अत्रि-संहिता

महर्ष्यात्रिप्रणीता ।

॥ श्रीगणेशाय नमः ॥

[[1]]

हुताग्निहोत्रमासीनमत्रिं वेदविदां वरम् । सर्वशास्त्र विधिज्ञातमृषिमिश्च नमस्कृतम् ॥१. नमस्कृत्य च ते सर्व इदं वचनमब्रुवन् । हितार्थं सर्व लोकानां भगवन् ! कथयस्वनः ॥२

अत्रिरुवाच ।

वेदशास्त्रार्थतज्ञा । यन्मे पृच्छथ संशयम् । तत् सर्वं संप्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ॥३ सर्वतीर्थान्युपस्पृश्य सर्वान् देवान प्रणम्य च । जप्त्वा तु सर्वसूक्तानि सर्वशास्त्रानुसारतः ॥४ सर्वपापहरं नित्यं सर्वसंशयनाशनम् । चतुर्णामपि वर्णानामत्रिः शास्त्रमकल्पयत् ॥५ ये च पापकृतो लोके ये चान्ये धर्मदूषकाः । सर्वैः पापैः प्रमुच्यन्ते श्रुत्वेदं शास्त्रमुत्तमम् ॥६धर्मशास्त्रोपदेशवर्णनम् ।

तस्मादिदं वेदविद्भिरध्येतव्यं प्रयत्नतः ।

शिष्येभ्यश्व प्रवक्तव्यं सद्वृत्तभ्यश्च धर्मतः ॥ ७ अकुलीने ह्यसद्वृत्तं जडे शूद्रं शठे द्विजे । एतेष्वेव न दातव्यमिदं शास्त्रं द्विजोत्तमैः ॥ ८ एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्द्द्रव्यं यद्दत्त्वा ह्यनृणो भवेत् ॥६ एकाक्षरप्रदातारं यो गुरु नाभिमन्यते ।

शुनां योनिशतं गत्वा चाण्डालेष्वपि जायते ॥१० वेदं गृहीत्वा यः कश्चिच्छास्त्रञ्चैवावमन्यते । स सद्यः पशुतां याति सम्भवानेकविंशतिम् ॥११ स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्वं स्वे कर्मण्यवस्थिताः ॥१२ कर्म विप्रस्य यजनं दानमध्ययनं तपः । प्रतिप्रहोऽध्यापनश्च याजनञ्चेति वृत्तयः ॥ १३ क्षत्रियस्यापि यजनं दानमध्ययनं तपः ।

शस्त्रोपजीवनं भूतरक्षणंचति वृत्तयः ॥१४ दानमध्ययनं वार्ता यजनं चेति वं विशः । शूद्रस्य वार्ता शुश्रूषा द्विजानां कारुकर्म च ॥ १५ मयंष धर्मोऽभिहितः संस्थिता यत्र वर्णिनः । बहुमानमिह प्राप्य प्रयान्ति परमां गतिम् ॥१६ ये व्यपेताः स्वधर्मेभ्य परधर्मे व्यवस्थिताः । तेषां शास्तिकरो राजा स्वर्गलोके महीयते ॥ १७

[[०२]]

[[३५३]]

[[३५४]]

अत्रिसंहिता ।

आत्मीये संस्थितो धर्मे शूद्रोऽपि स्वर्गमश्नुते । परधर्मो भवेत्त्याज्यः सुरूपपरदारवत् ॥१८ बध्यो राज्ञा स वै शूद्रो जपहोमपरश्व यः । ततो राष्ट्रस्य हन्ताऽसौ यथा वह्नश्व वै जलम् ॥१६ प्रतिग्रहोऽध्यापनञ्च तथाऽविक्रेयविक्रयः । याज्यं चतुर्भिरप्येतैः क्षत्त्रविपतनं स्मृतम् ॥२० सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥२१ अत्रताश्वानधीयाना यत्र भैक्षचराद्विजाः । तं ग्रामं दण्डयेद्राजा चौरभक्तप्रदं बुधैः ॥२२ विद्वद्भोज्यमविद्वांसो येषु राष्ट्रषु भुञ्जते । तेऽप्यनावृष्टिमिच्छन्ति महद्वा जायते भयम् ॥२३ ब्राह्मणान् वेदविदुषः सर्वशास्त्रविशारदान् । तत्र वर्षति पर्जन्यो यत्रैतान् पूजयेन्नृपः ॥ २४ त्रयो लोकास्त्रयो वेदा आश्रमाश्च त्रयोऽग्नयः । एतेषां रक्षणार्थाय संसृष्टा ब्राह्मणाः पुरा ॥ २५ उभे सन्ध्ये समाधाय मौनं कुर्वन्ति ये द्विजाः । दिव्यवर्षसहस्राणि स्वर्गलोके महीयते ॥ २६ य एवं कुरुते राजा गुणदोषपरीक्षणम् । यशः स्वर्गं नृपत्वश्च पुनः कोषं समृद्धयेत् ॥२७ दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोषस्य च संप्रवृद्धिः अपक्षपातोऽर्थिषु राष्ट्ररक्षाः पञ्चैव यज्ञाः कथिता नृपाणाम् ।

धर्मशास्त्रोपदेशवर्णनम् ।

[[३५५]]

यत् प्रजापालने पुण्यं प्राप्नुवन्तीह पार्थिवाः । न तु क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ॥२६ अलाभे देवखातानां हृदेषु च सरःसु च । उद्ध. त्य चतुरः पिण्डान् पारके स्नानमाचरेत् ॥३० वसाशुक्रमसृङ्मज्जा मूत्रविद् कर्णविष्णखाः । श्लेष्मास्थि दूषिकाः स्वेदो द्वादशैते नृणां मलाः ॥३१ पण्णां षण्णां क्रमेणैव शुद्धिरुक्ता मनीषिभिः । मृद्वारिभिश्च पूर्वेषामुत्तरेषान्तु वारिणा ॥३२ शौचमङ्गलनायासा अनसूयाऽस्पृहा दमः । लक्षणानि च विप्रस्य तथा दानं दद्यापि च ॥ ३३ न गुणान् गुणिनोहन्ति स्तौति चान्यान् गुणानपि । न हसेचान्नदोषांच सानसूया प्रकीर्तिता ॥ ३४ अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः ।

आचारेषु व्यवस्थानं शौचमित्यभिधीयते ॥३५ प्रशस्ताचरणं नित्यमप्रशस्त विवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिर्धर्मदर्शिभिः ॥३६ शरीरं पीड्यते येन शुभेन त्वशुभेन वा । अत्यन्तं तन्न कुर्वीत अनायासः सउच्यते ॥३७ यथोत्पन्नेन कर्त्तव्यं सन्तोषः सर्ववस्तुषु । न स्पृहेत् परदारेषु साऽस्पृहा परिकीर्त्तिता ॥३८ वाह्यमध्यात्मिकं वाऽपि दुःखमुत्पाद्यतेऽपरेः । न कुप्यति न चाहन्ति दम इत्यभिधीयते ॥ ३६

[[३५६]]

अत्रिसंहिता ।

अहन्यहनि दातव्यमदीनेनन्तरात्मना । स्तोकादपि प्रयत्नेन दानमित्यभिधीयते ॥४० परस्मिन बन्धुवर्गे वा मित्रे द्वेष्ये रिपौ तथा । आत्मवद्वर्त्तितयं हि दयैषा परिकीर्तिता ॥ ४१ यश्चैतैर्लक्षणैर्युक्तो गृहस्थोऽपि भवेद्विजः ।

स गच्छति परं स्थानं जायते नेह व पुनः ॥४२ अग्निहोत्रं तपः सत्यं वेदानाञ्चैव पालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधोयते ॥४३ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥ ४४ इष्टं पूतं प्रकर्त्तव्यं ब्राह्मणेन प्रयत्नतः । इष्टेन लभते स्वर्ग पूर्तेन मोक्षमवाप्नुयात् ॥४५ इष्टापूत द्विजातीनां सामान्यौ धर्मसधिनौ । अधिकारी भवेच्छूद्रः पूर्वे धर्मे न वैदिके ॥४६ यमान् सेवेत सततं न नित्यं नियमान् बुधः । यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन् ॥४७ आनृशंस्यं क्षमा सत्यमहिंसा दानमार्जवम् । प्रीतिः प्रसादो माधुय्यं मार्दवच्च यमा दश ॥४८ शौचमिज्या तपोदानं स्वाध्यायोपस्थ निग्रहः ।

व्रतमौ नोपवासाश्व स्नानश्च नियमा दश ॥४६ प्रतिकृतिं कुशमयीं तीर्थवारिषु मज्जयेत् । यमुद्दिश्य निमज्जेत अष्टभागं लभेत सः ॥ ५०..

धर्मशास्त्रोपदेशवर्णनम् ।

मातरं पितरं वाऽपि भ्रातारं सुहृदं गुरुम् । यमुद्दिश्य निमज्जेत द्वादशांशफलं लभेत् ॥ ५१ अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः मदा । पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः ॥ ५२ पिता पुत्रस्य जातस्य पश्येबेज्जीवतो मुखम् । ऋणमस्मिन् संनयति अमृतत्वञ्च गच्छति ॥ ५३ जातमात्रेण पुत्रेण पितॄणामनृणी पिता । तदहि शुद्धिमाप्नोति नरकात्त्रायते हि सः ॥ ५४ जायन्ते बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजते चाश्वमेधञ्च नीलं वा वृषमुत्सृजेत् ॥५५ काङ्क्षन्ति पितरः सर्वे नरकान्तरभीरवः ।

गयां यास्यति यः पुत्रः स नत्राता भविष्यति ॥५६ फल्गुतीर्थे नरः स्नात्वा दृष्टा देवं गदाधरम् । गयाशीर्ष पदाऽऽक्रम्य मुच्यते ब्रह्महत्यया ॥ ५७ महानदीमुपस्पृश्य तर्पयेत् पित देवताः ।

अक्षयान् लभते लोकान् कुलचैव समुद्धरेत् ॥५८ शङ्कास्थाने समुत्पन्ने भक्ष्यभोग (भोज्य) विवर्जिते । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥५६ अक्षारलवणं भैक्षं ( रौक्षं) पिवेद्ब्राह्मीं सुवज्रंसम । त्रिरात्रं शङ्खपुष्पीम्बा ब्राह्मणः पयसा सह ॥६० मद्यभाण्डाद्विजः कश्चिदज्ञानात् पिबते जलम् । प्रायश्चित्तं कथं तस्य मुच्यते केन कर्मणा ॥६१

[[३५७]]

[[३५८]]

अत्रिसंहिता ।

पलासविल्वपत्राणि कुशान् पद्मान्युदुम्बरम् । काथयित्वा पिबेदापत्रिरात्रेणैव शुद्धयति ॥ ६२ सायं प्रातस्तु यः सन्ध्यां प्रमादाद्विक्रमेत् सकृत् । गायत्र्यास्तु सहस्रं हि जपेत् स्नात्वा समाहितः ॥ ६३ शोकाक्रान्तोऽथवा श्रान्तः स्थितः स्नान(स्थान) जपाद्वहिः । ब्रह्मकूचं चरेद्भक्त्या दानं दत्त्वा विशुद्धयति ॥ ६४ गवां शृङ्गोदके स्नात्वा महानद्युपसङ्गमे । समुद्रदर्शनेनैव व्यालदष्टः शुचिर्भवेत् ॥६५ वृकश्वानशृगालैस्तु यदि च ब्राह्मणः । हिरण्योदकसंमिश्रं घृतं प्राश्य विशुद्धयति ॥ ६६ ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा । उदितं ग्रहनक्षत्रं सद्यः शुचिर्मवेत् ॥ ६७ सत्रतश्च शुना दष्टस्त्रिरात्रमुपवासयेत् । सघृतं यावकं प्राश्य व्रतशेषं समापयेत् ॥६८ मोहात् प्रमादात् संलोभाद्व्रतभङ्गं तु कारयेत् । त्रिरात्रेणैव शुद्धयत पुनरेव व्रती भवेत् ॥ ६६ ब्राह्मणानं यदुच्छिष्टमश्नात्यज्ञानतो द्विजः । दिनद्वयं तु गायत्र्या जपं कृत्वा विशुद्धयति ॥ ७० क्षत्रियान्नं यदुच्छिष्टमश्नात्यज्ञानतोद्विजः ।

त्रिरात्रेण भवेच्छुद्धिर्यथा क्षत्रे तथा विशि ॥ ७१

अभोज्यान्नं यथा भुक्ता (तु भुक्तान्न) स्त्री शूद्रोच्छिष्टमेव वा ।

जग्ध्वा मांसमभक्ष्यन्तु सप्तरात्रं यवान् पिवेत् ॥७२

धर्मशास्त्रोपदेशवर्णनम् ।

शुना चैव तु संस्पृष्टस्तस्य स्नानं विधीयते । तदुच्छिष्टन्तु संप्राश्य षण्मासान् कृच्छ्रमाचरेत् ॥७३ असंस्पृष्टेन संस्पृष्टः स्नानं तेन विधीयते ।

[[३५६]]

तस्य चोच्छिष्टमश्नीयात् षण्मासान कृच्छ्रमाचरेत् ॥७४ अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ७५ वपनं मेखला दण्डो भैक्षचर्यव्रतानि च । निवर्त्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥७६ गृहशुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिताम् । प्रायोज्यं मृण्मयं भाण्डं सिद्धमन्नं तथैव च ॥७७ गृहान्निष्क्रम्य तत्सर्वं गोमयेनोपलेपयेत् । गोमयेनोपलिप्याथ छागेनात्रापयेत् पुनः ॥७८ ब्राह्ममन्त्रैस्तु पूतन्तु हिरण्यकुशवारिभिः । तेनैवाभ्युक्ष्य तद्वेश्म शुद्धते नात्र संशयः ॥ ७६ राज्ञान्यैः श्वपचर्वापि बलाद्विचालितो द्विजः । पुनः कुर्वीत संस्कारं पश्चात् कृच्छ्रत्रयञ्चरेत् ॥८० शुना चैव तु संस्पृष्टस्तस्य स्नानं विधीयते । तदुच्चिन्तु संप्राश्य यत्नेन कृच्छ्रमाचरेत् ॥८१ अतः परं प्रवक्ष्यामि सूतकस्य विनिर्णयम् । प्रायश्चित्तं पुनश्चैव कथयिष्याम्यतः परम् ॥८२ एकाहाच्छुद्धयते विप्रो योऽग्निवेदसमन्वितः । त्र्यहात् केवलवेदस्तु निर्गुणो दशभिर्दिनैः ॥८३

[[३६०]]

अत्रिसंहिता ।

व्रतिनः शास्त्रपूतस्य आहिताग्नेस्तथैव च ।

राज्ञस्तु सूतकं नास्ति यस्य चेच्छति ब्राह्मणः ॥८४ ब्राह्मणो दशरात्रेण द्वादशाहेन भूमिपः ।

वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्धयति ॥ ८५ सपिण्डानान्तु सर्वेषां गोत्रजः साप्तपौरुषः । पिण्डाश्वोदक दानश्च शावाशौचं तथाऽनुगम् ॥८६ चतुर्थे दशरात्रं स्यात् पडहः पञ्चमे तथा षष्ठे चैव त्रिरात्रं स्यात् सप्तम त्र्यहमेव वा ॥ ८७ अष्टमे दिनमेकन्तु नवमे प्रहरद्वयम् ।

दशमे स्नानमात्रेण सूतके तु शुचिर्भवेत् ॥८८ मृतसूतके तु दासीनां पत्नीनाञ्चानुलोमिनाम् । स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौनिकम् ॥८६ शवस्पृ तृतीयस्तु सचेलः स्नानमाचरेत् । चतुर्थे सतभैक्ष्यं स्यादेष शावविधिः स्मृतः ॥ ६० एकत्र स्कृतानान्तु मातृणामेकभोजिनाम् । स्वामितुल्यं भवेच्छौचं विभक्तानां पृथक्पृथक् ॥ ६१ उष्ट्रीक्षीरमवीक्षीरं यश्चानं मृतसूतके ।

पाचकान्नं नवश्राद्धं भुक्ता चान्द्रायणं चरेत् ॥६२ सूतकानमधर्माय यस्तु प्राश्नाति मानवः । त्रिरात्रमुपवासः स्यादेकरात्रं जले वसेत् ॥१३ महायज्ञविधानन्तु न कुर्यान्मृतजन्मनि ।

होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा ॥६४

धर्मशास्त्रोपदेशवर्णनम् ।

बालस्त्वन्तर्दशाहेतु पञ्चत्वं यदि गच्छति । सद्यएव विशुद्धिः स्यान्न प्रेतं नैव सूतकम् ॥६५ कृचूडस्तु कुर्वीत उदकं पिण्डमेव च । स्वधाकारं प्रकुर्वीत नामोच्चारण मेव च ॥ ६६ ब्रह्मचारी यतिश्चैवं मन्त्रे पूर्वकृते तथा ।

यज्ञे विवाहकाले च सद्यः शौचं विधीयते ॥ ६७ विवाहोत्सबयज्ञेष्वनन्तरामृतसूतके । पूर्वसङ्कल्पितार्थस्य न दोषश्चात्रिरब्रवीत् ॥६८ मृतसंजननादूर्द्ध सूतकादौ विधीयते । स्पर्शनाचमनाच्छुद्धिः सूतिकाञ्चन्न संस्पृशेत् ॥ह पञ्चमेऽहनि विज्ञेयं संस्पर्श क्षत्रियस्य तु । सप्तमेऽहनि वैश्यस्य विज्ञयं स्पर्शनं बुधैः ॥ १०० दशमेऽहनि शूद्रस्य कर्त्तव्यं स्पर्शनं बुधैः । मासेनैवात्मशुद्धिः स्या सूतके मृतके तथा ॥ १०१ व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा । क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥ १०२ व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः । स्वाध्यायत्रतहीनस्य सततं सूतकं भवेत् ॥ १०३ द्वे कुच्छ परिवित्तेस्तु कन्यायाः कृच्छ्रमेव च । कृच्छ्रातिकृच्छ्रं मातुः स्याद्वेत्तुः सान्तपनं स्मृतम् ॥१०४ कुञ्जवामनखजेषु गर्हितेऽथ जडेषु च ।

जात्यन्धवधिरे मूके न दोषः परिवेदने ॥ १०५

[[३६१]]

[[३६२]]

अत्रिसंहिता ।

क्लीवे देशान्तरस्थे च पतिते व्रजितेऽपि वा । योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥ १०६ पिता पितामहो यस्य अग्रजो वापि कस्यचित् । नाग्निहोत्राधिकारोऽस्ति न दोषः परिवेदने ॥ १०७ भार्यामरणपक्षे वा देशान्तरगतेऽपि वा । अधिकारी भवेत् पुत्रस्तथा पातकसंयुते ॥ १०८ ज्येष्ठो भ्राता यदा नष्टो नित्यं रोगसमन्वितः । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥ १०६ नाग्नयः परिविन्दन्ति न वेदा न तपांसि च । न च श्राद्धं कनिष्ठो वै विना चैवाभ्यनुज्ञया ॥११० तस्माद्धर्मं सदा कुर्याच्छतिस्मृत्युदितञ्च यत् । नित्यं नैमित्तिकं काम्यं यच्च स्वर्गस्य साधनम् ॥ १११ एकैकं वर्द्धयेन्नित्यं शुक्ले कृष्णे च ह्रासयेत् । अमावास्यां न भुञ्जीत एष चान्द्रायणोविधिः ॥ ११२ एकैकं ग्रासमश्नीयात्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं परश्च नाश्नीयादतिकृच्छ्रं तदुच्यते ॥ ११३ इत्येतत् कथितं पूर्वैर्महापातकनाशनम् । वेदाभ्यासरतं क्षान्तं महायज्ञक्रियापरम् ॥११४ न स्पृशन्तीह पापानि महापातकजान्यपि । वायुभक्षो दिवा तिष्ठेद्रात्रिञ्चैवाप्सु सूर्यदृक् ॥ ११५ जप्त्वा सहस्र गायत्र्याः शुद्धिर्ब्रह्मबधादृते । पद्मोडुम्बरविल्वैश्च कुशाश्वत्थपलाशयोः ॥ ११६धर्मशास्त्रोपदेशवर्णनम् ।

एतेषामुदकं पीत्वा पर्णकृच्छन् तदुच्यते । पञ्चगव्यश्च गोक्षीरदधिमूत्रशकृद्घृतम् ॥ ११७ जग्ध्वा परेऽह्नयपवसेदेष सान्तपनो विधिः । पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ॥ ११८ सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनं स्मृतम् । त्र्यहं सायं त्र्यहं प्रातस्त्र्यहं भुङ्क्तं त्वयाचितम् ॥ ११६ त्र्यहं परच नाश्नीयात् प्राजापत्योविधिः स्मृतः । सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः ॥ १२० अयाचिते चतुर्विंशः परेऽयनशनं स्मृतम् । कुक्कुटाण्डप्रमाणं स्याद्यावद्यस्य मुखं विशेत् ॥ १२१ एतद्प्रासं विजानीयाच्छुद्धयर्थं कायशोधनम् । त्र्यहमुष्णं पिवेदापस्त्र्यहमुष्णं पिवेत् पयः ॥ १२२ त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो दिनत्रयम् । षट्पलानि पिवेदाप त्रिपलं तु पयः पिवेत् ॥ १२३ पलमेकन्तु वै सर्पिस्तमकृच्छ विधीयते ।

[[३६३]]

दध्ना च त्रिदिनंभुङ्क्तं व्यहं भुङ्क्तं च सर्पिषा ॥ १२४ क्षीरेण तु त्र्यहं भुङ्क्तं वायुभक्षो दिनत्रयम् । त्रिपलं दधिक्षीरेण पलमेकं तु सर्पिषा ॥ १२५ एतदेव व्रतं पुण्यं वैदिकं कृच्छ्रमुच्यते । एकभक्तेन नक्तेन तथैवायाचितेन च ॥ १२६ उपवासेन चैकेन पादकृच्छ्रः प्रकीर्त्तितः ।

कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ॥१२७

[[३६४]]

अत्रिसंहिता ।

द्वादशाहोपवासेन पराकः परिकीर्त्तितः । पिण्याकदधिशक्तूनां ग्रासश्च प्रतिवासरम् ॥१२८ एकैकमुपवासः स्यात् सौम्यकृच्छः प्रकीर्त्तितः । एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् ॥ १२६ तुलापुरुषइत्येष ज्ञेयः पञ्चदशाहिकः ।

कपिलागोस्तु दुग्धाया धारोष्णं यत्पयः पिवेत् ॥ १३० एष व्यासकृतः कृच्छः श्वपाकमपि शोधयेत् । निशायां भोजनञ्चैव तज्ज्ञेयं नक्तमेव तु ॥१३१ अनादिष्टेषु पापेषु चान्द्रायण मथोदितम् । अग्निष्टोमादिभिर्यज्ञैरिष्ठैर्द्विगुणदक्षिणैः ॥१३२ यत्फलं समवाप्नोति तथा कृच्छ स्तपोधनः । वेदाभ्यासरतः क्षान्तो धर्मशास्त्राण्यवेक्षयेत् ॥ १३३ शौचाचारसमायुक्तो गृहस्थोऽपि हि मुच्यते । उक्तमेतद् द्विजातीनां महर्षे ! श्रूयतामिति ॥१३४ अतः परं प्रवक्ष्यामि स्त्री शूद्र पतनानि च । जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ॥१३५ देवताराधनञ्चैव स्त्रीशूद्रपतनानि षट् । जीवद्भर्त्तरि या नारी उपोष्य व्रतचारिणी ॥१३६ आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् । तीर्थस्नानार्थिनी नारी पतिपादोदकं पिवेत् ॥ १३७ शङ्करस्यापि विष्णोर्वा प्रयाति परमं पदम् । जीवद्भर्त्तरि वामाङ्गी मृते वापि सुदक्षिणे ॥ १३८

धर्मशास्त्रोपदेशवर्णनम् ।

श्राद्ध यज्ञे विवाहे च पत्नी दक्षिणतः सदा ।

सोमः शौचं ददौ तासां गन्धर्वाश्च तथाङ्गिराः ॥ १३६ पावकः सर्वमेध्यं च मेध्यं वै योपितां सदा । जन्मना ब्राह्मणो शेयः संस्कारैर्द्विज उच्यते ॥ १४० विद्यया याति विप्रत्वं श्रोत्रियस्त्रिभिरेव च । वेदशास्त्राण्यधीते यः शास्त्रार्थच्च निषेवते ॥ १४१ तदासौ वेदवित् प्रोक्तो वचनन्तस्य पावनम् । एकोऽपि वेदविद्धमं यं व्यवस्येद्विजोत्तमः ॥ १४२ स शेयः परमो धर्मो नाज्ञानामयुतायुतैः । पावकाइव दीप्यन्ते जपहोमैर्द्विजोत्तमाः ॥ १४३ प्रतिग्रहेण नश्यन्ति वारिणा इव पावकः । तान् प्रतिप्रजान् दोषान् प्राणायामैर्द्विजोत्तमाः ॥ १४४ उत्सादयन्ति विद्वांसो वायुर्मघानिवाम्बरे ।

भुक्ताचम्य यदा विप्र आर्द्रपाणिस्तु तिष्ठति ॥ १४५ लक्ष्मीर्बलं यशस्तेज आयुश्चैव प्रहीयते । यस्तु भोजनशालायामासनस्थ उपस्पृशेत् ॥१४६ तस्यान्नं नेव भोक्तव्यं भुक्का चान्द्रायणञ्चरेत् । पात्रोपरिस्थितं पात्रं यः संस्थाप्य उपसृशेत् ॥ १४७ तस्यान्नं नैव भोक्तव्यं भुक्का चान्द्रायणञ्चरेत् । न देवास्तृप्तिमायान्ति दातुर्भवति निष्फलम् ॥१४८ हस्तं प्रक्ष्यालय यस्त्वापः पिवेद्भुक्ता द्विजोत्तमः । तदन्नमसुरैर्भुक्तं निराशाः पितरो गताः ॥ १४६

[[३६५]]

[[३६६]]

अत्रिसंहिता ।

नास्ति वेदात् परं शास्त्रं नास्ति मातुः परो गुरुः । नास्ति दानात् परं मित्रमिह लोके परत्र च ॥ १५० अपात्रे ह्यपि यद्दत्तं दहत्यासप्तमं कुलम् ।

हव्यं देवा न गृह्णन्ति कव्यञ्च पितरस्तथा ॥ १५१ आयसेन तु पात्रेण यदन्नमुपदीयते ।

अन्नं विष्ठासमं भोक्तुर्दाता च नरकं व्रजेत् ॥ १५२ इतरेण तु पात्रेण दीयमानं विचक्षणः । न दद्याद्वामहस्तेन आयसेन कदाचन ॥१५३ मृण्मयेषु च पात्रेषु यः श्राद्ध भोजयेत् पितॄन् । अन्नदाता च भोक्ता च तावेव नरकं व्रजेत् ॥१५४ अभावे मृण्मये दद्यादनुज्ञातस्तु ते द्विजैः ।

तेषां वचः प्रमाणं स्यादृतवानृतमेव च ॥ १५५ सौवर्णाय सताम्रषु कांस्यरौप्यमयेषु च ।

भिक्षादातु र्न धर्मोऽस्ति भिक्षुर्भुङ्क्ते तु किल्विषम् ॥१५६ न च कांस्येषु भुञ्जीयादापद्यपि कदाचन ।

पलाशे यतयोऽश्नन्ति गृहस्थः कांस्यभाजने ॥ १५७ कांस्यकस्य च यत्पापं गृहस्थस्य तथैव च ।

कांस्यभोजी यतिश्चैव प्राप्नुयात् किल्विषं तयोः ॥ १५८

अत्राप्युदाहरन्ति ॥

सौवर्णायसताम्रषु कांस्यरौप्यमयेषु च ।

भुञ्जन् भिक्षुर्न दृष्येत दृष्येश्चैव परिग्रहात् ॥१५६

धर्मशास्त्रोपदेशवर्णनम् ।

[[३६७]]

यदिहस्ते जलं दद्याद्भिक्षां दद्यात् पुनर्जलम् । तद्भक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥ १६० चरेन्माधुकरीं वृत्तिमपि म्लेच्छकुलादपि । एकान्नं नैव भोक्तव्यं वृहस्पतिकुलादपि ॥१६१ अनापदि चरेद्यस्तु सिद्ध भैक्षं गृहे वसन् । दशरात्रं पिवेद्वमापस्तु त्र्यहमेव च ॥ १६२ गोमूत्रेण तु संमिश्रं यावकं घृतपाचितम् । एतद्वत्रमिति प्रोक्तं भगवानत्रिरब्रवीत् ॥ १६३ ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥ १६४ यक्ष्मासान् (षण्मासान् ) कामयेन्मर्त्यो गर्भिणीमेव च स्त्रियम् । आ दन्तजननादृर्श्वमेष धर्मो विधीयते ॥ १६५ ब्रह्मा प्रथमञ्चैव द्वितीयं गुरुतल्पगः ।

तृतीयन्तु सुरापोऽयं चतुर्थ स्तेयमुच्यते ॥ १६६ ( आपो गावस्तिलाभू मिर्गन्धो वा स्तेयते तथा । ) पापानाचैव संसर्गः पञ्चमं पातकं महत् । एषामेव विशुद्धयर्थं चरेद्वर्षा (कृच्छ्राण्यनुक्रमात् ॥ १६७ त्रीणि कृच्छ्राण्यक्रामश्चंद्ब्रह्महत्यां व्यपोहति । अर्द्धन्तु ब्रह्महत्यायाः क्षत्रियेषु विधीयते ॥ १६८ षड्भागो द्वादशश्चैव विट्शूद्रयोस्तथा भवेत् । त्रीन् मासान्नक्तमश्नीयाद्भूमौ शयनमेव च ॥ १६६ स्त्रीघातः शुद्धयतेऽयेवं चरेत् कृच्छ्राब्दमेव च । रजकः शैलुषश्चैव वेणुकर्मोपजीवनः ॥ १७०

[[३६८]]

अत्रिसंहिता ।

एतेषां यस्तु भुङ्क्ते वै द्विजश्चान्द्रायणञ्चरेत् । सर्व्वान्त्यजानां गमने भोजने सम्प्रवेशने ॥ १७१ पराकेण विशुद्धिः स्याद्भगवानत्रिरब्रवीत् । चाण्डालभाण्डे यत्तोयं पीत्वा चैव द्विजोत्तमः ॥१७२ गोमूत्र याचकाहारः सप्तत्रिंशदहान्यपि ।

संस्पृष्टं यस्तु पकान्नमन्त्यजैर्वाऽप्युदक्यया ॥ १७३ अज्ञानाद्वाह्मगोऽश्नीयात् प्राजापत्यार्धमाचरेत् । चाण्डालान्नं यदा भुङ्क्त चातुर्वर्णस्य निष्कृतिः ॥ १७४ चान्द्रायणं चरेद्विप्रः क्षत्रः सान्तपनं चरेत् । षड़ात्रमाचरेद्वैश्यः पञ्च मत्र्यं तथैव च ॥ १७५ त्रिरात्रमाचरेच्छूद्रो दानं दत्त्वा विशुद्धयति । ब्राह्मणो वृक्षमारूढश्चाण्डालो मूलसंस्पृशः ॥ १७६ फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भ ेत् । ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत् ॥१७७ नक्तभोजी भवेद्विप्रो घृतं प्राश्य विशुद्धयति । एकवृक्षसमारूढश्चाण्डालो ब्राह्मणस्तथा ॥ १७८ फलान्यत्ति स्थितं तत्र प्रायश्चित्तं कथं भवेत् । ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत् ॥ १७६ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति । एकशाखासमारूढश्चाण्डालो ब्राह्मणो यदा ॥१८० फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भवेत् । त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥ १८१

शुद्धि प्रकरणम् ।

स्त्रिया म्लेच्छस्य सम्पर्काच्छुद्धिः सान्तपने तथा । ता कृच्छ्र पुनः कृत्वा शुद्धिरेषाऽभिधोयते ॥ १८२ सम्वर्तत यथा भार्यां गत्वा म्लेच्छ्रस्य सङ्गताम् । सचैल स्नानमादाय घृतस्य प्राशनेन च ॥ १८३ स्नात्वा नयुश्चैव घृतं प्राश्य विशुद्धयति । संगृहीतामपत्यार्थमन्यैरपि तथा पुनः ॥ १८४ चण्डालम्लेच्छवपचकपालत्रतधारिणः ।

अकामतः स्त्रियो गत्वा पराकेग विशद्धयति ॥१८५ कामतस्तु प्रसूतो वा तत्समो नात्र संशयः । स एव पुरुष स्तत्र गर्भो भूत्वा प्रजायते ॥ १८६. तैलाभ्यको घृताभ्यक्तो विण्तूत्रं कुरुते द्विजः । तैलाभ्यक्तो घृताभ्यक्तश्चाण्डालं स्पृशते द्विजः ॥ १८७ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति । . केशकीटनखस्नायु अस्थिकण्टकमेव च ॥ १८८ स्पृष्ट्रा नद्युदके स्नात्वा घृतं प्राश्य विशुद्धयति । मत्स्यास्थिजम्बुका स्थोनि नखशुक्तिकपर्दिकाः ॥ १८६ स्पृा स्नात्वा हेमतप्रघृतं पीत्वा विशुद्धयति । गोकुले कन्दुशालायां तैलचक्रे चक्रयोः ॥ १६० अमोमांस्यानि शौचानि स्त्रीणाच्च व्याधितस्य च । न स्त्रो दृष्यति जारेण ब्राह्मणोऽवेदकर्मणा ॥ १६१ नाऽऽपो मूत्रपुरीषाभ्यां नाग्निर्दहति कर्मजा । पूर्व स्त्रियः सुरैर्भुक्ताः सोमगन्धववह्निभिः ॥ १६२

[[२४]]

[[३६६]]

[[३७०]]

अत्रिसंहिता ।

भुञ्जते मानवाः पश्चान्न ता दुष्यन्ति कर्हिचित् । असवर्णैस्तु यो गर्भः स्त्रीणां योनौ निषिच्यते ॥ १६३ अशुद्धा सा भवेन्नारी यावद्धमं (गर्भ) न मुध्यति । विमुक्ते तु ततः शल्ये रजश्चापि प्रदृश्यते ॥ १६४ तदा सा शुद्धयते नारी विमलं काथ्वनं यथा । स्वयं विप्रतिपन्ना या यदि वा विप्रतारिता । १६५ बलान्नारी प्रभुक्ता वा चौरमुक्ता तथाऽपि वा । न त्याज्या दूषिता नारी न कामोsस्या विधीयते ॥ १६६ ऋतुकाल उपासीत पुष्पकालेन शुद्धयति । रजकर्मकारश्च नटो वुरुड एव च ॥ १६७ कैवर्तमेभिल्लाच सप्तैते चान्त्याः स्मृताः । एषां गत्वा स्त्रियो मोहाद्भुक्ता च प्रतिगृद्य च ॥१६८ कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ।

सकृद्भुक्ता (क्ता) तु या नारी म्लेच्छर्या पापकर्मभिः ॥ १६६ प्राजापत्येन शुद्धयत ऋतुप्रसवणेन तु ।

वलाद्ध, ता स्वयं वाऽपि परप्रेरितया येदि ॥२०० सकृद्भुक्ता तु या नारीप्राजापत्येन (शुद्रयति) गृह्णति । प्रारब्द्धदीर्घतपसां नारीणां यद्रजो भवेत् ॥ २०१ न तेन तद्वतं तासां विनश्यति कदाचन । मचसंस्पृष्टकुम्भेषु यत्तोयं पिवति द्विजः ॥२०२ कुच्छपादेन शुद्धयत पुनः संस्कारमर्हति ।

अन्त्यजस्व तु ये वृक्षाः बहुपुष्पफलोपगाः ॥२०३

शुद्धि-स्पर्शादि-प्रायश्चित्तम् ।

उपभोग्यास्तु ते सर्वे पुष्पेषु च फलेषु च ।

चाण्डालेन तु संस्पृष्टं यत्तोयं पिवत्ति द्विजः ॥२०४ कृच्छ्रपादेन शुद्धयत आपस्तम्बोऽब्रवीन्मुनिः । श्लेष्मोपानह विण्मूत्र स्त्रीरजोमयमेव च ॥ २०५ एभिः सन्दूषिते कूपे तोयं पीत्वा कथं विधिः । एकं द्वयहं त्र्यहञ्चैव द्विजातीनां विशोधनम् ॥२०६ प्रायश्चित्तं पुनश्चैव नक्तं शूद्रस्य दापयेत् । सद्यो वान्ते सचैलं तु विप्रस्तु स्नानमाचरेत् ॥२०७ पर्युपिते वहोरात्रमतिरिक्त दिनत्रयम् ।

शिरः कण्ठोरुपादांच सुरया यस्तु लिप्यते ॥२०८ दशषट्त्रितथैका चरेदेवमनुक्रमात् ।

अत्राप्युदाहरन्ति ॥

प्रमादान्मद्यपः सुरां सकृत्पीत्वा द्विजत्तमः । गोमूत्रयाबकाहारो दशरात्रण शुद्धचति ॥२६ मद्यपस्य निषादस्य यस्तु भुङ्क्त द्विजोत्तमः । न देवा भुञ्जते तत्र न पिवन्ति हविर्जलम् ॥२१० चितिभ्रष्टा तु या नारी ऋतु भ्रष्टा च व्याधितः । प्राजापत्येन शुध्येत ब्राह्मणान् भोजयेद्दश ॥२११ ये च प्रब्रजिता विप्राः प्रव्रज्याग्निजलावहाः ॥२१२ अनाशकान्निवर्त्तन्ते चिकीर्षन्ति गृहस्थितिम् । धारयेत्त्रीणि कृच्छाणि चान्द्रायणमथापि वा ॥ २१३ जातकर्मादिकं प्रोक्तं पुनः संस्कारमर्हति । नाशौचं नोदकं नाश्रु नापवादानुकम्पने ॥ २१४,

[[३५०१]]

[[३७२]]

अत्रिसंहिता ।

ब्रह्मदण्डतानां तु न कार्य कटधारणम् ।

स्नेहं कृत्वा भयादिभ्यो यस्त्वेतानि समाचरेत ॥ २१५ गोमूत्रयावकाहारः कृच्छ्रमेकं विशोधनम् ।

वृद्धः शौचस्मृतेर्लुमः प्रत्याख्यातभिषक्क्रियः ॥ २१६ आत्मानं घाययेद्यस्तु भृग्वग्न्यनशनाम्बुभिः । तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयम् ॥२१७ तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत् । यस्यैकाऽपि गृहे नास्ति धेनुर्वत्मानुचारिणी ॥२१८ मङ्गलानि कुतस्तस्य कुतस्तस्य तमः क्षयः । अतिदोहातिवाहाभ्यां नासिकाभेदनेन वा ॥ २९६ नदीपर्वतसंरोधे मृते पादोनमाचरेत ।

अष्टागवं धर्महलं पड़गवं व्यावहारिकम् ॥२२० चतुर्गवं नृशंसानां द्विगवं (बध्यते सह ) गवबध्यकृन् । द्विगवं वाहयेत् पादं मध्याह्न तु चतुवम् ॥ २२१ षड्गवं तु त्रिपादोक्तं पूर्णाहस्त्वष्टभिः स्मृतः । काष्ठुलो शिलागोघ्नः कृच्छ सान्तपनञ्चरेत् ॥ २२२ प्राजापत्यं चरेन्मृत्सा (?) अतिकृच्छ्रन्तु आयसैः । प्रायश्चित्तं ततश्चीर्णे कुर्याद्वाह्मणभोजनम् ॥ २२३ अनुडुत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् । शरभो हयान्नागान् सिंहशार्दूलगर्दभान् ॥२२४ हत्वा च शूद्रहत्यायाः प्रायश्चित्तं विधीयते । मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः ॥ २२५प्रायश्चित्तम् ।

[[३७३]]

हत्वा त्र्यहं पिवेत् क्षीरं कृच्छ्रं वा पादिकञ्चरेत् । चाण्डालस्य च संस्मृष्टं विण्मूत्रस्पृष्टमेव वा ॥२२६ त्रिरात्रेण विशुद्धिः स्याद्भुक्तोच्छिएं (समा) तथाचरेत् । वापीकूपतडागानां दृपितानाञ्च शोधनम् ॥२२७ उद्धरेद्धटशतं पूर्णं पञ्चगव्येन शुद्धयति । अस्थिचर्मावसिक्तेषु खरधानादिदूषिते ॥ २२८

उद्धरेदुदकं सर्व शोधनं परिमार्जनम् ॥२२६

गोदोहन चर्मपुढे च तोयं यन्त्राकरे कारुकशिल्पिहस्ते । स्त्रीबालवृद्धाचरितानि यान्यप्रत्यक्षानि शुचीनि तानि ॥ २३० प्राकाररोधे विषमप्रदेशे सेनानिवेशे भवनस्य दाहे । आरब्ध यज्ञेषु महोत्सवेषु तथैव दोपा न विकल्पनीयाः ॥२३१ प्रपास्वरण्ये झढकस्य (घटकस्य) क्रूपे द्रोण्यां जलं कोशविनिर्गतश्च । श्वपाकचण्डालपरिमहे तु पित्वा जलं पञ्चगव्येन शुद्धिः ॥२३२

रेतो विण्मूत्रसंस्पृष्टं कौपं यदि जलं पिवेत् ।

त्रिरात्रेणैव शुद्धिः त्यात् कुम्भे सान्तपनं तथा ॥ २३३ छिन्नभिन्नशवं यत् स्यादज्ञानादुदकं पिवेत् ।

प्रायश्चित्तं चरेत पीत्वा तप्तकृच्छ द्विजोत्तमः ॥२३४

उष्ट्रीक्षीरं खरीक्षीरं मानुषीक्षीरमेव च ।

प्रायश्चित्तं चरेत् पीत्वा तप्तकृच्छ्रं द्विजोत्तमः ॥ २३५ वर्णवाह्येन संस्पृष्ट उच्छिष्टस्तु द्विजोत्तमः ।

पश्वरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥ २३६

[[1७४]]

अत्रिसंहिता ।

शुचि गोतृहिकृत्तोयं प्रकृतिस्थ महीगतम् । चर्मभाण्डैस्तु धाराभिस्तथा यन्त्रोद्धृतं जलम् ॥२३७ चण्डालेन तु संस्पृष्टः (c) स्नानमेव विधीयते । उच्छिस्तु च संस्पृष्टस्त्रिरात्रेणैव शुद्धयति ॥ २३८ आकराहृतवस्तूनि नाशुचीनि कदाचन । आकराः शुचयः सर्वे वर्जयित्वा सुराकरम् ॥२३६ भ्र (भृष्टाभ्र (भृष्टयवाश्चैव तथैव चणकाः स्मृताः । खर्जूरूचैव कर्पूरमन्यद्य ( ) तरं शुचि ॥ २४० अमीमांस्यानि शौचानि स्त्रीभिराचरितानि च । अदुष्टाः सततं धारा वातोद्धूताश्च रेणवः ॥ २४१ बहूनामेव (क) लग्नानामेकश्चेदशुचिर्भवेत । अशौचमेकमात्रस्य नेतरेषां कथञ्चन ॥ २४२ एकपङ्क्त्युपविष्टानां भोजनेषु पृथक् पृथक् । यथेको लभते नीलीं सर्वे तेऽशुचयः स्मृताः ॥ २४३ यस्य पढे पट्टसूत्रे नीलीरक्तो हि दृश्यते । त्रिरात्रं तस्य दातव्यं शेषाचैवोपवासिनः ॥ २४४ आदित्येऽस्तमिते रात्रावस्पृश्यं स्पृशते यदि । भगवन् ! केन शुद्धिः स्यात्ततो ब्रूहि तपोधन । २४५ आदित्येऽस्तमिते रात्रौ स्पृशन् हीनं दिवा जलम् । तेनैय सर्व शुद्धिः स्याच्छवर पृष्ठन्तु वर्जयेत् ॥ २४६ देशकालं ‘बयः शक्तिं पापश्वावेक्षयेत्त (श्य यत्न )तः । प्रायश्चित्तं प्रकल्प्यं स्याद्यस्य चोक्ता न निष्कृतिः ॥ २४७

प्रायश्चित्तवर्णनम् ।

देवयात्राविवाहेषु यज्ञप्रकरणेषु च ।

[[३७५]]

उत्सवेषु च सर्वेषु रास्पृष्टिर्न विद्यते ॥ २४८ आरनालं तथा क्षीरं कन्दुकं दधिसक्तवः । स्नेहपकञ्च तच शूद्रास्यापि न दूष्यति ॥ २४६ आर्द्रमांसं घृतं तैलं स्नेहाच्च फलसम्भवाः । अन्त्यभाण्डस्थिता एते निष्क्रान्ताः शुद्धिमाप्नुयुः ॥ २५० अज्ञानात पिवते तोयं ब्राह्मणः शूद्रजातिषु । अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुद्धयति ॥२५१ आहिताग्निस्तु यो विप्रो महापातकवान् भवेत । अप्सु प्रक्षिप्य पात्राणि पश्चादग्नि विनिर्दिशेत् ॥ २५२ योऽगृहीत्वा विवाहाग्नि गृहस्थ इति मन्यते । अन्नं तस्य न भोक्तव्यं वृथापाको हि सः स्मृतः ॥२५३ वृथापाकस्य भुञ्जानः प्रायश्चित्तं चरेद्विजः ।

प्राणानप्सु त्रिराचम्य घृतं प्राश्य विशुद्वयति ॥ २५४ वैदिके लौकिके वाऽपि हुतोच्छि जले क्षितौ । वैश्वदेवं प्रकुर्वीत पञ्चसूनापनुत्तये ॥२५५ कनीयान गुणवान् श्रेष्ठः श्रेष्ठश्वेन्निर्गुणो भवेत् । पूर्व पाणि गृहीत्वा च गृह्यामिं धारयेद्बुधः ॥ २५६ ज्येष्ठश्वेद्यदि निर्दोषो गृह्णीयादग्नि ( यवीयकः) मग्रतः । नित्यं नित्यं भवेत्तस्य ब्रह्महत्या न संशयः ॥ २५७ महापातकसंस्पृष्टः (g) स्नानमेव विधीयते । संस्पृष्टस्य यदा भुक्के स्नानमेव विधीयते ॥२५८

[[३७६]]

अत्रिसंहिता ।

पतितैः सह संसर्ग मासार्द्ध मासमेव वा । गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥ २५६ कृच्छ्राधं पतितस्यैव सकृद्भुक्त्वा द्विजोत्तमः । अविज्ञानाच्च तद्भुक्त्वा कृच्छ्रं सान्तपनञ्चरेत् ॥ २६० पतितान्नं यदा भुक्तं भुक्तं चाण्डालवेश्मनि । मासार्धन्तु पिवेद्वारि इति शातातपोऽब्रवीत् ॥२६१ गोब्राह्मणहतानाञ्च पतितानां तथैव च ।

अग्निना न च संस्कारः शङ्खस्य वचनं यथा ॥ २६२ यश्चाण्डाली द्विजो गच्छंत् कथञ्चित् काममोहितः । त्रिभिः कृच्छ्रं विशुध्येत प्राजापत्यानुपूर्वशः ॥ २६३ पतिताश्चान्नमादाय भुक्त्वा वा ब्राह्मणो यदि । कृत्वा तस्य समुत्सर्गमतिकृच्छ विनिर्दिशेत् ॥२६४ अन्त्यहस्ताच्छव क्षिप्त’ (प्त ) काष्ठलेोष्ट्रतृणानि च । न स्पृशेत्तु तथोच्छिमहोरात्रं समाचरेत् ॥ २६५ चाण्डालं पतितं म्लेच्छ मद्यभाण्डं रजस्वलाम् । द्विजः स्पृा न भुञ्जीत भुञ्जानो यदि संस्पृशेत् ॥ २६६ अतः परं न भुञ्जीत त्यक्त्वाऽन्नं स्नानमाचरेत् । ब्राह्मणैः समनुज्ञात स्त्रिरात्रमुपवासयेत् ॥ २६७ सघृतं यावकं प्राश्य व्रतशेषं समापयेत् ॥ भुञ्जानः संस्पृशेद्यस्तु वायसं कुक्कुटं तथा । त्रिरात्रेणैव शुद्धिः स्यादथोच्स्त्विहेन तु ( ! ) ॥२६८

प्रायश्चित्तवर्णनम् ।

आरूढो नैष्ठिके धर्मे यस्तु प्रच्यवते पुनः । चान्द्रायणं चरेन्मासमिति शातातपोऽब्रवीत् ॥२६६ पशुवेश्याभिगमने प्राजापत्यं विधीयते ।

गवां गमने मनुप्रोक्तं व्रतं चान्द्रायणञ्चरेत् ॥ २७० अमानुषीषु गोवर्जमुदक्यायामयोनिषु ।

[[३७७]]

रेतः सिक्त्वा जले चैव कृच्छ सान्तपनध्वरेत् ॥ २७१ उदक्यां सूतिकां वाऽपि अन्त्यजां स्पृशते यदि । त्रिरात्रेणैव शुद्धिः स्याद्विधिरेष पुरातनः ॥२७२ संसर्ग यदि गच्छदुदक्याया तथाऽन्त्यजैः । प्रायश्चित्ती स विज्ञेयः पूर्व स्नानं समाचरेत् ॥ २७३ एकरात्रभ्धरेन्मूत्रं पुरीषं तु दिनत्रयम् ।

दिनत्रयं तथा पाने मैथुने पञ्च सप्त वा ॥ २७४ भोजने तु प्रसक्तानां प्राजापत्यं विधीयते । दन्तकाष्ठे त्वहोरात्रमेष शौचविधिः स्मृतः ॥२७५ रजस्वला यदा स्पृष्टा श्वानचण्डालवायसैः । निराहारा भवेत्तावत् स्नात्वा कालेन शुद्धयति ॥ २७६ रजस्वला यदा स्पृटा उजम्बुकशम्बरैः । पश्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥२७७ स्पृष्टं (टा) रजस्वलाऽन्योन्यं ब्राह्मण्या ब्राह्मणी च या । एकरात्रं निराहारा पञ्चगव्येन शुद्धयति ॥ २७८ स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मण्या क्षत्त्रियी च या । त्रिरात्रेण विशुद्धिः स्याद्वयासस्य वचनं यथा ॥ २७६

IL

अत्रिसंहिता ।

स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मण्या वैश्यसम्भवा । चतूरात्रं निराहारा पञ्चगव्येन शुद्धयति ॥ २८० स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मण्या शूद्रसम्भवा । बड़ागेण विशुद्धिः स्याद्ब्राह्मणीकामकारतः ॥२८१ अकामतश्चरेदैवं ब्राह्मणी सर्वतः स्पृशेत् ॥ चतुर्णामपि वर्णानां शुद्धिरेषा प्रकीर्तिता ॥ २८२ उच्छिन तु संस्पृष्टो ब्राह्मणो ब्राह्मणेन यः । भोजने मूत्रचारे च शङ्खस्य वचनं यथा ॥ २८३ स्नानं ब्राह्मणसंस्पर्शे जपहोमौ त क्षत्त्रिये । वैश्ये नत्तश्च कुर्वीत शूद्रं चैव उपोषणम् ॥२८४ चर्मको रजको वैण्यो धीवरो नटकरतथा ।

एतान् पृा द्विजो मोहादाचामेत् प्रयतोऽपिसन् ॥ २८५ एतैः स्पृष्टो द्विजो नित्यमेकरात्रं पयः पिवेत् । उच्छिष्टैस्तैस्त्रिरात्रं स्यादुद्धृतं प्राश्य विशुद्धयति ॥ २८६ यस्तु छायां श्वपाकस्य ब्राह्मणस्त्वधिगच्छति । तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुद्धयति ॥२८७ अभिशस्तो द्विजोऽरण्ये ब्रह्महत्याव्रतं चरेत् ।

मासोपवासं कुर्वीत चान्द्रायणमथापि वा ॥२८८ वृथा मिथ्योपयोगेन भ्रूणहत्याव्रतश्चरेत् ।

अन्भक्षो द्वादशाहेन पराकेणैव शुद्धयति ॥ २८६ शठश्च ब्राह्मण हत्वा शूद्रहस्यानतं चरेत् । निर्गुण सगुणो हत्वा पराकत्रतमाचरेत् ॥२६०

प्रायश्चित्तवर्णनम् ।

उपपातकसंयुक्तो मानवो म्रियते यदि ।

तस्य संस्कारकर्ता च प्राजापत्यद्वयश्चरेत् ॥२६५ प्रभुञ्जानोऽतिसस्नेहं कदाचित् पृशते द्विजः ।

त्रिरात्रमाचरेन्नक्तैर्निः स्नेहमथ वा चरेत् ॥२६२

[[३७६]]

विडालकाकाद्युच्छिष्टं जग्ध्वा श्वनकुलस्य च ।

केशकीटावपन्नञ्च पिवेद्ब्राह्मीं सुवर्चसम् ॥ २६३

उष्ट्रयानं समारुह्य खरयानञ्च कामतः ।

स्नात्वाविप्रो (रूप दिग्वासा) जितग्रासः प्राणायामेन शुद्धयति ॥ सव्याहृतीं सप्रणवां गायत्रीं शिरसा सह ।

त्रिः पठेदा (वा) यतः प्राणः प्राणायामः स उच्यते ॥२६५ सकृद्विगुणगोमूत्रं सर्पिर्दद्याच्चतुर्गुणम् ।

क्षीरमष्टगुणं देयं पश्वगव्ये तथा दधि ॥ २६६ पञ्चगत्र्यं पिवेद्रो ब्राह्मणस्तु सुरां पिवेत् । उभौ तौ तुल्यदोषौ च वसतो नरके चिरं ॥ २६७ अजा गावो महिष्यश्च अमेव्यं भक्षयन्ति याः । दुग्धं हन्ये च कव्ये च गोमयं न विलेपयेत् ॥ २६८ ऊनस्तनीमधिका वा या वान्या स्तनपायिनी । तासां दुग्धं न होतयं हुतं चैवाहुतं भवेत् ॥ २६६ ब्राह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातवाद्ध नवश्राद्ध मुक्त्वा चान्द्रायणं चरेत् ॥३००

राजान्नं हरते तेजः शूद्रान्नं ब्रह्मवर्षसम् ।

स्वसुतान्न यो भुङ्क्ते स भुङ्क्क्त पृथिवीमलम् ॥३०१

[[३८०]]

अत्रिसंहिता ।

स्वसुता अप्रजा तावन्नाश्नीयात्तद्गृहे पिता ।

अन्नं भुङ्क्ते तु यो मोहात्पूयं स नरकं व्रजेत् ॥३०२ अधीत्य चतुरो वेदान् सर्वशास्त्रार्थततुवित् ।

नरेन्द्रभवने भुक्ता विष्ठायां जायते कृमिः ॥ ३०३ नवश्राद्ध त्रिपक्षे च पण्मासे मासिकेऽब्दिके । पतन्ति पितरस्तस्य यो भुङ्क्तेऽनापदि द्विजः ॥ ३०४ चान्द्रायणं नवश्राद्ध पराको मासिके तथा । त्रिपक्षे चैव कुन्छः स्यात् षण्मासे कृष्टमेव च । आन्दिके पादकृच्छः स्यादेकाहः पुनराब्दिके ॥ ३०५ ब्रह्मचर्यमनाधाय मासश्राद्धषु पर्वसु ।

द्वादशाहे त्रिपक्षेदे यस्तु भुङ्क्ते द्विजोत्तमः ॥ ३०६ पतन्ति पितरस्तस्य ब्रह्मलोके गता अपि ॥ ३०७ एकादशाहेऽहोरात्रं भुक्त्वा संचयने व्यहम् । उपोष्य विधिवद्विप्रः कुष्माण्डी जुहुयाद्घृतम् ॥३०८ पक्षे वा यदि वा मासे यस्य नाश्नन्ति वै द्विजाः । भुक्त्वा दुरात्मनस्तस्य द्विजश्वान्द्रायणं चरेत् ॥३०६ यन्न वेदध्वनि ( श्रान्तं ) ध्वान्तं न च गोभिरलङ्कृतम् । यन्न बालैः परिवृतं श्मशानमिव तद्गृहम् ॥३१० हास्येऽपि बहवो यत्र विनाधर्म बदन्ति हि (न) । विनाऽपि धर्मशास्त्रेण स धर्मः पावनः स्मृतः ॥३११ हीनवर्णे च यः कुर्यादज्ञानादभिवादनम् ।

तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुद्धयति ॥३१२

प्रायश्चित्तवर्णनम् ।

समुत्पन्नं यदा स्नाने भुते वाऽपि पिवेद्यदि । गायत्र्यसहस्रं तु जपेत् स्नात्वा समाहितः ॥३१३ अङ्गुल्या दन्तकाष्ठ’ च प्रत्यक्ष लवणं तथा । मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणम् ॥३१४ दिवा कपित्थच्छायायां रात्री दधि शमीपु च । कार्पासं दन्तकाष्ठ च विष्णोरपि हरेच्छियम् ॥ ३१५ शूर्पवातनखाग्राम्बुस्नानं वस्त्रपदोदकं ।

मार्जनीरेण केशाम्बु हन्ति पुण्यं दिवाकृतम् ॥३१६ मार्जनीरजकेशाम्बु देवतायतनोद्भवम् ।

तेनावगुण्ठितं तेषु गङ्गाम्भः प्लुत एव सः ॥ ३१७ मृत्तिकाः सप्त न ग्राह्या वल्मीके मूषिकस्थले । अन्तर्जले श्मशानान्ते वृक्षमूले सुरालये ॥ ३१८ वृषभैश्र तथोत्खाते श्रेयष्कामैः सदा बुधैः ॥ ३१६ शुचौ देशे तु संग्राह्या शर्कराश्मविवर्जिता ॥ ३२० पुरीषे मैथुने होमे प्रस्रावे दन्तधावने । स्नानभोजनजप्येषु सदा मौनं समाचरेत ॥ ३२१ यस्तु संवत्सरं पूर्ण भुङ्क्ते मौनेन सर्वदा । युगकोटिसहस्त्रेषु स्वर्गलोके महीयते ॥ ३२२ स्नानं दानं जपं होमं भोजनं देवतार्चनम् । प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥ ३२३ सर्वस्वमपि यो दद्यात् पातयित्वा द्विजोत्तम् । नाशयित्वा तु तत्सर्वं भ्रूणहत्याफलं लभेत् ॥ ३२४

[[३८१]]

[[३८२]]

अत्रिसंहित :

ग्रहणोद्वाहसंक्रान्तौ स्त्रीणाच्च प्रसवे तथा । दानं नैमित्तिकं ज्ञेयं रात्रौ चापि प्रशस्यते ॥३२५ क्षौमजं वाऽथ कार्पासं पट्टसूत्रमथापि वा । यज्ञोपवीतं यो दद्याद्वस्त्रदानफलं लभेत् ॥३२६ कांस्यस्य भाजनं दद्याद्घृतपूर्ण सुशोभनम् । तथा भक्त्या विधानेन अग्निष्टोमफलं लभेत् ॥ ३२७ श्राद्धकाले तु यो दद्याच्छोभनौ (ने) च उपानहौ । स गच्छत्यन्यमार्गेऽपि अश्वदानफलं लभेत् ॥३२८ तिलपात्रं तु यो दद्यात् संपूर्ण तु समाहितः । स गच्छति ध्रुवं स्वर्गे नरो नाख्यत्र संशयः ॥ ३२६ दुर्भिक्षे अन्नदाता च सुभिक्षे च हिरण्यदः । पानीयदस्त्वरण्ये च स्वर्गलोके महीयते ॥३३० यावदर्धप्रसूता गौस्तावत् सा पृथिवी स्मृता । पृथिवीं तेन दन्ता स्यादीदृशीं गान्ददाति यः ॥ ३३१ तेनाग्नयो हुताः सम्यक् पितरस्तेन तर्पिताः । देवाश्च पूजिताः सर्वे यो ददाति गवाह्निकम् ॥३३२ जन्मप्रभृति यत्पापं मातृकं पैतृकं तथा ।

तत्सवं नश्यति क्षिप्रं वस्त्रदानाम संशयः ॥३३३ कृष्णाजिनञ्च यो दद्यात् सर्वोपस्करसंयुतम् । उद्धरेत्नरकस्थानात् कुलान्येकोत्तरं शलम् ॥३३४ आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः । शूलपाणिस्तु भगवानभिनन्दन्ति भूमिदम् ॥३३५दानफलवर्णनम् ।

[[३८३]]

बालुकानां कृता राशि यवत् सप्तर्षिमण्डलम् । गते वषशते चैव पलमेकं विशीर्यति ॥३३६ क्षयश्च दृश्यते तस्य कन्यादाने न चैव हि । आतरे प्राणदाता च त्रीणि दानफलानि च ( 1 ) ॥ ३३७ सर्वेषामेव दानानां विद्यादानं ततोऽधिकम । पुत्रादिस्वजने दद्याद्विप्राय च न कैतवे ॥३३८ सकामः स्वर्गमाप्नोति निष्कामो मोक्षमाप्नुयात् । ब्राह्मणे वेदविदुषि सर्वशास्त्रविशारदे ॥३३६ मातृ ( ता ) पितृपरे चैव ऋतुकालाभिगामिनि । शीलचारित्रसम्पूर्ण प्रातः स्नानपरायणे ॥ ३४० तस्यैव दीयते दानं यदीच्छेच्छ्रेय आत्मनः ॥ संपूज्य विदुषो विप्रानन्येभ्योऽपि प्रदीयते । तत्कायं नैव कर्तव्यं न दृएं न श्रुतं मया ॥ ३४९ अतः परं प्रवक्ष्यामि श्राद्धकर्मणि ये द्विजाः । पितॄणामक्षयं दानं दत्तं येषान्स निष्फलम् ॥३४२ न हीनाङ्गो न रोंबी (गी) च श्रुतिस्मृति विवर्जितः । नित्यश्वानृतवादी च तरितु श्राद्धं न भोजयेत् ॥३४३ हिंसारतं च कपटं उपगृह श्रुतं च यः । किङ्करं कपिलं काणं चित्रिणं सेगिण तथा ॥३४४ दुश्चर्माणं शीर्णकेशं पाण्डुरोगं जटाधरं । भारवाहकमुप्रथ्व द्विभागं वृषलीपतिम् ॥ ३४५

[[३८४]]

अत्रिसंहिता ।

भेदकारी भवेचैव बहुपीडाकरोऽपि वा । होनातिरिक्तगात्रो वा तमप्यपनयेत्तथा ॥ ३४६ बहुभोक्ता दीनमुखो मत्सरी क्रूरबुद्धिमान् । एतेषां नैव दातव्यः कदाचिद्वे प्रतिग्रहः ॥ ३४७ अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदृष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ ३४८ श्रुतिः स्मृतिश्च विप्राणां नयने द्वे प्रकीर्तिते । काणः स्यादेकहीनोऽपि द्वाभ्यामन्धः प्रकीर्तितः ॥ ३४६ न श्रुतिर्न स्मृतिर्यस्य न शीलं न कुलं यतः । तस्य श्राद्ध न दातव्यं त्वन्धकस्यात्रिरत्रवीत् ॥३५० तस्माद्वेदेन शास्त्रेण ब्राह्मण्यं ब्राह्मणस्य तु । न चैकेनैव वेदेन भगवान त्रिरत्रवीत् ॥३५१ योगस्थैर्लोचनैर्युक्तः पादाग्रभ्व प्रयच्छति । लौकिकज्ञैश्व शास्त्रोक्तं पश्येच्चैवाधरोत्तरम् ॥३५२ वेदैश्व ऋषिभिगतं दृष्टिमान शास्त्रवेदवित् ॥ ३५३ ब्रतिनं च कुलीनं च श्रुतिस्मृतिरतं सदा । तादृशं भोजयेच्छाद्ध पितॄणामक्षयं भवेत् ॥३५४ यावतो ग्रसतेप्रासान् पितॄणां दी- तेजसाम् । पिता पितामहश्चैव तथैव प्रपितामहः ॥ ३५५ नरकस्था विमुच्यन्ते ध्रुवं यान्ति त्रिविष्टपम । तस्माद्विप्रं परीक्षेत श्राद्धकाले प्रयत्नतः ॥ ३५६.

श्राद्धफलवर्णनम् ।

न निर्व्वपति यः श्राद्ध प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि प्रायश्चित्ती भवेत्तु सः ॥ ३५७ सूर्य कन्यागते कुर्याच्छाद्धं यो न गृहाश्रमी । धनं पुत्रान् कुलं तस्य पितृनिश्वासपीड़या ॥ ३५८ कन्यागते सवितरि पितरो यान्ति सत्सुतान् । शून्या प्रेतपुरी सी यवाद्वृश्चिकदर्शनम् ॥३५६ ततो वृश्चिकसंप्राप्ते निराशाः पितरोगताः । पुनः स्वभवनं यान्ति शापं दत्त्वा सुदारुणन् ॥ ३६० पुत्रं वा भ्रातरं वापि दौहित्रं पौत्रकं तथा । पितृकार्ये प्रसक्ता ये ते यान्ति परमां गतिम् ॥ ३६१ यथा निर्मन्थनादग्निः सर्व्वकाष्ठेषु तिष्ठति । तथा स दृश्यते धर्म्याच्छाद्धदानान्न संशयः ॥२६२ सर्वशास्त्रार्थगमनं सर्वतीर्थावगाहनम् ।

सर्वयज्ञफलं विन्द्याच्छ्राद्धदानान्न संशयः ॥ ३६३ महापातकसंयुक्तो यो युक्तवोपपातकैः ।

घनैर्मुक्तो यथा भानूराहुमुक्तश्च चन्द्रमाः ॥ ३६४ सर्वपापविनिर्मुक्तः सर्वपापं विलङ्घयेत् ।

सर्वसौख्यं स्वयं प्राप्तः श्राद्धदानान्न संशयः ॥ ३६५

सर्वेषामेव दानानां श्राद्धदानं विशिष्यते ।

मेरुतुल्यं कृतं पापं श्राद्धदानं विशोधनम् ॥ ३६६ श्राद्धं कृत्वा तु मत्यों वै स्वर्गलोके महीयते । अमृतं ब्राह्मणस्यान्न क्षत्रियान्न पय स्मृतम् ॥ ३६७

[[२५]]

३८५.

[[३८६]]

अत्रिसंहिता ।

वैश्यस्य चान्नमेवान्न शूद्रान्नं रुधिरं भवेत् । एतत् सर्वं मया ख्यातं श्राद्धकाले समुत्थिते ॥ ३६८ वैश्वदेवे च होमे च देवताभ्यर्श्वने जपे । अमृतं तेन विप्रान्नमृग्यजुःसामसंस्कृतम् ॥३६६ व्यवहारनुपूर्वेण धर्मेण वलिभिर्जितम् । क्षत्रियान्न पयस्तेन घृतान्न यज्ञपालने ॥३७० देवो मुनिर्द्विजो राजा वैश्यः शूद्रो निषादकः । पशुम्लेच्छोsपि चाण्डालो विप्रा दशविधाः स्मृताः ॥ ३७१ सन्ध्यां स्नानं जपं होमं देवतानित्य पूजनम् । अतिथि वैश्वदेवञ्च देवब्राह्मण उच्यते ॥ ३७२ शाके पत्र फले मूले वनवासे सदा रतः । निरतोऽहरहः श्राद्ध स विप्रो मुनिरुच्यते ॥ ३७३ वेदान्त पठते नित्यं सर्वसङ्गं परित्यजेत् । साङ्ख्ययोगविचारस्थः स विप्रो द्विज उच्यते ॥ ३७४ अनाहताश्च धन्वानः संग्रामे सर्वसंमुखं ।

आरम्भे निर्जिता येन स विप्रः क्षत्र उच्यते ॥ ३७५

कृषिकर्मरतो यश्च गवाश्व प्रतिपालकः ।

वाणिज्य व्यवसायश्च स विप्रो वैश्य उच्यते ॥३७६

लाक्षालवण संमिश्रं कुसुम्भं क्षीरसर्पिषः ।

विक्रेता मधुमांसानां स विप्रः शूद्र उच्यते ॥ ३७७ चौरश्व तस्करश्चैव सूचको दशकस्तथा ।

मत्स्यमांसे सदालुब्धो बिप्रो निषाद उच्यते ॥ ३७८

निन्द्यब्राह्मणवर्ज्यम् ।

ब्रह्मतत्त्वं न जानाति ब्रह्मसूत्रेण गर्वितः । तेनैव स च पापेन विप्रः पशुरुदाहृतः ॥ ३७६ वापीकूपतड़ागानामारामस्य सरःसु च ।

निःशङ्क रोधकश्चैव स विप्रो म्लेच्छ उच्यते ॥ ३८० क्रियाहीनश्च मूर्खश्च सर्वधर्मविवर्जितः ।

निर्दयः सर्वभूतेषु विप्रश्चाण्डालउच्यते ॥३८१

[[३८७]]

वेदैर्विहीनाश्च पठन्ति शास्त्र शास्त्रेण हीनाश्च पुराणपाठाः । पुराणहीनाः कृषिणो भवन्ति भ्रष्टास्ततो भागवता भवन्ति ॥ ३८२

ज्योतिर्विदों ह्यथर्वाणः कीराः पौराणपाठकाः ।

श्राद्ध यज्ञे महादाने वरणीयाः कदाच न ॥३८३ श्राद्धञ्च पितरं घोरं दानं चैव तु निष्फलम् । यज्ञे च फलहानिः स्यात्तस्मात्तान् परिवर्जयेत् ॥ ३८४ आविचित्रकार वैद्यो नक्षत्रपाठकः ।

चतुर्विप्रा न पूज्यन्ते वृहस्पतिसमा यदि ॥ ३८५ मागधो माधु ( g ) रचैव कापटः कीटकानजौ । पञ्च विप्रा न पूज्यन्ते वृहस्पतिसमा यदि ॥ ३८६ क्रयक्रीता च या कन्या पत्नी सा न विधीयते । तस्यां जाताः सुतास्तेषां पितृपिण्डं न विद्यते ॥ ३८७ अष्टशल्यागतो नीरं पाणिना पिवते द्विजः । सुरापानेन तत्तुल्यं तुल्यं गोमांसभक्षणम् ॥ ३८८ ऊर्द्ध जङ्घषु विप्रेषु प्रक्षाल्य चरणद्वयम् । तावच्चाण्डालरूपेण यावद्गङ्गां न मज्जति ॥ ३८६

[[३८८]]

धर्मफलवर्णनम् ।

दीपशय्यासनच्छाया कार्पासं दन्तधावनम् । अजारेणस्पृशं चैव शक्रस्यापि श्रियं हरेत् ॥ ३६० गृहाद्दशगुणं कूपं कूपाद्दशगुणं तटम् ।

तटादशगुणं नद्यां गङ्गासंख्या न विद्यते ॥ ३६१ स्रवद्यद्ब्राह्मगं तोयं रहस्यं क्षत्रियं तथा । वापीकूपे तु वैश्यस्य शौद्रं भाण्डोदकं तथा ॥ ३६२ तीर्थस्नानं महादानं यच्चान्यत्तिलतर्पणम् । अब्दमेकं न कुर्वीत महागुरुनिपाततः ॥ ३६३ गङ्गा गया त्वमावस्या वृद्धिश्राद्ध क्षयेऽहनि । मघापिण्डप्रदानं स्यादन्यत्र परिवज्र्जयेत् ॥ ३६४ घृतं वा यदि वा तैलं पयोवा यदि वा दधि । चत्वारो ह्याज्यसंस्थानं हुतं नैव तु वर्जयेत् ॥ ३६५ श्रत्वैतानृपयो धर्मान् भापितानत्रिणा स्वयम् । इदमूचुर्महात्मानं सर्वे ते धर्मनिष्ठिताः ॥ ३६६ य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः ।

इह लोके यशः प्राप्य ते यास्यन्ति त्रिपिष्टपम् ॥ ३६७ विद्यार्थी लभते विद्यां धनकामो धनानि च । आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३६८

इति श्रीमत्रिमहर्षिसंहिता समाप्ता ।

॥ श्रीः 11 eit: 11