दक्षस्मृतिः

प्रथमोऽध्यायः ।

:४४

श्रीगणेशाय नमः ।

अथादौ - आश्रमवर्णनम् ।

सर्वधर्मार्थतत्त्वज्ञ सर्ववेदविदां वरः ।

पारगः सव्र्व्वविद्यानां दक्षो नाम प्रजापतिः ॥१ उत्पत्तिः प्रलयश्चैव स्थितिः संहार एव च ।

आत्मा चात्मनि तिष्ठेत आत्मा ब्रह्मण्यवस्थितः ॥२

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।

एतेषान्तु हितार्थाय दक्षः शास्त्रमकल्पयत् ॥३ जातमात्रः शिशुस्तावद्यावदष्टौ समा वयः । सहि गर्भसमो ज्ञेयोव्यक्तिमात्रप्रदर्शितः ॥४ भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानृते । तस्मिन् काले न दोषोऽस्ति स यावन्नोपनीयते ॥५

[[५७०]]

दक्षरमृतिः ।

[ प्रथमोऽ-

उपनीतस्य दोपोऽस्ति क्रियमाणैर्विगर्हितैः । अप्रामव्यवहारोऽसौ यावत् पोड़शवार्षिकः ॥ ६ स्वीकरोति यहा वेदं चरेद्वेदेवतानि च । ब्रह्मचारी भवेत्तावदृद्ध स्नातो भवेद्गृही ॥७ द्विविधोत्रह्मचारी तु स्मृतः शास्त्रे मनीपिभिः । उपकुर्वाणिकरत्वाद्योद्वितीयोनैष्ठिकः स्मृतः ॥८ योगृहाश्रममास्थाय ब्रह्मचारी भवेत् पुनः । न यतिर्न वनस्थश्च सश्रमविवर्जितः ॥ अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः । आश्रमेण विना तिष्ठन प्रायवित्तीयते हि सः ॥१० जपे होमे तथा दाने स्वाध्याये च रतस्तु यः । नासौ तत्फलमाप्नोति कुर्वाणोऽप्याश्रमाच्च्युतः । त्रयाणामानुष्यं हि प्रातिलोम्यं न विद्यते ॥ ११ प्रातिलोम्येन यो याति न तस्मान पापकृत्तमः । मेखलाजिनदण्डन ब्रह्मचारी तु लक्ष्यते ॥१२ गृहस्थो देवयज्ञाद्यैर्नखलोम्ना वनाश्रितः । त्रिदण्डेन यतिश्चंत्र लक्षणानि पृथक् पृथक् ॥ १३ यस्यैतलक्षणं नास्ति प्रायश्चित्ती नचाश्रमी । उक्त कर्म क्रमोनोक्तो न कालो मुनिभिः स्मृतः । द्विजानान्तु हितार्थाय दक्षस्तु स्वयमब्रवीत् ॥१४

इति दाक्षे धर्मशास्त्रे प्रथमोऽध्यायः ।

ध्यायः

ब्राह्ममुहूर्ता हिनयकत्यम् ।

[[५७१]]

अथ द्वितीयोऽध्यायः ।

प्रातरुत्थाय कर्त्तव्यं यद्दिजेन दिने दिने । तत्सर्वं संप्रवक्ष्यामि द्विजानामुपकारकम् ॥४ उदयास्तमयं यावन्न विप्रः क्षणिको भवन । नित्यनैमित्तिकर्मुक्तः काम्यैश्चान्यैरगर्हितैः ॥२ यः स्वकर्म परित्यज्य यदन्यत् कुरुते द्विजः । अज्ञानाद्यदिवा मोहात् स तेन पतितो भवेत् ॥३ दिवसस्याद्यभागे तु कृत्यं तम्योपदिश्यते । द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ॥४ षष्ठे च सप्तमे चैत्र अष्टमे च पृथक् पृथक् । विभागेष्वेषु यत्कर्म तत्प्रवक्ष्याम्यशेषतः ॥ उपः काले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत् । ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ॥६ अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येव दिवारात्रौ प्रातः स्नानं विशोधनम् ॥७ क्लियन्ति हि प्रसुतस्य इन्द्रियाणि स्त्रवन्ति च । अङ्गानि समतां यान्ति उत्तमान्यधर्मैः सह ॥ ८ नानास्वेदसमाकीर्णः शयनादुत्थितः पुमान् । अन्नात्वा नाचरेत्कर्म जपहोमादि किश्चन ॥६ प्रातरुत्थाय योविप्रः प्रातस्नायी भवेत् सदा । समस्तजन्मजं पापं त्रिभिर्वपव्यपोहति ॥ १०

[[२७२]]

दक्षस्मृतिः ।

[ द्वितीयोऽ-

उपस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ । प्राजापत्येन तत्तुल्यं महापातकनाशनम् ॥११ प्रातः स्नानं प्रशंसन्ति दृष्टादृकरं हि तत् । सर्वमर्हति पूतात्मा प्रातःस्नायी जपादिकम् ॥१२ स्नानादनन्तरं तावदुपस्पर्शनमुच्यते ।

अनेन तु विधानेन आचान्तः शुचिता मियात् ॥१३ प्रक्षाल्य पादौ हस्तौ च त्रिः पिवेदम्बु वीक्षितम् । संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम् ॥१४ संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् ।

ततः पादौ समभ्युक्ष्य अङ्गानि समुपस्पृशेत् ॥१५ अङ्गुष्टेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् । अङ्गुष्ठानामिकाभ्याञ्च चक्षुः श्रोत्रं पुनः पुनः ॥ १६ कनिष्ठाङ्गुष्ठया नाभि हृदयञ्च तलेन वै ।

[[1]]

सर्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् ॥१७ सन्ध्यायाश्च प्रभाते च मध्य च ततः पुनः । सन्ध्यां नोपासते यस्तु ब्राह्मणो हि विशेषतः ॥१८ स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते । सन्ध्याहीनोऽशुचिर्नित्यमनः सर्वकर्मसु ॥ १६ यदन्यत् कुरुते कर्म न तस्य फलमश्नुते ॥ सन्ध्याकर्मावसाने तु स्वयं होमोविधीयते ।

स्वयंहोमे फलं यस्तु तदन्येन न जायते ॥ २०.ध्यायः ]

वैदिककर्मवर्णनम् ।

ऋत्विक् पुत्रोगुरुर्भ्राता भागिनेयोऽथ विदूपतिः । एभिरेव हुतं यत्तु तद्व तं स्वयमेवहि ॥२१

देवकार्य ततः कृत्वा गुरुमङ्गलवीक्षणम् । देवकार्याणि पूर्वाह्न मनुष्याणाञ्च मध्यमे ॥ २२

Em

[[५७३]]

पितृणामपरा च काय्यण्येितानि यत्नतः । पौर्वाह्निकन्तु यत् कर्म यदि तत् सायमाचरेत ॥२३ न तस्य फलमाप्नोति वन्ध्यास्त्रीमैथुनं यथा । दिवसस्याद्यभागे तु सर्वमेतद्विधीयते ॥२४ द्वितीये च तथाभागे वेदाभ्यासोविधीयते । वेदाभ्यासोहि विप्राणां परमं तप उच्यते ॥२५

ब्रह्मयज्ञः स विज्ञेयः षड़ङ्गसहितस्तु सः । वेदस्त्रीकरणं पूर्व विचारोऽभ्यसनं जपः ॥ २६ ततोदानश्व शिष्येभ्यो वेदाभ्यासोहि पञ्चधा । समित्पुष्पकुशादीनां स कालः समुदाहृतः ॥ २७ तृतीये चैव भागे तु पोष्यवर्गार्थसाधनम् । पिता माता गुरुर्भाय्या प्रजादीनाः समाश्रिताः ॥ अभ्यागतोऽतिथिश्वान्यः पोष्यवर्ग उदाहृतः । ज्ञातिर्बन्धुजनः क्षीणस्तथानाथः समाश्रितः ॥२६ अन्येऽप्यधनयुक्ताश्च पोष्यवर्गउदाहृतः । भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ॥३० नरकं पीड़ने चास्य तस्माद्यत्नेन तं भरेत् ।

[[५७४]]

दक्षस्मृति ।

[ द्वितीयोऽ-

सार्वभौतिकमन्नाद्यं कर्त्तव्यन्तु विशेषतः । ज्ञानविद्भयः प्रदाव्यमन्यथा नरकं व्रजेत् ॥३१ स जीवति य एवैकोबहुभिश्चोपजीव्यते । जीवन्तामृतकाश्चाम्ये य आत्मम्भरयो नराः । वह जीव्यते कश्चित् कुटुम्बार्थे तथा परैः ॥३२ आत्मार्थेऽन्यो न शक्नोति स्वोदरेणापि दुःखितः । दीनानाथ विशिष्टेभ्योदातत्र्यं भूतिमिच्छता ॥३३

अदत्तदाना जायन्ते परभाग्योपजीविनः । यद्ददाति विशिष्टभ्यो यज्जुहोति दिने दिने ॥ ३४ तत्तु वित्तमहं मन्ये शेषं कस्यापि रक्षति । चतुर्थे च तथा भागे स्नानार्थ मृदमाहरेत् ॥ ३५ तिलपुष्पकुशादीनि स्नानञ्च कृत्रिम जले । नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते ॥३६ तेपां मध्ये तु यन्नित्यं तत्पुनर्भिद्यते त्रिधा । मलापहरणं पश्चान्मन्त्रवत्तु जलस्मृतम् ॥ ३७ सन्ध्यास्नानमुभाभ्याञ्च स्नानभेदाः प्रकीर्तिताः । मार्जनं जलमध्ये तु प्रणायामोयतस्ततः ॥ ३८ उपस्थानं ततः पश्चात् सावित्र्या जप उच्यते । सविता देवता यस्या मुखमग्निस्त्रिधास्थितः ॥३६ विश्वामित्रऋषिश्छन्दोगायत्री सा विशिष्यते । पवमे च तथाभागे सम्बिभागोयथाईतः ॥४०

ध्यायः ]

गृहस्थाश्रमगुणवर्णनम् ।

पितृदेवमनुष्याणां कीटानापदिश्यते । देवैश्चैव मनुष्यैश्च तिर्य्यग्भिश्वोपजीव्यते ॥४१ गृहस्थः प्रत्यहं यस्मात्तस्माज्ज्येष्ठाश्रमीगृही । त्रयाणामाश्रमाणान्तु गृहस्थो योनिरुच्यते ॥४२ तेनैव सीदमानेन सीदन्तीहेतरे त्रयः ।

[[५७५]]

मूलप्राणो भवेत् स्कन्दः स्कान्दाच्छाखाः सपल्लवाः ॥४३

मूलेनैव विनेन सर्वमेतद्विनश्यति ।

तस्मात् सर्वप्रयत्नेन रक्षितव्यो गृहाश्रमी ॥४४ राज्ञा चान्यैस्त्रिभिः पूज्यां माननीयश्च सर्वदा । गृहस्थोऽपि क्रियायुक्तो न गृहेण गृहाश्रमी ॥४५ न चैव पुत्रदारेण स्वकर्मपरिवर्जितः ।

अस्नात्वा चाप्यहुत्वा चाजात्वाऽदत्त्वा च मानवः ॥ ४६ देवादीना मृणी भूत्वा नरकं प्रतिपद्यते । एक एव हि भुङ्क्तेऽन्नमपरोऽन्नन भुज्यते ॥४७ न भुज्यते स एवैको योभुङ्क्तेऽन्नं ससाक्षिणा । दिभागशीलो योनित्यं क्षमायुक्तोदयापरः ॥४८ देवतातिथिभक्तश्च गृहस्थः स तु धार्मिकः । दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः कृतज्ञता ॥ ४६ एते यस्य गुणाः सन्ति स गृही मुख्य उच्यते । सम्विभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् ॥५० भुक्ता तु सुखमास्थाय तदन्न परिणामयेत् । इतिहासपुराणाद्यैः षष्ठश्च सप्तमं नयेत् ॥ ५१

[[५७६]]

दक्षस्मृतिः ।

[ तृतीयोऽ-

अमे लोकयात्रा तु वहिःसन्ध्या ततः पुनः । होमो भोजनकञ्चैव यच्चान्यद्गृहकृत्यकम् ॥५२ कृत्वा चैवं ततः पश्चात् स्वाध्यायं किविदाहरेत् । प्रदोपपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत ॥ ५३ यामद्रयं शयानोहि ब्रह्मभूयाय कल्पते । नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ॥५४ तथा तथैव काय्र्याणि न कालस्तु विधीयते । अस्मिन्नेव प्रयुञ्जानो ह्यस्मिन्नेव तु लीयते ॥ ५५ तस्मात् सर्वप्रयत्नेन कर्त्तव्यं सुखमिच्छता । सर्वत्र मध्यमौ यामौ हुतशेषं हविश्च यत् । भुञ्जानश्च शयानश्च ब्राह्मणो नावसीदति ॥५६

इति दाक्षे धमशास्त्रे द्वितीयोऽध्यायः ॥

::

॥ अथ तृतीयोऽध्यायः ॥

गृहस्थाश्रमवर्णनम् ।

सुधा नवग्रहस्थस्य सद्वयामि नवैव तु । तथैव नव कर्माणि विकर्माणि तथा नव ॥ १ प्रच्छन्नानि नवान्यानि प्रकाश्यानि तथा नव । सफलानि नवान्यानि निष्फलानि नवैव तु ॥२ अदेयानि नवान्यानि वस्तुजातानि सर्वदा । नवका नव निर्दिष्टा गृहस्थोन्नतिकारकाः ॥ ३

ध्यायः ]

गृहस्थाश्रमवर्णनम् ।

सुधावस्तूनि वक्ष्यामि विशिष्ट गृहमागते । मनश्चक्षुर्मुखं वाचं सौम्यं दद्याच्चतुष्टयम् ॥४ अभ्युत्थानमिहागच्छ पृच्छालापप्रियान्वितः । उपासन मनुत्रज्या कार्याण्येतानि यत्नतः ॥ ५ ईपदानानि चान्यानि भूमिरापस्तृणानि च । पादशौचं तथाभ्यङ्गमाश्रयः शयनन्तथा ॥ ६ किञ्चिचान्न यथाशक्ति नास्यानश्नन् गृहे वसेत् । मृज्जलं चार्थिने देय मेतान्यपि सदा गृहे ॥७ सन्ध्यास्नानं जपोहोमः स्वाध्यायो देवतार्चनम् । वैश्वदेवं तथातिथ्यमुद्धृतञ्चापि शक्तितः ॥ ८ पितृदेवमनुष्याणां दीनानाथ तपस्विनाम् । मातापितृगुरूणाश्च संविभागोयथार्हतः ॥ एतानि नव कर्माणि विकर्माणि तथा पुनः । अनृतं पारदार्य्यञ्च तथाभक्ष्यस्य भक्षणम् ॥१० अगम्यागमनापेयपा : स्तेयश्च हिंसनम । अश्रौतकर्माचरणं मित्रधर्मवहिष्कृतम् ॥११ नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत् । आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुन भेषजम् ॥१२ तपोदानावमानौ च नव गोष्यानि यत्नतः । प्रायोग्यमृणशुद्धिश्च दानाध्ययनविक्रयाः ॥१३ कन्यादानं वृषोत्सर्गो रहः पापमकुत्सनम् । प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तथा ॥१४

[[३७]]

[[५७७]]

[[५७८]]

दक्षस्मृतिः ।

[ तृतीयोऽ-

मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि । दीनानाथ विशिष्टेभ्योदत्तन्तु सफलं भवेत् ॥१५ धूर्ते वन्दिनि मन्दे च कुवैये कितवे शठे । चाटुचारणचौरभ्योदत्तं भवति निष्फलम् ॥१६ सामान्यं याचितं न्यास आधिर्दाराश्च तद्धनम् । क्रमायातव्च निक्षेपः सर्वस्वञ्चान्वये सति ॥१७ आपत्स्वपि न देयानि नव वस्तूनि सर्वदा । यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥ १८ नवनवकवेत्तारमनुष्ठानपरं नरम् ।

इह लोके परे च श्रीः स्वर्गस्थञ्च न मुञ्चति ॥ १६ यथैवात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता । सुखदुःखानि तुल्यानि यथात्मनि तथा परे ॥२० सुखं वा यदि वा दुःखं यत्किञ्चित् क्रियते परे । ततस्तत्तु पुनः पश्चात् सर्वमात्मनि जायते ॥ २१ न क्लेशेन विना द्रव्यं द्रव्यहोने कुतः क्रिया । क्रियाहीने न धर्मः स्याद्धर्महीने कुतः सुखम् ॥२२ सुखं वाञ्छन्ति सर्वे हि तच धर्मसमुद्भवम् । तस्माद्धर्मः सदा कार्य्यः सर्ववर्णैः प्रयत्नतः ॥ २३ न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम । दान विधिना देयं काले पात्रे गुणान्विते ॥२४ समद्विगुणसाहस्रमानन्त्यञ्च यथाक्रमम् ।

दाने फलविशेषः स्याद्धिंसायां तावदेव तु ॥२५

ध्यायः ]

दानफलवर्णनम् ।

सममब्राह्मणे दानं द्विगुणं ब्राह्मणत्रुवे ।

सहस्रगुणमाचार्ये त्वनन्तं वेदपारगे ॥२६ विधिहीने तथा पात्रे यो ददाति प्रतिग्रहम् । न केवलं तद्विनश्येच्यंषमप्यस्य नश्यति ॥ २७ व्यसनप्रतिकाराय कुटुम्वार्थञ्च याचते । एवमन्विष्य दातव्यमन्यथा न फलं भवेत् ॥२८ मातापितृविहीनन्तु संस्कारोद्वहनादिभिः ।

यः स्थापयति तस्येह पुण्यसंख्या न विद्यते ॥३० न तच्छं योऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते । यच्छेयः प्राप्यते पुंसा विप्रेण स्थापितेन तु ॥ ३१ यद्यदिष्टतमं लोके यच्चापि दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥३२

इति दाक्षे धर्मशास्त्रे तृतीयोऽध्यायः ॥

-**

५७ह

॥ अथ चतुर्थोऽध्यायः ॥

पत्नीमूलं गृहं पुंसां यदि च्छन्दोऽनुवर्तिनी । गृहाश्रमसमं नास्ति यदि भार्य्या वशानुगा ॥ १ तया धर्मार्थकामानां त्रिवर्गफलमश्नुते ।

प्राकाम्ये वर्त्तमाना तु स्नेहान्नतु निवारिता ॥२

[[५८०]]

दक्षस्मृतिः ।

[ चतुर्थोऽ-

अवश्या सा भवेत् पश्चाद् यथा व्याधिरुपेक्षितः । अनुकूला नवाग्दुष्टा दक्षा साध्वी प्रियम्बदा ॥३ अत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी ॥४ अनुकूलकलत्रय स्तस्य स्वर्ग इहैव हि । प्रतिकूलकलत्रम्य नरको नात्र संशयः ॥ ५

स्वर्गेऽपि दुर्लभं ह्येतदनुरागः परस्परम् । रक्त एको विरक्तोऽन्यस्तम्मान कलतरं नु किम् ॥६ गृहवासः सुखार्थाय पत्नीमूलं गृहे सुखम् । सा पत्नी या विनीता स्याचितज्ञा वशवर्त्तिनी ॥७

दुःखा धन्या सदा खिन्ना चित्तभेदः परस्परम् । प्रतिकूलकलत्रस्य द्विद्वारस्य विशेषतः ॥८ योपित्सर्वा जलौकेव भूषणाच्छादनाशनैः । सुभूत्यापि कृता नित्यं पुरुषं ह्यपकर्षति ॥६ जलौका रक्तमादत्ते केवलं सा तपस्विनी । इतरा तु धनं वित्त मांसं वीयं बलं सुखम् ॥१० सशङ्का वालभावे तु यौवने विमुखी भवेत् । तृणवन्मन्यते पश्चावृद्धभावे स्वकं पतिम् ॥११ अनुकूला नवाग्दुष्टा दक्षा साध्वी पतिव्रता । एभिरेव गुणैर्युक्ता श्रीरेव स्त्री न संशयः ॥ १२ या हृष्टमनसा नित्यं स्थानमानविचक्षणा ।

भत्तुः

प्रीतिकरी नित्यं सा भार्या हीतरा जरा ॥ १३

‘ध्यायः ]

स्त्रीधर्मवर्णनम् ।

[[५८१]]

शिष्योभाय्र्या शिशुर्भ्राता पुत्रो दासः समाश्रितः । यस्येतानि विनीतानि तस्य लोके हि गौरवम ॥१४ प्रथमा धर्मपत्नी च द्वितीया रतित्रद्धिनी । दृष्टमेव फलं तत्र नादृष्टमुपजायते ॥१५ धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत् । दोपे सति न दोषः स्यादन्या भार्या गुणान्विता ॥ १६ अापतितां भाय्य यौवने यः परित्यजेत् ।

स जीवनान्ते स्त्रीत्वञ्च वन्ध्यत्वञ्च समाप्नुयान् ॥१७ दरिद्र व्याधितं चैव भर्त्तारं यावमन्यते ।

शुनी गृध्री च मकरी जायते सा पुनः पुनः ॥१८ मृते भर्तरि या नारी समारोहेधुताशनम् । सा भवेत्तु शुभाचारा स्वर्गलोके महीयते ॥ १६ व्यालग्राही यथा व्यालं बलादुद्धरते विलान । तथा सा पतिमुद्धृत्य तेनैव सह मोदते ॥२० चाण्डालप्रत्यवसितपरिव्राजकतापसाः ।

तेषां जातान्यपत्यानि चाण्डालैः सह वासयेत् ॥२१

इति दाक्षे धर्मशास्त्रे चतुर्थोऽध्यायः ॥

[[५८२]]

दक्षस्मृतिः ।

॥ अथ पश्चमोऽध्यायः ॥

[ पञ्चमोऽ-

उक्तं शौचमशौचञ्च काय्यं त्यज्यं मनीषिभिः । विशेषार्थ तयोः किञ्चिद्वक्ष्यामि हितकाम्यया ॥१ शौचे यत्नः सदाकाय्र्यः शौचमूलोद्विजः स्मृतः । शौचाचारविहीनस्य समस्त निष्फलाः क्रियाः ॥२ शौचश्च द्विविधं प्रोक्तं वाह्यमाभ्यन्तरन्तथा । मृज्जलाभ्यां स्मृतं वाह्यं भावशुद्धिस्तथान्तरम् ॥३ अशौचाद्धि वरं वाह्यं तस्मादाभ्यन्तरं वरम् । उभाभ्याञ्च शुचिर्यम्तु स शुचिर्नेतरः शुचिः ॥४ एका लिङ्ग गुदे तिम्रोदश वामकरे तथा । उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ॥५ गृहस्थशौचमाख्यातं त्रिष्वन्येषु यथाक्रमम् । द्विगुणं त्रिगुणञ्चैव चतुर्थस्य चतुर्गुणम ॥६ अर्द्धप्रसृतिमात्रन्तु प्रथमा मृत्तिका स्मृता । द्वितीया च तृतीया च तदर्द्ध परिकीर्तिता ॥ ७ लिङ्गेऽप्यत्र समाख्याता त्रिपर्वी पूर्यते यया । एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम ॥८ त्रिगुणन्तु वनस्थानां यतीनाञ्च चतुर्गुणम् । दातव्यमुदकन्तावन्मृदभावोयथा भवेत् ॥६

मृदा जलेन शुद्धिः स्यान्नक्लेशो न धनव्ययः ।

यस्य शौचेऽपि शैथिल्यं चित्तं तस्य परीक्षितम् ॥१०ध्यायः ]

अशौचवर्णनम् ।

अन्यदेव दिवाशौचं रात्रावन्यद्विधीयते । अन्यदापत्सु विप्राणामन्यदेव ह्यनापदि ॥११ दिवोदितस्य शौचस्य रात्रावर्द्ध विधीयते । तदर्द्ध मातुरस्याहुस्त्वरायामर्द्ध मध्वनि ॥१२ न्यूनाधिकं न कतव्यं शौचे शुद्धिमभीप्सिता । प्रायश्चित्तंन युज्येत विहितातिक्रमे कृते ॥ १३

इति दाक्षे धर्मशास्त्रं पञ्चमोऽध्यायः ॥

॥ अथ पष्ठोऽध्यायः ॥

सूतकं तु प्रवक्ष्यामि जन्ममृत्युसमुद्भवम् । यावज्जीवं तृतीयन्तु यथावदनुपूर्वशः ॥ १ सद्यः शौचं तयैकाहोद्वित्रिचतुरहस्तथा । दशाहो द्वादशाहच पक्षोमासस्तथैव च ॥ मरणान्तं तथा चान्यद्दशपक्षन्तु सूतके । उपन्यस्तक्रमेणैव वक्ष्याम्यहमशेषतः ॥ ३ प्रन्थार्थ यो विजानाति वेदमङ्गैः समन्वितम् । सकल्पं सरहस्यञ्च क्रियावांश्चेन्न सूतकी ॥४ राजविंग्दीक्षितानाच बाले देशान्तरे तथा । प्रतिनां सत्रिणाचैव सद्यः शौचं विधीयते ॥ ५

[[५८३]]

[[५८४]]

दक्षस्मृितिः ।

[ षष्ठोऽ-

एकाहस्तु समाख्यातो योऽग्निवेदसमन्वितः । हीने हीनतरेचैव द्वित्रिचतुरहस्तथा ॥ ३ जातिविप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्य पचदशाहेन शूद्रो मासेन शुद्धयति ॥ ७ अस्नात्वा चाप्यहुत्वा च भुङ्क्तेऽदत्वा च यः पुनः । एवं विधस्य सर्वस्य सूतकं समुदाहृतम् । व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा । क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥८ व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः । श्रद्धात्यागविहीनस्य भस्मान्तं सूतकं भवेन् ॥६ न सूतकं कदाचित स्याद्यावज्जीवन्तु सूतकम् । एवं गुणविशेषेण सूतकं समुदाहृतम् ॥१० सूतके मृटके चैव तथा च मृतसूतके । एतत्संहत शौचानां मृतशौचेन शुद्धयति ॥११ दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते । दशाहात्तु परं शौचं विप्रोति च धर्मवित् ॥१२ दानश्च विधिना देयं अशुभात्तारकं हि तत् । मृतकान्ते मृतो यस्तु सूतकान्ते च सूतकम् ॥१३ एतत्संहतशौचानां पूर्वाशौचेन शुद्धयति । उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ॥१४ चतुर्थेऽहनि कर्तव्यमस्थि सञ्चयनं द्विजैः । ततः सञ्चयनादूर्द्ध मङ्गस्पर्शो विधीयते ॥१५

ध्यायः ]

अशौचवर्णनम् ।

वर्णानामानुलोम्येन स्त्रीणामेकोयदा पतिः । दशपट्यहमेकाहः प्रसवे सूतकं भवेत ॥१६ यज्ञकाले विवाहे च देशभङ्ग तथैव च । हूयमाने तथाग्नौ च नाशौचं मृतसूतके ॥१७ स्वस्थकाले त्विदं सर्वमशौचं परिकीर्तितम । आपद्गतस्य सर्वस्य सूतके नतु सूतकम् ॥१८

sa दाक्षे धर्मशास्त्रं षष्ठोऽध्यायः ॥

-::

॥ अथ सप्तमोऽध्यायः ॥

लोको वशीकृतो येन येन चात्मा बशीकृतः । इन्द्रियार्थो जितो येन तं योगं प्रत्रवीम्यहम् ॥१

प्राणायामस्तथा ध्यानं प्रत्याहारस्तु धारणा । तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ २ नारण्यसेवनाद्योगो नानेकग्रन्थचिन्तनात् ।

तैयज्ञैस्तपोभिश्च न योगः कस्यचिद्भवेत् ॥३ नच पथ्याशनाद्योगो न नासाप्रनिरीक्षणात् । नच शास्त्रातिरिक्तेन शौचेन स भवेत कचित ॥४ न मौनमन्त्रकुहकैरनेकैः सुकृतस्तथा ।

लोकयात्रावियुक्तस्य योगो भवति कस्यचित् ॥५

[[५८५]]

[[५८६]]

दक्षस्मृतिः ।

अभियोगात्तथाभ्यासात्तस्मिन्नेव तु निश्चयात् ।

[ सप्तमोऽ-

पुनः पुनश्च निर्वेदाद्योगः सिद्धयति नान्यथा ॥६ आत्मचिन्ताविनोदेन शौचक्रीड़नकेन च । सर्व्वभूतसमयेन योगः सिध्यति नान्यथा ॥७ यश्चात्मनि स्तोनित्यमात्मक्रीडस्तथैव च । आत्मनिष्ठश्च सततमात्मन्येव स्वभावतः ॥८ रतश्चैव स्वयं तुष्टः सन्तु नान्यमानसः । आत्मन्येव सुप्तोऽसौ योगन्तस्य प्रसिद्ध्यति ॥ सुतोऽपि योगयुक्तः स्याजायचापि विशेपतः । ईक्वेष्टः स्मृतः श्रेष्ठो गरिष्ठो ब्रह्मवादिनाम् ॥१० य आत्मव्यतिरेकेण द्वितीयं नैव पश्यति । ब्रह्मीभूय स एवं हि दक्षपक्ष उदाहृतः ॥ ११ विषयासक्तचि तोहि यतिर्माक्षं न विन्दति । यत्नेन विषयासक्तिं तम्माद्योगी विवजयेत् ॥१२ विषयेन्द्रियसंयोगः केचिद्योगं वदन्ति हि । अधर्मो धर्मरूपेण गृहीतन्तेर पण्डितः ॥१३ मनसश्चात्मनश्चैव संयोग तथापरे । उक्तनामधिका ह्येते केवलं योगवञ्चिताः ॥१४

वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञ परमात्मनि ।

एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते ॥ १५

कषायमोह विक्षेपलज्जाशङ्कादिचेतसः ।

व्यापारास्तु समाख्यातास्तान् जित्वा वशमानयेत् ॥ १६३

ध्यायः ]

समाधियोगवर्णनम् ।

[[५८]]

कुटुम्बैः पञ्चभिर्ग्राम्यैः षष्ठस्तत्र महत्तरः । देवासुरमनुष्यस्तु स जेतुं नैव शक्यते ॥१७ वलेन परराष्ट्राणि गृह्णन शृरस्तु नोच्यते । जितो येनेन्द्रियग्रामः स शूरः कथ्यते बुधैः ॥१८ वहिर्मुग्वानि सर्वाणि कृत्वा चाभिमुखानि वै । सर्वञ्चवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥१६ सर्वभावविनिमुक्तः क्षेत्रज्ञ ब्रह्मणि न्यसेत् । एतद्ध्यानश्च योगश्च शेपाः स्युग्रन्थविस्तराः ॥२० त्यक्ता विषयभोगांश्च मनोनिश्चलतां गतम् । आत्मशक्तिस्वरूपेण समाधिः परिकीर्त्तितः ॥२१ चतूर्णा सन्निकर्षेण पदं यत्तदशाश्वतम् । द्वयोस्तु सन्निकर्षेण शाश्वतं ध्रुवमक्षयम् ॥२२ यन्नास्ति सर्व्वलोकस्य तदस्तीति विरुद्धयते । कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ॥ २३ स्वसम्वेद्यं हि तद्ब्रह्म कुमारीमैथुनं यथा । अयोगी नैव जानाति जातान्वोहि यथा घटम् ॥२४

नित्याभ्यसनशीलस्य सुसंबंधं हि तद्भवेत । तत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम् ॥२५ बुधस्त्वाभरणं भावं मनसालोचनं यथा । मन्यते स्त्री च मूखश्च तदेव बहुमन्यते ॥२६ सत्त्वोत्कटाः सुराश्चापि विप्रयेण वशीकृताः । प्रमादिभिः क्षुद्रसत्वैर्मानुषैरत्र का कथा ॥२७

[[८८]]

दक्षस्मृतिः ।

[ सप्तमोऽ-

तस्मात्त्यक्तकषायेण कर्त्तव्यं दण्डधारणम् । इतरस्तु न शक्नोति विषयैरभिभूयते ॥ २८ न स्थिरं क्षणमप्येकमुदकं हि यथोर्मिभिः ! वाताहतं तथा चित्तं तस्मात्तस्य न विश्वसेत् ॥२६ त्रिदण्डव्यपदेशेन जीवन्ति बहवो नराः ।

योहि ब्रह्म न जानाति न त्रिदण्डाई एव सः ॥३० ब्रह्मचय्य सदा रक्षेदप्रधा मैथुनं पृथक् ।

स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥३१ सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च । एतन्मैथुनमा प्रवदन्ति मनीषिणः ॥३२ न ध्यातव्यं न वक्तव्यं न कर्त्तव्यं कदाचन । एतैः सर्वैः सुसम्पन्नो यतिर्भवति नेतरः ॥३३ पारिव्रज्यं गृहीत्वा च योधर्मे नावतिष्ठते । श्रपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ॥ ३४ एकोभिक्षुर्यथोक्तस्तु द्वौ चैव मिथुनं स्मृतम् । त्रयो ग्रामस्तथा ख्यात ऊर्द्धन्तु नगरायते ॥ ३५ नगरं हि म कर्त्तव्यं ग्रामोवा मिथुनं तथा । एतत्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः ॥ ३६ राजवार्त्तादि तेषान्तु भिक्षावार्त्ता परस्परम । स्नेहशून्यमात्सर्य्यं सन्निकर्षादसंशयम् ॥३७ लाभपूजानिमित्तं हि व्याख्यानं शिष्यसंग्रहः । एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम् ॥३८

ध्यायः ]

संन्यासवर्णनम् ।

ध्यानं शौचं तथा भिक्षा नित्यमेकान्तशीलता । भिक्षोश्चत्वारि कर्माणि पञ्चमो नोपपद्यते ॥ ३६ तपोजपैः कृशीभूतोव्याधितोऽवसथावहः । वृद्धोग्रहगृहीतश्च यश्चान्योविकलेन्द्रियः ॥४० नीरुजश्च युवा चैव भिक्षुर्नावसथावहः । स दूपयति तत्स्थानं बुधान् पीडयतीति च ॥४१ नीरुजश्च युवा चैव ब्रह्मचर्याद्विनश्यति । ब्रह्मचर्य्याद्विनष्टस्तु कुलञ्चैव तु नाशयेत् ॥४२ वसन्नावसथे भिक्षुमैथुनं यदि सेवते ।

[[५८६]]

तस्यावसथनाथस्य मूलान्यपि निकृन्तति ॥४३ आश्रमे तु यतिर्यम्य मुहूर्तमपि विश्रमेत् । किन्तस्यान्येन धर्मेण कृतकृत्योऽभिजायते ॥४४ समितं यद्गृहस्थेन पापमामरणान्तिकम् । स निर्दहति तत् सर्व्वमेकत्रोषितोयतिः ॥४५ योगाश्रमपरिश्रान्तं यस्तु भोजयते यतिम् । निखिलं भोजितं तेन त्रैलोक्यं सचराचरम् ॥ ४६ यस्मिन् देशे वसेद्योगी ध्यानयोगविचक्षणः । सोऽपि देशो भवेत् पूतः किंपुनस्तस्य वान्धवाः ॥ ४७ द्वैतचैव तथाद्वैत द्वैताद्वैतं तथैव च ।

न द्वैतं नापि चाद्वैतमित्येतत् परमार्थिकम् ॥ ४८ नाहं नैवान्यसम्बन्धो ब्रह्मभावेन भावितः । ईदृशायामवस्थायामवाप्यं परमं पदम् ॥४६

[[५६०]]

दक्षस्मृतिः ।

[ सप्तमोऽ

दूतपक्षाः समाख्याता येते तु व्यवस्थिताः । अतिनां प्रवक्ष्यामि यथा धर्मः सुनिश्चितः ॥५० तत्रात्मव्यतिरेकेण द्वितीयं यदि पश्यति ।

ततः शास्त्राण्यधीयन्ते श्रूयन्ते ग्रन्थसञ्चयाः ॥ ५१ दक्षशास्त्रं यथा प्रोक्तमशेषाश्रममुत्तमम् । अधीयन्ते तु ये विप्रास्ते यान्त्यमरलोकताम ॥५२ इदन्तु यः पठेद्भक्त्या शृणुयादधमोऽपिवा । स पुत्रपौत्रपशुमान् कीर्त्तिञ्च समवाप्नुयात् ॥ ५३ श्रावयित्वा त्विदं श्राखं श्राद्धकालेऽपिवा द्विजः । अक्षयं भवति श्राद्ध पितृभ्यश्चोपजायते ॥५४

इति दाक्षे धर्मशास्त्रे सप्तमोऽध्यायः ।

समामा चेयं दक्षस्मृतिः ।

॥ शुभम् ॥

11 3727 ॥