः ॥६४ यो ददात्यर्थितोविप्रे यत्तत् संप्रतिपादिते । तृणकाष्ठादिकञ्चैव गोप्रदानसमं भवेत् ॥ ६५ कृत्वा गाणि कर्माणि स्वभयपोपणे नरः । ऋतुकालाभिगामी स्यात् प्राप्नोति परमां गतिम् ॥६६ उपित्वेवं गृहे विनोद्वितीयादाश्रमात् परम् । वलीपलित संयुक्तस्तृतीयन्तु समाश्रयेत् ॥६७
गच्छेदेवं वनं प्राज्ञः स्वभार्य्या सहचारिणीम् । गृहीत्वा चाग्निहोत्र व होमं तत्र न हापयेत् ॥ ६८ कुम्यचैव पुरोडाशं वन्येमध्येर्यथाविधि । मिक्षाच भिक्षवे दद्या काकमूलफलानि च ॥६६ कुर्यादध्ययनं नित्यमभिहोत्र परायणः । इष्टिं पायगीयाञ्च प्रकुर्य्यात् प्रतिपर्वसु ॥१०० उपित्वेवं वने सम्यग्विधिज्ञः सर्ववस्तुषु । चतुर्थमाश्रमं गच्छेदधुत होमोजितेन्द्रियः ॥ १०१ अग्निमात्मनि संस्थाप्य द्विजः प्रव्रजितोभवेत् । वेदाभ्यासरतो नित्यमात्मविद्यादरायणः ॥१०२ : अष्टौ भिक्षाः समादाय स मुनिः सप्त पच वाः । अद्भिः प्रक्षाल्य तत्सव्वं भुञ्जीत च समाहितः ५१०३
पापानाप्रायश्चित्तवर्णनम् ।
[[५५७]]
अरण्ये निर्जने विप्रः पुनरासीत भुक्तवान् । एकाकी चिन्तयेन्नित्यं मनोवाक्कायसंयतः ॥१०४ मृत्युच्च नाभिनन्देत जीवितं वा कथञ्चन । कालमेव प्रतीक्षेत यावद्वायुः समाप्यते ॥ १०५ संसेव्य चाश्रमान् विप्रो जितक्रोधोजितेन्द्रियः । ब्रह्मलोकमवाप्नोति वेदशास्त्रार्थविद् द्विजः ॥ १०६ आश्रमेषु च सर्वषु ह्युक्तः प्रासङ्गिकोविधिः । अथाभिवक्ष्ये पापानां प्रायश्चित्तं यथाविधि ॥ १०७ ब्रह्मनश्च सुरापश्च स्तेयी च गुरुतल्पगः । महापातकिनस्त्येते तत्संयोगी च पञ्चमः ॥ १०८ ब्राह्मनस्तु वनं गच्छेत् कल्कवासाजटी ध्वजी । वन्यान्येत्र फलान्यश्नन् सर्व्व कामविवर्जितः ॥ १०६ भिक्षार्थी च चरेद्रामं वन्यैर्यदि न जीवति । चातुर्वण्यं चरेद्वैक्षं खटाङ्गी संयतः पुमान् ॥ ११० भैक्षवचैव समादाय वनं गच्छेत्ततः पुनः ।
[[1]]
बनवासी सपापश्च सदाकालमतन्द्रितः ॥१११ ख्यापयन्नेव तत्पापं ब्रह्मघ्नः पापकृन्नरः । अनेन तु विधानेन द्वादशाब्दवतश्चरेत् ॥ ११२ संनियम्येन्द्रियग्रामं सर्वभूतहिते रतः । ब्रह्महत्यापनोदस्य तसोमुच्येत किल्विषात् ॥११३ .
अतः परं सुरापस्य प्रवक्ष्यामि विनिष्कृतिम् ।
F
श्रोतुमिच्छथ भो वित्रा ! वेदशास्त्रानुरूपिकाम् ॥ ११४
[[५५८]]
सम्वर्त्तस्मृतिः ।
गौड़ी पैष्टी तथा सान्त्री विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्बा न पातव्या द्विजैः सदा ॥ ११५ सुरापस्तुसुरां तप्तां पिवेत्तत्पापमोक्षकः । गोमूत्रमग्निवर्णञ्च गोमयं वा तथा विधम् ॥ ११६ घृतञ्चैव सुतप्तञ्च क्षीरं वापि तथाविधम् । वत्सरं वा कणानश्नन् सर्वकामविवर्जितः ॥११७
चान्द्रायणानि वा त्रीणि सुरापी व्रतमाचरेत् । मुच्यते तेन पापेन प्रायश्चित्तं कृते सति ॥ ११८ एवं शुद्धिः सुरापस्य भवेदिति न संशयः । मद्यभाण्डोदकं पीत्वा पुनः संस्कारमर्हति ॥ ११६ स्तेयं कृत्वा सुवर्णस्य राज्ञे शंसेत मानवः । ततोमुषलमादाय स्तेनं हन्यात्ततोनृपः ॥११२० यदि जीवति स स्तेनस्ततस्तेयात् प्रमुच्यते । अरण्ये चीरवासा वा चरेद्ब्रह्मणोब्रतम् ॥१२१ समालिङ्गत् स्त्रियं वापि दीप्तां कृत्वायसा कृताम् । एवं शुद्धिः कृता स्तेये साम्बर्त्तवचनं यथा ॥ १२२ गुरुतल्पे शयानस्तु तल्पे स्वप्यादयोमये । चान्द्रायणानि वा कुर्याच्चत्वारि त्रीणि वा द्विजः । ततो विमुच्यते पापात् प्रायश्चित्ते कृते सति ॥१२३ एभिः सम्पर्कमायाति यः कश्चित् पापमोहितः । षण्मासादधिकं वापि पूर्वोक्तमाचरेत् ॥ १२४
गोवधप्रायश्चित्तवर्णनम् ।
[[५५६]]
महापातकिसंयोगे ब्रह्महत्यादिभिर्नरः ।
तत्पापस्य विशुद्धयर्थं तस्य तस्य व्रतञ्चरेत् ॥१२५ क्षत्रियस्य बधं कृत्वा त्रिभिः कृच्छ विशुध्यति । कुर्याचैवानुरूपेण त्रीणि कृच्छाणि संयतः ॥ १२६ वैश्यहत्यान्तु संप्राप्तः कथञ्चित् काममोहितः । कृच्छ्रातिकृच्छ्रं कुर्वीत स नरो वैश्यघातकः ॥ १२७ कुर्याच्छूद्रवधं प्राप्तस्तप्तकृच्छ्र यथाविधि ॥ १२८ गोघ्नस्यातः प्रवक्ष्यामि निष्कृतिं तत्त्वतः पुमान् । गोघ्नः कुर्व्वीत संस्थानं गोष्ठ गोरूपसंस्थिते ॥ १२६ तत्रैव क्षितिशायी स्यान्मासार्द्ध संयतेन्द्रियः । शक्तयावकपिण्याकपयोदधि सकृन्नर. ॥ १३० एतानि क्रमतोऽश्नीयाद्विजस्तु पापमोक्षकः । शुद्धयते सार्द्धमासेन नखलोमविवज्र्जितः ॥ १३१ स्नानं त्रिषवणं चास्य गवामनुगमस्तथा । एतत् समाहितः कुर्य्यान्नरोविगतमत्सरः ॥ १३२
सावित्री
जपेन्नित्यं पवित्राणि च शक्तितः ।
ततश्वीर्णव्रतः कुर्याद्विप्राणां भोजनं परम् ॥१३३ भुक्तवत्सु च विप्रेषु गाच दद्यात् सदक्षिणाम् ॥१३४ व्यापादितेषु बहुषु बन्धने रोधनेऽपिवा ।
द्विगुणं गोत्रतं तस्य प्रायश्चित्तं विशुद्धये ॥ १३५ एका चेद्बहुभिः कैश्विदेवाद्वयापादिता कचित् । पाद पादन्तु हत्यायाश्चरेयुस्ते पृथक् पृथक् ॥१३६
[[५६०]]
सम्वर्त्तस्मृतिः ।
यन्त्रणे गोचिकित्सार्थे मूढगर्भविसोचने ।
यदि तत्र विपत्तिः स्यान्न स पापेन लिप्यते ॥ १३७ निशाबन्धनिरूप्येषु सर्पव्यावहतेषु च । अनिविघ्ननिपातेन प्रायश्चित्तं न विद्यते ॥१३८ प्रायश्चित्तस्य पादन्तु रोधेषु व्रतमाचरेत् । द्वौ पादौ बन्धने चैव पादोनं कुट्टने तथा ॥ १३६ पाषा णैर्लगुडैर्दण्डैस्तथा शस्त्रादिभिर्नरः ।
निपातने चरेत सर्व प्रायश्चित्तं विशुद्धये ॥ १४० गजञ्च तुरगं हत्वा महिपोष्ट्रकपिन्तथा । एपु कुर्वीत सर्वेषु सप्तरात्रमभोजनम् ॥ १४१ व्याघ्रं श्रानं तथा सिंहमृक्षं शूकरमेव च ।
एतान् हत्वा द्विजः कृच्छ ब्राह्मणानाञ्च भोजनम् ॥१४२ सर्वासामेव जातीनां मृगाणां वनचारिणाम् । त्रिरात्रोपोषितस्तिष्ठेज्जपन् वै जातवेदसम् ॥ १४३ हंस काकं बलाकच्च पारावतमथापिवा । सारसञ्चासभासञ्च हत्वा त्रिदिवसं क्षिपेत् ॥१४४ चक्रवाकं तथा क्रौञ्चं सारिकाशुकतित्तिरिम् । श्येनगृाबुलूकञ्च कपोतकमथापिवा ॥ १४५ टिट्टिभं जालपादव्च कोकिलं कुषकुटं तथा । एवं पक्षिषु सर्वेषु दिनमेकमभोजनम् ॥१४६ मण्डूकञ्चैव हत्वा च सर्पमार्जारमूषिकम् । त्रिरात्रोपोषितस्तिष्ठेत् कुर्याद्ब्राह्मणभोजनम् ॥१४७
अगम्यागमनवर्णनम् ।
अनस्थीन ब्राह्मणो हत्वा प्राणायामेन शुध्यति । अस्थिमतोबधं विप्रः किञ्चिद्दद्याद्विचक्षणः ॥ १४८
चाण्डालीं यो द्विजो गच्छेत् कथञ्चित् काममोहितः । त्रिभिः कृच्छ्रं विशुद्धयेत प्राजापत्यानुपूर्वकैः ॥ १४६ पुक्कसीगमनं कृत्वा कामतोऽकामतोऽपिवा ।
[[५६१]]
कृच्छ्रं चान्द्रायणं तस्य पावनं परमं स्मृतम् ॥१५० नटीं शैलूषिकी व रजकीं वेणुजीविनीम् । गत्वा चान्द्रायणं कुर्यात्तथा चर्मोपजीविनीम् ॥१५१ क्षत्रियामथ वैश्यां वा गच्छेद्यः काममोहितः । तस्य सान्तपनं कृच्छ्रं भवेत् पापापनोदकम् ॥१५२ शूद्रीं तु ब्राह्मणोगत्वा मासं मासार्द्ध मेव वा । गोमूत्रयावकाहारो मासार्द्धन विशुध्यति ॥ १५३ विप्रस्तु ब्राह्मणीं गत्वा प्राजापत्यं समाचरेत् । क्षत्तियां क्षत्तियोगत्वा तदेव व्रतमाचरेत् ॥ १५४ नरोगोगमनं कृत्वा कुर्य्याच्चान्द्रायणं व्रतम् १५५ गुरोदुहितरं गत्वा स्वसारं पितुरेव च । तस्या दुहितरचैव चरेवान्द्रायणं व्रतम् ॥१५६ मातुलानीं सनाभिश्व मातुलस्यात्मज स्नुषाम् । एता गत्वा स्त्रियो मोहात् पराकेण विशुध्यति ॥ १५७ पितृव्यदारगमने भ्रातृभार्यागमे तथा । गुरुतल्पतं कुर्य्यात्तस्यान्या निष्कृतिर्न च ॥ १५८
[[३६]]
[[५६२]]
सम्वर्त्तस्मृतिः ।
पितृदाराः समारुह्य मातृबजे नराधमः ।
भगिनीं मातुलसुतां स्वसारं चान्यमातृजाम् । एतास्तिस्रः स्त्रियो गत्वा तप्तकृच्छ्रं समाचरेत् ॥ १५६ मातरं योऽधिगच्छेच सुतां वा पुरुषाधमः । भगिनीश्च निजां गत्वा निष्कृतिनों विधीयते ॥ १६० कुमारीगमने चैव व्रतमेतत् समादिशेत् । पशुवेश्याभिगमने प्राजापत्यं विधीयते ॥ १६४ सग्विभाय्य कुमारीच अश्रूं वा श्यालिकां तथा । नियमस्थां व्रतस्थाञ्च योऽभिगच्छेत् स्त्रियं द्विजः । स कुर्य्यात् प्राकृतं कृच्छ्र धेनुं दद्यात् पयस्विनीम् ॥१६२ रजस्वलाञ्च योगच्छंद्गर्भिणीं पतितां तथा । तस्य पापविशुद्धयर्थमतिकृच्छ्रं विधीयते ॥ १६३ वेश्याश्च ब्राह्मणोगत्वा कृच्छ्रमेकं समाचरेत् । एवं शुद्धिः समाख्याता सम्वर्त्तस्य वचोयथा ॥१६४ ब्राह्मणोब्राह्मणीं गत्वा कृच्छं णैकेण शुध्यति ॥ १६५ कथञ्चिब्राह्मणीं गत्वा क्षत्रियोवैश्य एव च । गोमूत्रयावकाहारी मासेनैकेन शुध्यति ॥ १६६ ब्राह्मणी शूद्रसम्पर्के कथञ्चित् समुपागते । कृच्छ चान्द्रायणं कुर्य्यात् पावनं परमं स्मृतम् १६७ चाण्डालं पुक्कशचैव श्वपाकं पतितं तथा ।
एतान् श्रेष्ठस्त्रियो गत्वा कुर्य्यश्चान्द्रायणत्रयम् ॥१६८दुष्टानांनिष्कृतिवर्णनम
अतः परश्च दुष्टानां निष्कृतिं श्रोतुमर्हथ । सन्न्यस्य दुर्मतिः कश्चिदपत्यार्थं स्त्रियं व्रजेत् । स कुय्यांत् कृच्छ्रमश्रान्तः पण्मासन्तदनन्तरम् ॥१६६ विपाग्निश्यामशवलाम्तेपामेवं विनिद्दिशत् । स्त्रीणाञ्च तथाचरणं गह्यभिगमनेषु च । पतनेषु तथैतेषु प्रायश्चित्तविधिः स्मृतः ॥ १७० नृणां विप्रतिपत्तौ च पावनः प्रतराडिह ॥ १७१ गोभिर्विप्रहते चैव तथाचैवात्मघातिनि । नानुप्रपातनं कार्य सद्भिः श्रयोऽनुकाङ्क्षिभि ॥१७२ एपामन्यतमं प्रेतं यो वहेत्तदहेतवे ।
तथादकक्रियां कृत्वा चरेच्चान्द्रायणव्रतम् ॥१७३ तच्छवं केवलं स्पृष्टा वस्त्र वा केवलं यदि । पूर्वः कृच्छ्रापहारी म्यादेकाह्क्षपणं तथा ॥ १७४ ॥ महापातकिनाञ्चैव तथा चैत्रात्मघातिनाम् । उदकं पिण्डदानञ्च श्राद्धं चैव तु यत्कृतम् । नोपतिष्ठति तत्सर्वं राक्षसैर्विप्रलुप्यते ॥१७५ चाण्डालैस्तु हता ये च जलदंष्ट्रिसरीसृपैः । श्राद्धमेषां न कर्त्तव्यं ब्रह्मदण्डहता ये ॥१७६ कृत्वा मूत्रं पुरीषं वा भुक्तोच्छिष्टस्तथा द्विजः । श्रादि स्पृष्टो जपेद्देव्याः सहस्रं स्नानपूर्वकम् ॥ १७७ चाण्डालं पतितं स्पृष्टा शवमन्त्यजमेव च ।
[[५६३]]
उदक्यां सूतिकां नारीं सवासाः स्नानमाचरेत् ॥१७८
[[५६४]]
सम्वर्त्तस्मृतिः ।
अस्पृश्यं संस्पृशेद्यस्तु स्नानं तेन विधीयते । ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥ १७६ चाण्डालास्तु संस्पृष्ट उच्छिष्टश्च द्विजोत्तमः । गोमूत्रयावकाहारः पड़ात्रेण विशुध्यति ॥१८० शुना पुष्पवतो पृठा पुष्पवत्यान्यया तथा । शेषान्यहन्युपवसेत् स्नाता शुध्येताशनात् ॥ १८५ चाण्डालभण्डसं पीत्वा कृपगतं जलम् । गोमूत्र व काहारस्त्रिरात्रेण विशुध्यति ॥ १८२ अन्यजैः स्वीकृते तीर्थे तडागेषु नदीषु च । शुध्यते पञ्चगव्येन पीत्वा तोयमकामतः ॥ १८३ सुरावटप्रपातोयं पीत्वाकाशजलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं पिवेद्विजः ॥ १८४ कूपे विण्मूत्रसंस्ळे प्राश्य चापो द्विजातयः । त्रिरात्रेणैव शुध्यन्ति कुम्भे शान्तपनं स्मृतम् ॥१८५ वापीकूपतडागानां दूषितानां विशोधनम् ।
अपां घटशतोद्धारः पञ्चगव्यश्च निक्षिपेत् ॥१८६ आविकेकशफोट्रीणां क्षीरं प्राश्य द्विजोत्तमः । तस्य शुद्धिविधानाय त्रिरात्रं यावकं पिवेत् ॥ १८७ स्त्रीक्षीरमाजिकं पीत्वा सन्धिन्याश्चैव गोः पयः । तस्य शुद्धिस्त्रिरात्रेण विड्भक्ष्याणाञ्च भक्षणे ॥१८८ विण्मूत्रभक्षणे चैव प्राजापत्यं समाचरेत् । श्वाकोटिगोच्छिष्टभक्षणे तु त्र्यहं द्विजः ॥ १८६
अभक्ष्यभक्ष्ये प्रायश्चित्तवर्णनम् ।
विडालमूषकोच्छिष्टे पश्चगव्यं पिवेद्विजः ।
शूद्रोच्छ तथा भुक्ता त्रिरात्रेणैव शुध्यति ॥ १६० पलाण्डुलशुनं जग्ध्वा तथैव ग्रामकुक्कुटम । छत्राकं विदूवराहव चरेच्चान्द्रायणं द्विजः ॥ १६१ मानवः श्वखरोष्ट्राणां कपेर्गोमायुकङ्कयोः ।
प्राश्य मूत्रं पुरीषं वा चरेच्चान्द्रायणव्रतम् ॥ १६२ अन्नं पर्युषितं भुक्का केशकीटैम्पद्रुतम् । पतितैः प्रेक्षितं वापि पञ्चगव्यं पिवेद्विजः ॥ १६३ अन्त्यजाभाजने भुक्का ह्युदक्याभाजनेऽपिवा । गोमूत्रयावकाहारी मासार्द्धन विशुध्यति ॥ १६४ गोमांसं मानुवचैव शुनोहस्तात् समाहितम । अभक्ष्यमेतत् सर्वन्तु भुक्का चान्द्रायणं चरेत् ॥ १६५ चाण्डालस्य करे विप्रः पाके पुक्कशेऽपिवा । गोमूत्रयावकाहारो मासार्द्धन विशुध्यति ॥ १६६ पतितेन सुसम्पर्के मासं मासार्द्धमेव वा । गोमूत्रयावकाहारी मासार्द्धन विशुध्यति ॥ १६७ यत्र यत्र च सङ्कीर्णमात्मानं मन्यते द्विजः । तत्र कार्य्यस्ति होमो गायत्र्यावर्त्तनं तथा ॥ १६८ एष एव मया प्रोक्तः प्रायश्चित्तविधिः शुभः । अनादिष्टेषु पापेषु प्रायश्चित्तं तथोच्यते ॥ १६६ दानैर्होमैर्जपैर्नित्यं प्राणायामैर्द्विजोत्तमः ।
पातकेभ्यः प्रमुच्येत वेदाभ्यासान्न संशयः ॥ २००
[[५६५]]
[[५६६]]
सम्वर्त्तस्मृतिः ।
सुवर्णदानं गोदानं भूमिदानं तथैव च । नाशयन्त्याशु पापानि ह्यन्यजन्मकृतान्यपि ॥२०१ तिलधेनुश्च यो दद्यान संयताय द्विजन्मने । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ २०२ माघमासे तु संप्राप्ते पौर्णमास्यामुपोषितः । ब्राह्मणेभ्यस्तिलान दत्वा सर्वपापैः प्रमुच्यते ॥ २०३ उपवासी नरो भूत्वा पौर्णमास्याञ्च कार्त्तिके । हिरण्यं वस्त्रमन्नं वा दत्वा मुच्येत दुष्कृतेः ॥२०४ अमावास्या द्वादशी च संक्रान्तिच विशेषतः । एताः प्रशस्तास्तिथयो भानुवारस्तथैव च ॥ २०५ अत्र स्नानं जपो होमो ब्राह्मणानाञ्च भोजनम् । उपवासस्तथा दानमेकैकं पावयेन्नरम् ॥२०६ स्नातः शुचिधातवासाः शुद्धात्मा विजितेन्द्रियः । सात्विकं भावमाश्रित्य दानं दद्याद्विचक्षणः ॥ २०७ सव्याहृतिभिर्होमो द्विजैः कार्यो हितात्मभिः । उपपातक सिद्धयर्थं सहस्रपरिसंख्यया ॥२०८ महापातकसंयुक्तो लक्षहोमं सदा द्विजः । मुच्यते सर्वपापेभ्यो गायत्र्याश्चैव जापनात् ॥२०६ अभ्यसेत्र महापुण्यां गायत्री वेदमातरम् । गत्वारण्ये नदीतीरे सर्वपापविशुद्धये ॥ २१०
स्नात्वा च विधिवत्तत्र प्राणानायम्य वाग्यतः । प्राणायामैस्त्रिभिः पूतो गायत्रीन्तु जपेद्विजः ॥२११
प्रायश्चित्तं गायत्रीमहत्ववर्णनम् ।
[[५६७]]
अक्लिन्नवासाः स्थलगः शुचौ देशं समाहितः । पवित्रपाणिराचान्तो गायत्र्या जपमारभेत् ॥२१२ ऐहिकामुष्मिकं लोके पापं सर्वं विशेषतः । पञ्चरत्रेण गायत्री जपमानो व्यपोहति ॥ २१३ गायत्र्यास्तु परं नास्ति शोधनं पापकर्मणाम् ॥२१४
महाव्याहृतिसंयुक्तां प्राणामामेन युताम् । गायत्रीं प्रजपन् विप्रः सर्वपापैः प्रमुच्यते ॥ २१५ ब्रह्मचारी मिताहारः सर्वभूतहिते रतः । गायत्र्या लक्षजप्येन सर्वपापैः प्रमुच्यते ॥ २१६ अयाज्ययाजनं कृत्वा भुक्का चान्नं विगर्हितम् । गायत्र्यसहस्रन्तु जप्यं कृत्वा विमुच्यते ॥ २१७ अहन्यहनि योऽधीते गायत्रीं वै द्विजोत्तमः । मासेन मुच्यते पापाडुरंगः कञ्चुकायथा ॥२१८ गायत्री यः सदा विप्रो जपते नियतः शुचिः । स याति परमं स्थानं वायुभूत खमूर्त्तिमान् ॥ २१६ प्रणवेन तु संयुक्ता व्याहृतिः सप्त नित्यशः । गायत्रीं शिरसा सार्द्धं मनसा त्रिः पठेद् द्विजः ॥२२० निगृह्य चात्मनः प्राणान् प्राणायामो विधीयते । प्राणायामत्रयं कुर्यान्नित्यमेव समाहितः ॥ २२१ मानसं वाचिकं पापं कायेनैव तु यत्कृतम् । तत्सर्व नश्यते तूर्णं प्राणायामत्रये कृते ॥ २२२
[[५६८]]
सम्वर्त्तस्मृतिः ।
ऋग्वेदमभ्यसेद्यस्तु यजुःशाखामथापि वा । सामानि सरहस्यानि सर्वपापैः प्रमुच्यते ॥२२३ पावमानी तथा कौत्सं पौरुषं सूक्तमेव च । जप्त्वा पापैः प्रमुच्येत पित्र्यञ्च मधुच्छन्दसाम् ॥२२४ मण्डलं ब्राह्मणं रुद्रसूक्तोक्ताश्च वृहत्कथाः ।
वामदेव्यं बृहत्साम जप्त्वा पापैः प्रमुच्यते ॥ २२५ चान्द्रायणन्तु सर्वेषां पापानां पावनं परम् । कृत्वा शुद्धिमवाप्नोति परमं स्थानमेव च ॥२२६ धर्मशास्त्रमिदं पुण्यं सम्वर्त्तेन तु भाषितम् । अधीत्य ब्राह्मणो गच्छेद्ब्रह्मणः सद्म शाश्वतम् ॥२२७
इति श्रीसम्वर्त्तेनोक्तं धर्मशास्त्रं समाप्तम् ॥
ॐ तत्सत् ३
-::::
॥ अथ ॥