॥ श्रीगणेशाय नमः ॥
अथादौ व्यवहारदर्शनविधिः ।
मनुः प्रजापतिर्यस्मिन्काले राज्यमबूभुजत् । धर्मैकतानाः पुरुषास्तदासन् सत्यवादिनः ॥ १ नष्टे धर्मे मनुष्येषु व्यवहारः प्रकल्पितः । द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥२ लिखितं साक्षिणश्चात्र द्वौ विधी सम्प्रवर्तितौ । सन्दिग्धार्थविशुद्धयर्थं द्वयोर्विवदमानयोः ॥३ सोत्तरोऽनुत्तरश्चैव स विज्ञेयो द्विलक्षणः । सोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः ॥४ विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते ।
स पणं स्वकृतं दाप्यो विनयं च पराजये ॥५ सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥ ६
व्यवहारदर्शनविधिः ।
कुलानि श्रेणयचैव गणाचाधिकृता नृपैः । प्रतिष्ठा व्यवहारस्य गुर्वेषामुत्तरोत्तरम् ॥७
स चतुष्पाञ्चतुः स्थानश्चतुः साधन एव च । चतुर्हितश्चतुर्व्यापी चतुष्कारीति कीर्त्यते ॥८ अष्टाङ्गोऽटादशपदः शतशाखस्तथैव च । त्रियोनिभियोगश्च द्विद्व द्विगतिस्तथा ॥ धर्मश्व व्यवहार चरित्रं राजशासनम् । चतुष्पाव्यवहारोऽयमुत्तरः पूर्वबाधकः ॥१० तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥११ सामाद्युपायसाध्यत्वाच्चतुः साधन उच्यते । चतुर्णामाश्रमाणां च रक्षणात्स चतुर्हितः ॥१२ कर्तृनथो साक्षिणश्च सभ्यान्राजानमेव च । व्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः ॥१३ धर्मस्यार्थस्य यशसो लोकपतेस्तथैव च ।
चतुर्णा करणादेषां चतुष्कारी प्रकीर्तितः ॥१४ राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ । हिरण्यमनिरुदकमप्राङ्गः स उदाहृतः ॥ १५ ऋणादानं ह्युपनिधिः सम्भूयोत्थानमेव च । दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च ॥१६ वेतनस्यानपाकर्म तथैवास्यामिविक्रयः ।
विक्रीयासम्प्रदानं च क्रीत्वानुशय एव च ॥१७
[[२५१]]
[[२५२]]
नारदीयमनुस्मृतिः ।
समयस्यानपाकर्म विवादः क्षेत्रजस्तथा ।
स्त्रीपुंसयोश्च सम्बन्धो दायभागोऽथ साहसम् ॥१८ arauravयं तथैवोक्तं दण्डपारुष्यमेव च । द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ॥ १६ एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतः । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥२० कामात्क्रोधाच लोभाच्च त्रिभ्यो यस्मात् प्रवर्तते । त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत ॥२१ व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । सङ्कासतां तु संसर्गात्तत्त्वं होढादिदर्शनात् ॥ २२ पक्षद्वयाभिसम्बन्धाद् द्विद्वरिः स उदाहृतः । पूर्ववादस्तयोः पक्षः प्रतिपक्षस्तदुत्तरः ॥२३ भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः । भूतं तत्त्वार्थयुक्तं तत् प्रमादाभिहितं छलम् ॥२४ तत्र शिष्टं छलं राजा मर्पयेद्धर्मसाधनः । भूतमेव प्रपद्येत धर्ममूला यतः श्रियः ॥ २५ धर्मेणोद्धरतो राज्ञो व्यवहारान्कृतात्मनः । सम्भवन्ति गुणाः सप्त सप्त वह्नरिवाचिषः ॥२६ धर्मश्चार्थश्व कीर्तिश्च लोकपत्तिरुपग्रहः ।
प्रजाभ्यो बहुमानं च स्वर्गस्थानं च शाश्वतम् ॥२७ तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः ।
समः स्यात्सर्वभूतेषु विद् वैस्वतं व्रतम् ॥२८व्यवहारदर्शनविधिः ।
ः ।
धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । समाहितमतिः पश्येद् व्यवहाराननुक्रमात् ॥२६ आगमः प्रथमः कार्यो व्यवहारपदं ततः । विवित्सा निर्णयश्चेति दर्शनं स्याज्जतुर्विधम ॥३० धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन पार्थिवः । समीक्षमाणो निपुणं व्यवहारगतीर्घनाः ॥ ३१ यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् । कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ॥ ३२ यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः । अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत् ॥३३ धर्मशास्त्रविरोधे तु युक्तियुक्तोऽपि धर्मतः । व्यवहारो हि बलवान् धर्मस्तेनापचीयते ॥ ३४ सूक्ष्मो हि बलवान् धर्मो दुर्विचारस्त्वतीन्द्रियः । अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥३५ यात्यचोरोऽपि चोरत्वं चोरश्वायात्यचोरताम् । अचोरश्वोरतां प्राप्तो माण्डव्यो व्यवहारतः ॥ ३६ स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु । व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतामियात् ॥३७ गहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि ।
ऋणादिषु हरेत्कालं कामं तत्त्वबुभुत्सया ॥३८ गोभूहिरण्यस्त्री स्तेयपारुष्यात्ययिकेषु च ।
साहसेष्वभिशापे च सद्य एव विवादयेत् ॥ ३६
[[२५३]]
[[२५४]]
नारदीयमनुस्मृतिः ।
अनिवेद्य तु यो राज्ञः सन्दिग्धेऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात्स चाप्यर्थो न सिध्यति ॥४० वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥४१ स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा । चतुर्विधः स्यादासेधस्तमासिद्धो न लङ्घयेत् ॥४२ नदीसन्तारकान्तारदुर्दशोपप्लवादिषु ।
आसिद्धस्तं परासेधमुत्क्रामन् नापराध्नुयात ॥४३ आसेध्यकाल आसिद्ध आसेधं योऽतिवर्तते । स विनेयोऽन्यथा कुर्वन्नासेद्धा दण्डभाग्भवेत् ॥४४ निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ॥ ४५ गवां प्रचारे गोपालाः सस्याबन्धं कृषीवलाः । शिल्पिनश्चापि तत्काल आयुधीयाश्च विग्रहे ॥ ४६ अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थश्च नासेध्या नचैनानाह्वयेन्नृपः ॥४७ नाभियुक्तोऽभियुञ्जीत तमती (त्या ? त्व)र्थमन्तरा । न चाभियुक्तमन्येन विद्धं न व्यद्ध मर्हति ॥४८ यमर्थमभियुञ्जीत न तं विप्रकृतिं नयेत् । नान्यत् पक्षान्तरं गच्छेद् गच्छन्पूर्वात् स हीयते ॥ ४६ न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः । यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारमाव्रजेत् ॥५०
व्यवहारदर्शनविधिः ।
सापदेशं हरन् कालमनुवंश्चापि संसदि ।
उक्तत्वा वचो विब्रुवंश्च हीयमानस्य लक्षणम् ॥५१ पलायते य आहूतः प्राप्तश्च विवदेन यः ।
स दण्ड्यश्च भवेद्राज्ञा हीन एव स वादतः ॥५२ निर्णिक्के व्यवहारे तु प्रमाणमफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥५३ यथा पक्त्रेषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥५४ अभूतमप्यभिहितं प्राप्तकालं परीक्ष्यते । यत्तु प्रमादान्नोच्येत तद्भूतमपि हीयते ॥५५ तीरितं चानुशिष्टं च यो मन्येत विधर्मणा । द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥५६ दुर्दृष्टे व्यवहारे तु सभ्यास्तद्दण्डमाप्नुयुः । नहि जातु विना दण्डात्कश्चिन्मार्गेऽवतिष्ठते ॥५७ रागादज्ञानतेो वापि लेोभाद्वा योऽन्यथा वदेत् । सभ्योऽसभ्यः स विज्ञेय पापं विनयेद् भृशम् ॥५८ किन्तु राज्ञा विशेषेण स्वधर्ममनुतिष्ठता ।
मनुष्ये चित्तवैचित्र्यात्परीक्ष्या साध्वसाधुता ॥ ५६ पुरुषाः सन्ति ते लाभाद्यं ब्रूयुः कार्यमन्यथा । सन्ति चान्ये दुरात्मानः कूटलेख्यकृता जनाः ॥६० अतः परीक्ष्यमुभयमतद्राज्ञा विशेषतः ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥ ६१
[[२५५]]
[[२५६]]
नारदीयमनुस्मृतिः ।
असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शनाः । दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥६२ तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव । न तलं विद्यते व्योम्नि न खद्योते हुताशनः ॥६३ तस्मात्प्रत्यक्ष दृष्टोऽपि युक्तमर्थः परीक्षितुम् । परीक्ष्य ज्ञापयन्नर्थान् न धर्मात् परिहीयते ॥ ६४ एवं पश्यन्सदा राजा व्यवहारान्समाहितः । वितत्येह यशो दीप्त ब्रध्नस्याप्नोति विष्टपम् ॥६५ नानियुक्तेन वक्तव्यं व्यवहारे कथञ्चन । नियुक्तेन तु वक्तव्यमपक्षपतितं वचः ॥६६ युक्तरूपं ब्रुवन्सभ्यो नाप्नुयाद् द्वेषकिल्विषे । ब्रुवाणस्त्वन्यथा सभ्यस्तदेवाभयमाप्नुयात् ॥ ६७ राजा तु धार्मिकान्सभ्यान्नियुञ्ज्यात्सुपरीक्षितान् । व्यवहार ( रं? रां) वोढुं ये शक्ताः सगवा इव ॥६८ धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः ।
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥६६ तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलाश्च पार्थिवाः । सह सद्भिरतो राजा व्यवहारान्विशोधयेत् ॥७० शुद्धषु व्यवहारेषु शुद्धिं यान्ति सभासदः । शुद्धि धर्मात्तेषां हि धर्ममेव वदेदतः ॥ ७१ यत्र धर्मो धर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ७२
व्यवहारदर्शनविधिः ।
[[२५७]]
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम । अब्रुवन विब्रुवन्वापि नरो भवति किल्बिषी ॥७३ पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान्पादो राजनमृच्छति ॥७४ राजा भवत्यनेनास्तु मुच्यन्ये च सभासदः । एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥७५ अन्धो मत्स्यानिवाश्नाति निरपेक्षः सकण्टकान् । परोक्षमर्थवैकल्याद्भापते यः सभागतः ॥ ७६ तस्मात्सभ्यः सभां प्राप्य रागद्वेषविवर्जितः । बचस्तथाविधं ब्रूयाद्यथा न नरकं पतेत् ॥ ७७ यथा शल्यं भिषग्विद्वानुद्धरेद्यन्त्रयुक्तिभिः । प्राड्विवाकस्तथा शल्यमुद्धरेद् व्यवहारतः ॥ ७८ यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निश्शल्यो विवादः स्यात्सशल्यः स्यादतोऽन्यथा ॥७६ न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति
न तत्सत्यं यच्छलेनानुविद्धम् ॥८०
॥ इति व्यवहारदर्शनविधिः ॥
[[१७]]
..
[[२५८]]
नारदीयमनुस्मृतिः ।
अथ ऋणादानं प्रथमं विवादपदम् ।
ऋणं देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्माश्च ऋणादानमिति स्मृतम् ॥१ पितर्युपरते पुत्रा ॠणं दद्युर्यथांशतः । विभक्ता ह्यविभक्ता वा यस्तामुद्वहते धुरम् ॥२ पितृव्येणाविभक्तेन भ्रात्रा वा यहणं कृतम् । मात्रा वा यत्कुटुम्बार्थे दद्युस्तद्विक्थिनोऽखिलम् ॥३ क्रमादव्याहतं प्राप्त पुत्रैर्यन्त्रर्णमुद्धृतम् । दद्युः पैतामहं पौत्रास्तचतुर्थान्निवर्तते ॥४ इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्यतस्ततः । उत्तमर्णाधमर्णेभ्यो मामयं मोक्षयिष्यति ॥५ अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । ऋणात्पिता समुद्धार्यो यथा न नरकं पतेत् ॥६ तपस्वी चाग्निहोत्री च म्रियते चेहणी यदि । तपश्चैवाग्निहोत्रं च तत्सवं धनिनां धनम् ॥७ न पुत्रणं पिता दद्यात् दद्यात्पुत्रस्तु पैतृकम् । कामक्रोधसुराद्यतप्रातिभाव्यकृताद्विना ॥८ पितुरेव नियोगाद्यत्कुटुम्बभरणाय वा ।
कृतं वा यहणं कृच्छ्रे दद्यात्पुत्रस्य तत्पिता ॥
ऋणादानं प्रथमं विवादपदम ।
शिष्यान्तेवासिदास स्त्री वैयावृत्यकरैश्च यत् । कुटुम्वहेतोरुच्छिन्न वोढव्यं तकुटुम्बिना ॥१० नार्वाक् संवत्सराद्विशात्पितरि प्रोषिते सुतः 1 ऋणं दद्यात्पितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा ॥ ११ दाप्यः परर्णमेकोऽपि जीवत्स्वधिनैः कृतम् । प्रेतेषु तु न तत्पुत्रः परर्ण दातुमर्हति ॥ १२ न स्त्री पतिकृतं दद्यादृणं पुत्रकृतं तथा । अभ्युपेवादृते बद्वा सह पत्या कृतं तथा ॥ १३ दद्यात्वपुत्रा विधवा निमुक्का या मुमूर्षुना । यो वा तद्रिक्थमादद्याद्यतो रिक्थमृगं ततः ॥१४ न च भार्याकृतमृशं कश्चित्पत्युराभवेत् । आपत्कृतादृते पुंसां कुटुम्बार्थो हि बिस्तरः ॥१५ अन्यत्र रजकण्याधगोपशौण्डियोषितः । तेषां तत्प्रखया वृत्तिः कुटुम्बं च तदाश्रयम् ॥१६ पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यमाश्रयेत् । तस्या रिक्थं हरेश्सर्वं निःस्वायाः पुत्र एव तु ॥ १७ या व सप्रबनेव स्त्री सापत्या चान्यमाश्रयेत् । सोया दद्यादृणं भर्तुरुत्सृजेद्वा तथैव ताम् ॥ १८ अवनस्य पुत्रस्य मृतस्योपैति यः स्त्रियम् । ऋणं बोढुः स भजते तदेतस्य धनं स्मृतम् ॥१६ धनस्त्रीहारिपुत्राणामृणभाग यो धनं हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥२०
[[२५६]]
[[२६०]]
नारदीयमनुस्मृतिः ।
उत्तमा स्वैरिणीनां या पुनर्भ्यामुत्तमा तथा । ऋणं तयोः पतिकृतं दद्याद्यरते उपाश्नुते ॥२१ स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि । बिशेषतो गृहक्षेत्रदानाधमनविक्रयाः ॥ २२ एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते । पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः ॥२३ भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्नीयाद्दद्याद् वा स्थावराते ॥२४ तथा दासकृतं कार्यमकृतं परिचक्षते ।
अन्यत्र स्वामिसन्देशान्न दासः प्रभुरात्मनः ॥२५ पुत्रेण च कुतं कार्यं यत्स्यादच्छन्दतः पितुः । तदप्यकृतमेवार्दासः पुत्रश्च तौ समौ ॥ २६ अप्राप्तव्यवहारस्तु स्वतन्त्रोऽपि नचर्णभाक् । स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥२७ त्रयः स्वतन्त्रा लोकेऽस्मिन् राजाचार्यस्तथैव च । प्रति प्रति च सर्वेषां वर्णानां स्वगृहे गृही ॥ २८ अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्मृतः शिष्य आचार्ये च स्वतन्त्रता ॥२६ अस्वतन्त्राः स्त्रियः पुत्रा दासाश्व सपरिग्रहाः । स्वतन्त्रस्तत्र तु गृही यस्य स्यात्तत्क्रमागतम् ॥ ३० गर्भस्थ सदृशो ज्ञेय आश्रमाद्वत्सराच्छिशुः ।
बाल आ षोडशाद्वर्षात्पौगण्डश्चेति शब्द्यते ॥३१
ऋणादानं प्रथमं विवादपदम ।
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते । जीवतोर्ह्यस्वतन्त्रः स्याज्जरयापि समन्वितः ॥ ३२ तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् । अभावे बीजिनो माता तदभावे तु पूर्वजः ॥३३ स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा । अनुशिष्टों निसर्गे च विक्रये चेश्वरा मताः ॥३४ यद् बालः कुरुते कार्यमस्वतन्त्रस्तथैव च । अकृतं तदिति प्राहुः शास्त्र शास्त्रविदो जनाः ॥३५ स्वतन्त्रोऽपि हि यत्कार्यं कुर्यादप्रकृतिं गतः । तदप्यकृतमेवा हरस्वतन्त्रः स हेतुतः ॥ ३६ कामक्रोधाभियुक्तात भयव्यसनपीडिताः । रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः ॥ ३७ कुले ज्येष्टस्तथा श्रेष्ठः प्रकृतिस्थस्तु यो भवेत् । तत्कृतं स्यात्कृतं कार्यं नास्वतन्त्रकृतं कृतम् ॥३८ धनमूलाः क्रियाः सर्वा यन्नस्तत्साधने मतः । बर्धनं रक्षणं भोग इति तस्य विधिः क्रमात् ॥३६ तत्पुनस्त्रिविधं ज्ञेयं शुक्र शबलमेव च ।
कृष्णं च तस्य विज्ञेयः प्रभेदः समधा पुनः ॥४० श्रुतशौर्यतपः कन्या शिष्ययाज्यान्वयागतम् ।
धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः ॥४१ कुसीदकृषिवाणिज्यशुल्कशिल्पानुवृत्तिभिः । कृतोपकारादाप्त च शबलं समुदाहृतम् ॥४२
[[२६१]]
[[२६२]]
नारदीयमनुस्मृतिः ।
पार्श्वकद्यतदृतार्तप्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥४३ तेन क्रयो विक्रयच दानं ग्रहणमेव च ।
विविधाश्च प्रयुज्यन्ते क्रियाः सम्भोग एव च ॥४४ यथाविधेन द्रव्येण यत्किञ्चित्कुरुते नरः । तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥४५ तत्पुनर्द्वादशविधं प्रतिवर्णाश्रयं स्मृतम् ।
साधारणं स्यात्त्रिविधं शेषं नवविधं स्मृतम् ॥४६
क्रमागतं प्रीतिदायं प्राप्त च सह भार्यया ।
[[1]]
अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम ॥४७ वैशेषिकं धनं ज्ञेयं ब्राह्मणम्य त्रिलक्षणम् । प्रतिग्रहेण लब्धं च याज्यतः शिष्यतस्तथा ॥४८ त्रिविधं क्षत्रियस्यापि प्राहुर्वै शेपिकं धनम् । युद्धोपलब्धं कारा दण्ड व्यवहारतः ॥ ४६ वैशेषिक धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् । कृषिगोरक्षवाणिज्यं शूद्रस्येभ्यस्त्वनुग्रहात् ॥५० सर्वेषामेत्र वर्णानामेष धर्म्या धनागमः । विपर्ययादधम्यः स्यान्न चंद्रापद् गरीयसी ॥ ५४ आपत्स्वनन्तरा वृत्तिर्ब्राह्मणस्य विधीयते । वैश्यवृत्तिस्ततयोक्ता न जघन्या कथञ्चन ॥५२ न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम । वृषलः कर्म न ब्राह्मं पतनीयौ हि तौ तयोः ॥ ५३ऋणादानं प्रथमं विवादपदम् ।
उत्कृष्टुं चापकृष्टुं च तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणं हि ते ॥५४ आपदं ब्राह्मणस्तीर्त्वा क्षत्त्रवृत्त्या भृते जने । उत्सृजेत क्षत्त्रवृत्ति तां कृत्वा पावनमात्मनः ॥५५ तम्यामेव तु यो वृत्तौ रमते ब्राह्मणो रसात । काण्डyoयुतो मार्गात्सोऽपाङ्क्तेयः प्रकीर्तितः ॥५६३ वैश्यवृत्तावविक्रयं ब्राह्मणस्य पयो दधि ।
घृतं मधु मधूच्छिष्टुं लाक्षाक्षाररसासवाः ॥ ५७ मांसौदन तिलक्षौमसोमपुप्पफलोपलाः । मनुष्यविषशस्त्राम्बुलवणापूपवीरुधः ॥५८ नीलकौशेय चर्मास्थित पैकशफा मृदः । उदश्वित्केशपिण्याकशाकाद्यौषधयस्तथा ॥५६ ब्राह्मणस्य तु विक्रयं शुष्कदारु तृणानि च । गन्धद्रव्यैरकालेयतूल मूल तुपाते ॥६०
स्वयं विशीर्णं विदलं फलानां बदरेदे । रज्जुः कार्पासिकं सूत्रं तचदविकृतं भवेत् ॥ ६१ अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्यवश्यं तु विक्रयारितला धान्येन तत्समाः ॥ ६२ अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः । मार्गे पुनरस्थाप्यो राज्ञा दण्डेन भूयसा ॥६३ प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः ॥६४
[[२६३]]
[[२६४]]
नारदीयमनुस्मृतिः ।
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः । धनस्वीकरणे येन धनी धनमुपाश्नुते ॥ ६५ लिखितं बलवन्नित्यं जीवन्तस्त्वेव साक्षिणः । कालातिहरणाद्भुक्तिरिति शास्त्रपु निश्चयः ॥ ६६ त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् । पूर्व पूर्व गुरु शेयं भुक्तिर्वेषां गरीयसी ॥ ६७ विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । विशेषतः स्थावराणां यन्न भुक्तं न तत्स्थिरम् ॥ ६८ भुज्यमानान् परैरर्थान् यः स्वमौयादुपेक्षते ।
समक्षं जीवतोऽप्यस्य तान भुक्तिः कुरुते स्वकान् ॥६६ यत्किञ्चिद्दश वर्षाणि सन्निधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तलब्धुमर्हति ॥ ७० उपेक्षां कुर्वतस्तस्य तूष्णीम्भूतस्य तिष्ठतः । कालेऽतिपन्ने पूर्वोक्तो व्यवहारो न विद्यते ॥ ७१ अजलश्चदपोगण्डो विषये चास्य भुज्यते । भुक्तं तद्वयवहातेण भोक्ता तद्धनमर्हति ॥ ७२ आधिः सीमा बालधनं निक्षेपोपनिधिस्त्रियः । राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यति ॥७३ प्रत्यक्षपरिभोगाच स्वामिनो द्विदशाः समाः । आध्यदीन्यपि जीर्येयुः स्त्रीनरेन्द्रधनादृते ॥७४ स्त्री धनं च नरेन्द्राणां न कथञ्चन जीर्यति । अनागमं भुज्यमानं वत्सराणां शतैरपि ॥ ७५
ऋणादानं प्रथमं विवादपदम् ।
निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित । आगमः कारणं तत्र न भोगस्तत्र कारणम् ॥७६ भुज्यतेऽनागमं यत्तु न तद्भोगोऽतिवर्तते । प्रेते तु भोक्तरि धनं यति तद्वंश्यभोग्यताम् ॥७७ आहर्तेवाभियुक्तः सन्नर्थतस्तद्धरेत् पदम् ।
[[२६५]]
भुक्तिरेव विशुद्धिः स्यात् प्राप्तानां पितृतः क्रमात ॥७८ अन्वाहितहृतन्यस्तबलावप्रव्धयाचितम् ।
अप्रत्यक्षं च यद्भुक्तं पडतान्यागमाद्विना ॥७६ तथारूद विवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः शोध्यो न तद्भोगोऽतिवर्तते ॥ ८८ आगमेन विना पूर्व भुक्तं पूर्वैस्त्रिभिस्तु यत । न तच्छक्यमपाकर्तुं क्रमात्रिपुरुपागतम् ॥८१ सन्तोऽपि न प्रमाणं स्युमृते धनिनि साक्षिणः । अन्यत्र श्रावितं यत्स्यात् स्वयमासन्न मृत्युना ॥८२ नहि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः । साक्षिमत्करणं तत्र प्रमाणं स्याद्विनिश्वये ॥ ८३ श्रावितस्त्वातुरेणापि यस्त्वर्थो धर्मसंहितः ।
मृतेऽपि तत्र साक्षी स्यात् पट्सु चान्वाहितादिषु ॥८४
क्रियर्णादिषु सर्वेषु बलवत्युत्तरोत्तरा ।
प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी ॥८५
स्थानलाभनिमित्तं हि दानग्रहणमिष्यते ।
तत्कुसीदमिति ज्ञेयं तेन वृत्तिः कुसीदिनाम् ॥८६
[[२६]]
नारदीयमनुस्मृतिः ।
कायिका कालिका चैव कारिका च तथास्मृता । चक्रवृद्धिश्र शास्त्रेषु तस्य वृद्धिश्वतुर्विधा ॥८७ कायाविरोधिनी शवत पणपादादि कायिका । प्रतिमासं स्रवन्ती या सा वृद्धिः कालिका स्मृता ॥८८ वृद्धिः सा कारिका दाम यर्णिकेन स्वयं कृता । वृद्धरपि पुनर्वद्धिश्चक्रवद्धिरुदाहृता ॥८६ ऋणानां सार्वभौमोऽयं विधिवृडौ कृतः स्मृतः । देशाचारविधिस्त्वन्यो यत्रर्णमधितिष्ठति ॥ ॥६० द्विगुणं त्रिगुणं चैव तथान्यस्मिंश्चतुर्गुणम । तथाप्रगुणमन्यस्मिन् देशे देशेऽवतिष्ठते ॥ ६१ हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा । घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां तु सन्ततिः ॥ न वृद्धिः प्रतिदत्तानां स्यादनाकारिता क्वचित ।
अनाकारितमयूर्ध्वं वत्सरार्धाद्विवर्धते ॥ ६३ एप वद्धिविधिः प्रोक्तः प्रवृद्धस्येह धर्मतः । वृद्धिस्तु योक्ता धान्यानां वार्धुष्यं तदुदाहृतम् ॥६४ आपदं निस्तरेद्वैश्यः कामं वार्धुषकर्मणा । आपत्स्वपि हि कलासु ब्राह्मणस्य न वार्धुपम् ॥६५ ब्राह्मणस्य च ययं सान्वयस्य न चास्ति सः । सपिण्डेभ्योऽस्य निवपेत् तदभावेऽस्य बन्धुषु ॥ ६६ यदा च न सकुल्याः स्युर्नच सम्बन्धिबान्धवाः । तदा दद्यात्स्वजातिभ्यस्तेष्वसत्स्वप्सु निक्षिपेत् ॥६७
॥
ऋणादानं प्रथमं विषादपदम् ।
गृहीत्वीपगतं दद्याद् ऋणिकायोदयं धनी । अददद् याच्यमानस्तु शेषहानिमवाप्नुयात ॥६८ लेख्यं दयाहणे शुद्धं तदभावे प्रतिश्रवम । धनिकणिकयोरेवं विशुद्धिः स्यात्पस्परम् ॥६ विस्रम्भहेतु द्वावत्र प्रतिभूराधिरेव च ।
लिखितं साक्षिणच द्वे प्रमाणे व्यक्तिकारणं ॥ १०८ उपस्थानाय दानाय प्रत्ययाय तथैव च । त्रिविधः प्रतिभूर्व प्रस्त्रिष्वेवार्थेषु सूरिभिः ॥ १०२ ऋणित्वप्रतिकुर्वत्सु प्रत्यये वा विवादिते । प्रतिभूस्तरणं दद्यादनुपस्थापयंस्तथा ॥ १०२ बहवः स्युः प्रतिभुवो दद्यतेऽर्थं यथाकृतम् । अर्थविशेषिते त्वेषु धनिनश्छन्दतः क्रिया ॥ १०३ यमथं प्रतिभूर्दद्याद् धनिकेनोपपीडितः । ऋणिकस्तं प्रतिभु द्विगुणं प्रतिपादयेत् ॥ १०४ अधिक्रियत इत्याधिः स तु ज्ञेयो द्विलक्षणः । कृतकालोपनेयश्च यावद्दयोद्यतस्तथा ॥ १०५ स पुनर्द्विविध प्रोक्तो गोप्यो भोग्यस्तथैव च । प्रतिदानं तत्रैवास्य लाभहानिर्विपर्यये ॥ १०६ प्रमादाद् धनिनस्तद्वदाधौ विकृतमागते ।
विनष्टे मूलनाशः स्याद्देवराज कृतादृते ॥ १०७
॥
[[२६७]]
रक्ष्यमाणोऽपि यत्राधिः कालेनेयादसारताम् । आधिरन्योऽधिव. र्तव्यो देयं वा धनिने धनम् ॥१०८
[[૮]]
नारदीयमनुस्मृतिः ।
ऋणिकः सधनो यस्तु दौरात्म्यान्न प्रयच्छति । राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् १०६ अथ शक्तिविहीन स्याहणी कालविपर्ययात् । शक्त्यपेक्षमृगं दाप्यः काले काले यथोदयम् ॥ ११० नश्येद् द्रव्यपरीमाणं कालेनेहणिकस्य चत । जाति संज्ञाधिवासानामागमो लेख्यत स्मृतः ॥ १११ लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा । असाक्षिकं साक्षिमत्र सिद्धिर्देशस्थितिस्तयोः ॥११२ देशाचाराविरुद्ध यद् व्यक्ताधिकृतलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुपक्रमाक्षरम् ११३ मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् ।
प्रमाणं करणं भीतोपधिकृतं तथा ॥ ११४ मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः । तदप्यपार्थं लिखितमृते त्वाधेः स्थिराश्रयात् ॥११५ आधिर्यो द्विविधः प्रोक्तः स्थावरो जङ्गमस्तथा । सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥ ११६ दर्शितं प्रतिकालं यच्छ्रावितं स्रावितं च यत् । लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु ॥ ११७ अश्रुतार्थमदृष्टार्थं व्यवहारार्थमेव च ।
न लेख्यं सिद्धिमाप्नोति जीवत्स्वपि हि साक्षिषु ॥ ११८ लेख्ये देशान्तरन्यस्ते दग्धं दुर्लिखिते हृते । सतस्तत्कालकरणमसतोऽष्टदर्शनम् ॥ ११६
भृणादानं प्रथमं विवादपदम् ।
यस्मिन् स्यात्संशयो लेख्ये भूताभूतकृते कचित् । तत्स्वहस्त क्रियाचिह्नप्रातियुक्तिभिरुद्ध रेत ॥१२० लेख्यं यचान्यनामाङ्क हेत्वन्तरकृतं भवेत् । विप्रत्यये परीक्ष्यं तत्सम्बन्धागमहेतुभिः ॥ १२१ लिखितं लिखितेनैव साक्षिमत् साक्षिभिर्हरेत् ।
[[२६६]]
साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः ॥१२२ छिन्नभिन्नहतो मृदुर्लिखितेषु च ।
लेख्यमन्यद्धि कर्तव्यमेप लेख्यविधिः स्मृतः ॥ १२३ सन्दिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः । दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥१२४ समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः । श्रोत्रस्य यत्परो ब्रूते चक्षुषः कायकर्म यत् ॥ १२५ एकादशविधः साक्षी म त दृष्टो मनीषिभिः । कृतः पञ्चविधातत्र षड्विधोऽकृत उच्यते ॥ १२६ लेखितः स्मारितचैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ १२७ अकृतः पड्विधो नित्यः सूरिभिः परिकीर्तितः । ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ॥ १२८ कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः । कुलं कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥ १२६ कुलीना ऋजवः शुद्धा जन्मतः कर्मतोऽर्थतः 1
त्र्यवराः साक्षिणोऽनिन्द्याः शुचयः स्युः सुबुद्धयः ॥ १३०
[[२७०]]
नारदीयमनुस्मृतिः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्यनिन्दिताः । प्रतिवर्ण भवेयुस्ते सर्व सर्वषु वा पुनः ॥१३१ श्रेणिषु श्रेणिपुरुषाः स्व वर्गेषु वर्गिणः ।
बहिर्वासिषु वाह्याश्च स्त्रियः स्त्रीपु च साक्षिणः ॥ १३२ श्रेण्यादिषु च सर्वेषु कश्चिच्छेद् द्वेष्यतामियात् । तेभ्य एव न साक्षी स्याद् द्वारः सर्व एव ते ॥ १३३ असाक्ष्यपि हि शास्त्रेषु दृष्टः पश्वविधो बुधैः । वचनाद् दोषतो भेदात्म्यमुक्तंमृतान्तरात् ॥१३४ श्रोत्रियाद्या वचनत स्तेनाया दोषदर्शनात् । भेदाद्विप्रतिपतिः स्याद्विवादे यत्र साक्षिणः ॥१३५ स्वयमुक्तरनिर्दिष्टः स्वयमेवेत्य यो वदेत् । मृतान्तरोऽर्थिभि प्रेते मुमूर्षु श्रावितादृते ॥१३६ श्रोत्रियास्तापसा वा ये च प्रब्रजिता नराः । असाक्षिणस्ले मान्नात्र हेतुरुदाहृतः ॥१३७ स्तेनाः साहसिकाश्वण्डाः कितना बवकाश्च ये । असाक्षिणस्ते दुष्प्रत्यान तेषु सत्यं न विद्यते ॥१३८ राज्ञा परिगृहीतेष सार्थिव । वचनं यत्र भियंत ते स्युर्भेदादसाक्षिणः ॥ १३६ स्वयमुक्तेरनुहिः स्वयमेवेत्य यो वदेत् । मृचोत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥ १४० योऽर्थः श्रावयितव्यः स्यात् तम्मिन्नसति चार्थिनि । कतद् वदति साक्षित्वमित्यसाक्षी मृतान्तरः ॥१४१
ऋणादानं प्रथमं विवादपदम् ।
द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद् वस्य भवेयुस्तस्य साक्षिणः ॥ १४२ आधर्य पूर्वपक्षस्य यस्मिन्नर्थवशाद् भवन । विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः ॥ १४३ न परेण समुद्दिमुपेयात् साक्षिणं रहः । भेदयेत् तं नचान्येन हीयेतैवं समाचरन् ॥१४४ साक्ष्यद्दिष्टो यदि प्रेयाद् गच्छेद् वापि दिगन्तरम् । तच्छोतारः प्रमाणं स्यु प्रमाणं त्तरक्रिया ॥९४५ सुदीर्घणापि कालेन लिखितः सिद्धिमाप्नुयात् । आत्मनैव लिखेज्जानन्नजानानस्तु लेखयेत् ॥ १४६ अनुमाद् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः । आपश्चमात् यथा सिद्धिर्यच्छोपगतस्य तु ॥ १४७ आतृतीयात् तथा वर्षात् सिद्धिगूढस्य साक्षिणः । आवत्सरात् तथा सिद्धि वदन्त्युत्तरसाक्षिमः ॥ १४८ अथवा कालनियमो न दृष्टः साक्षिणं प्रति । स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रविदो जनाः ॥ १४६ यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः । सुदीर्घेणापि कालेन स साक्षी साक्ष्यमर्हति ॥ १५० असाक्षिप्रत्ययास्त्वन्ये षड् विवादाः प्रकीर्तिताः । लक्षणान्येव साक्षित्वं तेषामाहुर्मनीषिणः ॥ १५१ उल्काहस्तोऽभिदो शेयः शस्त्रपाणिस्तु घातकः । केशाकेशिगृहीतस्तु युगपत् पारदारिकः ॥ १५२
[[२७१]]
[[२७२]]
नारदीय मनुस्मृतिः
कुद्दालपाणिर्विशेयः सेतुभेत्ता समोपगः ।
तथा कुठारपाणिश्च वनच्छेत्ता प्रकीर्तितः ॥१५३ अभ्यग्रचिह्नो विज्ञेयो दण्डपारुष्यकृन्नरः । असाक्षिप्रत्यया ह्येते पाध्ये तु परीक्षणम् ॥१५४ कश्चित् कृत्वात्मनश्चिह्न द्वेषात् परमभिद्रवेत् । हुत्वर्थगतिसाम यैस्तत्र युक्तं परीक्षणम् ॥१५५ नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।
न दोषाः प्रव्याः साक्षिणः प्रतिदूषिताः ॥ १५६ दासनैकृतिकाश्रद्धवद्धस्त्रीबालचाक्रिकाः ।
मत्तोन्मत्तप्रमत्तार्त कितवग्रामयाजकाः ॥ १५७
महापथिकसामुद्रवणिम्प्रवजितातुराः ।
लुब्धैकश्रोत्रियाचारहीनकीबकुशीलवाः ॥ १५८ नास्तिकव्रात्यदाराग्नित्यागिनोऽयाज्ययाजकाः । एकस्थालिसहायारिचरज्ञातिसनाभयः ॥ १५६ प्राग्दृष्टदोषशैलूष विपजीव्याहितुण्डिकाः । गरदाग्निदकी नाशशूद्रापुत्रोपपातकाः ॥ १६० क्लान्तसाहसिकाशान्तनिर्धतान्तावसायिनः । भिन्नवृत्त्यसमावृत्तझल्लतै लिकमूलिकाः ॥ १६१ भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ।
अघशंस्यात्मविक्रतृहीनाङ्गभगवृत्तयः ॥ १६२
कुनखी श्यावदन् श्वित्री मित्रध्र कुछठशौण्डिकाः ।
ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥ १६३ऋणादानं प्रथमं विवादपदम ।
वधक चित्रकृन्मयः पतितः कूटकारकः ।
कुहकः प्रत्यवसृतस्तस्करो राजपूरूपः ॥ १६४ मनुष्य विपशस्त्राम्बुलवणापूपवीरुधाम ।
विक्रेता ब्राह्मणचैव द्विजो वार्धुपिकच यः ॥ १.६५ च्युतः स्वधर्मात्कुलिकः स्तावको हीनसेविता । पित्रा विवदमानश्च भवत्यसाक्षिण ॥१६६ असाक्षिणां ये निर्दिष्टा दासनैकृतिकादयः । कार्यगौरवमासाद्य भवेयुतेऽपि साक्षिणः ॥ १६७ साहसेषु च सर्वेषु स्तेय संग्रहणेषु च । पारुष्ययोश्चाप्युभयोरमाक्षी नोपपद्यते ॥ १६८ न तत्रापि च बालः स्यान्नैको न स्त्री न कूटकृत् । न बान्धवो नचाराति यस्ते साक्ष्यमन्यथा ॥१६६ बालोऽज्ञानादसत्यात्री पापाभ्यासात्तु कूटकृत् । विब्रूयाद् बान्धवः स्तेहाद् वैरनिर्यातनादरिः ॥ १७० अथवानुमतो यः स्याद् द्वयोर्विवदमानयोः ।
[[२७३]]
स साक्ष्ये कोऽपि साक्षित्ये प्रव्यः स्यात्तु संसदि ॥१७१ यस्त्वात्म दोषदुष्टत्वादस्वस्थ इव लक्ष्यते ।
स्थानात् स्थानान्तरं गच्छेरेकैकं चोपधावति ॥ १७२ कासत्य निभृतोऽकस्मादभोक्ष्णं निःश्वसित्यपि ।
भूमिं लिखति पादाभ्यां बाहू वासा धुनोति च ॥ १७३ भिद्यते मुखत्रर्णोऽस्य ललाटं स्विद्यते तथा । शोपमागच्छतश्वोष्ठावध्वं तिर्यक् च वीक्षते ॥ १७४
2%
नारदीयमनुस्मृतिः ।
त्वरमाण इवाटो बबद्ध च भाषते ।
कूटसाक्षी स विज्ञेयस्तं पापं बिनयेद् भृशम् ॥१७५ श्रावयित्वा तथान्येभ्यः साक्षित्वं योऽपि निहते ।
स बिनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥ १७६ आहूय साक्षि (णं ? णः) पृच्च्छन्नियम्य शपथैर्भृशम् । समस्तान् विहिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥ १७७ सत्येन शापयेद् वित्रं क्षत्रियं वाहनायुधैः । गोवीज काय नैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ १७८ पुराणैधर्मवचनैः सत्यमाहात्म्य कीर्तनैः । अमृतस्यापवादैश्व भृशमुत्रास्य साक्षिणः ॥ १७६ नग्नो मुण्डः क्रपालेन मिक्षार्थी क्षुत्पिपासितः । क्रुद्धः शत्रुगृहं गच्छे यः साक्ष्यमनृतं वदेत् ॥१८० नगरे प्रतिरुद्धः सन् बहिदारो बुभुक्षितः ।
अमित्रान् भूयसः पश्येद् यः साक्ष्यमनृतं वदेत् ॥१८१ यां रात्रिमधfear त्रो यां चैवाक्षपराजितः । यां चातिभारतप्राङ्गो दुर्विवक्ता स्म तां वसेत् ॥१८२ साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् । सहस्रं वारुणान् पाशानात्मनि प्रतिमुञ्चति ॥१८३ तस्य बबशते पूर्णे पाश एकः प्रमुच्यते । एवं स बन्धनात्तस्मान्मुच्यते नियताः समाः ॥ १८४ यावतो बान्धबान् यस्मिन् हन्ति सातेऽनृतं वदन् । तावतः सन्धया तस्मि शृणु सौम्यानुपूर्वशः ॥१८५
¦
ऋणादानं प्रथमं बिबादपदम् ।
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्रानृते हन्ति सहस्रं पुरुषानृते ॥२८६ हन्ति जातानजातश्चि हिरण्यार्थेऽनृतं वदन् ।
सव भूम्यनृते हन्ति मा स्म भूम्यनृतं व ( दी ? दः) ॥ १८७ एकमेवाद्वितीयं तत्प्राहुः पवनमात्मनः ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥१८८ अश्रमेयसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रात् तु सत्यमेव विशिष्यते ॥ १८६ परं कूपशताद् वापी परं वापीशतात् क्रतुः । परं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् परम् ॥१६० भूर्धारयति सत्येन सत्येनोदयते रविः ।
सत्येन वायुः पवते सत्येनापः स्रवन्ति च ॥ १६१ सत्यमेव परं दानं सत्यमेव परं तपः ।
[[२७५]]
सत्यमेव परो धर्मो लोकानामिति वै श्रुतिः ॥ १६२ सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृताः । इहैव तस्य देवत्वं यत्य सत्ये स्थिता मतिः ॥ १६३ सत्यं ब्रह्मनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि । उक्तवानृतं महाघोरं नरकं सम्प्रपत्स्यते ॥ १६४ निरयेषु च ते शश्वज्जिह्वामुत्कृत्य दारुणाः । असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः ॥ १६५ शूले मत्स्यानिवाक्षिप्य क्रोशन्तमपरायणम् । अवाकिरसमुत्क्षिप्य क्षेप्स्वन्त्यमिहदेषु च ॥ १६६
[[२७६]]
नारदीयमनुस्मृतिः ।
अनुभूय च दुःखास्ताश्विरं नरकवेदनाः । इहायास्यस्यभत्र्यासु काकादियोनिषु ॥ १६७ ज्ञात्वैतानृते दोषान् ज्ञात्वा सत्ये च सद्गुणान् । सत्यं वदोद्वरात्मानं मात्मानं पीयतश्विरम् ॥१६८ न बान्धवा न सुहृदो न धनानि महान्त्यपि । अलं धारयितुं शक्तास्तमस्युप्रे निमज्ञतः ॥१६६ पितरस्त्ववलम्बन्ते त्वयि साक्षित्वमागते । तारयिष्यति किम्मानात्मानं पातयिष्यति ॥२०० सत्यमात्मा मनुष्यस्य सर्वं सत्ये प्रतिष्ठितम । सर्वथैवात्मनात्मानं श्रेयमा योजयिष्यपि ॥२०१ यां रात्रिमजनिष्ठास्त्वं यां च रात्रिं मरिष्यसि । वृथा तदन्तरा ते स्थान साक्ष्यं चेदन्यथा वदेः ॥ २०२ नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । साहित्य विशेषेण सत्यमेव वदेरतः ॥ २०३ यः परार्थऽपहरति स्वां वाचं पुरुषाधमः । आत्मार्थ किन्न कुर्यात् स पापं नरकनिर्भयः ॥२०४ अर्था वै वाचि नियता वाङ्मूला वाचि मिश्रिताः । यो वैतां स्तेययेद् वाचं स सवस्तेयकृन्नरः ॥२०५ साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः । तत्साम्ये शुचयो ग्राह्या स्तःसाम्ये स्मृतिमत्तराः ॥ २०६ स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते । तीक्ष्णत्वात् साक्षिधर्मस्य साक्ष्यं व्यावर्तते ततः ॥ २०७
[[1]]
ऋणादानं प्रथमं विवादपदम् ।
निर्दिष्वर्थजातेषु साक्षी चेन साक्ष्य आगते । न व्यदक्षरसमं न तन्निगदितं भवेत् ॥ २०८ देशकालवयोद्रव्यप्रमाणाकृतिजातिषु ।
यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तदपि चान्यथ ॥२०६ ऊनमभ्यधिकं वार्थ प्रत्रयुयंत्र साक्षिणः ।
तदप्यनुक्तं विज्ञेयमेप साक्ष्यविधिः स्मृतः ॥ २१० प्रमादाद् धनिनो यत्र न स्याल्लेख्यं न साक्षिणः । अर्थ चापह ते वादी तत्रोक्तस्त्रिविधो विधिः ॥२११ चोदना प्रतिकालं च युक्तिदेशस्तथैव च । तृतीयः शपथः प्रोतस्तंऋणं शोधयेत् क्रमात् ॥२१२ अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः । त्रिचतुपञ्चकृवो वा परतोऽयं समाचरेत् ॥२९३ चोदनाप्रतिघाते तु युक्तिलेशंस्तमन्वियात् । देशकालार्थसम्बन्वपरिमाण क्रियादिभिः ॥ २१४ युक्तिष्वप्यसमर्थासु शपथैनमईयेत् । देशकालबलापेक्षमन्यम्बुसुकृतादिभिः ॥२१५
दीप्तो यं न दहत्यग्निगपोऽन्तर्धारयन्ति यम । स तरत्यभिशापं तं किल्लिपो स्याद विपर्यये ॥ २१६ स्त्रीणां शीलाभियोगे च स्तेयसाहसयोरपि । एष एव विधिः सर्वार्थानेषु यः ॥ २१७ शपथा पिदेवानां पुरा सृष्टाः स्वयम्भुवा ।
वशिष्ठः शपथं शेपे यातुधानेति शब्दितः ॥२१८
[[२७७]]
[[२७८]]
नारदीयमनुस्मृतिः ।
सप्तर्षयस्तथा सेन्द्राः पुष्करार्थे तपोधनाः । शेपुः शपथमव्यप्राः परस्परविशुद्धये ॥ २१६ अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः । ब्रूयात् स्वयं वा सदसि तस्यार्धविनयः स्मृतः ॥२२० गूहमानस्तु दौशील्याद् यदि पापं स हीयते । सभ्याञ्चास्य न दुष्यन्ति तोत्रो दण्डश्च पार्थिवात् ॥२२१
इति ऋणादानं प्रथमं विवादपदम ॥
अथौपनिधिकं द्वितीयं विवादपदम् ।
स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्य विशङ्कितः । निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ १ अन्यद्रव्यव्यवहितं द्रव्यमव्याकृतं च यत् । निक्षिप्यते परगृहे तदौपनिधिकं स्मृतम् ॥२ स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा । प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥ ३ याच्यमानस्तु यो दात्वा निक्षेपं न प्रयच्छति ।
दण्ड्यः स राज्ञा दाप्यश्च नष्एं दाप्यश्च तत्समम् ॥४ यश्चार्थ साधयेत्तेन निक्षेप्तुरननुज्ञया ।
f
तत्रापि दण्ड्यः स भवेत् तच सोदयमाप्नुयात् ॥५
सम्भूयसमुत्थानं तृतीयं विवादपदम् ।
ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः । देवराजकृते तद्वन्न चेत् तजिह्मकारितम् ॥६ एष एव विधिर्दष्टो याचितान्वाहितादिषु । शिल्पि धूपनिधौ न्यासे प्रति न्यासे तथैव च ॥७ प्रतिगृह्णाति पोगण्डं यश्च सप्रधनं नरः । तस्याप्येष विधिरृष्टः षडते विधयः समाः ॥८
इति औपनिधिकं द्वितीयं विवादपदम् ।
अथ सम्भूयसमुत्थानं तृतीयं विवादपदम् ।
वणिकप्रभृतयो यत्र कर्म सम्भूय कुर्वते ।
तत् सम्भूयसमुत्थानं व्यवहारपदं स्मृतम् ॥१ फलहेतोरुपायेन कर्म सम्भूय कुर्वताम् । आधारभूतः प्रक्षेपस्तेनोत्तिष्ठेयुरंशतः ॥२ समोऽतिरिक्तो हीनो वा यत्रांशो यस्य तादृशः । क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधा ॥३ भाण्डपिण्डव्ययोद्धारभारसारान्ववेक्षणम् ।
कुर्युस्ते व्यवहारेण समये स्वे व्यवस्थिताः ॥४ प्रमादानाशितं दाप्यः प्रतिषिद्धकृतं च यत् । असन्दिष्टं च यत् कुर्यात् सर्वैः सम्भूयकारिभिः ॥५
२७६.
[[२८०]]
नारदीयमनुस्मृतिः ।
दैवतस्करराजोत्थे व्यसने समुपस्थिते ।
यस्तत् स्वशक्त्या संरक्षेत् तस्यांशो दशमः स्मृतः ॥६ एकस्य चेत् तद्यसनं दायादोऽस्य तदाप्नुयात । अन्यो वासति दायादेऽशक्ताश्चत् सर्व एव वा ॥७ ऋत्विजां व्यसनेऽप्येवमन्यस्तस्कम निस्तरेन । लभेत दक्षिणाभागं स तम्मात् सम्प्रकल्पितम् ॥८ ऋत्विग् याज्यमदुष्टं यरत्यजेदनपकारिणम् । अदुष्टमृत्विजं याज्यों विनेयौ तावुभावपि ॥ ऋत्विक् तु त्रिविधः प्रोक्तः पूर्वैर्जुष्टः स्वयंवृतः । यदृच्छया च यः कुर्यादाविज्यं प्रीतिपूर्वकम् ॥१० क्रमागतेोप धर्मो वृतेष्वृत्विक्षु च स्वयम । याहच्छिके तु सांयाज्ये तत्त्यागे नास्ति किल्विषम् ॥११ शुल्कस्थानं वणिक् प्राप्तः शुल्कं दद्याद् यथोपगम् । न तद् व्यतिहरेद् राज्ञां बलिरेप प्रकल्पितः ॥१२ शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मियोक्त्वा च परीमाणं दाप्योऽष्टगुणमत्ययम् ॥१३ कश्चित् सञ्चरन् देशात्प्रयादभ्यागतो वणिक् । राजास्य भाण्डं संरक्षेद् यावदायाददर्शनम् ॥१४ दायादे सति वन्धुभ्यो ज्ञातिभ्योऽस्य समर्पयेत् । तदभावे सुगुप्त तद् धारयेद् दशतीः समाः ॥ १५ अस्वामिकमदायादं दशवर्षोषितं ततः । राजा तदात्मसात् कुर्यादेवं धर्मो न हीयते ॥ १६ इति सम्भूयसमुत्थानं तृतीयं विवादपदम् ।
अथ दत्ताप्रदानिकं चतुर्थ विवादपदम् ।
।
दत्त्वा द्रव्यमसम्यग् यः पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम तद् विवादपदं स्मृतम् ॥१ अथ देयमदेयं च दत्तं चादत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥२ हाटावदेयानि देयमेकविधं स्मृतम् । दत्तं समविधं विद्याददत्तं पोडशात्मकम ॥३ अन्वाहितं याचितकमाधिं साधारणं च यत् । निक्षेपं पुत्रहारं च सवस्त्रं चान्वये सति ॥४ आपत्स्वपि हि कलासु वर्तमानेन देहिना । अदेयान्याहुराचार्या यवान्यामं प्रतिश्रुतम् ॥५ कुटुम्बभरणाद् द्रव्यं यत्किश्चिदतिरिच्यते । तद् देयमुहत्यान्यद् दददागः समाप्नुयात् ॥६ पण्यमूल्यं भृतिस्तुष्टचा स्नेहात् प्रत्युपकारितम् । स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥ ७ अदत्तं तु भयक्रोधवेपशोक रुजान्वितैः । तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥८ बालप्रमूढास्त्रतन्त्रमत्तोन्मत्तापवर्जितम् ।
कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥६ अपात्र पात्रमित्युक्त कार्ये चाधर्मसंहिते ।
यद् दत्तं स्यादविज्ञानाददत्तं तत् प्रकीर्तितम् ॥१०
[[२८१]]
[[२८२]]
नारदीयमनुस्मृतिः ।
गृह्णात्यदत्तं यो लोभाद् यश्वादेयं प्रयच्छति । अदत्तादायको दण्ड्यस्तथादेयस्य दायकः ॥११
इति दत्ताप्रदानिकं चतुर्थं विवादपदम् ॥
अथाभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम् ।
अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्येति विवादपदमुच्यते ॥ १ शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः । चतुर्विधः कर्मकरः शेषा दासास्त्रिपञ्चकाः ॥२ शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् ।
एते कर्मकराः प्रोक्ता दासास्तु गृहजादयः ॥ ३ सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः । जातिकर्मकृतस्तूतो विशेषो वृत्तिरेव च ॥ ४ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकर्मोक्तं शेषं कर्मकृतः स्मृतम् ॥५ गृहद्वाराशुचिस्थानरश्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥६ इष्टतः स्वामिनाङ्गैरुपस्थानमथान्ततः ।
अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥७अभ्युपेत्याशुश्रूषाः पञ्चमं विवादपदम् ।
[[२८३]]
आ विद्याग्रहणाच्छिष्यः शुश्रूषन् प्रयतो गुरुम् । तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तचैव च ॥८ ब्रह्मचारी चरेद्र भैक्षमधः शाय्यनलङ्कृतः । जघन्यशाखी सर्वेषां पूर्वोत्थायी गुरोर्गृहे ॥ नासन्दिष्टः प्रतिष्ठेत तिष्ठेद् वापि गुरुं कचित । सन्दिष्टः कर्म कुर्वीत शक्तश्वेदविलम्बयन ॥१० यथाकालमधीयीत यावन्न विमना गुरुः । आसीनोऽघो गुरोः कूर्चे फलके वा समाहितः ॥११ अनुशिष्यश्च गुरुगा न चेदनुविधीयते । अबधेनाथवा शिष्यान् रज्ज्वा वेणुदलेन वा ॥१२ भृशं न ताडयेदेनं नोतमा न वक्षसि । अनुशिष्य च विश्वास्यो दण्ड्यो राज्ञान्यथा गुरुः ॥१३ समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् । प्रतीयात् स्वगृहानेपा शिष्यवृत्तिरुदाहृता ॥१४ स्वशिल्पमिच्छन्नातु बान्धवानामनुज्ञया ।
आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् ॥१५ आचार्यः शिक्षयेदेनं स्वगृहाद् दत्तभोजनम । नचान्यत् कारयेत् कर्म पुत्रवञ्चैनमाचरेत् ॥१६ शिक्षयन्तमदुद्धं च य आचार्य परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वचवन्धौ च सोऽर्हति ॥ १७
स्याद्वचन्वौ
शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात् ।
तत्र कर्म च न कुर्यादाचार्यस्यैव तत्फलम् ॥१८
[[२८४]]
नारदीयमनुस्मृतिः ।
गृहीतशिल्पः समये कृत्वाचार्य प्रदक्षिणम् । शिक्षितश्चानुमान्यैनमन्तेवासी निवर्तयेत् ॥ १६ भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः । शक्तिभक्त्यनुरूपा म्यादेपां कर्माश्रिया भृतिः ॥२० उत्तमत्वायुवीयोऽत्र मध्यमस्तु कृषीबलः । अधमी मारवाहः स्यादित्येवं त्रिविधो भृतः ॥२१ अर्थविकृतो यः स्यात् कुटुम्बस्य तथोपरि । सोऽधिकर्म करो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥२२ शुभकर्मकरा ह्येते चत्वारः समुदाहृता । जवत्यकर्मभाजस्तु शेषा दासात्रिपञ्चकाः ॥२३ गृहजातस्तथा क्रोतो लब्बो दायादुपागतः । अशनादिभृतस्तद्वदात्तः स्वामिना च यः ॥२४ ऋगच मोक्षितोऽनल्पाद युद्धप्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्यापमृतः कृतः ॥ २५ भक्तदासच विज्ञेयस्तथैव बडबाभृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥२६ तत्र पूर्वश्वतुर्वर्गो दासत्वान्न विमुच्यते ।
प्र ( दासा ? मादा) न् स्वामिनोऽ यत्र दाम्यमेषां क्रमागतम् ॥२७ यां स्वामिनं कश्चिन्मोक्षयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥२८ अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । सम्भक्षितं यद् दुर्भिक्षे न तच्छुध्येत कर्मणा ॥२६
अभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम् । २८५
आधत्तोऽथ धनं दत्त्वा स्वामी यांनमुद्धरेन । अथोपगमयेदेनं सोऽपि क्रीतादनन्तरः ॥ ३०
दत्त्वा तु सोदयमृणमृगो दास्याद् विमुच्यते । कृतकालाभ्युपगमात् कृतको पि विमुच्यते ॥३१ तवाहमित्युपगतो युद्धप्रामः पणे जितः । प्रतिपूरुपदानेन मुच्येरंस्तुल्यकर्मणा ॥३२
राज्ञ एव तु दासः स्यात् प्रव्रज्यापसृतो नरः । न तस्य प्रतिमोक्षोऽस्ति विशुद्धिर्वा कथञ्चन ॥३३ भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते । निग्रहाद् बडवायाश्च मुच्यते बडवाभृतः ॥ ३४ विक्रीणाति स्वतन्त्रः सन् य आत्मानं नराधमः । सुजघन्यनमस्तेपां सोऽपि दास्यान्न मुच्यते ॥३५ चोरापहृतविक्रीता ये च दासीकृता बलात् । राज्ञा मोक्षयितव्यास्ते दासत्वं तेषु नेष्यते ॥३६ वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । स्वधर्मत्यागिनो अन्यत्र दारवद दासता मता ॥ ३७ तत्रास्मीति य आत्मानमस्त्रतन्त्रः प्रयच्छति । न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥३८ अधनात्रय एवोक्ता भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम ॥३६ स्वदासमिच्छेर् यं कर्तुमदासं प्रीतमानसः ।
स्कन्धादादाय तस्याथ भिन्द्यात् कुम्भं सहाम्भसा ॥४०
信
नारदीय मनुस्मृतिः ।
अक्षताभिः सपुष्पाभिर्मूर्धन्येनमवाकिरेत् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तमथोत्सृजेत् ॥४१
ततः प्रभुति वक्तव्यः स्वाम्यनुप्रहपालितः ।
भोज्यान्न प्रतिगृह्यश्च भवत्यभिमतश्च सः ॥४२
.
इत्यभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम् ।
अथ वेतनस्यानपाकर्म षष्ठं विवादपदम् ।
भृतानां वेतनस्योक्तो दानादानविधिक्रमः । वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥११ भृत्याय वेतनं दद्यात् कर्मस्वामी यथाकृतम् । आदौ मध्ये वसाने वा कर्मणो यद् बिनिश्चितम् ॥२ भृतावनिश्वितायां तु दशभागं समाप्नुयुः । लाभगोबीजसस्यानां वणिग्गोपकृषीवलाः ॥३ कर्मोपकरणं चैषां क्रियां प्रति यदर्पितम् । आप्तभावेन कुर्वीत न जिन समाचरेत् ॥४ कर्मा कुर्बन प्रतिक्षुत्य कार्यो दत्त्वा भृतिं बलात् । भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिमावहेत् ॥५ अनयन् नादयित्वा तु भाण्डं वा यानबाहने । दाप्यो भृतिचतुर्भागं सर्वामर्धपथे त्यजन् ॥६
[[२८७]]
वेतनस्यानपाकर्म पठ विवादपदम् ।
काले पूर्णे त्यजन् कर्म भृतिनाशमवाप्नुयात् । स्वामिदोवादपक्रामेद् यावत् कृनकमालभेत् ॥७ भृतिपभागमाभाव्य पथि युग्यकुलं त्यजन् । अददत् कारयित्वा तु कर्मैवं सोइयां भृतिम् ॥८ अनयन् वाहकोsयेवं भृतिहामिमवाप्नुयात् । द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नमाचरन् ॥६ भाण्डं व्यसनमा गच्छेद् यदि वाहकदोषतः । दाप्यो यत् तत्र नश्येत्तु देवराजकृतादृते ॥ १० गवां शताद् वत्सतरी धेनुः स्वाद् द्विशताद् भृतिः । प्रतिसंवत्सरं गोरे सन्दोहो बारमेऽहनि ॥११
उपानद् गा गोपाय प्रत्यहं रजनीक्षये ।
चीर्णाः पीताश्च ता (गा ? गो) पः सायाह्न प्रत्युपानयेत् ॥१२ स्याच्चेद् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः । अशक्तावभिपत्यारं स्वामिने तन्निवेदयेत् ॥१३ अव्यामच्छन्न विक्रोशन् स्वामिने चानिवेदयन् । वोडुमईति गोपस्तं विनयं चैव राजतः ॥१४ नविन कृमिभिः श्रहतं विषमे मृतम् । हीनं पुरुषकारेण गोपायैव निपातयेत् ॥१५ अजाविके तथा रुद्र वृकैः पाले त्वनायति ।
यन प्रलय वृको हन्यात् पाले तत् किल्विषं भवेत् १६ तास मनवरुद्धानां चरन्तीनां मिथो वने ।
याः प्रसस्य वृको हन्याम पालस्तत्र किल्विषी ॥१७
[[२८८]]
नारदीयमनुस्मृतिः ।
विघुष्य तु हृतं चोरैर्न पालो दातुमर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ १८ एतेन सर्वपालानां विवादः समुदाहृतः ।
मृतषे तु विशुद्धिः स्यात पालस्याङ्कादिदर्शनात् ॥ १६ शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विस्तदा ( भवे ? वहे ) त । अप्रयच्स्तदा शुल्कमनुभूय पुमांस्त्रियम ॥२० अयोनौ क्रमते यस्तु वहुभिर्वापि वासयेत । शुल्कम गुणं दाप्यो विनयस्तावदेव च ॥२१ पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः । म तद् गृहीत्वा निर्गच्छेत् त्यक्त्वा सवं मुधोषितः ॥ २२ स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत् । ग्रहीतुराभद् भग्नं नष्टं वान्यत्र संप्लवात् ॥२३
इति वेतनम्यानपाककर्म षष्ठ विवादपदम् ॥
अथ अस्वामिविक्रयः सप्तमं विवादपदम् ।
निक्षितं वा परद्रव्यं नष्टं लब्ध्वापहत्य वा । विक्रीयते परोक्षं यत् स ज्ञेयोऽस्वामिविक्रयः ॥ १ द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् । प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात् ॥२
अस्वामिविक्रयः सप्तमं विवादपदम् ।
अस्वाम्यनुमताद् दासादसतश्च जनाद् रहः । हीनमूल्यमवेलायां क्रीणंस्तदोषभाग भवेत् ॥३ न गृहेदागमं क्रेता शुद्धिर्ह्यस्य तदागमात । विपर्यये तुल्यदोषः सर्वं तद्दोपमर्हति ॥ ४ विक्रेता स्वामिनेऽथं च क्रेतुर्मूल्यं च तत्कृतम् । दद्याद् दण्डं तथा राज्ञे विधिरस्वामिविक्रये ॥५ परेण निहितं लब्ध्वा राजन्युपहरेन्निधिम् । राजगामी निधिः सर्वः सर्वेषां ब्राह्मणाद्यते ॥६ ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । तेन दत्तं च भुञ्जीत स्तेनः स्यादनिवेदयन् ॥७ स्वमप्यर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् । गृह्णीयात् तत्र तं शुद्धमशुद्धः स्यादतोऽन्यथा ॥८
इति अस्वामिविक्रयः सप्तमं विवादपदम् ॥
अथ विक्रीयासम्प्रदानमष्टमं विवादपदम् ।
विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रयच्छति । विक्रीयासम्प्रदानं तद् विवादपदमुच्यते ॥१ लोकेऽस्मिन् द्विविधं द्रव्यं स्थावरं जङ्गमं तथा । क्रयविक्रयधर्मेषु सवं तत् पण्यमुच्यते ॥ २
[[१६]]
[[२८६]]
[[२६०]]
नारदीय मनुस्मृतिः ।
षड्विधस्तस्य तु बुधैर्दानादानविधिक्रमः । गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥ ३ विक्रीय पण्यं मूल्येन यः क्रेतुर्न प्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥४ अर्धश्वेदषहीयेत सोदयं पण्यमाभवेत् ।
स्थानिनामेष नियमो दिग्लाभो दिग्विचारिणाम् ॥५ उपहन्येत वा पण्यं दह्येतापहियेत या । विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छतः ॥६ निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति । मूल्यं स द्विगुणं दाप्यो विनयं तावदेव च ॥ ७ तथान्यहस्ते विक्रीय योऽन्यहस्ते प्रयच्छति । सोऽपि तद्दिगुणं दाप्यो विनयं तावदेव च ॥८ दीयमानं न गृह्णाति पण्यं क्रीतं हि यत् क्रयी । विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयात् ॥६ दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः । अदत्तमूल्ये विक्रीते न विक्रेतुरतिक्रमः ॥१० लाभार्थी वणिजां सर्वः पण्येषु क्रयविक्रयः । स च लाभोऽर्घमासाद्य महान् भवति वा नवा ॥११ तस्माद् देशे च काले च वणिगधं प्रकल्पयेत । न जिझेन प्रवर्तेत श्रेयानेष बणिक्पथः ॥ १२ इति विक्रीयासम्प्रदानमष्टमं विवादपदम् ॥
अथ क्रीत्वानुशयो नवमं विवादपदम् ।
क्रीत्वा मूल्येन यत पण्यं क्रेता न बहु मन्यते । क्रीत्वानुशय इत्येतद् विवादपदमुच्यते ॥ १ क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत् तत्रैवान्यविक्षतम् ॥२ द्वितीयेऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशमावहेत् । द्विगुणं तत् तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥ ३ क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्नाभिवेत पुनः ॥४ त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद्वाह्यमेवच । मुक्तावप्रवालानां सप्ताहं स्यान् परीक्षणम् ॥५ द्विपदामर्धमासं स्यान पुंसां तद्दिगुणं स्त्रियाः । दशाहं सर्ववीजानामेकाहं लोहवाससाम् ॥६ परिभुक्तं तु यद् वासः क्लिन्नरूपं मलीमसम् । सदोषमपि विक्रीतं विक्रेतनभवेत् पुनः ॥७ मूल्याष्टभागो हीयेत सकृद् धौतस्य बाससः । द्विः पादस्त्रिस्त्रिभागश्च चतुर्धमेव च ॥८ अर्धक्षयात्तु परतः पादांशापचयः क्रमात् । यावत् क्षीणदशं जीणं जीर्णस्थानियमः क्षये ॥६ लोहानामपि सर्वेषां हेतुरभिः क्रियाविधौ ।
क्षयः संस्क्रियमाणानां तेषां दृष्टोऽसिङ्गमात् ॥१०
[[२६१]]
[[२६२]]
नारदीयमनुस्मृतिः ।
सुवर्णस्य क्षयो नास्ति रजतं द्विपलं शतम् । शतमष्टपलं ज्ञेयं क्षयः स्यात् त्रपुसीसयोः ॥ ११ ताम्र पञ्चपलं विद्याद् विकारा ये च तन्मयाः । तद्धेतूनामनेकत्वादय सोऽ नियमः क्षये ॥ १२ तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते । यत्र कार्पासिकोर्णानां वृद्धिर्दशपलं शते ॥ १३ स्थूलसूत्रवतामेषा मध्यानां पञ्चकं शते । त्रिपलं तु सुसूक्ष्माणामन्तः श्रय उदाहृतः ॥ १४ त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य च । कौशेयवल्कलानां तु नैव वुद्धिर्न च क्षयः ॥१५ क्रीत्वा नानुशयं कुर्याद् वणिक् पण्ये विचक्षणः । क्षयवृद्धी च जानीयात् पण्यानामागमं तथा ॥ १६
इति क्रीत्वानुशयो नवमं विवादपम् ॥
अथ समयस्यानपाकर्म दशमं विवादपदम् । पापण्डनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥१ पापण्डनंगमश्रेणीपूगव्रातगणादिषु ।
संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥२ यो धर्मः कर्म यचैषामुपस्थानविधिश्च यः ।
यश्चैषां (प्रत्यु ? वृत्त्युपादानमनुमन्येत तत् तथा ॥३समयस्यानपाकर्म दशमं विवादपदम् ।
प्रतिकूलं च यद् राज्ञः प्रकृत्यवमतं च यत् । बाधकं च यदर्थानां तत् तेभ्यो विनिवर्तयेत् ॥४ मिथः सङ्घातकरणमहिते शस्त्रवारणम् । परस्परोपतापं च तेषां राजा न मर्षयेत् ॥५ पृथग्गणान् ये विभिन्द्यस्ते विनेया विशेषतः । आवहेयुर्भयं घोरं व्याधिवत् ते ह्युपेक्षिताः ॥६ दोपवत्करणं यत् स्यादनाम्नायप्रकल्पितम् । प्रवृत्तमपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥७
इति समयम्यानपाकर्म दशमं विवादपदम् ॥
अथ क्षेत्र विवाद एकादशं विवादपदम् ।
सेतुकेदारमर्यादा बिकृाकृष्टनिश्चयाः । क्षेत्राधिकारा यत्र स्युर्विवादः क्षेत्रजः स तु ॥ १ क्षेत्रसीमाविरोधं तु सामन्तेभ्यो विनिश्चयः । नगर ग्रामगणिनो ये च वृद्धतमा नराः ॥२ ग्रामसीमासु च बहिये स्युस्तत्कृषिजीविनः । गोपशाकुनिकव्याधा ये चान्ये वनगोचराः ॥ ३ समुन्नयेयुस्ते सोमां लक्षणैरुपलक्षिताम् ।
तुषाङ्गारकपालानां कुम्भैरायतनद्रुमैः ॥४
[[२६३]]
[[२६४]]
नारदीयमनुस्मृतिः ।
अभिज्ञानैश्च वल्मीकस्थलनिनोन्नतादिभिः । केदारागारमार्गैश्च पुराणैः सेतुभिस्तथा ॥५ निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु । तत्प्रदेशानुमानाच्च प्रमाणे भगदर्शनैः ॥६ अथ चंदनृतं ब्रूयुः सामन्तास्तद्विनिर्णये 1 सर्वे पृथक् पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥७ गणिवृद्धादयस्वन्ये दण्डगत्या पृथक् पृथक् । विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः ॥८ नैकः समुन्नयेत् सीमां नरः प्रत्ययवानपि । गुरुत्वादस्य धर्मस्य क्रियेपा बहुषु स्मृता ॥ एकश्चेदुन्नयेत् सीमां सोपवासः समुन्नयेत् । रक्तमाल्याम्बरधरः क्षितिमारोप्य मूर्धनि ॥१० यदात्र न स्युर्ज्ञातारः सीमाया नच लक्षणम् । ततो राजा द्वयोः सीमामुद्धरेदितः स्वयम् ॥११ अनेनैव गृहोद्याननिपानायतनादिषु । विवादविधिराख्यातस्तथा ग्रामान्तरेषु च ॥१२ अवस्कर स्थलश्वभ्रमार्गस्यन्द निकादिभिः ।
चतुष्पथसुरम्थानरथ्यामार्गान न दूषयेत् ॥१३ परक्षेत्रस्य मध्ये तु संतुर्न प्रतिषिध्यते । महागुणोऽल्पदोषश्चेद् वृद्धिरिता क्षये सति ॥१४ सेतुस्तु द्विविधो ज्ञेयः खन्यो बध्यस्तथैव च । तोयप्रवर्तने खन्यो बध्यः स्याद् विनिवर्तने ॥१५
क्षेत्रविवाद एकादशं विवादपदम् । नान्तरेणोदकं सस्यं नाशोऽप्यत्युदकेन तु । यावाननुदके दोषस्तावानस्युदके स्मृतः ॥ १६ पूर्वप्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः ।
सेतु प्रवर्तयेत् कश्विन्न स तत्फलभाग् भवेत् ॥१७ मृते वा स्वामिनि पुनस्तद्वंश्ये चापि मानवे । राजानमामन्त्र्य ततः प्रकुर्यात् सेतुकर्म तत् ॥१८ अतोऽन्यथा क्लेशभाक् स्यान्मृगव्याधनिदर्शनात । इपवस्तस्य नश्यन्ति यो विद्धमनुविध्यति ॥ १६ अशक्तप्रेतनयेषु क्षेत्रिकेष्वनिवारितः ।
क्षेत्रं चंद् विकृत् कश्चिदश्नुवीत स तत्फलम् ॥२० विकृष्यमाणं क्षेत्रे चत् क्षेत्रिकः पुनराब्रजत् ।
खिलोपचारं तत्सर्वं दत्त्वा स्वं
क्षेत्रमाप्नुयात् ॥२१
समा गताः ।
लभेत सः ॥ २२
तदष्टभागोपचयाद् यावत् सप्त सम्प्राप्ते त्वमे वर्षे भुक्तं क्षेत्रं संवत्सरेणार्धखिलं खिलं स्याद् वत्सरैस्त्रिभिः । पञ्चवर्षाविसनं तु स्यात् क्षेत्रमटवीसमम् ॥२३ क्षेत्रं त्रिपुरुषं यत्र गृहं वा स्यात् क्रमागतम् । राजप्रसादादत्यत्र न तद्भोगः परं नयेत् ॥२४ उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः । पालो दण्ड्यो भवेत् तत्र स चच्छक्तो न वारयेत् ॥ २५ समूलसस्यनाशे तु तत्स्वामी धान्यमाप्नुयात् । वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् ॥२६
REK
-२६६
नारदीयमनुस्मृतिः ।
गौः प्रसूता दशाहात् तु महोक्षाजाविकुञ्जराः । निवार्यास्तु प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥२७ मापं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा । अजाविके च वत्से च दण्डः स्यादर्धमाषकः ॥२८ अदण्ड्या हस्तिनोऽश्वाश्व प्रजापाला हि ते स्मृताः । अदण्ड्या गर्भिणी गौश्च सूतिका चातिसारिणी ॥ २६ प्रोक्तः स द्विगुणः सन्न वसन्त्यां तु चतुर्गुणः । प्रत्यक्षचारकाणां तु चोरदण्डः स्मृनस्तथा ॥ ३० या नष्टाः पालडोपेण गावः क्षेत्रसमाश्रिताः । न तत्र गोमिनो दण्डः पालस्तदण्डमर्हति ॥ ३१
राजग्राहगृहीतो वा वज्राशनिहतोऽपि वा । अथ सर्पेण वा दृष्टो गिर्यात् पतितोऽपि वा ॥ ३२ न तत्र पालदोषः स्यान्नैव दोपोऽस्ति गोमिनाम् । गोभिस्तु भक्षितं धान्यं यो नरः प्रतिमार्गति ॥३३ सामन्तस्य शदो देयो धान्यं यत् तत्र वापितम् । गवत्रं गोमिने देयं धान्यं तत्कृबकस्य तु ॥ ३४ ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे । अनावृतं चेत् तन्नाशे न गोपस्य व्यतिक्रमः ॥३५ पथिक्षत्र वृतिः कार्या यामुद्रो नावलोकयेत् ।
न लङ्घयेत् पशुर्नाश्वो न भिन्द्याद् यां च सूकरः ॥३६ खातखातस्य केदारमाहुः शल्यवतो मृगम् ।
इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति ॥ ३७
क्षेत्र विवाद एकादशं विवादपदम् ।
अशक्तप्रेत नपुंषु क्षेत्रिकेष्व निवारितः ।
विक्रयमाणे क्षेत्र चेत् क्षेत्रिकः पुनराव्रजेत् ॥ ३८ बीजापचारं तत् सर्व दत्त्वा स्वं क्षेत्रमा नुयात् । गृहं क्षत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम् ॥३६ वृद्ध जनपदे राज्ञो धर्मः कोशश्च वर्धते । हीयते हीयमाने तु वृद्धिहेतुमतः श्रयेत् ॥४०
इति क्षेत्रविवाद एकादशं विवादपदम ॥
अथ स्त्रीपुंसयोगो द्वादशं विवादपदम् ।
विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते । स्त्रीपुंसयोगसंज्ञं तु विवादपदमुच्यते ॥१
स्त्रीपुंसयोस्तु सम्बन्धाद् वरणं प्राग् विधीयते । वरणाद् ग्रहणं पाणेः संस्कारोऽथ द्विलक्षणः ॥२ तयोरनियतं प्रोक्तं वरणं दोषदर्शनाद् ।
पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् ॥३ ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे । स्वजात्या श्रेयसी भार्या स्वजात्यश्च पतिः स्त्रियाः ॥४ ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तिस्र एव तु ।
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस्त्रयः ॥ ५
[[२६७]]
[[२६८]]
नारदीयमनुस्मृतिः ।
द्वे भायें क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता ।
वैश्याया द्वौ पती अन्या एकोऽन्यः क्षत्रियापतिः ॥६
आ सरमात् पञ्चमाथ बन्धुभ्यः पितृमातृतः । अविवाद्याः सगोत्राः स्युः समानप्रवरास्तथा ॥७ परीक्ष्य पुरुषं पुंस्त्वे निजैरेवाङ्गलक्षणः । पुमांश्चंद बिकल्पेन स कन्यां लब्धुमर्हति ॥८ सुबद्धजत्रु जान्वस्थिसुबद्धांस शिरोधरः । स्थूलघाटातनृजत्वगविलग्न गतिस्वरः ॥
विट् चास्य प्रवते नाप्सु रात्रि मृत्रं च फेनिलम । पुमान् ग्यालक्षणैरेतैर्विपरीतस्तु पण्डकः ॥ १० चतुर्दशविधः शास्त्र स तु दृष्टो मनीषिभिः । चिकित्स्यश्चाचिकित्स्यश्च तेषामुको विधिः क्रमात् ॥ ११ निसर्गपण्डो वध्र्व पक्षपण्डस्तथैव च ।
अभिशापाद गुरो रोगाद् देवक्रोधात् तथैव च ॥ १२ ईर्ष्यापिण्ड सेव्यश्च वातरेता मुखभगः । आक्षिनमोघबीजश्च शालीनोऽन्यपतिस्तथा ॥ १३
तत्राचावप्रतीकारौ पक्षाख्यं मासमाचरेत् ।
अनुक्रमत्रयस्यास्य कालः संवत्सरः स्मृतः ॥१४
ईर्ष्यापण्डादयो येऽन्ये चत्वारः समुदाहृताः ।
सन्त्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रियाः ॥ १५
आक्षिप्रमोघबीजौ च पश्यावप्रतिकर्मणि ।
[[1]]
पतिरन्यः स्मृतो नार्या वत्सरं सम्प्रतीक्ष्य तु ॥ १६
स्त्रीपुंसयोगो द्वादशं विषादपदम् ।
शालीनस्यापि धृस्त्रीसंयोगाद भभ्यते ध्वजः । तं होनबेषमन्तस्त्रीबालान्धाभिरुपक्रमेत् ॥१७ अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति । लभेत सान्यं भर्तारमेतत् कार्य प्रजापतेः ॥ १८ अपत्यार्थं स्त्रियः साः स्त्रो क्षेत्रं बीजिनः प्रजाः । क्षेत्रं बीजवते देयं नाबीजी क्षेत्रमर्हति ॥१६ पिता दद्यात् स्वयं कन्यां भ्राता वानुमते पितुः । मातामहो मातुलश्च सकुल्या बान्धवास्तथा ॥२० माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते । तस्यामप्रकृतिस्थायां दद्युः कन्यां सजातयः ॥२१
नैव कश्चित् स्यात् कन्या राजानमाव्रजेत् । अनुज्ञया वरं तस्य प्रतीत्य वरयेत् स्वयम् ॥२२ सवर्णमनुरूपं च कुलरूपवय श्रुतेः ।
यदा तु
- सह धर्मं चरेत् तेन पुत्रांश्चोत्पादयेत् ततः ॥ २३ प्रतिगृह्य च यः कन्यां नरो देशान्तरं ब्रजेत् । श्रीनृतून् समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥२४ क्रन्या नर्तुमुपेक्षेत बान्धवेभ्यो निवेदयेत् ।
ते चेन्न दस्तां भर्त्रे ते भ्रूणहभिः समाः ॥२५ यावन्तश्वर्तवस्तस्याः समतीता विना पतिम ।
[[२६६]]
तावत्यो भ्रूणहत्याः स्युस्तस्य यो न ददाति ताम् ॥२६ अतोऽप्रवृत्तं रजसि कन्यां दद्यात् पिता सकृत् । महदेनः स्पृशेदेनमन्यथैष विधिः सताम् ॥ २७
[[३००]]
नारदीयमनुस्मृतिः ।
सकृदंशो निपतति सकृत् कन्या प्रदीयते । सकाह ददानीति त्रीण्येतानि सकृत् सकृत् ॥२८ ब्राह्मादिषु विवाहेषु पञ्चस्वेष विधिः स्मृतः । गुणापेक्षं भवेद् दानमासुरादिषु च त्रिपु ॥२६ कन्यायां प्राप्तशुल्कायां ज्यायांश्चंद् वर आब्रजेत् । धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् ॥३० नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् । दोषे तु सति नागः स्यादन्योन्यं त्यजतोस्तयोः ॥ ३१ दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् । अदुष्टश्चेद् वरो राज्ञा स दण्ड्यस्तत्र चोरवत् ॥३२ यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नपो दण्डं पूर्वसाहसचोदितम् ॥३३ अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः । स शतं प्राप्नुयाद् दण्डं तस्या दोषमदर्शयन् ॥ ३४ प्रतिगृह्यतु यः कन्यामदुष्टामुः सृजेद् वरः । विनेयः सोऽप्यकामोऽपि कन्यां तामेव चोद्वहेत् ॥३५ दीर्घकुत्सितरोगार्ता व्यङ्गाः संस्पृष्टमैथुनाः । धृष्टान्यगतभावाश्च कन्यादोषाः प्रकीर्तिताः ॥ ३६ उन्मत्तपतित क्लीवदुर्भगत्यक्तबान्धवाः ।
कन्यादोषौ च यौ पूर्वावेप दोषगणो वरे ॥३७ अष्टौ विवाहा वर्णानां संस्काराख्याः प्रकीर्तिताः । ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च ॥ ३८
स्त्रीपुंसयोगो द्वादशं विवादपदम् । आर्षश्चैवाथ देवश्च गान्धर्वोऽथासुरस्तथा । राक्षसोऽनन्तरस्तस्मात् पैशाचश्चाटमोऽधमः ॥३६ सत्कृत्याहूय कन्यां तु ब्राह्मो दद्यात् स्वलङ्कृताम् । सह धर्मं चरेत्युक्त्वा प्राजापत्यो विधीयते ॥ ४० वस्त्रगोमिथुने दत्वा विवाहस्त्वार्ष उच्यते । अन्तर्वेद्यां तु दैवः स्यादृत्विजे कर्म कुर्वते ॥४१ इच्छन्तीमिच्छते प्राहुर्गान्धिर्वो नाम पञ्चमः । विवाहस्वासुरो ज्ञेयः शुल्कसंव्यवहारतः ॥ ४२ प्रसह्यहरणादुक्तो विवाहो राक्षसः स्मृतः । सुप्रमत्तोपगमनात् पैशाचश्चाष्टमोऽधमः ॥४३ एषां तु धर्म्याश्चत्वारो ब्राह्माद्याः समुदाहृताः । साधारणः स्याद् गान्धर्वस्त्रयोऽधस्त्वतः परे ॥४४ परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥४५ कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । पुनर्भूः प्रथमा सोक्ता पुनः संस्कारकर्मणा ॥४६ देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्न साहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥४७ असत्सु देवरेषु स्त्रो बान्धवैर्या प्रदीयते । सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता ॥ ४८
प्रसूता वाप्रसूता वा पत्यावेव तु जीवति । कामात् समाश्रयेदन्यं स्वैरिणी प्रथमा तु सा ॥ ४६
३०१.
[[३०२]]
नारदीयमनुस्मृतिः ।
कौमारं पतिमुत्सृज्य या त्वन्य पुरुषाश्रिता । पुनः पत्युर्गृहं यायात् सा द्वितीया प्रकीर्तिता ॥५० मृते भर्तरि या प्राप्तान् देवरानप्यपास्य तु । उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥५१ प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या । तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥५२ पुनर्भुवा मेष विधिः स्वैरिणीनां च कीर्तितः । पूर्वा पूर्वाजवन्यासां श्रेयसी तूत्तरोत्तरा ॥ ५३ अपत्यमुत्पादयितुन्तासां या शुल्कतो हृता । अशुल्कोपनतायां तु क्षेत्रिकस्यैव तद् भवेत् ॥५४ क्षेत्रिकस्य यदज्ञानात् क्षेत्र बीजं प्रकीर्यते न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत् ॥५५ ओघाताहतं बीजं क्षेत्र यस्य प्ररोहति ।
फलभाग् यस्य तत् क्षेत्रं न बीजी फलभाग भवत् ॥५६ महोक्षो जनयेद् वरतान् यस्य गोषु ब्रजे चरन् । तस्य ते यस्य ता गावा मोघं स्पन्दितमार्षभम् ॥५७ क्षेत्रिकानुमतं बीजं यस्य क्षेत्र प्रमुच्यते । तदपत्यं द्वयोरेव बीजिक्षेत्रिकयोर्मतम् ॥५८ नर्ते क्षेत्रं भवेत् सस्यं नच बीजं विनास्ति तत् । अतोऽपत्यं द्वयोरितुं पितुर्मातुश्च धर्मतः ॥ ५६ नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह । हृयं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे ॥ ६०स्त्रीपुंसयोगो द्वादशं विवादपदम् ।
प्रदुष्टत्यक्तदारस्य क्लीत्रस्य क्षमकस्य च । स्पेरुपेयुषो दारैर्न दोषः साहसो भवेत् ॥ ६१ परस्त्रिया सहाकालेऽदेशे बा भत्रतो मिथः । स्थानसंभाषणामोदास्त्रयः संग्रहणक्रमाः ॥६२ नदीनां सङ्गमे तीर्थेष्वारामेषु वनेषु च । स्त्री पुमांश्च समेयातां ग्राह्यं संग्रहणं भवेत् ॥६३ दृती प्रस्थापनैश्चैव लेखा संप्रेषणैरपि । अन्यैरपि व्यतीचारैः सर्वं संग्रहणं स्मृतम् ॥६४ स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत् तया । परस्परस्यानुमते तत्र संग्रहणं भवेत् ॥६५
यदि वा भोज्यैर्वस्त्रैर्माल्यैस्तथैव च ।
संप्रेष्यमाणैर्गन्धैश्च सर्व संग्रहणं भवेत् ॥६६ उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् । वह खवासनं चैत्र सर्व संग्रहणं स्मृतम् ॥६७ दर्पाद् वा यदि वा मोहान्छुलाघया वा स्त्रयं वदेत् । मयेयं भुक्तपूर्वेति सबं संग्रहणं स्मृतम् ॥ ६८
पाणौ यम्व निगृह्णीयाद् वेण्यां वस्त्रान्तरेऽपि वा । तिष्ठ तिष्ठति वा ब्रूयाद् सवं संग्रहणं स्मृतम् ॥६६ स्वजात्यतिक्रमे पुंसामुक्तमुत्तमसाहसन । विपर्यये मध्यमस्तु प्रतिलोमे प्रमापणम् ॥७२ कन्यायामतकामायां द्व्यङ्गुलस्यापकर्तनम् । उत्तमायां वधस्त्वेव सर्वस्वहरणं तथा ॥७१
[[३०३]]
[[३०४]]
नारदीयमनुस्मृतिः ।
सकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः । किन्त्वलङ्कृत्य सत्कृत्य स एवैनां समुद्रहेत् ॥ ७२ माता मातृष्वसा वश्रर्मातुलानी पितृष्वसा । पितृव्यतखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥७३ दुहिताचार्यभार्या च सगोत्रा शरणागता ।
रात्री प्रत्रजिता धात्री साध्वी वर्णोत्तमा च या ॥७ आसामन्यतमां गत्वा गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनं दण्डो नान्यस्तत्र विधीयते ॥७५ पशुयोन्यामतिक्रम्य विनेयः सदृशं शतम् । मध्यमं साहसं गोषु तदेवान्तावसायिषु ॥७६ अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः । प्रायश्चित्तविधावत्र प्रायश्चित्तं विशोधनम् ॥७७ स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या । गम्याः स्युरानुलोम्येन स्त्रियो न प्रातिलोम्यतः ॥ ७८ आस्त्रेव तु भुजिष्यासु दोषः स्यात् परदारवत् । गम्या अपि हि नोपेयास्ताचेदन्यपरिग्रहाः ॥७६ अनुत्पन्नप्रजायास्तु पतिः प्रेयाद् यदि स्त्रियाः । नियुक्ता गुरुभिर्गच्छेद् देवरं पुत्रकाम्यया ॥८० स च तां प्रतिपद्येत तत्रैवा पुत्रजन्मनः । पुत्रे जाते निवर्तेत विप्लवः स्यादतोऽन्यथा ॥ ८१ घृतेनाभ्यज्य गात्राणि तैलेना विकृतेन वा । मुखान्मुखं परिहरन् गात्रैर्गात्राण्यसंस्पृशन् ॥ ८२
स्त्रीपुंसयोगो द्वादशं विवादपदम् ।
नीरजस्कामनिच्छन्तीं वन्ध्यां पुत्रवतीं स्त्रियम् ।
[[३०५]]
न गच्छेत् गर्भिणीं निन्द्यामनियुक्तां च बन्धुभिः ॥ ८३ अनियुक्ता तु या नारी देवराज्जनयेत् सुतम । जारजातमरिक्थीयं तमाहुर्धर्मवादिनः ॥ ८४ तथानियुक्तो भार्यायां यवीयान् ज्यायसो ब्रजेत् । यवीयसो वा यो ज्यायानुभौ तौ गुरुतल्पगौ ॥८५ कुले तदवशेषे तु सन्तानार्थं न कामतः ।
नियुक्तो गुरुभिर्गच्छेद् भ्रातृ ? ता) भार्या यवीयसः ॥८६ ज्येष्ठभार्या कनिष्ठो वा गच्छेद् गुरुनियोगतः । कुलसन्तानरक्षा तु फलं समधिगच्छतः ॥८७ अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः । ततस्तद्वचनाद् गच्छेदनुशिष्य स्त्रियं च सः ॥८८ पूर्वोक्तनैव विधिना स्नातां पुंसवने शुचिः । सकृद्वा गर्भाधानाद् वा कृते गर्भे स्नुषैव सा ॥८६ अतोऽन्यथा वर्तमानः पुमान् स्त्री वापि कामतः । विनेयौ सुभृशं राज्ञा किल्बीपी स्यादनिग्रहे ॥६० ईष्यसूयासमुत्थे तु संरम्भे रागहेतुके ।
दम्पती विवदेयातां न ज्ञातिषु न राजनि ॥६१ अन्योन्यं त्यजतोर्नागः स्यादन्योन्यविरुद्धयोः । स्त्रीपुंसयोर्नतूढाया व्यभिचारादृते स्त्रि (यः ? याः) ॥ ६२ व्यभिचारे स्त्रि (यो ? या) मौण्ड्यमधः शयनमेव च । कदन्नं च कुवासश्च कर्म चावस्करोञ्छनम् ॥६३
[[२०]]
[[२०६]]
नारदीयमनुस्मृतिः ।
स्त्रीधनभ्रष्ट सर्वस्वां गर्भविस्राविणीं तथा ।
भर्तश्च वधमिच्छन्तीं स्त्रियं निर्वासयेद् गृहात ॥६४ अनर्थशीलां सततं तथैवाप्रियवादिनीम । पूर्वाशिनी च या भर्तुः स्त्रियं निर्वासयेद् बुधः ॥ ६५ वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकूलां च सर्वदा । कामं तां नाभिनन्देत कुर्वन्नवं न दोषभाक् ॥६६ अनुरूपामवाग्दुष्टां दक्षां साध्वी प्रजावतीम् । त्यजन् भार्यामवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ ६७ अज्ञातदोषादुष्टा या निर्गता नान्यमाश्रिता । बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयमाश्रयेत् ॥ ६८ पत्यौ प्रत्रजिते नष्टे क्लीवेऽथ पतिते मृते । पञ्चस्त्रापत्सु नारीणां पतिरन्यो विधीयते ॥ ६६ अष्टौ वर्षाण्युदीक्षेत ब्राह्मणं प्रोषितं पतिम् । अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेत् ॥ १०० क्षत्रिया षड् समास्तिष्ठेदप्रसूता समात्रयम् । वैश्या प्रसूता चत्वारि द्वे समे अप्रजा वसेत् ॥ १०१ न शूद्रायाः स्मृतः कालो नच धर्मव्यतिक्रमः । विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः ॥ १०२ अप्रवृत्तौ स्मृतो धर्म एष प्रोषितयोषिताम् । जीवति श्रूयमाणे तु स्यादेष द्विगुणो विधिः ॥ १०३ प्रजाप्रवृत्तौ भूतानां सृष्टिरेषा प्रजापतेः ।
अतोऽन्यथागमे स्त्रीणामेवं दोषो न विद्यते ॥ १०४
स्त्रीपुंसयोगो द्वादशं विवादपदम् ।
आनुलोम्येन वर्णानां यज्जन्म स विधिः स्मृतः । प्रातिलोम्येन यज्जन्म स होयो वर्णसङ्करः ॥ १०५
अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस्तथा । द्वयन्तरश्चानुलोम्येन तथैव प्रतिलोमतः ॥१०६ उग्रः पारशवश्चैव निपादश्चानुलोमतः । उत्तमभ्यस्त्रयस्त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः ॥ १०७ ब्राह्मण्यामपि चण्डालसूत वैदेहका अपि । अपरेभ्यस्त्रयस्त्रिभ्यो विज्ञेयाः प्रतिलोमतः ॥ १०८ अम्बष्ठो मागधश्चैव क्षत्ता च क्षत्रियासुताः । आनुलोम्येन तत्रैको द्वौ यो प्रतिलोमतः ॥१०६ वैश्यापुत्रास्तु दोषन्तयवनायोगवा अपि । प्रातिलोम्येन तत्रैको द्वौ ज्ञेयावनुलोमजौ ॥११० सूताद्याः प्रतिलोमास्तु ज्ञेयावप्रतिलोमजौ ।
[[३०७]]
ससङ्कराः श्वपाकाद्यास्तेषां त्रिस्सप्तको (गु ? गणः ॥ १११ सवर्णो ब्राह्मणीपुत्रः क्षत्रियायामनन्तरः । अम्बष्ठो तथा पुत्रावेवं क्षत्रियवैश्ययोः ॥ ११२ एकान्तरस्तु दोष्षन्तो वैश्यायां ब्राह्मणात् सुतः ।
शूद्रायां (ब्राह्मणा ? क्षत्रिया) त् तद्वन्निषादो नाम जायते ॥ ११३ शूद्रा पारशवं सूते ब्राह्मणाद् व्द्यन्तरं सुतम् । आनुलोम्येन वर्णानां पुत्रा एते प्रकीर्तिताः ॥११४ सूतश्च मागधश्रोभौ पुत्रावायोगवस्तथा ।
प्रातिलोम्येन वर्णानां तद्वदेतेऽप्यनन्तराः ॥११५
[[३०८]]
नारदीयमनुस्मृतिः ।
ब्राह्मण्येकान्तरं वैश्यात् सूते वैदेहकं सुतम् । क्षत्तारं क्षत्रिया शूद्रात् पुत्रमेकान्तरं तथा ॥ ११६ व्यन्तरः प्रातिलोम्येन पापिष्ठः सङ्करे सति । चण्डालो जायते शूद्राद् ब्राह्मणी यत्र मुह्यति ॥ ११७ राज्ञा परीक्ष्यं न यथा जायते वर्णसङ्करः । तस्माद् राज्ञा विशेषेण त्रयी रक्ष्या तु सङ्करात् ॥११८
इति स्त्रीपुंसयोगो द्वादशं विवादपदम् ॥
अथ दायविभागस्त्रयोदशं विवादपदम् ।
विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते । दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥ १ पितर्युपरते पुत्रा विभजेयुर्धनं पितुः । मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः ॥ २ मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निरिष्टे वाप्यमरणे पितर्युपरतेऽस्पृहे ॥३ पितैव वा स्वयं पुत्रान् विभजेद् वयसि स्थितः । ज्येष्ठ श्रेष्ठविभागेन यथा वा स्वमतिर्भवेत् ॥४ बिभृयाद् वेच्छतः सर्वाञ्ज्येष्ठो भ्राता यथा पिता । भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षं कुले क्रिया ॥५
दायविभागस्त्रयोदशं विवादपदम् ।
शौर्यभार्याधने हित्वा यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥६ मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् । तस्याप्येष विधिर्द्धष्टो मातापीष्ठे यथा पिता ॥७ अध्यग्न्यध्याहवनिकं भर्तृदायस्तथैव च ।
भ्रात्रा दत्तं पितृभ्यां च पडूविधं स्त्रीधनं स्मृतम् ॥८ स्त्रीधनं तदपत्यानां भर्तृगाम्यप्रजासु च ।
[[३०६]]
ब्राह्मादिषु चतुर्बाहुः पितृगामीतरेषु तु ॥ कुटुम्बं बिभृयाद् भ्रातुर्यो विद्यामधिगच्छति । भागं विद्याधनात् तस्मात् स लभेताश्रुतोऽपि सन् ॥१० वैद्यो वैद्याय नाकामो दद्यादंशं स्वतो धनात् । पितृद्रव्यं तदाश्रित्य न चेत् तेन तदाहृतम् ॥११ द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिता । समांशभागिनी माता पुत्राणां स्यान्मृते धवे ॥१२ ज्येष्ठायांशोऽधिको देयो ज्येष्ठाय तु वरः स्मृतः । समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा ॥ १३ क्षेत्रजेष्वपि पुत्रेषु तद्वज्जातेषु धर्मतः । वर्णावरेष्वंश हा निगूढ जातेष्वनुक्रमात् ॥१४ पित्रैव तु विभक्ता ये होनाधिकसमैर्धनैः । तेषां स एव भागः स्यात् सर्वस्य हि पिता प्रभुः ॥१५ कानीनश्च सहोदश्च गूढायां यश्च जायते ।
तेषां वोढा पिता ज्ञेयस्ते न भागहराः स्मृताः ॥ १६
[[३१०]]
नारदीयमनुस्मृतिः ।
अज्ञातपितृको यस्तु कानीनो गूढमातृकः । मातामहाय दद्याच पिण्डं रिक्थं हरेत च ॥ १७ जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा । अरिक्थभाजस्ते सर्वे बीजिनामेब ते स्मृताः ॥१८ दस्ते बीजिनः पिण्डं माता चेच्छुल्कतो हृता । अशुल्कोपनतायां तु पिण्डदा वोदुरेव ते ॥ १६ पितृद्विट् पतितः पण्डो यश्च स्यादोपपातिकः । औरसा अपि तं शं लभेरन क्षेत्रजाः कुतः ॥२० दीर्घतीत्रामयग्रस्ता जल्लोन्मत्तान्धपङ्गवः ।
भतव्याः स्युः कुटुम्व्यास्ते तत्पुत्रास्त्वंशभागिनः ॥२१ द्विरामुष्यायणा दद्युर्द्वाभ्यां पिण्डोदके पृथक् । रिक्थादधांशमादद्युर्बीजिक्षेत्रिकयोस्तथा ॥२२ संसृष्टिना तु यो भागस्तेषामेव स इष्यते । अतोऽन्यथांशभाजों हि निर्बीजिवितरानियान ॥२३ भ्रातृणामप्रजः प्रेयात कश्चित् प्रत्रजेत् तथा । विभजेयुर्धनं तस्य शेपास्ते स्त्रीधनाद् विना ॥२४ भरणं चाश्य कुर्वोरंस्त्रीणामा जीवितक्षयात । रक्षन्ति शय्यां भर्तुवेदान्धुिरितरासु तु ॥२५ स्याद् यस्य दुहिता तस्याः पित्रंशो भरणे मतः । आ संस्काराद् भरेतैना परतो विभृयात् पतिः ॥२६ मृते भर्तर्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः । विनियोगात्मरक्षासु भरणे च स ईश्वरः ॥२७
दायविभागस्त्रयोदशं विवादपदम् ।
परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये ।
[[३११]]
तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥२८ पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः । स तम्या भरणं कुर्यान्निगृह्णीयात् पथश्च्युताम् ॥२६ स्वातन्त्र्याद् विप्रणश्यन्ति कुले जाता अपि स्त्रियः । अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत् ॥३० पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति वार्द्ध के पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ ३१ यच्छितुं पितृदायेभ्यो दत्त्वणं पैतृकं च यत् । भ्रातृभिम्तद् विभक्तव्यमृणी न स्यात् पिता यथा ॥ ३२ येषां च न कृताः पित्रा संस्कारविधयः क्रमात् । कर्तव्या भ्रातृभिस्तेपां पैतृकादेव तद्धनान् ॥३३ अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः । अवश्यकार्याः संस्कारा भ्रातॄणां पूर्वसंस्कृतैः ॥३४ कुटुम्बार्थेषु चोद्युक्तस्तत्कार्यं कुरुते च यः । स भ्रातृभिबृंहणीयो ग्रासाच्छादनभोजनैः ॥ ३५ विभागधर्मसन्देहे दायादानां विनिर्णये ।
ज्ञातिभिर्भागलेख्यैस्तु पृथक् का (यं ? र्या) प्रकल्पना ॥३६
भ्रातॄणामविभक्तानामेको धर्मः प्रवर्तते ।
विभागे सति धर्मोऽपि भवेदेषां पृथक् पृथक् ॥ ३७
दानग्रहणपन्नगृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमत्र्ययाः ॥३८
[[३१२]]
नारदीयमनुस्मृतिः ।
साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परम् ॥ ३६ येषां द्विधा क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम् । विभक्तानव गच्छेयुर्लेख्यमप्यन्तरेण तान् ॥ ४० यद्येकजाता वहवः पृथग्धर्माः पृथक्क्रियाः । पृथकर्मगुणोपेता न तेऽकृत्येषु सम्मताः ॥४१ स्वानंशान् यदि दद्युस्ते विक्रीणीयुरथापि वा । कुर्युर्यथेयं तत्सर्वमीशते स्वधनस्य ते ॥ ४२ औरसः क्षेत्रजचैव पुत्रिकापुत्र एव च । कानीनश्च सहोदश्च गूढोत्पन्नस्तथैव च ॥ ४३ पौनर्भवोऽपविद्धच लब्धः क्रीतस्तथा कृतः । स्वयं चौपगतः पुत्रो द्वादशैत उदाहृताः ॥ ४४ तेषु गड् बन्धुदायादाः षडदायादबान्धवाः । पूर्वः पूर्वः स्मृतः श्रेष्ठो जघन्यो यो य उत्तरः ॥४५ क्रमादेते प्रपद्येरन् मृते पितरि तद्धनम् ।
ज्यायसो ज्यायसोभावे जघन्यस्तदवाप्नुयात् ॥४६ पुत्राभावे तु दुहिता तुल्य सन्तानदर्शनात् । पुत्रश्च दुहिता चौक्तौ पितुः सन्तानकारकौ ॥४७ अभावे दुहितृणां तु सकुल्या बान्धवास्तथा । ततः सजात्याः सर्वेषामभावे राजगामि तत् ॥४८ अन्यत्तु ब्राह्मणात् तत्तु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥४६
इति दायविभागस्त्रयोदशं विवादपदम् ॥साहसं चतुर्दशं विवादपदम् ।
[[३१३]]
अथ साहसं चतुर्दशं विवादपदम् ।
सहमा क्रियते कर्म यत्किचिद् बलदर्पितैः । तत् साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥ १ तत् पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥२ फलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेप मर्दाद्यैः प्रथमं साहसं स्मृतम् ॥३ वास. पवन्नपानानां गृहोपकरस्य च । एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥४ व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम् । प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम् ॥५ तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः । मध्यमस्य तु शास्त्रज्ञौदष्टः पञ्चशतावरः ॥६ वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कते । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे ॥७ अविशेषेण सर्वेषामेष दण्डविधिः स्मृतः । वधाते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति ॥८ शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् । ललाटे चाभिशस्ताङ्को निर्माण गर्दभेन च ॥६
[[३१४]]
नारदीयमनुस्मृतिः ।
स्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः । धृतदण्डोऽप्यसंभोज्यो शेय उत्तमसाहसे ॥१० तस्यैव भेदः स्तेयं तु विशेषस्तत्र चोच्यते । आधेः साहसमाक्रम्य स्तेयमाधिच्छलेन तु ॥ ११ तदपि त्रिविधं प्रोक्तं द्रव्यापेक्षं महर्षिभिः । क्षुद्रमध्योत्तमानां तु द्रव्याणामपकर्षणात् ॥१२ मृद्भाण्डासनखट्वा स्थिदामचर्मतृणादि यत् । फलं चान्यकृतान्नं च क्षुद्रद्रव्यमुदाहृतम् ॥१३ वासः कौशेयवर्जं यद् गोवर्जं पशवस्तथा । हिरण्यवजं लोहं च मध्यं व्रीहियवा अपि ॥ १४ हिरण्यरत्नकौशेयस्त्रीपुङ्गोगजवाजिनाम् । देवब्राह्मणराज्ञां च द्रव्यं विशेयमुत्तमम् ॥१५ उपायविविधैरेषां छलयित्वापकर्षणम् ।
सुप्रमत्तप्रमत्तभ्यः स्तेयमाहुर्मनीषिणः ॥ १६
सहोदग्रहणात् स्तेयं होढऽसत्यतिभोगतः । शङ्कात्व सज्जनेकार्थ्यादनायव्य यतस्तथा ॥ १७ भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम । शक्तौ च य उपेक्षन्ते तेऽपि तद्दोपभागिनः ॥ १८ उत्क्रोशतां जनानां च ह्रियमाणे धनेऽपि च । श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोपभागिनः ॥ १६ साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्यनुक्रमात् ॥२०
साहसं चतुर्दशं विवादपदम् ।
गवादिषु प्रनष्टेषु द्रव्येष्वपतेपु वा ।
[[३१५]]
पदेनान्वेषणं कुर्युरामूलात् तद्विदो जनाः ॥ २४ ग्रामे व्रजं विवीते वा यत्र सन्निपतेत् पदम् । वोढव्यं तद् भवेत् तेन नचत् सोऽन्यत्र तन्नयेत् ॥ २२ पदे प्रमूढे भग्ने वा विषमत्वाज्जनान्तिके । यस्त्वासन्नतरो ग्रामो व्रजो वा तत्र पातयेत् ॥२३ समेऽध्वनि द्वयोर्यत्र स्तेयप्रायोऽशुचिर्जनः । पूर्वापदानेदृष्टो वा संसृष्टो वा दुरात्मभिः ॥ २४ ग्रामेष्वन्वेषणं कुर्यश्चण्डालववकादयः ।
रात्रि सञ्चारिणो ये च बहिष्कुर्युर्बहिश्चराः ॥ २५ म्तेनेष्वलभ्यमानेषु राजा दद्यात् स्वकाद् धनात् । उपेक्षमाणो ह्येनस्वी धर्मादर्थाच हीयते ॥ २६
इति साहसं चतुर्दशं विवादपदम् ॥
:४६ः-
अथ वाग्दण्डपारुष्यं पञ्चदशं ( षोडशं च) विवादपदम् ।
देशजातिकुलादीनामाक्रोशन्यङ्गसंहितम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥१ निष्ठुराली तीव्रत्वात् तदपि त्रिविधं स्मृतम् । गौरवानुक्रमादस्य दण्डोऽपि त्रिविधः स्मृतः ॥ २
[[३१६]]
नारदीयमनुस्मृतिः ।
साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपक्रोशैस्तीक्रमाहुर्मनीषिणः ॥ ३ परगात्रेष्वभिद्रोहो हस्तापादायुधादिभिः । भस्मादिभिवोपघातो दण्डपारुष्यमुच्यते ॥४ तत्रापि त्रैविध्यं मृदुमध्योत्तमक्रमात् । अवगूरणनिस्सङ्गपातनक्षतदर्शनैः ॥५
हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् । त्रीण्येव साहसान्याहुः प्रोक्तं कण्टकशोधनम् ॥६ विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । विशुद्धिर्दण्डभाक्त्वं च तत्र सम्बध्यते यथा ॥ ७ पारुष्ये सति संरम्भादुत्पन्ने क्षुब्धयोर्द्वयोः । स मान्यते यः क्षमते दण्डभाग् योऽतिवर्तते ॥८ पारुष्यदोषधुतयोर्युगपत् सम्प्रवृत्तयोः ।
विशेषश्चेन्न दृश्येत विनयः स्यात् समस्तयोः ॥६ पूर्वमाक्षारयेद्यस्तु नियतं स्यात् स दोषभाक् । पश्चाद् यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः ॥ १० द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः ।
स तयोर्दण्डमाप्नोति पूर्वो वा यदि वेतरः ॥ ११ यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु ।
स एव विनयं कुर्यान्न तद्विनयभाङ नृपः ॥१२ मला ह्येते मनुष्येषु धनमेषां मलात्मकम् ।
अतस्तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥१३
वाग्दण्डपारुष्यं पञ्चदशं षोडशं च विवादपदम् । ३१७ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽभ्यधं शतं द्वे वा शूद्रस्तु वधमर्हति ॥ १४ विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने । वैश्यं चैवार्धपञ्चाशच्छूद्रं द्वादशको दमः ॥१५ समवर्णद्विजादीनां द्वादशैव व्यतिक्रमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥१६ काणं वा यदि वा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणात् परम् ॥१७ न किल्बिषेणापवदेच्छास्त्रतः कृतपावनम् ।
न राज्ञा धृतदण्डं च दण्डयेत् तद्यतिक्रमे ॥ १८ लोकेऽस्मिन् द्वाववक्तव्यावदण्ड्यौ च प्रकीर्तितौ । ब्राह्मणश्चैव राजा च तौ हीदं बिभृतो जगत् ॥ १६ पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः । वचनात् तुल्यदोषः स्यान्मिथ्या द्विर्दोषभाग् भवेत् ॥ २० नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः ।
निखेयोऽयोमयः शङ्कुः शूद्रस्याष्टादशाङ्गुलः ॥२१ धर्मोपदेशं दर्पेण द्विजानामस्य कुर्वतः ।
तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ २२
येनाङ्गनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।
तदङ्गमेवच्छेत्तव्यमेवं शुद्धिमवाप्नुयात् ॥२३
सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
कटिदेशेऽङ्कय निर्वास्यः स्फिग्देशं वास्य कर्तयेत् ॥२४
[[३१८]]
नारदीयमनुस्मृतिः ।
अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छंदयेन्नृपः । अवमूत्रयतः शिश्नमवशर्धयतो गुदम् ॥२५ केशेषु गृहतो हस्तौ छेदयेदविचारयन् । पादयोर्नासिकायां वा ग्रीवायां वृषणेषु च ॥ २६ उपाक्रुश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् । जिह्वाच्छेदाद्भवेच्छुद्धिः सर्वस्वहरणेन वा ॥२७ राजनि प्रहरेद् यस्तु कृतागस्यपि दुर्मतिः । शूले तमनौ विपचंद् ब्रह्महत्याशताधिकम् ॥२८ पुत्रापराधे न पिता न ववाञ् शुनि दण्डभाक् । न मर्कटे च तत्स्वामी तेरेव प्रहितो न चेत् ॥ २६
इति वाग्दण्डपारुष्यं पञ्चदशं (पोडशं) च विवादपदम् ॥
अथ द्यूतसमाह्वयं सप्तदशं विवादपदम् ।
अक्षवर्भ शलाकाद्यैर्देवनं जिह्मकारितम् ।
पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम् ॥१ सभिकः कारयेद् द्यूतं दद्याद् देयं च तत्कृतम् । दशकं तु शताद् वृद्धिस्तस्य स्याद् द्यूतकारिता ॥२ द्विरभ्यस्ताः पतन्त्यक्षा गेहे यस्याक्षदेविनः । जयं तस्यापरस्याहुः कितवस्य पराजयम् ॥३
प्रकीर्णकमप्रादशं विवादपदम् ।
कितवेष्वेव तिष्ठेयुः कितवाः संशयं प्रति ।
त एव तस्य द्रष्टारः स्युस्त एव च साक्षिणः ॥४ अशुद्ध कितवो नान्यमाश्रयेद् द्यूतमण्डलम् । प्रतिहन्यान्न सभिको दापयन्तं स्वमितः ॥५ कूटाक्षदेविनः पापान निर्भजेद् द्यूतमण्डलात् । कण्ठेऽक्ष मालामासज्ज्य स ह्येषां विनयः स्मृतः ॥६
इति द्यूतसमाह्वयाख्यं सप्तदशं विवादपदम् ॥
[[३१६]]
अथ प्रकीर्णकमष्टादशं विवादपदम् ।
प्रकीर्ण के पुनर्ज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥ १ पुरप्रधान सम्भेदः प्रकृतीनां तथैव च । पाषण्डनैगमश्रेणिगण धर्मविपर्ययाः ॥ २ पितृपुत्र विवादश्च प्रायश्चित्तव्यतिक्रमः । प्रतिप्रहविलोपश्च कोप आश्रमिणामपि ॥ ३ वर्णसङ्करदोषश्च तद्वत्ति नियमस्तथा ।
न दृष्टं यच पूर्वेषु तत्सर्वं स्यात् प्रकीर्णके ॥४ राजा त्यवहितः सर्वानाश्रमान् परिपालयेत् । उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतैस्तथा ॥५
[[३२०]]
नारदोयमनुस्मृतिः ।
यो यो वर्णोऽपहीयेत यो वोद्रेकमनुव्रजेत् ।
तं तं दृष्ट्रा स्वतो मार्गात् प्रच्युतं स्थापयेत् पथि ॥६ अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्येषु पातयेत् ॥७ श्रुतिस्मृतिविरुद्ध च जनानामहितं च यत् ।
न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ॥८ न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत् । तदप्यन्यायविहितं पुनन्यये निवेशयेत् ॥ राज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् । नद्यः स पापो वव्यश्च लोपयन् राजशासनम् ॥१० आयुधान्यायुवीयानां वाह्यादीन् वाह्यजीविनाम् । वैशस्त्रीणामलङ्कारान् वाद्यातोद्यानि तद्विदाम् ॥११
यत्र यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतान् न राजा हर्तुमर्हति ॥ १२ अनादिश्वाप्यनन्तश्च द्विपदां पृथिवीपतिः । दीप्तिमत्वाच्छुचित्वाच यदि स्यान्न पथश्च्युतः ॥ १३ यदि राजा न सर्वेषां नियतं दण्डधारणम् । कुर्यात् पथो व्यपेतानां विनश्येयुरिमाः प्रजाः ॥१४ ब्राह्मण्यं ब्राह्मो हन्यात् क्षत्रियः क्षात्रमुत्सृजेत् । स्वकर्म जह्याद् वैश्यश्च शूद्रः सर्वान् विशेषयेत् ॥१५ राजान ( चं ? श्वे) न्नाभविष्यन् पृथिव्यां दण्डधारणे । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ १६
प्रकीर्णकमष्टादशं विवादपदम् ।
सतामनुग्रहो नित्यमसतां निग्रहस्तथा ।
३२.१
एष धर्मः स्मृतो राज्ञामर्थश्वापीडयन् प्रजाः ॥ १७ न लिप्यते यथा वह्निर्दहच्छश्रदिमाः प्रजाः । तथा न लिप्यते राजा दण्डं दण्ड्यषु पातयन् ॥१८ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । ते यद् ब्रूयुरसत सद्वा स धर्मो व्यवहारिणाम् ॥१६ राजा नाम चरत्येष भूमौ साक्षात् सहस्रदृक् । न तस्याज्ञां व्यतिक्रम्य सन्तिष्ठेरन् प्रजाः कचित् ॥ २० रक्षाधिकारादीशत्वाद् भूतानुग्रह दर्शनात् ।
यदेव कुरुते राजा तत् प्रमाणमिति स्थितिः ॥२१ विगुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा । प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः ॥२२ तपः क्रीताः प्रजा राज्ञा प्रभुरासीत् ततो नृपः । तस्मात तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥२३ पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥२४ कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः । प्रजा दहति भूपालस्तदाभिरभिधीयते ॥२-५ यदा तेजः समालम्व्य बिजिगीपुरुदायुधः । अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥२६ विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः । प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥२७
[[२१]]
[[३२२]]
नारदीय मनुस्मृतिः ।
धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः । समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥२८ यदातिथिगुरुप्राज्ञान् भृत्यादी नवनीपतिः । अनुगृहाति दानेन तदा स धनदः स्मृतः ॥ २६ तस्मात् तं नावजानीयान्नाक्रोशेन्न विशेषयेत् । आज्ञायां चास्य तिष्ठेत मृत्युः स्यात् तद्यतिक्रम् तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । दर्शनं व्यवहाराणामात्मनश्चाभिरक्षणम् ॥३१ ब्राह्मणानुपसेवेत नित्यं राजा समाहितः । संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥३२ ब्राह्मणस्यापरीहारोऽजघन्यासनमग्रतः ।
प्रथमं दर्शनं प्रातः सर्वेषां चाभिवादनम् ॥३३ अयं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः । मैनहेतोः परागारे प्रवेशचा निवारितः ॥ ३४ समित्पुष्पोद का दानेष्वस्तेयं सपरिग्रहात् । अनाक्षेपः परेभ्यश्च सम्भाषश्च परस्त्रिया ॥ ३५ नदीध्ववेतनस्तारः पूर्वमुत्तरणं तथा ।
करेष्वशुल्कदानं च नचेद् वाणिज्यमस्य तत् ॥ वर्तमानोऽध्वनि श्रान्तो गृहनेकाशनः स्वयम् । ब्राह्मणो नापराध्नोति द्वाविक्षू पञ्च मूलिकान् । नाभिशस्तान्न पतितान्न द्विषो न च नास्तिकात् न सोपधान्नानिमित्तं न दातारं प्रपीड्य च ॥३प्रकीर्णकमष्टादशं विवादपदम् ।
अर्थानां भूरिभावाच्च देयत्वाच्च महात्मनाम् । श्रेयान् प्रतिग्रहो राज्ञामन्येभ्यो ब्राह्मणादृते ॥ ३६ ब्राह्मगश्चैव राजा च द्वावप्येतौ धृतव्रतौ । नैतयोरन्तरं किञ्चित् प्रजाधर्माभिरक्षणात् ॥४० धर्मज्ञस्य कृतज्ञस्य रक्षार्थ शासतोऽशुचीन् । मेध्यमेव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः ॥ ४१ शुचीनामशुचीनां च सन्निपातो यथाम्भसाम् । स तत्र समतां याति तद्वद् राज्ञां धनागमः ॥४२ यदा चानौ स्थितं दते शुद्धिमाप्नोति काञ्चनम् । एवमेवागमाः सर्वे शुद्धिमायान्ति राजसु ॥४३ यदा च कश्चित् स्वं द्रव्यं ब्राह्मणेभ्यः प्रयच्छति । तद् राज्ञाप्यनुमन्तव्यमेष धर्मः सनातनः ॥ ४४ अन्यत्र कारादुचिताद् भूमेः षड्भागसंज्ञितात् । बलिः स तस्य विहितः प्रजापालनवेतनः ॥४५ शक्यं तत् पुनरादातुं यदब्राह्मणसात्कृतम् । ब्राह्मणाय तु यद् दत्तं न तस्याहरणं पुनः ॥४६ दानमध्ययनं यज्ञः कर्मास्योक्तं त्रिलक्षणम् । याजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः ॥ ४७ स्वकर्मणि द्विजस्तिष्ठन् वृत्तिमाहारयेत् कृताम् । नासद्भयः प्रतिगृह्णीयाद् वर्णेभ्यो नियमे सति ॥ ४८ अशुचिर्वचनाद यस्य शुचिर्भवति पूरुषः । शुचिश्चैवाशुचिः सद्यः कथं राजा न देवतम् ॥४६
[[३२३]]
[[३२४]]
नारदीय मनुस्मृतिः ।
विदुर्यस्यैव देवत्वं राज्ञो ह्यमिततेजसः ।
- तस्य हि प्रतिगृह्णन्तो न लिप्यन्ते कदाचन ॥५० लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौहुताशनः । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥५१ एतानि सततं पश्येन्नमस्येदचयेच तान् । प्रदक्षिणं च कुर्वीत तथाद्यायुर्न हीयते ॥ ५२ द्विविधास्तस्करा ज्ञेयाः परद्रव्यापहारिणः ।
प्रकाशाश्चाप्रकाशाश्च तान विद्यादात्मवान नृपः ॥५३
प्रकाशवञ्चकास्तत्र कूटमानतुलाश्रिताः ।
उत्कोदकाः सोपधिकाः कितवाः पण्ययोषितः ॥५४
प्रतिरूपकराश्चैव मङ्गलादेशबृत्तयः ।
इत्येवमादयो ज्ञेयाः प्रकाशा लोकवश्वकाः ॥ ५५ अप्रकाशास्तु विज्ञेया बहिरभ्यन्तराश्रिताः ।
सुमान् मत्तान् प्रमत्तांश्च मुष्णन्त्याक्रम्य चैव ये ॥ ५६ देशग्रामगृहाच पथिघ्ना ग्रन्थिमोचकाः । इत्येवमादयो ज्ञेया अप्रकाशांस्तु तस्कराः ॥ ५७ तान् विदित्वा सुनिपुणैश्चोरैस्तत्कर्मकारिभिः । अनुसृत्य ग्रहीतव्या गूढैः प्रणिहितैर्नरैः ॥५८ सभाप्रपापूपशालावेशमद्यान्नविक्रयाः । चतुष्पथाश्चैत्यवृक्षाः समाजप्रेक्षणानि च ॥ ५६ शून्यागाराण्यरण्यानि देवतायतनानि च । चारैविचयान्येतानि चोरग्रहणतत्परैः ॥६०
प्रकीर्णकमष्टादशं विवादपदम् ।
[[३२५]]
तथैवान्ये प्रणिहिताः श्रद्धयाश्वित्रवादिनः । चोरा ह्युत्साहयेयुस्तांस्तस्करा (न्) पूर्वतस्कराः ॥ ६१ अन्नपानमहादानैः समाजोत्सवदर्शनः । तथा चौर्यापदेशश्च कुर्युस्तेषां प्रसर्पणम् ॥६२ ये तत्र नोपसर्पन्ति सृताः प्रणिहिता अपि । तेऽभिसृत्य ग्रहीतव्याः सपुत्रपशुबान्धवाः ॥ ६३ अचोरा अपि दृश्यन्ते चोरैः सह समागताः । यादृच्छिकान् नैव तु तान् राजा दण्डेन शासयेत् ॥६४ यांस्तत्र चोरान् गृह्णीयात् तानाताड्य निबध्य च । अवघुष्य च सर्वत्र वध्याश्चित्रवधेन ते ॥६५ लोप्त्रादिरहिताश्वोरा राज्ञावध्या ह्यनागमम् । सहोदान सोपकरणांश्चोरान क्षिप्रं विवासयेत् ॥ ६६ स्वदेशघातिनो ये स्युस्तथा मार्गोपरोधिनः । तेषां सर्वस्वमादाय भूयो निन्दां प्रवर्तयेत् ॥ ६७ सहोदान् विमृशेोरान् गृहीत्वा परिशङ्कया । भयोपधाभिश्चित्राभिर्ब्रयः सत्यं यथा हि ते ॥ ६८ देशं कालं तथा जातिं नाम रूपं प्रतिश्रयम् । कृत्यं कर्म सहायाश्च प्रष्टव्याः स्युनिंगृह्य ते ॥ ६६ वर्णस्वराकारभेदात ससन्दिग्धनिवेदनात् । अदेशकालदृछ्रुत्वाद् वासस्यस्य विशोधनात् ॥७० असव्यात् पूर्वचौर्यादसत्संसर्गकारणात् । लेशैरप्यवगन्तव्था व झेनैव केवलम् ॥७१
[[३२६]]
नारदीयमनुस्मृतिः ।
दस्युवृत्तं यदि नरे शङ्का स्यात् तस्करो न वा । यदि स्पृश्येत लेशेन कार्यः स्याच्छपथं नरः ॥ (
७२ चोराणां भक्तदा ये स्युस्तथाप्युदकदायकाः । आवासदा देशिकदास्तथैवान्तरदायकाः ॥७३ क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च । समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान् ॥७४ राष्ट्रपु राष्ट्राधिकृताः सामन्ताश्चैव चोदिताः । अभ्याघातेषु विज्ञेया यथा चोरास्तथैव ते ।७५ गोचरे यस्य मुषितं तेन चोरः प्रयत्नतः । गृह्य दाप्योऽन्यथा मोपं पदं यदि न निगतम् ॥७६ निर्गते तु पढ़े तस्मान्नऽन्यत्र निपातिते । सामन्तान मार्गपालाश्च दिम्पालांश्चैव दापयेत् ॥७७ गृहे तु मुषिते राजा दापयेद् दण्डवासिकान् । आरक्षिक’ र बाहिकांश्च यदि चोरो न लभ्यते ॥७८ यदि वा दाप्यमानानां तस्मिन् मोपं ससंशये । मुषितः शपथं कार्यो मो(षं ? ) वैशोध्यकारणात ॥७६ अचोरे दापिते मोषे चोरान्वेषणकारणात् । उपलब्धे लभेरंस्ते द्विगुणं तत्र दापितात् ॥८० चोरैर्हृतं प्रयत्नेन सरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्याद् दण्डं दाप्यश्च तत्समम ॥ ८१ काष्ठकाण्डतृणादीनां मृन्मयानां तथैव च ।
शाकाहरितमूलानां हरणे फलपुष्पयोः ॥८२
प्रकीर्णकमष्टादशं विवादपदम् ।
[[३२७]]
गोरसेक्षुविकाराणां तथा लवणतैलयोः ।
पक्कान्नानां कृतान्नानां मद्यानामामिषस्य च ॥ ८३
सर्वेषामल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ।
तुलाधारिममेयानां गणिमानां च सर्वशः ॥८४
एभ्यस्तुत्कृष्टमूल्यानां मूल्याद् दशगुणो दमः । धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ॥८५ घृते त्वेकादशगुणं दण्डं दाप्योऽब्रवीन्मनुः । हिरण्यरजतादीनामुत्तमानां च वाससाम् ॥८६ रत्नानां चैव मुख्यानां शतादभ्यधिके वधः । पुरुषं हरतो वासो दण्डस्तूत्तमसाहसः ॥ ८७ सर्वस्वं स्त्रीं तु कन्यां तु हरतो वध एव च । चतुर्विंशा ( त प ? वरः पूर्वः परः पण्णवतिर्भवेत् ॥८८ शतानि पञ्च तु वरो मध्यमो द्विशतावरः । सहस्रं तूत्तमो ज्ञेयः परः पञ्चशतावरः ॥ ८६ त्रिविधः साहसेष्वेवं दण्ड उक्तः स्वयम्भुवा । प्रथमे ग्रन्थिभेदानामङ्गुल्यङ्गुष्ठयोर्वधः ॥ ६० द्वितीयं चैव यच्छेषं दण्डः पूर्वश्व साहसः । गोषु ब्राह्मणसंस्थासु स्थूरायाश्छेदनं भवेत् ॥ ६१ दासीं तु हरतो नित्यमर्धपादावकर्तनम् । येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥२
[[३२८]]
नारदोयमनुस्मृतिः ।
गरीयसि गरीयांसमगरीयसि वा पुनः । स्तेने निपातयेद् दण्डं न यथा प्रथमे तथा ॥ ६३ दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु तानि स्युरक्षतो ब्राह्मणो ब्रजेत् ॥६४ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च स्तनौ दहस्तथैव च ॥ ६५ अपराधं परिज्ञाय देशकालौ च तत्त्वतः । सारानुवन्धावालोच्य दण्डं दण्डयेषु पातयेत् ॥ ६६ न मित्रकारणाद् राज्ञो विपुलाद् वा धनागमात् । उत्स्रष्टव्याः साहसिकास्तस्करा लोकवञ्चकाः ॥६७ यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणं । भवत्यधर्मो नृपतेर्धर्मरतु विनियच्छतः ॥ ६८ न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् । निर्वासं कारयेत् कामं समग्रधनमक्षतम् ॥६६ सर्व वापि हरेद् राजा चतुर्थ वावशेषयेत् । विप्रेभ्योऽनुस्मरन धर्म प्राजापत्यमिति स्थितिः ॥ १०० ब्राह्मणम्यापराधेषु चतुर्ष्वङ्को विधीयते ।
गुरुतल्पे सुरापाने स्तेय ब्राह्मणहिंसने ॥ १०१ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेयं तु श्वपदं कृत्वा शिखिपित्तंन पूरयेत् ॥१०२ विशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः । असम्भाष्यश्च कर्तव्यस्त मनोरनुशासनम् ॥ १०३
प्रकीर्णकमष्टादश विवादपदम् ।
[[३२६]]
राजा स्तेनेन गन्कयो मुक्तकेशेन धीमता । आचक्षाणेन तत् स्तेयमेवकर्मास्मि शाधि माम् ॥१०४ अनेना भवति स्तेनः स्वकर्मप्रतिवेदनात् ।
राजानं तत् स्पृशेदेन उत्सृजन्तं सकिल्बिषम् ॥ १०५ राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ १०६ शासनाद् वापि मोक्षाद् वा स्तेनो मुच्येत किल्विषात् । अशासत् तमसौ राजा स्तेनस्याप्नोति किल्विषम् ॥१०७ गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ १०८ अष्टापाद्यं तु शूद्रस्य स्तेयं भवति किल्बिपम् । व्यष्टापाद्यं तु वैश्यस्य द्वात्रिंशत क्षत्रियस्य तु ॥ १०६ ब्राह्मणस्य चतुष्षष्टिं मनुः स्वायम्भुवोऽब्रवीत् ॥११० शारीरश्चार्थदण्डश्च दण्डस्तु द्विविधः स्मृतः । शारीरो द्विविधः प्रोक्तो ह्यर्थदण्डस्त्वनेकधा ॥ १११ काकण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ।
शारीरस्त्ववरोधादिजीवितान्तस्तथा स्मृतः ॥ ११२
काकण्यादिस्तु यो दण्डः स तु माषपरः स्मृतः । ( कर्षा ? माषा) परार्धो यः प्रोक्तः कर्षापणपरस्तु सः ॥११३ कार्षापणापरार्ध चतुष्कार्षापणान्तरः ।
व्यवरोपरचान्वश्यवरो द्वादशोत्तरः ॥ ११४
[[३३०]]
नारदीयमनुस्मृतिः ।
कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युचतुर्गुणाः । एवमन्येऽपि बोद्धव्याः प्राक् च ते पूर्वसाहसात् ॥ १ कार्षापणो दक्षिणस्यां दिशि रूढः प्रवर्तते । पणैर्निबद्धः पूर्वस्यां पोडशैव पणाः स तु ॥ ११६ पञ्चनद्याः प्रदेशे तु या संज्ञा व्यावहारिकी । कार्षापणप्रमाणं तु निबद्धमिह वै तथा ॥ ११७ कार्षापणोऽब्धिका ज्ञेयश्वत (स्रो व ? त्रस्ता ) स्तु धानकः ते द्वादश सुवर्ण स्याद् दीना ( रा ? २)श्चित्रकः स्मृतः ॥११ वार्ता त्रयीमप्यथ दण्डनीतिं राजानुवर्तेत सदाप्रमत्तः हन्यादुपायैर्विविधैर्गृहीत्वा पुरे च राष्ट्र े च विघुष्य चोरा
इति प्रकीर्णकमष्टादशं विवादपदम् ॥
अथ दिव्यप्रकरणम् ।
संशयस्थास्तु ये केचिन्महापातकिनश्च ये । अभिशस्ताः परैश्चापि ते शोध्याः संशयैरिह ॥१
घटोऽग्निरुदकं चैव विपं कोशश्च पञ्चमः । पञ्चैतान्याह दिव्यानि दूषितानां विशोधने ॥२ सन्दिग्धेऽर्थेभिशस्तानां परीक्षार्थं महात्मना ।
नारदेन पुरा प्रोक्ताः सत्यानृतविभाजिकाः ॥३
दिव्यप्रकरणम् ।
कारयेत चतुर्हस्तां समां लक्षणलक्षिताम् ।
तुला काष्ठमयीं राजा शिक्यप्रान्तावलम्बिनीम् ॥४ दक्षिणोत्तरसंस्थानावुभावेकत्र सङ्गतौ ।
[[३३]]
स्तम्भौ कृत्वा समे देशे तयोः संस्थापयेत तुलाम ॥५ आयसेन तु पाशेन मध्ये संगृह्य धर्मवित । योजयेत सुसंयत्तां तुलां प्रागपरायताम् ॥६ वादिनोऽनुमतेनैनां कारयेन्नान्यथा नृपः । तोलयित्वान्तरं पूर्व चिह्न कृत्वा घटस्य तु ॥ ७ तुलितो यदि वर्धेत स विशुद्धो हि धर्मतः । समो वा हीयमानो वा न विशुद्धो भवेन्नरः ॥८ धर्मपर्यायवचनैर्घट इत्यभिधीयते ।
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ॥ त्वमेव देव ! जानीषं न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ १० तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ।
अतः परं प्रवक्ष्यामि लोहस्य विधिमुत्तमम । द्वात्रिंशदङ्गुलाख्यं तु मण्डलान्मण्डलान्तरम् ॥११ मण्डलस्य प्रमाणं तु कुर्यात् तद्घटसम्मितम् । अष्टाभिर्मण्लैरेवमङ्गुलानां शतद्वयम् ॥१२ चतुर्विंशत् समाख्यातं भूमेस्तु परिकल्पनम् । मण्डलैस्तु ततः क्लृप्तैः सोपवासः शुचिर्नरः ॥ १३
३३२.
नारदीक मनुस्मृतिः ।
।
सवासाजलमालुत्य त्यार्द्रकेशः समाहितः । समात्थस्य पत्राणि तथा सौत्राणि तन्ववः (१) ॥१४ हुताशत लोहस्य पञ्चाशत्पलिकं समम् । हस्ताभ्यां पिण्डमादाय ब्रजेत् सप्त शनैः शनैः ॥ १५ न मण्डलमतिक्रामेनाप्यर्वाक् स्थापयेत् पदम् । न पातयेत तामप्राप्तो यावद् भूः परिकल्पित्ता ॥१६ भयात् पातयते यस्तु दुग्धो वा न विभाव्यते । पुनस्तं हारयेल्लोहं स्थितिरेवं दृढीकृता ॥ १७ तीत्वनेन विधानेन मण्डलानि कृतानि तु । न दग्धः सर्वथा यस्तु स विशुद्धो भवेदिह ॥१८ अनेन विधिना कार्यो हुताशसमयः सदा । त्वमेव सर्वभूतानामन्तश्चरसि नित्यशः ॥ १६ प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च । त्वमेव देव ! जानिषे न विदुर्यानि मानवाः ॥२० व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयारूढं धर्मतलातुमर्हसि ॥२१ अत परं प्रवक्ष्यामि पानीयविधिमुत्तमम् । नातिक्रूरेण धनुषा प्रेरयित्वा शरत्र्यम् ॥२२ पानीये मज्जये (रं ? दूय) स्तु शङ्कायां प्रतिवर्तते । मध्यमस्तु शरो यः स्यात् पुरुषेण बलीयसा ॥ २.३ प्रत्यानीते तु तेनाथ तस्य शुद्धिर्भविष्यति ॥ २४दिव्यप्रकरणम् ।
स्त्रियस्तु न बलात्कार्या न पुमांसोऽतिदुर्बलाः । भीरुत्वाद योषितो मृत्युर्निरुत्साहतया कृशः ॥ २५ वारिमध्ये मनुष्यस्य (स्व) अङ्गं यदि न दृश्यते । अतोऽन्यथा न शुद्धः स्यादेकाङ्गमपि दर्शयन २६ स्थानादन्यत्र वा गच्छन् यस्मिन् पूर्वं निवेशितः । तोयमध्ये मनुष्यस्य गृहीत्वोरु सुसंयतः ॥२७ लग्नस्तु निश्चलस्तिष्ठेद् यावत् प्राप्तस्तु सायकः । ( प्राप्तं तु सायकं दृष्ट्रा जलादुत्थाय प्राङ्मुखम् ?) । आनीतं तु शरं दृष्ट्रा जलादुत्थाय प्राङ्मुखः । प्रणिपत्य नृपं गच्छेत् सर्वाश्चैव सभासदः ॥२८ त्वमम्भः ! सर्वभूतानामन्तश्चरसि नित्यशः । प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ॥ २६ त्वमेव देव ! जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुपः शुद्धिमिच्छति ॥३० तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥३१ अतः परं प्रवक्ष्यामि विषस्य विधिमुत्तमम् । अपराह्णे न मध्याह्न न सन्ध्यायां तु धर्मवित् ॥ ३२ शरद्ग्रीष्मवसन्तेषु वर्षासु च विवर्जयेत् ।
भग्नं च वारितं चैव धूपितं मिश्रितं तथा । कालकूट मलं चैव विपं यत्नेन वर्जयेत् ॥ ३३ शार्ङ्ग हैमवतं शस्तं रूपवर्णरसान्त्रितम् । महादोषवते दद्याद् राजा तत्त्वबुभुत्सया ॥ ३४
[[३३३]]
[[३३४]]
नारदीयमनुस्मृतिः ।
न वृद्धातुरबालेषु नच स्वल्पापराधिषु ॥३५
विपयस्य पलषड्भा (गं ? गो) भागो विंशतिम (स्य तत् ? स्तु यः) तदष्टभागशुद्ध तु शो (ध्य ? ध्ये) दद्याद् घृताप्लुतम् ॥३६ यथोक्तेन विधानेन विद्वान् स्पृष्टानुमोदितः । सोपवासस्तु खादेत देवब्राह्मणसन्निधौ ॥३७ विषवेगक्रमापेतं सुखेन यदि जीवति ।
,
विशुद्धमिति तं ज्ञात्वा राजा सत्कृय मोक्षयेत् ॥३८ अतः परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् । मध्याह्न सोपवासस्य स्नातस्यादम्बरस्य च ॥३६ न शूद्रस्याव्यसनिनः कोशपानं विधीयते । यद्भक्तः सोऽभियुक्तः स्यात् तद्दवत्यं तु प्राङ्मुखः ॥४० प्रत्युच्चार्य ततोर्ध्वास्यं पाययेत् प्रसृतित्रयम् । द्विसप्ताहान्तरात् तस्य त्रिसप्ताहेन वा शुभः ॥ ४१ प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना । ऊर्ध्वं त्रिसप्तदिवसाद् वैकृतं सुमहद् यदि ॥४२ नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् । महापराधे निर्दोष कृतघ्ने कीबकुत्सिते । नास्तिक नात्यबालेषु कोशपानं विवर्जितम् ॥४३ चराचरस्य जगतो जलेश ! प्राणधारणम् । मानुषोऽयं त्वया देव ! धर्मतः शुद्धिमिच्छति ॥४४ अद्भयश्चाग्निरभूत् यस्मादतस्तोये विशेषतः ।
तस्मात् सत्येन भगवञ्जलेश त्रातुमर्हसि ॥४५
दिव्यप्रकरणम् ।
यथोक्तेन विधानेन पञ्च दिव्यानि धर्मवित् ।
ददद् राजाभिशस्तेभ्यः प्रेत्य चेह च नन्दति ॥४६
इति पञ्च दिव्यानि ॥
::
समाप्तैषा नारदीयमनुस्मृतिः ॥
-::-
[[३३५]]
॥ अथ ॥