मनुस्मृतिः

प्रथमोऽध्यायः ।

मनुमेकाग्रमासीनमभिगम्य महर्षयः ।

प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १ भगवन् सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥ २ त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥ ३ स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः ।

प्रत्युवाचार्च्य तान् सर्वान् महर्षीन् श्रूयतामिति ॥ ४ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ ५ ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ ६ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥ ७ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत ॥ ८

मनुस्मृतिः ।

तदण्डमभवद्धं मं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलेोकपितामहः ॥ ६ आपो नरा इति प्रोका आपो वै नरसूतवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १० यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृः स पुरुषो लोके ब्रह्म ेति कीर्त्यते ॥ ११ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्विधा ॥ १२ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे । मध्ये व्योम दिशश्वाष्टावपां स्थानं च शाश्वतम् ॥ १३ उद्वबर्हात्मनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥ १४ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां प्रहोत्रीणि शनैः पञ्चेन्द्रियाणि च ॥ १५ तेषां त्ववयवानसूक्ष्मान् षण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १६ यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । तरमाच्छरीरमित्याहुत्वस्य मूर्त्ति मनीषिणः ॥ १७ तदाविशन्ति भूतानि महान्ति सह कर्मभिः 1 मनश्चावयवैः सूक्ष्मः सर्वभूतकृदव्ययम् ॥ १८

तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम् ॥ १६

[ प्रथमोmy

ऽध्यायः ]

सृष्ट्य त्पत्तिवर्णनम् ।

आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः ।

यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥२० सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवाद पृथक् संस्थाच निर्ममे ॥ २१ कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । माध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ २२ अनिवायुरविभ्यस्तु त्र्यं ब्रह्म सनातनम् । दुदोह यज्ञसिद्धयर्थमृग्यजुः मामलक्षणम् ॥ २३ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागराउँलान् समानि विषमाणि च ॥ २४ तपो वाचं रतिञ्चैव कामं च क्रोधमेव च । सृष्टि ससर्ज चैत्रमां स्रष्टुमिच्छन्निमाः प्रजाः ॥ २५ कर्मणां च विवेकाय धर्माधर्मौ व्यवेचयत् । द्वन्द्व रयोजयच्चं माः सुखदु खादिभिः प्रजाः ॥ २६ अय्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः ॥ २७

यं तु कर्मणि यस्मिन्स न्ययुक्त प्रथमं प्रभुः ।

तु

स तदेव स्वयम्भेजे सृज्यमानः पुनः पुनः ॥ २८ हिंस्राहिंस्रं मृदुक रे धर्माधर्मावृतानृते ।

यद्यस्य सोऽद्धात्सर्गे तत्तस्य स्वयमाविशत् ॥ २६ यथर्तुलिङ्गान्यृतवः खयमेवपर्यये ।

स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥ ३०

[[४]]

मनुस्मृतिः

[ प्रथमो,

लोकानां तु विवृद्धयर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ ३१ द्विधा कृत्वाऽऽत्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥ ३२ तपस्तप्त्वाऽसृजद्यं तु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ ३३ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्वरम् । पतीन्प्रजानामसृजं महर्षीनादितो दश ॥ ३४ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वशिष्ठ च भृगु नारदमेव च ॥ ३५ एते मनूंस्तु सप्तान्यानसृजन् भूरितेजसः । देवान् देवनिकायांश्च महर्षीश्वामितौजसः ॥ ३६ यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान् सर्पान् सुपर्णाश्च पितॄणां च पृथग्गणान् ॥ ३७ विद्य ुतोऽशनिमेघांच रोहितेन्द्रधनूंषि च । उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ ३८ किन्नरान्वानरान्मत्स्यान् विविधांश्च विहङ्गमान् । पशून् मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ ३६ कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् । सर्व च दंशमशकं स्थावरं च पृथग्विधम् ॥ ४० एवमेतैरिदं सर्व मन्नियोगान्महात्मभिः ।

यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥। ४१

S

ऽध्यायः ]

सृष्ट्य् पत्तिवर्णनम् ।

येषां तु यादृशं कर्म भूतानामिह कीर्तितम् ।

तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥। ४२ पशवश्च मृगाश्चैव व्यालाश्वोभयतोदतः ।

रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥ ४३ अण्डजाः पक्षिणः सर्पा नका मत्स्याश्च कच्छपाः । यानि चैवं प्रकाराणि स्थलजान्यौदकानि च ॥ ४४ स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते यच्चान्यत्किंचिदीदृशम् ॥ ४५ उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहुपुष्पफलेोपगाः ॥ ४६ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ ४७ गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरुहाण्येव प्रताना वल्लय एव च ॥ ४८ तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।

अन्तः संज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥ ४६ एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ ५० एवं सर्व स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ ५१ यदा स देवो जागर्ति तदेदं चेष्टते जगत् ।

यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ ५२

[[६]]

मनुस्मृतिः ।

तस्मिन् स्वपति सुस्थे तु कर्मात्मानः शरीरिणः । स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३ युगपतु प्रलीयन्ते यदा तस्मिन्महात्मनि । तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ ५४ तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः । न च स्वं कुरुते कर्म तदोतक्रामति मूर्तितः ॥ ५५ यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्त्ति ं विमुञ्चति ॥ ५६ एवं स जाग्रत्स्वप्नाभ्यामिदं सर्व चराचरम् । संजीवयति चाजस्रं प्रमापयति चाव्ययः ॥ ५७ इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः । विधिवद्याहयामास मरीच्यादींस्त्वहं मुनीन् ॥ ५८ एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः । एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ ५६ ततस्तथा स तेनोक्तो महर्षिर्मनुना भृगुः । तानब्रवीदृषीन्सर्वान् प्रीतात्मा श्रूयतामिति ॥ ६० स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे । सृष्टवन्तः प्रजाः स्वा स्वा महात्मानो महौजसः ॥ ६१ स्वारोचिषश्चोत्तमश्च तामसो रवतस्तथा ।

चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ ६२ स्वायम्भुवाद्याः सप्तैते मनवो भूरितेजसः ।

स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ ६३

[ प्रथमो

अध्यायः ]

सृष्ट्य त्पत्तिवर्णनम् ।

निमेषा दश चाष्टौ च काष्ठा त्रिंशत्त ताः कला । त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥ ६४ अहोरात्रे विभजते सूर्यो मानुषदैविके ।

रात्रिः स्वप्नाय मूतानां चेष्टायै कर्म्मणामहः ॥ ६५ पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । कर्म्मचेास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ ६६ देवे रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः । अहस्तत्रोदगयनं रात्रिः स्यादक्षिणायनम् ॥ ६७ ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः । एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ ६८ चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥६६ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥७० यदेतत् परिसङ्ख्यातमादावेव चतुर्युगम् । एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥ ७१ देविकानां युगानां तु सहस्र परिसङ्ख्यया । ब्रह्ममे कम हज्ञेयं तावती रात्रिमेव च ॥७२ तद्वं युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः । रात्रिभ्य तावतीमेवं तेऽहोरात्रविदों जनाः ॥७३ तस्य सोऽहर्निशस्यान्ते प्रसुपः प्रतिबुद्धयते । प्रतिबुद्धश्ध सृजति मनः सदसदात्मकम् ॥७४

[[८]]

मनुस्मृतिः ।

मनः सृष्टि विकुरुते चोद्यमानं सिसृक्षया ।

आकाशं जायते तस्मात् तस्य शब्दं गुणं स्मृतम् ॥७५ आकाशात्त विकुर्वाणात् सर्वगन्धवहः शुचिः । बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥ ७६ वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत्तद्र पगुणमुच्यते ॥७७ ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः ।

अयो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ ७८ यत् प्राग्द्वादशसाहस्रमुदितं दैविकं युगम्। तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥७६ मन्वन्तराण्यसंख्यानि सर्गः संहार एव च । क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः ॥८० चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे । नाधर्मेणागमः कश्चिन्मनुष्यान् प्रति वर्तते ॥ ८१ इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः । चौरिकानृतमायाभिर्धर्म्मश्चापैति पादशः ॥८२ अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । कृते त्रेतादिषु ह्येषां वयोह्रसति पादशः ॥ ८३ वेदोक्तमायुर्मत्यांनामाशिषश्चैव कर्म्मणाम् । फलन्त्यनुयुगं लोके प्रभावाश्च शरीरिणाम् ॥८४

अन्ये कृतयुगे धर्मास्त्रेितायां द्वापरे परे ।

अन्ये कलियुगे नृणां युगहासानुरूपतः ॥८५

[ प्रथमो

ऽध्यायः ]

सृष्ट्य त्पत्तिवर्णनम् ।

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥८६ सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः । मुखबाहूरुपज्जानां पृथक् कम्मण्यकल्पयत् ॥ ८७ अध्यापनमध्ययनं यजनं याजनं तथा ।

दानं प्रतिग्रहञ्चैव ब्राह्मणानामकल्पयत् ॥ ८८ प्रजानां रक्षणं दानमिज्याध्ययनमेव च । विषयेष्वप्रसक्तिश्च क्षत्त्रियस्य समादिशत् ॥८६ पशूनां रक्षणं दानमिज्याध्ययनमेव च । वणिकपथं कुसीदञ्च वैश्यस्य कृषिमेव च ॥ ६० एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ ६१ ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयम्भूवा ॥ ६२ उत्तमाङ्गोद्भवाज्ज्यैष्ठ्याद्ब्रह्मणश्चैव धारणात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ६३ तं हि स्वयम्भूः स्वादास्यात्तपस्तप्त्वाऽऽदितोऽसृजत् । हव्यकव्याभिवाद्याय सर्वस्यास्य च गुप्तये ॥ ६४ यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किंभूतमधिकं ततः ॥ ६५ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठाः नरेषु ब्राह्मणाः स्मृताः ॥ ६६

[[६]]

मनुस्मृतिः ।

ब्राह्मणेषु तु विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कत्तषु ब्रह्मवेदिनः ॥ ६७ उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ ६८ ब्राह्मणो जायमानो हि पृथिव्यामधिजायते । ईश्वरः सर्वभूतानां धर्मकोशस्य गुमये ॥ ६६ सर्वं स्वं ब्राह्मगस्येदं यत्किंचिज्जगतीगतम् । श्रेष्ठ्य नाभिजनेनेदं सर्व वै ब्राह्मणोऽर्हति ॥ १०० स्वमेव ब्राह्मणो भुङ्क्तं स्वं वस्ते स्वं ददाति च । आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ १०१ तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः ।

स्वायम्भूवो मनुधीमानिदं शास्त्रमकल्पयत् ॥ १०२ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः ।

[ प्रथमो

शिष्येभ्यश्च प्रवक्तत्र्यं सम्यक् नान्येन केनचित् ॥१०३

इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः । मनोवाग्देहजै नित्यं कर्मदोषैर्म लिप्यते ॥ १०४

पुनाति पङ्क्ति वंश्यांश्च सप्त सप्त परावरान् । पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽईति ॥ १०५ इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्द्धनम् । इदं यशस्यमायुष्यमिदं निःश्रेयसं परम् ॥ १०६ अस्मिन् धर्मोऽखिलेोक्तो गुणदोषौ च कर्मणाम् । चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥१०७

उध्यायः ]

सृष्ट्य त्पत्तिवर्णनम् ।

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।

तस्मादस्मिन् सदा युक्तो नित्यं स्वादात्मवान् द्विजः ॥ १०८

आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत ॥१०६

एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।

सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥११० जगतश्च समुत्पत्ति संस्कारविधिमेव च । व्रतचर्योपचारं च स्नानस्य च परं विधिम ॥१११ दाराधिगमनं चैव विवाहामां च लक्षणम् । महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥११२ वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यंच शौचच्च द्रव्याणां शुद्धिमेव च ॥ ११३ स्त्रीधर्मयोगं तापस्यं मोक्ष सन्यासमेव च । राज्ञश्च धर्ममखिलं काय्र्याणां च विनिर्णयम् ॥ ११४ साक्षिप्रश्नविधान धर्म स्त्रीपुंसयोरपि । विभागधर्म द्य तथ्य कण्टकानाभ्व शोधनम् ॥११५ वैश्यशूद्रोपचारथ्य संकीर्णानाञ्च सम्भवम् । आपधर्मश्च वर्णानां प्रायश्चित्तविधि तथा ॥ ११६ संसारगमनं चैव त्रिविधं कर्मसम्भवम् । निःश्रेयशं कर्मणां च गुणदोषपरीक्षणम् ॥११७ देशधर्मानं जातिधर्मान् कुलधमांश्च शाश्वतान् । पाषण्डगणधर्माश्च शास्त्रेऽस्मिन्युक्तवान्ममुः ॥११८

१.१

[[१२]]

मनुस्मृतिः ।

[ द्वितीयो

यथेदमुक्तवाच्छास्त्र पुरा पृष्टो मनुर्मया ।

तथैदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ ११६

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां प्रथमोऽध्यायः ।

द्वितीयाऽध्यायः ।

विद्वद्भिः सेवितः सद्भिर्नित्यमद्र परागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तन्निबोधत ॥ १ कामात्मता न प्रशस्ता न चैवेहास्त्यकामता । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २ सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥ ३ अकामस्य क्रिया काचित दृश्यते नेह कर्हिचित् । यद् यद्धि कुरुते किंचित् तत्तत् कामस्य चेष्टितम् ॥ ४ तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् । यथा सङ्कल्पितांश्चेह सर्वान् कामान् समश्नुते ॥ ५ वेदोऽखिलेो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ ६ यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ ७ऽध्यायः ]

धर्मतत्व विचारः ।

सर्व तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।

श्रुतिप्रमाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ ८ श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ ह श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्र ं तु वै स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्वभौ ॥१० योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्विजः । स साधुभिर्वहिष्कार्यो नास्तिको वेदनिन्दकः ॥११ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ १२ अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते । धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ १३ श्रुतिद्वधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । उभावपि हि तौ धर्मों सम्यगुक्तौ मनीषिभिः ॥१४ उदितेऽनुदिते चैव समयाध्युषिते तथा ।

सर्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥१५ निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।

१३.

तस्य शास्त्र ऽधिकारोऽस्मिन् ज्ञ यो नान्यस्य कस्यचित् ॥१६ सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।

तं देवनिम्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ १७ तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥१८

मनुस्मृतिः ।

कुरुक्षेत्रं च मत्स्याश्च पंचालाः शूरसेनकाः । एष ब्रह्मर्पिदेशो वं ब्रह्मावर्तादनन्तरः ॥१६ एतद देशप्रसूतस्य सकाशादग्रजन्मनः ।

[ द्वितीयो

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥२० हिमवद्विन्ध्ययोर्मव्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ २२ आ समुद्रात्तु वे पूर्वादा समुद्रात पश्चिमात् । तयोरेवान्तरं गियरायवितं विदुर्बुधाः ॥ २२ कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । सजयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥ २३ एतान द्विजातयो देशान् संश्रयेरन् प्रयत्नतः । शूद्रस्तु यस्मिन कस्मिन् वा निवसेवृत्तिकर्षितः ॥ २४ एष धर्मस्य वो योनिः समासेन प्रकीर्तिता । सम्भवश्चास्य सर्वम्य वर्णधर्मान निवोधत ॥ २५ वैदिकैः कर्मभिः पुण्यैर्नकादिर्द्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ २६ गाहर्जातकर्मचौड़मौञ्जीनिबन्धनैः ।

बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥ २७ स्वाध्यायेन व्रत होमैस्त्रैविद्य नेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ २८ प्राङ्नाभिवर्धनात पुंसो जातकर्म विधीयते ।

मन्त्रवन प्राशनं चास्य हिरण्यमवसर्पिषाम् ॥ २६

]

ब्रह्मचर्यवर्णनम् ।

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।

पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुगान्विते ॥ ३० मङ्गल्यं ब्राह्म गय स्यात् क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ ३५ शर्मगाह्मगस्य स्याद्राज्ञो रक्षासमन्वितम् ।

वैश्यस्य

संयुक्तं शूद्रस्य प्रव्यसंयुतम् ॥ ३२

स्त्रीणां सुबोधमकरं विस्पष्टार्थ मनोहरम् । मङ्गल्यं दोर्घवर्णान्तमाशीर्वादाभिवानवत् ॥ ३३ चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात । षष्ठेऽन्नप्राशनं मामि यद्वं मङ्गलं कुले ॥ ३४ चूड़ाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमे तृतीये वा कर्तव्यं अतिचोदनान् ॥३५ गर्भाष्टमे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भाच द्वादशे विशः ॥ ३६ ब्रह्मवच सकामस्य काय्यं विमस्य पंचमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्येहाथिनोऽमे ॥ ३७ आ षोड़शाद्ब्राह्मणस्य सावित्री नातिवर्तते । आ द्वाविंशान् क्षत्रबन्धोराच विंशते विंशः ॥ ३८ अत ऊद्धर्व त्रयोऽप्येते यथाकालम संस्कृताः । सावित्रोपतिता ब्रात्या भवन्त्यायविगर्हिताः ॥ ३६ नैतैरपूतै विधिवदापद्यपि हि कर्हिचित् ।

ब्राह्मान् योनांश्च सन्बन्धान्नाचरेद्ब्राह्मणः सह ॥ ४०

[[१५]]

[[१६]]

मनुस्मृतिः ।

[ द्वितीयो

कार्ष्णरौरववास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्येण शाणौमाविकानि च ॥। ४१ मौञ्जी त्रिवृत् समा लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ ४२ मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकवल्वजः । त्रिवृता ग्रन्थिनेकेन त्रिभिः पंचभिरेव वा ॥ ४३ कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ ४४ ब्राह्मणो बैल्वपालाशौ क्षत्रियो बाटखादिरौ । पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥ ४५ केशान्तिको ब्राह्मणस्य दण्डः कायः प्रमाणतः । ललाटसम्मितो राज्ञः स्यात्त, नासान्तिको विशः ॥ ४६

जवस्ते तु सर्वे स्युरत्रणाः सौम्यदर्शनाः ।

अनुद्व गकरा नृणां सत्त्वचोऽनाग्निदूषिताः ॥ ४७ प्रतिगृह्य प्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद्भक्ष यथाविधि ॥ ४८ भवत्पूर्व चरेद्धक्षमुपनीतो द्विजोत्तमः ।

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ ४६ मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ ५०

समाहृत्य तु तद्भक्ष यावदन्नममायया ।

निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ ५१

ऽध्यायः ]

ब्रह्मचर्यवर्णनम् ।

आयुष्यं प्राङ्मुखो भुक्त यशस्यं दक्षिणामुखः ।

श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्त ह्य दङ्मुखः ॥५२ उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः ।

भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ ५३ पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ।

दृष्ट्वा दृष्येत् प्रसीदेव प्रतिनन्देश्च सर्वशः ॥ ५४ पुजितं ह्यशनं नित्वं बलमूर्जं च यच्छति । अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥ ५५ नोच्छिg कस्यचिद्दद्यान्नाद्याच्चैव तथान्तरा । नचैवात्यशनं कुर्यान्न चोच्छिष्टः कचिद्व्रजेत् ॥ ५६ अनारोग्यमनायुष्यमस्वयं चातिभोजनम् । अपुण्यं लोकविद्विष्ट तस्मात्तत्परिवर्जयेत् ॥ ५७ ब्राह्मण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । कायवैदशिकाभ्यां वा न पित्र्येण कदाचन ॥ ५८ अङ्गष्ठमूलस्य तले ब्राह्म तीर्थ प्रचक्षते । कायमङ्ग लिमूलेऽयं देवं पित्र्यं तयोरधः ॥ ५६ त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् । खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ ६० अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् । शौचेप्सुः सर्वदाचामेदेकान्ते प्रागुदङ्मुखः ॥ ६१ हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः । ६२

[[१७]]

[[१८]]

मनुस्मृतिः ।

उद्व ते दक्षिणे पाणावुपवित्युच्यते द्विजः ।

सव्ये प्राचीन आवीती निवीती कण्ठसज्जने ॥ ६३ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।

[ द्वितीयो

अपसु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥६४ केशान्तः षोड़शे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोद्वविंशे वैश्यस्य द्वयधिके ततः ॥ ६५ अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः । संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥६६ वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थोऽभिपरिक्रिया ॥ ६७ एष प्रोतो द्विजातीनामौपनायनिको विधिः । उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ ६८ उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः । आचारमग्निकार्य च सन्ध्योपासनमेव च ॥ ६६ अन्येभ्यमाणत्वाचान्तो यथाशास्त्रमुदङ्मुखः । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः ॥ ७० ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ ७१

व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ।

सव्येन सव्यः स्पष्टव्यो दक्षिणेन च दक्षिणः ॥७२ अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः ।

अधीष्व भो इति ब्र याद्विरामोऽस्त्विति चारमेत् ॥७३

ऽध्यायः ]

ब्रह्मचर्यवर्णनम् ।

ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङङ्कृतं पूर्वं परस्ताव विशीर्यति ॥ ७४ प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः । प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति ॥ ७५ अकारश्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ ७६

त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥७७ एतदक्षरमेताञ्च जपन् व्याहृतिपूर्विकां ।

सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥७८ सहस्रकृत्वस्त्वभ्यस्य वहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥७६ एतयर्चा विसंयुक्तः काले च क्रियया स्वया । ब्रह्मक्षत्त्रियवियोनिर्गर्हणां याति साधुषु ॥ ८० ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥८१ योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ ८२ एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः । सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ ८३ क्षरन्ति सर्वा वैदिक्यो जुहोति यजतिक्रियाः ।

अक्षरं त्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥८४

E

[[२०]]

मनुस्मृतिः । .

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।

उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥८५ ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।

सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोड़शीम् ॥८६ जप्येनैव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ ८७ इन्द्रियाणां विचरतां विषयेष्वपहारिपु ।

संयमे यत्नमातिष्ठेद्विद्वान् यन्तेव वाजिनाम् ॥८८ एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः । तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ८६ श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पंचमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥ ६० बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः । कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ ६१ एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । यस्मिञ्जिते जितावेतौ भवतः पंचकौ गणौ ॥६२ इन्द्रियाणां प्रसङ्ग ेन दोषमृच्छत्यसंशयं । संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥१३ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मव भूय एवाभिवर्द्धते ॥१४ यश्चैतान्प्राप्नुयात्सर्वान्यश्च तान्केबलांस्त्यजेत् । प्रापणातसर्वकामानां परित्यागो विशिष्यते ॥ ६५

[ द्वितीयो

ऽध्यायः ]

कर्त्तव्याकर्त्तव्यवर्णनम् ।

न तथैतानि शक्यन्ते संनियन्तुमसेवया ।

विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ ६६ वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च । न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हिचित् ॥६७

[[२१]]

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥६८ इन्द्रियाणां तु सर्वेषां यद्य के क्षरतीन्द्रियम् । तेनास्य अरति प्रज्ञा दृतेः पात्रादिवोदकम् ॥६६ वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा । सर्वान्संसाधयेदर्थानक्षिण्वन्योगतस्तनुम् ॥१०० पूर्वा सन्ध्यां जपंस्तिष्ठेन सावित्री मार्कदर्शनात् । पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥ १०१ पूर्वा सन्ध्यां जपंस्तिष्ठन्न शमेनो व्यपोहति । पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥१०२ न तिष्ठति तु यः पूर्वा नोपास्ते यश्च पश्चिमाम । स शूद्रवद्वहिष्कार्यः सर्वस्माद्विजकर्मणः ॥ १०३ अपां समीपे नियतो नैत्यकं विधिमास्थितः । सावित्रीमप्यधीयीत गत्वारण्यं समाहितः ॥ १०४ वेदोपकरणे चैव स्वाध्याये चैव नैत्यके । नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ १०५ नैत्यके नास्त्यनध्यायो ब्रह्म सत्रं हि तत् स्मृतम् । ब्रह्माहुतिहुतं पुण्यमनध्यायवषट् कृतम् ॥१०६

[[२२]]

मनुस्मृतिः ।

[ द्वितीयो

यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः । तस्य नित्यं भरत्येष पयो दधि घृतं मधु ॥ १०७ अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोहितम् । आ समावर्तनात्कुर्यात् कृतोपनयनो द्विजः ॥ १०८ आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।

आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ॥ १०६ नापृष्टः कस्यचिह्न यात् न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडबल्लोक आचरेत् ॥११० अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रति विद्वेषं वाधिगच्छति ॥ १११ धर्मार्थी यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोपरे ॥ ११२ विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।

आपद्यपि हि घोरायां न त्वेनामिरिण वपेत् ॥११३ विद्या ब्राह्मणमेत्याह सेवधिस्तेऽस्मि रक्ष माम् । असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥११४ यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम् । तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ ११५ ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् । स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ ११६ लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥१.१७ऽध्यायः ]

कर्त्तव्याकर्त्तव्यवर्णनम् ।

. २३

सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रित स्त्रियेोऽपि सर्वाशी सर्वविक्रयी १९८ शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् । शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् ॥११६ ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ १२० अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि संप्रवर्द्धन्ते आयुर्विद्या यशो बलम् ॥१२१ अभिवादात् परं विप्रो ज्यायांसमभिवादयन् । असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥१२२ नामधेयस्य ये केचिदभिवादं न जानते । तान्प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च ॥ १२३ भोः शब्द कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ १२४ आयुमान् भव सौम्येति वाच्यो विप्रोऽभिवाने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥१२५ यो न वेत्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ १२६ ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ १२७ अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भो-भवत् - पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ १२८

[[२४]]

मनुस्मृतिः ।

परपत्नी तु या स्त्री स्यादसम्बन्धा च योनितः । तां याद्भवतीत्येवं सुभगे भगिनीति च ॥ १२६ मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् । असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः ॥ १३० मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा । संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया ॥ १३१ भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि ।

विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः ॥ १३२ पितुर्भगिन्यां मातुश्च ज्यायस्याश्च स्वसर्यपि । मातृवद्वृत्तिमातिष्ठेम्माता ताभ्यो गरीयसी ॥१३३ दशाब्दाख्यं पौरसख्यं पञ्चान्दाख्यं कलाभृताम् । त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ १३४ ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम ।

[ द्वितीयो

पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ १३५ वित्त’ बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ॥१३६ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।

यत्र स्युः सोऽत्र मानाहः शूद्रोऽपि दशमीं गतः ॥ १३७ चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ १३८ तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ । राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥१३६

5ध्यायः ]

कर्त्तव्याकर्त्तव्यवर्णनम् ।

उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते ॥ १४० एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ १४१ निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥ १४२ अग्न्याधेयं पाकयज्ञानमिष्टोमादिकान् मखान् । यः करोति वृतो यस्य स तस्यत्विगिहोच्यते ॥ १४३ य आवृणोत्यवितथं ब्रह्मगा श्रवणावुभौ ।

स माता स पिता ज्ञेयस्तं न द्रुह्यत् कदाचन ॥ १४४ उपाध्यायान् दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितृन्माता गौरवेणातिरिच्यते ॥ १४५ उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।

ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥१४६ कामान्माता पिता चैनं यदुत्पादयतो मिथः । संभूतिं तस्य तां विद्याद्यद्योनावभिजायते ॥ १४७ आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ॥१४८ अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरु विद्याच्छु तोपक्रियया तया ॥ १४६ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ १५०

[[२५]]

[[२६]]

मनुस्मृतिः ।

अध्यापयामास पितृच्छिशुराङ्गिरसः कविः । पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ १५१

ते तमर्थमपृच्छंत देवानागतमन्यवः ।

[ द्वितीयो

देवाश्चैतान् समेत्योचुर्न्याय्यं वः शिशुरुक्तवान् ॥१५२ अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ १५३ न हायनैर्न पलितैर्न वित्त ेन न बन्धुभिः । ऋषयश्चक्रिरे धर्म योऽनूचानः स नो महान् ॥१५४ विप्राणां ज्ञानतो ज्येष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ १५५ न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥ १५६ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नाम विभ्रति ॥ १५७ यथा पण्डोऽफलः स्त्रीषु यथा गौर्गवि चाफला। यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ १५८ अहिंसयैव भूतानां कार्यं श्रयोऽनुशासनम् । वाक् चैव मधुरा लक्ष्गा प्रयोज्या धर्ममिच्छता ॥ १६६ यस्य वाङ्मनसी शुद्ध सम्यग्गुळे च सर्वदा । स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥१६० नारुन्तुदः स्यादार्तोऽपि न परद्रोहकर्मधीः । ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥१६१

Sध्यायः ]

कर्त्तव्याकर्त्तव्यवर्णनम् ।

सम्मानाद्ब्राह्मणों नित्यमुद्विजेत विपादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥१६२ सुखं ह्यवमतः शेते सुखञ्च प्रतिबुद्धयते । सुखं चरति लेोकेऽस्मिन्नवमन्ता विनश्यति ॥ १६३ अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।

[[1]]

गुरौ वसन् सञ्चिनुयाद्ब्रह्माधिगमिकं तपः ॥ १६४ तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितः ।

वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥१६५ वेदमेव सदाभ्यस्येत्तपस्तप्स्यन् द्विजोत्तमः । वेदाभ्यास्यो हि विप्रस्य तपः परमिहोच्यते ॥ १६६ आ हैव स नखाभ्यः परमं तप्यते तपः ।

यः स्रुय्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम ॥१६७ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।

स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ १६८ मातुरप्र ऽधिजननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदोक्षायां द्विजस्य श्रुतिचोदनात् ॥१६६ तत्र यद्ब्रह्म जन्मास्य मौञ्जीबन्धनचिह्नितम् । तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ १७८ वेदप्रदानादाचार्य पितरं परिचक्षते ।

न हास्मिन् युज्यते कर्म किञ्चिदामौञ्जिबन्धनात् ॥ १७१ नाभिव्याहारयेद्ब्रह्म स्वधा निनयनादृते ।

शूद्र ेण हि समस्तावद्यावद्व ेदे न जायते ॥ १७२

[[२७]]

[[૨૮]]

मनुस्मृतिः ।

कृतोपनयनस्यास्य व्रतादेशनमिष्यते ।

[ द्वितीयो

ब्रह्मणो ग्रहणञ्चैव क्रमेण विधिपूर्वकम् ॥१७३ यद्यस्य विहितं चर्म यत् सूत्रं या च मेखला । यो दण्डो यच्च वसनं तत्तद्स्य व्रतेष्वपि ॥ १७४ सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । संनियम्येन्द्रियग्रामं तपोवृद्ध यर्थमात्मनः ॥ १७५ नित्यं स्नात्वा शुचिः कुर्याद्द वर्षिपितृतर्पणम् । देवताभ्यर्चनञ्चव समिाधानमेव च ॥ १७६ वर्जयेन्मधु मांसञ्च गन्धं माल्य ं रसान् स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ १७७

अभ्यङ्गमञ्जनाञ्चक्ष्णोरुपानच्छत्रधारणम् ।

कामं क्रोधञ्च लोभञ्च नर्तनं गीतवादनम् ॥१७८ द्यूतं च जनवादं च परिवादं तथानृतम् । स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥ १७६ एकः शयीत सवत्र न रेतः स्कन्दयेन क्वचित । कामाद्धि स्कन्दयन रेतो हिनस्ति व्रतमात्मनः ॥१८० स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्क मर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ १८१ उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् । आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत् ॥ १८२ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।

ब्रह्मचार्याहरेदभैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ १८३

ऽध्यायः ]

कर्त्तव्याकर्त्तव्यवर्णनम् ।

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वं पूर्व विवर्जयेत ॥१८४ सर्वं वापि चरेद्ग्रामं पूर्वोक्तानामसम्भवे । नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥१८५ दूरादाहृत्य समिधः संनिदध्याद्विहायसि । सायम्प्रातश्च जुहुयात् ताभिरभिमतन्द्रितः ॥ १८६ अकृत्वा क्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीणिव्रतं चरेत् ॥ १८७ भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्व्रती । भैक्षेण व्रतिनो वृत्तिरूपवाससमा स्मृता ॥ १८८

तव वदैवत्ये पित्र्ये कर्मण्यथपिवत । काममभ्यर्थितोऽश्नीयात् व्रतमस्य न लुप्यते ॥ १८६ ब्राह्मणस्यैव कर्मैतदुपदिष्ट मनीषिभिः । राजन्यवैश्ययोस्त्वेवं नैतत् कर्म विधीयते ॥ १६० चोदितो गुरुणा नित्यमप्रचोदित एव वा । कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥ १६९ शरीरं चैव वाचञ्च बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिष्ठ द्वीक्षमाणो गुरोर्मुखम् ॥१६२ नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसंयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ १६३ हीनान्नवस्त्रपः स्यात् सर्वदा गुरुसन्निधौ ।

उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥१६४

[[२६]]

[[३०]]

मनुस्मृतिः ।

!

[ द्वितीयो

प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ।

नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः ॥ १६५ आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः । प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः ॥ १६६ पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् । प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ १६७ नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १६८ नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥१६६ गुरोर्यत्र परीवादो निन्दावापि प्रवर्तते ।

कर्णौ तत्र पिधातत्र्यौ गन्तव्यं वा ततोऽन्यतः ॥ २०० परीवादात् खरो भवति श्वा वै भवति निन्दकः । परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥२०१ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ २०२ प्रतिवातेऽनुवाते च नासीत गुरुणा सह । असंश्रवे चैत्र गुरोर्न किञ्चिदपि कीर्तयेत् ॥ २०३ गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।

आसीत गुरुणा सार्द्ध शिलाफलकनौषु च ॥ २०४ गुरोर्गुरौ सन्निहिते गुरुववृत्तिमाचरेत् ।

न चानिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् ॥ २०५

ऽध्यायः ]

कर्त्तव्याकर्त्तव्यवर्णनम् ।

[[1]]

विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु । प्रतिषेधत्सु चाधर्मान्हितं चोपदिशत्स्वपि ॥ २०६ श्रयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् । गुरुपुत्रषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥ २०७ बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ॥२०८ उत्सादनं च गात्राणां स्त्रापनोच्छिष्टभोजने । न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ॥२०६ गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ २१० अभ्यंजनं स्नापनं च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥२११ गुरुपत्नी तु युवतिर्नाभिवाद्य ह पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २१२ स्वभाव एष नारीणां नराणामिह दूपणम् । अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २१३ अविद्वांसमलं लोके विद्वांसमपि वा पुनः । प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥२१४ मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ २१५ कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥२१६

[[३१]]

[[३२]]

मनुस्मृतिः ।

[ द्वितीयो

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ २१७ यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रपरधिगच्छति ॥ २१८ मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः । नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदियात क्वचित ॥२१६ तं चेदभ्युदियात् सूर्यः शयानं कामचारतः । निम्लोचेद्वाप्य विज्ञानाज्जपन्नुपवसेद्दिनम ॥२२० सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः । प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतनसा ॥२२१ आचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः । शुचौ देशे जपं जप्यमुपासीत यथाविधि ॥ २२२ यदि स्त्री यद्यवरजः श्रेयः किंचित् समाचरेत् । तत् सर्वमाचरेद्य क्तो यत्र वास्य रमेन्मनः ॥२२३ धर्मार्थावुच्यते श्रेयः कामार्थों धर्म एव च । अर्थ एवेह वा श्रयस्त्रिवर्ग इति तु स्थितिः ॥ २२४ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । नार्तनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ २२५ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥२२६ यं मातापितरौ क्लेशं सहते सम्भवे नृणाम । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ २२७ऽध्यायः ]

कर्त्तव्याकर्त्तव्यवर्णनम् ।

तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा । तेष्येव त्रिपु तुष्टेषु तपः सवं समाप्यते ॥ २२८ तेपां त्रयाणां शुश्रूपा परमंतप उच्यते । न तैरनभ्यनुज्ञातो धर्ममन्य’ समाचरेत् ॥२२६ त एव हि त्रयो लोकास्त एव त्रय आश्रमाः । त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ॥२३० पिता व गार्हपत्योऽग्निमतामिदक्षिणः स्मृतः । गुरुराहवनीयस्तु सामित्रेता गरीयसी ॥२३१ त्रिष्वप्रमाद्यन्नैतेषु त्रीन् लोकान् विजयेद्गृही । दीप्यमानः स्ववपुषा देववद्दिवि मोदते ॥ २३२ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥२३३ सर्वेतस्याहता धर्मा यस्यैते त्रय आदृताः । अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ २३४ यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् । तेष्वेव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥ २३५ तेषामनुपरोधेन पारत्र्य यद्यदाचरेत् ।

तत्तन्निवेदयेतेभ्यो मनोवचन कर्मभिः ॥ २३६ त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते । एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥२३७ श्रद्दधानः शुभां विद्यामाददीतावरादपि ।

अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥ २३८

MY

[[३]]

[[३३]]

[[३४]]

मनुस्मृतिः ।

[ द्वितीयो

विषादप्यमृतं प्रह्यं बालादपि सुभाषितम् । अमित्रादपि सद्वृत्तममेध्यादपि काचनम् ॥ २६६ स्त्रियो नान्यथो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतः ॥ अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदृध्ययनं गुरोः ॥ २४१ नाब्राह्मगे गुरौ शिष्यो वासमात्यन्तिकं वसेत् । ब्राह्मणे चाननूचाने काङ्क्षन् गतिमनुत्तमाम् ॥२४२ यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले । युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ २४३ आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २४४ न पूव गुरवे किञ्चिदुपकुर्वीत धर्मवित् । स्नास्यांस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥ २४५ क्षेत्रं हिरण्यं गामस्वं छत्रोपानहमासनम् ।

धान्यं शाकश्च वासांसि गुरुवे प्रीतिमावहेत ॥ २४६ आचार्ये तु खलु प्रेते गुरुपुत्रगुणान्विते ।

गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ २४७ एतेष्वविद्यमानेषु स्थानासनविहारवान् ।

प्रयुञ्जानोऽभिशुश्रूषां साधयेद्द हमात्मनः ॥२४८

एवञ्चरति यो विप्रो ब्रह्मचर्यम विप्लुतः ।

सगच्छत्युत्तमस्थानं न चेहा जायते पुनः ॥ २४६

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां द्वितीयोऽध्यायः ॥

ऽध्यायः ]

तृतीयोऽध्यायः ।

पत्रिंशदाब्दिकं चयं गुरौ चैवेदिकं व्रतम् । तदधिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ १ वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेन ॥२ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प असीनमध्येत प्रथमं गवा ॥३ गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि । उहेत द्विजो भार्यां सवर्णा लक्षणान्विताम् ॥४ असपिण्डा च या मातुरसगोत्रा च या पितुः । द्विजातीनां सा प्रशस्ता दारकर्मणि मैथुनी ॥५ महान्त्यपि समृद्धानि गोजाविधनधान्यतः । स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ६ हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम । क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥७ नोद्वहेत कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥८ नर्क्षवृक्षनदीननीं नांत्यपर्वतनामिकाम् ।

न पक्ष्यहि प्रेष्यनाम्नीं न च भीषणनामिकाम् ॥६ अव्यङ्गाङ्गीं सौम्यनाम्नी हंसवारणगामिनीम् । तनुलोमकेशदशनां मृङ्गीमुद्वहेत स्त्रियम् ॥१०

[[३५]]

[[३६]]

मनुस्मृतिः ।

[ तृतीयो

यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता । नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥११ सवर्णा द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥ १२ शूद्र व भार्या शूद्रस्य सा च स्वा च विशः स्मृते । ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ १३ न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः । कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥१४ हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः । कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ॥१५ शूद्रावेदी पतत्यत्ररुतथ्यतनयस्य च । शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥ १६ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ १७ देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु । नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति ॥१८ वृपलीफेनपीतस्य निःश्वासोपहतस्य च । तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ १६ चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् । अष्टाविमान समासेन स्त्रीविवाहान्निबोधत ॥ ब्राह्मयो दैवस्तथैवार्थः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥२१

ध्यायः ]

विवाहकर्मवर्णनम् ।

यो यस्य धर्म्या वर्णस्य गुणदोषौ च यस्य यौ । तद्वः सर्व प्रवक्ष्यामि प्रसवे च गुणाऽगुणान ॥२२ घडानुपूर्व्या विप्रस्य क्षत्त्रस्य चतुरोऽवरान । विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यान राक्षसान ॥२३ चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः । राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥२४ पंचानांतु त्रयो धर्म्या द्वाधय स्मृताविह। पैशाचश्चासुरश्चैव न कर्तव्यौ कदाचन ॥२५ पृथक् पृथग्वा मिश्र वा विवाहौ पूर्वचोदितौ । गान्धर्वो राक्षसश्चैव धन्य क्षत्त्रस्य तौ स्मृतौ ॥२६ आच्छाद्य चार्चयित्वा च श्रुतशीलवंते स्वयं । आहूय दानं कन्याया बाह्मो धर्मः प्रकीर्तितः ॥२७ यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते । अलङ्कृत्य सुतादानं देवं धर्म प्रचक्षते ॥२८ एकं गोमिथुनं द्वो वा वरादादाय धर्मतः । कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥२ सहोभौ चरतां धर्ममिति वाचानुभाष्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥३० ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याऽऽप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥३१ इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ॥ ३२

[[३७]]

[[३८]]

मनुस्मृतिः ।

[ तृतीयो

हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतों गृहात । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥३३ सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ॥ ३४ अद्भिरेव द्विजाग्रयाणां कन्यादानं विशिष्यते । इतरेषां तु वर्णानामितरेतरकाम्यया ॥३५ यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः । सर्व शृणुत तं विप्राः सम्यक् कीर्तयतो मम ॥ ३६ दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम् । ब्राह्मीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन् ॥ ३७ देवोढाजः सुतश्चैव सप्त सप्त परावरान् । आर्षोढाजः सुतस्त्रीं स्त्रीन षट् षट् कायोढजः सुतः ॥ ३७ ब्रह्मादिषु विवाहेषु चतुर्ष्व वानुपूर्वशः ।

ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ॥ ३६

रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।

पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥४०

इतरेषु तु शिष्टेषु नृशंसानृतवादिनः । जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥४१ अनिन्दितेः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निन्दिता नृणां तस्मान्निन्द्यान् विवर्जयेत् ॥४२ पाणिग्रहण संस्कारः सवर्णासूपदिश्यते ।

असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ॥४३

ऽध्यायः ]

विवाहकर्मवर्णनम् ।

शरः क्षत्त्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वसनस्य दशा प्राह्या शूद्रयोत्कृष्टवेदने ॥४४ ऋतुकालाभिगामी स्यात स्वदारनिरतः सदा । पर्ववजं व्रजेचैनां तद्वतो रतिकाम्यया ॥४५ ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोड़श स्मृताः । चतुर्भिरितरैः सार्द्ध महोभिः सद्विगर्हितैः ॥ ४६ तासामाद्याश्चतस्रस्तु निन्दितेकादशी च या । त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः ॥ ४७ युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । तस्माद्युग्मासु पुत्रार्थी संविशदार्तवे स्त्रियम् ॥४८ पुमान् पुंसोऽधिके शुक्र स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान् पुंस्त्रियो वा क्षीणेऽल्पे च विपर्ययः ॥ ४६ निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् । ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥५० न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्क मण्वपि । गृहञ्छुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥५१ स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः । नारीयानानि वस्त्रं वा ते पापा यान्त्यधागतिम् ॥५२ आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् । अल्पोऽप्येवं महान् वाऽपि विक्रयस्तावदेव सः ॥ ५३ यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तन कुमारीणामानृशंस्यच्च केवलम् ॥५४

३६.

[[४०]]

मनुस्मृतिः ।

पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरस्तथा ।

पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥५५ यत्र नार्य्यास्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥५६ शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम् । न शोचन्ति तु यत्रेता वर्द्धते तद्धि सर्वदा ॥५७ जामयो यानि गेहानि शपन्त्यप्रति पूजिताः तानि कृत्याहतानीव विनश्यंति समन्ततः ॥ ५८ तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सत्कारेपूत्सवेषु च ॥५६ सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।

वै

यस्मिन्नेव कुले नित्यं कल्याणं तत्र व ध्रुवम् ॥६०

यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमोदात पुनः पुंसः प्रजनं न प्रवर्तते ॥ ६१ स्त्रियां तू रोचमानायां सर्वं तद्रोचते कुलम् तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ ६२ कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ ६३ शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥६४ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम।

कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥६५

[ तृतीयो

ऽध्यायः ]

गृहस्थस्य पश्चमहायज्ञाः ।

मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।

कुल संख्याञ्च गच्छन्ति कर्षन्ति च महद्यशः ॥ ६६ वैवाहिकेम कुर्वीत गृह्यं कर्म यथाविधिः । पञ्चयज्ञविधानं च पक्ति चान्वाहिकीं गृही ॥ ६७ पंच सूना गृहस्थस्य चुली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु बाहयन् ॥६८ तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः । पंचक्लृप्रा महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥६६ अध्यापनं ब्रह्मयज्ञ पितृयज्ञस्तु तर्पणम् । होमो देवो बलिभतो नृयज्ञोऽतिथिपूजनम् ॥७० पंचतान यो महायज्ञान हापयति शक्तितः । स गृहेऽपि सन्नित्यं सूनादोषैर्न लिप्यते ॥७१ देवतातिथिभृत्यानां पितृणामात्मनश्च यः । न निर्वपति पंचानामुच्छ्रसन्न स जीवति ॥ ७२ अहुतं च हुतं चैव तथा प्रहुतमेव च ।

ब्राह्मयं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥७३ जपोतो हुतो होमः प्रहुतो भौतिको बलिः । ब्राह्मय हुतं द्विजाग्रचाच प्राशितं पितृतर्पणम् ॥७४ स्वाध्याये नित्ययुक्तः स्याद्दवे चैवेह कर्मणि । देवकर्मणि युक्तो हि विभर्ती चराचरम् ॥१७५ अनौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिवृष्टरेन ततः प्रजाः ॥७६

[[४९]]

કર્

मनुस्मृतिः ।

यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः । तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ॥ ७७ यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्न ेन चान्वहम् । गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृहीम ॥७८ स सन्धार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता । सुखं चेहेच्छता नित्यं योऽधार्यो दुर्वलेन्द्रियैः ॥७६ ऋषयः पितरो देवा भूतान्यतिथयस्तथा । आशासते कुटुम्विभ्यस्तेभ्यः कार्यं विजानता ॥८० स्वाध्यायेनाच्च येतपन होमर्देवान्यथाविधि । पितृञ्छाद्धश्च नृनन्न भूतानि बलिकर्मणा ॥ ८१ कुर्यादहरहः श्राद्धमन्नाद्यं नोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥८२ एकमप्याशयेद्विप्रं पित्रर्थे पांचयज्ञिके ।

न चैवात्राशयेत् कंचिद्वश्वदेवं प्रति द्विजम् ॥८३ वैश्यदेवस्य सिद्धस्य गृह्य ऽग्नौ विधिपूर्वकम् । आभ्यः कुर्याद वताभ्यो ब्राह्मणो होममन्वहम् ॥८४ अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः । विश्वेभ्यश्वव देवेभ्यो धन्वन्तरय एव च ॥ ८५ कु चैवानुमत्ये च प्रजापतय एव च । सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥८६ एवं सम्यग्धविद्दुत्वा सर्वदिक्षु प्रदक्षिणम् । इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलि हरेत् ॥८७

[ तृतीयोऽध्यायः ]

वैश्वदेववलिः ।

मरुद्भ्य इति तु द्वारि क्षिपेदस्वय इत्यपि । वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥८८

उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः । ब्रह्मवास्तोस्यपतिभ्यां तु वास्तुमध्ये बलि हरेत् ॥८६ विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तं चारिभ्य एव च ॥ ६० पृष्ठवास्तुनि कुर्वीत वलिं सर्वान्नभूतये । पितृभ्यो वलिशेषं तु सर्व दक्षिणतो हरेत् ॥ ६? शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृमीणां च शनकै निर्वपेद्भुवि ॥ ६२ एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति । स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना ॥१३ कृत्वैतद्बलिकर्मैवमतिथि पूर्वमाशयेत् ।

भिक्षां च भिक्षवे दद्याद्विधिवद्बह्मचारिणे ॥६४ यत् पुण्यफलमाप्नोति गां दत्वा विधिवद्गुरोः । तत् पुण्यफलमाप्नोति भिक्षां दत्वा द्विजो गृही ॥ ६५ भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् । वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥६६ नश्यन्ति हव्यकव्यानि नराणामविजानताम् । भस्माभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः ॥६७ विद्यातपः समृद्धषु हुतं विप्रमुखाभिषु । निस्तारयति दुर्गा महतश्चैव किल्विषात् ॥६८

[[४३]]

मनुस्मृतिः ।

संप्राप्ताय त्वतिथये प्रदद्यादासनोदके । अन्न चैव यथाशक्ति संस्कृत्य विधिपूर्वकम् ॥६६ शिलानप्युञ्छतो नित्यं पंचाग्नीनपि जुह्वतः । सर्व सुकृतमादत्तं ब्राह्मणोऽनर्चितो वसन् ॥१०० तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेह नोच्छिद्यन्ते कदाचन ॥१०१ एकरात्रं त निवसन्नतिथिर्ब्राह्मणः स्मृतः ।

तु

अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥१०२ नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा ।

उपस्थितं गृहे विद्याद्भार्या यत्रामयोऽपि वा ॥ १०३ उपासते ये गृहस्थाः परपाकमबुद्धयः ।

तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनाम् ॥१०४ अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।

[ तृतीयो

काले प्राप्तकाले वा नास्यानश्नन् गृहे वसेत् ॥ १०५ न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् । धन्यं यशस्यमायुष्यं स्वयं वाऽतिथिपूजनम् ॥१०६ आसनावसथौ शय्यामनुव्रज्यामुपासनम् । उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम् ॥१०७ गैश्वदेवे तु निर्वृ से यद्यन्योऽतिथिराव्रजेत् । तस्यापन्न यथाशक्ति प्रदद्यान्न वलिं हरेत् ॥१०८ न भोजनार्थ स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः ॥ १०६

ऽध्यायः ]

अतिथिवर्णनम् ।

न ब्राह्मणस्य त्वतिथिगृ हे राजन्य उच्यते । वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ ११० यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत । भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत ॥ १११ वैश्यशूद्रावपि प्राप्तौ कुटुम्वेऽतिथिधर्मिणौ । भोजयेत् सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ ११२ इतरानपि सख्यादीन् संप्रीत्या गृहमागतान । प्रकृत्यान्न यथाशक्ति भोजयेत् सह भार्यया ॥११३ सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः । अतिथिभ्योऽय एवैतान् भोजयेदविचारयन् १९४ अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्त विचक्षणः । स भुञ्जानो न जानाति श्वगुर्जग्धिमात्मनः ॥ ११५ भुक्तवत्स्वथ विप्रषु स्वेषु भृत्येषु चैवहि । भुञ्जीयातां ततः पश्चादवशिष्ट तु दम्पति ॥११६ देवानृषीन्मनुष्यांश्च पितॄन् गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥११७ अघं स केवलं भुङ्क्त े यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्य ेतत् सतामन्न विधीयते ॥११८ राजत्विक्नातकगुरून् प्रियश्वशुरमातुलान् । अर्हयेन्मधुपर्केण परिसंवत्सरात् पुनः ॥११६ राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थिते । मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः ॥ १२०

[[४५]]

[[४६]]

मनुस्मृतिः ।

[ तृतीयो

सायंत्वन्नस्य सिद्धस्य पत्न्यमन्त्रं वलि हरेत् । वैश्वदेवं हि नामैतत सायं प्रातर्विधीयते ॥ १२१ पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान । पिण्डान्वाहार्यकं श्राद्ध कुर्यान्मासानुमासिकम् ॥१२२ पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः । तामिषेण कर्तव्यं प्रशस्तेन प्रयत्ननः ॥ १२३ तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । यावन्तश्चैव यश्चान्नैस्तानप्रवक्ष्याम्यशेषतः ॥ १२४ द्वौ देवे पितृकार्य त्रिनेकैकमुभयत्र वा ।

भोजये समृद्धोऽपि न प्रसज्जत विस्तरे ॥ १२५ सत्क्रियां देशकालौ च शौच ब्राह्मण सम्पदः । पञ्च तानविस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥१२६ प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये । तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ १२७ श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥

एकैकमपि विद्वांसं देवे पित्र्ये च भोजयेत् ।

पुष्कलं फलमाप्नोति नामन्त्रज्ञान्वहूनपि ॥ १२६ दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।

तीथं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥ १३०

सहस्र हि सहस्राणामनृचां यत्र भुञ्जते ।

एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः ॥ १३१

ऽध्यायः ]

श्राद्धवर्णनम् ।

ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च । न हि हस्तावसग्दिग्धौ रुधिरेणैव शुद्धयतः ॥ १३२ यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् । तावतो ग्रसते प्रेत्य दीप्तशूल योगुडान् ॥ १३३ ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथापरे । तपःस्वाध्यायनिष्ठश्च कर्मनिष्ठास्तथापरे ॥ १३४ ज्ञाननिष्ठेप कव्यानि प्रतिष्ठाप्यानि यत्नतः । हव्यानि तु यथान्यायं सर्वेष्वेव चतुष्वपि ॥ १३५ अश्रोत्रियः पिता यस्य पुत्रः स्याद्व दपारगः । अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद्वं दपारगः ॥ १३६ ज्यायांसमनयोर्विद्यात् यस्य स्याच्छोत्रियः पिता । मन्त्रसंपूजनार्थं तु सत्कार मितरोऽर्हति ॥ १३७ न श्राद्ध भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । नारिन मित्रं यं विद्यात्तं श्राद्ध भोजयेद्विजम् ॥१३८ यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । तस्य प्रेत्य फलं नास्ति श्राद्ध ेषु च हविःषु च ॥ १३६ यः सङ्गतानि कुरुते मोहाच्छाद्ध ेन मानवः । स स्वर्गाच्च्यवते लोकाच्छाद्धमित्रो द्विजाधमः ॥ १४० सम्भोजनी साभिहिता पैशाची दक्षिणा द्विजैः । इहैवास्ते तु सा लोके गौरन्वेवैकवेश्मनि ॥ १४१ यथेरिणे बीजमुत्वा न वा लभते फलम् । तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥१४२

[[४७]]

[[४८]]

मनुस्मृतिः ।

[ तृतीयो

दातून प्रतिग्रहीतृ श्च कुरुते फलभागिनः । विदुषे दक्षिणा दत्त्वा विधिवत् प्रेत्य चेह च ॥१४३ कामं श्राद्ध ऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम । द्विषिता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥१४४ यत्नेन भोजयेच्छ्राद्धं बह्वचं वेद पारगम् । शाखान्तगमथाध्वर्यु छन्दोगन्तु समाप्तिकम् ॥ १४५ एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्जितः ।

पितॄणां तस्य तृप्तिः स्याच्छाश्वती सामपौरुषी ॥ १४६

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।

अनुकल्पस्त्वयं ज्ञयः सदा सद्भिरनुष्ठितः ॥ १४७ मातामहं मातुलञ्च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं विपति बन्धुमृत्विग्याज्यौ च भोजयेत् ॥१४८ न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।

पित्र्ये कर्मणि तु प्राप्त परीक्षेत प्रयत्नतः ॥ १४६

ये स्तेनपतितक्लीवा ये च नास्तिकवृत्तयः । तान् हव्यकव्ययोर्विप्राननहन्मिनुरब्रवीत् ॥१५० जटिलं चानधीयानं दुर्बलं कितवं तथा ।

याजयन्ति च ये पूगां स्तांश्च श्राद्ध े न भोजयेत् ॥१५२ चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा । विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः १५२ प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः । प्रतिरोद्धा गुरोश्चैव त्यक्ता मिर्वा पिस्तथा ॥ १५३

ऽध्यायः ]

श्राद्धवर्णनम्

यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः । ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च ॥ १५४ कुशीलवोऽवकीर्णी च वृषलीपतिरेव च । पौनर्भवश्च काणश्च यस्य चोपपति है ॥ १५५ भृतकाध्यापको यश्च भृतकाध्यापितस्तथा । शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥ १५६ अकारणं परित्यक्ता मातापित्रोर्गुरोस्तथा । बाह्म यौनश्च सम्बन्धः संयोगं पतितंर्गतः ॥ १५७ अगारदाही गरदः कुण्डाशी सोमविक्रयी । समुद्रयायी वन्दी च तैलिकः कुटकारकः ॥१५८ पित्रा विवदमानश्च कितवो मद्यपस्तथा । पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥१५६ धनुःशराणां कर्ता च यश्चाग्रं दिधिषूपतिः । मित्रत्रग्य तवृत्तिश्च पुत्राचार्यस्तथैव च ॥ १६० भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा । उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च ॥ १६९ हस्तिगोश्वोमको नक्षत्रैर्यश्च जीवति । पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ १६२ स्रोतसां भेदको यश्च तेषां चावरणे रतः । गृहसम्बेशको दूतो वृक्षारोपक एव च ॥ १६३ श्वक्रीडो श्येनजीवी च कन्यादूषक एव च । हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥१६४

[[४]]

[[५०]]

मनुस्मृतिः ।

आचारहीनः क्लीवश्च नित्यं याचनकस्तथा । कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥ १६५ औरभ्रिको माहिपिकः परपूर्वापतिस्तथा । प्रेतनिर्या (प) तकश्चैत्र वर्जनीयाः प्रयत्नतः ॥ १६६ एतान् विगर्हिताचारानपाङ्कयान द्विजाधमान् । द्विजातिप्रवरो विद्वानुभयत्र त्रिवर्जयेत् ॥ १६७ ब्राह्म नवीयानस्तृणानिरिव शाम्यति । तस्मै हत्र्यं न दातव्यं न हि भस्मनि हृयते ॥ १६८ अपतयदाने यो दातुर्भवत्यु फलोदयः । देवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः ॥ १६६ अत्रतैर्यद्विजैर्मुकं परिवेत्यादिभिस्तथा । अपांक्त यैर्यदन्यैश्च तद्वौ रक्षांसि भुञ्जते ॥ १७० दारानिहोत्रसंयोगं कुरुते योग्य स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ १७१ परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपंचमाः ॥ १७२ भ्रातुर्षु तस्य भार्यायां योज्नुरज्येत कामतः । धर्मेगापि नियुकायां स ज्ञेयो दिधिपतिः ॥ १७३ परदारे जायेते द्वौ सुतौ कुण्डगोल कौ ।

पत्य जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥ १७४ तौ त जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च ।

तु

दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम् ॥१७५

[ तृतीयो

'

ऽध्यायः ]

श्राद्धवर्णनम्

अपाक्यो यावतः पक्तियान् भुञ्जानाननुपश्यति । तावतां न फलं तत्र दाता प्राप्नोति वालिशः ॥ १७६ वीक्ष्यान्धो नवतेः काणः पटः श्वित्री शतस्य तु । पापरोगी सहस्रस्य दातर्नाशयते फलम् ॥ १७७ यावतः संङ्ग बह्मणाञ्द्रयाजकः । तावतां न भवेदातुः फलं दानस्य पौर्तिकम् ॥१७८ वेदविचापि विप्रोःस्य लोभात् कृत्वा प्रतिग्रहम् । विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ॥ १७६ सोमविक्रयिणे विष्ठा भिपजे पूयशोणितम् । नई देवलके दत्तमुप्रतिष्ठं तु वार्धुषौ १८० यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् । भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥१८१ इतरेषु त्वपातयेषु यथोद्दिष्टेष्वसाधुषु ।

समजास्थि वदन्त्यन्नं मनीषिणः ॥ १८२

[[५५]]

अपाङ्क्षयोपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमः । तान्निबोधत कार्त्स्न्येन द्विजाग्यान् पक्तिपावनान ॥१८३

अग्रचाः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।

श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ॥ १८४ त्रिणाविकेतः पंचाग्निस्त्रिसुपर्णः पडङ्गवित् ।

ब्रह्म देयात्मसन्तानो ज्येष्ठसामग एव च ॥ १८५ वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः ।

शतायुश्चैव विज्ञेया ब्राह्मणाः पंक्तिपावनाः ॥१८६

[[५२]]

मनुस्मृतिः ।

पूर्वद्य रपरेद्य ुर्वा श्राद्धकर्मण्युपस्थिते ।

निमन्त्रयीत व्यवरान्सम्यग्विप्रान्यथोडितान ॥१८७ निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत सदा । न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत् ॥१८८ निमन्त्रितान्हि पितर उपतिष्ठन्ति तान द्विजान । वायुवचानुगच्छन्ति तथासीनानुपासते ॥१८६ केतितस्त यथान्यायं हव्यकव्ये द्विजोत्तमः । कथञ्चिदस्य निक्रामन्यापः सुकरतां व्रजेन ॥१६० आमन्त्रितस्तु यः श्राद्धं वृपल्या सह मोदते । दातयद दुष्कृतं किंचित्तन सर्व प्रतिपद्यते ॥१६४ अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः । न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ १६ यम्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः ।

ये च यैरुपचर्याः स्युर्नियमैग्तान्निबोधत ॥ १६३ मनोहिरण्यगर्भस्य ये मरीच्यादयः सुताः । तेपामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ १६४ विराटसुताः सोमसः साध्यानां पितरः स्मृताः । अग्निध्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥१६८ इत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम ।

सुपर्णकिन्नराणां च स्मृता बर्हिपदोऽत्रिजाः ॥ १६६ सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥ १६७

[ तृतीयोध्यायः ]

श्राद्धवर्णनम

सोमपास्तु कवेः पुत्रा हविष्मत्तोऽङ्गिरः सुताः ।

पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥१६८ अग्निदग्धानग्निदग्धान्कान्यान्वहिपदस्तथा । अग्निष्वानांच सौम्यांश्च विप्राणामेव निर्दिश ॥१६६ य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । तेषामपोह विजयं पुत्रपौत्रमनन्तकम् ॥२०० सृपिभ्यः पितरो जाताः पितृभ्यो देवदानवाः । देवेभ्यस्तु जगत्सर्वं चरं स्थास्वनुपूर्वशः ॥२०१ राजभजनरेपामथो वा राजतान्वितैः । वापि श्रया उत्तमक्षयायोपकल्पते ॥ २०२ देवकार्याद्विजातीनां पितृकार्य विशिष्यते देवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥ २०३ तेपामारक्षभूतं त पूर्व देव नियोजयेन ।

रक्षांसि हि विलुम्पन्ति श्राद्धमारवजितम् ॥२०४

वायन्तं तदीत पित्रायन्तं न तद्भवेत ।

पित्राद्यन्तं त्वहमानः क्षिप्रं नश्यति सान्वयः ॥२०५

शुचि देशं विविक्तं च गोमयेनोपलेपयेत् ।

दक्षिण प्रवणञ्च प्रयत्नेनोपपादयेत् ॥२६

अवकाशे चोक्षेप नदीतीरे चैव हि ।

विविक्तंप च तष्यन्ति दत्तेन पितरः सदा ॥ २०७

आसने धूपक्लृप्तेष वर्हिष्मत्सु पृथक् पृथक् ।

उपोदकान सम्यग्विप्रांस्तानुपवेशयेन ॥२०८

[[१३]]

[[५४]]

[ तृतीयो

मनुस्मृतिः ।

उपवेश्य तु तान्विप्रानासनेष्वजुगुप्सितान् । गन्धमाल्यैः सुरभिभिरर्चयेदं वपूर्वकम् ॥२०६ तेषामुदकमानीय सपवित्रांस्तिलानपि । अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ २१० अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः हवितेन विधिवत्पश्चात्सन्तर्पयेत् पितॄन ॥२९१ अग्न्यभाव तु विप्रस्य पाणाववोपपादयेत । यो ह्यग्निः स द्विजविमंन्त्रदर्शिभिरुच्यते ॥ २१२ अक्रोवनान्प्रसादान्यदन्त्येतान्पुरातनाः । लोकायुक्ताद्धदेवान्द्विजोत्तमान ॥ २१३ अपसव्यमग्नौ कृत्वा सर्वमावृत्परिक्रमम । अपसव्येन हस्तेन निर्वदुकं भुवि ॥ २१४

त्रींस्तु तस्माद्धविःशेषात् पिण्डान्कृत्वा समाहितः । औटकेनेव विधिना निर्वपेदक्षिणामुखः ॥ २१५ न्युष्य पिण्ड स्तरस्तस्तु प्रयतो विधिपूर्वकम । तेषु दर्भेपु तं हस्तं निर्मृ’ ज्याल्लं पभागिनाम ॥२१६ आचम्योढनरावृत्य त्रिरायम्य शनैरसून । पतंश्च नमस्कुर्यात्पितृनेव च मन्त्रवित ॥ २१७ उदकं निनयेच्छेयं शनै पिण्डान्तिकेपुनः । अवजिघंच तान्पिण्डान्यथान्युमान्समाहितः ॥ २१८ पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः ।

तानैव विप्रानासीनान्विधिवत्पूर्वमाशयंत ॥२१६

ऽध्यायः ]

श्राद्धवर्णनम्

धियमाणं तु पितरि पर्वेषामेव निर्वपेत् ।

विप्रवद्वापि तं श्राद्धं स्वकं पितरमाशयेत् ॥ २२० पिता यस्य निवृत्तः स्याज्जीवचापि पितामहः । पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् ॥२२१ पितामहो वा तच्द्राद्ध भुञ्जीतेत्यब्रवीन्मनुः । कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥ २२२ तेपां दत्त्वा त हस्तेषु सपवित्रं तिलोदकम् । तत्पिण्डा’ प्रयच्छेत स्ववैषामस्विति ब्रुवन् ॥२२३ पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम् । विप्रांतिके पितृन्ध्यायन कैरुपनिक्षिपेत् ॥२२४ उभयो ईस्तयोर्मुक्तं यदन्नमुपनीयते । तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ॥ २२५ गुणांश्च सूपशाकाद्यान पयो दधि घृतं मधु । विन्यसेत्प्रयतः पर्व भूमावेव समाहितः ॥२२६ भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च । हृद्यानि चैत्र मांसानि पानानि सुरभीणि च ॥ २२७ उपनीयत तत्सर्वं शनकैः सुसमाहितः । परिवेषयेत प्रयतो गणान्सर्वान्प्रचोदयन ॥२२८ नाममापातयेज्जात न कुप्येन्नानृतं वदेत । न पादेन रोइन न चेतदवधूनयेत् ॥ २२६ अत्र गमयति प्रेतान् कोपोऽरीननृतं शुनः । पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् ॥२३०

[[५६]]

मनुस्मृतिः ।

यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः ।

[ तृतीयो

ब्रह्मोद्याश्च कथाः कुर्यात्पितृणामेतदीप्सितम् ॥२३१ स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥२३२ हर्षयेद्ब्राह्मणस्तष्टो भोजयेच्च शनैः शनैः । अन्नायं नासकृच्चैतान्नाश्च परिचोदयेन ॥ २३३ व्रतस्थमपि दौहित्रं श्राद्धं यत्नेन भोजयेत् । कुतपं चासनं दद्यात्तिलेश्च विकिरेन्महीम् ॥२३४ त्रीणि श्राद्ध पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम ॥२३७

अत्युष्णं सर्वमन्नं स्याद्भुञ्जीरस्ते च वाग्यताः । न च द्विजातयो वयुर्दाचा प्रवाहविर्गुणान ॥२३६ यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः । पितरस्तावदश्नन्ति यावन्नोता हविर्गुणः ॥ २३७ यह ष्टितशिरा मुकं यद्भुङ्क्तं दक्षिणामुखः । मोपानत्कश्च यद्भुक्तं त रक्षांसि भुञ्जते ॥२३८ चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च । रजस्वला च पण्डश्च नेक्षेरन्नश्नतो द्विजान ॥ २३६ होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते । देवे हविषि पित्र्ये वा तद्गच्छ्रन्ययथातथम २४० घ्राणेन शूकरो हन्ति पक्षवातेन कुक्कुटः । श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः ॥ २४१

ऽध्यायः ।

श्राद्धवर्णनम्

खो वा यदि वा काणो दातः प्रेष्योऽपि वा भवन । हिनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः ॥ २४० ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेन ॥२४३ सार्ववणिकमन्नायं सन्नीयाप्लाव्य वारिणा । समुत्सृजेस्तवतामप्रतो विकिरन भुवि ॥ २४४ असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । उच्छि भागवेयं स्याह विकिरश्च यः ॥२४८ उच्छेषणं भूमिगतमजिह्मस्याशठस्य च । दासवर्गस्य लिये भागधेयं प्रचक्षते ॥ २४६ आसपिण्ड क्रियाकर्म द्विजातेः संस्थितस्य तु । अदैवं भोजयेच्छ्राद्ध पिण्डमेकं तु निर्वपेन ॥२४७ महपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वापणं सुतैः ॥२४८ श्राद्धं भुक्त्वा य उच्छिए वृपलाय प्रयच्छति । स मूढ़ो नरकं याति कालसूत्रमवाक्शिराः ॥ २४६ श्राद्धभुग वृपलीतल्पं तदर्थोऽधिगच्छति । तस्या पुरीषं तं मासं पितरस्तस्य शेरते ॥ २५० पृष्ट्वा स्वदितमित्येवं तृमानाचामयेत्ततः । आचान्तांश्चानुजानीयादभितो रम्यतामिति ॥ २५९ स्वधाऽस्त्वित्येव तं वयुर्ब्राह्मणास्तदनन्तरम् ।

स्वधाकारः परा ह्याशीः सर्वेष पितृकर्मसु ॥ २५२

[[५७]]

[[५८]]

मनुस्मृतिः ।

ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् । यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ॥ २५३ पित्र्ये सहितमित्येवं वाच्यं गोष्ठे तु सुभृतम् । सम्पन्नमित्यभ्युदये देवे रुचितमित्यपि ॥ २५४ अपराह्नस्तथा दर्भा वास्तुसम्पादनं तिलाः । सृष्टि द्विजाश्चाग्याः श्राद्धकर्म सम्पदः ॥ २५५ दर्भाः पवित्रं पूर्वाह्न हविष्याणि च सर्वशः । पवित्रं यच पूर्वास्तं विज्ञेया हव्यसम्पदः ॥ २५६ मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् । अक्षारलवणं चैत्र प्रकृत्या हविरुच्यते ॥ २५७ विसज्य ब्राह्म गांस्तस्तु प्रयतो विधिपूर्वकम् । दक्षिणां दिशमाकांक्ष त्याचेतेमान्वरान्पितॄन् ॥२५८ दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माध्यमदे च नोऽस्त्रिति ॥ २५६ एवं निर्वणं कृत्वा पिण्डस्तं स्तदनन्तरम् । गां विमजम वा प्राशये वा क्षिपेत् ॥२६० पिण्डनिर्वापणं केचित्तुरस्तादेव कुर्वते ।

वयोभिः खादयत्य ये प्रक्षिपन्त्यले वा ॥२६१ पतिव्रता धर्मपत्नी पितृपूजनतत्वरा ।

मध्यमं तु ततः पिण्डमद्यात्सम्यक् सुतार्थिनी ॥२६२ आयुष्मन्तं सुतं सृते यशोमेधासमन्वितम् ।

धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा ॥ २६३

[ तृतीयो

ऽध्यायः

श्राद्धवर्णनम्

प्रक्षाल्य हस्तावाचम्य ज्ञातिप्रायं प्रकल्पयेत । ज्ञातिभ्यः सत्कृतं दत्वा बान्धवानपि भोजयेत ॥ २६४ उच्छेषणं तु ततिष्ठेयावद्विप्रा विसर्जिताः । ततो गृहबलिं कुर्यादिति धर्मा व्यवस्थितः ॥ २६८ हविर्यविररात्राय यचानन्त्याय कल्पते ।

पितृभ्यो विधिवद्दत्तं तन प्रवक्ष्याम्यशेषतः ॥ २६६ तिलंत्रीहियवर्मा र द्भिर्मूलफलेन वा ।

वै

दत्तन मासं तृप्यन्ति विधिवलितरो नृणाम् ॥ २६७ द्वौ मासौ मत्स्यमांसेन त्रीन मासान हारिणन तु । और त्रेणाथ चतुरः शाकुतेनाथ पंच व ॥ २६८ पण्मासांच्यागमांसेन पार्षतेन च सत अष्टावणेय मांसेन रौवंण नवेंत्र तु ॥ २६६ दशमासस्तु तृप्यन्ति वराहमहिषामिपैः । शशकूर्मयोस्तु मांसेन मामानेकादशैव तु ॥ २७० संवत्सरे तु गव्येन पयमा पायसेन च । बाणसस्य मांसेन तृतिवार्षिकी ॥ २७१ कालशाकं महाशल्काः खङ्गलोहामिपं मधु । आनन्त्यायैव कल्यन्ते मुन्यन्नानि च सर्वशः ॥ २७२ यत्किचिन्मधुना मिश्रं प्रदद्यात्त त्रयोदशीम् । तदप्यक्षयमेव स्याद्वर्पासु च मघासु च ॥ २७३

अपि नः स कुले भूयाद्यो नो दद्यात्रयोदशीम् । पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥ २७४

[[५६]]

[[६०]]

मनुस्मृतिः ।

[ तृतीयो

यद्यद्ददाति विधिवत् सम्यक श्रद्धासमन्वितः । तत्तन पितॄणां भवति परत्रानन्तमयम् ॥ २७५ कृष्णपक्ष दशम्यादौ वर्जयित्वा चतुर्दशीम । श्राद्धं प्रशस्त स्तिथयो यथैता न तथेतरा ॥२७६ युसु कुर्वन दिनक्षेप सर्वान्कामान् समश्नुते । अयुक्षु तु पितॄन सर्वान्प्रजां प्राप्नोति पुष्कलाम ॥ २७७ यथा चंबापरः पक्षः पर्वपक्षाद्विशिष्यते । तथा श्राद्धस्य प्रवादपराहो विशिष्यते ॥२७८ प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पिव्यता नियात्कार्य विधिवदर्भपाणिना ॥२७६ रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । सत्व्ययोरुभयोश्चंत्र सूर्य चबाचिरोदिते ॥२८० अनेन विधिना श्राद्ध त्रिम् निर्वपेत् ।

  • {

हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमत्वहम् ॥२८१ न पतृयज्ञियो होमो लौकिक विचीयते ।

न दर्शन विना श्राद्धमाहिताग्नेद्विजन्मनः ॥ २८२ यंदेव तर्पयत्यद्भिः पितॄनस्नात्वा द्विजोत्तमः । तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् ॥ २८३ मूत्वदन्ति वै पितृन रुद्रांश्चैव पितामहान । प्रपितामहांस्तथादित्यान श्रुतिरेषा सनातनी ॥२८४ विघसाशी भवन्नित्यं नित्यं वामृतभोजनः । विवसो भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥२८५

[[1]]

ऽध्यायः ]

गृहस्थाश्रमवर्णनम्

एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम ।

द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति ॥ २८६

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां तृतीयोऽध्यायः ।

–:0:

चतुर्थोऽध्यायः ।

अथ गृहस्थाश्रम वर्णनम् ।

चतुर्थमायुषो भागमुपित्वाऽऽयं गुरौ द्विजः । द्वितीयमायुपो भागं कृतदारो गृहे वसेत ॥१ अद्रोहेणैव भूतनामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवदनापदि ॥ यात्रामात्रप्रसिद्धयर्थं स्वैः कर्मभिरगहितः । अक्कु शेन शरीरस्य कुर्वीत धनसंचयम ॥३

तामृताभ्यां जीवेत्त मृनेन ग्रमृतेन वा । सत्यानृताभ्यामपिवा न श्ववृत्त्या कदाचन ॥४ मृतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥५ सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत ॥६ कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । व्यकिको वाऽपि भवेदश्वस्तनिक एव वा ॥७

[[६१]]

[[६२]]

मनुस्मृतिः ।

चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् । ज्यायान् परःपरो ज्ञेयो धर्मतो लोकजित्तमः ॥८ पट् कर्मको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकच तुर्थस्तु ब्रह्मसत्रेण जीवति ॥६ वर्तयंश्च शिलोञ्छाम्याम ग्रिहोत्रपरायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥१० न लोकवृत्तं वर्त्तत वृत्तिहेतोः कथञ्चन ।

अजिह्म मराठां शुद्धां जीवेद्ब्राह्मणजीविकाम् ॥११ सन्तोषं परमास्थाय सुखार्थी संयतो भवेत् । सन्तोपमूलं हि सुखं दु खमूलं विपर्ययः ॥ १२ अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । स्वग्र्यायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥ १३ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥ १४ नेहेतार्थात प्रसन न विद्ध ेन कर्मणा ।

[ चतुर्थो

न विद्य ( कल्प ) मानेष्वर्थेषु नानि यतस्ततः ॥१५ इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।

अतिप्रसञ्चितेषां मनसा सन्निवर्तयेत् ॥१६

सर्वान्परित्यजेदर्थात् स्वाध्यायस्य विरोधिनः ।

यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥ १७ वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । वेपवाग् बुद्धिसारूप्यमाचरन्विचरेदिह ॥१८ऽध्यायः ]

गृहस्थाश्रमवर्णनम्

बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च । नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वेदिकान् ॥१६ यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चास्य रोचते ॥२० ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा । नृयतं पितृयज्ञं च यथाशक्ति न हापयेत् ॥२१ एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः । अनी हमानाः सततमिन्द्रियेष्व जुह्वति ॥२२ वाच्ये जुह्वति प्राणं प्राणं वाचं च सर्वदा । वाचि प्राणे च पश्यन्तो यज्ञनिरृत्तिमक्षयाम् ॥ २३ ज्ञानेनैवापरे विप्रा यजन्ते तैर्मख सदा । ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुपा ॥२४ अग्निहोत्रं च जुड़यादायन्ते द्य निशोः सदा । दर्शन चार्धमासान्ते पौर्णमासेन चैव हि ॥२५ सस्यान्ते नवसस्येष्ट्या तथन्ते द्विजोऽध्वरैः । पशुना त्वयनान्ते तु समान्ते सौमिकर्मखैः ॥२६ नानिष्ट्वा नवशस्येष्ट्या पशुना चानिमान् द्विजः । नवान्नमवान्मांसं वा दीर्घमायुर्जिजीविषुः ॥२७ नवनानचिंता ह्यस्य पशुहत्येन चाग्नयः । प्राणनेवात्तमिच्छन्ति नवान्नामिपगर्धिनः ॥२८

आसनारान राज्याभिरद्भिर्मूलफलेन वा ।

नास्य कश्चिद्धसे गेहे शक्तितोऽन चितोऽतिथिः ॥२६

[[६३]]

मनुस्मृतिः ।

[ चतुर्थो

पापण्डिनो विकर्मस्थानवैडालव्रतिकाञ्छशठान । हेतुकाrangत्तीश्च मात्रेणापि नार्चयेत् ॥३० वेदविद्याव्रतस्नाताञ्छ्रोत्रियान गृहमेधिनः । पूजयेद्धव्यकव्येन विपरीतांच वर्जयेन ॥३१ शक्तितोऽपचनानेभ्यो दातव्यं गृहमेधिना । संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥३२ राजाती धनमन्विच्छेत्संसीदस्नातकः क्षुधा । याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ॥ ३३ न सदस्नातको विप्रः क्षुवा शक्तः कथंचन । न जीर्णमलवद्वासा भवेन विभवं सति ॥ ३४ क्लनकेशनवरवदन्तिः शुक्लाम्बरः शुचिः । : । स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ॥३८ वैणवीं धारयेद्यष्टि मोदकं च कमण्डलुम । यज्ञोपवीतं वदं च शुभे रौम्मे च कुण्डल ॥३६ नक्षतोयन्तमादित्यं नाम्तं यान्तं कदाचन । नोपसृद्ध न बारिस्थं न मध्यं नभसो गतम ॥३७ त्सतन्त्र न प्रधावेव वर्षति ।

न चोदके निरीक्षन स्वरूपमिति धारणा ॥ ३८ मृदंगां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञानांश्च वनस्पतीन ॥ ३६ नोपगच्त्रमत्तोऽपि स्त्रियमवदर्शने । ‘समान शयने चैव न शयीत तया सह ॥४०

ऽभ्य यः ]

गृहस्थाश्रमवर्णनम् ।

रजसाऽभिप्लुतां नारीं नरस्य ह्युपगच्छतः । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥ ४१ तां विवर्जयतस्तस्य रजसा समभिप्लुताम् । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥ ४२ नाश्नीयाद्भार्यया सार्धं ननामीक्षेत चाश्नतीम् । ध्रुवतो जृम्भमाणां वा न चासीनां यथासुखम् ॥४३ नाञ्जयन्तीं स्वके नेत्रं न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्ती च तेजस्कामो द्विजोत्तमः ॥४४ नान्नमद्यादेकवासा न नग्मः स्नानमाचरेत् । न मूत्रं पथि कुर्वीत न भम्मनि न गोब्रजे ॥ ४५ न फालकृष्ट न जले न चित्यां न च पर्वते । न जीर्णदेवायतने न वल्मीके कदाचन ॥ ४६ न ससत्वंषु गतेषु न गच्छन्नापि च स्थितः । न नदीतीरमासाद्य न च पर्वतमस्तके ॥ ४७ वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः । न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥४८ तिरस्कृत्योचरेत्काष्ठ लोष्ठपत्रतृणादि च । नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥४६ मूत्रोवारसमुत्सर्ग दिवा कुर्यादुदङ्मुखः । दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा ॥५०

छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्प्राणबाधभयेषु च ॥५१

[[५]]

[[६५]]

[[༥]]

.am

मनुस्मृतिः ।

प्रत्यग्नि प्रतिसूर्यं च प्रतिसोमोदकद्विजम् । प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥५२ नाग्नि मुखनोपधमेन्नग्नां नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥५३ अधस्त नोपध्याच्च न चैनमभिलङ्घयेत् । न चैनं पादतः कुर्यान्न प्राणावाधमाचरेत् ॥५४ नाश्नीयात् सन्धिवेलायां न गच्छन्नापि संविशेत । न चैब प्रलिखेद्भूमिं नात्मनोऽपहरेत्स्रजम् ॥५५ नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ॥ अमेध्यलिप्रमन्यद्वा लोहितं वा विपाणि वा ॥५६ नैकः स्व याच्छ्रन्यगेहे श्रेयांसं न प्रबोधयेत् । नोडस्ययाऽभिभाषेत यज्ञं गच्छेन्न चावृतः ॥ ५७ अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च सन्निधौ । स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥५८ न वारयेद्गां धयन्तीं न चाचक्षीत करयचित् । न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेद्बुधः ॥५६ नाधार्मिके वसेामे न व्याधिबहुले भृशम् । नैकः प्रपद्य ताध्वानं न चिरं पर्वते वसेन ॥६० न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते । न पाषण्डिगगाक्रान्ते नोपसृष्टेऽन्त्य जैर्नृभिः ॥६१ न भुञ्जीतोद्ध, तस्नेहं नातिसौहित्यमाचरेत् । नातिप्रगे नातिसायं न सायं प्रातराशितः ॥६२

[ चतुर्थी

ऽध्यायः ]

गृहस्थाश्रमवर्णनम् ।

न कुर्वीत वृथाचेां न वार्यञ्जलिना पिवंत ।

नोत्सङ्ग भक्षयेद्भक्ष्यान्न जातु स्थात कुतूहली ॥ ६३ न नृत्येन्नैव गायेच न वादित्राणि वादयेत । नास्फोटयेन्न च वेडेन्न च रक्तो बिरावयेत् ॥ ६४ न पादौ धावयेत्कांस्ये कदाचिदपि भाजने । न भिन्नभाण्डे भुञ्जीत न भावप्रतिपते ॥ ६५ उपानहौ च वामश्च धृतमन्येन धारयेत् । उपवीतमलङ्कारं स्रजं करकमेव च ॥ ६६ नाविनीतं येन च क्षुद्रयाधिपीडितैः । न भिन्नशृङ्गाभिखरैर्न वालधिविरूपितैः ॥ ६७ विनीतस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः । वर्गरूपोपसंपन्नः प्रतोदेनाक्षिपन्भृशम् ॥६८ बालातपः प्रेतधूमो वज्यं भिन्नं तथाऽऽसनम् । न च्छिन्द्यान्नखरोमाणि दन्तेनोत्पाटयेन्नखान् ॥ ६६ न मृल्लोष्ठ च मृदुनीयान्न छिन्यात्करजैस्तृणम् । न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ॥ ७० लोष्ठमढ़ीं तृणच्छेदी नखखादी च यो नरः । स विनाशं व्रजत्याशु सूचकोऽशुचिरेव च ॥ ७१ न विगृह्य कथां कुर्याद्वहिर्माल्यं न धारयेत् । गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ७२ अद्वारेण च नातीयाद्ग्रामं वा वेश्म वा वृतम् । रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ७३

[[६७]]

[[६८]]

मनुस्मृतिः ।

[ चतुर्थी

नादव्येत्कदाचित्तु स्वयं नोपानहौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ७४ सर्व च तिलसम्बद्ध नाद्यादस्तमितेरौ ।

न च नमः शयीतेह न चोच्छिः कचिद्व्रजेत् ॥ ७५ आर्द्रपाद्रस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ ७६ अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित् । न विण्मूत्रमुदीक्षेत न वाहुभ्यां नदीं तरेत् ॥ ७৬ अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः । न कार्पासास्थि न तुपान्दीर्घमायुर्जिजीविषुः ॥ ७८ न संवसेच पतितैर्न चाण्डालैर्न पुल्कसः । न मूर्खेर्नावलिप्तश्च नान्त्यैर्नान्त्यावसायिभिः ॥ ७६ न शूद्राय मति दद्यान्नोच्छिन हविष्कृतम् । न चास्योपदिशद्धम न चास्य व्रतमादिशत् ॥ ८० यो हास्य धर्ममाच यश्चैवादिशति व्रतम् । सोसंवृतं नाम तमः सह तेनैव मज्जति ॥ ८१ न संहताभ्यां पाणिभ्यां कण्डयेदात्मतः शिरः । न स्पृशेच तदुच्छिष्टो न च स्नायाद्विना ततः ॥८२ केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्जयेत । शिरः स्नातश्च तैलेन नाम किञ्चिदपि स्पृशत् ॥ ८३ न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः । सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ८४

Sध्यायः ]

गृहस्थाश्रमवर्णनम् ।

[[६६]]

दशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमो वेशो दशवेशसमो नृपः ॥ ८५ दशसूनासहस्राणि यो बाहयति मौनिकः । तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ ८६ यो राज्ञः प्रतिगृह्णाति लुग्धस्योच्छास्त्रवर्तिनः । स पर्यायेण यातीमान्नरकानेकविंशतिम ॥ ८७ तामिस्रमन्धतामिस्रं महारौखरौरवौ । नरकं कालसूत्रं च महानरकमेव च ॥ ८८ संजीवनं महावीचि तपनं सम्प्रतापनम् । संहातं च सकाकोलं कुड्मलं पूतिमृत्तिकम् ॥ ८६ लोहशंकुमृजीपं च पन्थानं शाल्मलीं नदीम् । असिपत्रवनं चैव लोहदारकमेव च ॥ ६० एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकांक्षिणः ॥ ६१ ब्राह्म मुहूर्त बुद्धयंत धर्मार्थों चानुचिन्तयेत् । कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥ १२ उत्थायावश्यकं कृत्वा कृतशौचः समाहितः । पूर्वा सन्ध्यां जपंस्तिष्ठेत् स्वकाले चापरां चिरं ॥ ६३ ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः ।

प्रज्ञां यशश्व किर्ति च ब्रह्मवर्चसमेव च ॥ ६४ श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि ।

युक्तश्छदांस्यधीयीत मासान्विप्रोऽर्धपंचमान् ॥ ६५

[[७०]]

मनुस्मृतिः ।

पुष्ये तु च्छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः । माघशुक्लत्य वा प्राप्ते पूर्वाह्न प्रथमेऽहनि ॥ ६६ यथाशास्त्रं तु कृत्वैवमुत्सर्गं छंदसां वहिः । विरमेत पक्षिणीं रात्रिं तदेवैकमहर्निशं ॥ ६७ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्पक्षेषु सम्पठेत् ॥ ६८ नाविस्पटमधीयीत न शूद्रजनसन्निधौ ।

[ चतुर्थो

न निशान्ते परिश्रान्तो ब्राह्मावीत्य पुनः स्वपेत् ॥ ६६ यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत ।

ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो धनापदि ॥। १०० इमान्नित्यमनध्यायानधीयानो विवर्जयेन ।

अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकं ॥ १०४ कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने । एतौ वस्वनव्यायावध्यायज्ञाः प्रचक्षते ॥ १०२ विद्यत्स्तनितवर्षपु महोल्कानां च संप्रवे । आकालिकमनध्यायमेतेषु मनुरत्रवीत् ॥१०३ एतांस्त्वभ्युदितान् विद्यात् यदा प्रादुष्कृताग्निषु । तदा विद्यादनध्यायमनृतौ चादर्शने ॥ १०४ निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतानाकालिकान्विद्यादनध्यायानृतावपि ॥ १०५ प्रादुष्कृतेष्वमिषु तु विद्यत्स्तनितनि स्वने ।

सज्योतिः म्यादनध्यायः शेषे रात्रौ यथा दिवा ॥१०६

ऽध्यायः ]

गृहस्थाश्रमवर्णनम् ।

नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च । धर्मनैपुण्यकामानां पूतगन्धे च सर्वशः ॥ १०७ अन्तर्गत ग्रामे वृपलस्य च सन्निधौ । अनध्यायो रुद्यमाने समवाये जनस्य च ॥ १०८ उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।

उच्छिष्टः श्राद्धभुक्चैव मनसाऽपि न चिन्तयेत् ॥ १०६ प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टनिकेतनं ।

त्र्यहं न कीर्तये राज्ञो राहो सूतके ॥ ११० यावदेकानुदिप्रस्य गन्धो लेपश्च तिष्ठति ।

विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥ १११ शयानः प्रौढपादश्च कृत्वा चैवावथिकाम ॥ नाधीयीतामिपं जख्वा सूतकान्नाद्यमेव च ॥ ११२ नीहारे वाणशब्दे च सन्ध्ययोरेव चोभयोः । अमावास्याचतुद्दश्योः पौर्णमास्यटकासु च ॥ ११३ अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माकापौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥११४ पांशुवर्षे दिशां दाहे गोमायुविरुते तथा । श्रखरोष्ट्र च स्वति पङ्क्तौ च न पठेद्विजः ॥ ११५ नाधीयीत श्मशानान्ते ग्रामान्ते गोत्रजेऽपि वा । वसित्वा मैथुनं वामः श्राद्धिकं प्रतिगृह्य च ॥ ११६ प्राणि वा यदि वाऽप्राणि यत्किञ्चिच्छ्राद्धिकं भवेत् । तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥ ११७

[[७१]]

[[७२]]

मनुस्मृतिः ।

चौरैरुपप्लुते ग्रामे संभ्रमे चाग्निकारिते। आकालिकमनध्यायं विद्यात् सर्वाद्भुतेषु च ॥ ११८ उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतं ।

[ चतुर्थो

अकासु त्वहोरात्र मृत्वन्तासु च रात्रिषु ॥ ११६ नाधीयीताश्वमारूडो न वृक्ष न च हस्तिनम् । न नावं न खरं नोष्टं नेरिणस्थो न यानगः ॥ १२० न विवादे न कलहे न सेनायां न सङ्गरे । न भुक्तमात्रे नाजीर्णे न मिलान शुक्तके ॥ १२१ अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम । रुधिरे च ते गात्राच्स्त्रेण च परिक्षते ॥ १२२ सामध्वनावृग्यजुषी नाधीयीत कदाचन । वेदस्याधीत्य वाऽप्यन्तमारण्यकमधीत्य च ॥ १२३ ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः । सामवेदः स्मृतः पित्र्यस्तस्मात्तम्याशुचिर्धनिः ॥ १२४ एतद्विदन्तो विद्वांसस्त्रयीनिष्कर्तमन्वहम् 1

क्रमशः पूर्वमभ्यस्य पश्चाद्वेदमधीयते ॥ १२५ पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः । अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ १२३ द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः ।

स्वाध्यायभूमिं चाशुद्वामात्मानं चाशुचि द्विजः ॥ १२७ अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥१२८ऽध्यायः ]

गृहस्थाश्रमवर्णनम् ।

न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि । न वासोभिः सहाजत्र नाविज्ञाते जलाशये ॥१२६ देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । नाक्रामेत कामतश्छायां वभ्रुणो दीक्षितस्य च ॥ १३० मध्यंदिनेऽर्धरात्रं च श्राद्धं भुक्त्वा च सामिषम् । सन्ध्ययोम्भयोश्चैव न सेवत चतुष्पथम ॥ १३१ उद्वर्तनमपस्नानं विण्मूत्रं रक्तमेव च । श्लेष्मनिष्ठ्य तवान्तानि नाधिनिष्ठेत्तु कामतः ॥ १३२ वैरिणं नोपसेवत सहायं चैव वैरिणः ।

अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ १३३ न हीदृशमनायुष्यं लोके किञ्चन विद्यते । यादृशं पुरुषस्येह परदारोपसेवनम् ॥१३४ अत्त्रियं चैव सर्प च ब्राह्मणं च बहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदाचन ॥ १३५ एतत्रयं हि पुरुषं निद्द हेदवमानितम् । तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ १३६ नात्मानमवमन्येत पूर्वाभिरसमृद्धिभिः ।

आमृत्योः श्रियमन्विच्छन्नैनां मन्येत दुर्लभाम् ॥१३७ सत्यं ब्रूयात्प्रियं वयान्नब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १.३८ भद्रभद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ।

शुष्कवैरं विवादं च न कुर्यात् केनचित् सह ॥ १३६

[[७३]]

[[७४]]

मनुस्मृतिः ।

[ चतुर्थो

नातिकल्यं नातिसायं नातिमध्यं दिने स्थिते । नाज्ञातेन समं गच्छेन्नैको न वृषलैः सहः ॥१४० हीनाङ्गानतिरिक्ताङ्गान विद्याहीनान् वयोऽधिकान् । रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ १४४ न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् । न चापि पश्येदशुचिः स्वस्थ ज्योतिर्गणान्दिवि ॥ १४० स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।

गात्राणि चैव सर्वाणि नाभि पाणितलेन तु ॥ १४३ अनातुरः स्वानि खानि न खरीदनिमित्ततः । रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥१४४ मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः । जपेच जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥१४५ मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम । जपतां जुह्वतां चैत्र विनिपातो न विद्यते ॥ १४६

मेवाभ्यसे (जपे) न्नित्यं यथाकालमतन्द्रितः । तं स्याहुः परं धर्ममुपधर्माऽज्य उच्यते ॥ १४७ वेदाभ्यासेन सततं शौचेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम ॥ १४८ पौर्विकीं संस्मरन जातिं ब्रह्मवाभ्यस्यते द्विजः । ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते ॥ १४६ सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः । पितृ श्चैवाष्टकास्वर्चेन्नित्यमन्वप्रकासु च ॥१५०

[[1]]

ऽध्यायः ]

गृहस्थाश्रमवर्णनम् ।

दूरादावसथान्मूत्रं दूरात् पादावसेचनम् । उच्छिष्टान्तनिषेकं च दूरादेव समाचरेत् ॥ १५१ मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । पूर्वाह्न एव कुर्वीत देवतानां च पूजनम् ॥१५२ देवतान्यभिगच्छेत्तु धार्मिकांच द्विजोत्तमान् । ईश्वरं चैव रक्षार्थ गुरूनेव च पर्वसु ॥ १५३ अभिवादयेदवृद्धांश्च दद्याचैवासनं खकम् । कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥१५४ श्रुतिस्मृत्युदितं सम्यनिवद्ध स्वषु कर्मसु । धर्ममूलं निपर्वत सदाचारमतन्द्रितः ॥ १५५ आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः । आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥१५६ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥१५७ सर्वलक्षण होनोऽपि यः सदाचारवान्नरः । श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ १५८ यद्यन परवशं कर्म तत्तद्यन ेन वर्जयेन । यद्यदात्मवसं तु स्यात्तत्तत्सेवत यत्नतः ॥ १५६ सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद्विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ १६० यत् कर्म कुर्वतोऽस्य स्यात् परितोषोऽन्तरात्मनः । तद् प्रयत्न ेन कुर्वीत विपरीतं तु बर्जयेत् ॥ १६१

[[७५]]

७÷

मनुस्मृतिः ।

आचार्य च प्रवक्तारं पितरं मातरं गुरुम् ।

[ चतुर्थो

न हिंस्याद् ब्राह्मणान गांव सवाश्चैव तपस्विनः ॥ १६२ नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।

द्वेषं दम्भं (स्तम्भ) च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ १६३ परम्य दण्डं नोद्यच्छंतक द्धो नैनं (नैव ) निपातयेत् । अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थ ताडयेत्तु तौ ॥ १६४ ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया ।

शतं वर्षाणि तामित्र नरके परिवर्तते ॥१६५ ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम् । एकविंशतिमाजातीः पापयोनिषु जायते ॥ १६६ अयुध्यमानस्योत्पाद्य ब्राह्मणस्यामृगङ्गतः । दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥ १६७ शोणितं यावतः पांसून्संगृह्णाति महीतलात् । नावतोऽदानमुत्रान्यैः शोणितोत्पादकोsयते ॥ १६८ न कदाचिद्विजे तस्माद्विद्वानवगुरेदपि । न ताडयंत्तणेनापि न गात्रात्स्रावयेदसृक् ॥१६६ अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् । हिंसारतिश्च यो नित्यं नेहासौ सुखमेधते ॥ १७० न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् । अधार्मिकाणां पापानामाशु पश्यन् विपर्ययम् ॥१७१ नाधर्मश्वरितो लोके सद्यः फलति गौरिव । शनैरावर्त्य मानस्तु कर्तुर्मूलानि कृन्तति ॥ १७२

ऽध्यायः

गृहस्थाश्रमवर्णनम् ।

यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु । न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥ १७३ अधर्मेणैधते तावत्ततो भद्राणि पश्यति ।

ततः सपत्नान् जयति समूलस्तु विनश्यति ॥ १७४ सत्यधर्मार्यवृत्तेषु शौचे चंवा रमेत सदा । शिष्यांश्च शिष्याद्धर्मेण वाग्वाहृदरसंयतः ॥ १७५ परित्यजदर्थकामौ यौ स्यातां धर्मवर्जिता ।

धर्मं चाप्यसुखोदर्क लोकवि (सं) क्रुटमेव च ॥ १७६ न पाणिपादचपलो न नेत्रचपलोऽनृजुः । न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ १७७ येनास्य पितरो याता येन याताः पितामहाः । तेन यायात् सतां मार्ग तेन गच्छन्नरिष्यते ॥ १७८ ऋत्विक पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः । बालवृद्धातुरं ज्ञातिसम्बन्धिबान्धवैः ॥ १७६ मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ।

[[1]]

दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ १८० एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते । एभिर्जितश्च जयति सर्वा लोकानिमान्गृही ॥ १८१ आचार्यो ब्रह्मलोकेशः प्राजापत्यं पिता प्रभुः । अतिथिस्त्वन्द्रलोकेशो देवलोकस्य चत्र्विजः ॥ १८२ जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः । सम्बन्धिनो पां लोके पृथिव्य

[[७८]]

मनुस्मृतिः ।

[ चतुर्थो

आकाशशास्तु विज्ञेया बालकृद्धकृशातुराः ।

भ्राता ज्यष्ठः समः पित्रा भार्या पुत्र स्वका तनुः ॥ १८४ छाया स्वो दासवर्गश्च दुहिता कृपणं परम् । तस्मादेतैरधिक्षिप्तः सहतासंज्वरः सदा ॥ १.८५ प्रतिग्रहसमर्थोऽपि प्रसङ्गः तत्र वर्जयेत् ।

प्रतिग्रहेण ह्यस्याशु ब्राह्म तेजः प्रशाम्यति ॥१८६ न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे । प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥ १८७ हिरण्यं भूमिमश्वं गामन्तं वामम्तिलान घृतम । प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवन ॥१८८ हिरण्यमायुरन्तं च भूगचाप्योपतस्तनुम् । अश्वश्वरत्वचं वासो घृतं तेजस्तिलाः प्रजाः ॥१८६ अतपास्त्वनधीयानः प्रतिग्रहरुचिद्विजः । अम्भस्य मदेनेव सह तेनैव मज्जति ॥ १६०

तस्मादविद्वान्विभियाद्यस्मात्तस्मात्प्रतिग्रहात् । स्वल्पकेनाप्यविद्वान् हि पक गौरिव सीदति ॥ १६१ न वार्यपि प्रयच्छत्तु वैडालत्रतिके द्विजे ।

न वक व्रतिके विप्रं ( पापे) नावेदविदि धर्मवित ॥ १६२ त्रिष्वप्येतेषु दत्तं हि विधिनाऽप्यर्जितं धनम् । दातुर्भवत्यनर्थाय परत्रादातुरेव च ॥ १६३

यथा वेनोपलेन निमज्जत्युदके तरन् ।

तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छुकौ ॥१६४

ऽध्यायः ]

गृहस्थाश्रमवर्णनम् ।

धर्मध्वजी सदालुब्धश्छाद्मिको लोकदम्भकः । वैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥ १६५ अधोदृष्टिनैस्कृतिकः स्वार्थसाधनतत्परः ।

शठो मिथ्याविनीतश्च वकत्रतचरो द्विजः ॥ १६६ से वकत्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्यन्धतामिस्र तेन पापेन कर्मणा ॥ १६७ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाय कुर्वन् स्त्रोद्रदम्भनम् ॥१६८ प्रत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः । छद्मना चरितं यत्र व्रतं रक्षांसि गच्छति ॥१६६ अलिङ्गी लिङ्गिवेषण यो वृत्तिमुपजीवति । स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥२०० परकीयनिपानेषु न स्नायाद्धि कदाचन । निपानकर्तुः स्नात्वा तु दुष्कृतांशन लिप्यते ॥२०१ यानशय्यासनान्यस्य कृपोद्यानगृहाणि च । अदत्तान्युपयुञ्जान एनसः स्यात्तुरीयभाक् ॥ २०२ नदीषु देवखातेषु तड़ागेषु सरःसु च । स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च ॥ २०३ यमान्सेवेत सततं न नित्यं नियमान्बुधः । यमान्पतन्य कुर्वाणोनियमान्केवलान् भजन ॥२०४ नाश्रोत्रियतते यज्ञे प्रामयाजिकृते तथा ।

स्त्रिया क्लीवेन च हुते भुञ्जत ब्राह्मणः कचित् ॥२०५

[[७६]]

मनुस्मृतिः ।

अश्लीक (ल) मेतत्साधूनां यत्रजुह्वत्यमी हविः । प्रतीप मेत वानां तस्मात्तत्परिवर्जयत ॥ २०६

[ चतुर्थो

मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन । केशकीटावपन्नं च पदा स्टुं च कामतः ॥ २७०

णनावक्षितं चैव संस्पृष्टं चाप्युदक्यया । पतत्रिणाऽवलीढ च शुना संस्पृष्टमेव च ॥ २०८ गवा चान्नमुपाघ्रातं घुष्टान्न च विशेषतः । गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥२६ स्तंनगायनयोश्चान्नं तक्ष्णोर्वाधुपिकस्य च ।

दोक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ २१० अभिशस्तस्य पण्डस्य पुंश्चल्या दाम्भिकस्य च । शुक्तं पर्युषितं चैव शूद्रम्योच्छिष्टमेव च ॥ २११ चिकित्सकस्य मृगयोः क्र रस्योच्छिष्टभोजिनः । उग्रान्नं सूतिकान्नं च पर्याचान्तमनिद्द शम् ॥ २१२ अनचितं वृथामांसमवीरायाश्च योषितः । द्विपदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ॥२१३ पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा । शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥ २१४ कर्मारस्य निपादस्य रङ्गावतरकस्य च । सुवर्णकर्तुर्वणस्य शस्त्रविक्रयिणस्तथा ॥२१५

तां शौण्डिकानां च चैलनिर्णेजकस्य च ।

रञ्ज ( रज) कस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥२१६

‘ऽध्यायः ]

[[६]]

गृहस्थाश्रमवर्णनम् ।

मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः । अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ २१७ राजान्नं तेज आदते शूद्रान्न ब्रह्मवर्चसम्। आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥२१८ कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नश्च लोकेभ्यः परिकृन्तति ॥ २१६ पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठावार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ २२० य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः । तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ २२४ भुक्त्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वाऽऽचरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ॥ २२२ नाद्याच्छूद्रस्य पक्कान्नं विद्वानश्राद्धिनो द्विजः । आददीताममेवास्मादवृत्तावेकरात्रिकम् ॥ २२३ श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । मीमांसिस्कोभयं देवाः सममन्नमकल्पयन् ॥२२४ तान् प्रजापतिराहैत्य मा कृवं विषमं समभ । श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ २२५ श्रद्धयेष्टुं च पूतं च नित्यं कुर्यादतन्द्रितः ।

श्रद्धाकृते ह्यक्षये ते भवतः स्वागतद्ध नः ॥ २२६

दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् ।

परितुष्टेन भावेन पात्रमासाद्य शक्तितः ॥ २२७

[[८१]]

[[८२]]

मनुस्मृतिः ।

यत्किंचिदपि दातव्यं याचितेनानसूयया । उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः ॥ २२८ वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ २२६ भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदोऽप्रयाणि वेश्मानि रूप्यदोरूपमुत्तमम् ॥२३० वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।

[ चतुर्थां

अनडुहः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ॥ २३१ यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।

धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाष्र्ष्टिताम् ॥ २३२ सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।

बार्यन्न गोमहीवास स्तिलकांचन सर्पिषाम् ॥ २३३

येन येन तु भावेन यद्यद्दानं प्रयच्छति । तत्तत्तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ २३४ योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा । ताबुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ २३५ न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् । नार्तोऽप्यपवदेद्विप्रान्न दत्वा परिकीर्तयेत् ॥ २३६ यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् । आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ २३७ धर्म शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः । परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥ २३८उध्यायः ]

गृहस्थाश्रम (धर्म) वर्णनम् ।

नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ २३६ एकः प्रजायते जन्तुरेक एव प्रलीयते । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २४० मृतं शरीरमुत्सृज्य काष्ठोष्ठ समं क्षितौ । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ २४१ तस्माद्धमं सहायार्थं नित्यं संचिनुयाच्छनैः । धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ २४२ धर्मप्रदानं युरुषं तपसा हतकिल्वषम् । परलोकं नयत्याशु भास्वन्तं स्वशरीरिणम् ॥ २४३ उत्तमरुत्तमैर्नित्यं सम्बन्धानाचरेत्सह ।

निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ २४४ उत्तमानुत्तमान्गच्छन्हीनान्हीनाश्ववर्जयन् ।

ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ २४५ दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् ।

अहिंस्र दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः ॥ २४६ एधोदकं मूलफलमन्नमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ २४७ आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् । मेने प्रजापतिर्ब्राह्यामपि दुष्कृतकर्मणः ॥ २४८ नाश्नन्ति पितरस्तस्य दशवर्षाणि पंच च । न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ २४६

[[८३]]

[[८४]]

मनुस्मृतिः ।

शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि ।

[ चतुर्थो

धाना मत्स्यान्मयो मांसं शाकं चैव न निर्णुदेत् ॥ २५० गुरुन्भृत्यांश्चो ज्जिहीर्षन्नचिष्यन्देवतातिथीन् ।

सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ २५५

'

गुरु त्वभ्यतीतेषु विना वा तेगृहे वसन् । आत्मनो वृत्तिमन्त्रिच्छन् गृहीयात्साधुतः सदा ॥ २५२ आर्थिकः कुलमित्रं च गोपालो दासनापितौ । एते शूद्रषु भोज्यान्ना यश्वात्मानं निवेदयेत् ॥ २५३ यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् । यथा चोपचरेदेनं तथाऽऽत्मानं निवेदयेत् ॥ २५४ योऽन्यथा संतमात्मानमन्यथा सत्सु भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ २५५ वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः । तां तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥ २५६ महर्षिपिटदेवानां गत्वाऽनृण्यं यथाविधि । पुत्र सर्व समासज्य वसेन्माध्यस्थ्यमास्थितः ॥ २५७ एकाकी चिन्तयेन्नित्यं विविक्तं हितमात्मनि । एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥२५८ एपोदिता गृहस्थस्य वृतिर्विप्रस्य शाश्वती । स्नातकब्रतकल्पश्च सत्त्ववृद्धिकरः शुभः ॥ २५६ अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् । व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ २६०

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां चतुर्थोऽध्यायः ॥

[ऽध्यायः ]

पञ्चमोऽध्यायः ।

तत्रादौ - अभक्ष्यवर्णनमाह-

श्रुत्वैतानृपय धर्मान् स्नातकस्य यथोदितान ।

इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥ १

एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम् ।

[[1]]

कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ २ स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः । श्रूयतां येन दोषेण मृत्युर्विप्राञ्जिघांसति ॥ ३ अनभ्यासेन वेदानामाचारस्य च वर्जनात् । आलस्यादन्नदोषाच मृत्युर्विप्राञ्जिघांसति । ४ लशुनं गृञ्जनं चैव पलाण्डु कवकानि च । अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥ ५ लोहितान वृक्षनिर्यासान् ब्रश्चनप्रभवांस्तथा । शेलुं गत्र्यं च पेयूषं प्रयत्न ेन विवर्जयेत् ॥ ६ वृथाक्कसरसंयावं पायसापूपमेव च । अनुपाकृतर्मासानि देवान्नानि हवींषि च ॥ अनिर्दशाया गोः क्षोरमौ मैकशकं तथा । आविकं सन्धिनीक्षीरं विवत्सायाचं गो पयः ॥८ आरण्यानां च सर्वेषां मृगाणां माहिषं विना । स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥६ दधि भक्ष्यं च शुकेषु सर्व च दधिसम्भवम् । यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः । १०

[[८५]]

દર્દ

मनुस्मृतिः ।

[ पश्वमो

क्रव्यादः शकुनीन् सर्वांस्तथा ग्रामनिवासिनः । अनिर्दिष्टांश्चैकशफांटिट्टिभं च विवर्जयेत् ॥ ११ कलविङ्क एवं हंसं चक्रा ग्रामकुक्कुटम् । सारसं रज्जुदालं च दान्यूहं शुकसारिके ॥ १२ प्रतुदान् जालपादांश्व कोयटिनखविष्किरान् । निमज्जतश्च मत्स्यादान सौनं बल्लूरमेव च ॥ १३ बकं चैव बलाकां च काकोलं खंजरीटकम् । मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ॥ १४ यो यस्य मांसमश्नाति स तन्मांसाद उच्यते । मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान्विवर्जयेत् ॥१५ पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥ १६ न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान । भक्ष्येष्वसमुद्दिष्टान् सर्वान् पंचनखांस्तथा ॥ १७ श्वाविधं शल्यकं गोधां खड्ग कूर्मशशांस्तथा । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ १८ छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डु गुञ्जनं चैव मत्या जत्रा पतेद्विजः ॥ १६ अमत्येतानि षड्जग्ध्वा कृच्छ सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥ २०

संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातमुक्तशुद्धयर्थं ज्ञातस्य तु विशेषतः ॥ २१

ऽध्यायः ]

अभक्ष्यवर्णनम् ।

यज्ञार्थ ब्राह्मणैर्बध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा ॥ २२ बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् । पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ २३ यत्किचित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् । तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥२४ चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः । यवगोधूमजं सर्वं पयसश्चैव विक्रिया ॥ २५ एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः । मांसस्त्यातः प्रवक्ष्यामि विधि भक्षणवर्जने ॥ २६ प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया ।

यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥ २७ प्राणस्यान्नमिदं सर्व प्रजापतिरकल्पयत् । स्थावरं जङ्गमं चैव सर्वप्राणस्य भोजनम् ॥ २८ चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः । अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ॥ २६ नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि । धात्रेव सृष्टा ह्याद्याश्वप्राणिनोऽत्तार एव च ॥ ३० यज्ञाय जग्धिमसस्येत्येष देवो विधिः स्मृतः । अतोऽन्यथाप्रवृत्तिस्तु राक्षसोविधिरुच्यते ॥३१ क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपकृतमेव वा । देवान् पितंश्चार्चयित्वा खादन्मांसं न दुष्यति ॥ ३२

""

جاب

[[८८]]

मनुस्मृतिः ।

[ पश्वमो

नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः ।

जग्ध्वा ह्यविधिना मांसं प्रेत्य (प्रेतः) तैरद्यतेऽवशः ॥३३ न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः । यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥३४ नियुक्तस्तु यथान्यायं यो मांसं नाति मानवः । स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥३५ असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कदाचन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ ३६ कुर्याद्वृतपशुं सङ्ग कुर्यासि पशु तथा । नत्वेव तु वृथा हन्तु पशुमिच्छेत् कदाचन ॥३७ यावन्ति पशुरोमाणि तावत् कृत्वोह मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ३८ यज्ञार्थ पशवः सृष्टाः स्वयमेव सयम्भुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे बधोऽवधः ॥ ३६ ओषध्यः पशवो वृक्षांस्तिर्यञ्च पक्षिणस्तथा । यज्ञाथं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितोः पुनः ॥४० मधुपर्के च यज्ञे च पितृदैवतकर्मणि । अत्रैव पशवो हिस्या नान्यत्रेत्यब्रवीन्मनुः ॥४१ एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद्विजः ।

आत्मानं च पशुच वगमयत्युत्तमां गतिम् ॥४२ गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः । नावेदविहितां हिंसामापद्यपि समाचरेत् ॥४३

ऽध्यायः ]

भक्ष्याभक्ष्यवर्णनम्

I

[[८६]]

या वेदविहिता हिंसा नियताऽस्मि चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्वभौ ॥४४ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया । स जीवश्व मृतश्चैव न क्वचित सुखमेधते ॥४५ यो बन्धनबधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥४६ यद्ध्यायति यत्कुरुते रतिं वध्नाति यत्र च । तदवाप्नोत्ययत्नं न यो हिनस्ति न किंचन ॥४७ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिबधः स्वर्यस्तस्मान्मांसं विवर्जयेत ॥४८ समुत्पत्ति च मांसस्य बधबन्धौ च देहिनाम । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥४६ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्व न पीड्यते ॥५० अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्वंति घातकाः ॥५१ स्वमांसं परमासन यो वर्धयितुमिच्छति । अनभ्यर्च्य पितृदेवांस्ततोऽन्यो नास्त्यपुण्यकृत ॥ ५२ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥५३ फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः ।

न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥५४

[[६०]]

मनुस्मृतिः ।

[ पश्वमो

मांस भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥५५ न मांसभक्षणे दोषो न मद्य न च मैथुने । प्रवित्तिरेषा भूतानां निवृत्तिस्तु महाफला ५६ ॥ प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । चतुर्णामपि वर्णानां यथावदनुपूर्वशः ॥ ५७ दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५८ दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक् संचयनादस्थ्नां त्र्यहमेकाहमेव च ॥ ५६ सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोवेदने ॥ ६० यथेदं शावमाशैौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यान्निपुर्ण शुद्धिमिच्छताम् ॥६१ सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ ६२ निरस्य तु पुमाच्छुक्रमुपस्पृश्यैव शुध्यति । वैजिकादभिसम्बन्धादनुरुन्ध्यादघं त्र्यहम् ॥६३ अहा चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः । शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ॥ ६४ गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ ६५

Sभ्यायः ]

प्रेतशुद्धिवर्णनम् ।

रात्रिभिर्मासतुल्याभिर्गर्भस्राव विशुध्यति ।

रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥६६ नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता । निवृत्तमुण्डकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥६७ ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा वहिः । अलङ्कृत्य शुचौ भूमावस्थि संचयनादृते ॥६८ नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया । अरण्ये काष्ठवत्यक्त्वा क्षपेतत्र्यहमेव च ॥ ६६ नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया ।

जातदन्तस्य वा कुर्युन्नाम्नि वाऽपि कृते सति ॥ ७० सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् । जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ७१ स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः । यथोक्तनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ ७२ अक्षारलवणान्नाः स्यु निमज्जेयुश्च ते त्र्यहम् । मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ॥७३ सन्निधावेष वै कल्पः शावाशौचस्य कीर्तितः । असन्निधावयं ज्ञेयो बिधिः सम्बन्धिबान्धवैः ॥७४ विगतं तु विदेशस्थ शृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥७५ अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् ।

• संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ ७६

[[६१]]

[[२]]

मनुस्मृतिः ।

पञ्चमो

निदेशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्नुत्य शुद्धो भवति मानवः ॥७७ बाले देशान्तरस्थे च पृथक् पिण्डं च संस्थिते । सवासा जलमाप्लुत्य मद्य एव विशुध्यति ॥ ७८ अन्तर्दशाहे चेत्स्यातां पुनर्भरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥७६ त्रिरात्रमाहुराशौचमाचार्य संस्थिते सति ।

तस्य पुत्रं च पत्त्यां च दिवारात्रमिति स्थितिः ॥८० श्रोत्रिये तूपसम्पन्ने त्रिराशमशुचिर्भवेत् । मातुले पक्षिणीं रात्रि शिष्य विग्बान्धवेषु च ॥ ८१ प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः । अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥८२ शुद्ध्येद्विप्रोदशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शुद्रो मासेन शुध्यति ॥ ८३ न वद्धयेदघाहानि प्रत्यूहेनाग्निषु क्रियाः । न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवत् ॥८४ दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥८५ आचम्य प्रयतो नित्यं जपेदशुचिदर्शने । सौरान्मन्त्रान्यथोत्साहं पावमानीश्च शक्तितः ॥४६ नारं स्पृष्ट्वाऽस्थि सस्नेहं स्नात्वा विप्रो विशुध्यति । आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥८७Sध्यायः ]

प्रतशुद्धिवर्णनम्

आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥८८ वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् । आत्मनस्त्यागिनां चैव निवर्ततोदकक्रिया ॥८६ पाषण्डमाश्रितानां च चरन्तीनां च कामतः । गर्भभर दुहां चैव सुरापीनां च योषिताम् ॥६० आचार्य स्वमुपाध्यायं पितरं मातरं गुरुम् । निर्हृत्य तु ब्रती प्रेतान्न ब्रतेन वियुज्यते ॥ ६१ दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वस्तु यथायोगं द्विजन्मनः ॥ ६२ न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम् । ऐन्द्र स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥१३ राज्ञो माहात्मिके स्थाने सद्यः शौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥६४ डिम्वावहतानां च विद्यता पार्थिवेन च । गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥६५ सोमाग्न्यर्का निलेन्द्राणां वित्ताप्पत्योर्यमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः ॥६६ लोकेशाधिष्टितो राजा नाश्याशौचं विधीयये । शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ॥६७ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च ।

सद्यः सन्तिष्ठते यज्ञस्तथाऽऽशौचमिति स्थितिः ॥ ६८

[[१३]]

[[६४]]

मनुस्मृतिः ।

[ पश्चमो

विप्रः शुध्यत्यपः स्पृष्ट्वा अत्त्रियो वाहनायुधम । वैश्यः प्रतोदं रश्मीन्वा यष्टि शूद्रः कृतक्रियः ॥ ६६ एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः । असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ १०० असपिण्डं द्विजं प्रेतं विप्रो नित्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ १०१ यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । अनदन्नन्नमव न चेत्तस्मिन्गृहे वसेत् ॥१०२ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च ।

स्नात्वा सचैलं स्पृष्ट्वाग्नि घृतं प्राश्य विशुध्यति ॥ १०३ न विप्रं स्त्रेषु तिष्ठत्सु मृतं शूद्र ेण नाययेत । अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंस्पर्शदूषिता ॥ १०४ ज्ञानंतपोग्निराहारो मृन्मनो वार्युपाञ्जनम् ।

वायुः कर्मार्ककालौ च शुद्ध कर्तृणि देहिनाम ॥१०५ सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥ १०६ क्ष्यान्त्या शुद्धयन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥१०७ मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुद्धयति । रजसा स्त्री मनोदुष्टा सन्यासेन द्विजोत्तमः ॥ १०८ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ १०६

ऽध्यायः ]

द्रव्यशुद्धिवर्णनम् ।

एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः ।

नानाविधानां द्रव्याणां शुद्धं शृणुत निर्णयम् ॥ ११० तेजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥१११ निर्लेपं कांचनं भाण्डमद्भिरेव विशुध्यति । अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ ११२ अपामग्नेश्च संयोगाद्ध मं रौप्यं च निर्बभौ । तस्मात्तयोः स्वयोन्यैव निर्णको गुणवत्तरः ॥११३ ताम्रायः कांस्यरैत्यानां पुणः सीसकस्य च । शौचं यथाहं कर्तव्यं क्षारालोदकवारिभिः ॥११४ द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् । प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ११५ मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ ११६ चरूणां स्रुक्स्र वाणां च शुद्धिरुष्णेन वारिणा । स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥११७ अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥११८ चैलवशर्मणां शुद्धिर्वेदलानां तथैव च ।

[[1]]

शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते ॥ ११६ कौशेयाविकयोरूपैः कुतपानांमरिष्टकैः ।

श्रीफलैरंशुपट्टानां क्षौमाणः गौरसर्षपैः ॥ १२०

[[६५]]

[[६६]]

मनुस्मृतिः ।

क्षमवच्शृङ्गाणामस्थिदन्तमयस्य च ।

[ पश्चमो

शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा ॥ १२१ प्रोक्षणात्तणकाष्ठं च पलालं चैव शुध्यति । मार्जनोपाञ्जनैर्वेश्म पुनः पाकेन मृण्मयम् ॥ १२२ मद्य मंत्रः पुरीषैर्वा ष्ठीवनैः पूयशोणितैः । संस्पृतं नैव शुद्धयत पुनः पाकेन मृण्मयम् ॥ १२३ सम्मार्जनोपाञ्जनेन सेकेनोल्लेखनेन च ।

गवां च परिवासेन भूमिः शुद्धयति पंचभिः ॥१२४ पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् ।

[[1]]

दृषितं केशकीटैश्च मृत्प्रक्षेपेण शुद्धयति ॥ १२५ यावन्नापैत्यमेध्याक्ताद् गन्धोलेपश्च तत्कृतः । तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ १२६ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच वाचा प्रशस्यते ॥१२७ आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् । अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विाः ॥ १२८ नित्यं शुद्धः कारुहस्तः पण्ये यच प्रसारितम् । ब्रह्मचारिगतं भक्ष्यं नित्यं मेध्यमिति स्थितिः ॥१२६ नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने । प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ १.३० श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् ।

क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यश्च दस्युभिः ॥ १३१

ऽध्यायः ]

शरीरशुद्धिवर्णनम् ।

ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः । यान्यधस्तान्यमेध्यानि देहाचैव मलाश्च्युताः ॥ १३२ मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः । रजो भूर्वायुरमिच स्पर्श मेध्यानि निर्दिशेत ॥१३३ विण्मूत्रोत्सर्गशुद्धयर्थं मृद्वार्यादेयमर्थवत । दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ॥ १३४ वसा शुक्रमसृङ्मज्जामूत्रविद्याणकर्ण विट् । श्लेष्मादृषिका स्वेदो द्वादशैते नृणां मलाः ॥ १३५ एका लिङ्ग गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ १३६ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम् ॥१३७ कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् । वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ॥ १३८ त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततोमुखम् । शारीरं शौचमिच्छन्हि स्त्री शूद्रस्तु सकृत्सकृत् ॥१३६ शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् । वैश्यवच्छौचकल्पश्च द्विजोच्छिष्ट च भोजनम् ॥१४० नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्ग े पतन्ति याः । न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ॥ १४१ स्पृशन्ति विन्दवः पादौ य आचामयतः परान् । भौमिकस्ते समा ज्ञेया न तैराप्रयतोभवेत् ॥ १४२

[[༦]]

[[६७]]

[[६८]]

मनुस्मृतिः

[ पश्वमो

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।

अनिधायैव तद्द्द्रव्यमाचान्तः शुचितामियात् ॥१४३ वान्तोविरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ १४४ सुत्वा क्षुत्वा च भुक्त्वा च निष्ठोव्योक्त्वाऽनृतानि च । पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥१४५ एष शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च । उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ॥१४६ बालया वा युवत्या वा वृद्धया वाऽपि योषिता । न स्वातन्त्र्येण कर्तत्र्य किंचित्कार्यं गृहेष्वपि ॥ १४७ बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने । पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम् ॥१४८ पित्रा भर्त्रा सुतैर्वाऽपि नेच्छेद्विरहमात्मनः । एषां हि विरहेण स्त्री गह्यं कुर्यादुभे कुले ॥१४६ सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया । सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥१५० यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ १५१ मङ्गलार्थं स्वस्त्ययनं यज्ञश्वासां प्रजापतेः । प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ॥१५२ अनृतावृतुकाले च मन्त्र संस्कारकृत्पतिः ।

सुखस्य नित्यं दातेह परलोके च योगितः ॥ १५३

’ उध्यायः ]

स्त्रीधर्मवर्णनम् ।

विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । उपचर्यः स्त्रिया साध्या सततं देववत्पतिः ॥१५४ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् । पति शपते येन तेन स्वर्गे महीयते ॥ १५५ पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा । पतिलोकमभीप्सन्ती नाचरेत्किंचिदप्रियम् ॥१५६ कामं तु क्षपयेद्दं हं पुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात्पत्य प्रेते परस्य तु ॥ १५७ आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥१५८ अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥१५६ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः ॥ १६० अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते 1 सेह निन्दामवाप्नोति परलोकाच हीयते ॥ १६१ नान्योत्पन्ना प्रजास्तीह न चान्यस्य परिग्रहे । न द्वितीयश्च साध्वीनां क्वचिद्भर्तापदिश्यते ॥१६२ पतिं हित्वापक स्वमुक या निषेवते । निन्द्यव सा भवेल्लोके परपूर्वेति चोच्यते ॥ १६३ व्यभिचारात्तुभर्त्तु स्त्री लोके प्राप्नोति निन्द्यताम शृगालयोनि प्राप्नोति पापरोगैश्च पीड्यते ॥ १६४

[[६६]]

[[१००]]

मनुस्मृतिः ।

पतिं या नाभिचरति मनोवाग्देहसंयता ।

[

[ षष्ठो

सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ १६५ अनेन नारीवृत्तन मनोवाग्देहसंयता ।

इहाप्रया कीर्तिमाप्नोति पतिलोकं परत्र च ॥ १६६ एवं वृत्तां सवर्णा स्त्रीं द्विजातिः पूर्वमारिणीम । दाहयेदग्निहोत्रेण यज्ञपात्रंश्च धर्मवित् ॥ १६७ भार्यायै पूर्वमारिण्यं दत्त्वाग्नीनन्त्यकर्मणि । पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥ १६८ अनेन विधिना नित्यं पंच यज्ञान्न हापयेत । द्वियीयमायुषो भागं कृतदारो गृहे वसेत् ॥१६६ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां शौचविधिः पञ्चमोऽध्यायः ॥

षष्ठोऽध्यायः ।

अथादौ - वानप्रस्थवर्णनम् ।

एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः । वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥ १ गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥२

न्यायः ]

वानप्रस्थवर्णनम् ।

संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम । पुत्रेषु भार्या निक्षिप्य वनं गच्छेत्सहैव वा ॥३ अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम । ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः ॥४ मुन्यन्न विविधैमध्ये ः शाकमूलभलेन वा । एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् ॥५

सीत चर्म चीरं वा सायं स्नायात्प्रगे तथा । जटाश्च विभृयान्नित्यं श्मश्रुलोमनखानि च ॥६ यद्भक्ष्यं स्यात्ततो दद्याद्वलिं भिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥७ स्वाध्याये नित्ययुक्तः स्याद्दान्तोमैत्रः समाहितः । दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥८ वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । दर्शमस्कन्दयन्पर्व पौर्णमासं च योगतः ॥ ऋक्षेन्दयाग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दाक्षस्यायनमेव च ॥ १० वासन्तशारदेमध्येर्मुन्यन्नः स्वयमाहृतः । पुरोडाशांश्च श्चैव विधिवन्निर्वपेत्पृथक् ॥ ११ देवताभ्यस्तु तद्धृत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि भुञ्जीत लवणं च स्वयं कृतम् ॥ १२ स्थलजौदकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान् ॥ १३

[[१०१]]

[[१०२]]

मनुस्मृतिः ।

वर्जयेन्मधु मांसं च भौमानि कवकानि च । भूस्तृणं शियकं चैव श्लेष्मातकफलानि च ॥ १४ त्यजेदाश्रयुजे मासि मुन्यन्न पूर्वसंचितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ १५ न फालमश्नीयादुत्समपि केनचित् ।

[ षष्ठो

न ग्रामजातान्यार्तोऽपि मूलानि (पुष्पाणि च फलानि च ॥१६ अग्निपक्काशनो वा स्यात्कालपक्कमुगेव वा । अश्मकुट्टो भवेद्वापि दन्तोलवलिको पि वा ॥ १७ सय प्रक्षालको वा स्यान्माससंचयिकोऽपि वा । पण्मासनिचयो वा स्यात्समानिचय एव वा ॥ १८ नक्तं चान्न’ समश्नीयादिवा वाहृत्य शक्तितः । चतुर्थकालिको वा स्यात्स्याद्वाण्यष्टुमकालिकः ॥१६ चान्द्रायणविधानैर्वा कृष्णे च वर्तयेत् । पक्षान्तर्वाश्नीयाद्यवागूं कथितां सकृत् ॥२० पुष्पमूलफलैर्वापि केबलैर्वर्तयेत्सदा ।

कालपक्क : स्वयं शीर्णैर्वैखानसमते स्थितः ॥२१ भूमौ विपरिवर्तत तिष्ठेद्वा प्रपदैर्दिनम । स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः ॥२२ ग्रीष्मे पंचतपास्तु स्याद्वर्षास्वभाबकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥२३ उपस्पृशं स्त्रिपवर्ण पितॄन्देवांश्च तर्पयेत् । तपस्कारश्चाग्रतरं शोषयेद्द हमात्मनः ॥२४ऽध्यायः ]

वानप्रस्थवर्णनम् ।

अग्नीनात्मनि वैतानान्त्समारोप्य यथाविधि ।

अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः ॥२५

अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः । शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥२६ तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥२७ ग्रामादाहृत्य वाऽश्नीयादौ ग्रासान्वने वसन । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ २८ एताश्चान्याश्च सेवेत दीक्षा विप्रो बने वसन । विविधाश्चौपनिपदीरात्मसंसिद्धये श्रुतीः ॥२६ ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः । विद्यातपोविवृद्धयर्थं शरीरस्य च शुद्धये ॥ ३० अपराजितां वाऽऽस्थाय व्रजेद्दिशमजिह्मगः । आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः ॥ ३१ आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ३२ वनेषु तु विहृत्यैवं तृतीयं भागमायुषः । चतुर्थमायुषो भागं त्यक्त्वा सङ्गान्परिव्रजेत् ॥३३ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । भिक्षावलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥३४

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।

अनपाकृत्य मोक्ष तु सेवमानो ब्रजत्यधः ॥ ३५

[[१०३]]

[[९०४]]

मनुस्मृतिः ।

अधीत्य विधिवद्वदन्पुत्रांश्चोत्पाद्य धर्मतः

[ षष्ठो.

इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ३६ अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । अनिष्ट्वा चैव यज्ञेश्च मोक्षमिच्छन् व्रजत्यधः ॥ ३७ प्राजापत्यां निरुयेष्टि सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजद्गृहात ॥३८ यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ ३६ यस्मादण्यपि भूतानां द्विजान्नोत्पद्यते भयम् । तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ ४० आगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः । समुपोढषु कामेषु निरपेक्षः परिव्रजत् ॥४१ एक एव चरेन्नित्यं सिद्धयर्थमसहायवान् । सिद्धिमेकस्य संपश्यन्न जहाति न हीयते ॥४२ अनग्निरनिकेतः म्याद्याममन्नार्थमाश्रयेत् । उपेक्षकोsसमुको (सांचयिको) मुनिर्भावसमाहितः ॥ ४३ कपालं वृक्षमूलानि कुचेलमसहायता ।

समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥४४ नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निर्वेशं भृतको यथा । ४५ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत ॥४६

ऽध्यायः ]

संन्यासवर्णनम् ।

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।

न चेमं देहमाश्रित्य वैरं कुर्वत केनचित ॥४७

क्र.

ध्यन्तं न प्रतिक्र ुध्येाक्र : कुशलं वदेन । समद्वारावकीर्णा च न वाचमनृतां वदेन ॥४८ अध्यात्मरतिरासीनो निरपेक्षो निरामिपः । आत्मनैव महायेन सुखार्थी विचरेदिह ॥४६ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥५० न तापसैर्ब्राह्मणैर्वावयोभिरपि वा श्रभिः । आकीर्ण भिक्षुवत्यरागारमुपसंव्रजेत ॥५४ क्लृप्तकेशनखश्मश्रु पात्रो दण्डी कुसुम्भवान् । विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥५२ अतेजसानि पात्राणि तस्य स्युर्निर्वणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ ५३ अलाबु दारुपात्रं च मृण्मयं वेदलं तथा । एतानि यतिपात्राणि मनुः स्वायम्भुवोऽब्रवीत ॥५४ एककालं चरेद्भक्ष न प्रसज्जेत विस्तरे । मैं प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥५५ विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । वृत्तं शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥५६ अलाभे न विषादी स्याल्लाभे चैव न हर्पयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥५७

[[१०५]]

मनुस्मृतिः ।

अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः । अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते ॥ ५८ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । हियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ ५६ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्त्वाय कल्पते ॥ ६० अवेक्षेत गतीनॄणां कर्मदोषसमुद्भवाः । निरये चैत्र पतनं यातनाश्च यमक्षये ॥ ६१ विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियैः । जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥६२ देहादुत्क्रमणं चास्मात्पुनर्गर्भे च सम्भवम् । योनिकोटिसहस्रप मृतीश्चः स्यान्तरात्मनः ॥६३ अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम । धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ६४ सूक्ष्मतां चान्ववक्षेत योगेन परमात्मनः । देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥६५ भूपितोऽपि चरेद्धमं यत्र तत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्ग’ धर्मकारणम् ॥६६ फलं कनकवृक्षस्य यद्ययम्बुप्रसादकम् ।

न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ६७ संरक्षणार्थं जन्तूनां राचावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥६८

[ षष्ठो

ऽध्यायः ]

संन्यासवर्णनम् ।

अह्ना रात्र्या च याञ्जन्तून्निस्यज्ञानतो यतिः ।

[[५०७]]

तेषां स्नात्वा विशुद्धयर्थं प्राणायामान् षडाचरेत् ॥ ६६ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥७०

दह्यन्ते ध्यायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात ॥७१ प्राणायाम दहेद्दोषान्धारणाभिश्च किल्विषम् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान ॥७२ उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः । ध्यानयोगेन संपश्येद्गतिमस्यान्तरात्मनः ॥ ७३ सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥ ७४ अहिंसयेन्द्रियासङ्ग वैदिकैश्चैव कर्मभिः । तपसश्चरणैश्चोपः साधयन्तीह तत्पदम् ॥७५ अस्थिस्पूर्ण स्नायुयुतं मांसशोणितलेपनम् । चर्मावनद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः ॥७६ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥७७ नदीकूलं यथा वृक्षो वृक्ष वा शकुनिर्यथा । तथा त्यजन्निमं देहं कृच्छाग्रहाद्विमुच्यते ॥ ७८ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥७६

[[१०८]]

मनुस्मृतिः ।

यदा भावेन भवति सर्वभावेषु निष्पृहः ।

तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥८० अनेन विधिना सर्वास्त्यक्त्वा सङ्गाञ्छनैः शनैः । सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥८१ ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् ।

न ह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुते ॥८२ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।

आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥८३ इदं शरणमज्ञानामिदमेव विजानताम् । इदमन्विच्छतां स्वर्णमिदमानन्त्यमिच्छताम् ॥८४ अनेन क्रमयोगेन परित्रजति यो द्विजः । स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥८५ एप धर्मोऽनुशिष्ठो वो यतीनां नियतात्मनाम् । वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ ८६ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥८७ सर्वेऽपि क्रमशस्ते यथाशास्त्रं निषेविताः । यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥८८ सर्वषामपि चैतेषां वेदस्मृति (श्रुति) विधानतः । गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्विभर्ति हि ॥ ८६ “यथा ‘नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।

तथैवाश्रमिणः सर्वे गृहस्थं यान्ति संस्थितिम् ॥६०

[ षष्ठो.

ऽध्यायः ]

संन्यासधर्मवर्णनम् ।

चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजः । दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ ? धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥६ दश लक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६३ दशलक्षणकं धर्ममनुतिष्ठन्समाहितः ।

वेदान्तं विधिवच्छ त्वा संन्यसेदनृणो द्विजः ॥६४ संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन ।

नियतो वेदमभ्यस्य पुत्रैव सुखं वसेत् ॥ ६५ एवं संन्यस्य कर्माणि स्वकार्य परमोऽस्पृहः । संन्यासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥६६ एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधतः ॥६७

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां षष्टोऽध्यायः ।

[[125098]]

[[१०६]]

Donoted by m

DE

tian

IN

[[११०]]

मनुस्मृतिः ।

सप्तमोऽध्यायः ।

अथादौ- राज्यशासनधर्मवर्णनम् ।

राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।

सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ १ ब्राह्म प्राप्तन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥२ अराजके हि लोकेऽस्मिन सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥३ इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तंशयोऽचैव मात्रा निहत्य शाश्वतीः ॥४ यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥५ तपत्यादित्यवचैप चक्षुपि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥६ सोऽभिर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । स कुवेरः स वरुणः स महेन्द्रः प्रभावतः ॥७ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्यपा नररूपेण तिष्ठति ॥८ एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।

कुलं दहति राजाभिः सपशुद्रव्यसंचयम् ॥६ कार्यं सोऽवेक्ष्य शक्तिञ्च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्धयर्थं विश्वरूपं पुनः पुनः ॥ १०

[ सप्तमो

ऽध्यायः ]

राज्यशासनधर्मवणनम् ।

यस्य प्रसादे पद्मा श्रीविजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥१६ तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ १२ तस्माद्धमं यमिष्टेषु स व्यवस्येन्नराधिपः । अनि चाप्यनिष्टषु तं धर्म न विचालयेत् ॥१३ तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥ २४ तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ १५ तं देशकालौ शक्ति च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्तिषु ॥१६ स राजा पुरुषोदण्डः स नेता शासिता च सः । चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ १७ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुतेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ १८ समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥१६ यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥२० अद्यात्काकः पुरोडाशं श्रावलिद्याद्धविस्तथा । स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तताधरोत्तरम् ॥२१

[[१११]]

[[५१०]]

मनुस्मृतिः ।

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्वं जगद्भोगाय कल्पते ॥२२ देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।

[ सप्तमो

तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥२३ दुष्येयुः सर्ववर्णाश्च भिद्य रन्सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥२४ यत्र श्यामो लोहिताक्षो दण्डश्वरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ २५ तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम । समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥२६ तं राजा प्रणयन्सम्यक् त्रिवर्गेणाभिवर्धते । कामात्मा (कामान्धो) विषमः क्षुद्रो दण्डेनैव निहन्यते ॥२७ दण्डो हि सुमहत्तेजो दुर्धरवाकृतात्मभिः । धर्माद्विलि हन्ति नृपमेव सबान्धवम् ॥२८ ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।

अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् ॥२६ सोऽसहायेन मूढन लुब्धेनाकृतबुद्धिना ।

न शक्यो न्यायतो नेतुं सक्तन विषयेषु च ॥३० शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ ३१ स्वराष्ट्र न्यायवृत्तः स्याद्भृशदण्ड शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ३२ऽध्यायः ]

राज्यशासन्धर्मवर्णनम् ।

एवं वृत्तस्य नृपतेः शिलोच्नापि जीवतः । विस्तीर्यते यशो : लोके तैलविन्दुरिवाम्भसि ॥ ३३ अतस्तु विपरीतस्य नृपतेरजितात्मनः । संक्षिप्यते यशो लोके घृतविन्दुरिवाम्भसि ॥ ३४ स्वं धर्मे निविष्टानां सर्वेषामनुपूर्वशः । वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥३५ तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः । तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥३६ ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः । त्रैविद्यवृद्धान्विदुषस्तिष्ठत्तेषां च शासने ॥ ३७ बृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् । बृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥३८ तेभ्योऽधिगच्छेद्विनयं विनीतात्माऽपि नित्यशः । विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ॥ ३६ बहवोऽविनयान्ना राजानः सपरि (प्रहाः) च्छदाः । वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥४० वनो विनोऽविनयान्नहुषश्चैव पार्थिवः । सुहाः पैजवनश्चैव सुमुखो निमिरेव च ॥४१ पृथुस्तु विनियाद्राज्यं प्राप्तवान्मनुरेव च । कुवेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ ४२ त्रैविद्येभ्यस्त्रयीं विद्याद्दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांच लोकतः ॥४३

[[८]]

१९३ः

[[1]]

[[११४]]

मनुस्मृतिः ।

इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।

[ सप्तमो

जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥४४

दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्न ेन विवर्जयेत् ॥४५ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । बियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ ४६ मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ ४७ पैशुन्यं साहसं द्रोह इर्ष्याऽसूयाऽर्थ दूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥४८ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः ।

तं यत्नन जयेल्लोभं तज्जावेतावुभौ गणौ ॥४६ एनमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम । एतत्कष्टतमं विद्याचतुष्कं कामजे गणे ॥ ५० दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा ॥५१ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।

पूर्व पूर्व गुरुतरं विद्याद्व्यसनमात्मवान् ॥५२ व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोऽधो ब्रजति स्वर्यात्यव्यसनी मृतः ॥ ५३ मौलान्छास्त्रविदः शूरांल्लब्धलक्षान्कुलोद्गतान् । सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥५४

ऽध्यायः ]

राज्यशासनधर्मवर्णनम्

अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किं नु राज्यं महोदयम ॥५५ तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ५६ तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ ५७ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । मंत्रयेत्परमं मंत्रं राजा षाड्गुण्य संयुतम् ॥५८ नित्यं तस्मिन्समाश्रन्तः सर्वकार्याणि निक्षिपेत । तेन सार्द्धं विनिश्चित्य ततः कर्म समारभेत ॥ ५६ अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्तृ नमात्यान्सुपरीक्षितान् ॥६० निर्वर्ततास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् ॥६१ तेषामर्थे नियुञ्जीत शूरान्दान्कुलोद्गतान् । शुचीनाकरकर्मान्ते भीरूनन्तनिवेशने । ६२ दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचे शुचिं दक्ष कुलोद्गतम् ॥ ६३ अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित् । वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ ६४ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोषराष्ट्र च दृते सन्धिविपर्ययौ ॥ ६५

[[११५]]

[[११६]]

मनुस्मृतिः ।

[ सममो

दूत एव हि सन्धत्ते भिनत्त्येव च संहतान । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवाः ॥६६ स विद्यादस्य कृत्येष निगृढेङ्गितचेदितः । आकारमिङ्गितं चेां भृत्येव च चिकीर्षितम् ॥६७ बुध्वा च सर्व तत्वेन परराजचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद्यथाऽऽत्मानं न पीडयेत ॥६८ जाङ्गलं सत्यसम्पन्नमायप्रायमनाविलम । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥६६ धनुदुर्गं महीदुर्गम दुर्गं वामेव वा । नृदुर्ग गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥७० सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत । एपां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ ७१ त्रीण्यायान्याश्रितास्तेषां मृगगर्ताश्रयाप्सराः । त्रीण्युत्तराणि क्रमशः पुवङ्गमनरामराः ॥७२ यथा दुर्गाश्रितानेतान्ना पहिंसन्ति शत्रवः । तथाऽरयो न हिंसन्ति नृपं दुर्गसमाश्रितम ॥ ७३ एकः शतं योधयति प्रकारस्थो धनुर्धरः । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥७४ तत्स्यादायुधसम्पन्न धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥७५ तस्य मध्ये सुपर्याप्त कारयेद्गृहमात्मनः । गुप्त सर्वर्तुकं शुभ्रं जलवृक्ष समन्वितम् ॥७६

ऽध्यायः ।

राज्यशासनधर्मवर्णनम् ।

तदध्यास्योद्वहद्भार्या सबर्णा लक्षणान्विताम् । कुले महति संभूतां हृद्यां रूपगुणान्विताम् ॥७७ पुरोहितं च कुर्वत वृणुयादेव चर्त्विजः । तेस्य गृह्याणि कर्माणि केर्यु बतानिकानि च ॥ ७८ यजेत राजा क्रतुभिर्विविधैरामदक्षिणः ।

धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च ॥७६ सांवत्सरिकमामा राष्ट्रादाहारयेद्वलिम ।

[[4]]

स्याच्चान्नायपरो लोके वर्तेत पितृवन्तृषु ॥८० अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः । तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ॥ ८१ आवृत्तानां गुरुकुलाद्विप्राणां पूजकोभवेत् । नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ॥ ८२ न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥८३ न स्कन्दति न च्यवते न विनश्यति कर्हिचित । वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम ॥८४ सममत्राह्मणे दानं द्विगुणं ब्राह्मणवे ।

प्राधीते (आचार्य) शतसाहस्रमनन्तं वेदपारगे ॥८५ पात्रम्य हि विशेषेण श्रधानतयैव च । अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥८६ समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः । न निवर्तेत संग्रामात्क्षास्त्रं धर्ममनुस्मरन ॥ ८७

[[११७]]

[[११८]]

मनुस्मृतिः ।

[ सप्तमो

संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥८८ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शतया स्वर्गं यान्त्यपराङ्मुखाः ॥८६ न कूटैरायुधैर्हन्याद्य ुध्यमानो रणे रिपून ।

न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥६० न च हन्यात्स्थलारूढं न क्लीवं न कृताञ्जलिम् । न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥६१ न सुप्र न विसन्नाहं न नग्नं न निरायुधम । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥६२ नायुधव्यसनप्राप्त नातं नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ ६३ यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः । भर्तुर्यदुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥ ६४ यश्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम । भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ ६५ रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्त्रियः । सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥६६ राज्ञश्च दद्य रुद्धारमित्येषा वैदकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥६७ एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन्रणे रिपून् ॥६८

ऽध्यायः ]

राज्यशासनधर्मवर्णनम् ।

अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।

रक्षितं वर्द्धयेचैव वृद्ध पात्रेषु निक्षिपेत् ॥६६ एतचतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् ।

अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः ॥ १०० अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।

रक्षितं वर्धयेवृद्धया वृद्ध पात्रेषु निक्षिपेत् ॥ १०१ नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः । नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ॥ १०२ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ १०३ अमाययैव वर्तेत न कथञ्चन मायथा । बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ १०४ नास्य छिद्रं परोविद्याद्विद्याच्छिद्रं परस्य तु । गृहेत्कर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ १०५ बकवचिन्तयेदर्थान्सिंहवच्च पराक्रमेत । वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ १०६ एवं विजयमानस्य येऽस्य स्युः परिपंथिनः । तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ॥ १०७ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । दण्डेनैव प्रसह्येतश्नकैर्वशमानयेत् ॥ १०८ सामादीनामुपायानां चतुर्णामपि पण्डिताः । सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥१०६

[[११६]]

[[१२०]]

मनुस्मृतिः ।

[ सप्रमो

यथोद्धरति निर्दाता कक्ष धान्यं च रक्षति । तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥ ११० मोहाद्राजा स्वराष्ट्र यः कर्षयत्यनवेक्षया । सोऽचिराभ्रश्यते राज्याज्जीविताच सबान्धवः ॥ १११ शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात ॥११ राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत । सुसंगृहीतराष्ट्रो हि पार्थिवः सुखमेधते ॥ ११३ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् । तथा ग्रामशतानां च कुर्याद्रास्य संग्रहम् ॥ ११४ ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा । विशतीशं शतेशं चं सहस्रपतिमेव च ॥ ११५ ग्रामदोषान्समुत्पन्नात्ग्रामिकः शनकैः स्वयम् । शंसेग्राम दशायं दशेशो विंशतीशिने ॥ ११६ विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम । । ११७ यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥११८ दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम । ११६ तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥ १२०

ऽध्यायः ]

राज्यशासनधमवणनम् ।

नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तनम् । उनः स्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥१२१ स ताननुपरिक्रामं सर्वानेव सदा स्वयम् ।. तेषां वृत्तं परिणयेत्सम्यग्राष्टषु तचरैः ॥ १२२ गज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्योरक्षं दिमाः प्रजाः ॥१२३ ये कार्यकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः । तेपां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ १२४ राजकर्मसु युक्तानां स्त्रीणां प्रप्यजनस्य च । प्रत्यहं कल्पयेदवृत्ति स्थानकर्मानुरूपतः ॥ १२५ पणो देवस्य पडत्कृष्टस्य वेतनम् । पाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥ १२६ क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् ।

योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत्करान ॥ १२७ यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथावेक्ष्य नृपो राष्ट्र कल्पयेत्सततं करान् ॥ १२८ यथाल्पाल्पमदत्याद्य बायकोवत्सपट्पदाः ।

तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञादिकः करः ॥ १२६ पञ्चाशद्भाग आयो राज्ञा पशुहिरण्ययोः । धान्यानामछुमो भागः षो द्वादश एव वा ॥ १३० आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।

गंधौषधिरसानां च पुष्पमूलफलस्य च ॥ १३१

[[१२१]]

[[१२२]]

मनुस्मृतिः ।

[ सप्तमो

पत्रशाक तृणानां च वेदलस्य च चर्मणाम् । मृम्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ १३२ म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् ।

न च क्षुधाऽस्य संसीदेच्छ्रोत्रियो विषये वसन् ॥ १३३ यम्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तम्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥ १३४ श्रुतवृत्तं विदित्वास्य वृत्ति धर्म्या प्रकल्पयेत । संरक्षेत्सर्वतश्चैनं पितापुत्रमिवौरसम् ॥१३५ संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्त्रहम् । तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ १३६ यत्किचिदपि वर्षस्य दापयेत्करसंज्ञितम् । व्यवहारेण जीवन्तं राजा राष्ट्र पृथग्जनम् ॥१३७ कारुकाञ्छिल्पिनश्चैव शूद्रांश्वात्मोपजीविनः । एकैकं कारयेत्कर्म मासि मासि महीपतिः ॥ १३८ नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन्ह्यात्मनो मूलमात्मानं तांश्च पीडयेत् ॥१३६ तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः । तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः ॥ १४० अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । स्थापयेदासने तस्मिन्खिन्नः कार्येक्षणं नृणाम् ॥ १४१ एवं सर्व बिधायेदमितिकर्तव्यमात्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ १४२ऽध्यायः ]

राज्यशासनधर्मवर्णनम् ।

विक्रोशन्त्यो यस्य राष्ट्राद्धि यन्ते दस्युभिः प्रजाः । संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ १४३ क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ १४४ उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुताभिर्ब्राह्मणांश्चार्य प्रविशेत्स शुभां सभाम् ॥१४५ तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥१४६ गिरिपृष्ठ समारुह्य प्रासादं वा रहोगतः ।

अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥ १४७ यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।

[[१२३]]

स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ १४८ जडमूकान्धबधिरांस्तैर्यग्योनान्वयोतिगान् ।

स्त्री म्लेच्छ्व्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥ १४६ भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥१५० मध्यन्दिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्मकामार्थान्साधं तैरेक एव वा ॥ १५१ परस्परविरुद्धानां तेषां च समुपार्जनम् ।

कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥१५२ दूतसम्प्रेषणं चैव कार्यशेषं तथैव च ।

अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥१५३

[[१२४]]

मनुस्मृतिः ।

[ सप्तमो

कृत्स्नं चषिधं कम पञ्चवर्गं च तत्त्वतः । अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ १५४ मध्यमत्य प्रचारं च विजिगीपोध चेटितम । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥ १५५ एताः प्रकृतयो मूलं मण्डलस्य समासतः । अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ १५६ अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः ।

प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥१५७ अनन्तरमरि विद्यादरिसेविनमेव च ।

अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ १५८ तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः । व्यस्तंश्चैव समस्तैश्च पौरुषेण नयेन च ॥१५६ संधि च विग्रहं चैव यानमासनमेव च । दुधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥ १६० आसनं चैव यानं च सन्धि विग्रहमेव च । कार्य वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ १६१ संधि तु द्विविधं विद्याद्राजा विग्रहमेव च । उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ १६२ समानयानकर्मा च विपरीतस्तथैव च ।

तदा त्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः ॥ १६३ स्वयंकृतश्च कार्यार्थमकाले काल एव वा ।

मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ १६४

ऽध्यायः ]

राज्यशासनधर्मवर्णनम् ।

एकाकिनश्चात्ययिके कार्य प्राप्त यदृच्छया । संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ १६८ क्षीणस्य चैव क्रमशो देवात्पूर्वकृतेन वा । मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ १६६ वलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ १६७ अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ १६८ यदावगच्छेदायत्यामाधिक्यं ध्रुबमात्मनः ।

[[१२५]]

तदाखे चाल्पिक पीडां तदा सन्धि समाश्रयेत् ॥ २६६ यदा प्रा मन्येत सर्वास्तु प्रकृतीभृशम ।

अत्युच्छितं तथाऽऽत्मानं तदा कुर्वीत विग्रहम् ॥ १७० यदा मन्येत भावेन हृएं पुटं बलं स्वकम् । परस्य विपरीतं च तदा यायाद्रिपुं प्रति ॥ १७१ यदा तु स्यात्परिक्षीणो वाहनेन वलेन च । ’ तदाssसीत प्रयत्नन शनकैः सान्त्वयन्नरीन् ॥ १७२ मन्येतारिं यदा राजा सर्वथा बलवत्तरम । तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥ १७३ यदा परबलानां तु गमनीयतमो भवेत् ।

तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥१७४ निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च । उपसेवेत तं नित्यं सर्वयन गुरु यथा ॥ १७५

[[१२६]]

मनुस्मृतिः ।

[ सप्तमो

यदि तत्रापि सम्पश्येद्दोषं संश्रयकारितम् । सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ १७६ सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः । यथाऽस्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥ १७७ आयति सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुणदोषौ च तत्वतः ॥ १७८ आयत्यां गुणदोषज्ञस्तदास्त्रे क्षिप्रनिश्वयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ १७६ यथैनं नाभिसन्दध्युर्मित्रोदासीनशत्रवः । तथा सवं संविदध्यादेष सामासिको नयः ॥१८० यदा तु यानमातिष्ठ दरिराष्ट्रं प्रति प्रभुः । तदाऽनेन विधानेन यायादरिपुरं शनैः ॥ १८१ मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः । फाल्गुनं वाऽथ चैत्र वा मासौ प्रति यथाबलम् ॥१८२ अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् । तदा यायाद्विगृह्यैव व्यसने चोस्थिते रिपोः ॥ १८३ कृत्वा बिधानं मूले तु यात्रिकं च यथाविधि । उपगृह्यास्पदं चैत्र चारान्सम्यग्विधाय च ॥ १८४ संशोध्य त्रिविधं मागं षडूविधं च बलं स्वकम् । साम्परायिककल्पेन यायादरिपुरं शनैः ॥ १८५ शत्रुसेविनि मित्रे च गृढ़े युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कतरो रिपुः ॥ १८६

ऽध्यायः ]

राज्यशासनधमवणनम् ।

दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।

वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ १८७ यतश्च भयमाशङ्क त्ततो विस्तारयेद्वलम् ।

पद्मन चैव व्यूहेन निवेशत सदा स्वयम् ॥१८८ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।

यतश्च भयमाशङ्क प्राचीं तां कल्पयेद्दिशम् ॥१८६ गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समन्ततः । स्थाने युद्ध े च कुशलानभीरूनविकारिणः ॥ १६० संहतान्योधयेदल्पान्कामं विस्तारयेद्वहून् ।

सूच्या वज्रेण चैवैतान्त्र्यूहेन व्यूह्य येोधयेत ॥ १६२ स्यन्दनाश्वैः समे युद्धयं दनूपे नौ द्विपस्तथा । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥१६२ कौरुक्षेत्रांश्च मत्स्यांश्च पञ्चालान्ळूरसेनजान् । दीर्घाल्लंघूश्चैव नरानप्रानीकेषु योजयेत् ॥१६३ प्रहर्षयेद्वलं व्यूह्य तांश्च सम्यक्परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन्योधयतामपि । उपरुध्यारिमासीत राष्ट्र चास्योपपीडयेत् । दूषयेच्चास्य सततं यव सानोदकेन्धनम् ॥१६५ भिन्द्याचैव तडागानि प्राकारपरिखास्तथा । समवस्कन्दयेचैनं रात्रौ वित्रासयेत्तथा ॥ १६६ उपजप्यानुपजपेद्वध्येतैव च तत्कृतम् ।

युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ १६७

[[१२७]]

[[१२८]]

मनुस्मृतिः ।

[ समभो

साम्रादानेन भेदेन समस्तैरथवा पृथक । विजेतुं प्रयतेतारिं न युद्ध न कदाचन ॥ १६८ अनित्यो विजयो यस्माद्दश्यते युध्यमानयोः । पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥ १६६ त्र्याणामप्युपायानां पूर्वोक्तानामसम्भवे । तथा युध्येत संपन्नो विजयेत रिपुन्यथा ॥ २०० जित्वा सम्पूज वान्त्र ।ह्मणांश्चैव धार्मिकान् । प्रयापरिहारार्थं ख्यापयेदभयानि च ॥ २०१ सर्वेषां तु विदित्वेषां समासेन चिकीर्षितम् । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥२०२ प्रमाणानि च कुर्वीत तेषां धर्म्यान्यथोदितान् । रत्नश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ २०३ आदानमप्रियकरं दानं च प्रियकारकम् । अभीप्सितानामर्थानां कालेयुक्तं प्रशस्यते ॥२०४ सर्व कर्मेदमायत्तं विधाने देवमानुषं । तयोर्देवमचिन्त्यं तु मानुषं विद्यते क्रिया ॥ २०५ सह वाऽपि व्रजेय क्तः सन्धि कृत्वा प्रयत्नतः । मित्र हिरण्यं भूमिं वा सम्पश्यं स्त्रिविधं फलम् ॥२०६ पाणिग्राहं च संप्रक्ष्य तथाऽऽकन्दं च मण्डले । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात २०७ हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते । …. यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥२०८

ऽध्यायः

राज्यशासनधर्मवर्णनम् ।

धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च ।

अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ २०६ प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च । कृतज्ञ धृतिमन्तं च कलमाहुररिं बुधाः ॥ २१० आर्यता पुरुषज्ञानं शौर्य करुणवेदिता । स्थौललक्ष्यं च सततमुदासीनगुणोदयः ॥२११ क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥२१२ आपदर्थ धनं रक्षेद्दारानद्धनैरपि । आत्मनं सततं रक्षेद्दारैरपि धनैरपि ॥ २१३ सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् । संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बधः ॥ २१४ उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः । एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये । २१५

एवं सर्वमिदं राजा सह संमन्त्र्य मन्त्रिभिः । व्यायम्याप्लुत्य मध्याह्न भोक्तुमन्तःपुरं विशेत् ॥ २१६ तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः ।

सुपरीक्षितमन्नाद्यमद्यान्मंत्रैर्विषापहः ॥ २१७

[[१२६]]

विषघ्नै ( रुद) रगदैश्वास्य सर्वद्रव्याणि ( शोधयेत् ) योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥२१८ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।

वेषाभरणसंशुद्धः स्पृशेयुः सुसमाहिताः ॥ २१६

w

[[६]]

[[१३०]]

मनुस्मृतिः ।

एवं प्रयत्न कुर्वीत यानशय्यासनाशने ।

स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ २२० भुक्तवान्विहरेचैव स्त्रीभिरन्तःपुरे सह ।

[ सप्तमो

विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ २२१

अलङ्क, तश्च संपश्येदायुधीयं पुनर्जनम् । ।

वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ २२२ सन्ध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैत्र प्रणिधीनां च चेष्टितम् ॥ २२३ गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः ॥ २२४ तत्र भुक्त्वा पुनः किंचित्तूर्यघोषैः प्रहर्षितः । संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥२२५ एतद्विधानमातिष्ठदरोगः पृथिवीपतिः ।

अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ २२६

इति मानवे धर्मशास्त्रे भृगुप्रोक्तार्या मनुस्मृत्यां राज्यशासनधर्मवर्णननाम सप्रमोऽध्यायः ॥ ७

ऽध्यायः

राजधर्मदण्डविधानवर्णनम् ।

[[१३५]]

अष्टनोऽध्यायः

राजधर्मदण्डविधानवर्णनम् ।

व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्र शैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ १ तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥२ प्रत्यहं देशश्च शास्त्रश्च हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक पृथक् ॥ ३ तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः । सम्भूय च समुत्थानं दत्तस्यानपकर्म च ॥४ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ ५ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ ६ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ एपु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्म शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम् ॥८

[[१३२]]

मनुस्मृतिः ।

[ अष्टमो

यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् । तदा नियुज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने ॥६ सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः । सभामेव प्रविश्याययामासीनः स्थित एव बा ॥१० यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राज्ञश्चाधिकृतो विद्वान्ब्रह्मणस्तां सभां विदुः ॥११ धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते ।

शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥१२ सभां वा न प्रवेव्या वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वाऽपि नरो भवति किल्विषी ॥१३ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥१४ धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽबधीत ॥१५ वृषो हि भगवान्धर्मस्तस्य यः कुरुते ह्यलम् । वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥१६ एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥१७ पादोधर्मस्य कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान्पादो राजानमृच्छति ॥ १८ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ १६ऽध्यायः ]

राजधर्मदण्डविधानवर्णनम् ।

जातिमात्रोपजीवी वा कामं स्याद्वाह्मणब्रुवः । धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथंचन ॥२० यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्रं पङ्क गौरव पश्यतः ॥२१ यहाष्ट्रं शूद्रभूयिष्ठ नास्तिकाक्रान्तमद्विजम् । विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥२२ धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥२३ अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥२४ वार्विभावयेल्लिङ्गर्भावमन्तर्गतं नृणाम् । स्वरवर्णङ्गिताकारैश्चक्षुपा चेष्टितेन च ॥ २५ आकारैरिङ्गितैर्गत्या या भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥२६ बालदायादिकं रिक्थं तावद्राजानुपालयेत् । यावत्स स्यात्समावृत्तो याबद्वाऽतीतशैशवः ॥ २७ वशाsपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतित्रतासु च स्त्रीषु विधवास्वातुरासु च ॥२८ जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । ताञ्छुिष्याचौरदण्डेन धार्मिकः पृथिवीपतिः ॥२६ प्रणस्वामिकं रिक्थं राजा व्यब्दं निधापयेत् । अर्वाक्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ३०

[[१३३]]

[[१३४]]

मनुस्मृतिः ।

[ अष्टमो

ममेदमिति यो ब्रुयात्सोऽनुयोज्यो यथाविधि । संवाद्य रूपसंख्यादीन्स्वामी तद्द्द्रव्यमर्हति ॥ ३१ अवेदयानो नष्टस्य देशं कालं च तत्त्वतः । वणं रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ ३२ आददीताथ षड्भागं प्रणाधिगतान्नृपः । दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन ॥ ३३ प्रनष्टाधिगतं द्रव्यं तिष्ठेय तैरधिष्ठितम् । यांस्तत्र चौरानगृह्णीयात्तात्राजेभेन घातयेत् ॥३४ ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ ३५ अनृतं तु वदन्दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्यायाल्पीयसीं कलाम ॥३६ विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । अशेपतो ज्याददीत सर्वस्याधिपतिर्हि सः ॥३७ यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । तस्माद्विजेभ्यो दत्त्वाऽर्धमधं कोशे प्रवेशयेत् ॥३८ निधीनां तु पुराणानां धातूनामेव च क्षितौ । अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ ३६ दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्विषम् ॥४० जातिजानप्रदान्धर्मान्छे णीधमांश्च धर्मवित् । समीक्ष्य कुलधमांश्च स्वधर्मं प्रतिपादयेत् ॥४१

ऽध्यायः ]

राजधर्मदण्डविधानवर्णनम् ।

स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य वे स्वे कर्मण्यवस्थिताः ॥४२ नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पुरुषः । न च प्रापितमन्येन प्रसेतार्थं कथंचन ॥४३ यथा नयत्यसृक्पातैमृगस्य मृगयुः पदम् । नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥४४ सत्यमयं च संपश्येदात्मानमथ साक्षिणम् । देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥४५ सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । तद शकुलजातीनामविरुद्ध प्रकल्पयेत् ॥४६ अधमर्णार्थ सिध्यर्थमुत्तमर्णेन चोदितः ।

दापयेद्धनिकस्यार्थमधमणाद्विभावितम् ॥४७ येयैरुपायैरथं स्वं प्राप्नुयादुत्तमर्णिकः । तैस्तैरुपायैः संगृह्य दापयेद्धमर्णिकम् ॥४८ धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थ पञ्चमेन वलेन च ॥ ४६ यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् ।

न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन्धनम् ॥५० अर्येऽपव्ययमानं तु कारणेन विभावितम् ।

दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः ॥५१

अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि ।

अभियोक्ता दिशेद्दशं कारणं वाऽन्यदुद्दिशेत् ॥५२

[[१३५]]

[[१३६]]

मनुस्मृतिः ।

[ अष्टमो

अदेशं यश्च दिशति निर्दिश्यापह्न ुते च यः यश्चाधरोत्तरानर्थान्त्रिगीतान्नावबुध्यते ॥ ५३ अपदिश्यापदेशं च पुनर्यस्त्वपधावति । सम्यम्प्रणिहितं चार्थ पृष्ठः सन्नाभिनन्दति ॥५४ असंभाष्ये साक्षिभिश्च देशे सभापते मिथः । निरुच्यमानं प्रश्नं च नेच्द्रद्यश्चापि निष्पतेत् ॥५५ ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयत् । न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते ॥ ५६ साक्षिणः (ज्ञातारः) सन्ति मेत्युक्त्वा दिशेत्युक्तो दिन्न यः । धर्मस्थः कारणैरेतैर्हीनं तमिति निर्दिशत् ॥५७ अभियोक्ता न चंद्रयाद्वन्ध्यो दण्ड्यश्च धर्मतः । न चत्त्रिपक्षात्प्रब्रूयाद्धमं प्रति पराजितः ॥ ५८ यो यावन्निनुवीतार्थं मिय्या यावति वा वदेत । तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं मम ॥ ५६ पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा । व्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसन्निधौ ॥६० यादृशाधनिभिः कार्या व्यवहारेषु साक्षिणः । तादृशान्सम्प्रवक्ष्यामि यथा वाच्यमृतं च तैः ॥ ६१ गृहिणः पुत्रिणो मौलाः क्षत्त्रविट्शूद्रयोनयः ।

अर्युक्ताः साक्ष्यमर्हन्ति न ये केचिदनापदि ॥६२ आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥६३

ऽध्यायः ]

राजधर्मदण्ड विधानवर्णनम् ।

नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।

[[१३७]]

न दोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥६४ न साक्षी नृपतिः कार्यो न कारुककुशीलवौ । न श्रोत्रियो न लिङ्गस्थो न सङ्गभ्यो विनिर्गतः ॥६५ नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत । न वृद्धो न शिशुर्नैको नान्यो न विकलेन्द्रियः ॥६६ नात न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः । न श्रमात न कामात न क्रुद्धो नापि तस्करः ॥६७ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥६८ अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ॥ ६६ स्त्रियायसम्भवे कार्य वालेन स्थविरेण वा । शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥ ७० बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा ॥ ७१ साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । बाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥७२ बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृान्गुणिद्वेधे द्विजोत्तमान् ॥ ७३ समक्षदर्शनात्साक्ष्यं श्रवणाचैव सिध्यति ।

तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥ ७४

[[१३८]]

मनुस्मृतिः ।

[ अष्टमो

साक्षी श्रुतादन्यद्विब्रुवन्नार्य संसदि । अवाङ्नरकमभ्येति प्रेत्य स्वर्गाश्च हीयते ॥ ७५ यत्रानिबद्धोऽपीक्षेत शृणुयाद्वाऽपि किंचन । पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टं यथाश्रुतम् ॥७६ एको लुब्धस्त्वसाक्षी स्याद्वह्वयः शुच्योऽपि न स्त्रियः । स्त्रीबुद्ध र स्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः ॥ ७७ स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् । अतो यइत्यद्वि युर्वमर्थिं तदपार्थकम् ॥७८ सभान्तः साक्षिणः प्राणानर्थिप्रत्यर्थिसन्निधौ । प्राड्विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ॥७६ यद्वयोरनयोर्वेत्थ कार्येऽस्मिञ्चेष्टितं मिथः । तद्भूत सर्व सत्येन युष्माकं ह्यत्र साक्षिता ॥८० सत्यं साक्ष्ये ब्रुवन्साक्षी लोकानाप्नोत्य (पुष्कलान् ) निन्दितान् । इह चानुत्तमां कीर्त्ति वागेपा ब्रह्मपूजिता ॥८५ साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम् । विवराः शतमाजातीस्तस्मात्साक्ष्यं वदेद्रतम् ॥८२ सत्येन पूयते साक्षी धर्मः सत्येन वर्द्धते । तस्मात्सत्यं हि वकत्र्यं सर्ववर्णेषु साक्षिभिः ॥ ८३ आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः । मावमंस्थाः स्वमात्मानं नृणां साक्षिगमुत्तमम् ॥८४ मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः । तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥८५

व्यायः ]

राजधर्मदण्डविधाने - साक्षीवर्णनम् ।

द्यौर्भूमिरापो हृदयं चन्द्रार्काम्यिमानिलाः ।

रात्रिः सन्ध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ॥८६ देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्न वै शुचिः शुचीन ॥८७ ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् । गोवीजकांचनैवश्यं शूद्रं सर्वैस्तु पातकैः ॥८८ ब्रह्मनो ये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रुहः कृतघ्नस्य ते ते स्वतो मृपा ॥८६ जन्मप्रभृति यत्किंचित्पुण्यं भद्र त्वया कृतम् । तत्तं सर्वं शुनो गच्छेद्यदि त्र्यास्त्वमन्यथा ॥ ६० एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे । नित्यं स्थितस्ते हृद्यष पुण्यपापेक्षिता मुनिः ॥ ६१ यमो वैवस्वतो देवो यस्तवैप हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥६२ नमो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥६३ अवाक्शिरास्तमस्यन्धं किल्विषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात्पृष्टः सन्धर्मनिश्चये ॥ ६४ अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । यो भाषतेऽर्थवैकल्यमप्रत्यक्ष सभां गतः ॥ ६५ यस्य विद्वान्हि वदतः क्षेत्रज्ञो नातिशङ्कते । तस्मिन्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥ ६६

[[५३६]]

[[१४०]]

मनुस्मृतिः ।

[ अष्टमो

यावतो बान्धवान्यस्मिन्हन्ति साक्ष्येऽनृतं वदन् । नावतः सङ्खयया तस्मिन् शृणु सौम्यानुपूर्वशः ॥६७ पंच पश्वनृते हन्ति दश हन्ति गवानृपे । शतमश्रानृते हन्ति सहस्रं पुरुषानृते ॥ ६८ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व भूम्यनृते हन्ति मास्म भूम्यनृतं वदीः ॥६६ अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अब्जेषु चैव रत्नषु सर्वेष्वश्ममयेषु च ॥ १०० एतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । यथाश्रुतं यथाएं सर्वमेवाञ्जसा वद् ॥१०१ गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्धपिकांश्चैव विप्रान शूद्रवदाचरेत् ॥ १०२ तद्वदन्धर्मतोऽर्थेषु जानन्नप्यन्यथा नरः ।

न स्वगाच्च्यवते लोकाद्दवीं वाचं वदन्ति ताम् ॥१०३ शूद्रबिक्षत्रविप्राणां यत्रततौ भवेद्वधः ।

तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ १०४ वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् ।

अनृतस्यै नमस्तस्य कुर्वाणा निष्कृतिं पराम् ॥ १०५ कुष्माण्डैर्वापि जुहुयाद्धृतमनौ यथाविधि । उदित्यृचा वा वारुण्या तृचेन दैवतेन वा ॥ १०६ त्रिपक्षादब्रुवन्साक्ष्यमृणादिषु नरोऽगदः ।

तदृणं प्राप्नुयात्सवं दशबंधं च सर्वतः ॥ १०७

[[१४१]]

ऽध्यायः ]

राजधर्मदण्डविधाने साक्षीवर्णनम् ।

यस्य दृश्येत सप्ताहादुक्तवाक्यम्य साक्षिणः । रोगोऽभिर्ज्ञातिमरणमृणं दाप्यो दमं च सः ॥१०८ असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः ।

न विन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ १०६ महर्षिभिश्च देवैश्च कार्यार्थ शपथाः कृताः । वशिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥ ११० न वृथा शपथं कुर्यात्स्वल्पेऽर्थे नरो बुधः । वृथा हि शपथं कुर्वन्प्रत्य चेह च नश्यति ॥१११ कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथ नास्ति पातकम् ॥११२ सत्येन शापयेद्विप्रं क्षत्त्रियं वाहनायुधैः । गोबीजकांचनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥११३ अग्निं वाऽऽहारयेदेनमप्सु चैनं निमज्जयेत् । पुत्रदारस्य वाऽप्येनं शिरांसि स्पर्शयेत्पृथक् ॥ ११४ यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च । न चार्त्तिमृच्छति क्षिप्रं स ज्ञेयः शपथं शुचिः ॥११५ वत्सस्य ह्यभिशस्तस्य पुरा भ्राता यवीयसा । नाग्निर्ददाह रोमापि सत्येन जगतः स्पृशः ॥ ११६ यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्यं निवर्त्तत कृतं चाप्यकृतं भवेत् ॥ ११७ लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च । अज्ञानाद्वालभावाच साक्ष्यं वितथमुच्यते ॥ ११८

[[१४२]]

मनुस्मृतिः ।

[ अष्टमो

एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥ ११६ लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्व तु साहसम् । भयाद्वौ मध्यमौ दण्ड्यौ मैत्रात्पूर्वं चतुर्गुणम् ॥१२० कामाद्दशगुणं पूर्व क्रोधात्तु त्रिगुणं परम् । अज्ञानाद्वे शते पूर्णे बालिश्याच्छतमेव तु ॥ १२१ एतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः । धर्मस्यान्यभिचारार्थमवनियमाय च ॥ १२२ कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ १२३ दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो ब्रजेत् ॥१२४ उपस्थमुदरं जिह्वा हस्तौ पादौ च पंचमम् । चक्षुर्नासि च कर्णौ च धनं देहस्तथैव च ॥ १२५ अनुबन्धं परिज्ञाय देशकालौ च तत्वतः ।

सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ १२६ अधर्मदण्डनं लोके यशोघ्नं कीर्त्तिनाशनम् । अस्वयं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥१२७ अदण्ड्यान्दण्डयनाजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥ १२८ वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु बधदण्डमत. परम् ॥ १२६ऽध्यायः ]

द्रव्यपरिमाणनिरूपणवर्णनम् ।

बधेनापि यदा खेतान्निग्रहीतुं न शक्नुयात् । तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥१३० लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्यामशेपतः ॥१३१ जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ १३२ त्रसरेणवोsat विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्ते त्रयो गौरसर्षपः ॥१३३ सर्पपाः षट् यवो मध्यस्त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलिको मापस्ते सुवर्णस्तु षोडश ॥ १३४ पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले समधते विज्ञेयो रौप्यमाषकः ॥१३५ ते पोडश स्याद्धरणं पुराणश्चैव राजतः । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ १३६ धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुः सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ १३७ पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पंच विज्ञेयः सहस्र त्येव चोत्तमः १३८

णे देये प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नवे तद्विगुणं तन्मनोरनुशासनम् ॥ १३६ वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् । अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते ॥ १४०

[[१४३]]

[[१४४]]

मनुस्मृतिः ।

[ अष्टमो

द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन् । द्विकं शतं हि गृह्णानो न भवत्यर्धकिल्विषी ॥ १४१ द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ १४० न वाध सोपकारे कौसीदीं वृद्धिमाप्नुयात् । न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः ॥ १४३ न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् । मूल्येन तोपये चैनमाधिस्तेनऽन्यथा भवेत् ॥ १४४ आधिश्चोपनिविश्वोभौ न कालात्ययमर्हतः । अवहार्यौ भवतां तौ दीर्घकालमवस्थितौ ॥ १४५ संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन । धेनुरुप्रो बहनवोय दम्यः प्रयुज्यते ॥ १४६ यत्किंचिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तल्लधुमर्हति ॥ १४७ अजडश्चेदपोगण्डो विषये चास्य भुज्यते । भग्न ageवहारेण भोक्ता तद्द्रव्यमर्हति ॥ १४८ आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः । राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ १४६ यः स्वामिनाऽननुज्ञातमाधि भुङ्क्तेऽविचक्षणः । तेनार्थवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः ॥ १५० कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदाहृता ।

धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ १५१

जवाबः ] [

राजधर्मदण्डविधानवर्णनम् ।

[[१४५]]

कृतानुसारादधिका व्यतिरिक्ता न सिद्ध्यति । कुसीदपथमाहस्तं पञ्चकं शतमर्हति ॥ १५२ नातिसांवत्सरी वृद्धिं न चानां विनिर्हरेत् । चकवृद्धिः कालवृद्धिः कारिता कायिका च या ॥१५३ ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् । स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ १५४ अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । यावती सम्भवेद्वृद्धिस्तावतीं दातुमर्हति ॥ १५५ चक्रवृद्धिं समारूढो देशकालव्यवस्थितः । अतिक्रामन्देशकालौ न तत्फलमवाप्नुयात् ॥१५६ समुद्रयानकुशला देशकालार्थदर्शिनः ।

स्थापयन्ति तु यां वृद्धि सा तत्राधिगमं प्रति ॥ १५७ यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।

अदर्शयन्स तं तस्य प्रयच् छे (यतेन) त्स्वधनादृणम ॥१५८ प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ।

दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥१५६

दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः । दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ १६० अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् । पश्चात्प्रतिभुवि प्रते परीप्सेत्केन हेतुना ॥१६१ निरादिधनश्वेतु प्रतिभूः स्यादलंघनः । स्ववनादेव तदद्यान्निदिष्ट इति स्थितिः ॥ १६२

[[१०]]

[[१४६]]

मनुस्मृतिः ।

मत्तोन्मत्ताध्यधीनैर्बालेन स्थविरेण वा । असंबद्वकृतश्चैव व्यवहारो न सिद्ध्यति ॥ १६३ सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता । वहिश्चेद्भाष्यते धर्मान्नियताद्वयावहारिकात् ॥१६४ योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।

यत्र वाऽप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥१६५ ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कतो व्ययः । दातत्र्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः ॥ १६६ कुटुम्बार्थेऽध्यधीनोऽपि व्यहारं यमाचरेत् ।

[ अष्टमो

स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ १६७ बलाद्दत्तं बलाद्भुतं बलाद्यबापि लेखितम् । सर्वान्बलतानर्थानक्तान्मनुरब्रवीत् ॥१६८

त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारस्तुपचीयन्ते विप्र आठ्यो वणिनृपः ॥१६६ अनादेयं नाददीत परिक्षोणोऽपि पार्थिवः । न चादेयं समृद्वोऽपि सूक्ष्ममव्यर्थमुत्सृजेत् ॥ १७०

अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ १७१ स्वादानाद्वर्णसंसर्गात्त्रवलानां च रक्षणात् ।

बलं सञ्जायते राज्ञः स प्रेत्येह च वर्धते ॥१७२ तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । वर्तेत याम्यया वृत्त्या जितकोधो जितेन्द्रियः १७३

ऽध्यायः ]

राजधर्मदण्डविधानवर्णनम् ।

[[१४७]]

यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः । अचिरातं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ १७४ कामक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ १७५ यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे । स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम् ॥१७६ कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः । समोऽवकृष्टजातिस्तु दद्याच्छेयांस्तु तच्छनैः ॥ १७७ अनेन विधिना राजा मिथोविवदतां नृणाम् । साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ १७८ कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः ॥ १७६ यो यथा निक्षिपेद्धस्ते यमर्थ यस्य मानवः । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥१८० यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति । स याच्यः प्राडूविवाकेन तन्निक्षप्तुरसन्निधौ ॥ १८१ साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः । अपदेशश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ १८२ स यदि प्रतिपद्यत यथान्यस्तं यथाकृतम् । न तत्र विद्यते किंचिद्यत्परैरभियुज्यते ॥ १८३ तेपां न दद्याद्यदि तु तद्धिरण्यं यथाविधि । उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ॥१८४

[[१४८]]

मनुस्मृतिः ।

निक्षपोपनिधी नित्यं न देयौ प्रत्यनन्तरे । नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥१८५ स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे ।

[ अष्ठम्रो

न स राज्ञा नियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥ १८६ अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम् ।

विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत ॥ १८७ निक्षेपवेषु सर्वेषु विधिः स्यात्वरिसाधने । समुद्र नाप्नुयात्किंचिद्यदि तस्मन्न संहरेत् ॥१८८ चौरैहृतं जलेनोढममिना दग्धमेव वा ।

न दद्याद्यदि तस्मात्स न संहरति किंचन ॥ १८६ निक्षेपस्यापहर्तारमनिक्षेप्रारमेव च ।

सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः ॥ १६० योनिक्षेपं नार्पयति यश्वानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥१६१ निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम् ।

तथोपनिधिहर्तारमविशेषेण पार्थिवः ॥ १६२

उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ।

ससहायः स हन्तव्यः प्रकाशं विविधैर्बधः ॥ १६३ निक्षेपो यः कृतो येन यावांश्च कुलसन्निधौ । तावानेव स विज्ञेयो विब्रुवन्दण्डमर्हति ॥ २६४ मिथो दायः कृतो येन गृहीतो मिश्र एव वा । मिथ एव प्रदातव्यो यथा दायस्तथा महः ॥ १६५

पायः ]

राजधर्मदण्डविधाने साक्षीवर्णनम

[[१४६]]

निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च । राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ॥ १६६ विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः । न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम ॥ १६७ अवहार्यो भवेचैव सान्वयः षट्शतं दमम् । निरन्योऽनपसरः प्राप्तः स्याचौर किल्बिषम ॥१६८ अस्वामिना कृतो यस्तु दाथो विक्रय एव वा । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ १६६ सम्भोगो दृश्यते यत्र न दृश्येतागमः कचित् ।

आगमः कारणं तत्र न सम्भोग इति स्थितिः ॥ २०० विक्रयाद्यो धनं किंचिद्गृहीयात्कुलसन्निधौ ।

क्रयेण स विशुद्ध हि न्यायतो लभते धनम् ॥२०१ अथ मूलमनाहार्य प्रकाशक्रयशोधितः ।

अदण्ड्यो मुच्यते राज्ञा नाष्ट्रिको लभते धनम् ॥२०२ नान्यदन्येन संसृष्टरूपं विक्रयमर्हति ।

न चासारं न च न्यूनं न दूरेण तिरोहितम् ॥२०३

अन्यां चेदर्शयित्वान्या वोढुः कन्या प्रदीयते । उभे त एकशुल्केन वहेदित्यब्रवीन्मनुः ॥ २०४ नोन्मत्ताया न कुष्ठिन्या न च या स्पष्टमैथुना । पूर्व दोषानभिख्याप्य प्रदाता दण्डमर्हति ॥२०५ ऋत्विग्यदि वृतो यज्ञं स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देवोऽशः सह कर्तृभिः ॥२०६

[[१५०]]

मनुस्मृतिः ।

दक्षिणा च दत्तासु स्वकर्म परिहापयन् । कृत्स्नमेत्र लभेताशमत्येनैव च कारयेत् ॥ २०७ यस्मिन्कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः । स एव ता आदीत भजेरन्सर्व एव वा ॥२०८ रथं हरेत चाध्वर्युर्ब्रह्माधाने च वाजिनम् । होता वापि हरेवमुद्गाता चाप्यनः क्रये ॥ २०६ सर्वेषामर्द्धिनो मुख्यास्त नार्धिनोऽपरे । तृतीवितस्तृतीयांशाश्च शाश्च पादिनः ॥ २१० संभूय स्वनि कर्माणि कुर्वद्भिरिह मानवैः । अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ २११ धर्मायेन दत्तं स्यात्कस्मैचिद्याचते धनम् । पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् ॥ २१२ यदि संसाधयेत्तत्तु दर्पालोभन वा पुनः ।

अष्टमो

राज्ञा दाप्यः सुवर्ण स्यात्तस्य स्तेयस्य निष्कृतिः ॥ २५३ दत्तस्यैपोदिता धर्म्या यथावदनपक्रिया ।

अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥२१४ भृतोऽनार्तो न कुर्याद्यो दर्पात्कर्म यथोदित्तम् ।

स दण्ड्य कृष्णलान्यौ न देयं चास्य वेतनम् ॥२१५ आर्तस्तु कुर्या स्वस्थः सन्यथा भाषितमादितः ।

सदोर्घस्यापि कालस्य तल्लभेतैव वेतनम् ॥२१६ यथोक्तमार्तः सुस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ २१७

ऽध्यायः ]

राजधर्मदण्डविधाने वेतनदण्डवर्णनम् । ९५१

एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः ।

अत उर्ध्वं प्रवक्ष्यामि धर्म समयभेदिनाम् ॥२१८ यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ २१६ निगृद्य दापयेचैनं समयव्यभिचारिणम् ।

चतुः सुवर्णान् षणिष्काश्यतमानं च राजतम् ॥२२० एतदण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः । ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥२२१ क्रीत्वा विक्रीय वा किंचिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्रव्यं दद्याचैवाददीत वा ॥ २२२ परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानोइच्वैव राज्ञा दण्ड्यः शतानि षट् ॥ २२३ यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ २२४ अकन्येति तु यः कन्यां ब्रूयाद्वेषेण मानवः । स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन् ॥२२५ पाणिग्रहणिका मन्त्राः कन्यास्त्रेव प्रतिष्ठिताः । नाकन्यासु कचिन्नणां लुमधर्मक्रिया हि ताः ॥२२६ पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ २२७ यस्मिन्यस्मिन्कृते कार्ये यस्येहानुशयो भवेत् । तमनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ २२८

[[१५२]]

मनुस्मृतिः ।

[ अष्टमी

पशुत्रु स्वामिनां चैव पालानां च व्यतिक्रमे । विवादं सम्प्रक्ष्यामि यथावद्धर्मतत्त्वतः ॥ २२६ दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्त पालो वक्तव्यतामियात् ॥ २३० गोपः श्रीरमृतो यस्तु स दुह्याद्दशतो वराम् । गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः ॥२३१ नष्टं विनएं कृमिभिः श्रहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥२३२ विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति ।

यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ २३३ कर्णौ चर्म च बालांश्च वस्ति स्नायुं च रोचनाम् । पशु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् ॥२३४ अजाविके तु संरुद्ध वृकैः पाले त्वनायति । यां प्रस वृको हन्यात्पाले तत्किल्विषं भवेत् ॥२३५ तासां चेदवरुद्धानां चरन्तीनां मिथो वने । यामुल्य वृको हन्यान्न पालस्तत्र किल्विषी ॥२३६ धनुः शतं परीहारो ग्रामस्य स्यात्समन्ततः । शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु ॥ २३७ तत्रापरिवृतं धान्यं विहिंस्युः पृषो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥२३८ वृतिं तत्र प्रकुर्वीत यामुद्रो न विलोकयेत् । छिद्रं च वारयेत्सर्वं वसूकरमुखानुगम ॥२३६.उध्यायः ]

राजधर्मदण्डविधाने वेतन दण्डवर्णनम् । ५५३

पथि क्षेत्रं परिवृते ग्रामान्तीयेऽथ वा पुनः । सपालः शतदण्डाहों विपालान्वारयेत्पशून् ॥ २४० क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति । सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥२४१ अनिर्दशाहां गां सूतां वृषान्देवपशू स्तथा । सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत ॥ २४० क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत् । ततोऽर्थदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु ॥ २४३ एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः ।

स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ २४४ सीमां प्रति समुत्पन्न विवादे ग्रामयोद्धयोः । ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु ॥ २४५ सीमावृक्षांश्च कुर्वीत न्यग्रोधावत्वकिंशुकान् । शाल्मलीन्शालतालांश्च क्षीरिणश्चैव पादपान् ॥२४६ गुल्मान्वेणश्च विविधाञ्छमीवल्लीस्थलानि च । शरान्कुजकगुल्मांश्च तथा सीमा न नश्यति ॥ २४७ तडागान्युदपानानि वाप्यः प्रस्रवणानि च । सीमासन्धिषु कार्याणि देवतायतनानि च ॥ २४८ उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥२४६ अश्मनोऽस्थीनि गोबालांस्तुषान्भस्मकपालिकाः । करीषमिष्टकाङ्गारा बालुकास्तथा ॥२५०.

[[१५४]]

[ अष्टमो

मनुस्मृतिः ।

यानि चैवं प्रकाराणि काला भूमिर्न भक्षयेत् । तानि सन्धिषु सोमायामप्रकाशानि कारयेत् ॥ २५१ एते लिङ्ग र्नयेत्सीमां राजा विवदमानयोः । पूर्वभुक्त्या च सततमुदकस्यागमेन च ॥ २५२ यदि संशय एव स्याल्लिङ्गानामपि दर्शने । साक्षिप्रय एव स्यात्सोमावादविनिर्णयः ॥ २५३ ग्रामेयक हुलानां च समक्ष सोनि साक्षिणः । प्रयाः सोमलिङ्गानि तयोश्चैव विवादिनोः ॥२५४ ते प्रास्तु यथा ब्रूयुः समस्ता सीनि निश्चयम् । निघ्नीयात्तथा सोमां सर्वः स्तःश्चैव नामतः ॥ २५५ शिरोभिस्ते गृहीत्वोर्वी स्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्जसम ॥ २५६ यथोक्तंन नयन्तत्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्यस्तु दाप्याः स्युद्विशतं दमम् ॥ २५७ साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसन्निधौ ॥ २५८ सामन्तानामभावे तु मौलानां सोम्नि साक्षिणाम । इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान ॥२५६ व्याधाञ्छाकुनिकान्गोपान्कैवर्तान्मूलखानकान् । व्यालप्राहानुवृत्तीनन्यांश्च वनचारिणः ॥ २६० ते पृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः ॥ २६१

ऽध्यायः

राजदण्डविधाने सीमादण्डवर्णनम् ।

क्षेत्रकूपतडागानामारामस्य गृहस्य च । सामन्तप्रययो ज्ञेयः सीमा सेतुविनिर्णयः ॥ २६२ सामन्ताश्वेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् । सर्वे पृथकपृथग्दण्ड्याराज्ञा मध्यमसाहसम् ॥२६३ गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्विशतो दमः ॥ २६४ सीमायामविषायां स्वयं राजैव धर्मवित् । प्रदिशे भूमिमेतेषामुपकारादिति स्थितिः ॥ २६५ एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये 1 अत ऊ प्रवक्ष्यामि वाक्पारुष्य विनिर्णयम ॥ २६६ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमईति । वैश्योऽ यर्धशतं द्वे वा शूद्रस्तु बधमर्हति ॥ २६७ पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्यादर्द्धपञ्चाशच्छद्रे द्वादशको दमः ॥ २६८ समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे । वादेष्ववचनीयेषु तदेव द्विगुगं भवेत् ॥ २६६ एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाचं जघन्यप्रभवो हि सः ॥ २७० नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः ।

निःक्षेप्योज्योमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥२७१

धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः ।

तप्तमासेचयेत्तैलं वक्त श्रोत्रे च पार्थिवः ॥ २७२

[[१५५]]

[[१६६]]

मनुस्मृतिः ।

[ अष्टमी

च्युतं ( श्रुतं ) देशं च जातिं च कर्म शारीरमेव च । वितथेन ब्रुवन्दाप्यः स्याद्विशतं दमम् ॥ २७३ काणं वाऽप्यथ वा खञ्जमन्यं वाऽपि तथाविधम । तथ्येनापि ब्रुवन्ाप्यो दण्डं कार्षापणावरम् ॥२७४ मातरं पितरं जायां भ्रातरं तनयं गुरुम् । आक्षारयञ्छतं दाप्यः पन्थानं चाददद्गुरोः ॥ २७५ ब्राह्मक्षत्रियाभ्यां तु दण्डः कार्यो विजानता । ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥२७६ विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः । छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः ॥ २७७ एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥२७८ येन केनचिदङ्गन हिस्याच्छ्रं ष्ठमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ २७६ पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति । पादेन प्रहरन्कोपात्पादच्छेदनमर्हति ॥ २८० सहासनमभिप्रेसुरुत्कृष्टस्यापकृष्टजः ।

कस्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ॥ २८१ अवनिष्ठीवतो दर्पाद्वावोष्ठौ छेदयेन्नृपः ।

अवमूत्रयतो मेमवशर्धयतो गुदम् ॥ २८२

केशेषु गृह्णतो हस्तौ केदयेदविचारयन् ।

पादयोर्दाठिकायां च ग्रीवायां वृषणेषु च ॥ २८३

न्यायः ]

राजधर्मदण्डविधानवर्णनम् ।

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता तु पण्णिष्कान्प्रवास्यस्त्वस्थिभेदकः २८४ वनस्पतीनां सर्वेषामुपभोगो यथा यथा ।

तथा तथा दमः कार्यों हिसायामिति धारणा ॥२८५ मनुष्याणां पशूनां च दुखाय प्रहृते सति ।

यथा यथा महद्द : खं दण्डं कुर्यात्तथा तथा ॥ २८६ अङ्गावपीडनायां च प्राणशोणितयोस्तथा । समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ॥ २८७ द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञं दद्याच्च तत्समम् ॥२८८ चर्मचार्मिकभाण्डेषु काष्ठलेोष्ठमयेषु च । मूल्यात्पश्वगुणो दण्डः पुष्पमूलफलेषु च ॥ २८६ यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्तनान्याहुः शेषं दण्डो विधीयते ॥ २६० छिन्ननास्ये भमयुगे तिर्यक्प्रतिमुखागते ।

अक्षभङ्गं च यानस्य चक्रभङ्ग तथैव च ॥ २६१ छेदने चैव यन्त्राणां योक्तरश्म्योस्तथैव च । आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥२६२ यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु ।

तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥ २६३ प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति ।

१.५७

युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ २६४

[[१५८]]

"

मनुस्मृतिः ।

[ अष्टमो

स चंत्तु पथि संरुद्धः पशुभिर्वा रथेन वा । प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ॥ २६५ मनुष्यमारणे क्षिप्रं चौरवत्किल्विषं भवेत् । प्राणभृत्पु महत्स्वधं गोग जो हयादिषु ॥ २६६ क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ २६७ गर्दभाजाविकानां तु दण्डः स्यात्याश्वमाषिकः । माषिकस्तु भवेद्दण्डः सूकरनिपातने ॥ २६८ भार्या पुत्रश्च दासश्च शिष्यो ( प्रेप्यो) भ्राता च सोदरः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ २६६ पृष्ठतस्तु शरीरस्य नोत्तमाङ्ग कथंचन ।

अतोऽन्यथा तु प्रहरन्प्राप्तः स्याच्चौर किल्विषम ॥३०० एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।

स्तेनस्यातः प्रवक्ष्यामि विधि दण्डविनिर्णये ॥ ३०१ परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः । स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ ३०२ अभयस्य हि यो दाता स पूज्यः सततं नृपः । सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥३०३ सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ ३०४ यदधीते यद्यजते यद्ददाति यदति ।

तस्य षड्भागभाप्राजा सम्यग्भवति रक्षणात् ॥३०५

ऽध्यायः ]

राजधर्मविधाने चौरदण्डवर्णनम्

रक्षन्धर्मेण भूतानि राजा बध्यांश्च घातयन् । यजतेऽहरहर्यज्ञः सहस्रशतदक्षिणैः ॥ ३०६

योऽरक्षन्बलिमादत्ते करं शुल्कं च पार्थिवः ।

[[१५६]]

प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ३०७ अरक्षितारमत्तारं बलिषड्भागहारिणम ।

तमाहुः सर्वलोकस्य समप्रमलहारकम् ॥३०८ अनवेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् । अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ ३०६ अधार्मिकं त्रिभिन्ययैिर्निगृहीयात्प्रयत्नतः । निरोधनेन बन्धेन विविधेन बधेन च ॥ ३१० निग्रहेण हि पापानां साधूनां संप्रहेण च । द्विजातय इज्याभिः पूयन्ते सततं नृपाः ॥ ३११ अन्तत्र्यं प्रभुगा नित्यं क्षिपतां कार्यिणां नृणाम् । बालवृद्वातुराणां च कुर्वता हितमात्मनः ॥३१२ यः क्षिनोमयय. तैत्तेन स्वर्गे महीयते । यस्त्वैश्वर्यन क्षमते नरकं तेन गच्छति ॥ ३१३ राजा स्तेनेन गन्तव्यो मुक्तकेशेन (धीमता) धावता । आचक्षाणेन तत्स्तेयमेवङ्कर्मास्मि शावि माम् ॥३१४ स्कन्धेनादाय मुशलं लगुडं वापि खादिरम् । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ ३१५ शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्विषम् ॥३१

[[१६०]]

मनुस्मृतिः ।

अमे

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।

गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥३१७ राजभिः कृत (घृत) दण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३१८ यस्तु रज्जुं घटं कूपाद्धरेद्भिद्याच यः प्रपाम् । स दण्डं प्राप्नुयान्माषं तच तस्मिन्समाहरेत् ॥३१६ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः । शेष ऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् ॥ ३२० तथा धरिममेयानां शतादभ्यधिके बधः । सुवर्णरजतादीनामुत्तमानां च वाससाम् ३२१ पश्वाशतरत्वभ्यधिके हस्तच्छेदनमिष्यते ।

शेष स्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥३२२ पुरुषाणां कुलीनानां नारीणां च विशेषतः । मुख्यानां चैब रत्नानां हरणं बधमर्हति ॥ ३२३ महापशूनां हरणं शास्त्राणामौषधस्य च ।

कालमासाद्य कार्य च दण्डं राजा प्रकल्पयेत् ॥ ३२४ गोषु ब्राह्मणसंस्थासु छरिका (खरिका) याश्च भेदने । पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ ३२५ सूत्रकार्पासकिण्वान गोमय य गुडस्य च ।

दध्नः क्षीरस्य तक्राय पानीय य तृणस्य च ॥३२६ वेणुवैदलभाण्डानां लवणानां तथैव च ।

मृन्मयानां च हरणे मृदो भस्मन एव च ॥३२७

ऽध्यायः ]

राजधर्मदण्डविधानवर्णनम् ।

मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् ॥ ३२८ अन्येषां चैवमादीनामद्यानामोदनस्य च । पक्कान्नानां च सर्वेषां तन्मूल्याद्विगुणो दमः ॥ ३२६ पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च । अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः ॥३३० परिपूतेषु धान्येषु शाकमूलफलेषु च ।

निरन्वये शतं दण्डः सान्वयेऽर्द्धशतं दमः ॥३३१ म्यात्माहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवत्स्तेयं ह्त्त्वापव्ययते च यत् ॥ ३३२ यस्त्वेतान्युपक्ऌमानि द्रव्याणि स्तेनयेन्नरः ।

[[१६१]]

तमाद्यं (तं शतं दण्डयेद्राजा यश्चाग्निं चोरयेद्ग हात् ॥ ३३३

येन येन यथाङ्गन स्तेनो नृषु विचेष्टते ।

[[1]]

तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥ ३३४ पिताञ्चार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ ३३५ कार्यापर्ण भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः । तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा ॥ ३३६ अष्टापाद्यं तु शूद्रस्य स्तेये भवाति किल्विषम् । पोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च ॥ ३३७ ब्राह्मणस्य चतुःपष्टिः पूर्ण वाऽपि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तदोपगुणविद्धि सः ॥३३८

[[११]]

[[१६२]]

मनुस्मृतिः ।

वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।

[ अष्टमों

तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ ३३६ योनि हस्तालिसेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ ३४० द्विजोऽध्वगः क्षीणवृत्तिविक्षु द्व

े च मूलके । आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ३४९ असंहितानां संदाता संदितानां च मोक्षकः । दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्विषम् ॥ ३४२ अतेन विधिना राजा कुर्वाणः स्तेननिप्रहम् । यशोऽस्मिन्प्राप्नुयालोके प्रेत्य चानुत्तमं सुखम् ॥३४३ ऐन्द्रं स्थानमभिप्रेसुर्यशश्चाक्षयमव्ययम् ।

नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥३४४ वाग्दुष्टात्तस्कराचैव दण्डेनैव च हिंसतः ।

साहस्य नरः कर्त्ता विज्ञेयः पापकृत्तमः ॥ ३४५ साहसे वर्तमानं तु यो मर्पयति पार्थिवः । स विनाशं व्रजत्याशु विद्वपंचाधिगच्छति ॥ ३४६ न मित्रकारणाद्राजा विपुलाद्वा धनागमात् । समुत्सृजेत् साहसिकान्सर्वभूतभयावहान् ॥३४७ शस्त्रं द्विजातिभिग्रह्यं धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विलवे कालकारिते ॥ ३४८ आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे । स्त्री विप्राभ्युपपत्तौ च धर्मेण न्न दुष्यति ॥ ३४६ध्यायः ]

राजधर्मदण्डविधानवर्णनम् ।

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन ॥ ३५० नाततायिवधं दोपो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ ३५९ परदाराभिमर्शषु प्रवृत्तान्नृन्महीपतिः । उद्वेजनकरैर्दण्डैश्रियित्वा प्रवासयेत् ॥ ३५२ तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः । येन मूलहरोsधर्मः सर्वनाशाय कल्पते ॥ ३५३ परस्य पत्न्या पुरुषः संभाषां योजयन्रहः । पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ॥३५४ यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् ।

न दोषं प्राप्नुयात्किञ्चिन्न हि तस्य व्यतिक्रमः ॥ ३५५ परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा ।

नदीनां वाऽपि संभेदे स संग्रहणमाप्नुयात् ॥ ३५६ उपकारक्रियाकेलिः स्पर्शो भूषणवाससाम् ।

सह खटवासनं चैव सवं संग्रहणं स्मृतम् ॥ ३५७ स्त्रियं स्परोददेशे यः स्पृष्टोवा मर्पयेत्तया । परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ॥३५८ अब्राह्मणः संग्रहणं प्राणान्तं दण्डमर्हति । चतुर्णामपि वर्णानां द्वारा रक्ष्यतमाः सदा ॥३५६ भिक्षुका वन्दिनश्चैव दीक्षिताः कारवस्तथा ।

संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ ३६०

[[१६३]]

[[१६४]]

मनुस्मृतिः ।

न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत । निषिद्धो भाषमाणस्तु सुवर्ण दण्डमर्हति ॥ ३६१ नैप चारणदारेषु विधिर्नात्मोपजीविषु । सज्जयन्ति हि ते नारीर्निगूढाञ्चारयन्ति च ॥३६२ किंचिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन् । प्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ ३६३ योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति । सकामां कृपयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥ ३६४ कन्यां भजन्तीमुत्कृष्टं न किंचिदपि दापयेत । जघन्यं सेवमानां तु संयतां वासयेद्गृहे ॥ ३६५ उत्तमां सेवमानस्तु जघन्यां वधमर्हति ।

[ अष्टमो

शुल्कं दद्यात्सेवमानः समामिच्छत्पिता यदि ॥ ३६६ अभिपद्य तु यः कन्यां कुर्याद्दर्पण मानवः । तस्याश कय अङ्गुल्यो दण्डं चार्हति पट्शनम् ॥ ३६७ सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ३६८ कन्यैव कन्यां या कुर्यात्तस्याः स्याद्विशतो दमः । शुल्कं च द्विगुणं दद्याच्छाश्वान्नुयाद्दश ॥ ३६६ या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति । अङ्गुल्योरेव वा छेद खरेणोद्रहनं तथा ॥ ३७० भर्तारं लक्ष्येद्या तु स्त्री ज्ञातिगुणदर्पिता । तां श्रभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥ ३७१

ऽध्यायः ]

राजधर्मदण्ड विधानवर्णनम् ।

पुमांसं दाहयेत्पापं शयने तप्त आयसे ।

अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत ॥ ३७२ संवत्सराभिशस्तस्य दुहस्य द्विगुणो दमः ।

व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ ३७३ शूद्रो गुप्तमगुप्तं वा जातं वर्णमावसन । अगुप्तमङ्गसर्वस्व गुप्तं सर्वेण हीयते ॥ ३७४ वैश्यः सर्वस्वदण्डः स्यात्संवत्सर निरोधतः ।

[[१६५]]

सहस्रं क्षत्रियोदण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ ३७५ ब्राह्मणीं यद्यगुप्तां तु गच्छतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम ॥३७६ उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ३७७ सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ ३७८ मौण्ड्य प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ ३७६ न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं बहिःकुर्यात्समग्रधनमतम् ॥ ३८० न ब्राह्मणबधाद्भूयानधर्मा विद्यते भुवि । तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥३८१ वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजन । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥ ३८२

[[१६६]]

मनुस्मृतिः ।

[ अष्टमो

सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् शूद्राया क्षत्रियविशोः साहस्रो वै भवेद्दमः ॥ ३८३ क्षत्रियायामगुप्तायां वैश्यं पञ्चशतं दमः । मूत्रेण मौयपृच्छंत्त क्षत्रियो दण्डमेव वा ॥३८४ अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो वजन । शतानि पञ्च दण्ड्यः म्यात्सहस्रं त्वन्त्यजस्त्रियम ॥३८५ यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक्। न साहसिको स राजा शक्रलोकभाक् ॥ ३८६ एतेषां निग्रहो राज्ञः पञ्चानां विपये स्वके । साम्राज्यकृत्मजात्येषु लोके चैव यशस्करः ॥ ३८७ ऋत्विजं यस्यजेद्याज्यो याज्यं चत्विक्त्यजेद्यदि । शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥ ३८८ न माता न पिता न स्त्री न पुत्ररत्यागमर्हति । त्यजन्नपतितानेत्राज्ञा दण्ड्यः शतानि पद् ॥ ३८६ आश्रमेप द्विजातीनां कार्ये विवदतां मिथः । न त्रियान्नृपो धमें चिकीर्षन्हितमात्मनः ॥ ३६० यथाहमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः । सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेन ॥ ३६९ प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । अविभोजयन्विप्रो दण्डमर्हति मापकम् ॥३६२ श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्व भोजयन् । तदन्न द्विगुणं दाप्यो हिरण्यं चैव माषकम् ॥ ३६३

ऽध्यायः ]

राजधमदण्डविधानवर्णनम् ।

अन्धो जडः पीठसप सप्तत्या स्थविरश्व यः । श्रोत्रियेषूपकुर्वश्च न दाप्याः केनचित्करम् ॥ ३६४ श्रोत्रियं व्याधितात्तौ च बालवृद्धावकिंचनम् । महाकुलीनमार्यं च राजा सम्पूजयेत्सदा ॥ ३६५ शाल्मलीफलके ऋक्षणं नेनिज्यान्नेजकः शनैः । न च वासांसि वासोभिर्निहरेन्न च वासयेत् ॥ ३६६ तन्तुवायो दशपलं दद्यादेकपलाधिकम ।

अतोन्यथा वर्तमानो द्वाप्यो द्वादशकं दमम ॥ ३६७ शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । कुर्युरर्घ यथापण्यं ततो विशं नृपो हरेत ॥ ३६८ राज्ञः प्रख्यात भाण्डानि प्रतिषिद्धानि यानि च । तानि निहरतो लोभात्सर्वहारं हरेन्नृपः ॥ ३६६ शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी ।

मियावादी च संख्याने दाप्येोऽष्टगुणमत्ययम ॥४०० आगमं निर्गमं स्थानं तथा वृद्धिक्षयाबभौ । विचार्य सवपण्याना कारयेत्क्रयविक्रयौ ॥४०१ पञ्चरात्रे पञ्चरात्रे पक्ष पक्षेऽथवा गते । कुर्वीत चैषां प्रत्यक्षमर्व संस्थापनं नृपः ॥ ४०२ तुला मानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् । पट्सु पट्सु च मासेषु पुनरेव परीक्षयेत् ॥४०३ पण यानं तरे दाप्यं पौरुषोऽर्धपणं तरे ।

पाढ़े पशुश्च योषित्र पदार्थ रिक्तकः पुमान् ॥ ४०४

[[१६७]]

। १६८

मनुस्मृतिः ।

[ अष्टमो

भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । रिक्तभाण्डानि यत्किंचित्पुमांसश्चापरिच्छदाः ॥४०५ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ ४०६ गर्भिणी तु द्विमासादिस्तथा प्रवजितो मुनिः । ब्राह्मणा लिङ्गिनश्चंव न दाप्यास्तारिकं तरे ॥४०७ यन्नावि किंचिद्दाशानां विशीयतापराधतः । तद्दाशैरेव दातव्यं समागम्य स्वतोंशतः ॥ ४०८ एष नौयायिनामुक्तो व्यवहारस्य निर्णयः । दाशापराधतस्तोये दैविके नास्ति निगहः ॥ ४०६ वाणिज्यंकारयेदृश्यं कुसीदं कृपिमेव च ।

पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥४१० क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्षितौ । विभृयादानृशंस्यन स्वानि कर्माणि कारयेत ॥ ४११ दास्यं तु कारसंलोभादब्राह्मणः संस्कृताद्विजान् । अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि पढ़ ॥४१२ शूद्रं तु कारयेद्दाम्यं क्रीतमक्रीतमेव वा । दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयम्भुवा ॥४१३ न स्वामिना निमोऽपि शूद्रो दास्याद्विमुच्यते । निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥४१४ ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्रिमौ । पैत्रिको दण्डदासश्च सप्तैते दासयोनयः ॥ ४१५

ऽध्यायः ]

राजधर्मदण्डविधानवर्णनम् ।

भार्या पुत्रश्च दासश्च त्रय एवाधना स्मृताः । यत्ते समधिगच्छन्ति यस्य ते तम्य तद्धनम् ॥४१६ विस्रब्धं ब्राह्मणः शूद्राद, व्योपादानमाचरेत् ।

[[१६६]]

न हि तस्यास्ति किंचित्स्वं भर्तृहायधनो हि सः ॥४१७ वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयतामिदं जगत् ॥ ४१८ अहन्यहन्यवेक्षत कर्मान्तान्वाहनानि च । आयव्ययों च नियतावाकरान्कोशमेव च ॥ ४१६ एवं सर्वानिमान्राजा व्यवहरान्समापयन । व्यपोह्य किल्विषं सर्व प्राप्नोति परमां गतिम् ॥४२०

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां अमोऽध्यायः ॥८

नवमोऽध्यायः ।

अत्रादौ - स्त्रीस्वातन्त्र्यमधर्मवर्णनम् ।

पुरुषस्य स्त्रियाश्चैव धर्म्य वर्त्मनि तिष्ठतोः । संयोगे विप्रयोगे च धर्मान्वक्ष्यामि शाश्वतान् ॥ १ अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥२

[[१७०]]

[ नवमो

मनुस्मृतिः ।

पिता रक्षति कौमारे भर्त्ता रक्षति यौवने । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ ३ कालेाता पिता वाच्यो वाच्यचानुपयन्पतिः । मृते भर्तरि पुत्रस्तु वाच्धो मातुररक्षिता ॥४ सूक्ष्मेभ्योऽपि प्रसङ्ग भ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः ॥५ इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भार्या भर्त्तारो दुर्बला अपि ॥६ स्वां प्रसूति चरित्रं च कुलमात्मानमेव च । स्वं च धर्म प्रयत्नेन जायां रक्षन्हि रक्षति ॥७ पतिर्भार्या संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्वि जायात्वं यदस्यां जायते पुनः ॥८ यादृशं भजते हि स्त्री सुतं सूते तथाविधम । तम्मात्प्रजाविशुद्धयर्थं स्त्रियं रक्षेत्प्रयत्नतः ॥ न कश्चिद्योषितः शक्तः प्रमा परिरक्षितुम् । एतैरुपाय योगस्तु शक्यास्ताः परिरक्षितुम् ॥१० अर्थस्य संप्रहे चैनां व्यये चैव नियोजयेत । शौवे धर्मेऽनपत्यां च पारिणाह्यस्य वक्षणे ॥११ अरक्षिता गृहे रुद्राः पुरुपैराप्तकारिभिः । आत्मानमात्मना यास्तु रक्षस्ताः सुरक्षिताः ॥१२ पानं दुर्जनसंसर्गः पत्या च विरहोsटनम् । स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि पट् ॥ १३

ऽध्यायः ]

स्त्रीरक्षाधर्मवर्णनम् ।

नेता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा रूपं वा पुमानित्येव भुञ्जते ॥१४ पोचल्याचलचित्ताच नःस्नेह्याच स्वभावतः । रक्षिता यतो भवता विकुर्वते ॥ १७५ एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् । परमं यन्त्रमातिष्ठेत्तुरुप रक्षणं प्रति ॥ १६ शय्यासनमलङ्कारं कामं क्रोत्रमनार्यताम् । द्रोग्ध्रभावं कुचर्या च स्त्रीभ्यो मतुरकल्पयत् ॥१७ नास्ति स्त्रीणां क्रिया मात्रैरिति धर्मे व्यवस्थितिः । निरिन्द्रिया धमन्याच स्त्रियोज्नृतमिति स्थितिः ॥१८ तथा च श्रुतयो वह्नयो निगीता निगमेष्वपि । स्वालक्षण्यपरीक्षार्थं तासां शृणत निष्कृतोः ॥१६ यन्मे माता प्रलुभे विचरन्त्यपतिव्रता । तन्मे रेतः पिता वृक्तामयम्यैतन्निदर्शनम् ॥२० ध्यायत्यनि यत्किञ्चित्पाणिग्राहस्य चेतसा । तस्यैप व्यभिचारस्य निह्नवः सम्यगुच्यते ॥ २१ यादृग्गुणन भत्र स्त्री संयुज्येत यथाविधि । नाहरगुणा सा भवति समुद्रणंव निम्रगा ॥२२ अक्षमाला वशिष्ठेन संयुक्ताऽधमयोनिजा । शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥२३ एताश्चान्याश्च लोकेऽस्मिन्नपकृष्णप्रसूतयः ।

उत्कर्ष योषितः प्राप्ताः स्वैः स्वैर्भत गुणैः शुभैः ॥२४

[[१७१]]

[[१७२]]

मनुस्मृतिः ।

एपोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा । प्रेोह च सुखोदर्कान्प्रजाधर्मान्निबोधत ॥ २५ प्रजनार्थ महाभागाः पूजा गृहदीप्तयः ।

[ नवमो

स्त्रियः श्रियश्च गेहेषु न विशेपोऽस्ति कश्चन ॥ २६ उत्पादनमपत्यम्य जातस्य परिपालनम ।

प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम ॥२७ अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च ह ॥२८ पतिं या नाभिचरति मनोवाग्देहसंयता ।

सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥ २६ व्यभिचारात्तु भत्तः स्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनि चाप्नोति पापरोगंश्च पीड्यते ॥ ३० पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः । विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥ ३१ भत्तु पुत्रं विजानन्ति श्रुतिद्वैधं तु भर्त्तरि । आहुत्पादकं केचिदपरे क्षेत्रिणं विदुः ॥ ३२ क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।

क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम् ॥३३ विशिष्टं कुत्रचिद्बीजं स्त्रीयोनिस्त्वेव कुत्रचित् । उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ ३४ बीजस्य चैव योन्याश्च बीजमुत्कृप्रमुच्यते । सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥३५ऽध्यायः ]

स्त्रीधर्मपालनवर्णनम् ।

यादृशं तूप्यते बीजं क्षेत्र कालोपपादिते । ताप्रोति तत्तस्मिन्वीजं स्वर्यञ्जितं गुणैः ॥३६ इयं भूमिहि भूतानां शाश्वती योनिरुच्यते । न च योनिगुणान्कांश्चिद्वीजं पुष्यति पुष्टिषु ॥३७ भूमाव येककेदारे कालोमानि कृपीवलैः । नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥३८ ब्रीहयः शालयो मुद्गास्तिला मापास्तथा यवाः । यथाबीजं प्ररोहन्ति लशुनानीक्षवस्ताथ ॥ ३६ अन्यदुनं जातमन्यदित्येतन्नोपपद्यते । उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति ॥ ४० तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना । आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ ४१ अत्र गाथा वायुगीताः कीत्तयन्ति पुराविदः यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ ४२ नश्यतीपुर्यथा विद्धः खे विद्धमनुविध्यतः । तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥४३ पृथोरपीमां पृथिवीं भार्या पूर्वविदो विदुः । स्थाणुच्छेदस्य केदारमाहुः शल्यवतो मृगम् ॥४४ एतावानेव पुरुषो यज्जायात्मा प्रजेति ह । विप्राः प्राहुस्तथा चैतयो भर्त्ता सा स्मृताङ्गना ॥४५ न निष्क्रयविसर्गाभ्यां भर्त्तार्भार्या विमुच्यते । एवं धर्मं विजानीमः प्राक्प्रजापतिनिर्मितम् ॥४६

[[१७३]]

[[१७४]]

मनुस्मृतिः ।

सकृदंशो निपतति सकृत्कन्या प्रदीयते ।

[ नवमो

सकृद्दाह ददानोति त्रीण्येतानि सतां सकृत् ॥४७ यथा गोवोदासीषु महीष्यजाविकासु च । नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ॥ ४८ येऽक्षेत्रिणां वीजवन्तः परक्षेत्रप्रवापिणः ।

ते वै मस्यस्य जातस्य न लभन्ते फलं कचित् ॥४६ यदन्यगोपु वृषभो वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा मोघं स्कन्दितमार्पभम् ॥५० तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।

कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम् ॥५१ फलं त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिगामर्थो वीजायोनिर्गरीयसी (बलीयसी) ॥५२ क्रियाभ्युपगमात्वेतद्बीजार्थं यत्प्रदीयते ।

तस्येह भागिनौ छौ बीजी क्षेत्रिक एव च ॥५३ ओघवाताहतं बीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तद्बीजं न वना लभते फलम् ॥५४ एप धर्मा गवाश्वस्य दास्युष्ट्राजाविकस्य च । विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥५५ एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् । अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥५६ भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा । यवीयमस्तु या भार्या स्तुपा ज्येष्ठस्य सा स्मृता ॥ ५७

ऽध्यायः ]

स्त्रीधर्मपालनवर्णनम् ।

ज्येष्ठो यवीयसो भार्या यवीयान्वाऽग्रजस्त्रियम् । पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ ५८ देवराद्वा सपिण्डाद्वा स्त्रिया सम्यनियुक्तया । प्रजेसिताधिगन्तव्या सन्तानस्य परिक्षये ॥ ५६ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथञ्चन ॥६० द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अनिर्वृत्तं नियोगार्थं पश्यन्तो धर्मतस्तयोः ॥ ६१ विधवायां नियोगार्थे निवृत्तं तु यथाविधि । गुरुवच्च स्नुषावच वर्तेयातां परस्परम् ॥६२ नियुक्तौ यो विधि हित्वा वर्तयतां तु कामतः । तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥६३ नान्यास्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन्हि नियुञ्जाना धर्म हन्युः सनातनम् ॥६४ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते कचित । न विवाहविधावुक्तं विधवावेदनं पुनः ॥६५ अयं द्विजैरविद्वद्भिः पशुधर्मो विगर्हितः । मनुष्याणामपि प्रोक्तो वेने ‘राज्यं प्रशासति ॥ ६६ स महीमखिलां भुञ्जत्राज पिंप्रवरः पुरा । वर्णानां सङ्करं चक्रे कामोपहतचेतनः ॥ ६७ ततः प्रभृति यो मोहात्प्रमीतरतिकां स्त्रियम । नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥ ६८

[[१७५]]

[[१७६]]

मनुस्मृतिः ।

[ नवमो

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥६६ यथाविध्यधिगम्यनां शुवस्त्रां शुचित्रताम् । मिथो भजेताप्रसवात्सकृत्सकृतावृतौ ॥७० न दत्वा कस्यचित्कन्यां पुनर्दद्याद्विचक्षणः । दत्वा पुनः प्रयच्छन्हि प्राप्नोति पुरुषानृतम् ॥७५ विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम । व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥७२ यस्तु दोषवतीं कन्यामनाख्यायोपपादयेत । तस्य तद्वितथं कुर्यात्कन्यादातुदुरात्मनः ॥७३ विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः । अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि ॥७४ विधाय प्रोषिते वृत्तिं जीवन्नियममास्थिता । प्रोपिते स्वविधायैव जीवेच्छिल्पैरगर्हितैः ॥७५ प्रोषितो धर्मकार्यार्थ प्रतीक्ष्योऽ नरः समाः । विद्यार्थी पद्मशोऽर्थ वा कामार्थं त्रींस्तु वत्सरान् ॥ ७६ संवत्सरं प्रतीक्षत द्विषाणां योपितं पतिः ।

ऊर्ध्वं संवत्सरात्वनां दायं हृत्वा न संवसेत् ॥७७ अतिक्रामेत्प्रमत्तं या मतं रोगार्त्तमेव वा । सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा ॥७८ उन्मनं पतितं क्लीबमबीजं पापरोगिणम् ।

न त्यागोऽस्ति द्विपन्त्याश्च न च दायापवर्तनम् ॥७६

ध्यायः ]

स्त्रीपुरुषयोर्धर्मवर्णनम् ।

[[१७७]]

मद्यपाऽसत्य ( असाधु) वृत्ता च प्रतिकूला च या भवेत् । व्याधिता वाऽविवेत्तत्र्या हिंस्रार्थनीच सर्वदा ॥८० बन्व्यामेऽधिवेद्या दशमे तु मृतप्रजा ।

एकादशे स्त्रीजननी सत्यप्रियवादिनी ॥८१ या रोगिणी स्थान हिता संपन्ना चैत्र शीलतः । साऽनुज्ञाप्याऽधिवेत्तव्या नावमान्या च कर्हिचित ॥८२ अधिविन्ना तु या नारी निर्गच्छेदुपिता गृहान । मा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ ॥८३ प्रतिपचे पिवेद्या तु मद्यमभ्युदयेष्वपि ।

प्रेक्षा समाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥८४ यदि स्वाश्चापश्चैव विन्देरन्योषितो द्विजाः । तासां वर्णक्रमेण स्याज्ज्येष्ठ्यं पूजा च वेश्म च ॥ ८५ भर्त शरीरशुश्रपां धर्मकार्य च नैत्यकम । स्वास्वं कुर्यात्सर्वेषां नास्वजातिः कथंचन ॥२६ यस्तु तत्कारयेन्मोहात्सजात्या स्थितयाज्ज्यया । यथा ब्राह्मणचाण्डालः पूर्वस्तथैव सः ॥ ८७ उत्कृप्रायाभिरूपाय वराय सदृशाय च । अप्राप्तमपि तां तस्मै कन्यां दद्याद्यथाविधि ॥८८ काममा मरणात्तिद्गृहे कन्यर्तुमत्यपि । न चैवैनां प्रयच्छंत्तु गुणहीनाय कर्हिचित् ॥८६ त्रीणि वर्षाण्युदीक्षेत कुमाय तुमती सती । ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ ६०

[[१२]]

[[१७८]]

मनुस्मृतिः ।

अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् ।

[ नवमां

नैनः दिवाप्नोति न च यं साऽविगच्छति ॥६१ अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा । मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ ६२ पित्रं न दद्याच्छुल्कं तु कन्यामृतुमतीं हरन् । स हि स्वाम्यादतिक्रामेतूनां प्रतिरोधनात् ॥६३ त्रिंशद्वर्षो द्वहेत्कन्यां हृद्य द्वादशवार्षिकीम् । त्र्यष्टवर्षो वर्षा वा धर्मे सीदति सत्वरः ॥ ६४ देवदत्तां पतिर्भार्यां विन्दते नेच्छयात्मनः । तां साध्वीं विभृयान्नित्यं देवानां प्रियमाचरन् ॥६५ प्रजनार्थं स्त्रियः सृाः सन्तानार्थं च मानवाः । तस्मात्साधारणो धर्मः श्रुतौ पल्ल्या सहोदितः ॥ ६ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्याऽनुमन्यते ॥ ६७ आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् । शुल्कं हि गृह्णन्कुरुते छन्नं दुहितृविक्रयम् ॥६८ एतत्तु न परे चक्रुर्नापरे जातु साधवः । यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥ ६६ नानुशुश्रूम जात्वेतत्पूर्वेष्वपि हि जन्मपु । शुल्कसंज्ञन मूल्येन छन्न दुहितृविक्रयम् ॥ १०० अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः ।

एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ १०१

ऽध्यायः ]

स्त्रोपयोधर्मवर्णनम् ।

तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ । यथा नातिचरतां तौ वियुक्तावितरेतरम् ॥१०२ एवं स्त्रीपुंसयोक्तो धर्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दाय (धर्म) भागं निबोधत ॥ १०३ उर्ध पितुश्च मातुश्च समेत्य भ्रातरः समम् । भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥१०४ ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । वास्तमुपजीवेयुर्यथैव पितरं तथा ॥ १०५ ज्येष्ठन जातमात्रेण पुत्री भवति मानवः । पितॄणामनृगश्च स तस्मात् सर्वमर्हति ॥ १०६ यस्मिन्नृणं सन्नयति येन चानन्त्यमश्नुते । स एव धर्मजः पुत्रः कामजानितरान्विदुः ॥ १०७ पितेव पालयेत्पुत्रान् ज्येष्ठो भ्रातृन्यवीयसः । पुत्रवच्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ १०८ ज्येष्ठः पूज्य तमो लोके ज्येष्ठः सद्भिरगर्हितः । ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ॥१०६ यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः । अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥ ११० एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया । पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक्क्रिया ॥ १११ ज्येger विंश उद्धारः सर्वद्रव्याश्च यरम् । ततोऽधं मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥ ११२

[[१७६]]

[[१८०]]

मनुस्मृतिः ।

[ नवमो

ज्येष्ठश्चैव कनिच संहरेतां यथोदितम् ।

येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेपां स्यान्मध्यमं धनम् ॥११३

सर्वेषां धनजातानामाददीताम्रयमग्रजः ।

यम सातिशयं किंचिद्दशतश्चाप्नुयादरम् ॥११४ उद्भागे न दशम्वस्ति संपन्नानां स्वकर्मसु । यत्किञ्चिदेव देयं तु ज्यायसे मानवर्धनम् ॥११४ एवं समुद्धतोद्वारे समानंशान्प्रकल्पयेत् । उद्धारेऽनुद्धते येषामियं स्यादंशकल्पना ॥११६ एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यधं ततोऽनुजः ! अंशमंशं यवीयांस इति धर्मों व्यवस्थितः ॥११७ स्वाभ्यः स्वाभ्यस्तु कन्याभ्यः प्रदद्यर्भ्रातरः पृथक् । स्वात्स्वा ईशाचतुर्भागं पतिता म्युरदित्सवः ॥ ११८ अजाविकं सैकशकं न जातु विपमं भजेन । अजादिकं तु विपमं ज्येष्ठत्यैव विधीयते ॥ ११६ यवीया ज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि ।

समत्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥१२०

उपसर्जनं प्रवानस्य धर्मो नोपपद्यते ।

पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत ॥१२४

पुत्रः कनिष्ठो ज्येष्ठायां कनिष्टायां च पूर्वजः ।

कथं तत्र विभागः स्यादिति चेत्संशयो भवन ॥१२२ एकं वृषभमुद्धारं संहरेत स पूर्वजः ।

ततोऽपरेऽ ज्येष्ठवृपास्तदृनानां स्वमातृतः ॥१२३

ऽध्यायः ]

सम्पत्तिश्राद्धावधिकारवर्णनम् ।

ज्येष्ठस्तु जातो ज्येष्ठायां हरेद्वृषभपोडशाः । ततः स्वमातृतः शेषा भजेरन्निति धारणा ॥१२४ सदृशस्त्रीषु जातानां पुत्राणामविशेषतः ।

[[१८१]]

न मातृतो ज्येष्यमस्ति जन्मतो ज्यष्ट्यमुच्यते ॥ १२५ जन्मन्येष्ठेन चाहानं सुब्रह्मण्यास्वपि स्मृतम् । यमयोश्चैव गर्भ जन्मतो ज्येष्ठता स्मृता ॥ १२६ अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम । यदपत्यं भवेदस्यां तन्मम स्यात्स्ववाकरम् ॥१२७ अनेन तु विधानेन पुरा चक्रेय पुत्रिकाः । विवृद्धयर्थं स्ववंशस्य स्वयं दक्ष प्रजापतिः ॥१२८

दश कश्यपाय त्रयोदश ।

सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥ १२६ यत्रैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरे ॥१३० मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः । दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ॥१३१ दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् ।

स एव दद्यादौ पिण्डौ पित्रे मातामाहाय च ॥ १३२ पौत्र दौहित्रयोलेकि न विशेषोऽस्ति धर्मतः । तयोर्हि मातापितरौ संभूतौ तस्य देहतः ॥ १३३ पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।

समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः ॥ १३४

[[१८२]]

मनुस्मृतिः ।

[ नवमो

अपुत्रायां मृतायां तु पुत्रिकायां कथंचन । धनं तत्पुत्रिकाभर्ता होतैवाविचारयन ॥ १३५ अकृता वा कृता वाऽपि यं विन्देत्सदृशात्तम । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्वनम् ॥ १३६ पुत्रेण लोकाञ्जजयति पौत्रणानन्त्यमश्नुते । अथ पुनस्य पौत्रेण ब्रध्नस्याप्नोति पिम् ॥ १३७ पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥१३८ पौत्र रोहित्रयोलोके विशेयो नोपपद्यते । दौहित्रोऽपि मुनं संतारयति पौत्रवत् ॥ १३६ मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः । द्वितीयंत पितस्तस्यास्तृतीयं तन्पितुः पितुः ॥१४८ उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः । स हव तद्रिस्थं संप्राप्तोऽप्यन्यगोत्रतः ॥ १४५ गोत्र थे जनयितुन हरेछत्रिमः कचित । गोत्ररस्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥। १४२ अनियुक्तासुतश्चैव पुत्रिण्यामश्च देवरात ।

उभौ तौ नार्हतो भागं जारजातककामजौ ॥१४३ नियुक्तायामपि पुमान्नायजातोऽविधानतः । नैवाईः पैतृकं रिक्थं पतिनोत्पादितो हि सः ॥ १४४ हरेत्तत्र नियुक्तायां जातः पुत्रो यथौरसः ।

क्षेत्रिकस्य तु तद्वीजं धर्मतः प्रसवश्व सः ॥१४५ध्यायः ]

पुत्रार्थं सम्पत्ति विभागवर्णनम् ।

धनं यो विभृयाद्भ्रातुर्नृतस्य स्त्रियमेव च । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥१४६ याऽनियुक्ताऽन्यतः पुत्रं देवराद्वाऽप्यवाप्नुयात् ।

तं कामजरिक्थीयं मिध्योत्पन्न प्रचक्षते ॥ १४७ एतद्विधानं विज्ञेयं विभागस्य कयोनिषु । बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥ १४८ ब्राह्मगस्यानुग चतस्रस्तु यदि स्त्रियः ।

तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ १४६ कीनाशो गोनृपो यानमलङ्कारश्च वेश्म च । विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ॥ १५० त्र्यंशं दायाद्धरेविप्रो द्वावंशौ क्षत्रियासुतः । वैश्याजः सार्वमेवांशमंशं शूद्रासुतो हरेत् ॥ १५५ सर्व वा रिस्थजातं तद्दशधा परिकल्प्य च । धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ॥१५२ चतुरोऽगान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः ।

वैश्या पुत्रो हरेद् व्यंशमंशं शूद्रासुतो हरेत् ॥ १५३

[[१८३]]

यद्यपि स्यात सत्पुत्रो (यद्यत्रो ऽप्यसत्पुत्रोऽपि वा भवेत् । नाविकं दशमादद्याच्छूद्रापुत्राय धर्मतः ॥ १५४ ब्राह्मगत्त्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥ १५५ समवर्णातु ये (वा) जाताः सर्वे पुत्रा द्विजन्मनाम । उद्धारं ज्यायसे दत्वा भजेरन्नितरे समम ॥१५६

[[१८४]]

मनुस्मृतिः ।

[ नवमो

शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते । तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥ १५७ पुत्रान्द्वादश यानाह नृणां स्वायम्भुवो मनुः । तेपां पड्बन्धुदायादाः षडदायादबान्धवा ॥१५८ औरसः क्षेत्रजश्चंत्र दत्त कृत्रिम एव च । गुडोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च पट् ॥१५६ कानीनश्च सहोदश्च क्रीतः पौनर्भवस्तथा । स्वयंस्त्तश्च शौद्रव पडदायादबान्धवाः ॥ १६० यादृशं फलमाप्नोति कुलवं सन्तरं जलम् । तादशं फलमाप्नोति कुपुत्र संतरतम ॥४६९ यय करिक्थिनों स्यातामौरक्षेत्रजौ सुतौ । यस्य यतैतृकं रिक्थं स तद्गृहीत नेतरः ॥१६२ एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थ प्रदद्यात्त प्रजीवनम् ॥ १६३ पष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्तकानात । औरसो विभजन्दायं पित्र्यं पंचममेव वा ॥१६४ और क्षेत्रजौ पुत्रौ पितृरिस्थस्य भागिनौ । दशापरे त क्रमशो गोत्ररिस्थांशभागिनः ॥ १६५

क्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धियम् । तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम् ॥ १६६ यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ १६७

ऽध्यायः ]

पुत्रशब्दस्य लक्षणवर्णनम् ।

माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज़यो दत्रिमः सुतः ॥ १६८ सदृशं तु प्रकुर्याद्यं गुणदोपविचक्षणम् ।

[[१८५]]

पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्व कृत्रिमः ॥ १६६ उत्त्पद्यते गृह यस्य ( यस्तु ) न च ज्ञायेत कस्य सः ।

म गृहे गृह उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥ १७० मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥ १७१ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीनं वदन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ १७२ या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती । बोढ़ः स गर्भा भवति सहोद इति चोच्यते ॥ १७३ क्रीणीयाद्यस्त्वपत्याथं मातापित्रोयमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ १७४ या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते ॥१७५ सा चेक्षतयोनिः स्याद्गतप्रत्यागताऽपि वा । पौनर्भवन भत्र सा पुनः संस्कारमहति ॥ १७६ मातापितृविहीनो यस्त्यक्तो वा म्यादकारणात । आत्मानमर्प (स्पर्श) येद्यत् स्वयं त्तस्तु स स्मृतः ॥ १७७ यं ब्राह्मणस्तु शद्रायां कामादुत्पादयेत्सुतम् ।

स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः ॥ १७८

[[१८६]]

मनुस्मृतिः ।

[ नवमो

दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् । सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥ १७६ क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् । पुत्र/तिनिधीनाहुः क्रियालोपान्मनीपिणः ॥१८० य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यवीजजाः यस्य ते बीजतो जातास्तम्य ते नेतरस्य तु ॥ १८५ भ्रातॄणामेकजातानामेकश्चे पुत्रवान्भवेत् । सर्वास्तां ग्तेन पुत्रेण पुत्रिणो मनुरब्रवोत ॥१८ सर्वासामेकपत्नीनामेकाचः पुत्रिगी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीमनुः ॥१८३ श्रेयसः श्रयमोज्लाभ पापीयान्रिस्थमईति । बहवश्चेत सदृशाः सर्वे रिक्थस्य भागिनः ॥ १८४ न भ्रातरो न पितर पुत्रा रिक्थहराः पितुः । पिता हरेन्पुत्रस्य रिक्थं भ्रातर एव च ॥ १८५ त्रयाणामुदकं कार्य त्रिप पिण्डः प्रवर्तते ।

}

चतुर्थः संप्रदायां पञ्चमो नोपपद्यते ॥१८६ अनन्तरः सपिण्डाद्यस्तस्य तम्य धनं भवेत । अन ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा ॥ १८७ सर्वेषामप्यभावे तु ब्राह्मगा स्थिभागिनः । चैविद्यः शुचयो दान्तास्तथा धर्मो न हीयते ॥ १८८ अहार्य ब्रह्मद्रव्यं राज्ञा नित्यमिति स्थितिः ।

इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ॥ १८६

ऽध्यायः ]

ऐश्वर्याधिकारी पुत्रवर्णनम

संस्थितस्यानपत्य य मगोत्रात्पुत्रमाहरेत् ।

तत्र यद्रिक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेत ॥ १६० हौ

तु यौ विवदेयातां द्वाभ्यां जातौ खिया धने । तयोर्यद्य य पित्र्यं स्यात्तत्स गृह्णीत नेतरः ॥ १६१ जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन्मातृकं रिक्थं भगिन्यच सनाभयः ॥ १६२ याम्तासां म्युर्दुहितरम्तासामपि यथाईतः । मातामह्या धनात्किञ्चित्प्रदेयं प्रीतिपूर्वकम् ॥ १६३ अध्यग्रः यध्यावाहनिकं दत्तञ्च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्त पविधं स्त्रीधनं स्मृतम् ॥ १६४ अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैत्र यत । पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥ १६५ ब्राह्मदेवार्षगान्धर्वप्राजापत्येषु यद्वसु । अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥ १६६ यत्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु । अप्रजायामतीतायां मातापित्रोस्तरिष्यते ॥ १६७ स्त्रियां तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत ॥१६८ न निहरिं स्त्रियः कुर्युः कुटुम्बाद्रमध्यगात् । स्वकादपि च वित्ताद्वि स्वस्य भर्तुरनाज्ञया ॥ १६६ पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥ २००

[[१८७]]

[[१८८]]

मनुस्मृतिः ।

[ नवमो

अनंशौ क्लीवपतितौ जात्यन्धवधिरौ तथा । उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥२०१ सर्वपामपि तुयं न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादनमत्यन्तं पतितो ददद्भवेत् ॥ २८२ यद्यर्थिता तु दारैः स्यात्लीवादीनां कथंचन । तेषामुतपन्नतन्तूनामपत्यं दायमर्हति ॥ २०३ यत्किञ्चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ २०४ अविद्यानां तु सर्वपामीहातश्चद्धनं भवेत ।

समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥। २०५ विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत । मैत्रमाहिकं चैव माधुपर्किकमेव च ॥ २०६

भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा ।

स निर्भाज्यः स्वकादंशात्किश्चिदत्तोपजीवनम् ॥२०७

अनुपन्नन्पितृद्रव्यं श्रमेण यदुपा ( जितम ) जयेत् । स्वयमीहितलव्यं तन्नाकामो दातुमर्हति ॥ २०८ पेतुकं तु पिता द्रव्यमनवा यदाप्नुयात । न तत्भजेत्साधमकामः स्वयमर्जितम् ॥२६ विभक्ता सह जीवन्तो विभजेरन्पुनर्यदि । समस्तत्र विभागः स्याज्यैष्ठ्यं तत्र न विद्यते ॥ २१० येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । प्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥२११

ऽध्यायः ]

ऐश्वर्यादिभोक्तभागवर्णनम्

[[१८६]]

सोदर्या विभजेरंस्तं समेत्य महिताः समम । भ्रातरो ये च संसृष्टा भगिन्यच सनाभयः ॥ २१२ यो ज्येष्ठो विनिकुर्वीत लोभाद्भ्रातॄन्यवीयमः । सोऽज्येष्ट म्यादभागश्च नियन्तव्यश्च राजभिः ॥२४३ सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् । न चादत्त्वा कनिष्टेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥२१४ भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह । न पुत्रभागं विषमं पिता दद्यात्कथंचन ॥ २१५ ऊर्ध्व विभागाज्जातस्तु पित्र्यमेव हरेद्धनम । संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ २५६

अनपत्यस्य पुत्रम्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥ २१७ ऋण धने च सर्वस्मिन्प्रविभक्ते यथाविधि । पश्चाद दृश्येत यत्किञ्चित्तत्सर्वं समतां नयेत् ॥२१८ वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥२१६ अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः । क्रमशः क्षेत्रजादीनां द्यूतधर्म निबोधत ॥ २२० द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत । राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥२२२ प्रकाशमेतत्ताकर्यं यह वनसमायौ ।

तयोर्नित्यं प्रतीघाते नृपतिर्यत्रवान्भवेत् ॥२२२

[[१६०]]

मनुस्मृतिः ।

अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ।

[ नवमो

प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥२२३ युतं समाह्वयं चैव यः कुर्यात्कारयेत वा । तान्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥ २२४ कितवान्कुशीलवान् रान्पापण्डस्थश्च मानवान् । विकर्मस्थान शौण्डिकांच क्षिप्रं निर्वासयेत्लुरात ॥ २२५ एते राष्ट्र वर्तमाना राज्ञः प्रच्छन्नतस्कराः । विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥२२६ द्यूतमेतत्पुराकल्पे वैरकरं महत् ।

तस्माद्यतं न सेवेत हायार्थमपि बुद्धिमान् ॥२२७ प्रच्छन्न वा प्रकाशं वा तन्निषेवेत यो नरः । तस्य दण्डविकल्पः स्याद्य नृपतेस्तथा ॥ २२८ क्षत्रविट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन । आनृण्यं कर्मगा गच्छेद्विप्रो दद्याच्छनैः शनैः ॥ २२६ स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम । शिफावि इलरज्ज्वाद्य विद्ध्यांनृपतिमम् ॥२३० ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् । धनोमगा पच्यमानान्तान्निस्त्रान्कारयेन्नृपः ॥ २३४ कूटशासनकर्तृश्व प्रकृतीनां च दूषकान् । स्त्रीबालवाह्मणघ्नांश्च हन्यादिसेविनस्तथा ॥ २३२ तीरितं चानुशिष्टं च यत्र क्वचन यद्भवेत् । कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ २३३

ऽध्यायः ]

अनेकदण्डवर्णनम ।

अमात्याः प्रावित्राको वा यत्कुर्युः कार्यमन्यथा । तत्स्वयं नृपतिः कुर्यात्तं सहस्रञ्च दण्डयेत् ॥२३४ ब्रह्मा च सुरापश्च स्तेयी च गुरुतल्पगः । एते सर्वे पृथाया महापातकिनो नराः ॥२३५ चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् ।

[[१६१]]

शारीरं धनसंयुक्तं दण्डं धयं प्रकल्पयेत् ॥ २३६ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वदं कार्यं ब्रह्मण्यशिराः पुमान् ॥२३७ असंभोज्या ह्यसंयाज्या असंपाठ्या (विगर्हिताः) विवाहिनः । चरेयुः पृथित्रों दोनाः सर्वधर्मबहिष्कृताः ॥ २३८ ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तत्र्याः कृतलक्षणाः । निर्दया निर्नमहकारात मनोरनुशासनम् ॥२३६ प्रायश्चित्तं तु कुर्वाणाः सर्वे (पूर्व) वर्णा यथोदितम् । नाङ्कया राज्ञा ललाटे स्युपियारसूत्तमसाहसम् ॥२४० आगस्सु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । बिवास्यो वा भवेद्राष्टात्तद्रव्यः सपरिच्छवः ॥२४१ इतरे कृतवन्तस्तु पापान्येतान्यकामतः । सर्ववहारमईति कामतस्तु प्रवासनम् ॥ २४० नाददीत नृपः साधुमहापातकिनो धनम् । आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ॥ २४३ अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रुतवृत्तोपपन्ने वा ब्राह्मगे प्रतिपादयेत् ॥ २४४

[[१६२]]

मनुस्मृतिः ।

[ नवमो

ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥२४५ यत्र वर्जयते राजा पापकृद्भयो धनागमम । तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥२४६ निष्पद्यन्ते च शम्यानि यथोमानि विशां पृथक् । बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥२४७ ब्राह्मणान्बाधमानं तु कामादवरवर्णजम

हन्या चित्रवथोपाय रुट्टेजनकरें नृपः ॥२४८ यावानवध्यस्य बधे तावान्वध्यस्य मोक्षणं । अधर्मा नृपतेो धर्मस्तु विनियच्छतः ॥२४६ उदितोऽयं विस्तरशो मिथा विवदमानयोः । अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ २५० एवं धर्म्याणि कार्याणि सम्यक्कुर्वन्महीपतिः । देशानलब्धांलिपसेत लब्धांश्च परिपालयेत ॥ २५४ सम्यनिविदेशम्त कृतदुर्गश्च शाश्वतः । कण्टकोद्धरणे नित्यमातिष्ठेद्यन्नमुत्तमम् ॥ २ रक्षणादार्यवृत्तानां कण्टकानां च शोधनात । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ २५३ अशासंस्तस्करान्यस्तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच परिहीयते ॥ २५४ निर्भयं तु भवेद्यस्य राष्ट्र बाहुबलाश्रितम् । तस्य तद्वर्धते नित्यं सिच्यमान इव द्रमः ॥ २५५ऽध्यायः ]

राजधर्मदण्डवर्णनम् ।

द्विविधांस्तस्करान्विद्यात्परद्रव्यापहारकान् । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥ २५६ प्रकाशवंचकास्तेषां नानापण्योपजीविनः । प्रच्छन्नव चकास्ते ये स्तेनाटविकादयः ॥ २५७ उत्कोनकाश्चोपधिका वञ्चकाः कितवास्तथा । मङ्गलादेशवृत्ताश्च भद्रप्रेक्षणिकैः सह ॥ २५८ असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः । शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥ २५६ एवमाद्यान्विजानीयात्प्रकाशांल्लोककण्टकान् । निगूढचारिणश्चान्याननायनार्यलिङ्गिनः ॥ २६० तान्विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः । चारश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत्न ॥ २६१ तेषां दोषानभिख्याप्य स्वं स्वे कर्मणि तत्त्वतः । कुर्वीत शासनं राजा सम्यक्सारापराधतः ॥२६२ न हि दण्डादृते शक्यः कर्त्ती पापविनिग्रहः । स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥२६३ सभा प्रपापूपशालावेशमद्यान्नविक्रयाः । चतुष्पथाश्वैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ २६४ जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च । शून्यानि चाप्यगाराणि वनान्युपवनानि च ॥ २६५ एवं विधान्नृपो देशान्गुल्मः स्थावरजङ्गमैः । तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ॥ २६६

[[१३]]

[[१६३]]

[[१६४]]

मनुस्मृतिः ।

तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः ।

[ नवमो

विद्यादुत्सादयेचैव निपुणैः पूर्वतस्करैः ॥ २६७ भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः । शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ॥ २६८ ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये । तान्प्रसह्य नृपो हन्यात्स मित्र ज्ञातिबान्धवान् ॥२६६ न होढन विना चौरं घातयेद्धार्मिको नृपः । सहोढं सोपकरणं घातयेदविचारयन् ॥ २७० प्रामेष्वपि च ये केचिचौराणां भक्तदायकाः । भाण्डावकाशदाश्चैव सर्वास्तानपि घातयेत् ॥ २७१ राष्ट्रपु रक्षाधिकृतान्सामन्तांश्चैव चोदितान् । अभ्याघातेषु मध्यस्थान् शिष्याञ्चौरानिव द्रुतम् ॥ २७२ यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः । दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम ॥२७३ ग्रामघाते हिताभङ्ग पथि मोषाभिदर्शने ।

शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥ २७४

राज्ञः कोशापहत्तश्च प्रातिकूल्येष्वस्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ॥२७५

सन्धि भित्वा तु ये चौथं रात्रौ कुर्वन्ति तस्कराः । तेषां हित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ २७६ अङ्गुलीन्थिभेदस्य इदयेत्प्रथमे हे ।

द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥ २७७

ऽध्यायः ]

राजधर्मदण्डवर्णनम् ।

अग्निदान्भक्तांश्चैव तथा शस्त्रावकाशदान् । संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः ॥ २७८ तडागभेदकं हन्यादप्सु शुद्धवधेन वा । यद्वाऽपि प्रतिसंस्कुर्याद्दाप्यस्तूत्तमसाहसम ॥ २७६ कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहतुश्च हन्यादेवाविचारयन् ॥२८० यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत ।

आगमं वाप्यपां भिद्यात्स दाप्य पूर्वसाहसम् ॥२८१ समुत्सृजेद्राजमार्ग यस्त्वमेध्यमनापदि ।

सौ कार्पापिणौ दद्यादमेध्यं चाशु शोधयेत् ॥ २८२ आपद्गतोऽथवा वृद्धा गर्भिणी बाल एव वा । परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ॥२८३ चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ २८४ संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः ।

प्रतिकुर्याच्च तत्सर्व पञ्च दद्याच्छतानि च ॥ २८५ अदूषितानां द्रयाणां दूषणे भेदने तथा । मणीनापवेधे च दण्डः प्रथमसाहसः ॥२८६ समैर्हि विषमं यस्तु चरेद्वै गृल्यतोऽपि वा । समाप्नुयाद्दमं पूर्व नरो मध्यममेव वा ॥ २८७ बन्धनानि च सर्वाणि राजमार्गे निवेशयेत । दुःखिता यत्र दृश्येरन्विकृताः पापकारिणः ॥ २८८

[[१६५]]

[[१६६]]

मनुस्मृतिः ।

[ नवमो

प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । द्वाराणां चैव भक्तारं क्षिप्रमेव प्रवासयेत् ॥२८६ अभिचारेषु सर्वेषु कर्त्तव्यो द्विशतो दमः । मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च ॥ २६० अबीजविक्रयी चैव बीजोत्कटा तथैव च । मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम ॥ २६४ सर्वकण्टकपापिष्ठ हेमकारं तु पार्थिवः ।

प्रवर्त्तमानमन्याये छंदये (खण्डशः) लवशः क्षुरेः ॥२६२ सीताद्रव्यापहरणं शस्त्राणामौषधस्य च ।

कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ २६३ स्याम्यमात्यो पुरं राष्ट्र कोशदण्डौ सुहत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्ग राज्यमुच्यते ॥ २६४ सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्व पूनं गुरुतरं जानीयाद्वयसनं महत् ॥ २६५ सप्ताङ्गस्येह राज्यस्य विव्यस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते ॥ २६६ तेषु तेषु तु कृत्येषु तत्तदङ्ग विशिष्यते । येन यत्साध्यते कार्यं तत्तस्मिन् श्रेष्ठमुच्यते ॥ २६७ चारेोत्साहयोगेन क्रिययैव च कर्मणाम् ।

स्वशक्ति परशक्तिं च नित्यं विद्या (न्महीपतिः) त्परात्मनोः ॥ २६८

पीडनानि च सर्वाणि व्यसनानि तथैव च ।

आरभेत ततः कार्यं संचिन्त्य गुरुलाघवम् ॥२६६

ऽध्यायः ]

राज्ञः धर्मपालनवर्णनम् ।

आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुषं श्रीनिषेवते ॥३०० कृतं त्रेतायुगं चैव द्वापरं कलिरेव च ।

राज्ञो बृत्तानि सर्वाणि राजा हि युगमुच्यते ॥ ३०१ कलिः प्रभुप्रो भवति स जाग्रद्वापरं युगम् । कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥ ३०२ इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । चन्द्रस्याग्नेः पृथिव्याच तेजोवृत्तं नृपश्चरेत ॥३०३ वार्षिकांश्चतुरो मामान्यथेन्द्रोऽभिप्रवर्षति । तथाभिवर्षेत्त्रं राष्ट्र कामेरिन्द्रव्रतं चरन् ॥३०४ अौ मासान्यथादित्यस्तोयं हरति रश्मिभिः । तथा हरेत्करं राष्ट्रान्नित्यमर्कत्रतं हि तत् ॥ ३०५ प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥३०६ यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्या प्रजास्तद्धि यमव्रतम् ॥३०७ वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीयाद्वतमेतद्धि वारुणम् ॥३०८ परिपूर्ण यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन्स चान्द्रव्रतिको नृपः ॥ ३०६ प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥३१०

[[१६७]]

[[१६८]]

मनुस्मृतिः ।

[ नवमो

यथा सर्वाणि भूतानि धरा धारयते समम् ।

तथा सर्वाणि भूतानि विभ्रतः पार्थिवं व्रतम् ॥ ३११ एतैरुपायैरन्यैश्व युक्तो नित्यमतन्द्रितः ।

स्तेनात्राजा निगृह्णीयात्स्वराष्ट्र परएव च ॥ ३१२ पराम यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् ।

ते ह्यनं कुपिता हन्युः सद्यः सबलवाहनम् ॥३१३ यः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिः ।

क्षयी चाप्यायितः सोमः को न नश्येत्प्रोप्य तान् ॥३१४ लोकानन्यान्मृजेयुर्ये लोकपाल कोपिताः । देवान्कुर्युरदेवांश्च कः क्षिण्वंस्तान्समृध्नुयात् ॥ ३१५ यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा । ब्रह्म चैत्र धनं येषां को हिंस्यात्ताञ्जिजीविषुः ॥३१६ अविद्वांश्चैव विद्वांश्च ब्राह्मणो देवतं महत् । प्रणीतञ्चाप्रणीतच यथाग्निर्देवतं महत ॥ ३१७ श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ॥ ३१८ एवं यद्यप्यनिष्टेषु वर्त्तन्ते सर्वकर्मसु ।

सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तन ॥ ३१६ क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान्प्रति सर्वशः ।

ब्रह्मव सन्नियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥ ३२० अद्धयोऽभिर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।

तेषां सर्वत्रगं तेजः स्वासु योनिषु साम्यति ॥ ३२१

ऽध्यायः ]

वर्णानां कर्मविधिवर्णनम् ।

नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्धते 1

ब्रह्म क्षत्रं च संयुक्तमिह चामुत्र वर्धते ॥ ३२२ दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् ।

[[१६६]]

पुत्रे राज्यं समा (साद्य) सृज्य कुर्वीत प्रायणं रणे ॥ ३२३ एवं चरन्सा युक्तो राजधर्मेषु पार्थिवः ।

हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत् ॥३२४ एपोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः । इमं कर्मविधिं विद्यात्क्रमशो वैश्यशूद्रयोः ॥ ३२५ वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वार्तायां नित्ययुक्तः स्यात्पशूनां चैत्र रक्षणे ॥ ३२६ प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ ३२७ न च वैश्यस्य कामः स्यान्न रक्षेयं पशुनिति । वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥ ३२८ मणिमुकाप्रवालानां लोहानां तांतबत्य च । गन्धानां च रसानां च विद्यादर्घबलाबलम् ॥ ३२६ बीजानामुतिविश्व स्यात् क्षेत्र दोषगुणस्य च । मानयोगं च जानीयात्तुलायोगांश्च सर्वशः ॥ ३३० सारासारं च भाण्डानां देशानां च गुणागुणान् । लाभालाभं च पण्यानां पशनां परिवर्धनम् ॥३३१ भृत्यानां च भृर्ति विद्याद्भाषाश्च विविधा नृणाम् । द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ॥ ३३२

[[२००]]

मनुस्मृतिः ।

धर्मेण च द्रव्यवृद्धावातिष्ठेद्यत्नमुत्तमम् । दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः ॥ ३३३ विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम । शुश्रूषैव तु शूद्रस्य धर्मो नैःश्रेयसः परम् ॥ ३३४ शुचिरुत्कृष्टशुश्रूपुर्मृ दुवागनहंकृतः ।

ब्राह्मणापाश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥३३५ एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः । आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ॥ ३३६

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां

नवमोऽयायः ॥ ॥

-*-888-

[ दशमो

दशमोऽध्यायः ।

अथादौ - वर्णानां भेदान्तरविवेकवर्णनम् ।

अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः । प्रब्रूयाद्वाह्मणस्त्वेषां नेतराविति निश्चयः ॥ १ सर्वेषां ब्राह्मणो विद्यावृत्त्युपायान्यथाविधि । प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥२

ऽध्यायः ।

वर्णभेदान्तरेण त्वनेकवर्ण-वर्णनम् । २०१

वैशेष्यात्प्रकृतिश्रेष्ठ्यान्नियमस्य च धारणात् ।

संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥ ३

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा

द्विजातयः । चतुर्थ एकजातिस्तु शुद्रो नास्ति तु पंचमः ॥४ सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते ॥ ५ स्त्रीवनन्तरजातासु द्विजैरुत्पादितान्सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥६ अनन्तरासु जातानां विधिरेष सनातनः । दूधकान्तरासु जातानां धन्यं विद्यादिमं विधिम् ॥७ ब्राह्मणाद्वैश्यकन्यायामंत्रष्ठो नाम जायते ।

निषादः शूद्रकन्यायां यः पारशव उच्यते ॥८ क्षत्त्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् । क्षत्त्रशूद्रवपुजं तु रुम्रो नाम प्रजायते ॥ विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः ॥ १० क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदहौ राजविप्राङ्गनासुतौ ॥११ शद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ॥ १२ एकान्तरे त्वानुलोम्यादंबष्ठोमो यथास्मृतौ । क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि ॥१३

[[२०२]]

मनुस्मृतिः ।

[ दशमो

पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते ॥१४ ब्राह्मणादुग्रकन्यायामावृतो नाम जायते । आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः ॥ १५ आयोगवश्च क्षत्ता च चण्डालश्वाघमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥१६ वैश्यान्मागधवैदेही अत्त्रियात्सूत एव तु । प्रतीपमेते जायन्ते परेऽव्यपसदास्त्रयः ॥ १७ जातो निपादाच्छूद्रायां जात्या भवति पुक्कसः । शूद्राज्जातो निषायां तु स वै कुक्कुटकः स्मृतः ॥ १८ क्षत्तुर्जातस्तथोप्रायां श्रपाक इति कीर्त्यते । वैदेहकेन स्वम्बष्ठयामुत्पन्नो वेण उच्यते ॥ १६ द्विजातयः सवर्णासु जतयन्त्यत्रतांस्तु यान् । तान्मावित्री परिभ्रान्त्रात्यानिति विनिर्दिशेत ॥२० ब्रात्यात्तु जायते विप्रालापात्मा भृज्जकण्टकः । आवन्त्यवादवानौ च पुष्पधः शंख एव च ॥२१ झड़ो मल्ल राजन्याद्वा त्या लिच्छिविरेव च । नटव करणश्चैव खतो द्रविड एव च ॥२२ वैश्यात्तु जायते ब्रात्यात्त्वाचार्य एव च । कारुषञ्च विजन्मा च मैत्रः स्वास्वत एव च ॥ २३ व्यभिचारेण वर्णानामवेद्यावेदनेन च ।

स्वकर्मणां च त्यागेन जायन्ते वर्णसङ्कराः ॥ २४Sध्यायः ]

वर्णभेदान्तरेण त्वनेकवर्ण-वर्णनम् ।

सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः ॥ २५ सुतो वैदेहकश्चैव चण्डालश्च नराधमः । मगधः क्षत्तृजातिश्च तथाऽयोगव एव च ॥ २६ एते षट्सदृशान्वर्णाञ्जनयन्ति स्वयोनिषु । मातृजात्याः प्रसूयन्ते प्रवरासु च योनिषु ॥२७ यथा त्रयाणां वर्णानां द्वयोरात्माऽस्य जायते । आनन्तर्यात्स्त्रयोन्यां तु तथा वाह्यध्यपि क्रमः ॥२८ ते चापि बाह्यान्सुबहु स्तनोऽप्यधिकदूषितान । परस्परस्य दारेषु जनयन्ति विगर्हितान ॥२६ यथैव शूद्रो ब्राह्मण्यां वाह्यं जन्तुं प्रसूयते । तथा वाह्यतरं बाह्यचातुर्वण्य प्रसूयते ॥३० प्रतिकूलं वर्त्तमाना वाह्या वाह्यतरान्पुनः । हीना हीनान्प्रसूयन्ते वर्णन्दशे तु ॥३१ प्रसाधनोपचारज्ञमहासं दास्यजीवनम् । सैरन्ध्र वागुरावृत्तिं सूते दस्युरयोगवे ॥३२ मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते । नृन्प्रशंसत्यजस्त्रं यो घण्टाता डोऽरुणोदये ॥ ३३ निषादो मार्गवं सूते दासं नौकर्मजीविनम्। कैवर्त्तमिति यं प्राहुरार्यावर्त निवासिनः ॥३४ मृतवस्त्रभृत्सु नारीषु गर्हितान्नाशनासु च । भवन्त्यायोवीष्वेते जातिहीनाः पृथक्त्रयः ॥ ३५

[[२०३]]

[[२०४]]

मनुस्मृतिः ।

कारावरो निषादात्तु चर्मकारं प्रसूयते । वैदेहिकादन्धमेदौ वहिग्रमप्रतिश्रयौ ॥ ३६ चाण्डालात्पाण्डुसोपा कस्त्वक्सारव्यवहारवान् । आहिण्डिको निषादेन वैदेह्यामेव जायते ॥३७ चाण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । पुल्कस्यां जायते पापः सदा सज्जनगर्हितः ॥ ३८ निषादस्त्री तु चण्डालात्पुत्रमन्त्यावसायिनम् । श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥३६ सङ्करे जातयस्वेताः पितृमातृप्रदर्शितः ।

[ दशमो

प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥४० सजातिजानन्तरजाः षट्सुता द्विजधर्मिणः ।

शूद्राणां तु सवर्माणः सर्वेऽपध्वंसजाः स्मृताः ॥४१ तपोवीजप्रभावैस्तु ते गच्छन्ति युगे युगे ।

उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः ॥ ४२ शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः ।

वृषलत्वं गता लोके ब्राह्मणा (तिक्रमेण) दर्शनेन च ॥४३

पुण्ड्रकाचोड़द्रविडाः काम्बोजा यवनाः शकाः ।

पारदापह्नवाचीनाः किराता दरदाः खशाः ॥४४ मुखबाहूरुपज्जानां या लोके जातयो वहिः । म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥४५ ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः । ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ॥४६

ऽध्यायः ]

अनेकवर्णवर्णनम ।

सूतानामश्वसारथ्यमम्वष्ठानां चिकित्सिनम । वैदेहकाना स्त्रीकार्य मागधानां वणिक्पथः ॥ ४७ मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च । मेदान्ध्रचञ्चमद्गृनामारण्यपशुहिंसनम् ॥४८ क्षत्त्रुमपुकसानां तु विलौको वबन्धनम । धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥४६ चैत्यद्रुमश्मशानेषु शैलेपूपवनेषु च ।

वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥५० चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः । अपपात्राश्च कर्तव्या धनमेषां श्रगर्दभम् ॥५१ वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । काष्र्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥ ५२ न तैः समयमन्विच्छेत्पुरुषो धर्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ ५३ अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्त प्रामेषु नगरेषु च ॥५४ दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः । अबान्धवं शवं चैव निईरेयुरिति स्थितिः ॥ ५५ बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । बध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥५६ वर्णापेतमविज्ञातं नरं कलुषयोनिजम् ।

आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत ॥५७

[[२०५]]

[[२०६]]

मनुस्मृतिः ।

[ दशमो

अनार्यता निष्ठुरता करता निष्क्रियात्मता । पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥५८ पित्र्यं वा भजते शीलं मातुभियमेव वा । न कथञ्चन दुर्योनिः प्रकृतिं स्त्रां नियच्छति ॥५६ कुले मुख्येऽपि जातस्य यस्य स्यायोनिसङ्करः । संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥६० यत्र ते परिध्वंसाज्जायन्ते वर्णदृपकाः ।

राष्ट्रीयः सह तद्राष्ट्र क्षिप्रमेव विनश्यति ॥ ६१ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।

बीवाला (भ्यव )भ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥६२ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एतं सामासिकं धर्मं चातुर्वर्ण्यऽब्रवीन्मनुः ॥६३ शूद्रायां ब्राह्मणाज्जातः श्रयसा चेत्प्रजायते ।

अश्रेयान श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात् ॥६४

शूद्रो ब्राह्मणतामेति ब्राह्मणश्चेति शूद्रताम् ।

अस्त्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च ॥ ६५

अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छ्रया । ब्राह्मण्यामप्यनार्यात्तु श्रयस्त्वं वेति (कस्य) चेद्भवेत् ॥६६ जातो नार्यामनार्यायामार्यादार्यो भवेद्गुणैः । जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ॥६७ तावुभावप्यसंस्कार्याविति धर्मे व्यवस्थितः । वैगुण्याज्जन्मतः पूर्व उत्तरः प्रतिलोमतः ॥६८

ऽध्यायः ]

चतुर्वर्णानां वृत्तिवर्णनम् ।

सुवीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा ।

तथाऽयज्जात आर्यायां सर्व संस्कारमर्हति ॥६६

बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः ।

बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥७० अक्षेत्र बीजमुत्सृष्टमन्तरैव विनश्यति ।

अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥७१ यम्माद्वीजप्रभावेण तिर्यजा ऋषयोऽभवन् ।

[[२०७]]

पूजिताश्च प्रशताश्च तस्माद्वीजं ( विशिष्यते) प्रशस्यते ॥७२ अनार्यमार्यकर्माणमायं चानार्य कर्मिणम् । सम्प्रवार्याब्रवीद्धाता न सनौ नासमाविति ॥ ७३ ब्राह्मगा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः । ते सम्यगुपजीवेयुः षट्कर्माणि यथाक्रमम् ॥७४

अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिप्रहश्चैव पट्कर्माण्यग्रजन्मनः ॥ ७५ षण्णां तु कर्मणामस्य त्रोणि कर्माणि जीविका । याजनाध्यापने चंब विशुद्धाच्च प्रतिग्रहः ॥७६ यो धर्मा निवर्तन्ते ब्राह्मणात्क्षस्त्रियं प्रति । अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ॥७७ वैश्यं प्रति तथैवैते निवर्तरन्निति स्थितिः । न तौ प्रति हितान्यमन्मिनुराह प्रजापतिः ॥७८ शस्त्रास्त्रभृत्वं क्षत्रस्य वणिम्पशुकृषिर्विशः । आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः ॥७६

[[२०८]]

मनुस्मृतिः ।

[ दशमो

वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । वार्तामैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥८० अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥८१ उभाभ्यामप्यजीवंस्तु कथं स्यादिति चंद्भवेत् । कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ॥८२ वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा । हिंसाप्रायां पराधीनां कृषि यत्नेन वर्जयेत् ॥८३ कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिता । भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥८४ इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणम् । विट्पण्यमुद्ध, तोद्धारं विक्रेयं वित्तवर्धनम् ॥८५ सर्वान् रसानपोहेत कृतान्नं च तिलैः सह । अश्मनो लवणं चैव पशवो ये च मानुषाः ॥८६ सर्वं च तान्तवं रक्तं शाणओमाविकानि च । अपि चेल्युररक्तानि फलमूले तथौपधीः ॥ ८७ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः । क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥८८ आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च । मद्यं नीलीं च लाक्षां च सर्वचैकशफांस्तथा ॥८६ काममुत्पाद्य कृष्यां तु स्वयमेव कृषीबलः । विक्रीणीत तिलान् शुद्धान्धर्मार्थमचिरस्थितान् ॥६०

ऽध्यायः ]

वृत्तिजीविकवर्णनम् ।

भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ।

कृमिभूत श्रविष्ठायां पितृभिः सह मज्जति ॥ ६१ सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः श्रीरविक्रयात् ॥ इतरेषां तु पण्यानां विक्रयादिह कामतः ।

ब्राह्मण सप्तरात्रेण वैश्यभावं नियच्छति ॥ ६३

रसा रसैर्निमातत्र्या न वे लवणं रसैः ।

[[२०६]]

कृतान्न चाकृतान्नेन ( कृतान्नेन) तिला धान्येन तत्समाः ॥६४ जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः ।

न त्वे ज्यायसीं वृत्तिमभिमन्येत कर्हिचित् ॥६५ यो लोभादधमो जात्या जीवदुत्कृष्टकर्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥६६ वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । परधर्मेण जीवन्हि सद्यः पतति जातितः ॥ ६७ वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्याऽपि वर्तयेत् । अनाचरन्नकार्याणि निवर्तत च शक्तिमान् ॥१८ अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तु द्विजन्मनाम् । पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः ॥६ यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०० वैश्यवृत्तिमनातिष्ठन्त्राह्मणः स्त्रे पथि स्थितः । अवृत्तिकर्षितः सोदन्निमं धर्म समाचरेत् ॥१०१

[[१४]]

[[२१०]]

मनुस्मृतिः ।

[ दशमं

सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः । पवित्रं दुष्यतीत्येतद्वर्मतो नोपपद्यते ॥१०२ नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिप्रहात् । दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ १०३ जीवितात्ययमापन्नो योऽन्नमति यत (तत ) स्ततः । आकाशमिव पङ्कन न स पापेन लिप्यते ॥ १०४ अजीगर्तः सुतं हन्तुमुपासर्पदुभुक्षितः ।

न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥ १०५ श्रमांस मिच्छन्नार्त्ताऽत्तुं धर्माधर्मविचक्षणः ।

प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥१०६ भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ।

बह्वीर्गाः प्रतिजग्राह वृधोस्तणो महातपाः ॥ १०७ क्षुधार्त्तश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम् । चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥१०८ प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि ।

प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ १०६ याजनाध्यापने नित्यं क्रयेते संस्कृतात्मनाम् । प्रतिग्रहस्तु क्रियते शूद्रादयन्त्यजन्मनः ॥ ११० जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १११ शिलोमप्याददीत विप्रोऽजीवन्यतस्ततः ।

प्रतिमहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥ ११२

ऽध्यायः ]

वृत्तिजीविकवर्णनम् ।

सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः । याच्यः स्यात्स्नातकैर्विप्रेरदित्संस्यागमर्हति ॥११३ अकृतं च कृतात्क्षेत्राद्वौरजाविकमेव च । हिरण्यं धान्यमन्न च पूर्वं पूर्वमदोपवत् ॥११४ सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ११५ विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिर्भेक्षं कुसीदं च दश जीवनहेतवः ॥ ११६ ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् । कामं तु खलु धर्मार्थं दद्यात्पापीयसेऽल्पिकाम् ॥११७ चतुर्थमाददानोऽपि क्षत्रियो भागमापदि । प्रजा रक्षन्परं शक्त्या किल्विषात्प्रतिमुच्यते ॥ ११८ स्वर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः । शस्त्रेण वैश्याद्रक्षत्वा धर्म्यमाहारयेद्र लिम् ॥११६ धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् । कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥ १२० शूद्रस्तु वृत्तिमाकाङ्क्षन्क्षत्त्रमाराधयेदिति ।

धनिनं वाऽप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ १२१ स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः ।

जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥१२२

विप्रसेवैव शूद्रस्य विशिएं कर्म कीर्त्यते ।

यदतोऽन्यद्धि कुरुते तद्भवत्यस्य निष्फलम् ॥ १२३

[[२११]]

[[२१२]]

मनुस्मृतिः ।

प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः ।

दशमो

शक्ति चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ १२४ उच्छ्रिमन्न दातव्यं जीर्णानि वसनानि च । पुलाकाश्चैव धान्यानां जोर्णाचंव परिच्छदाः ॥१२५ न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति । नास्याधिकारो धर्मोऽस्ति न धर्मात्प्रतिषेधनम् ॥ १२६ धर्मेप्सवस्त धर्मज्ञाः सतां वृत्त (धर्म) मनुष्ठिताः । मन्त्रव (जं) ज्यं न दुष्यन्ति प्रशंसां प्रानुवन्ति च ॥ १२७ यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः ।

तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः ॥१२८ शक्तंनापि हि शूद्रेण न कार्यो धनसंचयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ १२६ एते चतुर्णा वर्णानामापद्धर्माः प्रकीर्तिताः । यान्तम्यगनुतिष्ठन्तो व्रजन्ति परमां गतिम् ॥ १३० एष धर्मविधिः कृत्स्नश्वातुर्वर्ण्यस्य कीर्तितः । अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥१३१

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां दशमोऽध्यायः ॥१०।ऽध्यायः ]

प्रायश्चित्तवर्णनम् ।

[[२१३]]

एकादशोऽध्यायः ।

अथ धर्मप्रतिरूपकवर्णनम् ।

सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् । गुर्वर्थं पितृमात्रर्थं स्वाध्यायापतापिनः ॥१ न वै तान्नातकान्विद्याद्ब्राह्मणान्धर्मभिक्षुकान् । निःस्वभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥२ एतेभ्यो हि द्विजाग्रंथभ्यो देयमन्न सदक्षिणम । इतरेभ्यो वहिर्वेदि कृतान्नं देयमुच्यते ॥३ सर्वरत्नानि राजा तु यथाह प्रतिपादयेत । ब्राह्मणान्वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥४ कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति । रतिमात्रं फलं तस्य द्रव्यदातुस्तु सन्ततिः ॥ ५ धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदवित्सु विविक्तंपु प्रेत्य स्वर्ग समश्नुते ॥६ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ॥ ७ अतः स्वल्पीयसि द्रव्ये यः सोमं पिवति द्विजः । स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ॥८ शक्तः परजने दाता खजने दुःखजीविनि । मध्वापातो विषाखादः स धर्मप्रतिरूपकः ॥६

[[२१४]]

मनुस्मृतिः ।

भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम् । तद्भवत्यसुखोदर्क जीवतश्च मृतस्य च ॥ १० यज्ञश्वत्प्रतिरुद्धः स्यादेकेनाङ्गन यज्वनः । ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥१४ यो वैश्यः स्याद्वहुपशुहनक्रतु रसोमपः । कुटुम्बात्तस्य तद्रव्यमाहरेवज्ञसिद्धये ॥१२ आहरेत्त्रीणि वा वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ॥१३ योऽनाहिताग्निः शतगुरयज्वा (यज्ञः) च सहस्रगुः । तयोरपि कुटुम्बाभ्यामाहरेदविचारयन ॥ १४ आदाननित्याच्चादातराहरेदप्रयच्छतः । तथा यशोऽस्य प्रयते धर्मश्चैव प्रवर्धते ॥१५ तथैव मे भक्तं भक्तानि पडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥१६ खलात्क्षेत्राद्गाराद्वा यतो वाप्युपलभ्यते । आख्यातत्र्यं त तत्तस्मै पृच्छते यदि पृच्छति ॥१७ ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन । दस्युनिष्क्रिययोस्तु स्वमजीवहर्तुमर्हति ॥१८ योऽसाधुभ्योऽर्थमादाय साधुभ्य संप्रयच्छति । स कृत्वा प्रवमात्मानं संतारायति तावुभौ ॥१६ यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः । अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते ॥ २०

एकादशो

ध्यायः ] देवादिधनं हरतीतिफलवर्णनम् ।

[[२१५]]

न तस्मिन्धारयेद्दण्डं धार्मिकः पृथिवीपतिः । क्षत्रियस्य हि बालिस्याद्ब्राह्मगः सीदति क्षुधा ॥२१ तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः । श्रुतशीले च विज्ञाय वृत्तिं धर्म्या प्रकल्पयेत् ॥ २२ कल्पयित्वाऽस्य वृत्तिं च रक्षदेनं समंततः । राजा हि धर्मषड्भागं तस्मात्प्राप्नोति रक्षितात् ॥ २३ न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हिचित् । यजमानो हि भिक्षित्वा चण्डालः प्रत्य जायते ॥२४ यज्ञार्थमर्थं भक्षित्वा यो न सर्व प्रयच्छति ।

स याति भासतां विप्रः काकतां वा शतं समाः ॥२५ देवस्वं ब्राह्मणस्वं वा लोभनोपहिनस्ति यः ।

स पापात्मा परे लोके गुवोच्छिन जीवति ॥ २६ इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये । क्लमानां पशुसोमानां निष्कृत्यर्थमसम्भवे ॥ २७ आपत्कल्पेन यो धर्म कुरुतेऽनापदि द्विजः । स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥२८ विश्वैश्च देवैः साध्येच ब्राह्मणैव महर्षिभिः । आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः ॥२६ प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् ॥३० न ब्राह्मणो वेदयेत किञ्चिद्राजनि धर्मवित् । स्ववीर्येणैव ताञ्छिष्यान्मानवानपकारिणः ॥ ३१

[[२१६]]

एकादशो

मनुस्मृतिः ।

स्ववीर्याद्राजवीर्याच स्ववीर्यं बलवत्तरम् । तस्मात्स्वेनेव बीर्येण निगृह्णीयादरीन्द्विजः ॥३२ श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् । वाकशस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्द्विजः ॥३३ क्षत्रियो वाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥३४ विधाता शासिता वक्ता मंत्रो ब्राह्मण उच्यते । तस्मै नाकुशलं ब्रूयान्न शुष्क गिरमीरयेत् ॥३५ न व कन्या न युवतीर्नाल्पविद्यो न बालिशः । होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा ॥३६ नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् । तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥ ३७ प्राजापत्यमत्वाऽश्वमग्न्याधेयस्य दक्षिणाम् । अनाहितानिर्भवति ब्राह्मणो विभवे सति ॥३८ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न स्वल्पदक्षिणैर्यज्ञयजते ह कथंचन ॥३६ इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजाः पशून् । हन्त्यल्प दक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥४० अग्निहोत्र्यपविध्याग्नीन्ब्राह्मणः कामकारतः । चान्द्रायणं चरेत्मासं बोरहत्यासमं हि तत् ॥४१ ये शूद्रादधिगम्यार्थमग्रिहोत्रमुपासते ।

मृत्विजस्ते हि शद्राणां ब्रह्मवादिषु गर्हिताः ॥४२

ऽध्यायः ]

स्तेयफलवर्णनम् ।

तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम् ।

पदा मस्तकमाक्रम्य दाता दुर्गाणि सन्तरेत ॥४३ अकुर्वन्त्रिहितं कर्म निन्दितं च समाचरन् । प्रस (नि) तश्चन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥४४ अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेकं श्रुतिनिदर्शनात् ॥४५ अकामतः कृतं पापं वेदाभ्यासेन शुद्धययि । कामतस्तु कृतं मोहात्त्रायश्चित्तः पृथग्विधः ॥४६ प्रायश्चित्तीयतां प्राप्य देवात्पूर्वकृतेन वा । न संसर्ग व्रजेत्सद्भिः प्रायश्चित्तं कृते द्विजः ॥४७ इह दुश्चरितैः केचित्केचित्पूर्वकृत (कृत) स्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥४८ सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्मा क्षयरोगित्वं दवयं गुरुतल्पगः ॥४६ पिशुनः पौतिनासिक्यं सूचकः पूतिवक्तृताम् । धान्य चौरोऽङ्गहीनत्वमातिरेक्यं तु मिश्रकः ॥५० अन्नहर्तामयावित्वं मौय’ वागपहारकः । वस्त्रापहारक : त्र्यं पवहारकः ॥५१ दोपहर्ता भवेदन्धः काणो निर्वापको भवेत् । हिंसया व्याधिभूयस्त्वं स्फीतोऽन्यस्त्र्यभिमर्षकः ॥ ५२ एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः । जडमूकान्धबधिरा विकृताकृतयस्तथा ॥ ५३

[[२१७]]

[[२१८]]

मनुरमृतिः ।

[ एकादशो

चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये ।

निन्येहि लक्षणैर्युक्ता जायन्ते ऽनिष्कृ तैनसः ॥५४

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।

महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥५५ अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥५६ ब्रह्मज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥५७ निक्षेपस्यापहरणं नराश्वरजतस्य च । भूमिवमणीनां च रुम्मस्तेयसमं स्मृतम् ॥५८ रेतः सेकः स्वयोनीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥५६ गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयाः । गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥ ६० परिवित्तिता,जेऽनूढे परिवेदनमेव च ।

तयोदर्शनं च कन्यायास्तयोरेव च याजनम् ॥ ६१ कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् । तडागारामदाराणामपत्यस्य च विक्रयः ॥६२ व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च । भृताच्चाध्ययनादानमपण्यानां च विक्रयः ॥६३ सर्वाकरेष्वधोकारो महायन्त्रप्रवर्तनम् ।

हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च ॥ ६४

ऽध्यायः ]

प्रायश्चित्तवर्णनम् ।

इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् ।

आत्मार्थ च क्रियारम्भो निन्दितान्नादनं तथा ॥ ६५

अनाहिताग्मिता स्तेयमृगानामनपक्रिया ।

असच्छास्त्राविगमनं कौशीलव्यस्य च क्रिया ॥६६ धान्यकुन्यपशुस्तेयं मद्यपस्त्रीनिषेवणम । स्त्रीशूद्रविट्क्षत्रवधो नास्तित्र्य चोपपातकम् ॥६७ ब्राह्मणस्य रुजः कृत्यं घ्रातिरत्र्यमद्ययोः । जैमय च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥६८ खराश्रोष्ट्रमृगेभानामजाविकवधस्तथा

सङ्करीकरणं ज्ञेयं मीनाहिमहिपस्य च ॥ ६६ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषगम् ॥७० कृमिकीटवयोहत्या मद्य (अनुगत) संस्पृष्टभोजनम् । फलैधः कुसुमस्तेयमधैयं च मलावहम् ॥७१ एतान्येनांसि सर्वाणि यथोक्तानि पृथक् पृथक् । येयैर्ब्रतैरपोद्यन्ते तानि सम्यनिबोधत ॥ ७२ ब्रह्महा द्वादशसमाः कुटीं कृत्वा वने वसेत् । भैक्षाश्यात्म विशुद्रथं कृत्वा शवशिरोध्वजम् ॥७३ लक्ष्यं शस्त्रभृतां वा स्याद्विदुपामिच्छयात्मनः । प्रास्येदात्मानमग्नौ वा समिद्ध त्रिवाक्शिराः ॥७४ यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद्विश्वजिद्भयां वा त्रिवृताभिष्टुताऽपि वा ॥७५

[[२१६]]

[[२२०]]

मनुस्मृतिः ।

[ एकादशो

जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रियः ॥ ७६ सवस्वं वेदविदुषं ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वासः परिच्छदम् ॥७७ हविष्यभुग्वाज्नुस रेत्प्रतिस्रोतः सरस्वतीम् । जपेद्वा नियताहारस्त्रिर्वे वेदस्य संहिताम् ॥ ७८ कृतवापनो निवसेदप्रामान्ते गोत्रजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ ७६ ब्राह्मणार्थे गवार्थे वा सद्यः ( सम्यक् ) प्राणान्परित्यजेत् । मुच्यते ब्रह्महत्याया गोला गोर्ब्राह्मणस्य च ॥८० व्यवरं प्रतिरोद्धा वा सर्वस्वमवजित्य वा । विप्रस्य तन्निमित्तं वा प्राणालाभेऽपिमुच्यते ॥८१ एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥८२ शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते ॥ ८३ धर्मस्य ब्राह्मणो मूलममं राजन्य उच्यते । तस्मात्समागमे तेषामेनोविख्याप्य शुध्यति ॥ ८४ ब्राह्मणः सम्भवेनैव देवानामपि दैवतम् । प्रमाणं चैव लोकस्य ब्रह्मत्रैव हि कारणम् ॥८५ तेषां वेदविदो ब्रूयुत्रयोऽप्येनः सुनिष्कृतिम् ।

सा तेषां पावनाय स्यात्पवित्रं विदुषां हि वाक् ॥८६

ऽध्यायः ]

प्रायश्चित्तवर्णनम् ।

[[२२१]]

अतोऽन्यतममास्थाय विधि विप्रः समाहितः । ब्रह्महत्या कृतं पापं व्यपोहत्यात्मवत्तया ॥ ८७ हत्वा गर्भमविज्ञानमेतदेव व्रतं चरेत । राजन्यवैश्यौ चंजानावात्रेयीमेव च स्त्रियम् ॥८८ उक्त्वा चैवानृतं साक्ष्ये प्रतिरुद्धच (रभ्य) गुरु तथा अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥८६ इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ ६० सुरां पीत्वा द्विजो मोहादग्निवर्णा सुरां पिवेत । तया स काये निर्दग्धे मुच्यते किल्विषात्ततः ॥ ६१ गोमूत्रमभिवर्ण वा पिवेदुदकमेव वा । पयो घृतं वाऽऽमरणाद्गोशकृद्रसमेव वा ॥२ कणान्वा भक्षयेदन्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्यर्थं बालवासा जटी बजी ॥१६३ सुरां वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥६४ गौडी पैटी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥६५ यक्षरक्षः पिशाचानं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥६६ अमेध्ये वा पतेन्मसो वैदिकं वाप्युदाहरेद् । अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहतः ॥६७

[[२२२]]

मनुस्मृतिः ।

[ एकादशो

यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकुन् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ ६८ एषा विचित्राऽभिहिता सुरापानस्य निष्कृतिः । अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥६६ सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ।

स्वकर्म ख्यापयन्त्र्यान्मां भवाननुशास्त्विति ॥ १०० गृहीत्वा मुसलं राजा सकृद्वन्यात्तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ १०१ तपसाऽपनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजोऽरण्ये चरेद्ब्रह्मणोऽञ्जतम् ॥१०२ एतैतैरपोहेत पापं स्तेयकृतं द्विजः ।

गुरुस्त्रीगमनीयं तु तैरेभिरपानुदेत् ॥१०३ गुरुतल्यभिभाष्यैनस्तल्पे स्वप्यादयोमये ।

सूर्मी ज्वलन्तीं वाश्लिष्येन्मृत्युना स विशुद्धयति ॥१०४ स्वयं वा शिश्नवृपणावुत्कृयाधाय चाञ्जलौ । नैर्ऋती दिशमातिष्ठदानिपातादजिह्नगः ॥१०५ खटाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥ १०६ चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ १०७ एतैर्ब्रतेरपोहेयुर्महापातकिनो मलम् । उपपातकिन(त्येवमेभिर्नानाविधैर्ब्रतेः ॥ १०८ऽध्यायः ]

प्रायश्चित्तवर्णनम् ।

उपपातकसंयुक्तो गोघ्नो मासं यवान्पिवेत् । कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥ १०६ चतुर्थकालमश्नीयादक्षा रलवणं मितम् । गोमूत्रेणाचरत्नानं द्वौ मासौ नियतेन्द्रियः ॥ ११० दिवानुगच्छंद्गास्तास्तु तिउन्नूर्ध्वं रजः पिबेत् । शुश्रूपित्वा नमस्कृत्य रात्रौ वीरासनो वसेत् ॥ १११ तिष्ठन्तोष्वनुतिष्ठेत्तु ब्रजन्तीष्वप्यनुव्रजेत् ।

आसीनासु तथासोनो नियतो वीतमत्सरः ॥११२ आतुरामभिशस्तां वा चौख्याघ्रादिभिर्भयैः ।

[[२२३]]

पतितां पङ्कलग्नां वा सर्वोपायै ( सर्वप्राण) विमोचयेत् ॥ ११३ उष्णं वर्षति शीते वा मारुते वापि (वाति) वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ ११४ आत्मनो यदि वाऽन्येषां गृहे क्षेत्रऽथवा खले । भक्षयन्तीं न कथयेत्पिवन्तं चैव वत्सकम् ॥ ११५ अनेन विधिना यस्तु गोघ्नो गामनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासत्र्यपोहति ॥ ११६ वृषभैकादशा गाश्च दद्यात्सुचरितत्रत । अविद्यमाने सर्वस्वं वेदविद्भ्यां नवेदयेत् ॥११७ एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः ।

अवकीर्णिव (जं)ज्यं शुद्धयर्थं चान्द्रायणमथापि वा ॥ ११८

अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।

पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥ ११६

[[२२४]]

मनुस्मृतिः ।

[ एकाद‍

हुत्वाऽग्नौ विधिवद्धोमानन्ततश्च समेत्यृचा । वातेन्द्र गुरुवहीनां जुहुयात्सर्पिषाऽऽहुतीः ॥ १२० कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ १२१ मारुतं पुरुहूतं च गुरुं पात्रकमेव च । चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥१२२ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम । सप्तागाराश्चरेद्वेन स्वकर्म परिकीर्तयन् ॥१२३ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । उपस्पृशं त्रिपवणं त्वब्देन स विशुद्धयति ॥ १२४ जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । ‘चरेत्सांतपनं कृच्छ प्राजापत्यमनिच्छया ॥१२५ सङ्करापात्रकृत्यासु मासं शोधनमैन्दवः । मलिनीकरणीयेषु तपः स्याद्यावकैरुयहम् ॥१२६ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतः । वैश्येऽमाशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ १२७ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहस्त्रा गा दद्यात्सुचरितव्रतः ॥१२८ व्ययं चरेद्रा नियतो जटी ब्रह्मणो व्रतम् । बसन्दूरतरे ग्रामाद्वृक्षमूलनिकेतनः ॥ १२६ एतदेव चरेद्रव्यं प्रायश्चित्तं द्विजोत्तमः ।

प्रमाध्य वैश्यं वृत्तस्थं दद्याचैकशतं गवाम् ॥१३०

ऽध्यायः ]

प्रायश्चित्तवर्णनम् ।

[[२२५]]

एतदेव व्रतं कृत्स्नं पण्मासान्शूद्रहा चरेत् । वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ॥ १३१ मार्जारनकुलौ हत्वा चापं मण्डूकमेव च । श्रगोधोलूककाकांश्च शूद्रहत्यात्रतं चरेत् ॥१३२ पयः पिवेत्त्रिरात्रं वा योजनं वाऽध्वनो ब्रजेत् । उपस्पृशत्वन्त्यां वा सूक्तं वाऽव्देवतं जपेत् ॥१३३ अभ्रिं काष्र्णायसीं दद्यात्सर्प हत्वा द्विजोत्तमः । पलालभारकं पण्ढ सैसकं वैकमाषकम् ॥१३४ घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ । शुके द्विहायनं वत्सं क्रौंचं हत्वा त्रिहायणम् ॥१३५ हत्वा हंसं बलाकां च बकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद्वाह्मणाय गाम् ॥१३६ वासो दद्याद्वयं हत्वा पंच नीलान्वृषान्गजम् । अजमेषावनाहं खरं हत्वैकहायनम् ॥ १३७ क्रव्यादांस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादान्वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ १३८ जीनकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये ।

चतुर्णामपि वर्णानां नारीत्वाऽनवस्थिताः ॥ ३६ दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् । एकैकशश्वरेत्कृछ द्विजः पापापनुत्तये ॥ १४० अस्थिमतां तु सत्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्यनस्थनां तु शूद्रहत्यात्रतं चरेत् ॥ १४१

[[१५]]

[[२२६]]

मनुस्मृतिः ।

[ एकादशो

किंचिदेव तु विप्राय दद्यादस्थितां वधे ।

अनस्थनां चैव हिंसायां प्राणायामेन शुद्धयति ॥ १४२ फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ।

गुल्मबल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ १४३

अन्नाद्यजानां सत्वानां रसजानां च सर्वशः । फलोद्भवानां च वृतप्राशो विशोधनम् ॥१४४ कुरजानामोषधीनां जातानां च स्वयं वते । वृथालम्भेऽनुगच्छेद्रां दिनमेकं पयोव्रतः ॥ १४५ एतैतैरपोह्यं स्यादेनो। हसासमुद्भवम् । ज्ञानाज्ञानकृतं कृत्स्नं शृगुतानाद्यभक्षगे ॥ १४६ अज्ञानाद्वारुर्णी पीत्वा संस्कारेणैव शुद्धयति । मतिपूर्वमनिईश्यं प्राणान्तिकमिति स्थितिः ॥ १४७ अपः सुराभाजनस्था मद्यभाण्डस्थिनास्तथा । पञ्चरात्र पिवेत्पीत्वा शङ्खपुत्रीभृतं पयः ॥ १४८ स्पष्ट्रा दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च । शूद्रोछिराश्च पीत्वाऽऽनः कुशवारि पिवेत्त्र्यहम् ॥ १४६ ब्राह्मणस्तु सुरापस्प गन्धमाघ्राय सोमपः । प्राणानप्पु त्रिरायम्य घृतं प्राश्य विशुध्यति ॥ १५० अज्ञानालाश्य विण्मूत्रं सुसंस्कृटमेव च । पुनः संस्कारमईन्ति त्रयो वर्गा द्विजातयः ॥ १५१ वपनं मेखला इण्डो भैक्ष्यचर्या व्रतानि च । निवर्तते द्विजातीनां पुनः संस्कारकर्मणि ॥ १५२

उध्यायः ]

प्रायश्चित्तवर्णनम् ।

अभोज्यानां तु भुक्तान स्त्रीशूद्रोच्छिमेव च । जग्धा मांसमभक्ष्यस्व सप्तरात्रं यवान्पिवत् ॥१५३ शुक्तानि च कषायांश्च पीत्वा मेव्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥ १५४ विड्वराहखरोद्राणां गोमायो कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चांद्रायणं चरेत् ॥ १५५ शुष्काणि भुक्ता मांसानि भौमानि कवकानि च ! अज्ञातं चैव सूनास्थमेतदेव तं चरेत् ॥१५६ क्रव्यादसूकरोट्राणां कुक्कुटानां च भक्षगे । नरकाकखराणां च तपकुछ विशोधनम् ॥१५७ मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः । स त्रीण्यान्युपवसेदेकाहं चोदके वसेत् ॥ १५८ ब्रह्म (व्रत) चारी तु योऽश्नीयान्मधु मांसं कथंचन । स कृत्वा प्राकृतं कुछ व्रतशेषं समापयेत् ॥१५६ विडालकाकाखूच्छिष्टं जग्ध्वावनकुलस्य च । केशकीटावपन च पिबेद्वह्मसुवर्चलाम् ॥ १६० अभोज्यमन्न’ नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञानभुक्तं तूत्तार्य शोध्यं वाप्याशु शोधनैः ॥ १६९ एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः । स्तेय दोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥१६२ धान्यान्नधनचौर्याणि कृत्वा कामाद्विजोत्तमः । सजातीयगृहादेव कृच्छाब्देन विशुध्यति ॥ १६३

[[२२७]]

[[२२८]]

मनुस्मृतिः ।

[ एकादशी

मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवारीजलानां च शुद्धिश्वान्द्रायणं स्मृतम् ॥१६४ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मनि । चरेत्सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥१६५ भक्ष्मभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥१६६ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥१६७ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च !

अयः कांस्योपलानां च द्वादशाहं कणान्नता ॥ १६८ कार्पासकीटजोर्णानां द्विशफेक (खुरस्य) शफस्य च । पक्षिगन्धौषधीनां च रज्ज्ञाचैष त्र्यहं पयः ॥१६६ एते तर पोहत पापं स्तेयकृतं द्विजः । अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥१७० गुरुतल्पतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।

सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ १७१

पैतृष्वसेय भगिनीं स्वस्त्रीयां मातुरेव च ।

मातुश्च भ्रातु (स्तनयां) राप्तस्य गत्वा चान्द्रायणं चरेत् ॥ १७२ एतास्तिस्रस्तु भार्यार्थ नोपयच्छेत्तु बुद्धिमान् । ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः ॥ १७३

अमानुपीपु पुरुष उदक्यायामयोनिषु ।

रेतः सिक्त्वा जले चैव कृच्छ सान्तपनं चरेत् ॥१७४

म्यायः ]

गम्यागम्यवर्णनम् ।

[[२२६]]

मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः । गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत ॥ १७५ चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ १७६ विप्रदुष्टां स्त्रियं भर्त्ता निरुन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तचैनां चारयेद्वतम् ॥ १७७ सा चेत्पुनः प्रदुष्येतु सदृशेनोपमन्त्रिता । कुच्छ चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥१७८ यत्करोत्येकरात्रेण वृपलीसेवनाद्विजैः । तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षेर्व्यपोहति ॥१७६ एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः । पतितैः सम्प्रयुक्तानामिमाः शृणुत निष्कृतीः ॥१८० संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥१८१ यो येन पतितेनैषां संसर्ग याति मानवः । म तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥१८२ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः । निन्दितेऽहनि सायाह्न ज्ञायत्विग्गुरुसन्निधौ ॥१८३ दासी घटमपां पूर्ण पर्यस्येत्प्रेतवत्पदा । अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥ १८४ निवर्तेरंश्च तस्मात्तु सम्भाषण सहासने ।

दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥१८५

[[२३०]]

मनुस्मृतिः ।

येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्धनं ।

[ एकादशी

ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः ॥ १८६ प्रायश्चित्तं तु चरिते पूर्णकुम्भमपां नवं ।

तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ १८७ स त्वत्सु तं घटं प्रास्य प्रविश्य भवनं स्वकं । सर्वाणि ज्ञातिकार्याणि यथापूर्व समाचरेत् ॥१८८ एतदेव विधिं कुर्याद्योपित पतिताम्वपि । वस्त्रान्नपानं देयं तु बसेयुच गृहान्तिके ॥१८६ एनस्त्रिभिरनिर्णिक्तैन्नार्थ किञ्चित्सहाचरेत । कृतनिर्णेजनां तान्न जुगुप्सेत कर्हिचित् ॥ १६०

बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।

ः।

शरणागतहन्तश्च स्त्रोहन्तश्च न संवसे ॥१६१ येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा श्रीकृच्छ्रान्यथाविध्युपनाययेत् ॥ १६२ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः । ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ १६३ यह हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ १६४ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥१६५ उपवासकृशं तं तु गोब्रजात्पुनरागतम् ।

प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥१६६

ऽध्यायः ]

प्रायश्चित्तवर्णनम् ।

सत्यमुक्त्वा तु विप्रेषु विकिरद्यवसं गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥ १६७ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ व्यपोहति ॥१६८ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।

संवत्स बाहारस्तत्पापमपसेवति ॥ १६६ श्रशृगालखरैर्दष्ट ग्राम्यैः क्रव्याद्भिरेव च । नराश्रोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥२०० षष्ठान्नकालता मासं संहिताजप एव वा । होमाच शाकला नित्यमपांत्तयानां विशोधनम् ॥२०१ उष्ट्र्यानं समारुह्य खरयानं तु कामतः ।

[[२३१]]

स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ २०२ विनाऽद्भिरप्स वाप्यातः शारीरं सन्निपेत्र्य च । सचैलो वहिराप्लुत्य गामालभ्य विशुद्धति ॥ २०३ वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकत्रतलोपे च प्रायश्चित्तमभोजनम् ॥२०४ हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः । स्नात्वाऽनश्नन्नः शेषमभिवाद्य प्रसादयेत् ॥२०५ ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा । विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥२०६ अवसूर्य त्वदातं सहस्रमभिहत्य च ।

जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ २०७

[[२३२]]

मनुस्मृतिः ।

शोणितं यावतः पांसून्संगृह्णाति महीतले ।

[ एकादशो

तावन्त्यन्दसहस्राणि तत्कर्ता नरकं ( ब्रजेत् ) वसेत् ॥२०८

अवगूर्य चरेत्कृच्छमतिकृच्छ निपातने ।

कृछातिकृच्छौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ २०६ अनुक्तनिष्कृतीनां तु पापानामपनुत्तये ।

शक्ति चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ २१० यैरभ्युपायैरेनांसि मानवो व्यपकर्षति । तान्त्रोऽभ्युपायान्यक्ष्यामि देवर्षिपितृसेवितान् ॥२११ त्र्यहं प्रातस्त्र्यहं सायं व्यहमद्यादयाचितम् ।

यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥ २१२ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ सान्तपनं स्मृतम् ॥२१३ एकैकं ग्रासमश्नीयालय हाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेद्न्त्यमतिकृच्छ चरन्द्विजः ॥ २१४ तर कुच्छ चरन्विप्रो जलक्षीरघृतानिलान् । प्रतिव्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥ २१५ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम ।

पराको नाम कृन्छोऽयं सर्वपापापनोदनः ॥ २१६ एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस्त्रिषवणमेतचान्द्रायणं स्मृतम् ॥ २१७ एतमेव विधि कृत्स्नमाचरेद्यवमध्यमे ।

शुक्लपक्षादिनियतश्वरंश्चान्द्रायणं व्रतम ॥२१८प्रध्यायः ]

प्रायश्चित्तवर्णनम

अष्टावटौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥२१६ चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः । चतुरोऽस्तमिते सूर्य शिशुचान्द्रायणं स्मृतम् ॥२२० यथाकथंचित्पिण्डानां तिस्रोऽशीतीः समाहितः । मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥२२१ एतद्रुद्रास्तथादित्या वसवश्वाचरन्त्रतम् । सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः ॥ २२२ महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम । अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥२२३ त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत । स्त्रीशूद्र पतितांश्चैव नाभिभाषेत कर्हिचित् ॥ २२४ स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा । ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥ २२५ सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः । सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमाहतः ॥२२६ एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः । अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ २२७ ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥ २२८ यथा यथा नरोऽधर्मं स्वयं कृत्वाऽनुभाषते । तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ॥ २२६

[[२३३]]

[[२३४]]

मनुस्मृतिः ।

[ एकादशो

यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥२३० कृत्वा पापं हि सन्तप्य तस्मात्पापात्प्रमुच्यते । नैवं कुर्या पुनरिति निवृत्या पूयते तु सः ॥२३१ एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् । मनोवाङ्मूर्त्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ २३२ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् । तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥२३३ यस्मिन्कर्मण्यस्य कृते मनसः स्यादुलाघवम् । तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥२३४ तपोमूलमिदं सर्व देवमानुषकं सुखम् ।

तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ॥२३५ ब्राह्मणस्य तपो ज्ञानं तपः क्षत्त्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥२३६

ऋषयः यतात्मानः फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥२३७ औषधान्यगो (ग) विद्या देवी च विविधा स्थितिः । तपसैव प्रसिद्धयन्ति तपस्तेषां हि साधनम् ॥२३८ यद्दस्तरं यद्दरापं यद्दुर्गं यश्च दुष्करम् ।

सर्व तत् तपसा साध्यं तपो हि दुरतिक्रमम् ॥२३६ महापातकिनश्चैव शेषाचा कार्यकारिणः ।

तपसैव सुतप्तेन मुच्यन्ते किल्विषात्ततः ॥ २४०

!

ऽध्यायः ]

तप महत्त्व फलवर्णनम् ।

कीटाश्वाहिपतङ्गाश्च पशवश्व वयांसि च ।

[[२३५]]

स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥२४१ यत्किञ्चिदेनः कुर्वन्ति मनोवाङ्मूर्ति (कर्म) भिर्जनाः । तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ॥ २४२ तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः । इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च ॥ २४३ प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः । तथैव वेदानृषयन्तपसा प्रतिपेदिरे ॥ २४४ इत्ये (यदे) तत्तपसो देवा महाभाग्यं प्रचक्षते । सर्वस्यास्य प्रपश्यन्तस्तासः पुण्य (मुद्भवम्) मुत्तमम् ॥२४५ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमा । नाशयन्त्याशु पापानि महापातकजान्यपि ॥ २४६ यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । तथा ज्ञानामिना पापं सर्वं दहति वेदवित ॥ २४७ इत्येतदेनसामुक्तं प्रायश्चितं यथाविधि ।

अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ २४८ सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ।

अपि भ्रणणं मासात्सुनन्त्यहरहः कृताः ॥ २४६ कौत्सं जप्त्वाप इत्येतद्वासिष्ट च प्रतीत्यचम । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥ २५० सकृजप्त्वाऽस्य वामीयं शिवसङ्कल्पमेव च । अपहृत्य सुवणं तु क्षणाद्भवति निर्मलः ॥ २५१

[[२३६]]

मनुस्मृतिः ।

[ एकादशो

हवीष्यान्तीयमभ्यस्य न तमं ह इतीति च । जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ २५२ एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ।

अवेत्यृचं जपेदब्दं यत्किञ्चदमितीति वा ॥ २५३ प्रतिगृह्याप्रतिग्राह्यं भुक्ता चान्नं विगर्हितम् । जपस्तरत्समदीयं पूयते मानवरूयात् ॥२५४ सोमारौद्रं तु वह्ननाः समामभ्यस्य शुध्यति । स्रवन्त्यामाचरन्नानमर्यम्णामिति च तृचम् ॥ २५५ अब्दार्थमिन्द्रमित्येतदेनस्वी सतकं जपेत् ।

अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्षभुक् ॥२५६ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इज्यृचम् ॥ २५७ महापातकसंयुक्तोऽनुगच्छेद्राः समाहितः ।

अभ्यस्याब्दं पावमानोर्भेक्षाहारो विशुध्यति ॥ २५८ अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥ २५६ त्र्यहं तूपवसेद्युक्तस्त्रिरह्नोऽभ्युपयन्नपः । मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाऽघमर्षणम् ॥२६० यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।

तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥२६१ हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः । ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किश्चन ॥२६२

ऽध्यायः ]

प्रायश्चित्तवर्णनम् ।

ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः । साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ २६३ यथा महाहृदं प्राप्य क्षिप्तं लोटं विनश्यति । तथा दुश्चरितं सर्व वेदे त्रिवृति मज्जति ॥ २६४ ऋचो यजूंषि चाद्यानि सामानि विविधानि च । एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ २६५ आद्यं यत्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता । स गुह्योऽन्यस्त्रिवद्वेो यस्तं वेद स वेदवित् ॥ २६६

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यामेकादशोऽध्यायः ॥ ११

::–

द्वादशोऽध्यायः

अथेदानीं कर्मणांशुभाशुभफलवर्णनम् । चातुर्वर्ण्यस्य कृत्त्रोऽयमुक्तो धर्मस्त्वयाऽनघ । कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् ॥ १ स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः । अस्य सर्व शृणुत कर्मयोगस्य निर्णयम् ॥२

[[२३७]]

[[२३८]]

मनुस्मृतिः ।

शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् ।

कमजा गतयो नृणामुत्तमाधममध्यमाः ॥ ३ तस्येह त्रिविधस्यापि व्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् ॥४ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥५

[ द्वादशो

पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ।

असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥६ अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥७ मानसं मनसैवायमुपभुंक्तं शुभाशुभम् ।

वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥८ शरीरजः कर्मदोषैर्याति स्थावरतां नरः । वाचिकः पक्षिमृगतां मानसंरन्यजातिताम् ॥६ वागदंडोज्य मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता वृद्धौ त्रिदण्डीति स उच्यते ॥ १० त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः ।

कामक्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति ॥११ योऽस्यात्मनः कारयिता तं क्षेत्रज्ञ प्रचक्षते । यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२ जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनां ।

येन वेदयते सर्व सुखं दुःखं च जन्मसु ॥१३

ऽध्यायः ]

[[२३६]]

कर्मणां शुभाशुभफलवर्णनम् । तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥१४ असंख्या मूर्त्तयस्तस्य निष्पतन्ति शरीरतः । उच्चावचानि भूतानि सततं चेद्रयन्ति याः ॥ १५ पञ्चभ्य एव भूतेभ्यः (मात्राभ्यः) प्रेत्य दुष्कृतिनां नृणाम् । शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥१६ तेनानुभूय ता यामीः शरीरेणेह यातनाः । तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः ॥ १७ सोऽनुभूयासुखोदर्कान्दोपान्विषयसङ्गजाम् । व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ ॥१८ तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह । याभ्यां प्राप्नोति संपृक्तः प्रत्येह च सुखासुखम् ॥१६ यथाचरति धर्मं स प्रायशोवर्ममल्पशः । तैरेव चावतो भूतैः स्वर्गे मुखमुपाश्नुते ॥२० यदि तु प्रायशोऽयमं सेवते धर्ममल्पशः । तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ २१ यामोस्ता यातनाः प्राप्य स जीवो वीतकल्मषः । तान्येव पञ्चभूतानि पुनरप्येति भागशः ॥२२ एता दृष्ट्वाऽस्य जीवस्य गतीः स्वेनैव चेतसा । धर्मतोऽधर्मतचैव धर्मे दध्यात्सदा मनः ॥ २३ सत्वं रजस्तमश्चैव त्रीन्विद्यादात्मनो गुणान् । यैर्यायेमान्स्थतो भावान्महान्सर्वानशेषतः ॥२४

[[२४०]]

मनुस्मृतिः ।

[ द्वाद

यो यदेषां गुणो देहे साकल्येनातिरिच्यते । स तदा तद् णप्रायं तं करोति शरीरिणम् ॥२५ सत्वं ज्ञानं तमोऽज्ञानं रागद्वेपौ रजः स्मृतं । एतद्वयाप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥२६ तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् । प्रशान्तमिव शुद्धाभं सत्वं तदुपधारयेत् ॥२७ यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः । तद्रजोप्रतिपं विद्यात्सततं हवं देहिनाम् ॥२८ यत्तु स्यान्मोहसंयुक्तमक्तं विषयात्मकम् । अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥२६ त्रयाणामपि चैतेषां गुणानां यः फलोदयः । अग्रयो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः ॥ ३० वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः । धर्मकियाऽन्यचिन्ता च सात्त्विकं गुणलक्षणम् ॥३१ आरम्भरुचिताऽधैर्यमसत्कार्यपरिग्रहः ।

विपयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥३२ लोभः स्वप्नोऽधृतिः कौयं नास्तिक्यं भिन्नवृत्तिता । याचिष्णुता प्रमादश्व तामसं गुणलक्षणम् ॥३३ त्रयाणामपि चंतेपां गुणानां त्रिषु तिष्ठताम् ।

सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥३४ यत्कर्म कृत्वा कुवंश्च करिण्यंश्चैव लज्जति । तज्ज्ञेयं विदुषा सवं तामसं गुणलक्षणम् ॥३५

ऽध्यायः ]

कर्मणां शुभाशुभफलवर्णनम् ।

[[२४१]]

येनास्मिन्कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् । न च शोचत्यसम्पत्तौ तद्विज्ञेयं तु राजसम् ॥३६ यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् । येन तुष्यति चात्माऽस्य तत्सत्त्वगुणलक्षणम् ॥३७ तमसो लक्षणं कामो रजसस्त्वर्य उच्यते । सत्त्वस्य लक्षणं धर्मः श्रयमेषां यथोत्तरम् ॥३८ येन यांस्तु गुगेनैषां संसारान्प्रतिपद्यते । तान्समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥३६ देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः । तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ॥४० त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः । अधमा मध्यमाग्या च कर्मविद्याविशेषतः ॥४१ स्थावराः कृमिकीटाच मत्स्याः सर्पाः सकच्छपाः । पशवश्च मृगाचैव जघन्या तामसी गतिः ॥४२ हस्तिनश्च तुरङ्गाश्व शूद्रा म्लेच्छाश्च गर्हिताः । सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः ॥ ४३ चारणाश्च सुपर्णाश्च पुरुषाचैव दाम्भिकाः । रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः ॥ ४४ झल्ला मल्ला नटाचैव पुरुषाः शस्त्रवृत्तयः । द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ॥ ४५ राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः । वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥४६

[[१६]]

[[२४२]]

मनुस्मृतिः ।

[ द्वादशो

गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये । तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥४७ तापसा यतयो विप्रा ये च वैमानिका गणाः । नक्षत्राणि च दैत्याश्च प्रथमा साविको गतिः ॥४८ यज्वान ऋषयो देवा वेदा ज्योतींषि बत्सराः । पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ॥४६ ब्रह्मा विश्वसृजो धर्मो महान व्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमा हुर्मनीषिणः ॥५० एष सर्वः समुद्दिष्टस्त्रिः प्रकारस्य कर्मणः । त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥५१ इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च । पापान्संयान्ति संसारानविद्वांसो नराधमाः ॥ ५२ यां यां योनिं तु जीवोऽयं येन येनेह कर्मणा । क्रमशो यति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत ॥५३ बहून्वर्षगणान्धोरान्नरकान्प्राप्य तत्क्षयात् । संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥५४ सूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुकसानां च ब्रह्महा योनिमृच्छति ॥५५ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥५६ लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।

}

हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ ५७ऽध्यायः ]

कृतकर्मफलवर्णनम् ।

[[२४३]]

तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ ५८ हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः । परस्परादिनः स्तेनाः प्रेताऽन्त्यस्त्री निषेविणः ॥५६ संयोगं पतितैर्गत्वा परस्यैव च योषितम् । अपहृत्य च विप्रत्वं भवति ब्रह्मराक्षसः ॥६० मणिमुक्ताप्रवालानि हत्वा लोभेन मानवः । विवधानि च रत्नानि जायते हेमकर्तृषु ॥ ६१ धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः । मधु दंशः पयः काको रसं वा नकुलो घृतम् ॥६२ मांसं गृध्रो वषां मद्गुस्तैलं तैलपकः खगः । चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ॥६३ कौशेयं तित्तिरिया क्षौमं हृत्वा तु ददुरः । कार्पासतान्तवं कौवो गोधा गां वास्गुदो गुडम् ॥६४ छुच्छुन्दरीः शुभान्गन्धान्पत्रशाकं तु बर्हिणः । श्रावित्कृतान्नं विविधमकृतान्न तु शल्यकः ॥६५

बको भवति त्वाऽग्निं गृहकारी ह्युपस्करम् । रक्तानि हत्वा वासांसि जायते जीवजीवकः ॥६६

वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः । स्त्रीमृक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः ॥ ६७

यद्वा तद्वा परद्रव्यमपहत्य बलान्नरः ।

अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ ६८

[[२४४]]

मनुस्मृतिः ।

[ द्वादशी

स्त्रियोऽप्येतेन कल्पेन हत्वा दोषमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥६६ स्वेभ्यः स्वेभ्यस्तु कर्मभ्यरच्युता वर्णा ह्यनापदि । पापान्संसृत्य संसारान्प्रेष्यतां यान्ति ( दस्युपु) शत्रुषु ॥७० वान्ताश्शुल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः । अमेध्यकुणपाशी च क्षत्रियः कूटपूतनः ॥ ७१ मैत्राक्षिज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकच भवति शूद्रो धर्मात्स्व काच्च्युतः ॥७२ यथा यथा निषेवन्ते विषयान्विषयात्मकाः । तथा तथा कुशलता तेषां तेषूपजायते ॥७३ तेऽभ्यासात्कर्मणां तेषां पापानामल्पबुद्धयः । संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु ॥७४ तामिस्रादिषु चोत्रेषु नरकेषु विवर्तनम । असिपत्रवनादीनि बन्धनच्छेदनानि च ॥७५ विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् । करम्भबालुकातापान्कुम्भीपाकांश्च दारुणान् ॥७६ संभवांश्च वियोनीपु दुःखप्रायासु नित्यशः । शीतातपाभिघातांश्च विविधानि भयानि च ॥ ७७ असकृद्रभवासेषु वासं जन्म च दारुणम् । बन्धनानि च कष्टानि परप्रेष्यत्वमेव च ॥७८ बन्धुप्रियवियोगाश्च संवासं चैव दुर्जनैः ।

द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥७६

ऽध्यायः ]

कृतकर्मफलवर्णनम् ।

जरां चैवाप्रतीकारां व्याधिभिश्वोपपीडनम् । क्लेशांश्च विविधातांस्तान्मृत्युमेव च दुर्जयम् ॥८० यादृशेन तु भावेन यद्यत् कर्म निषेवते । तादृशेन शरीरेण तत्तत्फलमुपाश्नुते ॥८१ एप सर्वः समुद्दिनः कर्मणां वः फलोदयः । नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥८२ वेदाभ्यासस्तपोज्ञानमिन्द्रियाणां च संयमः । अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥८३ सर्वेषामपि चैतेषां शुभानामिह कर्मणाम् । किंचिच्छं यस्करतरं कर्मोक्त पुरुषं प्रति ॥ ८४ सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तद्वययं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥ ८५ षण्णामेषां तु पूर्वेषां कर्मणां प्रेत्य चेह च ।

श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥८६ वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः । अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ ॥८७ सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥८८ इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते । निष्कामं ज्ञातपूर्व तु निवृत्तमुपदिश्यते ॥८६ प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम् । निवृत्तं सेवमानस्तु भूतान्येत्येति पच वै ॥६०

[[२४५]]

[[२४६]]

मनुस्मृतिः ।

[ द्वादशी

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥११ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥६२ एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः । प्राप्येतत्कृतकृत्यो हि द्विजो भवति नान्यथा ॥ ६३ पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ।

अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥ ६४ या वेदवाद्याः श्रुतयो (स्मृतयो ) याच काच कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥६५ उत्पद्यन्ते विनश्यन्ति (वन्तेच) यान्यतोऽन्यानिकानिचित् । तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च ॥ ६ चातुर्वण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् । भूतं भवद्भविष्यं च सर्व वेदात्प्रसिध्यति ॥ ७ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पंचमः । वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः ॥ ६८ विभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् । तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम् ॥६६ सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च । सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥१०० यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः ॥ १०१

ऽध्यायः ]

धर्मनिर्णयकर्तृकपुरुषवर्णनम् ।

[[२४७]]

वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।

इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते ॥ १०२ अनेभ्यो मन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ १०३ । तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा किल्विषं हन्ति विद्ययाऽमृतमश्नुते ॥ १०४ प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम । त्रयं सुविदितं कार्य धर्मशुद्धिमभीप्सता ॥ १०५ आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्तं स धर्मं वेद नेतरः ॥ २०६ नैःश्रेयसमिदं कर्म यथोदितमशेषतः ।

मानवस्यास्य शास्त्रस्य रहस्यमुपदेक्ष्यते (दिश्यते ) ॥१०७ अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् ।

यं शिश ब्राह्मणा ब्रूयुः सः धर्मः स्यादशङ्कितः ॥१०८ धर्मेणाधिगतो यस्तु वेदः सपरिवृंहणः ।

ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ १०६

दशावरा वा परिषद्यं धर्मं परिकल्पयेत ।

[[1]]

व्यवरा वापि वृत्तस्था तं धर्म न विचालयेत् ॥११० त्रैविद्यो हेतुकस्तक नैरुक्तो धर्मपाठकः । त्रयश्वाश्रमिणः पूर्वे परिषत्स्यादशावरा ॥ १११

ऋग्वेदविद्यजुर्विश्व सामवेदविदेव च ।

व्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये ॥ ११२

[[२४८]]

मनुस्मृतिः ।

[ द्वादशो

एकोऽपि वेदविद्धर्मं यं व्यवस्येद्विजोत्तमः । स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः ॥११३ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिपत्वं न विद्यते ॥११४ यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः । तत्पापं शतधा भूत्वा तद्वक्तृननुगच्छति ॥ ११५ एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम् ।

अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ ११६ एवं स भगवान्देवो लोकानां हितकाम्यया । धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान् ॥११७ सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः ।

सर्व ह्यात्मनि संपश्यन्नाधर्मे कुमते मतिम् (मनः) ॥११८ आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् ।

आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥ ११६

खं सन्निवेशयेत् चेनस्पर्शनेऽनिलम् ।

पक्तियोः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥ १२० मनसीन्दु दिशः श्रोत्रे क्रान्ते विष्णु बले हरम् । वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥१२१ प्रशासितारं सर्वेषामणीयांसमणोरपि ।

रुक्मानं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥ १२२ एतमेके वदन्त्यग्निं ममुमन्ये प्रजापतिम् ।

इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥ १२३

ऽध्यायः ]

धर्मनिर्णय कर्तृकपुरुपवर्णनम् ।

एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः । जन्मवुद्धिभयैर्नित्यं संसारयति चक्रवत् ॥१२४ एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना । स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥१२५ इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्द्विजः । भवत्याचारवान्नित्यं यष्ठां प्राप्नुयाद्गतिम् ॥ १२६

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां द्वादशोऽध्यायः ॥

मनुस्मृतिः समाप्तपा ।

शुभं भवतु ।

[[२४६]]

11 21: 11