नारदीयमनुस्मृतिः

॥श्रीगणेशाय नमः॥

अथादौ—व्यवहारदर्शनविधिः।

मनुः प्रजापतिर्यस्मिन्काले राज्यमबूभुजत्।
धर्मैकतानाः पुरुषास्तदासन् सत्यवादिनः॥१॥

नष्टे धर्मे मनुष्येषु व्यवहारः प्रकल्पितः।
द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः॥२॥

लिखितं साक्षिणश्चात्र द्वौ विधी सम्प्रवर्तितौ।
सन्दिग्धार्थविशुद्ध्यर्थं द्वयोर्विवदमानयोः॥३॥

सोत्तरोऽनुत्तरश्चैव स विज्ञेयो द्विलक्षणः।
सोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः॥४॥

विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते।
स पणं स्वकृतं दाप्यो विनयं च पराजये॥५॥

सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता।
तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत्॥६॥

कुलानि श्रेणयश्चैव गणाश्चाधिकृता नृपैः।
प्रतिष्ठा व्यवहारस्य गुर्वेषामुत्तरोत्तरम्॥७॥

स चतुष्पाच्चतुः स्थानश्चतुः साधन एव च।
चतुर्हितश्चतुर्व्यापी चतुष्कारीति कीर्त्यते॥८॥

अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च।
त्रियोनिर्द्द्व्यभियोगश्च द्विर्द्वारोद्विगतिस्तथा॥९॥

धर्मश्च व्यवहारश्च चरित्रं राजशासनम्।
चतुष्पाब्द्यवहारोऽयमुत्तरः पूर्वबाधकः॥१०॥

तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु।
चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम्॥११॥

सामाद्युपायसाध्यत्वाच्चतुः साधन उच्यते।
चतुर्णामाश्रमाणां च रक्षणात्स चतुर्हितः ॥१२॥

कर्तॄनथो साक्षिणश्च सभ्यात्राजानमेव च।
व्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः॥१३॥

धर्मस्यार्थस्य यशसो लोकपक्तेस्तथैव च।
चतुर्णां करणादेषां चतुष्कारी प्रकीर्तितः॥१४॥

राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ।
हिरण्यमग्निरुदकमष्टाङ्गः स उदाहृतः॥१५॥

ऋणादानं ह्युपनिधिः सम्भूयोत्थानमेव च।
दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च॥१६॥

वेतनस्यानपाकर्म तथैवास्वामिविक्रयः।
विक्रीयासम्प्रदानं च क्रीत्वानुशय एव च॥१७॥

समयस्यानपाकर्म विवादः क्षेत्रजस्तथा।
स्त्रीपुंसयोश्च सम्बन्धो दायभागोऽथ साहसम्॥१८

वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यमेव च।
द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः॥१९

एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतः।
क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते॥२०

कामात्क्रोधाच्चलोभाच्चत्रिभ्यो यस्मात् प्रवर्तते।
त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत्॥२१

व्द्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः।
सङ्कासतां तु संसर्गात्तत्त्वं होढादिदर्शनात्॥२२

पक्षद्वयाभिसम्बन्धाद् द्विर्द्वारः स उदाहृतः।
पूर्ववादस्तयोः पक्षः प्रतिपक्षस्तदुत्तरः॥२३

भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः।
भूतं तत्त्वार्थयुक्तं तत् प्रमादाभिहितं छलम्॥२४

तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः।
भूतमेवप्रपद्येत धर्ममूला यतः श्रियः॥२५

धर्मेणोद्धरतो राज्ञो व्यवहारान्कृतात्मनः।
सम्भवन्ति गुणाः सप्त सप्त वह्नेरिवार्चिषः॥२६

धर्मश्चार्थश्च कीर्तिश्च लोकपक्तिरुपग्रहः।
प्रजाभ्यो बहुमानं च स्वर्गस्थानं च शाश्वतम्॥२७

तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः।
समः स्यात्सर्वभूतेषु विभ्रद् वैस्वतं व्रतम्॥२८

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः।
समाहितमतिः पश्येद् व्यवहाराननुक्रमात्॥२९॥

आगमः प्रथमः कार्यो व्यवहारपदं ततः।
विवित्सा निर्णयश्चेति दर्शनं स्याज्जतुर्विधम्॥३०॥

धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन पार्थिवः।
समीक्षमाणो निपुणं व्यवहारगतीर्घनाः॥३१॥

यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत्।
कक्षे शोणितलेशेन तथा धर्मपदं नयेत्॥३२॥

यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः।
अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत्॥३३॥

धर्मशास्त्रविरोधे तु युक्तियुक्तोऽपि धर्मतः।
व्यवहारो हि बलवान् धर्मस्तेनापचीयते॥३४॥

सूक्ष्मो हि बलवान् धर्मो दुर्विचारस्त्वतीन्द्रियः।
अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत्॥३५॥

यात्यचोरोऽपि चोरत्वं चोरश्चायात्यचोरताम्।
अचोरश्चोरतां प्राप्तो माण्ढव्यो व्यवहारतः॥३६॥

स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु।
व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतामियात्॥३७॥

गहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि।
ऋणादिषु हरेत्कालं कामं तत्त्वबुभुत्सया॥३८॥

गोभूहिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च।
साहसेष्वभिशापे च सद्य एव विवादयेत्॥३९॥

अनिवेद्य तु यो राज्ञः सन्दिग्धेऽर्थे प्रवर्तते।
प्रसह्य स विनेयः स्यात्स चाप्यर्थो न सिध्यति॥४०॥

वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः।
आसेधयेद्विवादार्थी यावदाह्वानदर्शनम्॥४१॥

स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा।
चतुर्विधः स्यादासेधस्तमासिद्धो न लङ्घयेत्॥४२॥

नदीसन्तारकान्तारदुर्देशोपप्लवादिषु।
आसिद्धस्तं परासेधमुत्क्रामन् नापराध्नुयात्॥४३॥

आसेध्यकाल आसिद्ध आसेधं योऽत्तिवर्तते।
स विनेयोऽन्यथाकुर्वन्नासेद्धा दण्डभाग्भवेत्॥४४॥

निवेष्टुकामो रोगार्तोयियक्षुर्व्यसने स्थितः।
अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा॥४५॥

गवां प्रचारे गोपालाः सस्याबन्धे कृषीवलाः।
शिल्पिनश्चापि तत्काल आयुधीयाश्च विग्रहे॥४६॥

अप्राप्तव्यवहारश्चदूतो दानोन्मुखो व्रती।
विषमस्थश्च नासेध्या नचैनानाह्वयेन्नृपः॥४७॥

नाभियुक्तोऽभियुञ्जीत तमती(त्या? र्त्वा)र्थमन्तरा।
न चाभियुक्तमन्येन विद्धं न व्यद्धुमर्हति॥४८॥

यमर्थमभियुञ्जीत न तं विप्रकृतिं नयेत्।
नान्यत् पक्षान्तरं गच्छेद् गच्छन्पूर्वात् स हीयते॥४९॥

न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः।
यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारमाव्रजेत्॥५०॥

सापदेशं हरन् कालमब्रुवंश्चापि संसदि।
उक्त्वा वचो विब्रुवंश्चहीयमानस्य लक्षणम्॥५१॥

पलायते य आहूतः प्राप्तश्च विवदेन्न यः।
स दण्ड्यश्च भवेद्राज्ञा हीन एव स वादतः॥५२॥

निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्।
लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत्॥५३॥

यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः।
निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा॥५४॥

अभूतमप्यभिहितं प्राप्तकालं परीक्ष्यते।
यत्तु प्रमादान्नोच्येत तद्भूतमपि हीयते॥५५॥

तीरितं चानुशिष्टं च यो मन्येत विधर्मणा।
द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत्॥५६॥

दुर्दृष्टे व्यवहारे तु सभ्यास्तद्दण्डमाप्नुयुः।
नहि जातु विना दण्डात्कश्चिन्मार्गेऽवतिष्ठते॥५७॥

रागादज्ञानतो वापि लोभाद्वा योऽन्यथा वदेत्।
सभ्योऽसभ्यः स विज्ञेय पापं विनयेद् भृशम्॥५८॥

किन्तु राज्ञा विशेषेण स्वधर्ममनुतिष्ठता।
मनुष्ये चित्तवैचित्र्यात्परीक्ष्या साध्वसाधुता॥५९॥

पुरुषाः सन्ति ते लोभाद्येब्रूयुः कार्यमन्यथा।
सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः॥६०॥

अतः परीक्ष्यमुभयमतद्राज्ञा विशेषतः।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः॥६१॥

असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शनाः।
दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम्॥६२॥

तैलवद् दृश्यते व्योम खद्योतो हव्यवाडिव।
न तलं विद्यते व्योम्नि न खद्योते हुताशनः॥६३॥

तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम्।
परीक्ष्य ज्ञापयन्नर्थान् न धर्मात् परिहीयते॥६४॥

एवं पश्यन्सदा राजा व्यवहारान्समाहितः।
वितत्येह यशो दीप्तं ब्रध्नस्याप्नोति विष्टपम्॥६५॥

नानियुक्तेन वक्तव्यं व्यवहारे कथञ्चन।
नियुक्तेन तु वक्तव्यमपक्षपतितं वचः॥६६॥

युक्तरूपं ब्रुवन्सभ्यो नाप्नुयाद् द्वेषकिल्बि

षे।
ब्रुवाणस्त्वन्यथा सभ्यस्तदेवोभयमाप्नुयात्॥६७॥

राजा तु धार्मिकान्सभ्यान्नियुञ्ज्यात्सुपरीक्षितान्।
व्यवहारधु(रं? रां) वोढुं ये शक्ताः सद्गवा इव॥६८॥

धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः।
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः॥६९॥

तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलाश्च पार्थिवाः।
सह सद्भिरतो राजा व्यवहारान्विशोधयेत्॥७०॥

शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः।
शुद्धिश्च धर्मात्तेषां हि धर्ममेव वदेदतः॥७१॥

यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः॥७२॥

सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम्।
अब्रुवन् विब्रुवन्वापि नरो भवति किल्बिषी॥७३॥

पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति।
पादः सभासदः सर्वान्पादो राजनमृच्छति॥७४॥

राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते॥७५॥

अन्धो मत्स्यानिवाश्नाति निरपेक्षः सकण्टकान्।
परोक्षमर्थवैकल्याद्भाषते यः सभागतः॥७६॥

तस्मात्सभ्यः सभां प्राप्य रागद्वेषविवर्जितः।
वचस्तथाविधं ब्रूयाद्यथा न नरकं पतेत्॥७७॥

यथा शल्यं भिषग्विद्वानुद्धरेद्यन्त्रयुक्तिभिः।
प्राड्विवाकस्तथा शल्यमुद्धरेद् व्यवहारतः॥७८॥

यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते।
स निश्शल्यो विवादः स्यात्सशल्यः स्यादतोऽन्यथा॥७९॥

न सा सभा यत्र न सन्ति वृद्धा
नते वृद्धा ये न वदन्ति धर्मम्।
नासौ धर्मो यत्र न सत्यमस्ति

न तत्सत्यं यच्छलेनानुविद्धम्॥८०॥

॥इति व्यवहारदर्शनविधिः॥

______________

अथ ऋणादानं प्रथमं विवादपदम्।

ऋणं देयमदेयं च येन यत्र यथा च यत्।
दानग्रहणधर्माश्च ऋणादानमिति स्मृतम्॥१॥

पितर्युपरते पुत्रा ऋणं दद्युर्यथांशतः।
विभक्ता ह्यविभक्ता वा यस्तामुद्वहते धुरम्॥२॥

पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम्।
मात्रा वा यत्कुटुम्बार्थे दद्युस्तद्रिक्थिनोऽखिलम्॥३॥

क्रमादव्याहतं प्राप्तं पुत्रैर्यन्रर्णमुद्धृतम्।
दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते॥४॥

इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्यतस्ततः।
उत्तमर्णाधमर्णेभ्यो मामयं मोक्षयिष्यति॥५॥

अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः।
ऋणात्पिता समुद्धार्यो यथा न नरकं पतेत्॥६॥

तपस्वी चाग्निहोत्री च म्रियते चेदृणी यदि।
तपश्चैवाग्निहोत्रं च तत्सर्वं धनिनां धनम्॥७॥

न पुत्रर्णं पितादद्यात् दद्यात्पुत्रस्तु पैतृकम्।
कामक्रोधसुराद्यूतप्रातिभाव्यकृताद्विना॥८॥

पितुरेव नियोगाद्यत्कुटुम्बभरणाय वा।
कृतं वा यदृणं कृच्छ्रे दद्यात्पुत्रस्य तत्पिता॥९॥

शिष्यान्तेवासिदासस्त्रीवैयावृत्त्यकरैश्च यत्।
कुटुम्बहेतोरुच्छिन्नं वोढव्यं तत्कुटुम्बिना॥१०॥

नार्वाक् संवत्सराद्विंशात्पितरि प्रोषिते सुतः।
ऋणं दद्यात्पितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा॥११॥

दाप्यः परर्णमेकोऽपि जीवत्स्वधिकृतैः कृतम्।
प्रेतेषु तु न तत्पुत्रः परर्णं दातुमर्हति॥१२॥

न स्त्री पतिकृतं दद्यादृणं पुत्रकृतं तथा।
अभ्युपेतादृते यद्वा सह पत्या कृतं तथा॥१३॥

दद्यात्त्वपुत्रा विधवा नियुक्ता या मुमूर्षुणा।
यो वा तद्रिक्थमादद्याद्यतो रिक्थमृणंततः॥१४॥

न च भार्याकृतमृणंकथञ्चित्पत्युराभवेत्।
आपत्कृतादृते पुंसां कुटुम्बार्थो हि विस्तरः॥१५॥

अन्यत्र रजकव्याधगोपशौण्डिकयोषितः।
तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम्॥१६॥

पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यमाश्रयेत्।
तस्या रिक्थं हरेत्सर्वं निःस्वायाः पुत्र एव तु॥१७॥

या च सप्रधनैव स्त्री सापत्या चान्यमाश्रयेत्।
सोऽस्या दद्यादृणं भर्तुरुत्सृजेद्वातथैव ताम्॥१८॥

अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम्।
ऋणं बोढुःस भजते तदेतस्य धनं स्मृतम्॥१९॥

धनस्त्रीहारिपुत्राणामृणभाग् यो धनं हरेत्।
पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः॥२०॥

उत्तमा स्वैरिणीनां या पुनर्भ्वामुत्तमा तथा।
ऋणं तयोः पतिकृतं दद्याद्यस्ते उपाश्नुते॥२१॥

स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि।
विशेषतो गृहक्षेत्रदानाधमनविक्रयाः॥२२॥

एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते।
पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः॥२३॥

भर्त्राप्रीतेन यद्दत्तंस्त्रियै तस्मिन्मृतेऽपि तत्।
सा यथाकाममश्नीयाद्दद्याद् वा स्थावरादृते॥२४॥

तथा दासकृतं कार्यमकृतं परिचक्षते।
अन्यत्र स्वामिसन्देशान्न दासः प्रभुरात्मनः॥२५॥

पुत्रेण च कृतं कार्यं यत्स्यादच्छन्दतः पितुः।
तदप्यकृतमेवाहुर्दासः पुत्रश्च तौ समौ॥२६॥

अप्राप्तव्यवहारस्तु स्वतन्त्रोऽपि नचर्णभाक्।
स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम्॥२७॥

त्रयः स्वतन्त्रा लोकेऽस्मिन् राजाचार्यस्तथैव च।
प्रति प्रति च सर्वेषां वर्णानां स्वगृहे गृही॥२८॥

अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः।
अस्वतन्त्रः स्मृतः शिष्य आचार्ये च स्वतन्त्रता॥२९॥

अस्वतन्त्राः स्त्रियः पुत्रा दासाश्च सपरिग्रहाः।
स्वतन्त्रस्तत्र तु गृही यस्य स्यात्तत्क्रमागतम्॥३०॥

गर्भस्थसदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः।
बाल आ षोडशाद्वर्षात्पौगण्डश्चेति शब्द्यते॥३१॥

परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते।
जीवतोर्ह्यस्वतन्त्रः स्याज्जरयापि समन्वितः॥३२॥

तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात्।
अभावे बीजिनो माता तदभावे तु पूर्वजः॥३३॥

स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा।
अनुशिष्टौनिसर्गे च विक्रये चेश्वरा मताः॥३४॥

यद् बालः कुरुते कार्यमस्वतन्त्रस्तथैव च।
अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः॥३५॥

स्वतन्त्रोऽपि हि यत्कार्यं कुर्यादप्रकृतिं गतः।
तदप्यकृतमेवाहुरस्वतन्त्रः स हेतुतः॥३६॥

कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः।
रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः॥३७॥

कुले ज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थस्तु यो भवेत्।
तत्कृतं स्यात्कृतं कार्यं नास्वतन्त्रकृतं कृतम्॥३८॥

धनमूलाः क्रियाः सर्वा यत्नस्तत्साधने मतः।
बर्धनं रक्षणं भोग इति तस्य विधिः क्रमात्॥३९॥

तत्पुनस्त्रिविधं ज्ञेयं शुक्लं शबलमेव च।
कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पुनः॥४०॥

श्रुतशौर्यतपःकन्याशिष्ययाज्यान्वयागतम्।
धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः॥४१॥

कुसीदकृषिवाणिज्यशुल्कशिल्पानुवृत्तिभिः।
कृतोपकारादाप्तं च शबलं समुदाहृतम्॥४२॥

पार्श्वकद्यूतदूतार्तप्रतिरूपकसाहसैः।
व्याजेनोपार्जितं यच्चतत्कृष्णं समुदाहृतम्॥४३॥

तेन क्रयो विक्रयश्च दानं ग्रहणमेव च।
विविधाश्च प्रयुज्यन्ते क्रियाः सम्भोग एव च॥४४॥

यथाविधेन द्रव्येण यत्किञ्चित्कुरुते नरः।
तथाविधमवाप्नोति स फलं प्रेत्य चेह च॥४५॥

तत्पुनर्द्वादशविधं प्रतिवर्णाश्रयं स्मृतम्।
साधारणं स्यात्त्रिविधं शेषं नवविधं स्मृतम्॥४६॥

क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया।
अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम्॥४७॥

वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम्।
प्रतिग्रहेण लब्धं च याज्यतः शिष्यतस्तथा॥४८॥

त्रिविधं क्षत्त्रियस्यापि प्राहुर्वैशेषिकं धनम्।
युद्धोपलब्धं कारश्च दण्डश्च व्यवहारतः॥४९॥

वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम्।
कृषिगोरक्षवाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात्॥५०॥

सर्वेषामेव वर्णानामेष धर्म्योधनागमः।
विपर्ययादधर्म्यः स्यान्न चेदापद् गरीयसी॥५१॥

आपत्स्वनन्तरा वृत्तिर्ब्राह्मणस्य विधीयते।
वैश्यवृत्तिस्ततश्चोक्ता न जघन्या कथञ्चन॥५२॥

न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम्।
वृषलः कर्म न ब्राह्मं पतनीयौ हि तौतयोः॥५३॥

उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते॥५४॥

आपदं ब्राह्मणस्तीर्त्वाक्षत्त्रवृत्त्या भृते जने।
उत्सृजेत् क्षत्त्रवृत्तिं तां कृत्वा पावनमात्मनः॥५५॥

तस्यामेव तु यो वृत्तौ रमते ब्राह्मणो रसात्।
काण्डपृष्ठश्च्युतो मार्गात्सोऽपाङ्क्तेयः प्रकीर्तितः॥५६॥

वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि।
घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः॥५७॥

मांसौदनतिलक्षौमसोमपुष्पफलोपलाः।
मनुष्यविषशस्त्राम्बुलवणापूपवीरुधः॥५८॥

नीलकौशेयचर्मास्थिकुतपैकशफा मृदः।
उदश्वित्केशपिण्याकशाकाद्यौषधयस्तथा॥५९॥

ब्राह्मणस्य तु विक्रेयं शुष्कदारु तृणानि च।
गन्धद्रव्यैरकालेयतूलमूलतुषादृते॥६०॥

स्वयं विशीर्णं विदलं फलानां बदरेङ्गुदे।
रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत्॥६१॥

अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च।
यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्समाः॥६२॥

अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः।
मार्गे पुनरवस्थाप्यो राज्ञा दण्डेन भूयसा॥६३॥

प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः।
सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः॥६४॥

निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित्।
आगमः कारणं तत्र न भोगस्तत्र कारणम्॥७६॥

भुज्यतेऽनागमं यत्तु न तद्भोगोऽतिवर्तते।
प्रेते तु भोक्तरि धनं यति तद्वंश्यभोग्यताम्॥७७॥

आहर्तैवाभियुक्तः सन्नर्थतस्तद्धरेत् पदम्।
भुक्तिरेवविशुद्धिः स्यात् प्राप्तानां पितृतः क्रमात्॥७८॥

अन्वाहितहृतन्यस्तबलावष्टब्धयाचितम्।
अप्रत्यक्षं च यद्भुक्तं षडेतान्यागमाद्विना॥७९॥

तथारूढविवादस्य प्रेतस्य व्यवहारिणः।
पुत्रेण सोऽर्थः संशोध्यो न तद्भोगोऽतिवर्तते॥८०॥

आगमेन विना पूर्वं भुक्तं पूर्वैस्त्रिभिस्तु यत्।
न तच्छक्यमपाकर्तुं क्रमात्त्रिपुरुषागतम्॥८१॥

सन्तोऽपि न प्रमाणं स्युर्मृते धनिनि साक्षिणः।
अन्यत्र श्रावितं यत्स्यात् स्वयमासन्नमृत्युना॥८२॥

नहि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः।
साक्षिमत्करणं तत्र प्रमाणं स्याद्विनिश्चये॥८३॥

श्रावितस्त्वातुरेणापि यस्त्वर्थो धर्मसंहितः।
मृतेऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु॥८४॥

क्रियर्णादिषु सर्वेषु बलवत्युत्तरोत्तरा।
प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी॥८५॥

स्थानलाभनिमित्तं हि दानग्रहणमिष्यते।
तत्कुसीदमिति ज्ञेयं तेन वृत्तिः कुसीदिनाम्॥८६॥

कायिका कालिका चैव कारिका च तथास्मृता।
चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा॥८७॥

कायाविरोधिनी शश्वत् पणपादादि कायिका।
प्रतिमासं स्रवन्ती या सावृद्धिः कालिका स्मृता॥८८॥

वृद्धिः सा कारिका दाम यर्णिकेन स्वयं कृता।
वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता॥८९॥

ऋणानां सार्वभौमोऽयं विधिवृद्धौ कृतः स्मृतः।
देशाचारविधिस्त्वन्यो यत्रर्णमधितिष्ठति॥९०॥

द्विगुणं त्रिगुणं चैव तथान्यस्मिंश्चतुर्गुणम्।
तथाष्टगुणमन्यस्मिन् देशे देशेऽवतिष्ठते॥९१॥

हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा।
घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां तु सन्ततिः॥९२॥

न वृद्धिः प्रतिदत्तानां स्यादनाकारिता क्वचित्।
अनाकारितमप्यूर्ध्वंवत्सरार्धाद्विवर्धते॥९३॥

एष वृद्धिविधिः प्रोक्तः प्रवृद्धस्येह धर्मतः।
वृद्धिस्तु योक्ता धान्यानां वार्धुष्यं तदुदाहृतम्॥९४॥

आपदं निस्तरेद्वैश्यः कामं वार्धुषकर्मणा।
आपत्स्वपि हि कष्टासु ब्राह्मणस्य न वार्धुषम्॥९५॥

ब्राह्मणस्य च यद्देयं सान्वयस्य न चास्ति सः।
सपिण्डेभ्योऽस्य निवपेत् तदभावेऽस्य बन्धुषु॥९६॥

यदा च न सकुल्याः स्युर्नच सम्बन्धिबान्धवाः।
तदा दद्यात्स्वजातिभ्यस्तेष्वसत्स्वप्सु निक्षिपेत्॥९७॥

गृहीत्वोपगतं दद्याद् ऋणिकायोदयं धनी।
अददद् याच्यमानस्तु शेषहानिमवाप्नुयात्॥९८॥

लेख्यं दद्यादृणे शुद्धे तदभावे प्रतिश्रवम्।
धनिकर्णिकयोरेवं विशुद्धिः स्यात्पस्परम्॥९९॥

विस्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च।
लिखितं साक्षिणश्च द्वे प्रमाणे व्यक्तिकारणे॥१००॥

उपस्थानाय दानाय प्रत्ययाय तथैव च।
त्रिविधः प्रतिभूर्दृष्टस्त्रिष्वेवार्थेषु सूरिभिः॥१०१॥

ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वा विवादिते।
प्रतिभूस्तदृणं दद्यादनुपस्थापयंस्तथा॥१०२॥

बहवः स्युः प्रतिभुवो दद्युस्तेऽर्थंयथाकृतम्।
अर्थेऽविशेषिते त्वेषु धनिनश्छन्दतः क्रिया॥१०३॥

यमर्थं प्रतिभूर्दद्याद् धनिकेनोपपीडितः।
ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत्॥१०४॥

अधिक्रियत इत्याधिः स तु ज्ञेयो द्विलक्षणः।
कृतकालोपनेयश्च यावद्देयोद्यतस्तथा॥१०५॥

स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च।
प्रतिदानं तथैवास्य लाभहानिर्विपर्यये॥१०६॥

प्रमादाद् धनिनस्तद्वदाधौ विकृतमागते।
विनष्टेमूलनाशः स्याद्दैवराजकृतादृते॥१०७॥

रक्ष्यमाणोऽपि यत्राधिः कालेनेयादसारताम्।
आधिरन्योऽधिकर्तव्यो देयं वा धनिने धनम्॥१०८॥

ऋणिकः सधनो यस्तु दौरात्म्यान्न प्रयच्छति।
राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम्॥१०९॥

अथ शक्तिविहीनः स्यादृणी कालविपर्ययात्।
शक्त्यपेक्षमृणंदाप्यः काले काले यथोदयम्॥११०॥

नश्येद् द्रव्यपरीमाणं कालेनेहर्णिकस्य चेत्।
जातिसंज्ञाधिवासानामागमो लेख्यतः स्मृतः॥१११॥

लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा।
असाक्षिकं साक्षिमच्चसिद्धिर्देशस्थितिस्तयोः॥११२॥

देशाचाराविरुद्धं यद् व्यक्ताधिकृतलक्षणम्।
तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम्॥११३॥

मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत्।
तदप्रमाणं करणं भीतोपधिकृतं तथा॥११४॥

मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः।
तदप्यपार्थं लिखितमृते त्वाधेः स्थिराश्रयात्॥११५॥

आधिर्योद्विविधः प्रोक्तः स्थावरो जङ्गमस्तथा।
सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा॥११६॥

दर्शितं प्रतिकालं यच्छ्रावितं स्रावितं च यत्।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु॥११७॥

अश्रुतार्थमदृष्टार्थं व्यवहारार्थमेव च।
न लेख्यं सिद्धिमाप्नोति जीवत्स्वपि हि साक्षिषु॥११८॥

लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते।
सतस्तत्कालकरणमसतोऽदृष्टदर्शनम्॥११९॥

यस्मिन्स्यात्संशयो लेख्ये भूताभूतकृते क्वचित्।
तत्स्वहस्तक्रियाचिह्नप्राप्तियुक्तिभिरुद्धरेत्॥१२०॥

लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतं भवेत्।
विप्रत्यये परीक्ष्यं तत्सम्बन्धागमहेतुभिः॥१२१॥

लिखितं लिखितेनैव साक्षिमत् साक्षिभिर्हरेत्।
साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः॥१२२॥

छिन्नभिन्नहृतोन्मृष्टनष्टदुर्लिखितेषु च।
लेख्यमन्यद्धि कर्तव्यमेष लेख्यविधिः स्मृतः॥१२३॥

सन्दिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः।
दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम्॥१२४॥

समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः।
श्रोत्रस्य यत्परो ब्रूते चक्षुषः कायकर्म यत्॥१२५॥

एकादशविधः साक्षी स तु दृष्टोमनीषिभिः।
कृतः पञ्चविधस्तत्र षड्विधोऽकृत उच्यते॥१२६॥

लेखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च।
गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः॥१२७॥

अकृतः षड्विधो नित्यः सूरिभिः परिकीर्तितः।
ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम्॥१२८॥

कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः।
कुलं कुलविवादेषु भवेयुस्तेऽपि साक्षिणः॥१२९॥

कुलीना ऋजवः शुद्धा जन्मतः कर्मतोऽर्थतः।
त्र्यवराः साक्षिणोऽनिन्द्याः शुचयः स्युः सुबुद्धयः॥१३०॥

ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रा ये चाप्यनिन्दिताः।
प्रतिवर्णंभवेयुस्ते सर्वे सर्वेषु वा पुनः॥१३१॥

श्रेणिषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः।
बहिर्वासिषु बाह्याश्च स्त्रियः स्त्रीषु च साक्षिणः॥१३२॥

श्रेण्यादिषु च सर्वेषु कश्चिच्चेद् द्वेष्यतामियात्।
तेभ्य एव न साक्षी स्याद् द्वेष्टारः सर्व एव ते॥१३३॥

असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः।
वचनाद् दोषतो भेदात्स्वयमुक्तेर्मृतान्तरात्॥१३४॥

श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात्।
भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणः॥१३५॥

स्वयमुक्तेरनिर्दिष्टः स्वयमेवैत्य यो वदेत्।
मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितादृते॥१३६॥

श्रोत्रियास्तापसा वृद्धा ये च प्रवजिता नराः।
असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः॥१३७॥

स्तेनाः साहसिकाश्चण्डाः कितवा वधकाश्च ये।
असाक्षिणस्ते दुष्टत्वात् तेषु सत्यं न विद्यते॥१३८॥

राज्ञा परिगृहीतेषु साक्षिष्वेकार्थनिश्चये।
वचनं यत्र भिद्येत ते स्युर्भेदादसाक्षिणः॥१३९॥

स्वयमुक्तेरनुद्दिष्टः स्वयमेवैत्य यो वदेत्।
सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति॥१४०॥

योऽर्थः श्रावयितव्यः स्यात् तस्मिन्नसति चार्थिनि।
क्व तद् वदति साक्षित्वमित्यसाक्षी मृतान्तरः॥१४१॥

द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु।
पूर्वपक्षो भवेद् यस्य भवेयुस्तस्य साक्षिणः॥१४२॥

आधर्य पूर्वपक्षस्य यस्मिन्नर्थवशाद् भवेत्।
विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः॥१४३॥

न परेण समुद्दिष्टमुपेयात् साक्षिणं रहः।
भेदयेत् तं नचान्येन हीयेतैवं समाचरन्॥१४४॥

साक्ष्युद्दिष्टो यदि प्रेयाद् गच्छेद् वापि दिगन्तरम्।
तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्युत्तरक्रिया॥१४५॥

सुदीर्घेणापि कालेन लिखितः सिद्धिमाप्नुयात्।
आत्मनैव लिखेज्जानन्नजानानस्तु लेखयेत्॥१४६॥

अष्टमाद् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः।
आपञ्चमात् यथा सिद्धिर्यच्छोपगतस्य तु॥१४७॥

आतृतीयात् तथा वर्षात् सिद्धिर्गूढस्य साक्षिणः।
आवत्सरात् तथा सिद्धिं वदन्त्युत्तरसाक्षिणः॥१४८॥

अथवा कालनियमो न दृष्टः साक्षिणं प्रति।
स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रविदो जनाः॥१४९॥

यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः।
सुदीर्घेणापि कालेन स साक्षी साक्ष्यमर्हति॥१५०॥

असाक्षिप्रत्ययास्त्वन्ये षड् विवादाः प्रकीर्तिताः।
लक्षणान्येव साक्षित्वं तेषामाहुर्मनीषिणः॥१५१॥

उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिस्तु घातकः।
केशाकेशिगृहीतस्तु युगपत् पारदारिकः॥१५२॥

वधकृच्चित्रकृन्मङ्खः पतितः कूटकारकः।
कुहकः प्रत्यवसृतस्तस्करो राजपूरुषः॥१६४॥

मनुष्यविषशस्त्राम्बुलवणापूपवीरुधाम्।
विक्रेता ब्राह्मणश्चैव द्विजो वार्धुषिकश्च यः॥१६५॥

च्युतः स्वधर्मात्कुलिकः स्तावको हीनसेविता।
पित्रा विवदमानश्च भेदकृच्चेत्यसाक्षिणः॥१६६॥

असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः।
कार्यगौरवमासाद्य भवेयुस्तेऽपि साक्षिणः॥१६७॥

साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च।
पारुष्ययोश्चाप्युभयोरसाक्षी नोपपद्यते॥१६८॥

न तत्रापि च बालः स्यान्नैको न स्त्री न कूटकृत्।
न बान्धवो नचारातिर्ब्रूयुस्ते साक्ष्यमन्यथा॥१६९॥

बालोऽज्ञानादसत्यात्स्त्रीपापाभ्यासात्तु कूटकृत्।
विब्रूयाद् बान्धवः स्नेहाद् वैरनिर्यातनादरिः॥१७०॥

अथवानुमतो यः स्याद् द्वयोर्विवदमानयोः।
स साक्ष्येकोऽपि साक्षित्वेप्रष्टव्यः स्यात्तु संसदि॥१७१॥

यस्त्वात्मदोषदुष्टत्वादस्वस्थ इव लक्ष्यते।
स्थानात् स्थानान्तरं गच्छेदेकैकं चोपधावति॥१७२॥

कासत्यनिभृतोऽकस्मादभीक्ष्णं निःश्वसित्यपि।
भूमिं लिखति पादाभ्यां बाहू वासा धुनोति च॥१७३॥

भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा।
शोषमागच्छतश्चोष्ठावूर्ध्वं तिर्यक् च वीक्षते॥१७४॥

त्वरमाण इवापृष्टो बह्वबद्धं च भाषते।
कूटसाक्षी स विज्ञेयस्तं पापं विनयेद् भृशम्॥१७५॥

श्रावयित्वा तथान्येभ्यः साक्षित्वं योऽपि निह्नते।
स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः॥१७६॥

आहूय साक्षि(णं? णः) पृच्च्छेन्नियम्य शपथैर्भृशम्।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक्॥१७७॥

सत्येन शापयेद् विप्रंक्षत्त्रियं वाहनायुधैः।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः॥१७८॥

पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः।
अनृतस्यापवादैश्च भृशमुत्त्रास्य साक्षिणः॥१७९॥

नग्नो मुण्डः क्रपालेन भिक्षार्थीक्षुत्पिपासितः।
क्रुद्धः शत्रुगृहं गच्छेद् यः साक्ष्यमनृतं वदेत्॥१८०॥

नगरे प्रतिरुद्धःसन् बहिर्दारोबुभुक्षितः।
अमित्रान् भूयसः पश्येद् यः साक्ष्यमनृतं वदेत्॥१८१॥

यां रात्रिमधिविन्नास्त्री यां चैवाक्षपराजितः।
यां चातिभारतप्ताङ्गो दुर्विवक्ता स्म तां वसेत्॥१८२॥

साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन्।
सहस्रं वारुणान् पाशानात्मनि प्रतिमुञ्चति॥१८३॥

तस्य वर्षशते पूर्णे पाश एकः प्रमुच्यते।
एवं स बन्धनात्तस्मान्मुच्यते नियताः समाः॥१८४॥

यावतो बान्धवान् यस्मिन्हन्ति मादतेऽनृतं वदन्।
तावतः सङ्ख्यया तस्मिञ्शृणु सौम्यानुपूर्वशः॥१८५॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते॥१८६॥

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्।
सव भूम्यनृते हन्ति मा स्म भूम्यनृतं व(दी? दः)॥१८७॥

एकमेवाद्वितीयं तत्प्राहुः पवनमात्मनः।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव॥१८८॥

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्रात् तु सत्यमेव विशिष्यते॥१८९॥

परं कूपशताद् वापी परं वापीशतात् क्रतुः।
परं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् परम्॥१९०॥

भूर्धारयति सत्येन सत्येनोदयते रविः।
सत्येन वायुः पवते सत्येनापः स्रवन्ति च॥१९१॥

सत्यमेव परं दानं सत्यमेव परं तपः।
सत्यमेव परो धर्मो लोकानामिति वै श्रुतिः॥१९२॥

सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृताः।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः॥१९३॥

सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि।
उक्त्वानृतं महाघोरं नरकं सम्प्रपत्स्यते॥१९४॥

निरयेषु च ते शश्वज्जिह्वामुत्कृत्य दारुणाः।
असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः॥१९५॥

शूले मत्स्यानिवाक्षिप्य क्रोशन्तमपरायणम्।
अवाक्छिरसमुत्क्षिप्य क्षेप्स्यन्त्यग्निह्रदेषु च॥१९६॥

अनुभूय च दुःखास्ताश्चिरं नरकवेदनाः।
इहायास्यस्यभव्यासु गृध्रकाकादियोनिषु॥१९७

ज्ञात्वैताननृतेदोषान् ज्ञात्वा सत्ये च सद्गुणान्।
सत्यं वदोद्धरात्मानं मात्मानं पीपतश्चिरम्॥१९८

न बान्धवा न सुहृदो न धनानि महान्त्यपि।
अलं धारयितुं शक्तास्तमस्युग्रेनिमज्जतः

१९९

पितरस्त्ववलम्बन्ते त्वयि साक्षित्वमागते।
तारयिष्यति किन्न्वस्मानात्मानं पातयिष्यति॥२००

सत्यमात्मा मनुष्यस्य सर्वं सत्ये प्रतिष्ठितम्।
सर्वथैवात्मनात्मानं श्रेयसा योजयिष्यसि

२०१

यां रात्रिमजनिष्ठास्त्वं यां च रात्रिं मरिष्यसि।
वृथा तदन्तरा ते स्यात् साक्ष्यं चेदन्यथा वदेः॥२०२

नास्ति सत्यात्परो धर्मोनानृतात्पातकं परम्।
साक्षिधर्मे विशेषेण सत्यमेव वदेरतः॥२०३

यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः।
आत्मार्थेकिन्न कुर्यात् स पापं नरकनिर्भयः॥ २०४

अर्था वै वाचि नियता वाङ्मूला वाचि मिश्रिताः।
यो वैतां स्तेययेद् वाचं स सर्वस्तेयकृन्नरः॥२०५

साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः।
तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये स्मृतिमत्तराः

२०६

स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते

तीक्ष्णत्वात्साक्षिधर्मस्य साक्ष्यं व्यावर्तते ततः॥२०७

निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते।
न ब्रूयादक्षरसमं न तन्निगदितं भवेत्॥२०८

देशकालवयोद्रव्यप्रमाणाकृतिजातिषु।
यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तदपि चान्यथा॥२०९

ऊनमभ्यधिकं वार्थंंप्रब्रयुर्यत्र साक्षिणः।
तदप्यनुक्तंविज्ञेयमेष साक्ष्यविधिः स्मृतः॥२१०

प्रमादाद् धनिनो यत्र न स्याल्लेख्यं न साक्षिणः।
अर्थं चापह्नुते वादी तत्रोक्तस्त्रिविधो विधिः॥२११

चोदना प्रतिकालं च युक्तिलेशस्तथैव च।
तृतीयः शपथः प्रोक्तस्तैर्ॠणं शोधयेत् क्रमात्॥२१२

अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः।
त्रिश्चतुष्पञ्चकृत्वोवा परतोऽर्थंसमाचरेत्॥२१३

चोदनाप्रतिघाते तु युक्तिलेशैस्तमन्वियात्।
देशकालार्थसम्बन्धपरिमाणक्रियादिभिः॥२१४

युक्तिष्वप्यसमर्थासु शपथैरेनमर्दयेत्।
देशकालबलापेक्षमग्न्यम्बुसुकृतादिभिः॥२१५

दीप्तो यं न दहत्यग्निरापोऽन्तर्धारयन्ति यम्।
स तरत्यभिशापं तं किल्बिषी स्याद् विपर्यये॥२१६

स्त्रीणां शीलाभियोगे च स्तेयसाहसयोरपि।
एष एव विधिर्दृष्टःसर्वार्थापह्नवेषु यः॥२१७

शपथा ह्यृषिदेवानां पुरा सृष्टाः स्वयम्भुवा।
वशिष्ठः शपथं शेपे यातुधानेति शब्दितः॥२१८

सप्तर्षयस्तथा सेन्द्राः पुष्करार्थे तपोधनाः।
शेपुः शपथमव्यग्राः परस्परविशुद्धये॥२१९

अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः।
ब्रूयात् स्वयं वा सदसि तस्यार्धविनयः स्मृतः॥२२०

गूहमानस्तु दौश्शील्याद् यदि पापं स हीयते।
सभ्याश्चास्य न दुष्यन्ति तीव्रोदण्डश्च पार्थिवात्॥२२१

इति ऋणादानं प्रथमं विवादपदम्॥

<MISSING_FIG href="../books_images/U-IMG-1729243511Screenshotfrom2024-10-1814-54-46.png"/>

अथौपनिधिकं द्वितीयं विवादपदम्।

स्वद्रव्यं यत्र विस्रम्भान्निक्षिपत्यविशङ्कितः।
निक्षेपो नामतत् प्रोक्तं व्यवहारपदं बुधैः॥१

अन्यद्रव्यव्यवहितं द्रव्यमव्याकृतं च यत्।
निक्षिप्यते परगृहे तदौपनिधिकं स्मृतम्॥२

स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा।
प्रतिदानं तथैवास्य प्रत्ययः स्याद्विपर्यये॥३

याच्यमानस्तु यो दात्वा निक्षेपं न प्रयच्छति।
दण्ड्यः स राज्ञा दाप्यश्च नष्टे दाप्यश्च तत्समम्॥४

यश्चार्थंसाधयेत्तेन निक्षेप्तुरननुज्ञया।
तत्रापि दण्ड्यः स भवेत् तच्चसोदयमाप्नुयात्॥५

ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः।
दैवराजकृते तद्वन्न चेत् तज्जिह्मकारितम्॥६

एषएव विधिर्दृष्टो याचितान्वाहितादिषु।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च॥७

प्रतिगृह्णाति पोगण्डं यश्च सप्रधनं नरः।
तस्याप्येष विधिर्दृष्टः षेडेते विधयः समाः॥८

इति औपनिधिकं द्वितीयं विवादपदम्।

______________

अथ सम्भूयसमुत्थानं तृतीयं विवादपदम्।

वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते।
तत् सम्भूयसमुत्थानं व्यवहारपदं स्मृतम्॥१

फलहेतोरुपायेन कर्म सम्भूय कुर्वताम्।
आधारभूतः प्रक्षेपस्तेनोत्तिष्ठेयुरंशतः॥२

समोऽतिरिक्तो हीनो वा यत्रांशोयस्य तादृशः।
क्षयव्ययौतथा वृद्धिस्तस्य तत्र तथाविधा

भाण्डपिण्डव्ययोद्धारभारसारान्ववेक्षणम्।
कुर्युस्ते व्यवहारेण समये स्वे व्यवस्थिताः॥४

प्रमादान्नाशितं दाप्यः प्रतिषिद्धकृतं च यत्।
असन्दिष्टंच यत् कुर्यात् सर्वैः सम्भूयकारिभिः॥५

दैवतस्करराजोत्थे व्यसने समुपस्थिते।
यस्तत् स्वशक्त्यासंरक्षेत् तस्यांशी दशमः स्मृतः॥६॥

एकस्य चेत् तद्व्यसनं दायादोऽस्य तदाप्नुयात्।
अन्यो वासति दायादेऽशक्ताश्चेत् सर्व एव वा॥७॥

ऋत्विजां व्यसनेऽप्येवमन्यस्तत्कर्म निस्तरेत्।
लभेत दक्षिणाभागं स तस्मात् सम्प्रकल्पितम्॥८॥

ऋत्विग् याज्यमदुष्टं यस्त्यजेदनपकारिणम्।
अदुष्टमृत्विजं याज्यो विनेयौ तावुभावपि॥९॥

ऋत्विक् तु त्रिविधः प्रोक्तः पूर्वैर्जुष्टःस्वयंवृतः।
यदृच्छया च यः कुर्यादार्त्विज्यं प्रीतिपूर्वकम्॥१०॥

क्रमागतेष्वेष धर्मो वृतेष्वृत्विक्षु च स्वयम्।
यादृच्छिके तु सांयाज्ये तत्त्यागे नास्ति किल्बिषम्॥११॥

शुल्कस्थानं वणिक् प्राप्तः शुल्कं दद्याद् यथोपगम्।
न तद् व्यतिहरेद् राज्ञां बलिरेषप्रकल्पितः॥१२॥

शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी।
मिथ्योक्त्वाच परीमाणं दाप्योऽष्टगुणमत्ययम्॥१३॥

कश्चिच्चेत् सञ्चरन् देशात्प्रेयादभ्यागतो वणिक्।
राजास्य भाण्डं संरक्षेद् यावद्दायाददर्शनम्॥१४॥

दायादेऽसति बन्धुभ्यो ज्ञातिभ्योऽस्य समर्पयेत् ।
तदभावेसुगुप्तं तद् धारयेद् दशतीः समाः॥१५॥

अस्वामिकमदायादं दशवर्षोषितं ततः।
राजा तदात्मसात् कुर्यादेवं धर्मो न हीयते॥१६॥

इति सम्भूयसमुत्थानं तृतीयं विवादपदम्।

अथ दत्ताप्रदानिकं चतुर्थं विवादपदम्।

दत्त्वा द्रव्यमसम्यग् यः पुनरादातुमिच्छति।
दत्ताप्रदानिकं नाम तद् विवादपदं स्मृतम्॥१॥

अथ देयमदेयं च दत्तं चादत्तमेव च।
व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः॥२॥

तत्रेहाष्टावदेयानि देयमेकविधं स्मृतम्।
दत्तं सप्तविधं विद्याददत्तं षोडशात्मकम्॥३॥

अन्वाहितं याचितकमाधिंसाधारणं च यत्।
निक्षेपं पुत्रदारं च सर्वस्वं चान्वये सति॥४॥

आपत्स्वपि हि कष्टासु वर्तमानेन देहिना।
अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम्॥५॥

कुटुम्बभरणाद् द्रव्यं यत्किञ्चिदतिरिच्यते।
तद् देयमुहत्यान्यद् दददागः समाप्नुयात्॥६॥

पण्यमूल्यं भृतिस्तुष्ट्यास्नेहात् प्रत्युपकारितम्।
स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः॥७॥

अदत्तं तु भयक्रोधवेषशोकरुजान्वितैः।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः॥८॥

बालप्रमूढास्वतन्त्रमत्तोन्मत्तापवर्जितम्।
कर्ता ममायं कर्मेति प्रतिलाभेच्छयाच यत्॥९॥

अपात्रे पात्रमित्युक्ते कार्ये चाधर्मसंहिते।
यद् दत्तं स्यादविज्ञानाददत्तं तत् प्रकीर्तितम्॥१०॥

गृह्णात्यदत्तं यो लोभाद् यश्चादेयं प्रयच्छति।
अदत्तादायको दण्ड्यस्तथादेयस्य दायकः॥११॥

इति दत्ताप्रदानिकं चतुर्थं विवादपदम्॥

___________

अथाभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम्।

अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते।
अशुश्रूषाभ्युपेत्येति विवादपदमुच्यते॥१॥

शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः।
चतुर्विधः कर्मकरः शेषादासास्त्रिपञ्चकाः॥२॥

शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत्।
एते कर्मकराः प्रोक्ता दासास्तु गृहजादयः॥३॥

सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः।
जातिकर्मकृतस्तूक्तो विशेषी वृत्तिरेव च॥४॥

कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च।
अशुभं दासकर्मोक्तं शेषं कर्मकृतः स्मृतम्॥५॥

गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम्।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम्॥६॥

इष्टतःस्वामिनश्चाङ्गैरुपस्थानमथान्ततः।
अशुभं कर्म विज्ञेयं शुभमन्यदतः परम्॥७॥

आ विद्याग्रहणाच्छिष्यःशुश्रूषन् प्रयतो गुरुम्।
तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च॥८॥

ब्रह्मचारी चरेद्भैक्षमधःशाय्यनलङ्कृतः।
जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोर्गृहे॥९॥

नासन्दिष्टःप्रतिच्छेत तिष्ठेद् वापि गुरुं क्वचित्।
सन्दिष्टः कर्म कुर्वीत शक्तश्चेदविलम्बयन्॥१०॥

यथाकालमधीयीत यावन्न विमना गुरुः।
आसीनोऽधो गुरोः कूर्चे फलके वा समाहितः॥११॥

अनुशिष्यश्च गुरुणान चेदनुविधीयते।
अवधेनाथवा शिष्यान् रज्ज्वा वेणुदलेन वा॥१२॥

भृशं न ताडयेदेनं नोत्तमाङ्गेन वक्षसि।
अनुशिष्य च विश्वास्यो दण्ड्यो राज्ञान्यथा गुरुः॥१३॥

समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम्।
प्रतीयात् स्वगृहानेषाशिष्यवृत्तिरुदाहृता॥१४॥

स्वशिल्पमिच्छन्नाहर्तुं बान्धवानामनुज्ञया।
आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम्॥१५॥

आचार्यः शिक्षयेदेनं स्वगृहाद् दत्तभोजनम्।
नचान्यत् कारयेत् कर्म पुत्रवच्चैनमाचरेत्॥१६॥

शिक्षयन्तमदुष्टं च यआचार्यं परित्यजेत्।
बलाद् वासयितव्यः स्याद् वधबन्धौच सोऽर्हति॥१७॥

शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात्।
तत्र कर्म च यत् कुर्यादाचार्यस्यैव तत्फलम्॥१८॥

गृहीतशिल्पःसमये कृत्वाचार्यंप्रदक्षिणम्।
शिक्षितश्चानुमान्यैनमन्तेवासी निवर्तयेत्॥१९॥

भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः।
शक्तिभक्त्यनुरूपा स्यादेषां कर्माश्रया भृतिः॥२०॥

उत्तमस्त्वाायुधीयोऽत्र मध्यमस्तु कृपीबलः।
अधमो भारवाहः स्यादित्येवं त्रिविधो भृतः॥२१॥

अर्थेष्वधिकृतो यःस्यात् कुटुम्बस्य तथोपरि।
सोऽधिकर्मकरो ज्ञेयः स चकौटुम्बिकः स्मृतः॥२२॥

शुभकर्मकरा ह्येते चत्वारः समुदाहृताः।
जघन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः॥२३॥

गृहजातस्तथा क्रीतोलब्धोदायादुपागतः।
अशनादिभृतस्तद्वदाधत्तः स्वामिना च यः॥२४॥

ऋणाच्चमोक्षितोऽनल्पाद् युद्धप्राप्तः पणे जितः।
तवाहमित्युपगतः प्रब्रज्यापसृतः कृतः॥२५॥

भक्तदासश्च विज्ञेयस्तथैव वडबाभृतः।
विक्रेता चात्मनः शास्त्रे दासाः पश्चदश स्मृताः॥२६॥

तत्र पूर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते।
प्र(दासा ? सादा)त्स्वामिनोऽन्यत्र दास्यमेषां क्रमागतम्॥२७॥

यश्चैषांस्वामिनं कश्चिन्मोक्षयेत् प्राणसंशयात्।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च॥२८॥

अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत्।
सम्भक्षितं यद् दुर्भिक्षे न तच्छुध्येत कर्मणा॥२९॥

आधत्तोऽथ धनं दत्त्वास्वामी यद्येनमुद्धरेत्।
अथोपगमयेदेनं सोऽपि क्रीतादनन्तरः॥३०॥

दत्त्वा तु सोदयमृणमृणीदास्याद् विमुच्यते।
कृतकालाभ्युपगमात् कृतकोऽपि विमुच्यते॥३१॥

तवाहमित्युपगतो युद्धप्राप्तः पणे जितः।
प्रतिपूरुषदानेन मुच्येरंस्तुल्यकर्मणा॥३२॥

राज्ञ एव तु दासः स्यात् प्रब्रज्यापसृतो नरः।
न तस्य प्रतिमोक्षोऽस्ति विशुद्धिर्वा कथञ्चन॥३३॥

भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते।
निग्रहाद् बडबायाश्च मुच्यते बडबाभृतः॥३४॥

विक्रीणाति स्वतन्त्रः सन् य आत्मानं नराधमः।
सुजघन्यतमस्तेषां सोऽपि दास्यान्नमुच्यते॥३५॥

चोरापहृतविक्रीता ये च दासीकृता बलात्।
राज्ञामोक्षयितव्यास्ते दासत्वं तेषु नेष्यते॥३६॥

वर्णानां प्रातिलोम्येन दासत्वं न विधीयते।
स्वधर्मत्यागिनोऽन्यत्र दारवद् दासता मता॥३७॥

तवास्मीति य आत्मानमस्वतन्त्रः प्रयच्छति।
न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम्॥३८॥

अधनास्त्रय एवोक्ता भार्या दासस्तथा सुतः।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्॥३९॥

स्वदासमिच्छेद् यं कर्तुमदासं प्रीतमानसः।
स्कन्धादादाय तस्याथ भिन्द्यात् कुम्भं सहाम्भसा॥४०॥

अक्षताभिः सपुष्पाभिर्मूर्धन्येनमवाकिरेत्।
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तमथोत्सृजेत्॥४१॥

ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः।
भोज्यान्नः प्रतिगृह्यश्च भवत्यभिमतश्च सः॥४२॥

इत्यभ्युपेत्याशुश्रूषापञ्चमं विवादपदम्।

_____________

अथ वेतनस्यानपाकर्म षष्ठं विवादपदम्।

भृतानां वेतनस्योक्तो दानादानविधिक्रमः।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम्॥१॥

भृत्याय वेतनं दद्यात् कर्मस्वामी यथाकृतम्।
आदौ मध्येऽवसाने वा कर्मणो यद् विनिश्चितम्॥२॥

भृतावनिश्चितायां तु दशभागं समाप्नुयुः।
लाभगोबीजसस्यानां वणिग्गोपकृषीबलाः॥३॥

कर्मोपकरणं चैषां क्रियां प्रति यदर्पितम्।
आप्तभावेन कुर्वीत न जिह्मेन समाचरेत्॥४॥

कर्माकुर्वन् प्रतिश्रुत्य कार्योदत्त्वा भृतिं बलात्।
भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिमावहेत्॥५॥

अनयन् नादयित्वा तु भाण्डं वा यानवाहने।
दाप्यो भृतिचतुर्भागं सर्वामर्धपथे त्यजन्॥६॥

कालेऽपूर्णे त्यजन् कर्म भृतिनाशमवाप्नुयात्।
स्वामिदोषादपक्रामेद् यावत् कृतकमालभेत्॥७॥

भृतिषड्भागमाभाष्यपथि युग्यकृतं त्यजन्।
अददत् कारयित्वातु कर्मैवं सोदयां भृतिम्॥८॥

अनयन् वाहकोऽप्येवं भृतिहानिमवाप्नुयात्।
द्विगुणां तु भृतिंदाप्यः प्रस्थाने विघ्नमाचरन्॥९॥

भाण्डं व्यसनमागच्छेद् यदि वाहकदोषतः।
दाप्यो यत् सत्र नश्येत्तु दैवराजकृतादृते॥१०॥

गवां शताद् वत्सतरीधेनुः स्याद् द्विशताद् भृतिः।
प्रतिसंवत्सरं गोपेसन्दोहो वाष्टमेऽहनि॥११॥

उपानयेद् गा गोपाय प्रत्यहं रजनीक्षये।
चीर्णाः पीताश्च ता (गा ? गो)पः सायाह्ने प्रत्युपानयेत्॥१२॥

स्याच्चेद्गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः।
अशक्तावभिपत्यारं स्वामिने तन्निवेदयेत्॥१३॥

अव्यामच्छन्नविक्रोशन् स्वामिने चानिवेदयन्।
वोढुमर्हति गोपस्तं विनयं चैव राजतः॥१४॥

नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम्।
हीनं पुरुषकारेण गोपायैव निपातयेत्॥१५॥

अजाविके तथा रुद्धे वृकैः पाले त्वनायति।
यत् प्रसह्यवृको हन्यात् पाले तत् किल्बिषंभवेत्॥१६॥

तासामनवरुद्धानां चरन्तीनां मिथो वने।
याः प्रसह्यवृको हन्यान्न पालस्तत्र किल्बिषी॥१७॥

विघुष्य तु हृतं चोरैर्न पालो दातुमर्हति।
यदि देशे च काले च स्वामिनः स्वस्य शंसति॥१८॥

एतेन सर्वपालानां विवादः समुदाहृतः।
मृतेषु तु विशुद्धिः स्यात् पालस्याङ्कादिदर्शनात्॥१९॥

शुल्कं गृहीत्वा पण्यस्त्रीनेच्छन्ती द्विस्तदा (भवे? वहे)त्।
अप्रयच्छंस्तदा शुल्कमनुभूय पुमांस्त्रियम्॥२०॥

अयोनौ क्रमते यस्तु बहुभिर्वापि वासयेत्।
शुल्कमष्टगुणं दाप्यो विनयस्तावदेव च॥२१॥

पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः।
स तद् गृहीत्वा निर्गच्छेत्त्यक्त्वा सर्वंमुधोषितः॥२२॥

स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत्।
ग्रहीतुराभवेद्भग्नंनष्टंवान्यत्र संप्लवात्॥२३॥

इति वेतनस्यानपाककर्म षष्ठं विवादपदम्॥

_____________

अथ अस्वामिविक्रयः सप्तमं विवादपदम्।

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा।
विक्रीयतेपरोक्षं यत् स ज्ञेयोऽस्वामिविक्रयः॥१॥

द्रव्यमस्वामिविक्रीतंप्राप्य स्वामी तदाप्नुयात्।
प्रकाशं क्रयतः शुद्धिःक्रेतुः स्तेयं रहःक्रयात्॥२॥

अस्वाम्यनुमताद्दासादसतश्च जनाद् रहः।
हीनमूल्यमवेलायां क्रीणंस्तद्दोषभाग् भवेत्॥३॥

न गूहेदागमं क्रेता शुद्धिर्ह्यस्य तदागमात्।
विपर्यये तुल्यदोषःसर्वं तद्दोषमर्हति॥४॥

विक्रेता स्वामिनेऽर्थं च क्रेतुर्मूल्यं च तत्कृतम्।
दद्याद् दण्डं तथा राज्ञे विधिरस्वामिविक्रये॥५॥

परेण निहितं लब्ध्वाराजन्युपहरेन्निधिम्।
राजगामी निधिः सर्वः सर्वेषां ब्राह्मणादृते॥६॥

ब्राह्मणोऽपि निधिं लब्ध्वाक्षिप्रंराज्ञे निवेदयेत्।
तेन दत्तं च भुञ्जीत स्तेनः स्यादनिवेदयन्॥७॥

स्वमप्यर्थं तथा नष्टं लब्ध्वा राज्ञेनिवेदयेत्।
गृह्णीयात् तत्र तं शुद्धमशुद्धः स्यादतोऽन्यथा॥८॥

इति अस्वामिविक्रयः सप्तमं विवादपदम्॥

______________

अथ विक्रीयासम्प्रदानमष्टमं विवादपदम्।

विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रयच्छति।
विक्रीयासम्प्रदानं तद्विवादपदमुच्यते॥१॥

लोकेऽस्मिन् द्विविधं द्रव्यं स्थावरं जङ्गमं तथा।
क्रयविक्रयधर्मेषु सर्वं तत् पण्यमुच्यते॥२॥

षड्विधस्तस्य तु बुधैर्दानादानविधिक्रमः।
गणिमंतुलिमं मेयं क्रियया रूपतः श्रिया॥३॥

विक्रीय पण्यं मूल्येन यः क्रेतुर्नप्रयच्छति।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम्॥४॥

अर्घश्चेदपहीयते सोदयं पण्यमाभवेत्।
स्थानिनामेषनियमो दिग्लाभो दिग्विचारिणाम्॥

५॥

उपहन्येत वा पण्यं दह्येतापह्रियेत वा।
विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छतः॥६॥

निर्दोषं दर्शयित्वा तु यः सदोषंप्रयच्छति।
मूल्यं स द्विगुणं दाप्यो विनयं तावदेव च॥७॥

तथान्यहस्ते विक्रीय योऽन्यहस्ते प्रयच्छति।
सोऽपि तद्द्विगुणं दाप्यो विनयं तावदेव च॥८॥

दीयमानं न गृह्णाति पण्यंक्रीतंहि यत् क्रयी।
विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयात्॥९॥

दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः।
अदत्तमूल्ये विक्रीते न विक्रेतुरतिक्रमः॥१०॥

लाभार्थोवणिजां सर्वः पण्येषु क्रयविक्रयः।
स च लाभोऽर्घमासाद्यमहान् भवति वा नवा॥११॥

तस्माद् देशे च काले च वणिगर्घं प्रकल्पयेत्।
न जिह्मेन प्रवर्तेत श्रेयानेष वणिक्पथः॥१२॥

इति विक्रीयासम्प्रदानमष्टमं विवादपदम्॥

______________

अथ क्रीत्वानुशयो नवमं विवादपदम्।

क्रीत्वा मूल्येन यत् पण्यं क्रेता न बहु मन्यते।
क्रीत्वानुशय इत्येतद् विवादपदमुच्यते॥१॥

क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी।
विक्रेतुः प्रतिदेयंतत् तत्रैवाहन्यविक्षतम्॥२॥

द्वितीयेऽह्निददत्क्रेता मूल्यात् त्रिंशांशमावहेत्।
द्विगुणं तत् तृतीयेऽह्नि परतः क्रेतुरेव तत्॥३॥

क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः।
परीक्ष्याभिमतं क्रीतं विक्रेतुर्नाभवेत् पुनः॥४॥

त्र्यहाद् दोह्यंपरीक्षेत पञ्चाहाद् बाह्यमेवच।
मुक्तावज्रप्रवालानां सप्ताहं स्यात् परीक्षणम्॥५॥

द्विपदामर्धमासं स्यात् पुंसां तद्द्विगुणं स्त्रियाः।
दशाहं सर्वबीजानामेकाहंलोहवाससाम्॥६॥

परिभुक्तं तु यद् वासः क्लिन्नरूपं मलीमसम्।
सदोषमपि विक्रीतं विक्रेतुर्नाभवेत् पुनः॥७॥

मूल्याष्टभागो हीयेत सकृद् धौतस्य वाससः।
द्विः पादस्त्रिस्त्रिभागश्च चतुर्धौतेऽर्धमेव च॥८॥

अर्धक्षयात्तु परतः पादांशापचयः क्रमात्।
यावत् क्षीणदशं जीर्णं जीर्णस्यानियमः क्षये॥९॥

लोहानामपि सर्वेषां हेतुरग्निःक्रियाविधौ।
क्षयःसंस्क्रियमाणानां तेषां दृष्टोऽग्निसङ्गमात्॥१०॥

सुवर्णस्य क्षयो नास्तिरजतं द्विपलं शतम्।
शतमष्टपलं ज्ञेयंक्षयःस्यात् त्रपुसीसयोः॥११॥

ताम्रे पञ्चपलंविद्याद् विकारा ये च तन्मयाः।
तद्धेतूनामनेकत्वादयसोऽनियमः क्षये॥१२॥

तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते।
यत्र कार्पासिकोर्णानांवृद्धिर्दशपलं शते॥१३॥

स्थूलसूत्रवतामेषामध्यानां पञ्चकं शते।
त्रिपलं तु सुसूक्ष्माणामन्तः क्षय उदाहृतः॥१४॥

त्रिंशांशोरोमविद्धस्य क्षयः कर्मकृतस्य च।
कौशेयवल्कलानां तु नैव बुद्धिर्न च क्षयः॥१५॥

क्रीत्वा नानुशयं कुर्याद् वणिक् पण्ये विचक्षणः।
क्षयवृद्धी च जानीयात् पण्यानामागमं तथा॥१६॥

इति क्रीत्वानुशयो नवमं विवादपम्॥

______________

अथ समयस्यानपाकर्म दशमं विवादपदम्।

पाषण्डनैगमादीनां स्थितिः समय उच्यते।
समयस्यानपाकर्म तद्विवादपदं स्मृतम्॥१॥

पाषण्डनैगमश्रेणीपूगव्रातगणादिषु।
संरक्षेत् समयं राजा दुर्गे जनपदे तथा॥२॥

यो धर्मः कर्मयच्चैषामुपस्थानविधिश्च यः।
यच्चैषां (प्रत्यु? वृत्त्यु)पादानमनुमन्येत तत् तथा॥३॥

प्रतिकूलं च यद् राज्ञः प्रकृत्यवमतं च यत्।
बाधकं चयदर्थानां तत् तेभ्यो विनिवर्तयेत्॥४॥

मिथः सङ्घातकरणमहिते शस्त्रधारणम्।
परस्परोपतापं च तेषांराजा न मर्षयेत्॥५॥

पृथग् गणान् ये विभिन्द्युस्ते विनेया विशेषतः।
आवहेयुर्भयं घोरं व्याधिवत् ते ह्युपेक्षिताः॥६॥

दोषवत्करणं यत् स्यादनाम्नायप्रकल्पितम्।
प्रवृत्तमपि तद् राजा श्रेयस्कामो निवर्तयेत्॥७॥

इति समयस्यानपाकर्म दशमं विवादपदम्॥

______________

अथ क्षेत्रविवाद एकादशं विवादपदम्।

सेतुकेदारमर्यादा विकृष्टाकृष्टनिश्चयाः।
क्षेत्राधिकारा यत्र स्युर्विवादः क्षेत्रजः स तु॥१॥

क्षेत्रसीमाविरोधे तु सामन्तेभ्यो विनिश्चयः।
नगरग्रामगणिनो ये च वृद्धतमा नराः॥२॥

ग्रामसीमासु च बहिर्ये स्युस्तत्कृषिजीविनः।
गोपशाकुनिकव्याधा ये चान्ये वनगोचराः॥३॥

समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम्।
तुषाङ्गारकपालानां कुम्भैरायतनैर्द्रुमैः॥४॥

अभिज्ञानैश्च वल्मीकस्थलनिम्नोन्नतादिभिः।
केदारागारमार्गैश्च पुराणैः सेतुभिस्तथा॥५॥

निम्नगापहृतोत्सृष्टनष्टचिह्नासुभूमिषु।
तत्प्रदेशानुमानाच्चप्रमाणैर्भोगदर्शनैः॥६॥

अथ चेदनृतं ब्रूयुःसामन्तास्तद्विनिर्णये।
सर्वे पृथक् पृथग्दण्ड्या राज्ञा मध्यमसाहसम्॥७॥

गणिवृद्धादयस्वन्ये दण्डगत्यापृथक् पृथक्।
विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः॥८॥

नैकः समुन्नयेत् सीमां नरःप्रत्ययवानपि।
गुरुत्वादस्यधर्मस्य क्रियैषाबहुषुस्मृता॥९॥

एकश्चेदुन्नयेत् सीमां सोपवासः समुन्नयेत्।
रक्तमाल्याम्बरधरः क्षितिमारोप्य मूर्धनि॥१०॥

यदात्र न स्युर्ज्ञातारः सीमाया नच लक्षणम्।
ततो राजा द्वयोः सोमामुद्धरेदिष्टतःस्वयम्॥११॥

अनेनैव गृहोद्याननिपानायतनादिषु।
विवादविधिराख्यातस्तथा ग्रामान्तरेषु च॥१२॥

अवस्करस्थलश्वभ्रमार्गस्यन्दनिकादिभिः।
चतुष्पथसुरस्थानरथ्यामार्गान्न दूषयेत्॥१३॥

परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते।
महागुणोऽल्पदोषश्चेद्वृद्धिरिष्टा क्षये सति॥१४॥

सेतुस्तु द्विविधो ज्ञेयः खन्यो बध्यस्तथैव च।
तोयप्रवर्तने खन्योबध्यःस्याद्विनिवर्तने॥१५॥

नान्तरेणोदकं सस्यं नाशोऽप्यत्युदकेन तु।
यावाननुदके दोषस्तावानत्युदके स्मृतः॥१६॥

पूर्वप्रवृत्तमुत्सन्नमपृष्ट्वास्वामिनं तु यः।
सेतुं प्रवर्तयेत् कश्चिन्न स तत्फलभाग् भवेत्॥१७॥

मृते वा स्वामिनि पुनस्तद्वंश्ये चापि मानवे।
राजानमामन्त्र्य ततः प्रकुर्यात् सेतुकर्म तत्॥१८॥

अतोऽन्यथा क्लेशभाक् स्यान्मृगव्याधनिदर्शनात्।
इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति॥१९॥

अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः।
क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम्॥२०॥

विकृष्यमाणे क्षेत्रे चेत् क्षेत्रिकः पुनराव्रजेत्।
खिलोपचारं तत्सर्वं दत्त्वा स्वं क्षेत्रमाप्नुयात्॥२१॥

तदष्टभागोपचयाद् यावत् सप्त समा गताः।
सम्प्राप्ते त्वष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः॥२२॥

संवत्सरेणार्धखिलं खिलंस्याद् वत्सरैस्त्रिभिः।
पञ्चवर्षावसन्नं तु स्यात् क्षेत्रमटवीसमम्॥२३॥

क्षेत्रं त्रिपुरुषं यत्र गृहं वा स्यात् क्रमागतम्।
राजप्रसादादन्यत्र न तद्भोगः परं नयेत्॥२४॥

उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः।
पालो दण्ड्यो भवेत् तत्र स चेच्छक्तो न वारयेत्॥२५॥

समूलसस्यनाशे तु तत्स्वामी धान्यमाप्नुयात्।
वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत्॥२६॥

गौः प्रसूता दशाहात् तु महोक्षाजाविकुञ्जराः।
निवार्यास्तु प्रयत्नेन तेषां स्वामी न दण्डभाक्॥२७॥

माषं गांदापयेद् दण्डंद्वौमाषौ महिषींतथा।
अजाविके च वत्से च दण्डः स्यादर्धमाषकः॥२८॥

अदण्ड्याहस्तिनोऽश्वाश्चप्रजापाला हि ते स्मृताः।
अदण्ड्या गर्भिणीगौश्चसूतिका चातिसारिणी॥२९॥

प्रोक्तः सद्विगुणः सन्ने वसन्त्यां तु चतुर्गुणः।
प्रत्यक्षचारकाणांतु चोरदण्डः स्मृतस्तथा॥३०॥

या नष्टाः पालदोषेण गावःक्षेत्रसमाश्रिताः।
न तत्र गोमिनो दण्डः पालस्तद्दण्डमर्हति॥३१॥

राजग्राहगृहीतो वा वज्राशनिहतोऽपि वा।
अथसर्पेण वा दष्टोगिर्यग्रात् पतितोऽपि वा॥३२॥

न तत्र पालदोषः स्यान्नैव दोषोऽस्तिगोमिनाम्।
गोभिस्तु भक्षितं धान्यं यो नरः प्रतिमार्गति॥३३॥

सामन्तस्य शदोदेयो धान्यं यत् तत्रवापितम्।
गवत्रंगोमिने देयं धान्यं तत्कृषकस्य तु॥३४॥

ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे।
अनावृतं चेत्तन्नाशे न गोपस्यव्यतिक्रमः॥३५॥

पथिक्षेत्रे वृतिः कार्या यामुष्ट्रोनावलोकयेत्।
न लङ्घयेत्पशुर्नाश्वोन भिन्द्याद् यां च सूकरः॥३६॥

खातखातस्य केदारमाहुःशल्यवतो मृगम्।
इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति॥३७॥

अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः।
विकृष्यमाणे क्षेत्रे चेत् क्षेत्रिकः पुनराव्रजेत्॥३८॥

बीजापचारं तत्सर्वं दत्त्वास्वं क्षेत्रमाप्नुयात्।
गृहं क्षेत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम्॥३९॥

वृद्धे जनपदे राज्ञो धर्मः कोशश्च वर्धते।
हीयते हीयमाने तु वृद्धिहेतुमतः श्रयेत्॥४०॥

इति क्षेत्रविवाद एकादशं विवादपदम्॥

______________

अथ स्त्रीपुंसयोगो द्वादशं विवादपदम्।

विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते।
स्त्रीपुंसयोगसंज्ञं तु विवादपदमुच्यते॥१॥

स्त्रीपुंसयोस्तु सम्बन्धाद् वरणं प्राग्विधीयते।
वरणाद् ग्रहणं पाणेः संस्कारोऽथ द्विलक्षणः॥२॥

तयोरनियतं प्रोक्तं वरणं दोषदर्शनाद्।
पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम्॥३॥

ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे।
स्वजात्या श्रेयसी भार्या स्वजात्यश्च पतिः स्त्रियाः॥४॥

ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तिस्रएव तु।
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस्त्रयः॥५॥

द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता।
वैश्याया द्वौ पती अन्याएकोऽन्यः क्षत्रियापतिः॥६॥

आ सप्तमात्पञ्चमाच्चबन्धुभ्यः पितृमातृतः।
अविवाह्याःसगोत्राः स्युः समानप्रवरास्तथा॥७॥

परीक्ष्य पुरुषं पुंस्त्वेनिजैरेवाङ्गलक्षणैः।
पुमांश्चेदविकल्पेन स कन्यांलब्धुमर्हति॥८॥

सुबद्धजत्रुजान्वस्थिसुबद्धांसशिरोधरः।
स्थूलघाटातनूजत्वगविलग्नगतिस्वरः॥९॥

विट् चास्य प्लवतेनाप्सुरावि मूत्रं च फेनिलम्।
पुमान् स्याल्लक्षणैरेतैर्विपरीतस्तु षण्डकः॥१०॥

चतुर्दशविधः शास्त्रे स तु दृष्टोमनीषिभिः।
चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तोविधिः क्रमात्॥११॥

निसर्गपण्डो वध्रश्च पक्षपण्डस्तथैव च।
अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च॥१२॥

ईर्ष्यापण्डश्चसेव्यश्चवातरेता मुखेभगः।
आक्षिप्तमोघबीजश्चशालीनोऽन्यपतिस्तथा॥१३॥

तत्राद्यावप्रतीकारौ पक्षाख्यं मासमाचरेत्।
अनुक्रमत्रयस्यास्य कालः संवत्सरः स्मृतः॥१४॥

ईर्ष्यापण्डादयो येऽन्येचत्वारः समुदाहृताः।
सन्त्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रियाः॥१५॥

आक्षिप्तमोघबीजौ च पत्यावप्रतिकर्मणि।
पतिरन्यः स्मृतो नार्या वत्सरं सम्प्रतीक्ष्य तु॥१६॥

शालीनस्यापि धृष्टस्त्रीसंयोगाद् भज्यते ध्वजः।
तं हीनवेषमत्तस्त्रीबालान्धाभिरुपक्रमेत्॥१७॥

अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति।
लभेत सान्यं भर्तारमेतत् कार्यं प्रजापतेः॥१८॥

अपत्यार्थं स्त्रियः सृष्टाःस्त्रीक्षेत्रं बीजिनः प्रजाः।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रमर्हति॥१९॥

पिता दद्यात् स्वयं कन्यां भ्राता वानुमते पितुः।
मातामहो मातुलश्चसकुल्या बान्धवास्तथा॥२०॥

माताभावे तु सर्वेषां प्रकृतो यदि वर्तते।
तस्यामप्रकृतिस्थायां दद्युःकन्यां सजातयः॥२१॥

यदा तु नैव कश्चित् स्यात् कन्या राजानमाव्रजेत्।
अनुज्ञया वरं तस्य प्रतीत्य वरयेत् स्वयम्॥२२॥

सवर्णमनुरूपं च कुलरूपवय श्रुतैः।
सह धर्मं चरेत् तेन पुत्रांश्चोत्पादयेत् ततः॥२३॥

प्रतिगृह्यच यः कन्यां नरो देशान्तरं व्रजेत्।
त्रीनृतून् समतिक्रम्य कन्यान्यं वरयेद् वरम्॥२४॥

कन्या नर्तुमुपेक्षेत बान्धवेभ्यो निवेदयेत्।
ते चेन्न दद्युस्तांभर्त्रेते स्युर्भ्रूणहभिः समाः॥२५॥

यावन्तश्चर्तवस्तस्याः समतीता विना पतिम्।
तावत्यो भ्रूणहत्याः स्युस्तस्य यो न ददातिताम्॥२६॥

अतोऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सकृत्।
महदेनः स्पृशेदेनमन्यथैष विधिः सताम्॥२७॥

सकृदंशोनिपतति सकृत्कन्या प्रदीयते।
सकृदाहददानीति त्रीण्येतानिसकृत्सकृत्॥२८॥

ब्राह्मादिषु विवाहेषु पञ्चस्वेषविधिः स्मृतः।
गुणापेक्षं भवेद् दानमासुरादिषु च त्रिषु॥२९॥

कन्यायां प्राप्तशुल्कायांज्यायांश्चेद् वरआव्रजेत्।
धर्मार्थकामसंयुक्तं वाच्यंतत्रानृतं भवेत्॥३०॥

नादुष्टं दूषयेत् कन्यां नादुष्टंदूषयेद् वरम्।
दोषेतु सति नागः स्यादन्योन्यं त्यजतोस्तयोः॥३१॥

दत्त्वान्यायेन यः कन्यां वराय न ददाति ताम्।
अदुष्टश्चेद्वरो राज्ञादण्ड्यस्तत्र चोरवत्॥३२॥

यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति।
तस्य कुर्यान्नृपो दण्डं पूर्वसाहसचोदितम्॥३३॥

अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः।
स शतं प्राप्नुयाद् दण्डंतस्या दोषमदर्शयन्॥३४॥

प्रतिगृह्यतु यः कन्यामदुष्टामुत्सृजेद् वरः।
विनेयः सोऽप्यकामोऽपि कन्यां तामेवचोद्वहेत्॥३५॥

दीर्घकुत्सितरोगार्ताव्यङ्गाः संस्पृष्टमैथुनाः।
धृष्टान्यगतभावाश्चकन्यादोषाः प्रकीर्तिताः॥३६॥

उन्मत्तपतितक्लीबदुर्भगत्यक्तबान्धवाः।
कन्यादोषौ च यौपूर्वावेषदोषगणो वरे॥३७॥

अष्टौविवाहा वर्णानां संस्काराख्याः प्रकीर्तिताः।
ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च॥३८॥

आर्षश्चैवाथ दैवश्चगान्धर्वोऽथासुरस्तथा।
राक्षसोऽनन्तरस्तस्मात् पैशाचश्चाष्टमोऽधमः॥३९॥

सत्कृत्याहूय कन्यां तु ब्राह्मोदद्यात् स्वलङ्कृताम्।
सह धर्मं चरेत्युक्त्वा प्राजापत्यो विधीयते॥४०॥

वस्त्रगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते।
अन्तर्वेद्यांतु दैवः स्यादृत्विजे कर्म कुर्वते॥४१॥

इच्छन्तीमिच्छते प्राहुर्गान्धर्वोनाम पञ्चमः॥
विवाहस्त्वासुरो ज्ञेयः शुल्कसंव्यवहारतः॥४२॥

प्रसह्यहरणादुक्तोविवाहो राक्षसः स्मृतः।
सुप्तमत्तोपगमनात् पैशाचश्चाष्टमोऽधमः॥४३॥

एषांतु धर्म्याश्चत्वारो ब्राह्माद्याः समुदाहृताः।
साधारणः स्याद् गान्धर्वस्त्रयोऽधर्म्यास्त्वतः परे॥४४॥

परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम्।
पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा॥४५॥

कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता।
पुनर्भूःप्रथमा सोक्तापुनः संस्कारकर्मणा॥४६॥

देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते।
उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता॥४७॥

असत्सु देवरेषु स्त्रीबान्धवैर्याप्रदीयते।
सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता॥४८॥

प्रसूता वाप्रसूता वापत्यावेव तु जीवति।
कामात् समाश्रयेदन्यंस्वैरिणी प्रथमा तु सा॥४९॥

कौमारं पतिमुत्सृज्य या त्वन्यपुरुषाश्रिता।
पुनः पत्युर्गृहं यायात् सा द्वितीया प्रकीर्तिता॥५०॥

मृते भर्तरि वा प्राप्तान् देवरानप्यपास्य तु।
उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता॥५१॥

प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या।
तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता॥५२॥

पुनर्भुवामेष विधिः स्वैरिणीनां च कीर्तितः।
पूर्वापूर्वाजघन्यासां श्रेयसी तूत्तरोत्तरा॥५३॥

अपत्यमुत्पादयितुस्तासां या शुल्कतो हृता।
अशुल्कोपनतायां क्षेत्रिकस्यैव तद्भवेत्॥५४॥

क्षेत्रिकस्य यदज्ञानात् क्षेत्रे बीजं प्रकीर्यते।
न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत्॥५५॥

ओघवाताहृतं बीजंक्षेत्रे यस्य प्ररोहति।
फलभाग् यस्य तत् क्षेत्रं न बीजीफलभाग् भवेत्॥५६॥

महोक्षो जनयेद् वत्सान् यस्य गोषुव्रजे चरन्।
तस्य ते यस्य ता गावो मोघं स्पन्दितमार्षभम्॥५७॥

क्षेत्रिकानुमतं बीजंयस्यक्षेत्रे प्रमुच्यते।
तदपत्यं द्वयोरेव बीजिक्षेत्रिकयोर्मतम्॥५८॥

नर्तेक्षेत्रं भवेत् सस्यं नच बीजं विनास्ति तत्।
अतोऽपत्यं द्वयोरिष्टं पितुर्मातुश्च धर्मतः॥५९॥

नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह।
दृष्टं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे॥६०॥

प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च।
स्वेच्छैरुपेयुषोदारैर्न दोषः साहसो भवेत्॥६१॥

परस्त्रिया सहाकालेऽदेशे वा भवतो मिथः।
स्थानसंभाषणामोदास्त्रयः संग्रहणक्रमाः॥६२॥

नदीनां सङ्गमे तीर्थेष्वारामेषु वनेषु च।
स्त्री पुमांश्चसमेयातां ग्राह्यं संग्रहणं भवेत्॥६३॥

दूतीप्रस्थापनैश्चैव लेखासंप्रेषणैरपि।
अन्यैरपि व्यतीचारैः सर्वं संग्रहणं स्मृतम्॥६४॥

स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत् तया।
परस्परस्यानुमते तच्च संग्रहणं भवेत्॥६५॥

भक्ष्यैर्वा यदि वा भोज्यैर्वस्त्रैर्माल्यैस्तथैव च।
संप्रेष्यमाणैर्गन्धैश्चसर्वं संग्रहणं भवेत्॥६६॥

उपचारक्रिया केलिः स्पर्शो भूषणवाससाम्।
सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम्॥६७॥

दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत्।
मयेयं भुक्तपूर्वेति सर्वं संग्रहणं स्मृतम्॥६८॥

पाणौयश्चनिगृह्णीयाद् वेण्यां वस्त्रान्तरेऽपि वा।
तिष्ठ तिष्ठेति वा ब्रूयाद् सर्वं संग्रहणंस्मृतम्॥६९॥

स्वजात्यतिक्रमेपुंसामुक्तमुत्तमसाहसम्।
विपर्यये मध्यमस्तु प्रतिलोमे प्रमापणम्॥७०॥

कन्यायामसकामायां द्व्यङ्गुलस्यापकर्तनम्।
उत्तमायां वधस्त्वेव सर्वस्वहरणं तथा॥७१॥

सकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः।
किन्त्वलङ्कृत्य सत्कृत्य स एवैनां समुद्वहेत्॥७२॥

माता मातृष्वसा श्वश्रूर्मातुलानीपितृष्वसा।
पितृव्यसखिशिष्यस्त्रीभगिनी तत्सखी स्नुषा॥७३॥

दुहिताचार्यभार्याच सगोत्रा शरणागता।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमाच या॥७४॥

आसामन्यतमां गत्वागुरुतल्पग उच्यते।
शिश्नस्योत्कर्तनं दण्डोनान्यस्तत्रविधीयते॥७५॥

पशुयोन्यामतिक्रम्य विनेयः सदशं शतम्।
मध्यमं साहसं गोषु तदेवान्तावसायिषु॥७६॥

अगम्यागामिनः शास्ति दण्डो राज्ञाप्रचोदितः।
प्रायश्चित्तविधावत्र प्रायश्चित्तं विशोधनम्॥७७॥

स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या।
गम्याः स्युरानुलोम्येन स्त्रियो न प्रातिलोम्यतः॥७८॥

आस्वेव तु भुजिष्यासु दोषःस्यात् परदारवत्।
गम्या अपि हि नोपेयास्ताश्चेदन्यपरिग्रहाः॥७९॥

अनुत्पन्नप्रजायास्तु पतिः प्रेयाद् यदि स्त्रियाः।
नियुक्ता गुरभिर्गच्छेद्देवरं पुत्रकाम्यया॥८०॥

स च तां प्रतिपद्येत तथैवा पुत्रजन्मनः।
पुत्रे जाते निवर्तेत विप्लवःस्यादतोऽन्यथा॥८१॥

घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा।
मुखान्मुखं परिहरन् गात्रैर्गात्राण्यसंस्पृशन्॥८२॥

नीरजस्कामनिच्छन्तीं वन्ध्यां पुत्रवतीं स्त्रियम्।
न गच्छेत् गर्भिणीं निन्द्यामनियुक्तां च बन्धुभिः॥८३॥

अनियुक्ता तु या नारी देवराज्जनयेत् सुतम्।
जारजातमरिक्थीयं तमाहुर्धर्मवादिनः॥८४॥

तथानियुक्तो भार्यायां यवीयाञ्ज्यायसो व्रजेत्।
यवीयसोवायो ज्यायानुभौतौगुरुतल्पगौ॥८५॥

कुले तदवशेषे तु सन्तानार्थं न कामतः।
नियुक्तो गुरुभिर्गच्छेद् भ्रा(तृ? ता)भार्यां यवीयसः॥८६॥

ज्येष्ठभार्यां कनिष्ठो वा गच्छेद् गुरुनियोगतः।
कुलसन्तानरक्षा तु फलं समधिगच्छतः॥८७॥

अविद्यमाने तुगुरौ राज्ञोवाच्यः कुलक्षयः।
ततस्तद्वचनाद् गच्छेदनुशिष्यस्त्रियं च सः॥८८॥

पूर्वोक्तेनैव विधिना स्त्रातां पुंसवने शुचिः।
सकृद्वा गर्भाधानाद् वा कृतेगर्भे स्नुषैव सा॥८९॥

अतोऽन्यथा वर्तमानः पुमान् स्त्री वापि कामतः।
विनेयौ सुभृशं राज्ञाकिल्बिषीस्यादनिग्रहे॥९०॥

ईर्ष्यासूयासमुत्थे तुसंरम्भे रोगहेतुके।
दम्पती विवदेयातां न ज्ञातिषु न राजनि॥९१॥

अन्योन्यं त्यजतोर्नागः स्यादन्योन्यविरुद्धयोः।
स्त्रीपुंसयोर्नतूढाया व्यभिचारादृतेस्त्रि(यः? याः)॥९२॥

व्यभिचारे स्त्रि(यो? या) मौण्ड्यमधःशयनमेवच।
कदन्नंच कुवासश्चकर्म चावस्करोञ्छनम्॥९३॥

स्त्रीधनभ्रष्टसर्वस्वांगर्भविस्राविणीं तथा।
भर्तुश्च वधमिच्छन्तीं स्त्रियं निर्वासयेद् गृहात्॥९४॥

अनर्थशीलां सततं तथैवाप्रियवादिनीम्।
पूर्वाशिनी च या भर्तुः स्त्रियं निर्वासयेद् बुधः॥९५॥

बन्ध्यां स्त्रीजननीं निन्द्यंप्रतिकूलां च सर्वदा।
कामं तांनाभिनन्देत कुर्वन्नेवं न दोषभाक्॥९६॥

अनुरूपामवाग्दुष्टां दक्षां साध्वीं प्रजावतीम्।
त्यजन् भार्यावस्थाप्यो राज्ञा दण्डेन भूयसा॥९७॥

अज्ञातदोषादुष्टा या निर्गता नान्यमाश्रिता।
बन्धुभिः सा नियोक्तव्यानिर्बन्धुः स्वयमाश्रयेत्॥९८॥

पत्यौ प्रव्रजिते नष्टेक्लीबेऽथ पतिते मृते।
पञ्चस्वापत्सुनारीणां पतिरन्यो विधीयते॥९९॥

अष्टौवर्षाण्युदीक्षेत ब्राह्मणं प्रोषितं पतिम्।
अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेत्॥१००॥

क्षत्रिया षट् समास्तिष्ठेदप्रसूता समात्रयम्।
वैश्या प्रसूता चत्वारि द्वेसमे अप्रजा वसेत्॥१०१॥

न शूद्रायाः स्मृतः कालोनच धर्मव्यतिक्रमः॥
विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः॥१०२॥

अप्रवृत्तौ स्मृतोधर्म एषप्रोषितयोषिताम्।
जीवति श्रूयमाणे तु स्यादेषद्विगुणोविधिः॥१०३॥

प्रजाप्रवृत्तौभूतानां सृष्टिरेषाप्रजापतेः।
अतोऽन्यथागमेस्त्रीणामेवं दोषोन विद्यते॥१०४॥

अनुलोम्येन वर्णानां यज्जन्म स विधिः स्मृतः।
प्रातिलोम्येन यज्जन्म स ज्ञेयो वर्णसङ्करः॥१०५॥

अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस्तथा।
द्व्यन्तरश्चानुलोम्येन तथैव प्रतिलोमतः॥१०६॥

उग्रःपारशवश्चैव निषादश्चानुलोमतः।
उत्तमेभ्यस्त्रयस्त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः॥१०७॥

ब्राह्मण्यामपि चण्डालसूतवैदेहका अपि।
अपरेभ्यस्त्रयस्त्रिभ्यो विज्ञेयाः प्रतिलोमतः॥१०८॥

अम्बष्ठो मागधश्चैव क्षत्ता च क्षत्रियासुताः।
आनुलोम्येन तत्रैको द्वौज्ञेयौप्रतिलोमतः॥१०९॥

वैश्यापुत्रास्तु दौष्षन्तयवनायोगवाअपि।
प्रातिलोम्येन तत्रैको द्वौ ज्ञेयावनुलोमजौ॥११०॥

सूताद्याः प्रतिलोमास्तु ज्ञेयावप्रतिलोमजौ।
ससङ्कराः श्वपाकाद्यास्तेषांत्रिस्सप्तको (गु? ग)णः॥१११॥

सवर्णो ब्राह्मणीपुत्रः क्षत्त्रियायामनन्तरः।
अम्बष्ठोग्रौ तथा पुत्रावेवंक्षत्रियवैश्ययोः॥११२॥

एकान्तरस्तु दौष्षन्तो वैश्यायां ब्राह्मणात् सुतः।
शूद्रायां (ब्राह्मणा?क्षत्रिया)त् तद्वन्निषादो नाम जायते॥११३॥

शूद्रा पारशवं सूते ब्राह्मणाद् व्द्यन्तरं सुतम्।
आनुलोम्येन वर्णानां पुत्रा एते प्रकीर्तिताः॥११४॥

सूतश्च मागधश्चोभौपुत्रावायोगवस्तथा।
प्रातिलोम्येन वर्णानां तद्वदेतेऽप्यनन्तराः॥११५॥

ब्राह्मण्येकान्तरं वैश्यात् सूते वैदेहकं सुतम्।
क्षत्तारं क्षत्रिया शूद्रात् पुत्रमेकान्तरं तथा॥११६॥

द्व्यन्तरःप्रातिलोम्येन पापिष्ठः सङ्करे सति।
चण्डाले जायते शूद्राद् ब्राह्मणी यत्र मुह्यति॥११७॥

राज्ञापरीक्ष्यं न यथा जायते वर्णसङ्करः।
तस्माद् राज्ञा विशेषेण त्रयी रक्ष्या तु सङ्करात्॥११८॥

इति स्त्रीपुंसयोगो द्वादशं विवादपदम्॥

<MISSING_FIG href="../books_images/U-IMG-1729406052Screenshotfrom2024-10-2012-03-30.png"/>

अथ दायविभागस्त्रयोदशं विवादपदम्।

विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते।
दायभाग इति प्रोक्तं व्यवहारपदं बुधैः॥१॥

पितर्युपरते पुत्राविभजेयुर्धनं पितुः।
मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः॥२॥

मातुर्निवृत्ते रजसिप्रत्तासुभगिनीषु च।
निरिष्टेवाप्यमरणे पितर्युपरतेऽस्पृहे॥३॥

पितैववास्वयंपुत्रान् विभजेद् वयसि स्थितः।
ज्येष्ठं श्रेष्ठविभागेन यथावास्वमतिर्भवेत्॥४॥

बिभृयाद् वेच्छतःसर्वाञ्ज्येष्ठो भ्राता यथा पिता।
भ्राता शक्तःकनिष्ठोवाशक्त्यपेक्षंक्रिया॥५॥

शौर्यभार्याधने हित्वा यच्च विद्याधनं भवेत्।
त्रीण्येतान्यविभाज्यानि प्रसादो यश्चपैतृकः॥६॥

मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम्।
तस्याप्येव विधिर्दृष्टो मातापीष्टे यथा पिता॥७॥

अध्यग्न्यध्याहवनिकं भर्तृदायस्तथैव च।
भ्रात्रा दत्तं पितृभ्यां च षड्विधं स्त्रीधनं स्मृतम्॥८॥

स्त्रीधनं तदपत्यानांभर्तृगाम्यप्रजासु च।
ब्राह्मादिषु चतुर्ष्वाहुः पितृगामीतरेषु तु॥९॥

कुटुम्बं बिभृयाद् भ्रातुर्यो विद्यामधिगच्छति।
भागं विद्याधनात् तस्मात् स लभेताश्रुतोऽपि सन्॥१०॥

वैद्योऽवैद्यायनाकामोदद्यादंशंस्वतो धनात्।
पितृद्रव्यं तदाश्रित्य न चेत् तेन तदाहृतम्॥११॥

द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिता।
समांशभागिनी माता पुत्राणां स्यान्मृते धवे॥१२॥

ज्येष्ठायांशोऽधिको देयो ज्येष्ठाय तु वरः स्मृतः।
समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा॥१३॥

क्षेत्रजेष्वपि पुत्रेषु तद्वज्जातेषु धर्मतः।
वर्णावरेष्वंशहानिर्गूढजातेष्वनुक्रमात्॥१४॥

पित्रैव तु विभक्ता ये हीनाधिकसमैर्धनैः।
ते स एव भागः स्यात् सर्वस्य हि पिता प्रभुः॥१५॥

कानीनश्च सहोढश्चगूढायां यश्चजायते।
तेषांवोढा पिता ज्ञेयस्ते च भागहराः स्मृताः॥१६॥

अज्ञातपितृको यस्तु कानीनो गूढमातृकः।
मातामहाय दद्याच्च पिण्डं रिक्थंहरेत च॥१७॥

जाता ये त्वनियुक्तायामेकेनबहुभिस्तथा।
अरिक्थभाजस्ते सर्वे बीजिनामेव ते स्मृताः॥१८॥

दद्युस्ते बीजिनः पिण्डं माता चेच्छुल्कतो हृता।
अशुल्कोपनतायां तु पिण्डदा वोढुरेवते॥१९॥

पितृद्विद् पतितः पण्डो यश्च स्यादौपपातिकः।
औरसाअपि नैतेेंऽशंलभेरन् क्षेत्रजाः कुतः॥२०॥

दीर्घतीव्रामयग्रस्ता जल्लोन्मत्तान्धपङ्गवः।
भर्तव्याः स्युः कुटुम्ब्यास्ते तत्पुत्रास्त्वंशभागिनः॥२१॥

द्विरामुष्यायणा दद्युर्द्वाभ्यां पिण्डोदके पृथक्।
रिक्थादर्धांशमादद्युर्बीजिक्षेत्रिकयोस्तथा॥२२॥

संसृष्टिनां तु यो भागस्तेषामेव स इष्यते।
अतोऽन्यथांशभाजोहि निर्बीजिष्वितरानियात्॥२३॥

भ्रातॄणामप्रजः प्रेयात् कश्चिच्चेत्प्रव्रजेत्तथा।

विभजेयुर्धनं तस्य शेषास्ते स्त्रीधनाद् विना॥२४॥

भरणं चाश्य कुर्वीरंस्त्रीणामा जीवितक्षयात्।
रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तु॥२५॥

स्याद् यस्य दुहिता तस्याः पित्रंशो भरणे मतः।
आ संस्काराद् भरेतैनां परतो बिभृयात् पतिः॥२६॥

मृते भर्तर्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः।

विनियोगात्मरक्षासु भरणे च स ईश्वरः॥२७॥

परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये।
तत्सपिण्डेषुचासत्सुपितृपक्षः प्रभुः स्त्रियाः॥२८॥

पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः।
स तस्या भरणं कुर्यान्निगृह्णीयात् पथश्च्युताम्॥२९॥

स्वातन्त्र्याद् विप्रणश्यन्ति कुले जाता अपि स्त्रियः।
अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत्॥३०॥

पिता रक्षति कौमारे भर्ता रक्षति यौवने।
रक्षन्ति वार्द्धके पुत्रा न स्त्री स्वातन्त्र्यमर्हति॥३१॥

यच्छिष्टं पितृदायेभ्यो दत्त्वर्णं पैतृकं च यत्।
भ्रातृभिस्तद् विभक्तव्यमृणी न स्यात् पिता यथा॥३२॥

येषां च न कृताः पित्रा संस्कारविधयः क्रमात्।
कर्तव्या भ्रातृभिस्तेषांपैतृकादेव तद्धनात्॥३३॥

अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः।
अवश्यकार्याः संस्कारा भ्रातॄणां पूर्वसंस्कृतैः॥३४॥

कुटुम्बार्थेषु चोद्युक्तस्तत्कार्यं कुरुते च यः।
स भ्रातृभिर्बृंहणीयो ग्रासाच्छादनभोजनैः॥३५॥

विभागधर्मसन्देहे दायादानां विनिर्णये।
ज्ञातिभिर्भागलेख्यैस्तुपृथक् का (र्यं? र्या) प्रकल्पना॥३६॥

भ्रातॄणामविभक्तानामेको धर्मः प्रवर्तते।
विभागे सति धर्मोऽपि भवेदेषांपृथक् पृथक्॥३७॥

दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः।
विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः॥३८॥

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च।
विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परम्

॥३९॥

येषां द्विधा क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम्।
विभक्तानवगच्छेयुर्लेख्यमप्यन्तरेण तान्॥४०॥

यद्येकजाता बहवः पृथग्धर्माः पृथक्क्रियाः।
पृथक्कर्मगुणोपेता न तेऽकृत्येषु सम्मताः॥४१॥

स्वानंशान् यदि दद्युस्ते विक्रीणीयुरथापि वा।
कुर्युर्यथेष्टं तत्सर्वमीशते स्वधनस्य ते॥४२॥

औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च।
कानीनश्च सहोढश्चगूढोत्पन्नस्तथैव च॥४३॥

पौनर्भवोऽपविद्धश्चलब्धःक्रीतस्तथा कृतः।
स्वयं चौपगतः पुत्रो द्वादशैत उदाहृताः॥४४॥

तेषु षड्बन्धुदायादाः षडदायादबान्धवाः।
पूर्वः पूर्वः स्मृतः श्रेष्ठो जघन्यो यो य उत्तरः॥४५॥

क्रमादेते प्रपद्येरन् मृते पितरि तद्धनम्।
ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात्॥४६॥

पुत्राभावे तु दुहिता तुल्यसन्तानदर्शनात्।
पुत्रश्च दुहिता चौक्तौपितुः सन्तानकारकौ॥४७॥

अभावे दुहितॄणां तु सकुल्या बान्धवास्तथा।
ततः सजात्याः सर्वेषामभावे राजगामि तत्॥४८॥

अन्यत्तु ब्राह्मणात् तत्तु राजा धर्मपरायणः।
तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृत

॥४९॥

इति दायविभागस्त्रयोदशं विवादपदम्॥

_______________

अथ साहसं चतुर्दशं विवादपदम्।

सहसा क्रियते कर्म यत्किञ्चिद्बलदर्पितैः।
तत् साहसमिति प्रोक्तंसहो बलमिहोच्यते॥१॥

तत् पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक्॥२॥

फलमूलोदकादीनां क्षेत्रोपकरणस्य च।
भङ्गाक्षेपावमर्दाद्यैःप्रथमं साहसं स्मृतम्॥३॥

वासःपश्वन्नपानानां गृहोपकरणस्य च।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम्॥४॥

व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम्।
प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम्॥५॥

तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः।
मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशतावरः॥६॥

वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने।
तदङ्गच्छेद इत्युक्तोदण्ड उत्तमसाहसे॥७॥

अविशेषेण सर्वेषामेषदण्डविधिः स्मृतः।
वधादृते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति॥८॥

शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात्।
ललाटे चाभिशस्ताङ्को निर्याणं गर्दभेन च॥९॥

स्यातां संव्यवहार्यौ तौधृतदण्डौतु पूर्वयोः।
धृतदण्डोऽप्यसंभोज्यो ज्ञेय उत्तमसाहसे॥१०॥

तस्यैव भेदः स्तेयं तु विशेषस्तत्र चोच्यते।
आधेः साहसमाक्रम्यस्तेयमाधिच्छलेनतु॥११॥

तदपि त्रिविधं प्रोक्तं द्रव्यापेक्षं महर्षिभिः।
क्षुद्रमध्योत्तमानां तु द्रव्याणामपकर्षणात्॥१२॥

मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत्।
फलं चान्यकृतान्नं च क्षुद्रद्रव्यमुदाहृतम्॥१३॥

वासः कौशेयवर्जं यद् गोवर्जं पशवस्तथा।
हिरण्यवर्जं लोहं च मध्यं व्रीहियवा अपि॥१४॥

हिरण्यरत्नकौशेयस्त्रीपुङ्गोगजवाजिनाम्।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयमुत्तमम्॥१५॥

उपायैर्विविधैरेषांछलयित्वापकर्षणम्।
सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिणः॥१६॥

सहोढग्रहणात् स्तेयं होढेऽसत्यतिभोगतः।
शङ्कात्वसज्जनैकार्थ्यादनायव्ययतस्तथा॥१७॥

भक्तावकाशदातारः स्तेनानांयेप्रसर्पताम्।
शक्तौ च य उपेक्षन्ते तेऽपि तद्दोषभागिनः॥१८॥

उत्क्रोशतांजनानां च ह्रियमाणे धनेऽपि च।
श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिनः॥१९॥

साहसेषु य एवोक्तस्त्रिषु दण्डोमनीषिभिः।
स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात्॥२०॥

गवादिषु प्रनष्टेषु द्रव्येष्वपहृतेषु वा।
पदेनान्वेषणं कुर्युरामूलात् तद्विदो जनाः॥२१॥

ग्रामेव्रजे विवीते वा यत्र सन्निपतेत् पदम्।
वोढव्यं तद् भवेत् तेन नचेत् सोऽन्यत्र तन्नयेत्॥२२॥

पदे प्रमूढे भग्ने वा विषमत्वाज्जनान्तिके।
यस्त्वासन्नतरो ग्रामो व्रजो वा तत्र पातयेत्॥२३॥

समेऽध्वनि द्वयोर्यत्र स्तेयप्रायोऽशुचिर्जनः।
पूर्वापदानैर्दृष्टोया संसृष्टोवा दुरात्मभिः॥२४॥

ग्रामेष्वन्वेषणं कुर्युश्चण्डालवधकादयः।
रात्रिसञ्चारिणो ये च बहिष्कुर्युर्बहिश्चराः॥२५॥

स्तेनेष्वलभ्यमानेषु राजा दद्यात् स्वकाद् धनात्।
उपेक्षमाणो ह्येनस्वीधर्मादर्थाच्चहीयते॥२६॥

इति साहसं चतुर्दशं विवादपदम्॥

<MISSING_FIG href="../books_images/U-IMG-1729413934Screenshotfrom2024-10-2014-15-19.png"/>

अथ वाग्दण्डपारुष्यं पञ्चदशं (षोडशं च) विवादपदम्।

देशजातिकुलादीनामाक्रोशन्यङ्गसंहितम्।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते॥१॥

निष्ठुराश्लीलतीव्रत्वात् तदपि त्रिविधं स्मृतम्।
गौरवानुक्रमादस्य दण्डोऽपि त्रिविधः स्मृतः॥२॥

साक्षेपंनिष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम्।
पतनीयैरुपक्रोशैस्तीव्रमाहुर्मनीषिणः॥३॥

परगात्रेष्वभिद्रोहो हस्तापादायुधादिभिः।
भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते॥४॥

तत्रापि दृष्टं त्रैविध्यं मृदुमध्योत्तमक्रमात्।
अवगूरणनिस्सङ्गपातनक्षतदर्शनैः॥५॥

हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात्।
त्रीण्येव साहसान्याहुः प्रोक्तंकण्टकशोधनम्॥६॥

विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि।
विशुद्धिर्दण्डभाक्त्वं च तत्र सम्बध्यते यथा॥७॥

पारुष्येसति संरम्भादुत्पन्ने क्षुब्धयोर्द्वयोः।
स मान्यते यः क्षमते दण्डभाग् योऽतिवर्तते॥८॥

पारुष्यदोषधुतयोर्युगपत् सम्प्रवृत्तयोः।
विशेषश्चेन्नदृश्येतविनयः स्यात् समस्तयोः॥९॥

पूर्वमाक्षारयेद् यस्तु नियतं स्यात् स दोषभाक्।
पश्चाद् यःसोऽप्यसत्कारी पूर्वे तु विनयो गुरुः॥१०॥

द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः।
स तयोर्दण्डमाप्नोतिपूर्वो वा यदि वेतरः॥११॥

यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु।
स एव विनयं कुर्यान्न तद्विनयभाङ् नृपः॥१२॥

मलाह्येते मनुष्येषु धनमेषां मलात्मकम्।
अतस्तान्घातयेद् राजा नार्थदण्डेन दण्डयेत्॥१३॥

शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति।
वैश्योऽध्यर्धं शतंद्वे वा शूद्रस्तु वधमर्हति॥१४॥

विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने।
वैश्यं चैवार्धपञ्चाशच्छूद्रं द्वादशको दमः॥१५॥

समवर्णद्विजादीनां द्वादशैव व्यतिक्रमे।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत्॥१६॥

काणं वा यदि वा खञ्जमन्यं वापि तथाविधम्।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणात् परम्॥१७॥

न किल्बिषेणापवदेच्छास्त्रतः कृतपावनम्।
न राज्ञा धृतदण्डं च दण्डयेत् तद्व्यतिक्रमे॥१८॥

लोकेऽस्मिन् द्वाववक्तव्यावदण्ड्यौ च प्रकीर्तितौ।
ब्राह्मणश्चैव राजा च तौ हीदं बिभृतो जगत्॥१९॥

पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः।
वचनात् तुल्यदोषःस्यान्मिथ्या द्विर्दोषभाग् भवेत्॥२०॥

नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः।
निखेयोऽयोमयः शङ्कुःशूद्रस्याष्टादशाङ्गुलः॥२१॥

धर्मोपदेशं दर्पेण द्विजानामस्य कुर्वतः।
तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः॥२२॥

येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात्।
तदङ्गमेवच्छेत्तव्यमेवं शुद्धिमवाप्नुयात्॥२३॥

सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः।
कटिदेशेऽङ्क्यनिर्वास्यः स्फिग्देशं वास्य कर्तयेत्॥२४॥

अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः।
अवमूत्रयतः शिश्नमवशर्धयतो गुदम्॥२५॥

केशेषु गृह्णतोहस्तौछेदयेदविचारयन्।
पादयोर्नासिकायां वा ग्रीवायांवृषणेषु च॥२६॥

उपाक्रुश्य च राजानं वर्त्मनि स्वेव्यवस्थितम्।
जिह्वाच्छेदाद्भवेच्छुद्धिः सर्वस्वहरणेन वा॥२७॥

राजनि प्रहरेद् यस्तु कृतागस्यपि दुर्मतिः।
शूले तमग्नौविपचेद् ब्रह्महत्याशताधिकम्॥२८॥

पुत्रापराधे न पिता न श्ववाञ्शुनि दण्डभाक्।
न मर्कटेतत्स्वामी तैरेव प्रहितो न चेत्॥२९॥

इति वाग्दण्डपारुष्यं पञ्चदशं (षोडशं) च विवादपदम्॥

_____________

अथ द्यूतसमाह्वयं सप्तदशंविवादपदम्।

अक्षवर्ध्रशलाकाद्यैर्देवनं जिह्मकारितम्।
पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम्॥१॥

सभिकःकारयेद् द्यूतंदद्याद् देयं च तत्कृतम्।
दशकं तु शताद् वृद्धिस्तस्यस्याद् द्यूतकारिता॥२॥

द्विरभ्यस्ताः पतन्त्यक्षागेहे यस्याक्षदेविनः।
जयं तस्यापरस्याहुःकितवस्य पराजयम्॥३॥

कितवेष्वेव तिष्ठेयुःकितवाः संशयं प्रति।
त एव तस्य द्रष्टारः स्युस्त एव च साक्षिणः॥४॥

अशुद्धं कितवो नान्यमाश्रयेद् द्यूतमण्डलम्।
प्रतिहन्यान्न सभिको दापयन्तं स्वमिष्टतः॥५॥

कूटाक्षदेविनः पापान् निर्भजेद् द्यूतमण्डलात्।
कण्ठेऽक्षमालामासज्ज्य स ह्येषांविनयः स्मृतः॥६॥

इति द्यूतसमाह्वयाख्यं सप्तदशंविवादपदम्॥

_____________

अथ प्रकीर्णकमष्टादशं विवादपदम्।

प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः।
राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं तथा॥१॥

पुरप्रधानसम्भेदः प्रकृतीनां तथैव च।
पाषण्डनैगमश्रेणिगणधर्मविपर्ययाः॥२॥

पितृपुत्रविवादश्चप्रायश्चित्तव्यतिक्रमः।
प्रतिग्रहविलोपश्च कोप आश्रमिणामपि॥३॥

वर्णसङ्करदोषश्च तद्वृत्तिनियमस्तथा।
न दृष्टं यच्च पूर्वेषु तत्सर्वं स्यात् प्रकीर्णके॥४॥

राजा त्ववहितः सर्वानाश्रमान् परिपालयेत्।
उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतैस्तथा॥५॥

यो यो वर्णोऽपहीयेत यो वोद्रेकमनुव्रजेत्।
तं तं दृष्ट्वा स्वतोमार्गात् प्रच्युतं स्थापयेत् पथि॥६॥

अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु।
प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्येषु पातयेत्॥७॥

श्रुतिस्मृतिविरुद्धं च जनानामहितं च यत्।
न तत्प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत्॥८॥

न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत्।
तदप्यन्यायविहितं पुनर्न्याये निवेशयेत्॥९॥

राज्ञाप्रवर्तितान् धर्मान् यो नरो नानुपालयेत्।
नह्यःस पापो वध्यश्चलोपयन् राजशासनम्॥१०॥

आयुधान्यायुधीयानां वाह्यादीन् वाह्यजीविनाम्।
वेशस्त्रीणामलङ्कारान् वाद्यातोद्यानि तद्विदाम्॥११॥

यच्च यस्योपकरणंयेन जीवन्ति कारुकाः।
सर्वस्वहरणेऽप्येतान् न राजा हर्तुमर्हति॥१२॥

अनादिश्चाप्यनन्तश्चद्विपदां पृथिवीपतिः।

दीप्तिमत्त्वाच्छुचित्वाच्च यदि स्यान्न पथश्च्युतः॥१३॥

यदि राजा न सर्वेषां नियतं दण्डधारणम्।
कुर्यात् पथो व्यपेतानां विनश्येयुरिमाः प्रजाः॥१४॥

ब्राह्मण्यं ब्राह्मणाहन्यात् क्षत्रियः क्षात्रमुत्सृजेत्।
स्वकर्म जह्याद् वैश्यश्च शूद्रः सर्वान् विशेषयेत्॥१५॥

राजान(चे? श्चे)न्नाभविष्यन् पृथिव्यां दण्डधारणे।
शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः॥१६॥

सतामनुग्रहो नित्यमसतां निग्रहस्तथा।
एष धर्मः स्मृतो राज्ञामर्थश्चापीडयन् प्रजाः॥१७॥

न लिप्यते यथा वह्निर्दहञ्छश्वदिमाः प्रजाः।
तथा न लिप्यते राजा दण्डं दण्ड्येषुपातयन्॥१८॥

आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता।
ते यद् ब्रूयुरसत् सद्वा स धर्मोव्यवहारिणाम्॥१९॥

राजा नाम चरत्येष भूमौ साक्षात् सहस्रदृक्।
न तस्याज्ञां व्यतिक्रम्य सन्तिष्ठेरन् प्रजाः क्वचित्॥२०॥

रक्षाधिकारादीशत्वाद् भूतानुग्रहदर्शनात्।
यदेव कुरुते राजा तत् प्रमाणमिति स्थितिः॥२१॥

विगुणोऽपि यथा स्त्रीणां पूज्य एवपतिः सदा।
प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः॥२२॥

तपःक्रीताः प्रजा राज्ञा प्रभुरासीत् ततो नृपः।
तस्मात् तद्वचसि स्थेयं वार्ता चासां तदाश्रया॥२३॥

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च॥२४॥

कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः।
प्रजा दहति भूपालस्तदाग्निरभिधीयते॥२५॥

यदा तेजः समालम्ब्य विजिगीषुरुदायुधः।
अभियाति परान् राजा तदेन्द्रः समुदाहृतः॥२६॥

विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः।
प्रजानां दर्शनं याति सोम इत्युच्यते तदा॥

२७॥

धर्मासनगतः श्रीमान् दण्डं धत्ते यदानृपः।
समः सर्वेषु भूतेषु तदा वैवस्वतोयमः॥२८॥

यदातिथिगुरुप्राज्ञान् भृत्यादीनवनीपतिः।
अनुगृह्णातिदानेन तदा स धनदः स्मृतः॥२९॥

तस्मात् तं नावजानीयान्नाक्रोशेन्न विशेषयेत्।
आज्ञायां चास्य तिष्ठेत मृत्युः स्यात् तद्व्यतिक्रमे॥३०॥

तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम्।
दर्शनं व्यवहाराणामात्मनश्चाभिरक्षणम्॥३१॥

ब्राह्मणानुपसेवेत नित्यं राजा समाहितः।
संयुक्तं ब्राह्मणैःक्षत्रं मूलं लोकाभिरक्षणे॥३२॥

ब्राह्मणस्यापरीहारोऽजघन्यासनमग्रतः।
प्रथमं दर्शनं प्रातः सर्वेषां चाभिवादनम्॥

३३॥

अग्रंनवेभ्यः सस्येभ्यो मार्गदानं गच्छतः।
भैक्षहेतोः परागारे प्रवेशश्चानिवारितः॥३४॥

समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात्।
अनाक्षेपः परेभ्यश्च सम्भाषश्चपरस्त्रिया॥३५॥

नदीष्ववेतनस्तारः पूर्वमुत्तरणं तथा।
करेष्वशुल्कदानं चनचेद् वाणिज्यमस्य तत्॥३६॥

वर्तमानोऽध्वनि श्रान्तो गृह्णन्नेकाशनः स्वयम्।
ब्राह्मणो नापराध्नोति द्वाविक्षू पञ्च मूलिकान्॥३७॥

नाभिशस्तान्न पतितान्न द्विषोन च नास्तिकात्।
न सोपधान्नानिमित्तं न दातारं प्रपीड्यच॥३८॥

अर्थानां भूरिभावाच्च देयत्वाच्च महात्मनाम्।
श्रेयान् प्रतिग्रहो राज्ञामन्येभ्यो ब्राह्मणादृते॥३९॥

ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ।
नैतयोरन्तरं किञ्चित् प्रजाधर्माभिरक्षणात्॥४०॥

धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतोऽशुचीन्।
मेध्यमेव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः॥४१॥

शुचीनामशुचीनां च सन्निपातो यथाम्भसाम्।
स तत्र समतां याति तद्वद्राज्ञां धनागमः॥४२॥

यदा चाग्नौस्थितं दीप्ते शुद्धिमाप्नोति काञ्चनम्।
एवमेवागमाः सर्वे शुद्धिमायान्ति राजसु॥४३॥

यदा च कश्चित् स्वं द्रव्यं ब्राह्मणेभ्यः प्रयच्छति।
तद् राज्ञाप्यनुमन्तव्यमेष धर्मः सनातनः॥४४॥

अन्यन्त्र कारादुचिताद् भूमेः षड्भागसंज्ञितात्।
बलिः स तस्य विहितः प्रजापालनवेतनः॥४५॥

शक्यं तत् पुनरादातुं यदब्राह्मणसात्कृतम्।
ब्राह्मणाय तु यद् दत्तं न तस्याहरणं पुनः॥४६॥

दानमध्ययनं यज्ञः कर्मास्योक्तं त्रिलक्षणम्।
याजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः॥४७॥

स्वकर्मणि द्विजस्तिष्ठन्वृत्तिमाहारयेत् कृताम्।
नासद्भ्यःप्रतिगृह्णीयाद् वर्णेभ्यो नियमे सति॥४८॥

अशुचिर्वचनाद् यस्यशुचिर्भवति पूरुषः।
शुचिश्चैवाशुचिः सद्यःकथं राजा न देवतम्॥४९॥

तथैवान्ये प्रणिहिताः श्रद्धेयाश्चित्रवादिनः।
चोरा ह्युत्साहयेयुस्तांस्तस्करा(न्) पूर्वतस्कराः॥६१॥

अन्नपानमहादानैः समाजोत्सवदर्शनैः।
तथा चौर्यापदेशैश्च कुर्युस्तेषां प्रसर्पणम्॥६२॥

ये तत्र नोपसर्पन्ति सृताः प्रणिहिता अपि।
तेऽभिसृत्य ग्रहीतव्याः सपुत्रपशुबान्धवाः॥६३॥

अचोरा अपि दृश्यन्ते चोरैः सह समागताः।
यादृच्छिकान् नैव तु तान् राजा दण्डेन शासयेत्॥६४॥

यांस्तत्र चोरान् गृह्णीयात् तानाताड्य निबध्य च।
अवघुष्य च सर्वत्र वध्याश्चित्रवधेन ते॥६५॥

लोप्त्रादिरहिताश्चोरा राज्ञावध्या ह्यनागमम्।
सहोढान् सोपकरणांश्चोरान् क्षिप्रं विवासयेत्६६॥

स्वदेशघातिनो ये स्युस्तथा मार्गोपरोधिनः।
तेषांसर्वस्वमादाय भूयो निन्दां प्रवर्तयेत्॥६७॥

सहोढान् विमृशेच्चोरान् गृहीत्वा परिशङ्कया।
भयोपधाभिश्चित्राभिर्ब्रूयुः सत्यं यथा हि ते॥६८॥

देशं कालं तथा जातिं नाम रूपं प्रतिश्रयम्।
कृत्यं कर्म सहायांश्च प्रष्टव्याःस्युर्निगृह्य ते॥६९॥

वर्णस्वराकारभेदात् ससन्दिग्धनिवेदनात्।
अदेशकालदृष्टत्वाद् वासस्याप्यविशोधनात्॥७०॥

असद्व्ययात् पूर्वचौर्यादसत्संसर्गकारणात्।
लेशैरप्यवगन्तव्या न होढेनैव केवलम्॥७१॥

गोरसेक्षुविकाराणां तथालवणतैलयोः।
पक्वान्नानां कृतान्नानां मद्यानामामिषस्य च॥८३॥

सर्वेषामल्पमूल्यानां मूल्यात् पञ्चगुणो दमः।
तुलाधारिममेयानां गणिमानां च सर्वशः॥८४॥

एभ्यस्तूत्कृष्टमूल्यानां मूल्याद् दशगुणो दमः।
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः॥८५॥

घृते त्वेकादशगुणं दण्डं दाप्योऽब्रवीन्मनुः।
हिरण्यरजतादीनामुत्तमानां च वाससाम्॥८६॥

रत्नानां चैव मुख्यानां शतादभ्यधिके वधः।
पुरुषं हरतो वासो दण्डस्तूत्तमसाहसः॥८७॥

सर्वस्वं स्त्रीं तु कन्यां तु हरतो वध एव च।
चतुर्विंशा(त् प? व)रः पूर्वः परः षण्णवतिर्भवेत्॥८८॥

शतानि पञ्च तु वरो मध्यमोद्विशतावरः।
सहस्रं तूत्तमो ज्ञेयः परः पञ्चशतावरः॥८९॥

त्रिविधः साहसेष्वेवं दण्ड उक्तः स्वयम्भुवा।
प्रथमे ग्रन्थिभेदानामङ्गुल्यङ्गुष्ठयोर्वधः॥९०॥

द्वितीये चैव यच्छेषंदण्डः पूर्वश्चसाहसः।
गोषु ब्राह्मणसंस्थासु स्थूरायाश्छेदनं भवेत्॥९१॥

दासीं तुहरतो नित्यमर्धपादावकर्तनम्।
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते।
छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम्॥९२॥

गरीयसि गरीयांसमगरीयसि वा पुनः।
स्तेने निपातयेद् दण्डं न यथा प्रथमे तथा॥९३॥

दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत्।
त्रिषु वर्णेषु तानि स्युरक्षतो ब्राह्मणो व्रजेत्॥९४॥

उपस्थमुदरं जिह्वाहस्तौ पादौ च पञ्चमम्।
चक्षुर्नासा च कर्णौ च स्तनौदेहस्तथैव च॥९५॥

अपराधं परिज्ञाय देशकालौच तत्त्वतः।
सारानुबन्धावालोच्य दण्डं दण्ड्येषु पातयेत्॥९६॥

न मित्रकारणाद् राज्ञोविपुलाद् वाधनागमात्।
उत्स्रष्टव्याः साहसिकास्तस्करा लोकवञ्चकाः॥९७॥

यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे।
भवत्यधर्मो नृपतेर्धर्मस्तु विनियच्छतः॥९८॥

न जातु ब्राह्मणंहन्यात् सर्वपापेष्वपि स्थितम्।
निर्वासंकारयेत् कामं समग्रधनमक्षतम्॥९९॥

सर्वं वापि हरेद्राजा चतुर्थंवावशेषयेत्।
विप्रेभ्योऽनुस्मरन् धर्मं प्राजापत्यमिति स्थितिः॥१००॥

ब्राह्मणस्यापराधेषु चतुर्ष्वङ्को विधीयते।
गुरुतल्पेसुरापाने स्तेये ब्राह्मणहिंसने॥१०१॥

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः।
स्तेये तु श्वपदं कृत्वा शिखिपत्तेन पूरयेत्॥१०२॥

विशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः।
असम्भाष्यश्चकर्तव्यस्तन्मनोरनुशासनम्॥१०३॥

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धीमता।
आचक्षाणेन तत् स्तेयमेवंकर्मास्मि शाधि माम्॥१०४॥

अनेना भवति स्तेनः स्वकर्मप्रतिवेदनात्।
राजानं तत् स्पृशेदेन उत्सृजन्तं सकिल्बिषम्॥१०५॥

राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥१०६॥

शासनाद् वापि मोक्षाद् वा स्तेनो मुच्येत किल्बिषात्।
अशासत् तमसौ राजा स्तेनस्याप्नोति किल्बिषम्॥१०७॥

गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम्।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः॥१०८॥

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम्।
द्व्यष्टापाद्यं तु वैश्यस्य द्वात्रिंशत क्षत्रियस्य तु॥१०९॥

ब्राह्मणस्य चतुष्षष्टिंमनुः स्वायम्भुवोऽब्रवीत्॥११०॥

शारीरश्चार्थदण्डश्च दण्डस्तु द्विविधः स्मृतः।
शारीरो द्विविधः प्रोक्तोह्यर्थदण्डस्त्वनेकधा॥१११॥

काकण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च।
शारीरस्त्ववरोधादिजीवितान्तस्तथा स्मृतः॥११२॥

काकण्यादिस्तु यो दण्डः स तु माषपरः स्मृतः।
(कार्षा? माषा)परार्धोयः प्रोक्तः कार्षापणपरस्तु सः॥११३॥

कार्षापणापरार्धस्तु चतुष्कार्षापणोत्तरः।
द्व्यवरोऽष्टपरश्चान्यस्त्र्यवरो द्वादशोत्तरः॥११४॥

कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश्चतुर्गुणाः।
एवमन्येऽपि बोद्धव्याः प्राक् च ते पूर्वसाहसात्॥११५॥

कार्षापणोदक्षिणस्यां दिशि रूढःप्रवर्तते।
पणैर्निबद्धः पूर्वस्यां षौडशैव पणाः स तु॥११६॥

पञ्चनद्याः प्रदेशे तु या संज्ञा व्यवहारिकी।
कार्षापणप्रमाणं तुनिबद्धमिह वै तया॥११७॥

कार्षापणोऽब्धिकाज्ञेयश्चत(स्रोव?स्रस्ता)स्तु धानकः।
ते द्वादश सुवर्णं स्याद् दीना(रा? र)श्चित्रकःस्मृतः॥११८॥

वार्तां त्रयीमप्यथ दण्डनीतिं राजानुवर्तेत सदाप्रमत्तः।
हन्यादुपायैर्विविधैर्गृहीत्वा पुरे चराष्ट्रे चविघुष्य चोरान्॥११९॥

इति प्रकीर्णकमष्टादशंविवादपदम्॥

<MISSING_FIG href="../books_images/U-IMG-1729434308Screenshotfrom2024-10-2019-54-54.png"/>

अथ दिव्यप्रकरणम्।

संशयस्यास्तु ये केचिन्महापातकिनश्च ये।
अभिशस्ताः परैश्चापिते शोध्याः संशयैरिह॥१॥

घटोऽग्निरुदकं चैव विषंकेशश्चपञ्चमः।
पञ्चैतान्याह दिव्यानि दूषितानां विशोधने॥२॥

सन्दिग्धेऽर्थेभिशस्तानां परीक्षार्थंमहात्मना।
नारदेन पुरा प्रोक्ताःसत्यानृतविभाजिकाः॥३॥

कारयेत चतुर्हस्तां समांलक्षणलक्षिताम्।
तुलां काष्ठमयीं राजा शिक्यप्रान्तावलम्बिनीम्॥४॥

दक्षिणोत्तरसंस्थानावुभावेकत्रसङ्गतौ।
स्तम्भौ कृत्वा समे देशे तयोः संस्थापयेत् तुलाम्॥५॥

आयसेन तु पाशेन मध्ये संगृह्य धर्मवित्।
योजयेत सुसंयत्तां तुलां प्रागपरायताम्॥६॥

वादिनोऽनुमतेनैनां कारयेन्नान्यथा नृपः।
तोलयित्वान्तरं पूर्वं चिह्नं कृत्वा धटस्य तु॥७॥

तुलितो यदि वर्धेत स विशुद्धो हि धर्मतः।
समो वा हीयमानो वान विशुद्धो भवेन्नरः॥८॥

धर्मपर्यायवचनैर्धट इत्यभिधीयते।
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च॥९॥

त्वमेव देव! जानीषे न विदुर्यानि मानवाः।
व्यवहाराभिशस्तोऽयं मानुषःशुद्धिमिच्छति॥१०॥

तदेनं संशयारूढंधर्मतस्त्रातुमर्हसि।
अतः परं प्रवक्ष्यामि लोहस्य विधिमुत्तमम्।
द्वात्रिंशदङ्गुलाख्यंतु मण्डलान्मण्डलान्तरम्॥११॥

मण्डलस्य प्रमाणं तु कुर्यात् तद्धटसम्मितम्।
अष्टाभिर्मण्डलैरेवमङ्गुलानां शतद्वयम्॥१२॥

चतुर्विंशत् समाख्यातं भूमेस्तु परिकल्पनम्।
मण्डलैस्तुततः क्लृप्तैः सोपवासः शुचिर्नरः॥१३॥

सवासा जलमाप्लुत्य त्वार्द्रकेशः समाहितः।
सप्ताश्वत्थस्य पत्राणि तथा सौत्राणि तन्तवः(?)॥१४॥

हुताशतप्तं लोहस्य पञ्चाशत्पलिकं समम्।
हस्ताभ्यां पिण्डमादाय व्रजेत् सप्त शनैः शनैः॥१५॥

न मण्डलमतिक्रामेन्नाप्यर्वाक्स्थापयेत् पदम्।
न पातयेत् तामप्राप्तो यावद् भूः परिकल्पिता॥१६॥

भयात् पातयते यस्तु दग्धो वान विभाव्यते।
पुनस्तं हारयेल्लोहंस्थितिरेवं दृढीकृता॥१७॥

तीर्त्वानेन विधानेन मण्डलानि कृतानि तु।
न दग्धः सर्वथा यस्तु स विशुद्धो भवेदिह॥१८॥

अनेन विधिना कार्यो हुताशसमयः सदा।
त्वमेव सर्वभूतानामन्तश्चरसि नित्यशः॥१९॥

प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च।
त्वमेव देव! जानीषेन विदुर्यानि मानवाः॥२०॥

व्यवहाराभिशस्तोऽयं मानुषःशुद्धिमिच्छति।
तदेनं संशयारूढंधर्मतस्त्रातुमर्हसि॥२१॥

अतःपरं प्रवक्ष्यामि पानीयविधिमुत्तमम्।
नातिक्रूरेण धनुषा प्रेरयित्वा शरत्रयम्॥२२॥

पानीये मज्जये(रं?द् य)स्तु शङ्कायां प्रतिवर्तते।
मध्यमस्तु शरो यः स्यात् पुरुषेण बलीयसा॥२३॥

प्रत्यानीते तु तेनाथतस्य शुद्धिर्भविष्यति॥२४॥

स्त्रियस्तु न बलात्कार्या न पुमांसोऽतिदुर्बलाः।
भीरुत्वाद् योषितो मृत्युर्निरुत्साहतया कृशः॥२५॥

वारिमध्ये मनुष्यस्य (त्व) अङ्गं यदि न दृश्यते।
अतोऽन्यथा न शुद्धः स्यादेकाङ्गमपि दर्शयन्॥२६॥

स्थानादन्यत्र वा गच्छन् यस्मिन् पूर्वं निवेशितः।
तोयमध्ये मनुष्यस्य गृहीत्वोरुं सुसंयतः॥२७॥

लग्नस्तु निश्चलस्तिष्ठेद् यावत् प्राप्तस्तु सायकः।
(प्राप्तं तु सायकं दृष्ट्वा जलादुत्थाय प्राङ्मुखम्?)।

आनीतं तु शरं दृष्ट्वाजलादुत्थाय प्राङ्मुखः।
प्रणिपत्य नृपं गच्छेत् सर्वांश्चैव सभासदः॥२८॥

त्वमम्भः! सर्वभूतानामन्तश्चरसि नित्यशः।
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च॥२९॥

त्वमेव देव! जानीषेन विदुर्यानि मानवाः।
व्यवहाराभिशस्तोऽयं मानुषःशुद्धिमिच्छति॥३०॥

तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि॥३१॥

अतःपरं प्रवक्ष्यामि विषस्य विधिमुत्तमम्।
अपराह्णे न मध्याह्ने न सन्ध्यायां तु धर्मवित्॥३२॥

शरद्ग्रीष्मवसन्तेषु वर्षासु च विवर्जयेत्।
भग्नं च वारितं चैव धूपितं मिश्रितं तथा।
कालकूटं मलं चैव विषं यत्नेन वर्जयेत्॥३३॥

शार्ङ्गं हैमवतं शस्तं रूपवर्णरसान्वितम्।
महादोषवते दद्याद् राजा तत्त्वबुभुत्सया॥३४॥

न वृद्धातुरबालेषु नच स्वल्पापराधिषु॥३५॥

विषस्य पलषड्भा(गं? गो) भागो विंशतिम(स्य तत्? स्तु यः)।
तदष्टभागशुद्धं तु शो(ध्य? ध्ये) दद्याद् घृताप्लुतम्॥३६॥

यथोक्तेन विधानेन विद्वान् स्पृष्ट्वानुमोदितः।
सोपवासस्तु खादेत देवब्राह्मणसन्निधौ॥३७॥

विषवेगक्रमापेतं सुखेन यदि जीवति।
विशुद्धमिति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत्॥३८॥

अतःपरं प्रवक्ष्यामि कोशस्य विधिमुत्तमम्।
मध्याह्ने सोपवासस्य स्नातस्यार्द्राम्बरस्य च॥३९॥

न शूद्रस्याव्यसनिनः कोशपानं विधीयते।
यद्भक्तः सोऽभियुक्तः स्यात् तद्देवत्यं तु प्राङ्मुखः॥४०॥

प्रत्युच्चार्य ततोर्ध्वास्यंपाययेत् प्रसृतित्रयम्।
द्विसप्ताहान्तरात् तस्य त्रिसप्ताहेन वा शुभः॥४१॥

प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना।
ऊर्ध्वं त्रिसप्तदिवसाद् वैकृतं सुमहद्यदि॥४२॥

नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात्।
महापराधे निर्दोषे कृतघ्नेक्लीबकुत्सिते।
नास्तिकव्रात्यबालेषु कोशपानं विचर्जितम्॥४३॥

चराचरस्य जगतो जलेश! प्राणधारणम्।
मानुषोऽयं त्वया देव! धर्मतः शुद्धिमिच्छति॥४४॥

अद्भ्यश्चाग्निरभूत् यस्मादतस्तोयेविशेषतः।
तस्मात् सत्येन भगवञ्जलेश!त्रातुमर्हसि॥४५॥

यथोक्तेन विधानेन पञ्च दिव्यानि धर्मवित्।
ददद् राजाभिशस्तेभ्यः प्रेत्य चेह च नन्दति॥४६॥

इति पञ्चदिव्यानि॥

<MISSING_FIG href="../books_images/U-IMG-1729441964Screenshotfrom2024-10-2022-02-23.png"/>

समाप्तैषा नारदीयमनुस्मृतिः॥

<MISSING_FIG href="../books_images/U-IMG-1729442004Screenshotfrom2024-10-2022-03-04.png"/>

॥अथ॥