अत्रिस्मृतिः

श्रीगणेशाय नमः ।

अज्ञानतिमिरान्धस्य वृतेनानेन केशव । प्रसीद सुमुखो नाथ ! ज्ञानदृष्टिप्रदो भव ॥ १ हुताग्निहोत्रमासीन मत्रिं श्रुतवतां वरम् । उपगम्य च पृच्छन्ति पयः शंसितव्रताः ॥२ भगवन! केन दानेन जपेन नियमेन च । शुध्यन्ते पातकैर्युक्ता स्तं ब्रवीषि महामुने ! ॥३ अपिख्यापितदोषाणां पापानां महतां तथा । सर्वेषां चोपपातानां शुद्धिं वक्ष्यामि तत्वतः ॥४ प्राणायामः पवित्रैश्च दानैहर्ज स्तथा ।

शुद्धिकामाः प्रमुच्यन्ते (पापेभ्यश्च द्विजर्षभाः) पावकेभ्यो न संशय

प्राणायामान् पवित्रांश्च व्याहृतीः प्रणवन्तथा । पवित्रपाणिरासीनोऽभ्यस्य ब्रह्म नैत्यकम् ॥६

आवर्त्तयेत्सदायुक्तः (विप्रः) प्राणायामान् पुनः पुनः । आकेशाप्रादानखान्तात्तपस्तप्यत उत्तमम् ॥७

(त्वक्चर्ममांसमविरमेदोमज्जास्थिभिः कृताः ।

तथेन्द्रियकृता दोषाः दह्यन्ते प्राणनिग्रहात् ॥ )

प्रथमोऽध्यायः ।

निरोधाज्जायते वायुर्वायोरभिर्हि जायते ।

  • ३३७

तापेनापो हि जायन्ते ततोऽन्तः शुध्यते त्रिभिः ॥८ तथा चर्म तथानङ्गा दोषा अभ्यर्ति धर्मतः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥६ प्राणायामैर्दहेत् दोषाद्धारणाभिश्च किल्विषम् । प्रत्याहारेण विषयान्ध्यानेनानैश्वरान् गुणान् ॥१० न च तीव्रेण तपसा न स्वाध्यायैर्नचेज्यया । मति ( गतिं गन्तुं सुराः (द्विजाः) शक्ता योगात्संप्राप्नुवन्तियाम्। योगात्सम्प्राप्यते ज्ञानं योगाद्धर्मस्य लक्षणम् । योगः परं तपो नित्यं तस्माद्युक्तः सदा भवेत् ॥ १२ प्रणवाद्या स्तथा वेदाः प्रणवे पर्यवस्थिताः । वाङ्मयः प्रणवं सर्वं तस्मात्प्रणवमभ्यसेत् ॥१३ प्रणवे विनियुक्तस्य व्याहृतीषु च सप्तसु । त्रिपदायां च गायत्र्यां न भयं विद्यते कचित् ॥१४

एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।

ब्रह्माणी चैव गायत्री पावनं परमं ( त्रयम) स्मृतम् ॥१५ समाहृतीकां (सव्याहृतिकां) सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतः प्राणः प्राणायामः स उच्यते ॥१६

इत्यात्रेयस्मृत्यां प्रथयोऽध्यायः ॥

:::-

[[२२]]

‘३३८

अत्रिस्मृतिः ।

॥ अथ द्वितीयोऽध्यायः ॥

प्राणायामां (स्तु) स्तथा (यः) कुर्याद्यथाविधिरतन्द्रितः । अहोरात्रिकृतात्पापात्तत्क्षणादेव शुध्यति ॥१ कर्मणा मनसा वाचा यदेनः कुरुते निशि । अतिष्ठत् पूर्वसन्ध्यायां प्राणायामैस्तु शुध्यति ॥ २ प्राणायामैर्य (खं) आत्मानं संयम्यास्ते पुनः पुनः । दशद्वादशभिर्वापि चतुर्विंशात्परं तपः ॥ ३ कौत्सं जप्त्वाप इत्येतद्वासिष्ठ च तृचं प्रति । कुष्माण्डं पावमानं च सुरापोऽपि विशुद्धति ॥४ सकृज्जप्त्वास्य पानीयं (वामीयं) शिवसङ्कल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥५ हविष्मांस्तु यमभ्यस्य न तमंह (भ) इतीव च । सूक्तं तु पौरुषं जप्त्वा मुच्यते गुरुतल्पगः ॥ ६ सव्याहृतीकाः सप्रणवाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ॥ ७ अपि वाप्सु निमज्जन्वा त्रिः पठेदघमर्षणम् । यथाश्वमेधः क्रतुराट् तादृशं मनुरब्रवीत् ॥८ आरम्भयज्ञः क्षत्रस्य हविर्यज्ञो विशामपि । परिचर्ययज्ञः शूद्रस्तु जपयज्ञो द्विजोत्तमः ॥६ आरम्भयज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।

उपांशु स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥ १०

द्वितीयोऽध्यायः ।

उपांशुस्तुचलजिह्वानांदशनच्छद ईरितः ।

अधरोष्ठविभागो वा विश्वासोपांशुलक्षणः ।

निर्विकारेण वक्रेण मनसा मानसः स्मृतः ॥ ११ सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्रीं यः पठेद्विप्रो न स पापेन लिप्यते ॥ १२ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । वित्तेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥१३ यथाश्वा रथहीनास्तु रथो वाश्वैर्यथा विना । एवं तपोऽप्यविद्यस्य विद्या वाप्यतपस्विनः ॥१४ यथानं मधुसंयुक्तं मधु वान्येन संयुतम् । एवं तपश्च विद्या च संयुक्तं भेषजं महत् ॥१५ विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपतत्परम् । कुत्सितैरपि वर्त्तन्तमेनो न प्रतिपद्यते ॥ १६

इति आत्रेयस्मृतौ द्वितीयोऽध्यायः ।

यस्य (अथा) कार्यशतं सायं कृतं वेदश्व साध्यते । सर्वं तत्तस्य (

हिनस्ति) वेदाग्निर्दहत्यग्निरिवेन्धनम् ॥१ यथा जातबलो वाग्निर्दहत्यार्द्रानपि द्रुमान् । तथा दहन्ति वेदज्ञाः कर्मजन्दोषमात्मनः ॥२ यथा महाद्ददे लोष्टं क्षिप्त (अप्सु) सर्व विनश्यति । एवमात्मकृतं पापं त्रयी दहति देहिनः ॥३

[[३३६]]

[[३४०]]

अत्रिस्मृतिः ।

न वेदबलमाश्रित्य पापकर्म रति (रतो ) र्भवेत् ।

अज्ञानाश्च प्रमादान दह्यते कर्म नेतरत् ॥४ तपस्तपति योऽरण्ये मुनिर्मूलफलाशनः ।

ऋचमेकाश्च योऽधीते तच तच्छ) तानि च तत्फलम् ॥५ वेदाभ्यासो ( Sन्वहं ) यथाशक्त्या महायज्ञक्रियाक्षमाः । नाशयन्त्याशु पापानि महापातकजान्यपि ॥६ इतिहासपुराणाभ्यां वेदं समुपवृहयेत् । विभेत्यल्पश्रुताद्वेदान्मामयं प्रतरिष्यति ॥ ७

याजनाध्यापनाद्दानात्तथैवाहुः प्रतिग्रहात् ।

विप्रेषु न भवेद्दोषो ज्वलनार्कसमा (द्विजाः) हिते ॥ ८ शङ्कास्थाने समुत्पन्नं भक्ष्यभोज्यप्रतिग्रहे । आहारशुद्धि वक्ष्यामि तन्मे निगदतः शृणु ॥ सर्ववेदपवित्राणि वक्ष्याम्यह मतः परम् ।

येषांज पैश्च होमेश्व शुध्यन्तिम लिनाजनाः) तिलकल्पश्वसंत्रता ।१० अघमर्षणं वेदवतं (देवत्रतं ) शुद्धवत्यः शरत्समाः ।

कुष्माण्ड : पावमानश्च दुर्गा सावित्रिरेव च ॥ ११ शतरुद्रं (थर्वशिरशं) धर्मशिरं त्रिसुपर्ण महाव्रतम् । अनिषङ्गादयस्तो भासामानि व्याहृति स्तथा ॥ १२ ( अतिष्ठन् गाः पदस्तोमाः सामनि व्याहृतिस्तथा ) गारुडानि च सामानि गायत्री रैवतं तथा पुरुषव्रतश्च भावश्च तथा वेदकृतानि च ॥१३ अव्लिङ्गा वार्हस्पत्यं च वाक्सूक्तञ्चामृतं (बुर्व) तथा । गोसूक्तश्वाश्वसूक्तञ्च इन्द्रशुद्ध व सामनि ॥ १४

तृतीयोऽध्यायः ।

[[३४१]]

त्रीण्याज्यदोहानि रथन्तरञ्च - अग्नेव तं वामदेव्यं वृहश्च । एतानिजप्यानिपुनातिपापाज्जातिस्मरत्वंलभते यदिच्छेत् ॥१५ अग्नेरपत्यं प्रथमं हिरण्यं भूर्वेष्णवी सूर्यसुताच गावः । लोकाम्त्रयस्ते न भवन्तिदत्ताः यः काञ्चनङ्गाश्वमहीश्वदद्यात् ॥ सर्वेषामेव दानानामेकजन्मानुगं फलम् ।

हाटकक्षितिधेनूनां सप्तजन्मानुगं फलम् ॥१७ सर्वकामफला वृक्षा नद्यः पायसकर्दमाः ।

काञ्चना यत्र प्रासादा स्तत्र गच्छन्ति गोप्रदाः ॥ १८ वैशाख्यां पौर्णमास्यान्तु ब्राह्मणान् सप्त पञ्च वा । तिलक्षौद्रेण संयुक्तां स्तर्पयित्वा यथाविधि ॥१६ प्रीयतां धर्मराजेति (तद्वेश्मनिसवर्द्धते ) यद्वा मनसि वर्त्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥२० सुवर्ण ( णानि ) नाभं यो दद्यात् सुमुखं कृत ( मङ्गलम् ) मार्गकम् । तिलैर्दद्यात्तस्य पुष्पफलं पुण्यं च यत् शृणु ॥ २१ ( तिलैर्दद्यात्तु यो भूमिं तस्य पुण्य फलं शृणु ) सा सुवर्णधरा धेनुः सशैलवनकानना । या तु सागरपर्यन्ता भवेद्दत्ता न संशयः ॥ २२ तिलान् कृष्णाजिने कृत्वा सुवर्णमधुसर्पिषा । ददाति यस्तु विप्राय सर्व तरति दुष्कृतम् ॥२३

इति - आत्रेयस्मृतौ तृतीयोऽध्यायः ॥

[[३४२]]

अत्रिस्मृतिः ।

अथ रहस्य प्रायश्चित्तानि व्याख्यास्यामः ॥

सामान्यस्त्रीगमन रहस्ये रहस्य प्रकाशे प्रकाशं पावनं अनुतिष्ठेत । वा – समान्यमगम्यागमनन्दुरन्न भोजनान्तौ रहस्यौ रहस्यं प्रकाशं वावनमनुतिष्ठेत् । अथवाप्सुनिमज्यन् समन्दोऽयं त्रिरावृत्य ( त्रिरात्र्यन्तरं ) शुद्धत् । गोवन्यवधे कन्यादूषणे इन्द्रशुद्धया इत्यापः पीत्वा मुच्यते ।

वेदस्यैवगुणं वापि (

जप्त्वा ) सद्यः शोधनमुच्यते । एकादशगुणान्वापि रुद्रानावर्त्य शुध्यति ॥१ महापातकोपपातकेभ्यो मलिनीकरणेभ्यो मुच्यते । त्रि (द्वि ) पढ़ा नाम गायत्री वेदे वाजसनेयके ॥२ त्रिः कृत्वोऽस्तर्जले प्रोक्ता सर्वपापं व्यपोहति । ब्राह्मणी गमने स्नात्वोदकुम्भान् ब्राह्मणाय दद्यात् क्षत्रिया वैश्यागमने तापसां त्रिरावृत्य शुद्धयति । शूद्रागमने अघमर्षणं त्रिरावृत्य शुद्रयति । गुरुदान् गत्वा वृषभ द्वादशावृत्या शुद्धयति । अपेयं पीत्वा अघमर्षणेनापः पीत्वा विशुद्धयति । अशक्तः प्रायखितं सर्वरात्रमनुशोच्य शुद्वये त । अमिसोम इन्द्रसोम इति जपित्वा कन्यादूषी विमुच्यते । सोमं राजानमिति जपित्वा विषदा अग्निदाश्च विमुच्यन्ते । सर्वेषामेव पापानां सङ्करे समुपस्थिते ॥ ३चतुर्थोऽध्यायः ।

दशसाहस्रमभ्यस्ता गायत्री शोधनी परा । ब्रह्मा गुरुतल्पी वाऽगम्या गामी तथैव च ॥४ स्वर्णस्तेयी च गोघ्नी च तथा विस्रम्भघातकः । शरणागतघाती च कूटसाक्षी त्वकार्य्यकृत् ॥५ एवमाद्येषु चान्येषु पापेष्वभिरतश्चिरम् । प्राणायामांस्तु यः कुर्यात् सूर्यस्योदयनं प्रति ॥ ६ सूर्यस्योदयनं प्राप्य निर्मला धौतकल्मषाः । भवन्ति भास्कराकारा विधूमा इव पावकाः ॥७ न हि ध्यानेन सदृशं पवित्रमिह विद्यते ।

पाकेष्वपि भुञ्जानो ध्यानेनैवात्र लिप्यते ॥८ ध्यानमेव व ( प ) रो धर्मो ध्यानमेव परं तपः । ध्यानमेव परं शौचं तस्माद्वयानपरो भवेत् ॥६ सर्वपापप्रसक्तोऽपि ध्यानं नियतमभ्यसेत् । (ध्यायन् निमिष मुच्यते)

सर्वदा ध्यानयुक्तश्च तपस्वी पंक्तिपावनः ॥ १० पुनस्तपस्वी भवति पंक्तिपावनपावनः ।

इति आत्रेयस्मृतौ चतुर्थोऽध्यायः ।

[[३४३]]

–dwe

[[३४४]]

अत्रिस्मृतिः ।

चतुरस्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य तु । वर्त्तञ्चैव वैश्यस्य शूद्रस्याभ्युक्षणं स्मृतम् । ब्रह्मा विष्णुश्च रुद्रश्च श्रीहुताशन एव च ॥ १ मण्डलान्युपजीवन्ति तस्मात् कुर्वन्ति मण्डलम् । यातुधानाः पिशाचाश्च क्रूराश्चैव तु राक्षसाः ॥२ हरन्ति रसमन्नस्य मण्डलेन विवर्जितम् । गोमयै मण्डलं कृत्वा भोक्तव्यमिति निश्चितम् ॥ ३ यत्र कपतितस्यान्नं भुक्ता चान्द्रायणं चरेत् । यतिश्च ब्रह्मचारी च पकान्नस्वामिनावुभौ ॥४ तयोरन्नमदत्त्वा च भुक्ता चान्द्रायणं चरेत् । यतिहस्ते जलं दद्याद्भैक्षं दद्यात् पुनर्जलम् ॥५ तद्वैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् । वामहस्ते यो भुङ्क्ते पयः पिवति वा द्विजः ॥६ सुरापानेन तत्तुल्यं मनुः स्वायम्भुवोऽब्रवीत् । हस्तदत्तास्तु ये स्नेहालवणव्यञ्जनादि च ॥७ दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्विषम् । अभोज्यं ब्राह्मणस्यान्न वृषलेन निमन्त्रितम् ॥८ तथव वृषलस्यान्नं ब्राह्मणेन निमन्त्रितम् । ब्राह्मणानं ददच्छूद्रः शूद्रान्न ब्राह्मणो ददत् ॥ उभावेतावभोज्यान्नौ भुक्ता चान्द्रायणं चरेत् ।

अमृतं ब्राह्मणस्यान्न क्षत्रियानं पयः स्मृतम् ॥१०

पञ्चमोऽध्याय ।

वैश्यस्य चान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम् । शूद्रान्नेनोदरस्थेन योऽधिगच्छति मैथुनम् ॥११ यस्यान्नं तस्यते पुत्रा अन्नाच्च्छुक्रं प्रवर्त्तते । शूद्रान्नरसपुष्टाङ्गोऽवीयानोऽपि च नित्यशः ॥१२ जुह्वत् चापि जपन्वापि गतिमूर्द्धान्न विन्दति । यस्तु वेदमधीयानः शूद्रान्नमुपभुञ्जते ॥१३ शूद्रो वेदफलं याति शूद्रत्वं चाधिगच्छति । मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभो (जीच )जनम् ॥१४ अहमेवं न जानामि काङ्कां योनिङ्गमिष्यति । श्रानस्तु सप्तजन्मानि नवजन्मानि शूकरः ॥१५ गृध्रो द्वादश (अष्टादश) जन्मानि इत्येवं मनुरब्रवीत् । परपाक मुपासन्ते ये द्विजा गृहमेधिनः ॥ १६ ते वै खरत्वमुष्ट्रत्वं श्वत्वञ्चैवाऽधिगच्छति ।

[[३४५]]

श्राद्धं दत्वा च भुक्का च मैथुनं योऽधिगच्छति ॥१७ भवन्ति पितरस्तस्य तन्मासे रेतसोभुजः । उच्छिष्टे न तु संस्पृष्टो द्रव्यहस्तः कथञ्चन ॥१८ भूमौ निधाय तहव्यमाचान्तः शुचितामियात् । स्पृशन्ति विन्दवः पादौ य आचामयतः परान् ॥ १६ भूमिगैस्ते समाज्ञेया न तैरप्रयतो भवेत् । आचान्तोऽप्यशुचिस्तावद्यावत्पात्रमनुद्ध तम् ॥२० उद्ध, तेप्यशुचिस्तावद्यावन्मण्डलशोधनम् ।

आसने पादमारोप्य ब्राह्मणो यस्तु भुञ्जते ॥ २१

[[३४६]]

अत्रिस्मृतिः ।

मुखेन वमितं चान्न तुल्यं गोमांसभक्षणम् । उपदंशान्नशेषं वा भोजने मुखनिःसृतम् ॥२२ द्विजातीनामभोज्यानं भुक्का चान्द्रायणं चरेत् । पीतशेष तु यत्तोयं ब्राह्मणः पिवते पुनः ॥२३ अपेयं तद्भवेदापः पीत्वा चान्द्रायणं चरेत् । अनुवंशन्तु भुञ्जीत नानुवंशन्तु संविशेत् ॥२४ अनुवंशन्तु भुञ्जानो दीर्घमायुरवाप्नुयात् । आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ॥२५ आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् । अनार्द्रपादः शयने दीर्घा श्रियमवाप्नुयात् ॥२६ आयुष्यं प्राङ्मुखो भुक्त यशस्यं दक्षिणामुखः । श्रियं प्रत्यङमुखं भुङ्क्ते तं भुङ्क्त उदङ्मुखः ॥२७ शावे शवगृहं गत्वा श्मशाने वान्तरेऽपि वा । आतुरं व्यञ्जनं कृत्वा दूरस्थोऽप्यशुचिर्भवेत् ॥२८ अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् । सम्बत्सरे व्यतीते तु स्पष्टवापो विशुध्यति ॥ २६ निर्देशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥ ३० अशुद्ध स्वयमप्यन्नं न शुद्धस्तु यदि स्पृशेत् । विशुध्यत्युपवासेन भुङ्क्ते कृच्छ्रेण स द्विजः ॥३१ सूतके सूतकं स्पृष्ट्वा स्नानं शावे च सूतके । सूतकेनैव शुद्धिः स्यान्मृतस्यान्निर्दशे शुचिः ॥ ३२

पञ्चमोऽध्यायः ।

[[३४७]]

सूतके सूतकं स्पष्ट्रा स्रानं शावे च सूतके । भुक्का पीत्वा तदज्ञानादुपवासस्त्र्यहं भवेत् ॥३३ मृण्मयानाश्च पात्राणां दशाहे (दाहे ) शुचिरिष्यते । स्नानादिषु प्रयुक्तानां त्याग एव विधीयते ॥ ३४ सूतके मृतके चैव मृतान्ते च प्रसूतके । तस्मात्तु शङ्खताशौचे मृताशौचं न शुध्यति ॥ ३५ सूतकाद्विगुणं शावं शावाद्विगुणमार्त्तवम । आतंवाद द्विगुणा सूतिस्ततोऽधिशवदाहकः ॥ ३६ अनुगच्छंद्यथा (च्छया) प्रेतं ज्ञातिमज्ञातिमेव वा । स्नात्वा सचैलं स्पृष्ट्राग्नि घृतं प्राश्य विशुध्यति ॥ ३७ रजता शुध्यते नारी नदी वेगेन शुध्यति । भस्मना शुध्यते कांस्यं पुनः पाकेन मृण्मयम् ॥३८ नोदन्वतोऽम्भसि स्नानं क्षुरकर्म तथैव च ।

अन्तर्वल्ल्या ( रती) पतिः कुर्वन्न प्रजा भवति ध्रुवम् ॥३६ दम्पती शिशुना सार्द्धं सूतके दशमेऽहनि ।

क्षौरं (स्नानं ) कुर्यात्ततः पूता (पिता) दानभोजन योग्यता ॥४० केशादि दूषिते तीरे न कुर्यात्तिलतर्पणम् ।

जलमध्ये जलं देयं पितॄणां जलमिच्छताम् । घनस्थाने न दातव्यं पितॄणां नोपगच्छति ॥४१ रात्रिं कुर्यात् त्रिभागन्तु द्वौ भागौ पूर्व एव च । उत्तरशः प्रभातेन युज्यते मृत (तु) सूतके ॥४२ यदिपश्येत्पूर्वं क्रूरवारे मृतिः स्मृता ।

[[३४८]]

अत्रिस्मृतिः ।

इति पश्येत्तु भुक्त्वा तु पादुकारोहणं स्मृतम् । स्नात्वेन्द्र तमादाय देवताभ्यो निवेदयेत् ॥४३ अपूपं लवणं मुद्गं गुडमिश्रं तथा हविः । दत्त्वा ब्राह्मणपत्नीभ्यो निशि भोजनमेव च ॥४४ चतुर्थेऽहनि कर्त्तव्यं क्षुरकर्माति (ऋतुशान्तिश्च ) यत्नतः । पुण्याहं वाचयिस्वान्ते भोक्तव्यं (होतव्यं) शुद्धिमिच्छता ॥४५ अपुण्याहे तु भुञ्जीत विप्रो धर्ममजानतः । तस्य जातिमयं भुङ्क्तं प्रायश्चित्तं ध्रुवं भवेत् ॥४६ विवाहे वितते तन्त्रे होमकाल उपस्थिते । कन्यामृतुमतीं दृष्ट्रा कथं कुर्वन्ति याज्ञिकाः ॥ ४७ हविष्मत्या स्त्रापयित्वा त्वन्यवस्त्रमलङ्कृताम् । युञ्जानामाहुति कृत्वा ततः कर्म प्रवर्त्तते ॥ ४८ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातकी । तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ॥४६ आर्त्तवाभिप्लुतां नारीं चण्डालं पतितं शुनम् । भोज्यान्तरे ( तु संस्पृश्यन् ) प्रयुज्यन्ते

स्नात्वा मान स्तृचं ( वाचस्पतिं) जपेत् ॥५० आर्त्तवाभिप्लुतां नारीं दृष्ट्वा भुङ्क्त (कामतः ) ऽन्धकातराः । तदन्नं छर्दयित्वा तु कुशवारि पिवेदपः ॥ ५१ ये तां दत्त्वा (ा) तु यो भुङ्क्ते प्राजापत्यं विशोधनम् । आर्त्तवाभिप्लुतां नारीं आर्त्तवाभिप्लुताभिधः ॥५२ भाषयित्वा तु संमोहादुपवासस्तयोर्भवेत् ।

उदक्यायाः करेणाथ भुक्ता चान्द्रायणं चरेत् ॥५३

पञ्चमोऽध्यायः ।

प्राजापत्यमसत्याश्चेत् त्रिरात्रं स्पृष्टभोजने । तद्धस्तभोजनचैव त्रिगुणं सह भोजने ॥५४ चतुर्गुणं तदुच्छ पानीये त्वर्द्धमेव च । उदक्यायाः समीपस्थ मन्नं भुक्तात्वकामतः ॥ ५५ उपवासेन शुद्धिः स्यान्पिवेद् ब्रह्म सुवर्चलम् । आर्त्तवा यदि चाण्डालमुच्छिलेन तु पश्यति ॥५६ आस्नानकालं नाश्रीयादासीना वाग्यता बहिः । पादकृच्छन्तु यः कुर्याद् ब्रह्मकृच्छ पिवेत् पुनः ॥५७ ब्राह्मणान् भोजयेत्पश्चाद्विप्राणा मनुशासनात् । मृतसूतकसम्पर्क ऋतुं दृष्ट्रा कथं भवेत् ॥५८ आस्नानकालं नाश्नीयाद् भुक्ता चान्द्रायणं चरेत् । आर्त्तवाभिप्लुता नारी चण्डालं स्पृशते यदि ॥५६ आर्त्तवाभिप्लुता नारीं आर्त्तवाभिप्लुता स्पृशेत् । स्नात्वोपवासं कुर्याच पञ्चगव्येन शुध्यति ॥ ६० कुच्छमेकञ्चरेत्सा तु तदर्थं चान्तरीकृते । आतुरा या ऋतुस्नाता स्नानकर्म कथं भवेत् ॥ ६१ स्नात्वा स्नात्वा पुनःस्पृश्य दशकृत्वस्त्व नातुराः । वस्त्रापनयनं कृत्वा भस्मना परिमार्जयेत् ॥ ६२ दत्त्वा तु शक्तितो दानं पुण्याहेन विशुध्यति । ब्रह्मणानां करैर्मुक्तं तोयं शिरसि धारयेत् ॥६३ सर्वतीर्थतटात्पुण्याद्विशिष्टतरमुच्यते ।

रजस्वलायाः प्रेतायाः संस्कारं नाचरेद्विजः ॥ ६४

[[३४६]]

[[३५०]]

अत्रिस्मृतिः ।

ऊर्ध्वं त्रिरात्रात्स्नातायाः शावधर्मेण दाहयेत् । रजस्वले च द्वे स्पृष्टं चातुर्वर्णस्य याः स्त्रियः ॥ ६५ अतिकृच्छ्रं चरेत्पूर्वं कृच्छ्रमेकं क्रमेण तु । रजस्वलायाः स्नातायाः पुनरेव रजस्वला ॥६६ विंशतेदिवसादृध्वं त्रिरात्रमशुचिर्भवेत् ।

प्रसूतिका तु या नारी स्नानतो विंशतेः परम ॥६७ रजस्वला तु सा प्रोक्ता प्राक्तु नैमित्तिकं रजः । शुद्धा नारी शुद्धवासाः पुनरार्तवदर्शने ॥ ६८ वस्त्रं तु मलिनं त्यक्त्वा तिलमाप्लुत्य शुध्यति । आतुर स्नानसंप्राप्तौ दशकृत्वस्त्वनातुरः ॥६६ स्नात्वा स्नात्वा स्पशेदेनं ततः शुद्धो भविष्यति । चन्द्रसूर्यग्रहे नाद्यात् स्नात्वा मुक्ते तु भुञ्जते ॥७८ अमुक्तयो रस्तगयो रद्याद् दृष्ट्रा परेऽहनि । यस्य स्वजन्मनक्षत्रे गृह्येते शशिभास्करौ ॥७१ व्याधिः प्रवाहे मृत्युश्च दारिद्यञ्च महद्भयम् । तस्माद्दानं च होमध्व देवताभ्यर्चनं जपम् ॥ ७२ कुर्यात्तस्मिन् दिने युक्ते तस्य शान्तिर्भविष्यति । सवं गङ्गासमं तोयं राहुमस्ते दिवाकरे ॥७३ यो नरः स्नाति तत्तीर्थे समुद्र सेतुबन्धने । उपोष्य रजनो मेकां राहुमस्ते दिवाकरे ॥७४ सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति । सोमेऽप्येवं सूर्यतुल्यं तस्मात् सर्व समाचरेत् ॥७५

इति आत्रेयस्मृतौ पञ्चमोऽध्यायः ॥

स्वर्गसुखप्राप्ति फलम् ।

इष्ट्रा क्रतुशतैरेवं देवराजो महाद्युतिः । स्वगुरुं वाग्मिनां श्रेष्ठ पर्यपृच्छद्वृहस्पतिम् ॥१ भगवन् ! केन दानेन स्वर्गतः सुखमेधते । यदक्षयं महाभाग ! त्वं ब्रूहि वदताम्बर ॥२ एवं पृष्टः स इन्द्रेण देवदेवपुरोहितः । वाचस्पतिर्महातेजो वृहस्पति रुवाच ह ॥ ३ हिरण्यदानं गोदानं भूमिदानश्च वासव ? । एतत्प्रयच्छमानोऽपि स्वर्गतः सुखमेधते ॥४ सुवर्ण रजतं वस्त्रं मणिरत्न बसूनि च । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥५ फलाकृष्टां महीं दद्यात् सवीजां सस्यमालिनीम् । यावत् सूर्यकरा लोके तावत् सर्गे महीयते ॥५

इति - आत्रेयस्मृतौ धर्मशास्त्र सम्पूर्णम् ।

[[३५१]]

शुभमस्तु ।

॥ ॐ तत्सद्व, ह्मणेनमः ॥

[[4]]