आङ्गिरसस्मृतिः

॥ आङ्गिरसस्मृतिः ॥

॥ श्रीगणेशायनमः ॥

अथादौ प्रायश्चित्तविधानवर्णनम् । गृहाश्रमेषु धर्मेषु वर्णानामनुपूर्वशः । प्रायश्चित्त विधिं दृष्टा अङ्गिरामुनिरब्रवीत् ॥१ अन्त्यानामपि सिद्धान्न भक्षयित्वा द्विजातयः । चान्द्रं कृच्छ्रं तदर्द्धन्तु ब्रह्मक्षत्र विशां विदुः ॥२ रजकश्चर्मकारश्च नटोवरुड़ एव च । कैवर्त्तभेदभिल्लाच सप्तैते चान्त्यजाः स्मृताः ॥ ३ अन्त्यजानां गृहे तोयं भाण्डे पर्युषितश्च यत् । प्रायश्चित्तं यदा पीतं तदैव हि समाचरेत् ॥४ चाण्डालकूपभाण्डेषु त्वज्ञानात् पिवते यदि । प्रायश्चित्तं कथं तेषां वर्णे वर्णे विधीयते ॥ ५ चरेत् सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः । तदर्द्धन्तु चरेद्वैश्यः पादं शूद्रेषु दापयेत् ॥६

[[५६२]]

आङ्गिरसस्मृतिः ।

[ प्रथमोऽ-

अज्ञानात् पिवते तोयं ब्राह्मणस्त्वन्त्यजातिषु । अहोरात्रोपितोभूत्वा पञ्चगव्येन शुध्यति ॥ ७ विप्रो विप्रेण संस्पृट उच्छिष्टेन कदाचन । आचान्त एव शुध्येत अङ्गिरामुनिरब्रवीत ॥८ क्षत्रियेण यदा स्पा उच्छिन कदाचन । स्नानं जप्यन्तु कुर्वीत दिनस्यार्द्धेन शुध्यति ॥ वैश्येन तु यदा स्पृहः शुना शूद्रेण वा द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ १० अनुच्छिन संस्ौ स्नानं येन विधीयते । तेनैवोच्छिद्रसंस्पृष्टः प्राजापत्यं समाचरेत् ॥११ अत ऊर्ध्वं प्रवक्ष्यामि नीली वस्त्रस्य वै विधिम् । स्त्रीणां क्रीडार्थसंयोगे शयनीये न दुष्यति ॥ १२ पालने विक्रये चैव तद्वृत्त रूपजीवने । पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ व्यपोहति ॥ १३ स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् । वृथा तस्य महायज्ञा नीलोवस्त्रस्य धारणात् ॥१४ नीलीरक्तं यदा वस्त्रमज्ञानेन तु धारयेत् । अहोरात्रोषितोभूत्वा पञ्चगव्येन शुध्यति ॥ १५ नीलीदारु यदा भिन्द्याद्ब्राह्मणं वै प्रमादतः । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणञ्चरेत् ॥ १६ नीलीवृक्षेण पक्कन्तु अन्नमश्नाति चेद्विजः । आहार वमनं कृत्वा पञ्चगव्येन शुध्यति ॥१७नीलवस्त्रादि त्याज्यवर्णनम् ।

भक्षन् प्रमादतोनीलीं द्विजातिस्त्व समाहितः । त्रिषु वर्णेषु सामान्यं चान्द्रायणमिति स्थितम् ॥१८ नीलौरक्तंन वस्त्रेण यदन्नमुपनीयते ।

[[५६३]]

नोपतिष्ठति दातारं भोक्ता भुङ्क्तं तु किल्विपम् ॥१६ नीलीरक्तंन वस्त्रेण यत्पाके श्रपितं भवेत् । तेन भुक्तेन विप्राणां दिनमेकमजोजनम् ॥२० मृते भर्त्तरि या नारी नीलीवस्त्रं प्रधारयेत् । भर्त्ता तु नरकं याति सा नारी तदनन्तरम् ॥२१ नील्या चोपहते क्षेत्रे शस्यं यत्तु प्ररोहति । अभोज्यं तद्विजातीनां भुक्त्वा चान्द्रायणं चरेत् ॥२२ देवद्रोण्यां वृषोत्सर्गे यज्ञे दाने तथैव च । अत्र स्नानं न कत्तव्यं दूषिता च वसुन्धरा ॥२३ वापिता यत्र नीली स्यात्तावद्भूम्य शुचिर्भवेत् । यावद्वादशवर्षाणि अतऊर्ध्वं शुचिर्भवेत् ॥२४ भोजने चैव पाने च तथा चौषधभेषजैः । एवं म्रियन्ते या गावः पादमेकं समाचरेत् ॥२५ घण्टाभरणदोषेण यत्र गौर्विनिपीड्यते ।

चरेदर्द्ध व्रतं तेषां भूषणार्थं हि तत् कृतम् ॥२६ दमने दामने रोधे अवघाते च वैकृते । गवा प्रभवता घातैः पादोनं व्रतमाचरेत् ॥ २७ अङ्गुष्ठपर्वमात्रस्तु बाहुमात्रः प्रमाणतः ।

सपल्लव सामश्च दण्डइत्यभिधीयते ॥२८

[[३८]]

[[५६४]]

आङ्गिरसस्मृतिः ।

दण्डादुक्ताद्यदान्येन पुरुषाः प्रहरन्ति गाम् । द्विगुणं गोत्रतं तेषां प्रायश्चित्तं विशोधनम् ॥२६ शृङ्गभङ्गे त्वस्थिभङ्गे चर्मनिम्मोचने तथा । दशरात्रं चरेत् कृच्छ्रं यावत् स्वस्थोभवत्तदा ॥३० गोमूत्रेण तु संमिश्रं यावकश्वोपजायते । एतदेव हितं कुच्छमिदमाङ्गिरसं मतम् ॥३१ असमर्थस्य वालस्य पिता वा यदि वा गुरुः । यमुद्दिश्य चरेद्धर्म पापं तस्य न विद्यते ॥ ३२ अशीतिर्यस्य वर्षाणि वालोवाप्यनषोड़शः । प्रायश्चित्तार्द्ध मर्हन्ति स्त्रियो रोगिण एव च ॥ ३३ मूच्छिते पतिते चापि गवि यष्टिप्रहारिते । गायत्र्यष्टसहस्रन्तु प्रायश्चित्तं विशोधनम ॥३४ स्नात्वा रजस्वला चैव चतुर्थेऽह्नि विशुष्यति । कुर्य्याद्रजसि निवृत्तेऽनिवृत्त न कथन ॥३५ रोगेण यद्रजः स्त्रीणामत्यर्थं हि प्रवर्त्तते । अशुध्यन्ता न तेन स्युस्तासां वैकारिकं हि तत् ॥३६ साध्वाचारा न तावत् स्याद्राजो यावत् प्रवर्त्तते । वृत्ते रजसि गम्या स्त्री गृहकर्मणि चैन्द्रिये ॥३७ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ! तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ॥३८ रजस्वला यदा स्पृष्टा शुना शूद्रेण चैव हि । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ ३१

शुद्धिवर्णनम् ।

द्वावतावशुची स्यातां दम्पती शयनङ्गतौ । शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥४० गण्डूषं पादशौचञ्च न कुर्य्यात् कांस्यभाजने । भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति ॥। ४१ रजसा शुध्यते नारी नदी वेगेन शुध्यति । भूमौ निःक्षिप्य पण्मासमत्यन्तोपहतं शुचि ॥४२ गवाघातानि कांस्यानि शूद्रोच्छिष्टानि यानि तु । भस्मना दशभिः शुद्धयत् काकेनोपहते तथा ॥४३ शौचं सौवर्णरूयाणां वायुनार्केन्दुरश्मिभिः ॥४४ रेतःस्पृष्टुं शवस्पृरमाविकव न दुष्यति । अद्भिर्मृदा च तन्मात्रं प्रक्षाल्य च विशुध्यति ॥४५

शुष्कमन्नमविप्रस्य भुक्त्वा सप्ताहमृच्छति । अनं व्यञ्जनसंयुक्तमर्द्ध मासेन जीर्य्यति ॥४६ पयोदधि च मासेन षण्मासेन घृतं तथा । तैलं सवत्सरेणैव कोष्ठे जीर्य्यति वा नवा ॥४७ यो भुङ्क्ते हि च शूद्रान मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं मृतः श्वा चाभिजायते ॥४८ शूद्रान्नं शूद्रसम्पर्कः शूद्रेण च सहासनम् । शूद्राज्ज्ञानगमः कश्विज्ज्वलन्तमपि पातयेत् ॥४६ अप्रणामे तु शूद्रेऽपि स्वस्ति यो वदति द्विजः । शूद्रोऽपि नरकं याति ब्राह्मणोऽपि तथैव च ॥५०

[[५६५]]

[[५६६]]

आङ्गिरसरमृतिः ।

दशाहाच्छुध्यते विप्रो द्वादशाहेन भूमिपः । पाक्षिकं वैश्य एवाह शूद्रोमासेन शुध्यति ॥५९ अग्निहोत्री च यो विप्रः शूद्रान्न चैव भोजयेत् । पञ्च तस्य प्रणश्यन्ति आत्मा वेदास्त्रयोऽप्रयः ॥ ५२ शूद्रान्नेन तु भुक्तंन यो द्विजो जनयेत्सुतान् । यस्यान्न तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्त्तते ॥ २३ शूद्रेण पृरमुच्छिएं प्रमादादथ पाणिना । तद्विजेभ्यो न दातव्यमापस्तम्बोऽब्रवीन्मुनिः ॥५४ ब्राह्मणस्य सदा भुङ्क्ते क्षत्रियस्य च पर्वसु । वैश्येष्वापत्सु भुञ्जीत न शूद्रेऽपि कदाचन ॥५५ ब्राह्मणान्ने दरिद्रत्वं क्षत्रियान्ने पशुस्तथा । वैश्यान्नेन तु शूद्रत्वं शूद्रान्न े नरकं ध्रुवम् ॥५६ अमृतं ब्राह्मणस्यानं क्षत्रियान्न पयः स्मृतम् । वैश्यस्य चान्नमेवान्न शूद्रान्नं रुधिरं ध्रुवम् ॥५७ दुष्कृतं हि मनुष्याणामन्नमानित्य तिष्ठति ।

यो यस्यान्न समश्नाति स तस्याश्नाति किल्विषम् ॥५८ सूतकेषु यदा विप्रो ब्रह्मचारी जितेन्द्रियः । पिवेत् पानीयमज्ञानाद्भुङ्क्ते (अन्नं) भक्तमथापिवा ॥५६ उत्तार्थ्याचम्य उदकमवतीर्य्य उपस्पृशेत् ।

एवं हि समुदाचारो वरुणेनाभिमन्त्रितः ॥६० अग्न्यागारे गवां गोष्ठे देवब्राह्मण सन्निधौ

[[1]]

आहारे जपकाले च पादुकानां विसर्जनम् ॥६१

भोजन विषयवर्णनम् ।

[[५६७]]

पादुकासनमारूदोगेहात् पथ्वगृहं ब्रजेत् । छंदयेत्तस्य पादौ तु धार्मिकः पृथिवीपतिः ॥६२ अग्निहोत्री तपस्त्री च श्रोत्रियो वेदपारगः । एते वै पादुकैय्र्यान्ति शेषान्दण्डन ताडयेत् ॥ ६३ जन्मप्रभृतिसंस्कारे चूड़ान्ते भोजनं नवम् । असपिण्डेन भोक्तव्यं चूड़स्यान्ते विशेषतः ॥६४ याचकान्न नवश्राद्धमपि सूतकभोजनम् । नारीप्रथमगर्भेषु भुक्त्वा चान्द्रायणं चरेत् ॥ ६५ अन्यदत्ता तु या कन्या पुनरन्यस्य दीयते । तस्याश्चान्नं न भोक्तव्यं पुनर्भूः सा प्रगीयते ॥ ६६ पूर्वश्व स्त्रावितोयश्च गर्भोयश्चाप्यसंस्कृतः । द्वितीये गर्भसंस्कारस्तेन शुद्धिर्विधीयते ॥ ६७ राजाद्यैर्द्दशभिर्मासैर्यावत्तिष्ठति गुर्विणी । तावद्रक्षा विधातव्या पुनरन्योविधीयते ॥ ६८ भर्तृशासनमुल्लङ्घय या च स्त्री विप्रवर्त्तते । तस्याश्चैव न भोक्तव्यं विज्ञेया कामचारिणी ॥६६ अनपत्या तु या नारी नाश्नीयात्तद्गृहेऽपि वै । अथ भुङ्क्ते तु यो मोहात् पूयसं नरकं व्रजेत् ॥७० स्त्रियाधनन्तु ये मोहादुपजीवन्ति बान्धवाः । स्त्रिया यानानि वासांसि ते पापा यान्त्यधोगतिम् ॥७१ राजान्न’ हरते तेजः शूद्रान्न ब्रह्मवर्चसम् । सूतकेषु च यो भुङ्क्ते स भुङ्क्ते पृथिवी मलम् ॥७२

इत्यङ्गिरसा महर्षिणा प्रणीतं धर्मशास्त्रं समाप्तम् ॥

समाप्ताचेयं आङ्गिरसस्मृतिः ।

ॐ तत्सत् ।

॥ अथ ॥