प्रथमोऽध्यायः।
मनुमेकाग्रमासीनमभिगम्य महर्षयः।
प्रतिपूज्य यथान्यायमिदं वचनमव्रुवन्॥१॥
भगवन् सर्ववर्णानां यथावदनुपूर्वशः।
अन्तरप्रभवानांच धर्मान्नो वक्तुमर्हसि॥२॥
त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः।
अचिन्त्यस्याप्रमेयस्य कार्यं तत्त्वार्थवित्प्रभो॥३॥
स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः।
प्रत्युवाचार्च्य तान् सर्वान् महर्षीन् श्रूयतामिति॥४॥
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः॥५॥
ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम्।
महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः॥६॥
योऽसावतीन्द्रियग्राह्यःसूक्ष्मोऽव्यक्तः सनातनः।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ॥७॥
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः।
अप एव ससर्जादौ तासु वीर्यमवासृजत्॥८
तदण्डमभवद्धैमंसहस्रांशुसमप्रभम्।
तस्मिन् जज्ञे स्वयंब्रह्मा सर्वलेाकपितामहः॥९॥
आपो नरा इति प्रोक्ताआपो वै नरसूनवः।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः॥१०॥
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम्।
तद्विसृष्टःस पुरुषो लोके ब्रह्मेति कोर्त्यते॥११॥
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्।
स्वयमेवात्मनो ध्यानात्त दण्डमकरोद्द्विधा॥१२॥
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे।
मध्ये व्योम दिशश्चाष्टावपांस्थानं च शाश्वतम्॥१३॥
उद्बवर्हात्मनश्चैव मनः सदसदात्मकम्।
मनसश्चाप्यहङ्कारमभिमन्सारमीश्वरम्॥१४॥
महान्तमेव चात्मानं सर्वाणित्रिगुणानि च।
विषयाणां ग्रहीतानिशनैः पञ्चेन्द्रियाणि च॥१५॥
तेषां त्ववयवान् सूक्ष्मान्षण्णामप्यमितौजसाम्।
सन्निवेन्श्यात्ममात्रासु स सर्वभूतानि निर्ममे॥१६॥
यत्मूर्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयन्ति षट्।
तस्माच्छरीरमित्याहुतस्य मूर्त्तिं मनीषिणः॥१७॥
तदाविशन्ति भूतानि महान्ति सह कर्मभिः।
मनश्चावयवैः सूक्ष्मैःसर्वभूतकृदव्ययम्॥१८॥
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम्।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम्॥१९॥
लोकानां तु विवृद्व्यर्थंमुखबाहूरुपादतः।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्॥३१॥
द्विधा कृात्वात्मनोदेहमर्द्धेन पुरुषोऽभवत्।
अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः॥३२॥
तपस्तप्त्वाऽसृजद्यंतु स स्वयं पुरुषो विराट्।
तं मां वित्तास्य सर्वस्य स्रष्टारंद्विजसत्तमाः॥३३॥
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम्।
पतीन्प्रजानामसृजंमहर्षीनादितो दश॥३४॥
मरीचिमत्र्यङ्गिरसौपुलस्त्यं पुलहंक्रतुम्।
प्रचेतसं वशिष्ठं च भृगुं नारदमेव च॥३५॥
एते मनूंस्तु सप्तान् सृजन् भूरितेजसः।
देवान् देवनिकायांश्च महर्षीश्चामितौजसः॥३६॥
यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान्।
नागान् सर्पान् सुपर्णांश्चपितॄणां च पृथग्गणान्॥३७॥
विद्युतोऽशनिमेघांश्चरोहितेन्द्रधनूंषि च।
उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च॥३८॥
किन्नरान् वानरान्मत्स्यान् विविधांश्चविहङ्गमान्।
पशून् मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः॥३९॥
कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम्।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम्॥४०॥
एवमेतैरिदं सर्वं मन्नियोगान्महात्मभिः।
यथाकर्म तपोयोगात् सृष्टंस्थावरजङ्गमम्॥४१॥
तस्मिन् स्वपति सुस्थं तु कर्मात्मानः शरीरिणः।
कर्मयोनिवर्तन्ते मनश्च ग्लानिमृच्छति॥५३॥
युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि।
तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः॥५४॥
तमोऽयं तु समाश्रिय चिरं तिष्ठति सेन्द्रियः।
न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः॥५५॥
यदाणुमात्रिको भूत्वा बीजं स्थास्नुचरिष्णु च।
समाविशति संसृष्टस्तदा मूर्त्तिंविमुञ्चति॥५६॥
एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम्।
संजीवयति चाजत्र प्रमापयति चाव्ययः॥५७॥
इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः।
विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन्॥५८॥
एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः।
एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः॥५९॥
ततस्तथा स तेनोक्तो महर्षिर्मनुना भृगुः।
तानव्रवीदृषीन् सर्वान् प्रीतात्मा श्रूयतामिति॥६०॥
स्वायम्भुवस्यास्य मनोः पड्वंश्या मनवोऽपरे।
सृष्टवन्तः प्रजाः स्वा स्वा महात्मानो महौजसः॥६१॥
स्वारोचिषश्चोत्तमश्च सागसो रैवतस्तथा।
चाक्षुषश्च महातेजा विवस्वत्सुतएव च॥६२॥
स्वायम्भुवाद्याः सप्तैते मनवो भूरितेजसः।
स्वेस्वेऽन्तरे सर्वमिदमुपद्यापुश्चराचरम्॥६३॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया।
आकाशं जायते तस्मात् तस्य शब्दं गुणं स्मृतम्॥७५॥
आकाशात्तु विकुर्वाणात् सर्वगन्धवहः शुचिः।
वलवान् जायते वायुः स वैस्पर्शगुणो मतः॥७६॥
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम्।
ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते॥७७॥
ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः।
अद्भ्योगन्धगुणा भूमिरित्येषा सृष्टिरादितः॥७८॥
यत् प्रागुद्वादशसाहस्रमुदितं दैविकं युगम्।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते॥७६॥
मन्वन्तराण्यसंख्यानि सर्गः संहार एव च।
क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः॥८०॥
चतुष्पात् सकलो धर्माः सत्यं चैव कृते युगे।
नाधर्मेणागमः कश्चिन्मनुष्यान् प्रति वर्तते॥८१॥
इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः।
चौरिकानृतमायाभिर्धर्मश्चापैति पादशः॥८२॥
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः।
कृते त्रेतादिषु ह्येषांवयो ह्रसति पादशः॥८३॥
वेदोक्तमायुर्त्यानामाशिषश्चैव कर्मणाम्।
फलन्त्यनुयुगं लोके प्रभावश्चशरीरिणाम्॥८४॥
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे।
अन्ये कलियुगे नृणां युगह्रासानुरूपतः॥८५॥
ब्राह्मणेषु तु विद्वांसो विद्वत्सु कृतबुद्धयः।
कृतबुद्धिषु कर्तारः कर्तृषुब्रह्मवेदिनः॥९७॥
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शामवती।
स हि धर्मार्थमुत्पन्नोब्रह्मभूयाय कल्पते॥९८॥
ब्राह्मणो जायमानो हि पृथिव्यामधिजायते।
ईश्वरः सर्वभूतानां धर्मकोषस्य गुप्तये॥९९॥
सर्वं स्वं व्राह्मणस्येदं यत् किंचिज्जगतीगतम्।
श्रैष्ठ्यैनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति॥१००॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च।
आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥१०१॥
तस्य कर्मविदेकार्थं शेषाणामनुपूर्वशः।
स्वायम्भूवोमनुधीमानिदं शास्त्रमकल्पयत्॥१०२॥
विदुषा ब्राह्मणेनेदमध्येतव्यंप्रयत्नतः।
शिष्येभ्यश्च प्रवक्तव्यंसम्यक्नान्येन केनचित् ॥१०३॥
इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः।
मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिप्यते॥१०४॥
पुनाति पङक्तिं वंश्यांश्च सप्त सप्त परावरान्।
पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति॥१०५॥
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्द्धनम्।
इदं यशस्यमायुष्यमिदं निःश्रेयसं परम् ॥१०६॥
अस्मिन् धर्मोऽखिलेनोक्तौगुणदोषौच कर्मणाम्।
चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः॥१०७॥
यथेदमुक्तवाञ्छास्त्रं पुरा पृष्टो मनुर्मया।
तथेदं यूयमप्यद्यमत्सकाशान्निबोधत॥११९॥
इति मानवे धर्मशास्त्रे भृगुप्रायां मनुस्मृत्यां प्रथमोऽध्यायः।
———————————
द्वितीयाऽध्यायः।
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तन्निबोधत॥१॥
कामात्मता न प्रशस्ता न चैवेहास्त्यकामता।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः॥२॥
सङ्कल्पमूलःकामो वै यज्ञाः सङ्कल्पसम्भवाः।
व्रता नियमधर्माश्च सर्वे सङ्कल्पजाःस्मृताः॥३॥
अकामस्य क्रिया काचित् दृश्यते नेह कर्हिचित्।
यद् यद्धि कुरुते किंचित् तत्तत् कामस्य चेष्टितम्॥४॥
तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम्।
यथा सङ्कल्पितांश्चेह सर्वान् कामान् समश्नुते॥५॥
वेदोऽखिलधर्ममूलं स्मृतिशीले च तद्विदाम्।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च॥६॥
यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्तितः।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः॥७॥
यथेदमुक्तवान् शास्त्रंपुरा पुष्टो मनुर्मया।
तथेदं यूयमप्यद्य मतसकाशान्निबोधत॥११९
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां प्रथमोऽध्यायः।
—————————
द्वितीयाऽध्यायः।
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः॥
हृदयेनाभ्यनुज्ञातो यो धर्मस्तन्निबोधत॥१॥
कामात्मता न प्रशस्ता न चैवैहास्त्यकामता।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः॥२॥
सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः।
व्यता नियमधर्माश्च सर्व सङ्कल्पजाः स्मृताः॥३॥
अकामस्य क्रिया काचित् दृश्यते नेह कर्हिचित्।
यद् यद्धि कुरुते किंचित् तत्तत् कामस्य चेष्टितम्॥४॥
तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम्।
यथा सङ्कल्पितांश्चेह सर्वान् कामान् समश्नुते॥५॥
वेदोऽखिलधर्ममूलं स्मृतिशीले च तद्विदाम्।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च॥६॥
यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्तितः।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः॥७॥
कुरुक्षेत्रं च मत्स्याश्च पंचालाः शूरसेनकाः।
एषब्रह्मर्षिदेशो वे ब्रह्मावर्तादनन्तरः॥१९॥
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥२०॥
हिमवद् विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः॥२१॥
आ समुद्रात्तु पूर्वादा समुद्रात्तु पश्चिमात्।
तयोरेवान्तरं गिर्योरार्यावर्तंविदुर्बुधाः॥ २२॥
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः॥२३॥
एतान् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः।
शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्षितः॥२४॥
एषा धर्मस्य वो योनिः समासेन प्रकोर्तिता।
सम्भवश्चास्य सर्वस्य वर्णधर्मान् निबोधत॥ २५॥
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च॥२६॥
गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिवन्धनैः।
वैजिकं गार्भिकं चैनो द्विजानामपमृज्यते॥२७॥
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः।
महायज्ञैश्चयज्ञैश्च ब्राह्मीयं क्रियते तनुः॥२८॥
प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते।
मन्त्रवत् प्राशनं चास्यहिरण्यमधूसर्पिषाम्॥२९॥
कार्ष्णरौरवास्तानि चर्माणि व्रह्मचारिणः।
वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च॥४१॥
मौञ्जी त्रिवृत् समा श्लक्ष्माकार्या विमस्य मेखला।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी॥४२॥
मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकवल्वजैः।
त्रिवृता ग्रन्थिनैकेनत्रिभिः पंचभिरेव वा॥४३॥
कार्पासमुपवीतंस्याद्विप्रस्योर्द्धवृतंत्रिवृत्।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्॥४४॥
ब्राह्मणो वैल्वपलाशौक्षत्रियो बाटखादिरौ।
पैलवौदुम्वुरौवैश्यो दण्डानर्हन्ति धर्मतः॥४५॥
केशान्तिको ब्राह्मणस्य दण्डः कायप्रमाणतः।
ललाटसम्मितो राज्ञःस्यात्तुनासान्तिको विशः॥४६॥
ऋजवस्ते तु सर्वे स्युरव्रणासौम्यदर्शनाः।
अनुद्वेगकरा नृणां सत्वचोऽनाग्निदूषिताः॥४७॥
प्रतिगृह्येप्सितं दण्डमुपस्थाप्यच भास्करम्।
प्रदक्षिणं परीत्याग्निंचरेद्भैक्षंयथाविधि॥४८॥
भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः।
भवन्मध्यमं तु राजन्यो वैश्यस्तु भवदुत्तरम्॥४९॥
मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम्।
भिक्षेत भिक्षा प्रथमं या चैनं नविमानयेत्॥५०॥
समाहृत्य तु तद्भैक्षं यावदन्नममायया।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः॥५१॥
उद्धृते दक्षिणेपाणावुपचित्युच्यते द्विजः।
सव्ये प्राचीन आवीती निवीती कण्ठसज्जने॥६३॥
मेखलामजिनं दण्डमुपवीतं कमण्डलुम्॥
अप्सु प्रास्य विनष्टानि गृह्वीतान्यानि मन्त्रवत्॥६४॥
केशान्तः पोडशे वर्षे ब्राह्मणस्य विधीयते।
राजन्यवन्धोर्द्वाविंशे वैश्यस्य द्व्यधिकेततः॥६५॥
अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्॥६६॥
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः।
पतिसेवा गुरौ घासो गृहार्थोऽग्निपरिक्रिया॥६७॥
एष प्रोक्तो द्विजातीनामौपनायनिको विधिः।
उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत॥६८॥
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः।
आचारमग्निकार्यं च सन्ध्योपासनमेव च॥६९॥
अध्येष्यमाणत्वाच्चान्तो यथाशीघ्रमुदङ्मुखः।
ब्रह्मादिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः॥७०॥
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा।
संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः॥७१॥
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः।
सत्येन सव्यस्प्रष्टव्यो दक्षिणेन च दक्षिणः॥७२॥
अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः।
अधीष्व भो इति न व्रूयाद्विरामोऽस्त्विति चारमेत्॥७३
विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः॥८५॥
ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम्॥८६॥
जप्येनैव तु संसिद्ध्येद् व्राह्मणो नात्र संशयः।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते॥ ८७
इन्द्रियाणां विचरतां विषयेष्वपहारिपु।
संयमे यत्नमातिष्ठेद्विद्वान् यन्तेव बाजिनाम्॥ ८८॥
एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः।
तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः॥८९॥
श्रोत्रं त्वक् चक्षुषी जिह्वानासिका चैव पंचमी।
पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता॥९०॥
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः।
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते॥९१॥
एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम्।
यस्मिन् जिते जितावेतौ भवतः पंचकौ गणौ॥९२॥
इन्द्रियाणां प्रसङ्गे नदोषमृच्छत्यसंशयं।
संनियम्य तु तान्येव ततः सिद्धिं नियच्छति॥९३॥
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते॥९४॥
यश्चैतान्प्राप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत्।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते॥९५॥
यः स्वाध्यायमधीतेऽव्दंविधिना नियतः शुचिः।
तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु॥१०७॥
अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम्।
आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः॥१०८॥
आचार्यपुत्रः शुश्रूषुर्ज्ञानदोधार्मिकः शुचिः।
आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः॥१०९॥
नापृष्टः कस्यचिद्व्रूयात् न चान्यायेन पृच्छतः।
जानन्नपि हि मेधाची जडवल्लोक आचरेत्॥११०॥
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति॥१११॥
धर्मार्थौयत्र न स्यातां शुश्रूषा वापि तद्विधा।
तत्र विद्या न वक्तव्या शुभं वीजमिवोपरे॥११२॥
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना।
आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥११३॥
विद्या ब्राह्मणमेत्याह सेवधिस्तेऽस्मि रक्ष माम्।
असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा॥११४॥
यमेव तु शुचि विद्यान्नियतं ब्रह्मचारिणम्।
तस्मैमां व्रूहिविप्राय निधिपायाप्रमादिने ॥११५॥
ब्रह्म यस्त्यननुज्ञातमधीयानादवाप्नुयात्।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते॥११६॥
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥११७॥
परपत्नीतु या श्री स्यादसम्बन्धा च योनितः।
तां व्रुयाद्भवतीत्येवंसुभगे भगिनीति च॥१२९॥
मातुलांश्चपितृव्यांश्च शशुरानृत्विजोगुरुन्।
असावहमिति व्रुयात् प्रत्युत्थाय यवीयसः॥१३०॥
मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा।
संपूज्या गुरुपत्नीवत् समास्तागुरुभार्यया॥१३१॥
भ्रातुर्भार्योपसंग्राह्यासवर्णाहन्यहन्यपि।
विप्रोष्यतूपसंग्राह्याज्ञातिसम्बन्धियोषितः॥१३२॥
पितुर्भगिन्यां मातुश्च ज्यायस्याश्च स्वर्यपि।
मातृवृतिमातिष्ठेद माता ताभ्यो गरीयसी॥१३३॥
दशाब्दाख्यं पोरसख्यं पञ्चाव्दाख्यंकलाभृताम्।
त्र्यव्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु॥ १३४॥
व्राह्मणंदशवर्षं तु शतवर्षंतु भूमिपम्।
पितापुत्रौ विजानीयाद्व्राक्षणस्तुतयोः पिता॥१३५॥
वित्तबन्धुर्वयःकर्म विद्या भवति पचमी।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम्॥१३६॥
पञ्चानां त्रिषु वर्णेषु भूयासि गुणवन्ति च।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः॥१३७॥
चक्रिणी दशमीस्थस्य रोगिणो भारिणः स्त्रियाः।
स्नातकस्य च राज्ञस्य पन्था देयो वरस्य च॥१३८॥
तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ।
राजसातयोश्चैव जातको नृपमानभाक्॥१३९॥
अध्यापयामास पितृशिशुराङ्गिरसः कविः।
पुत्रका इति होवाच ज्ञानेन परिगृह्यतान्॥१५१॥
ते तमर्थमपृच्छत देवानागतमन्यवः।
देवाश्चैतान् समेत्योचुर्न्याय्यंवः शिशुरुक्तवान्॥१५२॥
अज्ञोभवति वैबालः पिता भवति मन्त्रदः।
अज्ञं हिवालमित्याहुः पितेत्येव तु मन्त्रदम्॥१५३॥
न हायनैर्न पलितैर्नवित्तेर्नच वन्धुभिः।
ऋषयश्चक्रिरे धर्मंयोऽनूचानः स नो महान्॥ १५४॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः॥१५५॥
न तेन वृद्धो भवति येनास्य पलितं शिरः।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः॥१५६॥
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः।
यश्च विप्रोऽनधीयानस्त्रयस्तेनाम विभ्रति॥१५७॥
यथा षण्डोऽफलः स्रीषु यथा गौर्गवि चाफला।
यथा चाज्ञेऽफलंदानं तथा विप्रोऽनृचोऽफलः॥१५८
अहिंसयैव भूतानां कार्य श्रेयोऽनुशासनम्।
वाक् चैव मधुरा श्लक्ष्मा प्रयोज्या धर्ममिच्छता॥ १५९॥
यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा।
स वै सर्वमवाप्नोति बेदन्तोपगतं फलम्॥१६०॥
नारुन्तुदः स्यादार्तोऽपि न परद्रोहकर्मधीः।
ययात्योद्विजते वाचा नाऽलोक्यां तामुदीरयेत्॥१६१॥
सम्मानाद् व्राह्मणोनित्यमुद्विजेत विषादिव।
अमृतस्येच चाकाङ्क्षेदवमानस्य सर्वदा॥१६२॥
सुखं ह्यवमतः शेते सुखञ्चप्रतिबुद्ध्यते।
सुखं चरति लेोकेऽस्मिन्नयमन्ता विनश्यति॥१६३॥
अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः।
गुरौ वसन् सञ्चिनुयादव्रह्माधिगमिकं तपः॥१६४॥
तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः।
वेदः कृत्स्रोऽधिगन्तव्यः सरहस्यो द्विजन्मना॥१६५॥
वेदमेव सदाभ्यस्ये त्तपस्तप्स्यन् द्विजोत्तमः।
वेदाभ्यास्य हि विप्रस्य तपः परमिहोच्यते॥१६६॥
आ हैव स नखाग्रेभ्यपरमं तप्यते तपः।
यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम्॥१६७॥
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।
स जीवन्नेव शूद्रत्यमाशु गच्छति सान्वयः॥१६८॥
मातुरेग्रऽधिजननं द्वितीयं मौञ्जिबन्धने।
तृतीयं यज्ञरीक्षायां द्विजस्य श्रुतिचोदनात्॥१६९॥
तत्र यद् व्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम्।
तस्य माता सावित्री पिता त्वाचार्य उच्यते॥१७०॥
वेदप्रदानादाचार्यं पितरं परिचक्षते।
न ह्यस्मिन् युज्यते कर्म किञ्चिदामौञ्जिबन्धनात्॥१७१॥
नाभिव्याहारयेद्व्रह्म स्वधा निनयनादृते।
शूद्रेण हि समस्तावद्यावद्वेदे न जायते॥१७२॥
कृतोपनयनस्यास्य व्रतादेशनमिष्यते।
व्रह्मणो ग्रहणञ्चैव क्रमेण विधिपूर्वकम् ॥१७३॥
यद्यस्य विहितं चर्म यत् सूत्रं या च मेखला।
यो दण्डो यच्च बसनं तत्तदस्य व्रतेष्वपि॥१७४॥
सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन्।
संनियम्येन्द्रियग्रामंतपोवृद्ध्यर्थमात्मनः ॥१७५॥
नित्यं स्नात्वाशुचिः कुर्याद्देवर्षिपितृतर्पणम्।
देवताभ्यर्चनञ्चैव समिदाधानमेव च ॥१७६॥
वर्जयेन्मधु मांसञ्च गन्धं माल्यं रसान् स्त्रियः।
शुक्तानि यानि सर्वाणि प्राणिनाञ्चैवहिंसनम्॥१७७॥
अभ्यङ्गमञ्जनाञ्चक्ष्णोरुपानच्छत्रधारणम्।
कामं क्रोधञ्च लोभञ्च नर्तनं गीतवादनम् ॥१७८॥
द्युतंच जनवादं च परिवादं तथानृतम्।
स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥१७९॥
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित्।
कामाद्धि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः॥१८०॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामत्तः।
स्नात्वार्कर्मर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥१८१॥
उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान्।
आहरेद् यावदर्थानि भैक्षं चाहरहश्चरेत् ॥१८२॥
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु।
ब्रह्मचार्याहरेद्र्भैक्षं गृहेभ्यः प्रयतोऽन्यहम् ॥१८३
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु।
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत॥१८४॥
सर्वं वापि चरेद्ग्रामं पूर्वोक्तानामसम्भवे
नियम्य प्रयतो वाचमभिशप्तांस्तु वर्जयेत्॥१८५॥
दूरादाहृत्य समिधः संनिदध्याद्विहायसि।
सायं प्रातश्च जुहुयात् ताभिरग्रिमतन्द्रितः॥१८६॥
अकृत्वा भैक्षचरणमसमिध्य च पावकम्।
अनातुरः सप्तरात्रमवकीर्णिव्रतंचरेत्॥१८७॥
भैक्ष्येण वर्तयेन्नित्यं नैकानादी भवेद्व्रती।
भैक्ष्येण व्रतिनो वृत्तिरुपयाससमा स्मृता ॥१८८॥
व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथर्पिवत्।
काममभ्यर्थितोऽश्नीयात् व्रतमस्य न लुप्यते॥१८९॥
व्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः।
राजन्यवैश्ययोस्त्वं नैतत् कर्म विधीयते॥१९०॥
चोदितो गुरुणा नित्यमप्रचोदित एव वा।
कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च॥१९१॥
शरीरं चैव वाचश्च बुद्धीन्द्रियमनांसि च।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम्॥१९२॥
नित्यमुद्धृतपाणिः स्यात् साध्याचारः सुसंयतः।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः॥१९३॥
हीनान्नस्त्रवेपः स्यात् सर्वदा गुरुसन्निधौ।
उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत्॥१९४॥
प्रतिश्रवणसम्भाषे शयानो न समाचरेत्।
नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः॥१९५॥
आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः।
प्रत्युद्गम्य त्वब्रजतः पश्चाद्धावंस्तु धावतः॥१९६॥
पराङ्मुखस्वाभिमुखो दूरस्थस्यैत्य चान्तिकम्।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः॥१९७॥
नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्॥१९८॥
नोदाहरेदस्य नाम परोक्षमपि केवलम्।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम्॥१९९॥
गुरोर्यत्र परीवादोनिन्दा वापि प्रवर्तते।
कर्णौ तत्र पिधातव्यौगन्तव्यं वा ततोऽन्यतः॥२००॥
परीवादात् खरो भवति श्वा वै भवति निन्दकः।
परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी॥२०१॥
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः।
यानासनस्थश्चैवैनमवरुह्यभिवादयेत्॥२०२॥
प्रतिवातेऽनुवाते च नासीत गुरुणा सह।
असंश्रवे चैव गुरोर्नकिञ्चिदपि कीर्तयेत् ॥२०३॥
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च।
आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ॥२०४॥
गुरोर्गुरौसन्निहिते गुरुवद्वृत्तिमाचरेत्।
न चानिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् ॥२०५॥
विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु।
प्रतियेधत्सु चाधर्मान्हितं चोपदिशतस्वपि॥२०६॥
श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत्।
गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु॥२०७॥
बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि।
अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति॥२०८॥
उत्सादनं च गात्राणां सापनोच्छिष्टभोजने।
न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम्॥२०९॥
गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः।
असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः॥२१०॥
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम्॥२११॥
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः।
पूर्णाविंशतिवर्षेण गुणदोषो विजानता॥२१२॥
स्वभाव एष नारीणां नराणामिह दूषणम्।
अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः॥२१३॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनः।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम्॥२१४॥
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत्।
वलवानिन्द्रियग्रामोविद्वांसमपि कर्षति॥२१५॥
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि।
विधिवद्वन्दनं कुर्यादसाबहमिति ब्रुवन्॥२१६॥
विप्रोष्य पादप्रहणमन्वहं चाभिवादनम्।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्॥२१७॥
यथा खनन् खनित्रेण नरो वार्यधिगच्छति।
तथा गुरुगतांविद्यां शुश्रूषुरधिगच्छति॥२१८॥
मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः।
नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्वचित्॥२१९॥
तं चेदभ्युदियात् सूर्यः शयानं कामचारतः ।
निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम्॥२२०॥
सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः।
प्रायश्चित्तमकुर्बाणो युक्तः स्यान्महूर्तेनसा॥२२१॥
आचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः।
शुचौ देशे जप जप्यमुपासीत यथाविधि॥२२२॥
यदि स्त्री यद्यवरजः श्रेयः किञ्चित् समाचरेत्।
तत् सर्वमाचरेद्युक्तो यत्र वास्य रमेन्मनः॥२२३॥
धर्मार्थावुच्यते श्रेयः कामार्थौधर्म एव च।
अर्थ एवेह श्रेयस्त्रिवर्ग इति तु स्थितिः॥२२४॥
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः।
नार्तेनाप्यवमन्तव्याब्राह्मणेन विशेषतः॥२२५॥
आचार्यो ब्रह्मणोमूर्तिः पिता मूर्तिः प्रजापतेः।
माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः॥२२६॥
यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्याकर्तुं वर्षशतैरपि॥२२७॥
तयोर्नित्यंप्रियं कुर्यादाचार्यस्य च सर्वदा।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वंसमाप्यते॥२२८॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते।
न तैरभ्यनुज्ञातो धर्ममन्यं समाचरेत्॥२२९॥
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः।
त एव हि त्रयो वेदा स्त एवोक्ता स्त्रयोऽग्नयः॥२३०॥
पिता वै गार्हपत्योऽग्नि र्मातानिर्दक्षिणः स्मृतः।
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी॥२३१॥
त्रिष्वप्रमाद्यन्नेतेषुत्रीन् लोकान् विजयेद्गृही।
दीप्यमानः स्ववपुषा देवयद्दिवि मोदते॥२३२॥
इमं लोकं मातृभवत्या पितृभक्त्या तु मध्यमम्।
गुरुशुश्रूषया त्वेवब्रह्मलोकं समश्नुते॥ २३३॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥ २३४॥
यावत्त्रयस्ते जीवेयुस्तायन्नान्यं समाचरेत्।
तेष्वेव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः॥२३५॥
तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत्।
तत्तनिवेदयेत्तेभ्योमनोवचन कर्मभिः॥ २३६॥
त्रिप्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते।
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते॥२३७॥
श्रद्दधानः शुभां विद्यामाददीतावरादपि।
अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि॥२३८॥
विषादप्यमृतं ग्राह्यंवालादपि सुभाषितम्।
अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्॥२३९॥
स्त्रियो रत्नान्यथो विद्या धर्मः शौचंसुभाषितम्।
विविधानि च शिल्पानि समादेयानि सर्वतः॥२४०॥
अब्राह्मणादध्ययनमापत्काले विधीयते।
अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः॥२४१॥
नाव्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत्।
ब्राह्मणे चाननूचाने काङ्क्षन्गतिमनुत्तमाम्॥२४२॥
यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले।
युक्तः परिचरेदेनमाशरीरविमोक्षणात्॥२४३॥
आ समाप्तेः शरीरस्य यस्तु शुश्रूतेष गुरुम्।
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम्॥२४४॥
न पूर्व गुरवे किञ्चिदुपकुर्वीत धर्मवित्।
स्नास्यस्तु गुरुणाज्ञप्तः शक्तया गुर्वर्थमाहरेत्॥ २४५॥
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम्।
धान्यं शाकश्च वासांसि गुरु प्रीतिमावहेत्॥ २४६॥
आचार्ये तु खलु प्रेते गुरुपुत्रेगुणान्विते।
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत्॥२४७॥
एतेष्वविद्यमानेषु स्थानासनविहारवान्।
प्रयुञ्जानोऽमिशुश्रूषां साधयेद्देहमात्मनः॥२४८॥
एवञ्चरति यो विप्रो ब्रह्मचर्यमविप्लुतः।
स गच्छत्युत्तमस्थानं न चेहा जायते पुनः॥२४९॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां द्वितीयोऽध्यायः॥
षट्त्रिंशदाब्दिकं चर्यंगुरौ त्रैवैदिकं व्रतम।
तदर्धिकं पादिकं या ग्रहणान्तिकमेव वा॥१॥
वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्।
अविप्लुतव्रह्मचर्यो गृहस्थाश्रममावसेत्॥२॥
तं प्रतीतं स्वधर्मेण व्रह्मादायहरं पितुः।
स्रग्विणं तल्प असीनमर्हयेत् प्रथमं गवा॥३॥
गुरुणानुमतः स्नात्वा समावृत्तोयथाविधि।
उद्वहेतद्विजोभार्यांसवर्णां लक्षणान्विताम्॥४॥
असपिण्डा च या मातुरसगोत्रा च या पितुः।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने॥५॥
महान्त्यपि समृद्धानि गोऽज्जाविधनधान्यतः।
स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत्॥ ६॥
हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम्।
श्रय्यामयान्यपस्मारिवित्रिकुष्टिकुलानि च॥७॥
नोद्वहेतकपिलां कन्यां नाधिकाङ्क्षी न रोगिणीम्।
नालोमिकां नातिलोमां न वाचाटांन पिङ्गलाम्॥८॥
नर्क्षवृक्षनदीनम्रींनांत्यपर्वतनामिकाम्।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम्॥९॥
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम्।
तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेतस्त्रियम्॥१०॥
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता।
नोपयच्छेत तांप्राज्ञः पुत्रिकाधर्मशङ्कया॥११॥
सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि।
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः॥१२॥
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते।
ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः॥१३॥
न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः।
कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते॥१४॥
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः।
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम्॥१५॥
शूद्रावेदी पतत्यप्रेरुतथ्यतनयस्य च।
शौनकस्य सुतोत्पत्त्या तदपत्यतयाः भृगोः॥१६॥
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम्।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते॥१७॥
देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु।
नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति॥१८॥
वृषलीफेनपीतस्य निःश्वासोपहतस्य च।
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते॥१९॥
चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान्।
अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत॥२०॥
ब्राह्मोदैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः॥२१॥
यो यस्य धर्म्यो वर्णस्य गुणदोषाौच यस्य यो।
तद्वःसर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान्॥२२॥
षडानुपूर्व्या विप्रस्यक्षत्रस्य चतुरोऽयरान्।
विटशूद्रयोस्त्त तानेव विद्याद्धर्म्यानराक्षसान्॥२३॥
चतुरो व्राह्मणस्याद्यान प्रशस्तान्कवयो विदुः।
राक्षसंक्षत्रियम्येकमासुरं वैश्यशूद्रयोः॥२४॥
पंचानां तुत्रयो धर्म्या द्वावधर्म्यौ स्मृताविह।
पैशाचश्चासुरश्चैवन कर्तव्यौकदाचन॥२५॥
पृथक् पृथग्वा मिश्रौवा विवाहौ पूर्वचोदितौ।
गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्यतो स्मृतौ॥२६॥
आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयं
आहूय दानं कन्याया ब्राह्मोधर्मः प्रकीर्तितः॥२७॥
यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते।
अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते॥२८॥
एकं गोमिथुनं द्वेवा वरादादाय धर्मतः।
कन्याप्रदनं विधिवदार्षो धर्मः स उच्यते॥२९॥
सहोभौ चरतां धर्ममिति वाचानुभाष्य च।
कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः॥३०॥
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायैचैव शक्तितः।
कन्याऽऽप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते॥३१॥
इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च।
गान्धर्वः स तु विज्ञेयोमैथुन्यः कामसम्भवः॥ ३२॥
हत्वा छित्वा च भित्वा च क्रोशन्तीं रुदतींगृहात्।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते॥३३॥
सुप्तांमत्तांप्रमत्तां वा रहो यत्रोपगच्छति।
स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः॥३४॥
अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते।
इतरेषां तु वर्णानामितरेतरकाम्यया॥३५॥
यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः।
सर्वं शृणुतं विप्राः सम्यक् कीर्तयतो मम॥३६॥
दश पूर्वान् परान् वंश्यानात्मानंचैकविंशकम्।
ब्राह्मीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन्॥३७॥
दैवोढाजः सुतश्चैव सप्त सप्त परावरान्।
आर्षोढाजः सुतस्त्रीं स्त्रीन् षट षट् कायोढजः सुतः॥३८॥
व्राह्मादिषु विवाहेषु चतुष्वैवानुपूर्वशः।
ब्रह्मवर्चस्थिनः पुत्रा जायन्ते शिष्टसम्मताः॥३९॥
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः॥४०॥
इतरेषु तु शिष्टेषु नृशंसानृतवादिनः।
जायन्ते दुर्विवाहेषु वृह्मधर्मद्विषः सुताः॥४१॥
अनिन्दितैःस्त्रीविवाहैरनिन्द्या भवति प्रजा।
निन्दितैर्निन्दिता नृृणां तस्मान्निन्द्यान् विवर्जयेत्॥४२॥
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते।
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि॥४३॥
शरः क्षत्रियया ग्राह्यः प्रतीदोवैश्यकन्यया।
वसनस्यदशा ग्राह्या शूद्रयोतकृष्टवेदने॥४४॥
ऋतुकालाभिगामी स्थात स्वदारनिरतः सदा।
पर्ववर्जं व्रजेच्चैनांतदव्रतोरतिकाम्यया॥४५॥
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडशः स्मृताः॥
चतुर्भिरितरैसार्द्धमहोभिः सद्विगर्हितैः॥४६॥
तासामाद्याश्चतस्रस्त्त निन्दितैकादशी च या।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः॥४७॥
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मामु रात्रिषु।
तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम्॥४८॥
पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः।
समेऽपुमान् पुंस्त्रियो वा क्षीणेऽल्पे च विपर्ययः II४९॥
निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन्।
व्रह्मचार्येव भवति यत्र तत्राश्रमे वसन्॥५०॥
न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि।
गृहन्छुल्कं हि लोभेनस्यान्नरोऽपत्यविक्रयी॥५१॥
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः।
नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम्॥५२॥
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्।
अल्पोऽप्येवं महान् वाऽपि विक्रयस्तावदेव सः॥५३
यासां नाददते शुल्कं ज्ञातयो न स विक्रयः।
अर्हणं तत कुमारीणामानृशंस्या केवलम्॥५४॥
पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरस्तथा।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः॥५५॥
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥५६॥
शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम्।
न शोचन्ति तु यत्रैता वर्द्धतेतद्धि सर्वदा॥५७॥
जामयो यानि गेहानि शपन्त्यप्रति पूजिताः।
तानि कृत्याहतानीव विनश्यति समन्ततः॥५८॥
तस्मादेताः सदा पूज्या भूपणाच्छादनाशनैः।
भूतिकामैर्नरैर्नित्यं सत्कारेत्सर्वेषु च॥५९
सन्तुष्टो भार्यया भर्ताभर्त्रा भार्या तथैव च।
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्॥६०॥
यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत्।
अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते॥६१॥
स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलम्।
तस्यां त्वरोचमानायां सर्वमेव न रोचते॥६२॥
कुविवाहैः क्रियालापैर्वेदानध्ययनेन च।
कुलान्यकुलतां यान्ति ब्राह्मणागातिक्रमेण च॥६३॥
शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः।
गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया॥६४॥
अयाज्ययाजनेश्चैव नास्तिक्येनच कर्मणाम्।
कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः॥६५॥
मन्त्रस्तु समृद्धानि कुलान्यधनान्यपि।
कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद्यशः॥६६॥
वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि।
पञ्चयज्ञविधानं च पंक्ति धान्याहिकी गृही॥६७॥
पंच सूना गृहस्थस्य चुल्ली पेशण्युपस्करः।
कण्डनी चोदकुम्भश्व वध्यतेयास्तु वाहयन्॥६८॥
तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः।
पंचक्लृप्ता महायज्ञा प्रत्यहं गृहमेधिनाम्॥६९॥
अध्यापनं व्रह्मयज्ञ पितृयज्ञस्तु तर्पणम्।
होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम्॥७०॥
पंचैतान् यो महायज्ञान्न हापयति शक्तितः।
स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥७१॥
देवतातिथिभृत्यानां पितृणामात्मनश्च यः।
न निर्वपति पंचानामुच्छ्रसन्न स जीवति॥७२॥
अहुतं च हुतं चैव तथा प्रहुतमेव च।
व्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥७३॥
जपतोऽहुतोहोमः प्रहुतो भौतिको बलिः।
ब्राह्म्यंहुतं द्विजा ग्र्यार्चा प्राशितं पितृतर्पणम् ॥७४॥
स्वाध्याये नित्ययुक्तः स्याद्दैवे चैवेह कर्मणि।
दैवकर्मणि युक्तो हि विभतीदंचराचरम्॥७५॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥७६॥
यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः।
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः॥७७॥
यस्मात्त्रोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम्।
गृहस्थैरेव धार्यन्ते तम्माज्ज्येष्ठाश्रमी गृहीम्॥७८॥
स सन्धार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता।
सुखं चेहेच्छता नित्यं योऽधार्यो दुर्बलेन्द्रियैः॥७९॥
ऋषयः पितरो देवा भूतान्यतिथयस्तथा।
आशासते कुटुम्विभ्यस्तेभ्यः कार्यं विजानता॥८०॥
स्वाध्यायेनार्चयेतर्षीन होमैर्देवान्यथाविधि।
पितृृन श्राद्धैश्च नृृनन्नैर्भूतानि बलिकर्मणा॥८१॥
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्॥८२॥
एकमप्याशयेद्विप्रं पित्रर्थे पांचयज्ञिके।
न चैवात्राशयेत्कंचिद्वेवंप्रति द्विजम्॥८३॥
वैश्यदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम्।
आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम्॥८४॥
अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः।
विश्वेभ्यश्च देवेभ्यो धन्वन्तरय एव च॥८५॥
कुह्वै चैवानुमत्येच प्रजापतय एव च।
सहद्यावापृथिव्योश्च तथास्विष्टकृतेऽन्ततः॥८६॥
एवं सम्यग्घविर्हुत्वासर्वदिक्षु प्रदक्षिणम्।
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत्॥८७॥
मरुद्भ्यइति तु द्वारि क्षिपेदपस्वद्भ्य इत्यपि।
वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत्॥८८॥
उच्छीर्षके श्रियेै कुर्याद्भद्रकाल्यै च पादतः।
युवाम्नोस्पतिभ्यां तु वास्तुमध्ये बलिं हरेत॥८९॥
विश्वेभ्योश्चैव देवेभ्यो वालिमाकाश उतक्षिपेत्।
दिवाचरेभ्यो भूतेभ्यो नः पारिभ्य एव च॥९०
पृष्ठवास्तुनि कुर्वीत वलिं सर्वात्मभूतये।
पितृभ्यो वलिशेषं तु सर्वं दक्षिणतो हरेत॥९१॥
शुनां च पतितानां च श्वपचां पापरोगिणाम्।
वायसानां कृमीणां च शनकैर्निर्वपेद्भुवि॥९२॥
एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति।
सगच्छति परं स्थानं तेजोमूर्तिः पथर्जुना॥९३
कृत्त्वैतद्वलिफर्मेयमतिथिं पूर्वमाशयेत्।
भिक्षाचभिक्षवेदद्याद्विधिवद्बह्मचारिणे॥९४॥
यत् पुण्यफलमाप्नोति गां दत्वा विधिवद्गुरोः।
तत् पुण्यफलमाप्नोति भिक्षां दत्त्वाद्विजो गृही॥९५॥
भिक्षामप्युदपात्रंवा सत्कृत्य विधिपूर्वकम्।
वेदतत्त्वार्थविदुषे व्राह्मणायोपपादयेत्॥९६॥
नश्यन्ति हव्यकव्यानि नराणामविजानताम्।
भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः॥९७॥
विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु।
निस्तारयतिः दुर्गाच्च महतश्चैव किल्विषात॥९८॥
संप्राप्तायत्वथितये प्रदद्यादासनोदके।
अन्नं चैव यथाशक्ति संस्कृत्य विधिपूर्वकम्॥९९॥
शिलानप्युञ्छतो नित्यं पंचाग्नीनपि जुह्वतः।
सर्वं सुकृनमादत्ते ब्राह्मणोऽनर्चितो वसन्॥१००॥
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन॥१०१॥
एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते॥१०२॥
नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा।
उपस्थितं गृहे विद्याद्भार्यां यत्राग्नयोऽपि वा॥१०३॥
उपासते ये गृहस्थाः परपाकमबुद्धयः।
तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनाम्॥१०४॥
अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना।
काले प्राप्तास्त्वकांले वा नास्यानश्नन् गृहे धसेत्॥१०५॥
न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत्।
धन्यं यशस्यमायुष्यं स्वर्ग्यवाऽतिथिपूजनम्॥१०६॥
आसनावसथौ शय्यामनुज्यामुपासनम्।
उत्तमेपूत्तमं कुर्याद्धीने हीनं समे समम्॥१०७॥
वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराब्रजेत्।
तस्यापन्नंयथाशक्ति प्रदद्यान्न पलि हरेत्॥१०८॥
न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत्।
भोजनार्थं हि ते शंसन्यान्ताशीत्युच्यते बुधैः॥१०९॥
न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते।
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ ११०॥
यदि त्वतिथिधर्मेण क्षत्रियो गृदमाव्रजेत।
भुक्तवतसूक्तविप्रेषु कामं तमपि भोजयेन्॥ १११॥
वैश्यशूद्रावपि प्राप्तौकुटुम्वेऽतिथिधर्मिणी।
भोजयेत् सहभृत्यैाषानृशंस्यं प्रयोजयन्॥११२॥
इतरानपि सख्यादीन् संप्रीत्या गृहमागतान्।
प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया॥११३॥
सुवासिनीः कुमारांश्च रोगिणो गर्भिणीः स्त्रियः ।
अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन्॥१९४॥
दत्त्वा तु य एतेभ्यः पूर्वं भुक्त विचक्षणः।
स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः॥११५॥
भुक्तवत्स्वथ विप्रेषु ह्येषु भृत्येषु चैवहि।
भुञ्जीयातां ततः पश्चादवशिष्टस्तु दम्पती॥११६॥
देवानृषीन्मनुष्यांश्च पितॄन् गृह्याश्च देवताः।
पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत्॥११७॥
अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात्।
यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते॥११८॥
राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान्।
अर्हयेन्मधुपर्केण परिसंवत्सरात् पुनः ॥११९॥
राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थिते।
मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः॥१२०॥
सायंत्वन्नत्य सिद्धस्य पत्न्यमन्त्रैवलिं हरेत्।
वैश्वदेवं हि नामैतत् सायं प्रातर्विधीयते॥१२१॥
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान्।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्॥१२२॥
पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः।
तच्चामिषेण कर्तव्यं प्रशस्तेन प्रयत्ननः॥१२३॥
तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः।
यावन्तश्चैव यैश्चान्नैस्तान्प्रवक्ष्याम्यशेषतः॥१२४॥
द्वौ दैवे पितृकार्ये त्रिनेकैकमुभयत्र वा।
भोजयेतसुसमृद्धोऽपि न प्रसज्जेत विस्तरे॥१२५॥
सत्क्रियां देशकालो व शौचं ब्राह्मणसम्पदः।
पञ्चैतान् विस्तरोहन्ति तस्मान्नेहेत विस्तरम्॥१२६॥
प्रथिता प्रेतकृत्यैषापित्र्यं नाम विधुक्षये।
तस्मिन् युक्त्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी॥१२७॥
श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्॥१२८॥
एकैकमपि विद्वांसं दैवेपित्र्ये च भोजयेत्।
पुष्कलं फलमाप्नोति नामन्त्रज्ञान्वहुनपि॥१२९॥
दूरादेव परीक्षेत ब्राह्मणं वेदपारगम्।
तीर्थं तद्वव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः॥१३०॥
सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते।
एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः॥१३१॥
ज्ञानोतकृष्टाय देयानि कव्यानि च हवींषि च।
न हस्तावसृगदिग्धौ रूधि
रेणैव शुद्ध्यतः॥१३२॥
यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्यवित्।
तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्ययोगुडान्॥१३३॥
ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथापरे।
तपःस्वाध्याय निष्ठायश्च कर्मनिष्ठास्तथापरे॥१३४॥
ज्ञाननिष्ठेषु कव्यानिप्रतिष्टाप्यानियत्नतः।
हव्यानि तु यथान्यायं सर्वेष्वपि चतुर्ष्वपि॥१३५॥
अश्रोत्रियः पिता यस्य पुत्रः स्थाद्वेदपारगः।
अश्रोत्रियो या पुत्रः स्वात् पिता स्याद्वेदपारगः॥ १३६॥
ज्यायांसमनयोर्विद्यात् यस्य स्याच्र्छोत्रियः पिता।
मन्त्रसंपूजनार्थं तु सरकार मितरोऽर्हति॥१३७॥
न श्राद्ध भोजयेन्मित्रं धनैः कार्योऽस्यसंग्रहः।
नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्विजम्॥१३८॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च॥१३९॥
यः सङ्गतानि कुरुते मोहाच्छार्द्धेन मानवः।
स खर्गाच्च्यवते लोकाच्छाद्धमित्रो द्विजाधमः॥ १४०॥
सम्भोजनी साऽभिहिता पैशाची दक्षिणा द्विजैः।
इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि॥ १४१॥
यथेरिणे बोजमुप्तवा न वप्ता लभते फलम्।
तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम्॥१४२॥
दातृृन् प्रतिग्रहीतृृंश्च कुरुते फलभागिनः।
विदुषे दक्षिणां दत्त्वा विधिवत् प्रेत्य चेह च॥१४३॥
कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम्।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम्॥१४४॥
यत्नेन भोजयेच्छ्राद्धेवह्वृचं वेदपारगम्।
शाखान्तगमथाध्वर्युंछन्दोगन्तु समाप्तिकम्॥१४५॥
एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः।
पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी॥१४६॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः।
अनुकल्पस्त्ययं ज्ञेयः सदा सद्भिरनुष्ठितः॥१४७॥
मातामहं मातुलं चस्वस्त्रीयं श्वशुरं गुरुम्।
दौहित्रं विटपतिं बन्धुमृत्विग्याज्यौ च भोजयेत्॥१४८॥
न ब्राह्मणं परीक्षेत देव कर्मणि धर्मवित्।
पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः॥१४९॥
ये स्तेनपतितक्लीवाये च नास्तिकवृत्तयः।
तान् हव्यकव्ययोर्विप्राननन्मनुरव्रवीत्॥१५०॥
जटिलंचानधीयानं दुर्बलं कितवं तथा।
याजयन्ति च ये पूर्गास्तांश्च श्राद्धे न भोजयेत्॥१५१॥
चिकित्सकान् देवकान् मांसविक्रयिणस्तथा।
विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः॥ १५२॥
प्रेष्योग्रामस्य राज्ञश्चकुनखी श्यावदन्तकः।
प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा॥१५३॥
यक्ष्मी च पशुपालश्च परिवेता निराकृतिः।
ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एवच॥१५४
कुशीलवोऽवकीर्णी वृषलीपतिरेव च।
पौनर्भवश्च काणश्चयस्य चोपपतिर्गहे॥१५५
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा।
शूद्रशिष्यो गुरुश्चैववाग्दुष्टः कुण्डगोलकौ॥१५६
अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा।
व्राह्मैर्योनश्च सम्वन्धैः संयोगं पतितैर्गतः॥१५७
अगारदाही गरदः कुण्डाशी सोमविक्रयी
समुद्रयायी वन्दी च तैलिकः कुटकारकः॥१५८
पित्रा विवदमानश्च कितवो मद्यपस्तथा।
पापरोग्यभिशप्तश्चदाम्भिको रसविक्रयी॥१५९
धनुः शराणां कर्ता च यश्चाग्रेदिधिषूपतिः।
मित्रध्रुग द्युतवृत्तिश्चपुत्राचार्यस्तथैवच॥१६०
भ्रामरी गण्डमाली च शि्वत्र्यथोपिशुनस्तथा
उन्मतोऽन्धश्चबर्ज्याः स्युर्वेदनिन्दक एव च॥१६१
हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति।
पक्षिणांपोषको यश्च युद्धाचार्यस्तथैव च॥१६२
स्रोतसां भेदको यश्च तेषां चावरणे रतः।
गृहसम्बेशको दूतो वृक्षारोपक एव च॥१६३
श्वक्रीडीश्येनज़ीवो च कन्यादूषक एव च।
हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः॥१६४
आचारहीनः क्लीवश्च नित्यं याचनकस्तथा।
कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च॥१६५
औरभ्रिको माहिषिकः परपूर्वापतिस्तथा।
प्रेतनिर्या (प) तकश्चैव वर्जनीयाः प्रयत्नतः॥१६६
एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान्।
द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत्॥१६७
ब्राह्मस्वनधीयानस्तृणाग्निरिव शाम्यति।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते॥१६८
अपाङ्क्त्यदाने यो दातुर्भवत्यूर्ध्वं फलोदयः।
दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः॥१६९
अव्रतैर्यदुद्विजैर्भुक्तंपरिवेत्यादिभिस्तथा।
अपांयेर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते॥१७०
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः॥१७१
परिवित्तिः परिवेत्ता यया च परिविद्यते।
सर्वे ते नरकं यान्ति दातृयाजकपंचमाः॥१७२
भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥१७३
परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ।
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः॥१७४
तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च।
दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम् ॥१७५
अपाङ्क्त्योयावतः पंङक्त्यान्न् भुञ्जानाननुपश्यति।
तावतांन फलं तत्र दाताप्राप्नोति बालिशः॥१७६॥
वीक्ष्यान्धो नवतेः काणः षष्टेःश्वित्री शतस्य तु।
पापरोगी सहस्रस्य दातुर्नाशयते फलम्॥१७७॥
यावतः संस्पृशेदङ्ग्यैर्बाह्मणाञ्छूद्रयाजकः।
नायतां न भवेद्दातुःफलं दानस्य पौर्तिकम्॥१७८॥
वेदविद्यापि विप्रोऽस्य लोभात्कृत्वाप्रतिग्रहम्।
विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि॥१७९॥
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम्।
नष्टंदेवलके दत्तमप्रतिष्ठं तु वार्धुषौ॥१८०॥
यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत्।
भस्मनीवहुतं हव्यं तथा पौनर्भवे द्विजे॥१८१॥
इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु।
मेदोसृङ्मांसमज्जास्थिवदन्त्यन्नं मनीषिणः॥१८२॥
अपाङ्क्त्योपहता पङ्क्तिःपाव्यते यैर्द्विजोत्तमैः।
तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान्पङ्क्तिपावनान्॥१८३॥
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च।
श्रोत्रियानवयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः॥१८४॥
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्।
ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च॥१८५॥
वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः।
शतायुश्चैव विज्ञेया ब्राह्मणाः पंक्तिपावनाः॥१८६॥
पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते।
निमन्त्रयीत त्र्यवरान्सम्यग्विप्रान्यथोदितान्॥१८७॥
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा।
न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत्॥१८८॥
निमन्त्रितान्हि पितर उपतिष्ठन्ति तान् द्विजान्।
वायुवच्चानुगच्छन्ति तथासीनानुपासते॥१८९॥
केचितस्तु यथान्यायं हव्यकव्येद्विजोत्तमः।
कथंचिदप्यतिक्रामन्पापः सूकरतां व्रजेत्॥१९०॥
आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते।
दातुर्यद्दुष्कृतं किचित्तत् सर्वंप्रतिपद्यते॥१९१॥
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः॥१९२॥
यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः।
ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत॥१९३॥
मनोहिरण्यगर्भस्य ये मरीच्यादयः सुताः।
तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः॥१९४॥
विराट्सुताः सोमसदःसाध्यानां पितरःस्मृताः।
अग्निष्वात्ताश्च देवानांमारीचा लोकविश्रुताः॥१९५॥
दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः॥१९६॥
सोमपानाम विप्राणांक्षत्रियाणां हविर्भुजः।6
वैश्यानामज्यपानाम शूद्राणां सु सुकालिनः॥१९७॥
सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरः सुताः।
पुलस्त्यस्याज्यापाःपुत्रा वसिष्ठस्यसुकालिनः॥१९८॥
अग्निदग्धानग्निदग्धान्काव्यान्वर्हिपदस्तथा।
अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत्॥१९९॥
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः।
तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम्॥२००॥
ऋषिभ्यःपितरो जाताः पितृभ्यो देवदानवाः।
देवेभ्यस्तु जगत्सर्वंपरं स्थाण्वनुपूर्वशः॥२०१॥
राजतैर्भाजनैरेषामथो वा राजतान्वितैः।
वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते॥२०२॥
देवकार्याद्द्विजातीनां पितृकार्यं विशिष्यते।
दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम्॥२०३॥
तेषामरक्षभूतं तु पूर्वं दैवंनियोजयेत्।
रक्षांसि हिविलुम्पन्ति श्राद्धमारक्षवर्जितम॥२०४॥
दैवाद्यन्तं तदीहेतपित्राद्यन्तं न तद्भवेत्।
पित्राद्यन्तं त्वीहमानः क्षिप्रंनश्यति सान्वयः॥२०५॥
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत्।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत्॥२०६॥
अवकाशेषु चीक्षेषु नदीतीरेषु चैव हि।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा॥२०७॥
आसनेषूपक्लृप्तेषु वर्हिष्मत्सु पृथक् पृथक्।
उपस्पृष्टोदकान्सम्यग्विप्रांस्तानुपवेशयेत्॥२०८॥
उपवेश्य तु तान्विप्रानासनेष्वजुगुप्सितान्।
गन्धमाल्यैः सुरभिभिरर्चयेद्देवपूर्वकम्॥२०९॥
तेषामुदकमानीय सपचित्रांस्तिलानपि।
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह॥२१०॥
अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः।
हविर्दानेन विधिवत्पश्चात्सन्तर्पयेत् पितृृन्॥२११॥
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्।
यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते॥२१२॥
अक्रोधनान्सुप्रसादान्वदन्त्येतान्पुरातनान्।
लोकस्याप्यायने युक्ताञ्छ्राद्धदेवान्द्विजोत्तमान्॥२१३॥
अपसव्यमग्नौकृत्वा सर्वमावृत्यविक्रमम्।
अपसव्येन हस्तेन निर्वपेदुदकं भुवि॥२१४॥
त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः।
औदकेनैव विधिना निर्वपेद्दक्षिणामुखः॥२१५॥
न्युप्यपिण्डांस्ततस्तांस्तप्रयतो विधिपूर्वकम्।
तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम्॥२१६॥
आचम्योदक्परावृत्य त्रिरायम्य शनैरसून्।
षड्ऋतूंश्च नमस्कुर्यात्पितृृनेव च मन्त्रवित्॥२१७॥
उदकं निनयेच्छेपंशनैः पिण्डान्तिकेपुनः।
अवजिघ्रेच्चतान्पिण्डान्यथान्युप्तान्समाहितः॥२१८॥
पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः।
तेनैव विप्रानासीनान्विधिवत्पूर्वमाशयेत्॥२१९॥
ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत्।
विप्रावद्वापि तंश्राद्धं स्वकं पितरमाशयेत्॥२२०॥
पिता यस्य निवृत्तः स्याज्जीवेच्चापि पितामहः।
पितुः स नाम संकीर्त्यकीर्तयेत्प्रपितामहम्॥२२१॥
पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः।
कामं वासमनुज्ञातः स्वयमेव समाचरेत्॥२२२॥
तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम्।
तत्पिण्डाग्रं प्रयच्छेतस्वधैषामस्त्विति ब्रुवन्॥२२३॥
पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य बर्धितम्।
विप्रान्तिकेपितॄन्ध्यायञ्शनकैरुपनिक्षिपेत्॥२२४॥
उभयोर्हस्तयोर्मुक्तंयदन्नमुपनीयते।
तद्विप्रलुम्पन्त्यसुराःसहसादुष्टचेतसः॥२२५॥
गुणांश्चसूपशाकाद्यान्पयो दधि घृतं मधु।
विन्यसेत्प्रयतः पूर्वं भूमावेव समाहितः॥२२६॥
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च।
हृद्यानि चैव मांसानि पानानि सुरभीणि च॥२२७॥
उपनीय तु तत्सर्वंशनकैःसुसमाहितः।
परिवेषयेत प्रयतो गुणान्सर्वान्प्रचोदयन्॥२२८॥
नास्रमापातयज्जातु न कुप्येन्नानृतं वदेत्।
न पादेन स्पृशेदन्नंन चैतदवधूनयेत्॥२२९॥
अस्त्रंगमयति प्रेतान् कोपोऽरीननृतं शुनः।
पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम्॥२३०॥
यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः।
ब्रह्मोद्याश्च कथाः कुर्यात्पितृृणामेतदीप्सितम्॥२३१॥
स्वाध्यायं श्रावयेत्पित्र्येधर्मशास्त्राणि चैव हि।
आख्यानानीतिहासांश्च पुराणानि खिलानि च॥२३२॥
हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैः शनैः।
अन्नाद्येनासकृच्चैतान्गुणैश्च परिचोदयेत्॥२३३॥
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत्।
कुतपं चासने दद्यात्तिलैश्च विकिरेन्महीम्॥२३४॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम्॥२३५॥
अत्युष्णं सर्वमन्नंस्याद्भुञ्जीरंस्ते च वाग्यताः।
न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान्॥२३६॥
यावदुष्णं भवत्यन्नंयावदश्नन्ति वाग्यताः।
पितरस्तावदश्नन्ति यावन्नोक्ताहविर्गुणः॥२३७॥
यद्वेष्टितशिरा भुङ्क्तेयद्भुङ्क्तेदक्षिणामुखः।
सोपानत्कश्चयद्भुङ्क्ते तद्वैरक्षांसिभुञ्जते॥२३८॥
चाण्डालश्चवराहश्च कुक्कुटः श्वा तथैवच।
रजस्वला च षण्डाश्च नेक्षेरन्नश्नतो द्विजान्॥२३९॥
होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते।
दैवे हविषिपित्र्ये वा तद्गच्छत्ययथातथम्॥२४०॥
घ्राणेन शूकरो हन्ति पक्षपातेन कुक्कुटः।
श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः॥२४१॥
खञ्जो या यदि वा काणोदातुः प्रेष्योऽपि वा भवेत्।
हीनातिरिक्तगात्रो वातमप्यपनयेत्पुनः॥२४२॥
ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम्।
ब्राह्मणैरभ्यनुज्ञातःशक्तितःप्रतिपूजयेत्॥२४३॥
सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्यवारिणा।
समुत्सृजेद्भुक्तवतामग्रतो विकिरन् भुवि॥२४४॥
असंस्कृतप्रमीतानां त्यगिनां कुलयोषिताम्।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः॥२४५॥
उच्छेषणं भूमिगतमजिह्मस्याशठस्य च।
दासवर्गस्य तत्पित्र्येभागधेयं प्रचक्षते॥२४६॥
आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत्॥२४७॥
सपिण्डक्रियायां तु कृतायामस्यधर्मतः।
अनयैवावृता कार्यं पिण्डनिर्वपणंसुतैः॥२४८॥
श्राद्धं भुक्त्वाय उच्छिष्टंवृषलाय प्रयच्छति।
स मूढोनरकं याति कालसूत्रमवाक्शिराः॥२४९॥
श्राद्धभुग्वृषलीतल्पतदहर्योऽधिगच्छति।
तस्या पुरीषेतं मासं पितरस्तस्य शेरते॥२५०॥
पृष्ट्वा स्नदितमित्येवं तृप्तानाचामयेत्ततः।
आचान्तांश्चानुजानीयादभितो रम्यतामिति॥२५१॥
स्वधाऽस्त्वित्येव तं व्रूयुर्ब्राह्मणास्तदनन्तरम्।
स्वधाकारः पराह्याशीः सर्वेषु पितृकर्मसु॥२५२॥
ततो भुक्तवतां तेषामन्नशेषं निवेदयेत्।
यथा व्रूयुस्तथाकुर्यादनुज्ञातस्ततो द्विजैः॥२५३॥
पित्र्ये स्वदितमित्येवं वाच्यं गोष्ठे तु सुश्रुतम्।
सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि॥२५४॥
अपराह्णस्तथा दर्भा वास्तुसम्पादनं तिलाः।
सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याःश्राद्धकर्मसु सम्पदः॥२५५॥
दर्भाः पवित्रंपूर्वाह्णोहविष्याणि च सर्वशः।
पवित्रंयच्च पूर्वोक्तं विज्ञेया हव्यसम्पदः॥२५६॥
मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम्।
अक्षारलवणंचैव प्रकृत्याहविरुच्यते॥२५७॥
विसृज्य ब्राह्मणांस्तांस्तु प्रयतो विधिपूर्वकम्।
दक्षिणां दिशमाङ्क्षन्याचेतेमान्वरान्पितृृन्॥२५८॥
दातारोनोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च।
श्रद्धा च नो माव्यगमदुवहदेय च नोऽस्त्विति॥२५९॥
एवंनिर्वापणं कृत्वापिण्डांस्तांस्तदनन्तरम्।
गां विप्रमजमग्निं वा प्राशयेदप्सु वाक्षिपेत्॥२६०॥
पिण्डनिर्वपणं केचित्पुरस्तादेवकुर्वते।
वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सुवा॥२६१॥
पतिव्रता धर्मपत्नीपितृपूजनतत्परा।
मध्यमं तु ततःपिण्डमद्यात्सभ्यक्सुतार्थिनी॥२६२॥
आयुष्मन्तंसुतं सूतेयशोमेधासमन्वितम्।
धनवन्तं प्रजावन्तं सात्विकंधार्मिकं तथा॥२६३॥
प्रक्षाल्य हस्तावाचम्य ज्ञातिप्रायं प्रकल्पयेत्।
ज्ञातिभ्यः सत्कृतं दत्त्वाबान्धवानपि भोजयेत्॥२६४॥
उच्छेषणं तु तत्तिष्ठेद्यावद्विप्राविसर्जिताः।
ततो गृहबलिं कुर्यादितिधर्मोव्यवस्थितः॥२६५॥
हविर्यच्चिररात्राययच्चानन्त्याय कल्प्यते।
पितृभ्यो विधिवद्दत्तंतत्प्रवक्ष्याम्यशेषतः॥२६६॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेनवा।
दत्तेन मासं तृप्यन्ति विधिवत्पितरोनृणाम्॥२६७॥
द्वौ मासौमत्स्यमांसेनत्रीन्मासान्हरिणेन तु।
औरभ्रेणाथ चतुरः शाकुनेनाथ पंच वै॥२६८॥
षण्मासांश्छागमांसेन पार्षतेन च सप्तवै।
अष्टावेणस्य मांसेन रौरवेण नवैव तु॥२६९॥
दशमासांस्तुतृप्यन्ति वराहमहिषामिषैः।
शशकूर्मयोस्तुमांसेन मासानेकादशैवतु॥२७०॥
संवत्सरं तु गव्येन पयसा पायसेन च।
वार्घ्रीणसत्यमांसेन तृप्तिर्द्वादशवार्षिकी॥२७१॥
कालशाकं महाशल्काः खड्गलोहामिषंमधु।
आनन्त्यायैवकल्प्यन्तेमुन्यन्नानि च सर्वशः॥२७२॥
यत्किंचिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम्।
तदप्यक्षयमेव स्याद्वर्षासु च मघासु च॥२७३॥
अपि नः स कुले भूयाद्यौनो दद्यात्त्रयोदशीम्।
पायसं मधुसर्पिर्भ्यां प्राक्छायेकुञ्जरस्य च॥२७४॥
यद्यद्ददातिविधिवत् सम्यक् श्रद्धासमन्वितः।
तत्तत् पितॄणां भवति परत्रानन्तमक्षयम्॥२७५॥
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्।
श्राद्धेप्रशस्तास्तिथयोयथैता न तथेतरा॥२७६॥
युक्षुकुर्वन्दिनर्क्षेषु सर्वान्कामान्समश्नुते।
अयुक्षु तुपितॄन् सर्वान्प्रजांप्राप्नोति पुष्कलाम्॥२७७॥
यथा चैवापरःपक्षः पूर्वपक्षाद्विशिष्यते।
तथा श्राद्धस्य पूर्वाह्णादपराह्णोविशिष्यते॥२७८॥
प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा।
पित्र्यमानिधनात्कार्यं विधिवद्दर्भपाणिना॥२७९॥
रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा।
संध्ययोरुभयोश्चैवसूर्ये चैवाचिरोदिते॥२८०॥
अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत्।
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम्॥२८१॥
न पैतृयज्ञियो होमो लौकिकेऽग्नौ के विधीयते।
न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः॥२८२॥
यदेव तर्पयत्यद्भिःपितॄन्स्नात्वा द्विजोत्तमः।
तेनैव कृत्स्नमाप्नोतिपितृयज्ञक्रियाफलम्॥२८३॥
वसून्वदन्ति तु पितृृन्रुद्रांश्चैवपितामहान्।
प्रपितामहांस्तथादित्याञ्छ्रुतिरेषा सनातनी॥२८४॥
विघसाशीभवेन्नित्यं नित्यं वामृतभोजनः।
वियसो भुक्तशेषं तु यज्ञशेषंतथामृतम्॥२८५॥
एतद्वोऽभिहितं सर्वंविधानं पाञ्चयज्ञिकम्।
द्विजातिमुख्यवृत्तीनांविधानं भूयतामिति॥२८६॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायांमनुस्मृतौतृतीयोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-17251845241ेू.PNG"/>
चतुर्थोऽध्यायः।
अथ गृहस्थाश्रमवर्णनम्।
चतुर्थमायुषोभागमुषित्वाऽद्यं गुरौद्विजः।
द्वितीयमायुषोभागं कृतदारो गृहे वसेत्॥१॥
अद्रोहेणैव भूतानामल्पद्रोहेण वापुनः।
या वृत्तिस्तां समास्थाय विप्रोजीवेदनापदि॥२॥
यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः।
अक्लेशेनशरीरस्य कुर्वीत धनसंचयम्॥३॥
ऋतामृताभ्यांजीवेत्तु मृतेन प्रमृतेन वा।
सत्यानृताभ्यामपि वान श्ववृत्त्या कदाचन॥४॥
ऋतुमुञ्छशिलंज्ञेयममृतं स्यादयाचितम्।
मृतं तु याचितं भैक्षं प्रमृतंकर्षणं स्मृतम्॥५॥
सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते।
सेवा श्ववृत्तिराख्याता तस्मात्तां तांपरिवर्जयेत्॥६॥
कुसूलधान्यको वा स्यात् कुम्भीधान्यकएव वा।
त्र्यहैहिको वाऽपि भवेदश्वस्तनिक एव वा॥७॥
चर्तुणामपि चैतेषां द्विजानांगृहमेधिनाम्।
ज्यायान्परः परो ज्ञेयोधर्मतो लोकजित्तमः॥८॥
षट्कर्मैकोभवत्येषां त्रिभिरन्यः प्रवर्तते।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति॥९॥
वर्तयंश्चशिलोञ्छाभ्यामग्निहोत्रपरायणः।
इष्टीःपार्वायनान्तीयाः केवला निर्वपेत्सदा॥१०॥
न लोकवृत्तं वर्तेत वृद्धिहेतोः कथंचन।
अजिह्मामशठां शुद्धां जीवेद्ब्राह्मणजीविकाम्॥११॥
सन्तोषंपरमास्थाय सुखार्थी संयतो भवेत्।
सन्तोषमूलं हि सुखं दुःखमूलं विपर्ययः॥१२॥
अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः।
स्वर्ग्यायुष्ययशस्यानि व्रतानीमानि धारयेत्॥१३॥
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः।
तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम्॥१४॥
नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा।
न विद्य(कल्प)मानेष्वर्थेषु नार्त्यामपियतस्ततः॥१५॥
इन्द्रियार्थेषु सर्वेषुन प्रसज्येत कामतः।
अतिप्रसक्तिञ्चैतेषां मनसा सन्निवर्त्तयेत्॥१६॥
सर्वान्परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः।
यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता॥१७॥
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च।
वेषवाग्बुद्धिसारूप्यमाचरन्विचरोदिह॥१८॥
बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च।
नित्यं शास्त्राण्यवेक्षेतनिगमांश्चैव वैदिकान्॥१९॥
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति।
तथा तथा विजानाति विज्ञानं चास्य रोचते॥२०॥
ऋषियज्ञं देवयज्ञंभूतयज्ञं च सर्वदा।
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत्॥२१॥
एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः।
अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति॥२२॥
वाच्येके जुह्वतिप्राणं प्राणे वाचं च सर्वदा।
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम्॥२३॥
ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा।
ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा॥२४॥
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा।
दर्शेनचार्धमासान्ते पौर्णमासेन चैव हि॥२५॥
सस्यान्ते नवसस्येष्ट्यातथर्त्वन्ते द्विजोऽध्वरैः।
पशुना त्वयनस्यादौसमान्ते सौमिकैर्मखैः॥२६॥
नानिष्ट्वा नवशस्येष्ट्या पशुना चाग्निमान्द्विजः।
नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः॥२७॥
नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः।
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः॥२८॥
आसनाशनशय्याभिरद्भिर्मृलफलेन वा।
नास्य कश्चिद्वसेद्गेहेशक्तितोऽनर्चितोऽतिथिः॥२६॥
पापण्डिनोविकर्मस्थान्वैडालव्रतिकाञ्छठान्।
हैतुकान्वकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्॥३०॥
वेदविद्याव्रतस्नाताञ्श्रोत्रियान् गृहमेधिनः।
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत्॥३१॥
शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना।
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः॥३२॥
राजातो धनमन्विच्छेत्संसीदन्स्नातकः क्षुधा।
याज्यान्तेवासिनोर्वापि न त्वन्यत इति स्थितिः॥३३॥
न सीदेत्स्नातकोविप्रः क्षुधा शक्तः कथंचन।
न जीर्णमलवद्वासा भवेच्च विभवे सति॥३४॥
क्लृप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्वरः शुचिः।
स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च॥३५॥
वैणवींधारयेद्यष्टिं सोदकं चकमण्डलुम्।
यज्ञोपवीतं वेदंच शुभे रौक्मेच कुण्डले॥३६॥
नेक्षेतोद्यन्तमादित्यं नास्तंयान्तं कदाचन।
नोपसृष्टं चवारिस्थंन मध्यं नभसो गतम्॥३७॥
न लङ्घ्येद्वत्सतन्त्रींन प्रधावेच्चवर्षति।
न चोदके निरीक्षेत स्वं रूपमिति धारणा॥३८॥
मृदं गां दैवतं विप्रं घृतंमधुचतुष्पथम्।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्चवनस्पतीन्॥३९॥
नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने।
समानशयने चैव न शयीत तया सह॥४०॥
रजसाऽभिप्लुतांनारी नरस्यह्युपगच्छतः।
प्रज्ञा तेजी वलं चक्षुरायुश्चैव प्रहीयते॥४१॥
तां विवर्जयतस्तस्य रजसासमाभिप्लुताम्।
प्रज्ञा तेजो वलं चक्षुरायुश्चैव प्रवर्धते॥४२॥
नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम्।
क्षुवतीं जृम्भमाणां वान चासीनां यथासुखम्॥४३॥
नाञ्जयन्तीं स्वके नेत्रेन चाभ्यक्तामनावृताम्।
न पश्येत्प्रसवन्तीं च तेजस्कामोद्विजोत्तमः॥४४॥
नान्नमद्यादेकवासा न नग्नःस्नानमाचरेत्।
न मूत्रं पथि कुर्वीतन भस्मनि न गोव्रजे॥४५॥
न फालकृष्टे न जले न चित्यांन च पर्वते।
न जीर्णदेवायतने न वल्मीके कदाचन॥४६॥
न ससत्वेषु गर्तेषु न गच्छन्नापि च स्थितः।
न नदीतीरमासाद्य न च पर्वतमस्तके॥४७॥
वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः।
न कदाचन कुर्वीत विण्मूत्रस्यविसर्जनम्॥४८॥
तिरस्कृत्योच्चरेत्काष्ठलोष्ठपत्रतृणादि च।
नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः॥४९॥
सूत्रोच्चारसमुत्सर्गंदिवा कुर्यादुदङ्मुखः।
दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा॥५०॥
छायायामन्धकारे वा रात्रावहनि वा द्विजः।
यथासुखमुखः कुर्यात्प्राणवाधाभयेषु च॥५१॥
प्रत्यग्निं प्रतिसूर्यंच प्रतिसोमोदकद्विजम्।
प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः॥५२॥
नाग्निंमुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम्।
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत्॥५३॥
अधस्तान्नोपदध्याच्चन चैनमभिलङ्घयेत्।
न चैनं पादतः कुर्यान्न प्राणावाधमाचरेत्॥५४॥
नाश्नीयात् सन्धिवेलायां न गच्छेन्नापि संविशेत्।
न चैव प्रलिखेद्भूमिं नात्मनोऽपहरेत्स्रजम्॥५५॥
नाप्सुमूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत्।
अमेध्यलिप्तमन्यद्वालोहितं वा विपाणि वा॥५६॥
नैकः सुप्याच्छून्यगेहे श्रेयांसं न प्रबोधयेत्।
नोदक्ययाऽभिभाषेत यज्ञं गच्छेन्नचावृतः॥५७॥
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च सन्निधौ।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्॥५८॥
न वारयेद्गां धयन्तीं न चाचक्षीत कस्यचित्।
न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेद्बुधः॥५९॥
नाधार्मिके वसद्ग्रामे नव्याधिवहुले भृशम्।
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत्॥६०॥
न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते।
न पापण्डिगणाक्रान्तेनोपसृष्टेऽन्त्यजैर्नृभिः॥६१॥
न भुञ्जीतोद्धृतस्नेहंनातिसौहित्यमाचरेत्।
नातिप्रगे नाति सायं न सायं प्रातराशितः॥६२॥
न कुर्वीत वृथाचेष्टांवार्यञ्जलिना पिवेत्।
नोत्सङ्गे भक्षयेद्भक्ष्यान्नजातुस्यात् कुतूहली॥६३॥
न नृत्येन्नैवगायेन्न वादित्राणि वादयेत्।
नास्फोटयेन्नच क्ष्वेडन्न च रक्तोविरावयेत॥६४॥
न पादौ धावयेत्कांस्येकदाचिदपि भाजने।
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते॥६५॥
उपानहो च वासश्च धृतमन्येन धारयेत्।
उपवीतमलङ्कारं स्रजंकरकमेव च॥६६॥
नाविनीतैर्व्रजेद्धयैर्न च क्षुद्व्याधिपीडितैः।
न भिन्नशृङ्गाक्षिखुरैर्नवालधिविरूपितैः॥६७॥
विनीतैस्तु ब्रजेन्नित्यमाशुगैर्लक्षणान्वितः।
वर्णरूपोपसंपन्नैःप्रतोदेनातुदन्भृशम्॥६८॥
वालातपः प्रेतधूमो वर्ज्यंभिन्नं तथाऽऽसनम्।
न च्छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान्॥६९॥
न मृल्लोष्ठं च मृद्नीयान्न छिन्द्यात्करजैस्तृणाम्।
न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम्॥७०॥
लोष्ठमर्दीतृणच्छेदी नखखादीच यो नरः।
स विनाशं व्रजत्याशु सूचकोऽशुचिरेव च॥७१॥
न विगृह्य कथा कुर्याद्बहिर्माल्यं न धारयेत्।
गवां च यानं पृष्ठेनसर्वथैवविगर्हितम्॥७२॥
अद्वारेण च नातीयाद्ग्रामं वा वेश्म वा वृतम्।
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत्॥७३॥
नाक्षैर्दीव्येत्कदाचित्तु स्वयं नोपानहौहरेत्।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने॥७४॥
सर्वं च तिलसम्बद्धं नाद्यादस्तमितेरवौ।
न च नग्नःशयीतेह न चोच्छिष्टःक्वचिद्व्रजेत्॥७५॥
आर्द्रपाद्रस्तु भुञ्जीत नार्द्रपादस्तु संविशेत्।
आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात्॥७६॥
अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित्।
न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत्॥७७॥
अधितिष्ठेन्नं केशांस्तु न भस्मास्थिकपालिकाः।
न कार्पासास्थिन तुपान्दीर्घमायुर्जिजीविषुः॥७८॥
न संवसेच्चपतितैर्न चाण्डालैर्नपुल्कसैः।
न मूर्खैर्नावलिप्तेश्च नान्त्यैर्नान्त्यावसायिभिः॥७९॥
न शूद्राय मतिं दद्यान्नोच्छिष्टंहविष्कृतम्।
न चास्योपदिशेद्धर्मंन चास्य व्रतमादिशेत्॥८०॥
यो ह्यस्य धर्ममाचष्टे यश्वैवादिशति व्रतम्।
सोऽसंवृतं नाम तमः सह तेनैव मज्जति॥८१॥
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मतः शिरः।
न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विनां ततः॥८२॥
केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत्।
शिरःस्नातश्च तैलेन नाङ्गकिञ्चिदपि स्पृशेत्॥८३॥
न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः।
सूनाचक्रध्वजवतां वैशेनैव च जीवताम्॥८४॥
दशसूनासमं चक्रं दशचक्रसमो ध्वजः।
दशध्वजसमोवेशोदशवेशसमोनृपः॥८५॥
दशसूनासहस्राणि यो वाहयति सौनिकः।
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः॥८६॥
यो राज्ञःप्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः।
स पर्यायेण यातीमान्नरकानेकविंशतिम्॥८७॥
तामिस्रमन्धतामिस्रं महारौरवरौरवौ।
नरकं कालसूत्रं च महानरकमेव च॥८८॥
संजीवनं महावीचिं तपनं सम्प्रतापनम्।
संहतं च सकाकोलंकुड्मलं प्रतिमीर्तिकम्॥८९॥
लोहशंकुमृजीपं च पत्थानं शाल्मली नदीम्।
असिपत्रवनं चैव लोहदारकमेव च॥९०॥
एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः।
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकांक्षिणः॥९१॥
ब्राह्मे मुहूर्ते बुद्ध्येत धर्मार्थौचानुचिन्तयेत्।
कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च॥९२॥
उत्थायावश्यकं कृत्वाकृतशौचः समाहितः।
पूर्वांसन्ध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम्॥९३॥
ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः।
प्रज्ञां यशश्चकीर्तिंच ब्रह्मवर्चसमेव च॥९४॥
श्रावण्या प्रौष्ठपद्यां वाप्युऽपाकृत्य यथाविधि।
युक्तश्छान्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान्॥९५॥
पुष्ये तु च्छन्दसांकुर्याद्वहिरुत्सर्जनं द्विजः।
माघशुक्लस्यवाप्राप्ते पूर्वाह्णे प्रथमेऽहनि॥६६॥
यथाशास्त्रंतु कृत्वैवमुत्सर्गंछंदसां वहिः।
विरमेत्पक्षिणीं रात्रिं तदेवैकमहर्निशम्॥६७॥
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत्।
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषुसम्पठेत्॥६८॥
नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ।
न निशान्ते परिश्रान्तो ब्राह्माधीत्य पुनः स्वपेत्॥६९॥
यधोदितेन विधिना नित्यं छन्दस्कृतं पठेत्।
ब्रह्म छन्दस्कृतंचैव द्विजोयुक्तो ह्यनापदि॥१००॥
इमान्नित्यमनध्यायानधीयानो विवर्जयेत्।
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम्॥१०१॥
कर्मश्रवेऽनिले रात्रौ दिवा पांशुसमूहने।
एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते॥१०२॥
विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे।
आकालिकमनध्यायमेतेषु मनुरब्रवीत्॥१०३॥
एतांस्त्वभ्युदितान् विद्यात् यदा प्रादुष्कृताग्निषु।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने॥१०४॥
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने।
एतानाकालिकान्विद्यादनध्यायानृतावपि॥१०५॥
प्रादुष्कृतेष्वग्निषुतु विद्युत्स्तनितनिःस्वने।
सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा॥१०६॥
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च।
धर्मनैपुण्यकामानां पूतगन्धे च सर्वशः॥१०७॥
अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ।
अनध्यायो रुद्यमाने समवायेजनस्य च॥१०८॥
उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने।
उच्छिष्टःश्राद्धभुक्चैव मनसाऽपि न चिन्तयेत्॥१०९॥
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टनिकेतनं।
त्र्यहं न कीर्तयेद्ब्रह्मराज्ञोराहोश्चसूतके॥११०॥
यावदेकानुदिष्टस्य गन्धोलेपश्चतिष्ठति।
विप्रस्य विदुषोदेहे तावद्ब्रह्मन कीर्तयेत्॥१११॥
शयानः प्रौढपादश्च कृत्या चैवावसक्थिकाम्॥
नाधीयीतामिषंजग्ध्वासूतकान्नाद्यमेव च॥११२॥
नीहारे वाणशब्दे च सन्ध्ययोरेवचोभयोः।
अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च॥११३॥
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यौतस्मात्ताः परिवर्जयेत्॥११४॥
पांशुवर्षेदिशां दाहे गोमायुविरुतेतथा।
श्वखरोष्ट्रे च रुवति पङ्क्तौ चन पठेद्द्विजः॥११५॥
नाधीयीत श्मशानान्ते ग्रामान्ते गोत्रजेऽपि वा।
वसित्वा मैथुनं वासःश्राद्धिकं प्रतिगृह्य च॥११६॥
प्राणि या यदि वाऽप्राणि यत्किंचिच्छाद्धिकं भवेत्।
तदालभ्याप्यनध्यायः पाण्यास्योहि द्विजः स्मृतः॥११७॥
चौरेरुपप्लुते ग्रामे संभ्रमे चाग्निकारिते।
आकालिकमनध्यायं विद्यात् सर्वाद्भुतेषु च॥११८॥
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतं।
अष्टकासु त्वहोरात्रमृत्यन्तासु च रात्रिषु॥११९॥
नाधीयीताश्वमारूढोन वृक्ष न चहस्तिनम्।
न नावं न खरं नोष्ट्रं नेरिणस्थो नयानगः॥१२०॥
न विवादे न कलहे न सेनायां न सङ्गरे।
न भुक्तमात्रे नाजीर्णे न वमित्वा नशुक्तके॥१२१॥
अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम्।
रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते॥१२२॥
सामध्वनावृग्यजुषीनाधीयीत कदाचन।
वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्यच॥१२३॥
ऋग्वेदो देवदैवत्योयजुर्वेदस्तु मानुषः।
सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः॥१२४॥
एतद्विदन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम्।
क्रमशः पूर्वमभ्यस्य पश्चाद्वेदमधीयते॥१२५॥
पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः।
अन्तरागमने विद्यादनध्यायमहर्निशम्॥१२६॥
द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः।
स्वाध्यायभूमिं चाशुद्वामात्मानं चाशुचिं द्विजः॥१२७॥
अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम्।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः॥१२८॥
न स्नानमाचरेद्भुक्त्वानातुरो न महानिशि।
न वासोभिःसहाजस्रंनाविज्ञाते जलाशये॥१२९॥
देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा।
नाक्रामेत्कामतश्छायां वभ्रुणो दीक्षितस्य च॥१३०॥
मध्यंदिनेऽर्धरात्रेच श्राद्धं भुक्त्वा न च सामिषम्।
संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम॥१३१॥
उद्वर्तमनपस्नानंविण्मूत्रेरक्तमेव च।
श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तुकामतः॥१३२॥
वैरिणं नोपसेवेत सहायं चैव वैरिणः।
अधार्मिकं तस्करं परस्यैव च योषितम्॥१३३॥
न हीदृशमनायुष्यं लोकेकिंचन विद्यते।
यादृशं पुरुषस्येह परदारोपसेवनम्॥१३४॥
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्।
नावमन्येत वैभूष्णुःकृशानपि कदाचन॥१३५॥
एतत्त्रयं हि पुरुषं निर्दहेदवमानितम्।
तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान्॥१३६॥
नात्मानमवमन्येत पूर्वाभिरसमृद्धिभिः।
आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्॥१३७॥
सत्यं ब्रूयात्प्रियं ब्रूयात्सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयादेषधर्मः सनातनः॥१३८॥
भद्रं भद्रमिति ब्रूयाद्भद्रामित्येव या वदेत्।
शुष्कवैरंविवादं च न कुर्यात्केनचित् सह॥१३९॥
नातिकल्यं नातिसायं नातिमध्यं दिने स्थिते।
नाज्ञातेन समं गच्छेन्नैकोन वृषलैः सह॥१४०॥
हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान्।
रूपद्रव्यविहीनांश्च जातिहीनांश्च नाक्षिपेत्॥१४१॥
न स्पृशेत्पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान्।
न चापि पश्येदशुचिः स्वस्थोज्योतिर्गणान्दिवि॥१४२॥
स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत्।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु॥१४३॥
अनातुरः स्वानि स्वानि न स्पृशेदनिमित्ततः।
रोमाणि च रहस्यानि सर्वाण्येवविवर्जयेत्॥१४४॥
मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः।
जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः॥१४५॥
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम्।
जपतांजुह्वतांचैव विनिपातो न विद्यते॥१४६॥
वेदमेवाभ्यसे(जपे)न्नित्यं यथाकालमतन्द्रितः।
तं ह्यस्याहुःपरं धर्ममुपधर्मोऽन्य उच्यते॥१४७॥
वेदाभ्यासेन सततं शौचेन तपसैव च।
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम्॥१४८॥
पौर्विकींसंस्मरन् जातिं ब्रह्मैवाभ्यस्यते द्विजः।
ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते॥१४९॥
सावित्रान् शान्तिहोमांश्चकुर्यात् पर्वसुनित्यशः।
पितृृंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु॥१५०॥
दूरादावसथान्मूत्रं दूरात् पादावसेचनम्।
उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत्॥१५१॥
मैवंप्रसाधनं स्नानं दन्तधावनमञ्जनम्।
पूर्वाह्न एवं कुर्वीत देवतानां च पूजनम्॥१५२॥
देवतान्यभिगच्छेत्तुधार्मिकांश्च द्विजोत्तमान्।
ईश्वरं चैव रक्षार्थंगुरूनेव च पर्वसु॥१५३॥
अभिवादयेद्वृद्धांश्चदद्याच्चैवासनं स्वकम्।
कृताञ्चलिरुपासीत गच्छतः पृष्ठतोऽन्वियात्॥१५४॥
श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु।
धर्ममूलं निषेवेत सदाचारमतन्द्रितः॥१५५॥
आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः।
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम्॥१५६॥
दुराचारो हि पुरुषो लोके भवति निन्दितः।
दुःखभागी च सततं व्याधितोऽल्पायुरेव च॥१५७॥
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति॥१५८॥
यद्यत् परंवशं कर्म तत्तद्यत्नेनवर्जयेत्।
यद्यदात्मवशंतु स्यात्तत्तत्सेवेत यत्नतः॥१५९॥
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।
एतद्विद्यात् समासेन लक्षणं सुखदुखयोः॥१६०॥
यत्कर्म कुर्वतोऽस्य स्यात् परितोषोऽन्तरात्मनः।
तद् प्रयत्नेनकुर्वीत विपरीतंतु वर्जयेत्॥१६१॥
आचार्यं च प्रवक्तारं पितरं मातरं गुरुम्।
न हिंस्याद् ब्राह्मणान् गांश्चसर्वांश्चैव तपस्विनः॥१६२॥
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्।
द्वेषं दम्भं (स्तम्भं) च मानं च क्रोधं तैक्ष्ण्यंच वर्जयेत्॥१६३॥
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं (नैव) निपातयेत्।
अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थंताडयेत्तु तौ॥१६४॥
ब्राह्मणायावगूर्यैव द्विजातिर्वधकाम्यया।
शतं वर्षाणि तामिस्रेनरके परिवर्तते॥१६५॥
ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम्।
एकविंशतिमाजातीः पापयोनिषु जायते॥१६६॥
अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः।
दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः॥१६७॥
शोणितं यावतः पांसून्संगृह्णाति महीतलात्।
तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते॥१६८॥
न कदाचिद्द्विजे तस्माद्विद्वानवगुरेदपि।
न ताडयेत्तृणेनापि न गात्रात्स्रावयेदसृक्॥१६९॥
अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम्।
हिंसारतश्चयो नित्यं नेहासौसुखमेधते॥१७०॥
न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत्।
अधार्मिकाणां पापानामाशु पश्यन् विपर्ययम्॥१७१॥
नाधर्मश्चरितो लोके सद्यः फलति गौरिव।
शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति॥१७२॥
यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु।
न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः॥१७३॥
अधर्मेणैधते तावत्ततो भद्राणि पश्यति।
ततः सपन्नान् जयति समूलस्तु विनश्यति॥१७४॥
सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा।
शिष्यांश्चशिष्याद्धर्मेण वाग्बाहूदरसंयतः॥१७५॥
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ।
धर्मं चाप्यसुखोदकं लोकवि(सं)क्रुष्टमेव च॥१७६॥
न पाणिपादचपलोनेत्रचपलोऽनृजुः।
न स्याद्वाक्चपलश्चैवन परद्रोहकर्मधीः॥१७७॥
येनास्य पितरो याता येन याताः पितामहाः।
तेन यायात् सतां मार्गंतेन गच्छन्नरिष्यते॥१७८॥
ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः।
बालवृद्धातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः॥१७९॥
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया।
दुहित्रादासवर्गेण विवादं न समाचरेत्॥१८०॥
एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते।
एभिर्जितैश्चजयति सर्वांल्लोकानिमान्गृही॥१८१॥
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः।
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः॥१८२॥
जामयोऽप्सरसां लोके वैश्वदेवस्य वान्धवाः।
सम्बन्धिनो ह्यषांलोके पृथिव्यांमातृमातुलौ॥१८३॥
आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः।
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः॥१८४॥
छाया स्वोदासवर्गश्चदुहिता कृपणं परम्।
तस्मादेतैरधिक्षिप्तः सहेतासंज्वरः सदा॥१८५॥
प्रतिग्रहसमर्थोऽपि प्रसङ्ग तत्र वर्जयेत्।
प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति॥१८६॥
न द्रव्याणामविज्ञाय विधिं धर्म्यंप्रतिग्रहे।
प्रातः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा॥९८७॥
हिरण्यं भूमिमश्वंगामन्नं वासस्तिलान् घृतम्।
प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत्॥१८८॥
हिरण्यमायुरन्नंच भूर्गौश्चाप्योपतस्तनुम्।
अश्वश्चक्षुस्त्वचंवासो घृतं तेजस्तिलाः प्रजाः॥१८९॥
अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः।
अम्भस्यश्मप्लवेनेव सह तेनैव मज्जति॥१९०॥
तस्मादविद्वान्विभियाद्यस्मात्तस्मात्प्रतिग्रहात्।
स्वल्पकेनाप्यविद्वान् हि पङ्के गौरिव सीदति॥१९१॥
न वार्यपिप्रयच्छेत्तु वैडालव्रतिके द्विजे।
न वक्र व्रतिके विप्रे (पापे) नावेदविदि धर्मवित्॥१९२॥
त्रिष्वप्येतेषु दत्तं हि विधिनाऽप्यर्जितं धनम्।
दातुर्भवत्यनर्थाय परत्रादातुरेव च॥१९३॥
यथा प्लवेनौपलेन निमज्जत्युदके तरन्।
तथा निमज्जतोऽधस्तादज्ञौदातृप्रतीच्छकौ॥१९४॥
धर्मध्वजी सदालुब्धश्छाद्मिको लोकदम्भकः।
वैड़ालव्रतिको ज्ञेयो हिंस्रःसर्वाभिसन्धकः॥१९५॥
अधोदृष्टिर्नैस्कृतिकः स्वार्थसाधनतत्परः।
शठो मिथ्याविनीतश्च वकव्रतचरो द्विजः॥१९६॥
ये वकव्रतिनो विप्राये च मार्जारलिङ्गिनः।
ते पतन्त्यन्धतामिस्रेतेनपापेन कर्मणा॥१९७॥
न धर्मस्पापदेशेन पापं कृत्वा व्रतं चरेत्।
व्रतेन पापं प्रच्छाद्यकुर्वन्स्त्रीशूद्रदम्भनम॥१९८॥
प्रेत्येहचेदृशा विप्रागर्ह्यन्ते ब्रह्मवादिभिः।
छद्मना चरितं यच्चव्रतं रक्षांसि गच्छति॥१९९॥
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति।
स लिङ्गिनांहरत्येनस्तिर्यग्योनौच जायते॥२००॥
परकीयनिपानेषु न स्नायाद्धि कदाचन।
निपानकर्त्तुःस्नात्वातु दुष्कृतांशेन लिप्यते॥२०१॥
यानशय्यासनान्यस्यकूपोद्यानगृहाणि च।
अदत्तान्वुपभुञ्जान एनसःस्यात्तुरीयभाक्॥२०२॥
नदीषुदेवखातेषुतडागेषुसरःसुच।
स्नानंसमाचरेन्नित्यंगर्त्तप्रस्रवणेषुच॥२०३॥
यमान्सेवेतसततंन नित्यंनियमान्बुधः।
यमान्पतत्यकुर्वाणोनियमान्केवलान्भजन्॥२०४॥
नाश्रोत्रियतते यज्ञेग्रामयाजिकृतेतथा।
स्त्रिया क्लीवेन च हुते भुञ्जीत ब्राह्मणःक्वचित्॥२०५॥
अश्लीक(ल)मेतत्साधूनां यत्र जुह्वत्यमीहविः।
प्रतीपमेतद्देवानां तस्मात्तत्परिवर्जयेत्॥२०६॥
मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन।
केशकीटावपन्नंच पदा स्पृष्टं च कामतः॥२०७॥
भ्रूणघ्नावेक्षितं चैव संस्पृष्टंचाप्युदक्यया।
पतत्रिणाऽवलीढं च शुना संस्पृष्टमेव च॥२०८॥
गवाचान्नमुपाघ्रातं घुष्टान्नंच विशेषतः।
गणान्नं गणिकान्नंच विदुषा च जुगुप्सितम्॥२०९॥
स्तेनगायनयोश्चान्नं तक्ष्णोर्वार्धुपिकस्य च।
दीक्षितस्य कदर्यस्य वद्धस्य निगडस्य च॥२१०॥
अभिशस्तस्य षण्डस्य पुंश्चल्या दाम्भिकस्य च।
शुक्तं पर्युपितं चैव शूद्रस्योच्छिष्टमेव च॥२११॥
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः।
उग्रान्नं सूतिकान्नंच पर्यायान्तमनिर्द्दशम्॥२१२॥
अनर्चितं वृथामांसमवीरायाश्चयोषितः।
द्विषदन्नं नगर्यन्नं पतितान्नमचक्षुतम्॥२१३॥
पिशुनानृतिनोश्चान्नं ऋतुविक्रयिणस्तथा।
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च॥२१४॥
कर्मारस्य निषादस्य रङ्गावतरकस्य च।
सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा॥२१५॥
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च।
रञ्ज(रज)कस्य नृशंसस्य यस्य चोपपतिर्गृहे॥२१६॥
मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः।
अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च॥२१७॥
राजान्नं तेज आदत्ते शूद्रान्नंब्रह्मवर्चसम्।
आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः॥२१८॥
कारुकान्नं प्रजां हन्ति वलं निर्णेजकस्य च।
गणान्नं गणिकान्नञ्चलोकेभ्यः परिकृन्तति॥२१९॥
पूयं चिकित्सकस्यान्नंपुंश्चल्यास्त्यन्नमिन्द्रियम्।
विष्ठावार्धुषिकस्यान्नंशस्त्रविक्रयिणो मलम्॥२२०॥
य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः।
तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः॥२२१॥
भुक्त्वाऽतोऽन्यतमस्यान्नममत्याक्षपणं त्र्यहम्।
मत्या भुक्त्वाऽचरेत्कृच्छ्रं रेतोविण्मूत्रमेव च॥२२२॥
नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः।
आददीताममेवास्मादवृत्तावेकरात्रिकम्॥२२३॥
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः।
मीमांसित्वोभयं देवाः सममन्नमकल्पयन्॥२२४॥
तान् प्रजापतिराहैत्यमा कृध्वंविषमं समम्।
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत्॥२२५॥
श्रद्धयेष्टं चपूर्तंच नित्यं कुर्यादतन्द्रितः।
श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः॥२२६॥
दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम्।
परितुष्टेनभावेन पात्रमासाद्य शक्तितः॥२२७॥
नामुत्र हि सहायार्थं पिता माता च तिष्ठतः।
न पुत्रदारा नज्ञातिर्धर्मस्तिष्ठति केवलः॥२३९॥
एकः प्रजायते जन्तुरेक एव प्रलीयते।
एकोऽनुभुङ्क्तेसुकृतमेक एव च दुष्कृतम्॥२४०॥
मृतं शरीरमुत्सृज्य काष्ठोलोष्ठं समं क्षितौ।
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति॥२४१॥
तस्माद्धर्मंसहायार्थं नित्यं संचिनुयाच्छनैः।
धर्मेण हि सहायेन तमस्तरति दुस्तरम्॥२४२॥
धर्मप्रदानं पुरुषंतपसा हतकिल्विषम्।
परलोकं नयत्याशु भास्वन्तं स्वशरीरिणम्॥२४३॥
उत्तमैरुत्तमैर्नित्यं सम्बन्धानाचरेत्सह।
निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत्॥२४४॥
उत्तमानुत्तमान्गच्छन्हीन्हीनांश्चवर्जयन्।
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्॥२४५॥
दृढकारी मृदुर्दान्तः क्रूराचाररैसंवसन्।
अहिंस्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः॥२४६॥
एधोदकं मूलफलमन्नमभ्युद्यतं च यत्।
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम्॥२४७॥
आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम्।
मेने प्रजापतिर्ग्राह्यमपि दुष्कृतकर्मणः॥२४८॥
नाश्नन्ति पितरस्तस्य दश वर्षाणिपञ्चच।
न च हव्यंवहत्यग्निर्यस्तामभ्यवमन्यते॥२४९॥
शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि।
धाना मत्स्यान्पयोमांसं शाकं चैव न निर्णुदेत्॥२५०॥
गुरून्भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन्देवतातिथीन्।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः॥२५१॥
गुरुषु त्यभ्यतीतेषु विना वा तैर्गृहे वसन्।
आत्मनो वृत्तिमन्विच्छन् गृह्णीयात्साधुतः सदा॥२५२॥
आर्थिकः कुलमित्रं च गोपालो दासनापितौ।
एते शुद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्॥२५३॥
यादृशोऽस्य भवेदात्मा यादृशंच चिकीर्षितम्।
यथा चोपचरेदेनं तथाऽत्मानं निवेदयेत्॥२५४॥
योऽन्यथा संतमात्मानमन्यथा सत्सु भापते।
स पापकृत्तमो लोके स्तेन आत्मापहारकः॥२५५॥
वाच्यर्थानियताः सर्वे वाङ्मूलावाग्विनिःसृताः।
तां तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः॥२५६॥
महर्षिपितृदेवानां गत्वाऽऽनृण्यं यथाविधि।
पुत्रे सर्वं समासृज्य वसेन्माध्यस्थमास्थितः॥२५७॥
एकाकीचिन्तयेन्नित्यं विविक्ते हितमात्मनः।
एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति॥२५८॥
एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती।
स्नातकव्रतकल्पश्चसत्ववृद्धिकरः शुभः॥२५९॥
अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित्।
व्यपेतकल्मषोनित्यंब्रह्मलोके महीयते॥२६०॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां चतुर्थोऽध्यायः॥
पञ्चमोऽध्यायः।
तत्रादौ- अभक्ष्यवर्णनमाह—
श्रुत्वैतानृषयोधर्मान् स्नातकस्य यथोदितान्।
इदमूचुर्महात्मानमनलप्रभवं भृगुम्॥१॥
एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम्।
कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो॥२॥
स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः।
श्रूयतां येन दोषेण मृत्युर्विप्राञ्जिघांसति॥३॥
अनभ्यासेन वेदानामाचारस्य च वर्जनात्।
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति॥४॥
लशुनं गृञ्जनं चैव पलाण्डुंकवकानि च।
अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च॥५॥
लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवांस्तथा।
शेलुं गव्यं पैयूषंप्रयत्नेन विवर्जयेत्॥६॥
वृथाकृसरसंयावं पायसापूषमेव च।
अनुपाकृतमांसानि देवान्नानि हवींषि च॥७॥
अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफंतथा।
आविकं संधिनीक्षीरंविवत्सायाश्चगोः पयः॥८॥
आरण्यानांच सर्वेषां मृगाणां माहिषं विना।
स्त्रीक्षीरं चैव वर्ज्यानिसर्वशुक्तानि चैव हि॥९॥
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसम्भवम्।
यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः॥१०॥
क्रव्यादः शकुनीन् सर्वांस्तथा ग्रामनिवासिनः।
अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत्॥११॥
कलविङ्कं प्लवं हंसं चक्राह्वंग्रामकुक्कुटम्।
सारसं रज्जुवालंच दात्यूहंशुकसारिके॥१२॥
प्रतुदान् जालपादांश्चकोयष्टिनखविष्किरान्।
निमज्जतश्च मत्स्यादान् सौनं बल्लूरमेव च॥१३॥
वकं चैव वलाकां च काकोलं खंजरीटकम्।
मत्स्यादान् विड्वराहांश्चमत्स्यानेव च सर्वशः॥१४॥
यो यस्य मांसमश्नाति स तन्मांसाद उच्यते।
मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान्विवर्जयेत्॥१५॥
पाठीनरोहितावाद्यौनियुक्तौ हव्यकव्ययोः।
राजीवाःसिंहतुण्डांश्च सशल्कांश्चैव सर्वशः॥१६॥
न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान्।
भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पंचनखांस्तथा॥१७॥
श्वाविधं शल्यकं गोधां खड्गं कूर्मशशांस्तथा।
भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः॥१८॥
छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम्।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः॥१९॥
अमत्यैतानि षट्जग्ध्वाकृच्छ्रं सान्तपनं चरेत्।
यतिचान्द्रायणं वापि शेषेषूपवसेदहः॥२०॥
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः॥२१॥
यज्ञार्थंब्राह्मणैर्वध्याः प्रशस्तामृगपक्षिणः।
भृत्यानांचैव वृत्यर्थमगस्त्यो ह्यचरत्पुरा॥२२॥
वभूवुर्हिपुरोडाशा भक्ष्याणांमृगपक्षिणाम्।
पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च॥२३॥
यत्किंचित्स्नेहसंयुक्तं भक्ष्यंभोज्यमगर्हितम्।
तत्पर्युषितमप्याद्यंहविःशेषं च यद्भवेत्॥२४॥
चिरस्थितमपि त्याद्यमस्नेहाक्तं द्विजातिभिः।
यवगोधूमजं सर्वं पयसश्चैव विक्रिया॥२५॥
एतदुक्तंद्विजातीनां भक्ष्याभक्ष्यमशेषतः।
मांसस्यातःप्रवक्ष्यामि विधिं भक्षणवर्जने॥२६॥
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां चकाम्यया।
यथाविधि नियुक्तस्तु प्राणानामेव चात्यये॥२७॥
प्राणस्यान्नमिदं सर्वंप्रजापतिरकल्पयत्।
स्थावरं जङ्गमं चैव सर्वप्राणस्य भोजनम्॥२८॥
चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः।
अहस्ताश्चसहस्तानां शूराणां चैव भीरवः॥२९॥
नात्तादुष्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि।
धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च॥३०॥
यज्ञाय जग्धिर्मांसस्येत्येषदैवोविधिः स्मृतः।
अतोऽन्यथाप्रवृत्तिस्तु राक्षसो विधिरुच्यते॥३१॥
क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा।
देवान् पितृृंश्चार्चयित्वा खादन्मांसं न दुष्यति॥३२॥
नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः।
जग्ध्वा ह्यविधिना मांसं प्रेत्य(प्रेतः) तैरद्यतेऽवशः॥३३॥
न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः।
यादृशं भवति प्रेत्य वृथामांसानि खादतः॥३४॥
नियुक्तस्तु यथान्यायंयो मांसं नात्तिमानवः।
स प्रेत्यपशुतां याति सम्भवानेकविंशतिम्॥३५॥
असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रःकदाचन।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः॥३६॥
कुर्याद्धृतपशुं सङ्गे कुर्यात्पिष्टपशुंतथा।
न त्वेव तु वृथा हन्तुं पशुमिच्छेत् कदाचन॥३७॥
यावन्ति पशुरोमाणि तावत् कृत्वोह मारणम्।
वृथापशुघ्नःप्राप्नोति प्रेत्यजन्मनि जन्मनि॥३८॥
यज्ञार्थंपशवः सुष्टाः स्वयमेव स्वयम्भुवा।
यज्ञस्य भूत्यैसर्वस्य तस्माद्यज्ञे वधोऽवधः॥३९॥
ओषध्यः पशवो वृक्षास्तिर्यञ्चपक्षिणस्तथा।
यज्ञार्थं निधनं प्राताः प्राप्नुवन्त्युच्छ्रितोः पुनः॥४०॥
मधुपर्के चयज्ञे च पितृदैवतकर्मणि।
अत्रैव पशवोहिंस्या नान्यत्रेत्यव्रवीन्मनुः॥४१॥
एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद्द्विजः।
आत्मानं च पशुं चैव गमयत्युत्तमां गतिम्॥४२॥
गृहे गुरावरण्ये वानिवसन्नात्मवान्द्विजः।
नावेदविहितां हिंसामापद्यपि समाचरेत्॥४३॥
या वेदविदिता हिंसा नियताऽस्मिंश्चराचरे।
अहिंसामेव तांविद्याद्वेदाद्धर्मोहि निर्बभौ॥४४॥
योऽहिंसकानि भूतानि दिनस्यात्मसुखेच्छया।
स जीवंश्चमृतश्चैव न क्वचित्सुखमेधते॥४५॥
यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति।
स सर्वस्य हितप्रेप्सुसुखमत्यन्तमश्नुते॥४६॥
यद्ध्यायति यत्कुरुते धृतिंवध्नाति यत्र च।
तदवाप्नोत्ययत्नेनयो हिनस्ति न किंचन॥४७॥
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यतेक्वचित्।
न प्राणिवधःस्वर्ग्यस्तस्मान्मांसं विवर्जयेत्॥४८॥
समुत्पत्तिं मांसस्य वधवन्तौच देहिनाम्।
प्रसमीक्ष्य निवर्तेतसर्वमांसस्य भक्षणात्॥४९॥
न भक्षयतियो मांसंविधिं हित्वापिशाचवत्।
स लोके प्रियतां याति व्याधिभिश्चन पीड्यते॥५०॥
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः॥५१॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति।
अनभ्यर्च्यपितृृन्देवांस्ततोऽन्यो नास्त्यपुण्यकृत्॥५२॥
वर्षे वर्षेऽश्वमेधेनयो यजेत शतं समाः।
मांसानि च न खादेद्यस्तयोःपुण्यफलं समम्॥५३॥
फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः।
न तत्फलमवाप्नोतियन्मांसपरिवर्जनात्॥५४॥
मांसं भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम्।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः॥५५॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने।
प्रवित्तिरेषा भूतानां निवृत्तिस्तु महाफला॥५६॥
प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च।
चतुर्णामपि वर्णानां यथावदनुपूर्वशः॥५७॥
दन्तजातेऽनुजाते चकृतचूडे च संस्थिते।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते॥५८॥
दशाहं शावमाशौचं सपिण्डेषु विधीयते।
अर्वाक्संचयनादस्थ्ना त्र्यहमेकाहमेव च॥५९॥
सपिण्डता तु पुरुषेसप्तमे विनिवर्तते।
समानोदकभावस्तु जन्मनाम्नोरवेदने॥६०॥
यथेदं शावमाशौचं सपिण्डेषु विधीयते।
जननेऽप्येवमेव स्यान्निपुणंशुद्धिमिच्छताम्॥६१॥
सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम्।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः॥६२॥
निरस्य तु पुमाञ्शुक्रमुपस्पृश्यैव शुद्ध्यति।
वैजिकादभिसम्बन्धादनुरुन्ध्यादघं त्र्यहम्॥६३॥
अह्नाचैकेन रात्र्याच त्रिरात्रैरेव च त्रिभिः।
शवस्पृशो विशुद्ध्यन्ति त्र्यहादुदकदायिनः॥६४॥
गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन्।
प्रेताहारैःसमं तत्र दशरात्रेण शुध्यति॥६५॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावेविशुध्यति।
रजस्युपरते साध्वीस्नानेन स्त्रीरजस्वला॥६६॥
नृणामकृतचूडानांविशुद्धिर्नैशिकी स्मृता।
निर्वृत्तचूडकानां तुत्रिरात्राच्छुद्धिरिष्यते॥६७॥
ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा वहिः।
अलंकृत्य शुचौभूमावस्थिसंचयनादृते॥६८॥
नास्यकार्योऽग्निसंस्कारोन च कार्योदकक्रिया।
अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुस्त्र्यहमेवच॥६९॥
नात्रिवर्षस्य कर्तव्या वान्धवैरुदकक्रिया।
जातदन्तस्य वा कुर्युर्नाम्निवाऽपि कृते सति॥७०॥
सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम्।
जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते॥७१॥
स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुद्ध्यन्ति वान्धवाः।
यथोक्तेनैव कल्पेनशुध्यन्ति तु सनाभयः॥७२॥
अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम्।
मांसाशनं च नाश्नीयुः शयीरंश्चपृथक् क्षितौ॥७३॥
सन्निधावेष वैकल्पः शावाशौचस्य कीर्तितः।
असन्निधावयं ज्ञेयोविधिः सम्बन्धिबान्धवैः॥७४॥
विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम्।
यच्छेषंदशरात्रस्य तावदेवाशुचिर्भवेत्॥७५॥
अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत्।
संवत्सरे व्यतीते तु स्पृष्ट्वैवापोविशुध्यति॥७६॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च।
सवासा जलमाप्लुत्यशुद्धो भवति मानवः॥७७॥
वाले देशान्तरस्थे च पृथक् पिण्डे च संस्थिते।
सवासा जलमाप्लुत्यसद्यएवविशुध्यति॥७८॥
अन्तर्द्दशाहे चेत्स्यातां पुनर्मरणजन्मनी।
तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम्॥७९॥
त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति।
तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः॥८०॥
श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत्।
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च॥८१॥
प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः।
अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ॥८२॥
शुद्ध्येद्विप्रोदशाहेन द्वादशाहेन भूमिपः।
वैश्यः पञ्चदशाहेन शूद्रो मासेनशुध्यति॥८३॥
न वर्द्धयेदघाहानि प्रत्यूहेनाग्निषु क्रियाः।
न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत्॥८४॥
दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा।
शवं तत्स्पृष्टिनंचैव स्पृष्ट्वास्नानेन शुध्यति॥८५॥
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने।
सौरान्मन्त्रान्यथोत्साहं पावमानीश्चशक्तितः॥८६॥
नारं स्पृष्वाऽस्थिसस्नेहं स्नात्वा विप्रो विशुध्यति।
आचम्येवतु निःस्नेहं गामालभ्यार्कमीक्ष्य वा॥८४॥
आदिष्टी नोदकंकुर्यादाव्रतस्यसमापनात्।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति॥८८॥
वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम्।
आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया॥८९॥
पाषण्डमाश्रितानां च चरन्तीनांच कामतः।
गर्भभर्तृद्रुहां चैव सुरापीनां चयोषिताम्॥९०॥
आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम्।
निर्हृत्यतु व्रती प्रेतान्नव्रतेन वियुज्यते॥९१॥
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत्।
पश्चिमोत्तरपूर्वैस्तु यथायोगं द्विजन्मनः॥९२॥
न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम्।
ऐन्द्रं-स्थानमुपासीना ब्रह्मभूता हि ते सदा॥९३॥
राज्ञोमाहात्मिके स्थानेसद्यःशौचं विधीयते।
प्रजानां परिरक्षार्थमासनं चात्र कारणम्॥९४॥
डिम्वाहवहतानां च विद्युता पार्थिवेन च।
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः॥९५॥
सौभाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च।
अष्टानांलोकपालानां वपुर्धारयते नृपः॥९६॥
लोकेशाधिष्ठितोे राजा नास्याशौचं विधीयते।
शौचाशौचं हि मर्त्यानां लोकेभ्यप्रभवाप्ययौ॥९७॥
उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च।
सद्यः सन्तिष्ठतेयज्ञस्तथाऽऽशौचमिति स्थितिः॥९८॥
विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम्।
वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः॥९९॥
एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः।
असपिण्डेषु सर्वेषु प्रेतशुद्धिं निवोधत॥१००॥
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत्।
विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान्॥१०१॥
यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति।
अनदन्नन्नमह्नैवन चेत्तस्मिन्गृहे वसेत्॥१०२॥
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च।
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति॥१०३॥
न विप्रं स्वेषुतिष्ठत्सुमृतं शूद्रेणनाययेत्।
अस्वर्ग्या ह्याहुतिःसा स्याच्छूद्रसंस्पर्शदूषिता॥१०४॥
ज्ञानं तपोग्निराहारो मृन्मनो वार्युपाञ्जनम्।
वायुः कर्मार्ककालौ च शुद्धेकर्तृृणि देहिनाम्॥१०५॥
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
योऽर्थे शुचिर्हि स शुचिर्नमृद्वारिशुचिः शुचिः॥१०६॥
क्ष्यान्त्या शुद्ध्यन्ति विद्वांसो दानेनाकार्यकारिणः।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः॥१०७॥
मृत्तोयैःशुध्यते शोध्यं नदी वेगेन शुद्धयति।
रजसा स्त्रीमनोदुष्टा सन्यासेन द्विजोत्तमः॥१०८॥
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति॥१०९॥
एष शौचस्य वः प्रोक्तःनः शरीरस्य विनिर्णयः।
नानाविधानां द्रव्याणांशुद्धेःशृणुत निर्णयम्॥११०॥
तैजसानां मणीनां च सर्वस्याश्ममयस्य च।
भस्मनाद्भिर्मृदा चैव शुद्धिरुक्तामनीषिभिः॥१११॥
निर्लेपं कांचनं भाण्डमद्भिरेव विशुध्यति।
अब्जमश्वमयं चैव राजतं चानुपस्कृतम्॥११२॥
अपामग्नेश्च संयोगाद्धैमं रौप्यं चनिर्वभौ।
तस्मात्तयोः स्वयोन्यैवनिर्णेको गुणवत्तरः॥११३॥
ताम्रायःकांस्यरैत्यानांत्रपुणःसीसकस्य च।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः॥११४॥
द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्।
प्रोक्षणं संहतानां च दारवाणां च तक्षणम्॥११५॥
मार्जनं यज्ञपात्राणां पाणिनायज्ञकर्मणि।
चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु॥११६॥
चरूणां स्रुक्स्रुवाणां च शुद्धिरुप्येन वारिणा।
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च॥११७॥
अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम्।
प्रक्षालनेन त्वल्पानामद्भिःशीघ्रं विधीयते॥११८॥
चेलवच्चर्मणां शुद्धिर्वैदलानां तथैव च।
शाकमूलफलानां च धान्यवच्छुद्विरिष्यते॥११९॥
कौशेयाविकयोरूपैःकुतपानामरिष्टकैः।
श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः॥१२०॥
क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च।
शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा॥१२१॥
प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति।
मार्जनोपाञ्जनैर्वेश्म पुनः पाकेन मृण्मयम्॥१२२॥
मद्यैर्मूत्रैःपुरीषैर्वाष्ठीवनैः पूयशोणितैः।
संस्पृष्टं नैव शुद्ध्येत पुनः पाकेन मृण्मयम्॥१२३॥
सम्मार्जनोपाञ्जनेन सेकेनोल्लेखनेन च।
गवां च परिवासेन भूमिः शुद्ध्यति पंचभिः॥१२४॥
पक्षिजग्धंगवाघ्रातमवधूतमवक्षुतम्।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुद्ध्यति॥१२५॥
यावन्नापैत्यमेध्याक्ताद्गन्धोलेपश्च तत्कृतः।
तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु॥१२६॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्।
अदृष्टमद्भिर्निर्णिक्तं यच्चवाचा प्रशस्यते॥१२७॥
आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत्।
अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः॥१२८॥
नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम्।
ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः॥१२९॥
नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः॥१३०॥
श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरव्रवीत्।
क्रव्याद्भिश्चहतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः॥१३१॥
ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः॥१३२॥
मक्षिका विप्रुषश्छायागौरश्वःसूर्यरश्मयः।
रजो भूर्वायुरग्निश्च स्पर्शेमेध्यानि निर्दिशेत्॥१३३॥
विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेययमर्थवत्।
दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि॥१३४॥
वसा शुक्रमसृङ्मज्जा मूत्रविट्घ्राणकर्णविट्।
श्लेष्माश्रु दूषिका स्वेदोद्वादशैते नृणां मलाः॥१३५॥
एका लिङ्गेगुदे तिस्रस्तथैकत्रकरे दश।
उभयोः सप्तदातव्या मृदः शुद्धिमभीप्सता॥१३६॥
एतच्छौचंगृहस्थानां द्विगुणं ब्रह्मचारिणाम्।
त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम्॥१३७॥
कृत्वामूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत्।
वेदमध्येष्यमाणश्चअन्नमश्नंश्च सर्वदा॥१३८॥
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततोमुखम्।
शारीरं शौचमिच्छन्हि स्त्री शूद्रस्तु सकृत्सकृत्॥१३९॥
शूद्राणांमासिकं कार्यं वपनं न्यायवर्तिनाम्।
वैश्यवच्छौचकल्पश्चद्विजोच्छिष्टं चभोजनम्॥१४०॥
नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽयं पतन्तियाः।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम्॥१४१॥
स्पृशन्ति विन्दवः पादौ य आचामयतः परान्।
भौमिकैस्तेसमा ज्ञेया न तैराप्रयतो भवेत्॥१४२॥
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन।
अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात्॥१४३॥
वान्तोविरिक्तः स्नात्वा तु घृतप्राशनमाचरेत्।
आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम्॥१४४॥
सुप्त्वाक्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वाऽनृतानि च।
पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन्॥१४५॥
एषशौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च।
उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत॥१४६॥
बालया वायुवत्या वा वृद्धया वाऽपि योषिता।
न स्वातन्त्र्येण कर्तव्यं किंचित्कार्यं गृहेष्वपि॥१४७॥
बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने।
पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम्॥१४८॥
पित्रा भर्त्रा सुतैर्वाऽपि नेच्छेद्विरहमात्मनः।
एषां हि विरहेण स्त्री गर्ह्येकुर्यादुभे कुले॥१४९॥
सदा प्रहृष्टया भाव्यंगृहकार्येषु दक्षया।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया॥१५०॥
यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत्॥१५१॥
मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः।
प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम्॥१५२॥
अनृतावृतुकाले चमन्त्रसंस्कारकृत्पतिः।
मुखस्य नित्यं दातेह परलोके च योषितः॥१५३॥
विशीलः कामवृत्तो वा गुणैर्वापरिवर्जितः।
उपचर्यः स्त्रिया साध्व्यासततं देववत्पतिः॥१५४॥
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्।
पतिंशुश्रूयते येन तेन स्वर्गे महीयते॥१५५॥
पाणिग्राहस्य साध्वी स्त्रीजीवतो वामृतस्य वा।
पतिलोकमभीप्सन्तीनाचरेत्किञ्चिदप्रियम्॥१५६॥
कामं तु क्षपयेद्देहंपुष्पमूलफलैःशुभैः।
न तु नामापि गृहीयात्पत्यौप्रेते परस्य तु॥१५७॥
आसीतामरणात्क्षान्तानियता ब्रह्मचारिणी।
यो धर्म एकपत्नीनां काङ्क्षन्तीतमनुत्तमम्॥१५८॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम्।
दिवंगतानि विप्राणामकृत्वा कुलसन्ततिम्॥१५९॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्येव्यवस्थिता।
स्वर्गं गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः॥१६०॥
अपत्यलोभाद्यातु स्त्री भर्तारमतिवर्तते।
सेहनिन्दामवाप्नोति पतिलोकाच्चहीयते॥१६१॥
नान्योत्पन्ना प्रजास्तीह न चान्यस्य परिग्रहे।
न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते॥१६२॥
पतिं हित्वापकृष्टं स्वमुत्कृष्टंया निषेवते।
निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते॥१६३॥
व्यभिचारात्तु भर्तुःस्त्री लोके प्राप्नोति निन्द्यताम्।
शृगालयोनिं प्राप्नोति पापरोगश्च पीड्यते॥१६४॥
पतिं या नाभिचरति मनोवाग्देहसंयता।
सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते॥१६५॥
अनेन नारीवृत्तेन मनोवाग्देहसंयता।
इहाग्र्यांकीर्तिमाप्नोति पतिलोकं परत्र च॥१६६॥
एवं वृत्तां सवर्णांस्त्रीं द्विजातिः पूर्वमारिणीम्।
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित्॥१६७॥
भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि।
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च॥१६८॥
अनेन विधिना नित्यं पंच यज्ञान्न हापयेत्।
द्विपीयमायुषो भागं कृतदारो गृहे वसेत्॥१६९॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां शौचविधिः
पञ्चमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-17256217846.PNG"/>
षष्ठोऽध्यायः।
अथादौ- वानप्रस्थवर्णनम्।
एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः।
वने वसेत्तु नियतो यथावद्विजितेन्द्रियः॥१॥
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः।
अपत्यस्यैवचापत्यं तदारण्यं समाश्रयेत्॥२॥
संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम्।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा॥३॥
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम्।
ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः॥४॥
मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा।
एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम्॥५॥
वसीत चर्म चीरं वासायं स्नायात्प्रगे तथा।
जटाश्चविभृयान्नित्यं श्मश्रुलोमनखानि च॥६॥
यद्भक्ष्यं स्यात्ततो दद्याद्वलिं भिक्षांच शक्तितः।
अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान्॥७॥
स्वाध्याये नित्ययुक्तः स्वाद्दान्तोमैत्रः समाहितः।
दाता नित्यमनादाता सर्वभूतानुकम्पकः॥८॥
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि।
दर्शमस्कन्दयन्पर्व पौर्णमासं च योगतः॥९॥
ऋक्षेष्टयाग्रयणं चैव चातुर्मास्यानि चाहरेत्।
तुरायणं च क्रमशो दाक्षस्यायनमेव च॥१०॥
वासन्तशारदैर्मध्यैर्मुन्यन्नैःस्वयमाहृतैः।
पुरोडाशांश्चरूश्चैव विधिवन्निर्वपेत्पृथक्॥११॥
देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः।
शेषमात्मनि भुञ्जीत लवणंच स्वयं कृतम्॥१२॥
स्थलजौदकशाकानि पुष्पमूलफलानि च।
मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान्॥१३॥
वर्जयेन्मधु मांसं च भौमानि कवकानि च।
भूस्तृणं शिग्र्युकं चैव श्लेष्मातकफलानि च॥१४॥
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम्।
जीर्णानि चैव वासांसि शाकमूलफलानि च॥१५॥
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित्।
न ग्रामजातान्यार्तोऽपि मूलानि (पुष्पाणि) च फलानि च॥१६॥
अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा।
अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा॥१७॥
सद्यःप्रक्षालको वा स्यान्माससंचयिकोऽपि वा।
षण्मासनिचयो वा स्यात्समानिचय एव वा॥१८॥
नक्तं चान्नंसमश्नीयाद्दिवा वाहृत्य शक्तितः।
चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः॥१९॥
चान्द्रायणविधानैर्वा शुक्लकृष्णे वर्तयेत्।
पक्षान्तयोर्वाप्यश्नीयाद्यवागूंक्वथितां सकृत्॥२०॥
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा।
कालपक्वैःस्वयं शीणैर्वैखानसमते स्थितः॥२१॥
भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्।
स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः॥२२
ग्रीष्मे पंचतपास्तु स्याद्वर्षास्वभ्रावकाशिकः।
आर्द्रवासास्तुहेमन्ते क्रमशो वर्धयंस्तपः॥२३॥
उपस्पृशं स्त्रिपवणं पितॄन्देवांश्च तर्पयेत्।
तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः॥२४॥
अग्नीनात्मनि वैतानान्समारोप्य यथाविधि।
अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः॥२५॥
अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः।
शरणेष्वममश्चैव वृक्षमूलनिकेतनः॥२६॥
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत्।
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु॥२७॥
ग्रामादाहृत्य वाऽश्नीयादष्टौग्रासान्वने वसन्।
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा॥२८॥
एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन्।
विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः॥२९॥
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः।
विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये॥३०॥
अपराजितां वाऽऽस्थाय व्रजेद्दिशमजिह्मगः।
आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः॥३१॥
आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम्।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते॥३२॥
वनेषु च विहृत्यैवं तृतीयं भागमायुषः।
चतुर्थमायुषो भागं त्यक्त्वा सङ्गान्परिव्रजेत्॥३३॥
आश्रमादाश्रमं गत्वाहुतहोमो जितेन्द्रियः।
भिक्षाबलिपरिश्रान्तः प्रव्रजन्प्रेत्य वर्धते॥३४॥
ऋणानि त्रीण्यपाकृत्य मनो मोक्षेनिवेशयेत्।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः॥३५॥
अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्यधर्मतः।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत्॥३६॥
अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान्।
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः॥३७॥
प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम्।
आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्॥३८॥
यो दवा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात्।
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः॥३९॥
यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम्।
तस्य देहाद्विमुक्तस्यभयं नास्ति कुतश्चन॥४०॥
आगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्॥४१॥
एक एव चरेन्नित्यंसिद्ध्यर्थमसहायवान्।
सिद्धिमेकस्य संपश्यन्न जहाति न हीयते॥४२॥
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत्।
उपेक्षकोऽसङ्कुसुको (सांचयिको) मुनिर्भावसमाहितः॥४३॥
कपालं वृक्षमूलानि कुचेलमसहायता।
समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम्॥४४॥
नाभिनन्देतमरणं नाभिनन्देत जीवितम्।
कालमेव प्रतीक्षेत निर्देशं भृतको यथा॥४५॥
दृष्टिपूतं न्यसेत्पादंवस्त्रपूतं जलं पिवेत्।
सस्यपूतां वदेद्वाचंमनःपूतं समाचरेत्॥४६॥
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन।
न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित्॥४७॥
क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टःकुशलं वदेत्।
सप्तद्वारावकीर्णां च न वाचमनृतांवदेत्॥४८॥
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः।
आत्मनैव सहायेन सुखार्थी विचरेदिह॥४९॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित्॥५०॥
न तापसैर्ब्राह्मणैर्वावयोभिरपि वा श्वभिः।
आकीर्णं भिक्षुकैर्वाऽन्यैरागारमुपसंव्रजेत्॥५१॥
क्लृप्तकेशनखश्मश्रुः पात्रीदण्डी कुसुम्भवान्।
विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन्॥५२॥
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च।
तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे॥५३॥
अलाबुं दारुपात्रंच मृण्मयंवैदलं तथा।
एतानि यतिपात्राणि मनुः स्वायम्भुवोऽव्रवीत्॥५४॥
एककालं चरेद्भैक्षं नप्रसज्जेत विस्तरे।
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति॥५५॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत्॥५६॥
अलाभे न विषादी स्याल्लाभेचैव न हर्षयेत्।
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः॥५७॥
अभिपूजितलाभांस्तुजुगुप्सेतैव सर्वशः।
अभिपूजितलाभैश्च यतिर्मुक्तोऽपि वध्यते॥५८॥
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च।
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत्॥५९॥
इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च।
अहिंसया च भूतानाममृतत्वाय कल्पते॥६०॥
अवेक्षेत गतीर्नृृणां कर्मदोषसमुद्भवाः।
निरये चैव पतनं यातनाश्च यमक्षये॥६१॥
विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियैः।
जरया चाभिभवनं व्याधिभिश्चोपपीडनम्॥६२॥
देहादुत्क्रमणं चास्मात्पुनर्गर्भे च सम्भवम्।
योनिकोटिसहस्रेषुसूतीश्चास्यान्तरात्मनः॥६३॥
अधर्मप्रभवं चैवदुःखयोगं शरीरिणाम्।
धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम्॥६४॥
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः।
देहेषु च समुत्पत्तिमुत्तमेष्वधमेषुच॥६५॥
भूषितोऽपि चरेद्धर्मंयत्र तत्राश्रमे रतः।
समः सर्वेषु भूतेषु न लिङ्गंधर्मकारणम्॥६६॥
फलं कनकवृत्तस्य यद्यप्यम्बुप्रसादकम्।
न नामग्रहणादेव तस्य वारि प्रसीदति॥६७॥
संरक्षणार्थं जन्तूनां रात्रावहनि वासदा।
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत्॥६८॥
अह्ना रात्र्याचयाञ्जन्तून्हिनस्त्यज्ञानतो यतिः।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत्॥६९॥
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः।
व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः॥७०॥
दह्यन्ते ध्यायमानानां धातूनां हि यथा मलाः।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात्॥७१॥
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्विषम्।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान्॥७२॥
उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः।
ध्यानयोगेन संपश्येद्गतिमस्यान्तरात्मनः॥७३॥
सम्यग्दर्शनसम्पन्नः कर्मभिर्न निवध्यते।
दर्शनेन विहीनस्तु संसारं प्रतिपद्यते॥७४॥
अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः।
तपश्चरणैश्चोग्नैःसाधयन्तीह तत्पदम्॥७५॥
अस्थिस्थूणंस्नायुयुतं मांसशोणितलेपनम्।
चर्मावनद्धंदुर्गन्धि पूर्णं मूत्रपुरीषयोः॥७६॥
जराशोकसमाविष्टं रोगायतनमातुरम्।
रजस्वलमनित्यं च भूतावासमिमं त्यजेत्॥७७॥
नदीकूलं यथा वृक्षो वृक्ष वा शकुनिर्यथा।
तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते॥७८॥
प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम्।
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम्॥७९॥
यदा भावेन भवति सर्वभावेषु निष्पृहः।
तदासुखमवाप्नोति प्रेत्य चेह च शाश्वतम्॥८०॥
अनेन विधिना सर्वास्त्यक्त्वा सङ्गाञ्छनैःशनैः।
सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते॥८१॥
ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम्।
न ह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुते॥८२॥
अधियज्ञं ब्रह्मजपेदाधिदैविकमेव च।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत्॥८३॥
इदं शरणमज्ञानामिदमेव विजानताम्।
इदमन्विच्छतां स्वर्गमिदमानन्त्यामिच्छताम्॥८४॥
अनेन क्रमयोगेन परिव्रजति यो द्विजः।
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति॥८५॥
एष धर्मोऽनुशिष्टो वोयतीनां नियतात्मनाम्।
वेदसंन्यासिकानां तु कर्मयोगं निवोधत॥८६॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थोयतिस्तथा।
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः॥८७॥
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः।
यथोक्तकारिणं विप्रंनयन्ति परमां गतिम्॥८८॥
सर्वेषामपि चैतेषां वेदस्म़ति(श्रुति)विधानतः।
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्विभर्तिहि॥८९॥
यथा नदीनदाःसर्वे सागरे यान्ति संस्थितिम्।
तथैवाश्रमिणः सर्वेगृहस्थेयान्तिसंस्थितिम्॥९०॥
चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः।
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः॥९१॥
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥९२॥
दश लक्षणानि धर्मस्य ये विप्राः समधीयते।
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम्॥९३॥
दशलक्षणकं धर्ममनुतिष्ठन्समाहितः।
वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः॥९४॥
संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन्।
नियतो वेदमभ्यस्य पुत्रैश्वर्ये मुखं वसेत्॥९५॥
एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः।
संन्यासेनापहृत्यैनः प्राप्नोति परमां गतिम्॥९६॥
एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः।
पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधतः॥९७॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां पष्ठोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1728840061Screenshot(84"/>.png)
सप्तमोऽध्यायः।
अथादौ–राज्यशासनधर्मवर्णनम्।
राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः।
सम्भबश्च यथा तस्य सिद्धिश्च परमा यथा॥१॥
ब्राह्मं प्राप्तेन संस्कारं क्षत्त्रियेण यथाविधि।
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम्॥२॥
अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात्।
रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः॥३॥
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः॥४॥
यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः।
तस्मादभिभवत्येषसर्वभूतानि तेजसा॥५॥
तपत्यादित्यवच्चैषचक्षुंषिच मनांसि च।
न चैनं भुबिशक्नोति कश्चिदप्यभिवीक्षितुम्॥६॥
सोऽग्निर्भवति वायुश्चसोऽर्कः सोमः स धर्मराट्।
स कुवेरः स वरुणः स महेन्द्रः प्रभावतः॥७॥
वालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषानररूपेण तिष्ठति॥८॥
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम्।
कुलं दहति राजाग्निःसपशुद्रव्यसंचयम्॥९॥
कार्यं सोऽवेक्ष्य शक्तिञ्चदेशकालौच तत्त्वतः।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः॥१०॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः।
दण्डस्य हि भयात्सर्वंजगद्भोगाय कल्पते॥२२॥
देवदानवगन्धर्वा रक्षांसि पतगोरगाः।
तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः॥२३॥
दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात्॥२४॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति॥२५॥
तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम्।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्॥२६॥
तं राजा प्रणयन्सम्यक् त्रिवर्गेणाभिवर्धते।
कामात्मा (कामान्धो) विषमः क्षुद्रो दण्डेनैव निहन्यते॥२७॥
दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम्॥२८॥
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम्।
अन्तरिक्षगतांश्चैव मुनीन्देवांश्चपीडयेत्॥२९॥
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना।
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च॥३०॥
शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा।
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता॥३१॥
स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्चशत्रुषु।
सुहृत्स्वजिह्मःस्निग्धेषु ब्राह्मणेषु क्षमान्वितः॥३२॥
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम्।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः॥४४॥
दश कामसमुत्थानि तथाऽष्टौक्रोधजानि च।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत्॥४५॥
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः।
वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु॥४६॥
मृगयाऽक्षोदिवास्वप्नःपरिवादः स्त्रियो मदः।
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः॥४७॥
पैशुन्यं साहसं द्रोह इर्ष्याऽसूयाऽर्थ दूषणम्।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः॥४८॥
द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः।
तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ॥४९॥
पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम्।
एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे॥५०॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे।
क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा॥५१॥
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः।
पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान्॥५२॥
व्यसनस्य च मृत्योश्चव्यसनं कष्टमुच्यते।
व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः॥५३॥
मौलाञ्छास्त्रविदः शूरांल्लब्धलक्षान्कुलोद्गतान्।
सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान्॥५४॥
दूत एव हि सन्धत्तेभिनत्त्येव च संहतान्।
दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवाः॥६६॥
स विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः।
आकारमिङ्गितं चेष्टांभृत्येषु च चिकीर्षितम्॥६७॥
बुध्वा च सर्वं तत्वेन परराजचिकीर्षितम्।
तथा प्रयत्नमातिष्ठेद्यथाऽऽत्मानं न पीडयेत्॥६८॥
जाङ्गलं सत्यसम्पन्नमार्यप्रायमनाविलम्।
रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत्॥६९॥
धन्वदुर्गंमहीदुर्गमब्दुर्गं वार्क्षमेव वा।
नृदुर्गं गिरिदुर्गंवा समाश्रित्य वसेत्पुरम्॥७०॥
सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत्।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते॥७१॥
त्रीण्याद्यान्याश्रितास्तेषां मृगगर्ताश्रयाप्सराः।
त्रीण्युत्तराणि क्रमशः पुवङ्गमनरामराः॥७२॥
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः।
तथाऽरयो न हिंसन्ति नृपं दुर्गसमाश्रितम्॥७३॥
एकः शतं योधयति प्रकारस्थो धनुर्धरः।
शतं दशसहस्राणि तस्माद्दुर्गं विधीयते॥७४॥
तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः।
ब्राह्मणैःशिल्पिभिर्यन्त्रैर्यवसेनोदकेन च॥७५॥
तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः।
गुप्तं सर्वर्तुकं शुभ्रं जलवृक्ष समन्वितम्॥७६॥
संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम्।
शुश्रूषाब्राह्मणानां च राज्ञां श्रेयस्करं परम्॥८८॥
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः।
युध्यमानाः परं शक्त्यास्वर्गं यान्त्यपराङ्मुखाः॥८९॥
न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून्।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः॥९०॥
न च हन्यात्स्थलारूढं न क्लीवं न कृताञ्जलिम्।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम्॥९१॥
न सुप्तं नविसन्नाहं न नग्नं न निरायुधम्।
नायुध्यमानं पश्यन्तं न परेण समागतम्॥९२॥
नायुधव्यसनप्राप्तं नार्तंनातिपरिक्षतम्।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन्॥९३॥
यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः।
भर्तुर्यद्दुष्कृतं किंचित्तत्सर्वंप्रतिपद्यते॥९४॥
यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम्।
भर्ता तत्सर्वमादत्तेपरावृत्तहतस्य तु॥९५॥
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्स्त्रियः।
सर्वद्रव्याणि कुप्यंच यो यज्जयति तस्य तत्॥९६॥
राज्ञश्च दद्यु रुद्धारमित्येषा वैदकी श्रुतिः।
राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम्॥९७॥
एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः।
अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन्रणे रिपून्॥९८॥
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति।
तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः॥११०॥
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया।
सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः॥१११॥
शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा।
तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्॥११२॥
राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत्।
सुसंगृहीतराष्ट्रो हि पार्थिवः सुखमेधते॥११३॥
द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम्।
तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम्॥११४॥
ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा।
विंशतीशं शतेशं च सहस्रपतिमेव च॥११५॥
ग्रामदोषान्समुत्पन्नान्ग्रामिकः शनकैः स्वयम्।
शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने॥११६॥
विंशतीशस्तु तत्सर्वंशतेशाय निवेदयेत्।
शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम्॥११७॥
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः।
अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात्॥११८॥
दशी कुलं तु भुञ्जीत विंशी पञ्चकुलानि च।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम्॥११९॥
तेषांग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि।
राज्ञोऽन्यःसचिवः स्निग्धस्तानिपश्येदतन्द्रितः॥१२०॥
पत्रशाकतृणानां च वैदलस्य च चर्मणाम्।
मृण्मयानां च भाण्डानां सर्वस्याश्ममयस्यच॥१३२॥
म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम्।
न च क्षुधाऽस्य संसीदेच्छ्रोत्रियो विषये वसन्॥१३३॥
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा।
तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति॥१३४॥
श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत्।
संरक्षेत्सर्वतश्चैनं पितापुत्रमिवौरसम्॥१३५॥
संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम्।
तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च॥१३६॥
यत्किंदपि वर्षस्य दापयेत्करसंज्ञितम्।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम्॥१३७॥
कारुकाञ्छिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः।
एकैकं कारयेत्कर्म मासि मासि महीपतिः॥१३८॥
नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया।
उच्छिन्दन्ह्यात्मनो मूलमात्मानं तांश्चपीडयेत्॥१३९॥
तीक्ष्णश्चैवमृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः।
तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः॥१४०॥
अमात्यमुख्यं धर्मज्ञंप्राज्ञंदान्तं कुलोद्गतम्।
स्थापयेदासने तस्मिन्खिन्नः कार्येक्षणे नृणाम्॥१४१॥
एवं सर्वं विधायेदमितिकर्तव्यमात्मनः।
युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः॥१४२॥
विक्रोशन्त्यो यस्य राष्ट्राद्ध्रियन्ते दस्युभिः प्रजाः।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति॥१४३॥
क्षत्रियस्य परो धर्मः प्रजानामेव पालनम्।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते॥१४४॥
उत्थाय पश्चिमे यामे कृतशौचः समाहितः।
हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्स शुभां सभाम्॥१४५॥
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत्।
विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः॥१४६॥
गिरिपृष्ठंसमारुह्यप्रासादं वा रहोगतः।
अरण्ये निःशलाके वा मन्त्रयेदविभावितः॥१४७॥
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः।
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः॥१४८॥
जडमूकान्धवधिरांस्तैर्यग्योनान्वयोतिगान्।
स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत्॥१४९॥
भिन्दन्त्यवमतामन्त्रं तैर्यग्योनास्तथैव च।
स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत्॥१५०॥
मध्यन्दिनेऽर्धरात्रे या विश्रान्तो विगतक्लमः।
चिन्तयेद्धर्मकामार्थान्साधं तैरेक एव वा॥१५१॥
परस्परविरुद्धानां तेषां च समुपार्जनम्।
कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम्॥१५२॥
दूतसम्प्रेषणं चैव कार्यशेषं तथैव च।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम्॥१५३॥
कृत्स्नंचाष्टविधंकर्मपञ्चवर्गं च तत्त्वतः।
अनुरागापरागौ च प्रचारं मण्डलस्य च॥१५४॥
मध्यमस्यप्रचारं च विजिगीषोश्चचेष्टितम्।
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः॥१५५॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः॥१५६॥
अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः।
प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः॥१५७॥
अनन्तरमरिं विद्यादरिसेविनमेव च।
अरेरनन्तरं मित्रमुदासीनं तयोः परम्॥१५८॥
तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः।
व्यस्तैश्चैवसमस्तैश्च पौरुषेण नयेन च॥१५९॥
संधिं च विग्रहं चैव यानमासनमेव च।
द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा॥१६०॥
आसनं चैव यानं च सन्धिं विग्रहमेव च।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधंसंश्रयमेव च॥१६१॥
संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च।
उभे यानासने चैव द्विविधः संश्रयः स्मृतः॥१६२॥
समानयानकर्मा चविपरीतस्तथैव च।
तदा त्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः॥१६३॥
स्वयंकृतश्च कार्यार्थमकाले काल एव वा।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः॥१६४॥
एकाकिनश्चात्ययिकेकार्ये प्राप्ते यदृच्छया।
संहतस्य च मित्रेण द्विविधं यानमुच्यते॥१६५॥
क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा।
मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम्॥१६६॥
वलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये।
द्विविधं कीर्त्यते द्वैधंषाड्गुण्यगुणवेदिभिः॥१६७॥
अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः।
साधुषु व्यपदेशार्थं द्विविधःसंश्रयः स्मृतः॥१६८॥
यदावगच्छेदायत्यामाधिक्यंध्रुवमात्मनः।
तदात्वेचाल्पिकांपीडां तदा सन्धिं समाश्रयेत्॥१६९॥
यदा प्रहृष्टा मन्येत सर्वांस्तु प्रकृतीर्भृशम्।
अत्युच्छ्रितं तथाऽऽत्मानं तदा कुर्वीत विग्रहम्॥१७०॥
यदा मन्येत भावेन हृष्टंपुष्टंबलं स्वकम्।
परस्य विपरीतं च तदा यायाद्रिपुं प्रति॥१७१॥
यदा तु स्यात्परिक्षीणो वाहनेन वलेन च।
तदाऽऽसीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्॥१७२॥
मन्येतारिं यदा राजा सर्वथा वलवत्तरम्।
तदा द्विधा वलं कृत्वासाधयेत्कार्यमात्मनः॥१७३॥
यदा परबलानां तु गमनीयतमो भवेत्।
तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम्॥१७४॥
निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च।
उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा॥१७५॥
यदि तत्रापि सम्पश्येद्दोषंसंश्रयकारितम्।
सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत्॥१७६॥
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः।
यथाऽस्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः॥१७७॥
आयतिं सर्वकार्याणां तदात्वं च विचारयेत्।
अतीतानां च सर्वेषां गुणदोषौ च तत्वतः॥१७८॥
आयत्यांगुणदोषज्ञस्तदात्वेक्षिप्रनिश्चयः।
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते॥१७९॥
यथैनं नाभिसन्दध्युर्मित्रोदासीनशत्रवः।
तथा सर्वंसंविदध्यादेषसामासिको नयः॥१८०॥
यदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः।
तदाऽनेन विधानेन यायादरिपुरं शनैः॥१८१॥
मार्गशीर्षे शुभे मासि यायाद्यात्रांमहीपतिः।
फाल्गुनं वाऽथ चैत्रं वा मासौ प्रति यथाबलम्॥१८२॥
अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवंजयम्।
तदा यायाद्विगृह्यैवव्यसने चोत्थिते रिपोः॥१८३॥
कृत्वाविधानं मृले तु यात्रिकं च यथाविधि।
उपगृह्यास्पदं चैवचारान्सम्यग्बिधाय च॥१८४॥
संशोध्य त्रिविधं मार्गंषड्विधं च बलं स्वकम्।
साम्परायिककल्पेन यायादरिपुरं शनैः॥१८५॥
शत्रुसेविनि मित्रे च गूढेयुक्ततरो भवेत्।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः॥१८६॥
दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा॥१८७॥
यतश्च भयमाशङ्केत्ततो विस्तारयेद्वलम्।
पद्मेन चैव व्यूहेन निवेशेत सदा स्वयम्॥१८८॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत्।
यतश्च भयमाशङ्केत्प्राची तां कल्पयेद्दिशम्॥१८९॥
गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समन्ततः।
स्थाने युद्धे च कुशलानभीरूनविकारिणः॥१९०॥
संहतान्योधयेदल्पान्कामं विस्तारयेद्वहून्।
सूच्या वज्रेण चैवैतान्व्यूहेन व्यूह्ययोधयेत्॥१९१॥
स्यन्दनाश्वैः समे युद्ध्येदनूपे नौ द्विषैस्तथा।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले॥१९२॥
कौरूक्षेत्रांश्च मत्स्यांश्च पञ्चालाञ्छूरसेनजान्।
दीर्घाल्लँघुश्चैवनरानग्रानीकेषु योजयेत्॥१९३॥
प्रहर्षयेद्वलं व्यूह्य तांश्च सम्यक्परीक्षयेत्।
चेष्टाश्चैव विजानीयादरीन्योधयतामपि॥१९४॥
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत्।
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्॥१९५॥
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा।
समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा॥१९६॥
उपजप्यानुपजपेद्वुध्येतैव च तत्कृतम्।
युक्तेच दैवे युध्येत जयप्रेप्सुरपेतभीः॥१९७॥
साम्नादानेन भेदेन समस्तैरथवा पृथक्।
विजेतुं प्रयतेतारिं न युद्धेन कदाचन॥१९८॥
अनित्योविजयो यस्माद्दृश्यते युध्यमानयोः।
पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत्॥१९९॥
त्रयाणामप्युपायानां पूर्वोक्तानामसम्भवे।
तथा युध्येत संपन्नो विजयेतरिपून्यथा॥२००॥
जित्यासम्पूजयेद्देवान्ब्राह्मणांश्चैव धार्मिकान्।
प्रदद्यापरिहारार्थंख्यापयेदभयानि च॥२०१॥
सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम्।
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम्॥२०२॥
प्रमाणानि च कुर्वीत तेषां धर्म्यान्यथोदितान्।
रत्नैश्च पूजयेदेनं प्रधानपुरुषैःसह॥२०३॥
आदानमप्रियकरं दानं च प्रियकारकम्।
अभीप्सितानामर्थानां कालेयुक्तं प्रशस्यते॥२०४॥
सर्वं कर्मेदमायत्तंविधाने दैवमानुषे।
तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया॥२०५॥
सह वाऽपि व्रजेद्युक्तः सन्धिं कृत्वा प्रयत्नतः।
मित्रं हिरण्यं भूमिं वासम्पश्यंस्त्रिविधं फलम्॥२०६॥
पार्ष्णिग्राहं च संप्रेक्ष्य तथाऽऽक्रन्दं च मण्डले।
मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात्॥२०७॥
हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते।
यथा मित्रं ध्रुवं लब्ध्वाकृशमप्यायतिक्षमम्॥२०८॥
धर्मज्ञंच कृतज्ञं च तुष्टप्रकृतिमेव च।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते॥२०९॥
प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च।
कृतज्ञंधृतिमन्तं च कष्टमाहुररिं बुधाः॥२१०॥
आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता।
स्थौललक्ष्यं च सततमुदासीनगुणोदयः॥२११॥
क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि।
परित्यजेन्नृप भूमिमात्मार्थमविचारयन्॥२१२॥
आपदर्थंधनं रक्षेद्दारान्रक्षेद्धनैरपि।
आत्मनं सततं रक्षेद्दारैरपि धनैरपि॥२१३॥
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम्।
संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बुधः॥२१४॥
उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः।
एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये॥२१५॥
एवं सर्वमिदं राजा सह संमन्त्र्य मन्त्रिभिः।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत्॥२१६॥
तत्रात्मभूतैःकालज्ञैरहार्यैः परिचारकैः।
सुपरीक्षितमन्नाद्यमद्यान्मत्रैर्बिषापहैः॥२१७॥
विषघ्नै (रुदकै) रगदैश्चास्य सर्वद्रव्याणि (शोधयेत्) योजयेत्।
विषघ्नानिच रत्नानि नियतो धारयेत्सदा॥२१८॥
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः।
वेषाभरणसंशुद्धः स्पृशेयुःसुसमाहिताः॥२१९॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशने।
स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च॥२२०॥
मुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह।
विहृत्य तु यथाकालंपुनः कार्याणि चिन्तयेत्॥२२१॥
अलङ्कृतश्च संपश्येदायुधीयं पुनर्जनम्।
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च॥२२२॥
सन्ध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत्।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम्॥२२३॥
गत्वाकक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम्।
प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः॥२२४॥
तत्र भुत्वा पुनः किंचित्तूर्यघोषैःप्रहर्षितः।
संविशेत्तु यथाकालमुत्तिष्ठेच्चगतक्लमः॥२२५॥
एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः।
अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् \।\।२२६॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायांमनुस्मृत्यां
राज्यशासनधर्मवर्णननाम सप्तमोऽध्यायः॥७
————
अष्टमोऽध्यायः
राजधर्मदण्डविधानवर्णनम्
व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिव।
मन्त्रज्ञौर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम्॥१
तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम्।
विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम्॥२
प्रत्यहं देशदृष्टैशचशास्त्रदृष्टैश्च हेतुभि।
अष्टादशसु मार्गेषु निवद्धानि पृथक् पृथक्॥३
तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः।
सम्भूय च समुत्थानं दत्तस्यानपकर्म च॥४
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः।
क्रयविक्रयानुशयो विवादः स्वामिपालयो॥५
सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके।
स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च॥६
स्त्रीपुंधर्मो विभागश्च द्युतमाह्वय एव च।
पदान्यष्टादशैतानि व्यवहारस्थिताविह॥७
एपु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम्।
धर्मं शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम्॥८
यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम्।
तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने॥९
सोऽस्यकार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः।
सभामेव प्रविश्याग्र्यामासीन स्थित एव वा॥१०
यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः।
राज्ञश्चाधिकृतोविद्वान्ब्राह्मणस्तांसभां विदुः॥११
धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते।
शल्यं चास्य न कृन्तन्ति विद्धास्तत्रसभासदः॥१२
सभांवा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम्।
अब्रुवन्विब्रुवन्वाऽपिनरो भवति किल्विषी॥१३
यत्रधर्मो ह्यधर्मेण सत्यं यत्रानृतेन च।
हन्यते प्रेक्षमाणाना हतास्तत्रसभासदः॥१४
धर्म एव हतो हन्ति धर्मोरक्षति रक्षितः।
तस्माद्धर्मोन हन्तव्यो मां नो धर्मो हतोऽबधीत्॥१५
वृषो हि भगवान्धर्मस्तस्य यः कुरुते ह्यलम्।
वृषलं तं विदुर्देवास्तस्माद्धर्मंन लोपयेत्॥१६
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति॥१७
पादोधर्मस्य कर्तारं पादःसाक्षिणमृच्छति।
पादःसभासदः सर्वान्पादो राजानमृच्छति॥१८
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः।
एनो गच्छति कर्तारं निन्दार्होयत्र निन्द्यते॥१९
जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः।
धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथंचन॥२०
यस्य शूद्रस्तु कुरुते राज्ञोधर्मविवेचनम्।
तस्य सीदति तद्राष्ट्रंपङ्के गौरिव पश्यतः॥२१
यद्राष्ट्रं शूद्रभूयिष्टं नास्तिकाक्रान्तमद्विजम्।
विनश्यत्याशु तत्कृत्स्नंदुर्भिक्षव्याधिपीडितम्॥२२
धर्मासनमधिष्ठाय संवीताङ्गः समाहितः।
प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्॥२३
अर्थानर्थाबुभौबुद्ध्वा धर्माधर्मौ च केवलौ।
वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम्॥२४
वार्ह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतंनृणाम्।
स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च॥२५
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च।
नेत्रवक्त्रविकारैश्चगृह्यतेऽन्तर्गतं मनः॥२६
बालदायादिकं रिक्थं तावद्राजानुपालयेत्।
यावत्स स्यात्समावृत्तो यावद्वाऽतीतशैशवः॥२७
वशाऽपुत्रासुचैवं स्याद्रक्षणं निष्कुलासु च।
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च॥२८
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः।
ताञ्छिष्याच्चौरदण्डेनधार्मिकः पृथिवीपतिः॥२९
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत्।
अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत्॥३०
ममेदमिति यो ब्रुयात्सोऽनुयोज्यो यथाविधि।
संवाद्य रूपसंख्यादीन्स्वामी तद्द्रव्यमर्हति॥३१
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः।
वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति॥३२
आददीताथ षड्भागं प्रणष्टाधिगतान्नृपः।
दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन्॥३३
प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम्।
यास्तत्रचौरान्गृह्णीयात्तान्राजेभेन घातयेत्॥३४
ममायमिति यो ब्रूयान्निधिं सत्येन मानवः।
तस्याददीत पड्भागं राजा द्वादशमेववा॥३५
अनृतं तु वदन्दण्ड्यःस्ववित्तस्यांशमष्टमम्।
तस्यैव वा निधानस्य संख्यायाल्पीयसीं कलाम्॥२६
विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम्।
अरोषतोऽप्याददीत सर्वस्याधिपतिर्हि सः॥३७
यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ।
तस्माद्विजेभ्यो दत्त्वाऽर्धमर्धंकोशे प्रवेशयेत्॥३८
निधीनातु पुराणानां धातूनामेव च क्षितौ।
अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः॥३९
दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम्।
राजा तदुपयुञ्जानश्चौरस्याप्नोतिकिल्विषम्॥४०
जातिजानप्रदान्धर्मान्छ्रेणीधर्मांश्च धर्मवित्।
समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत्॥४१
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः।
प्रिया भवन्ति लोकस्य स्वेस्वेकर्मण्यवस्थिताः॥४२
नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पुरुषः।
न च प्रापितमन्येन ग्रसेतार्थं कथंचन॥४३
यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम्।
नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम्॥४४
सत्यमर्थंच संपश्येदात्मानमथ साक्षिणम्।
देशं रूपं च कालं च व्यवहारविधौ स्थितः॥४५
सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः।
तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत्॥४६
अधमर्णार्थसिध्यर्थमुत्तमर्णेन चोदितः।
दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम्॥४७
यैर्यैरुपायैर्थं स्वंप्राप्नुयादुत्तमर्णिकः।
तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम्॥४८
धर्मेण व्यवहारेण छलेनाचरितेन च।
प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च॥४९
यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात्।
न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन्धनम्॥५०
अर्थेऽपव्ययमानं तु कारणेन विभावितम्।
दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः॥५१
अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि।
अभियोक्ता दिशेद्देशं कारणं वाऽन्यदुद्दिशेत्॥५२
अदेशं यश्च दिशति निर्दिश्यापह्नुते च यः।
यश्चाधरोत्तरानर्थान्विगीतान्नावबुध्यते॥१३
अपदिश्यापदेशं च पुनर्यस्त्वपधावति।
सम्यक्प्रणिहितं चार्थं पृष्ठः सन्नाभिनन्दति॥५४
असंभाष्येसाक्षिभिश्च देशे संभाषते मिथः।
निरुच्यमानं प्रश्नं नेच्छेद्यश्चापिनिष्पतेत्॥५५
ब्रुहीत्युक्तश्च न ब्रुयादुक्तं च न विभावयेत्।
न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते॥५६
साक्षिणः (ज्ञातारः) सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः।
धर्मस्थकारणैरेतैर्हीनं तमिति निर्दिशेत्॥५७
अभियोक्ता न चेद्ब्रूयाद्वन्ध्योदण्ड्यश्च धर्मतः।
न चेत्विपक्षात्प्रब्रुयाद्धर्मं
प्रति पराजितः॥५८
यो यावन्निह्नुवीतार्थं मिथ्यायावति वा वदेत्।
तौ नृपेण ह्यधर्मज्ञौदाप्यो सद्विगुणं दमम्॥५९
पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा।
त्र्यवरैःसाक्षिभिर्भाव्यो नृपब्राह्मणसन्निधौ॥६०
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः।
तादृशान्सम्प्रवक्ष्यामि यथा वाच्यमृतं च तैः॥६१
गृहिणः पुत्रिणो मौलाःक्षत्त्रविट्शूद्रयोनयः।
अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये केचिदनापदि॥६२
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः।
सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत्॥६३
नार्थसम्बन्धिनो नाप्तासहाया न वैरिणः।
न दृष्टदोषाः कर्तव्या न व्याध्यार्त न दूषिताः॥६४
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गभ्यो विनिर्गतः॥६५
नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत्।
न वृद्धो न शिशुर्नैको नान्त्योन विकलेन्द्रियः॥६६
नार्तो न मत्तोनोन्मत्तो न क्षुत्तृष्णोपपीडितः।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः॥६७
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः।
शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः॥६८
अनुभावीतु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम्।
अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये॥६९
स्त्रियाऽप्यसम्भवे कार्यं बालेन स्थविरेण वा।
शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा॥७०
बालबृद्धातुराणां च साक्ष्येषु वदतां मृषा।
जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा॥७१
साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च।
वाग्दण्डयोश्चपारुष्ये न परीक्षेत साक्षिणः॥७२
बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः।
समेषु तु गुणोत्कृष्टान्गुणिद्वैधेद्विजोत्तमान्॥७३
समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति।
तत्रसत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते॥७४
साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि।
अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्चहीयते॥७५
यत्रानिबद्धोऽपीक्षेत शृणुयाद्वाऽपि किंचन।
पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टंयथाश्रुतम्॥७६
एको लुब्धस्त्वासाक्षी स्याद्वह्व्यः शुच्योऽपि न स्त्रियः।
स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः॥७७
स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम्।
अतो यदन्यद्विब्रुयुर्धर्मार्थंतदपार्थकम्॥७८
समान्तः साक्षिणःप्राप्तानर्थिप्रत्यर्थिसन्निधौ।
प्राड्विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन्॥७९
यद्वयोरनयोर्वेत्थ कार्येऽस्मिञ्चेष्टितं मिथेः।
तद्ब्रुत सर्वं मत्येन युष्माकं ह्यत्र साक्षिता॥८०
सत्यं साक्ष्ये ब्रुवन्साक्षी लोकानाप्नोत्य (पुष्कलान्) निन्दितान्।
इह चानुत्तमां कीर्त्तिं वागेषा ब्रह्मपूजितां॥८१
साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम्।
विवराः शतमाजातीस्तस्मात्साक्ष्यं वदेदृतम्॥८२
सत्येन पूयते साक्षी धर्मः सत्येन बर्द्धते।
तस्मात्सत्यं हि वकत्र्यं सर्ववर्णेषु साक्षिभिः॥८३
आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽऽत्मनः।
माऽवमंस्थाः समात्मानं नृणां साक्षिममुत्तमम्॥८४
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः।
तास्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः॥८५
द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः।
रात्रिः सन्ध्ये च धर्मध वृत्तज्ञाः सर्वदेहिनाम्॥८६
देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान्।
उदङ्मुखान्प्राङ्मुखान्वापूर्वाह्णेवै शुचिः शुचीन्॥८७
ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रुहीति पार्थिवम्
गोवीजकांचर्नैवश्यं शूद्रं सर्वैस्तु पातकैः॥८८
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः।
मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा॥८९
जन्मप्रभृति यत्किंचित्पुण्यं भद्र त्वया कृतम्।
तत्ते सर्वं शुनो गच्छेद्यदि ब्रुयास्त्वमन्यथा॥९०
एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे।
नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः॥९१
यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः।
तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः॥९२
नग्नोमुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः।
अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत्॥९३
अवाक्शिरास्तमस्यन्धेकिल्विषीनरकं व्रजेत्।
यः प्रश्नं वितथं ब्रूयात्पृष्ठःसन्धर्मनिश्चये॥९४
अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैःसह।
यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः॥९५
यस्य विद्वान्हि वदतःक्षेत्रज्ञो नातिशङ्कते।
तस्मिन्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः॥९६
यावतो बान्धन्यस्मिन्हन्ति साक्ष्येऽनृतं वदन्।
तायतः सङ्ख्ययातस्मिन् शृणु सौम्यानुपूर्वशः॥९७
पंच पञ्चनृते हन्ति दश हन्ति गवानृपे।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते॥९८
हन्ति जातानजातांश्चहिरण्यार्थेऽनृतं वदन्।
सर्वं भूम्यनृते हन्ति मास्म भूम्यनृतं वदीः॥९९
अप्सु भूमिवदित्याहुःस्त्रीणां भोगे च मैथुने।
अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषुच॥१००
एतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे।
यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद॥१०१
गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान्।
प्रैष्यान्वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत्॥१०२
तद्वदन्धर्मतोऽर्थेषु जानन्नप्यन्यथा नरः।
न स्वर्गाच्च्यवते लोकाद्दैवीं वाचं वदन्ति ताम्॥१०३
शूद्रबिट्क्षत्रविप्राणां यत्रर्तोक्तौभवेद्वधः।
तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते॥१०४
वाग्दैवत्यैश्चचरुभिर्यजेरंस्ते सरस्वतीम्।
अनृतस्यैनसस्तस्य कुर्वाणानिष्कृतिं पराम्॥१०५
कुष्माण्डैर्वाऽपि जुहुयाद्धृतमग्नौ यथाविधि।
उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा॥१०६
त्रिपक्षादब्रुवन्साक्ष्यमृणादिषु नरोऽगदः।
तद्दणं प्राप्नुयात्सर्वंदशबंधंच सर्वतः॥१०७
यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः।
रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः॥१०८
असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः।
नविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत्॥१०९
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः।
वशिष्ठश्चापि शपथं शेपे पैजयने नृपे॥११०
न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः।
वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति॥१११
कामिनीषु विवादेषु गवां भक्ष्ये तथेन्धने।
ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्॥११२
सत्येनशापयेद्विप्रं क्षत्रियं वाहनायुधैः।
गोबीजकांचनैवैश्यं शूद्रं सर्वैस्तुपातकैः॥११३
अग्निंवाऽऽहारयेदेनमप्सु चैनं निमज्जयेत्।
पुत्रदारस्य वाऽप्येनं शिरांसि स्पर्शयेत्पृथक्॥११४
यमिद्धो न दहृत्यग्निरापो नोन्मज्जयन्ति च।
न चार्त्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः॥११५
वत्सस्य ह्यभिशस्तस्य पुरा भ्राता यवीयसा।
नाग्निर्ददाहरोमापि सत्येन जगतः स्पृशः॥११६
यस्मिन्यस्मिन्यिवादे तु कौटसाक्ष्यं कृतं भवेत्।
तत्तत्कार्यं निवर्त्तत कृतं चाप्यकृतं भवेत्॥११७
लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च।
अज्ञानादूूबालभावाच्च साक्ष्यं वितथमुच्यते॥११८
एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत्।
तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः॥११९
लोभात्सहस्रं दण्ड्यस्तुमोहात्पूर्वंतु साहसम्।
भयाद्द्वौमध्यमो दण्ड्यौ मैत्रात्पूर्वंचतुर्गुणम्॥१२०
कामाद्दशगुणंपूर्वं क्रोधात्तु त्रिगुणं परम्।
अज्ञानाद्द्वेशते पूर्णे बालिश्याच्छतमेव तु॥१२१
एतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः।
धर्मस्याव्यभिचारार्थमधर्मनियमाय च॥१२२
कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः।
प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत्॥१२३
दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत्।
त्रिषुवर्णेषु यानि स्युरक्षतो ब्राह्मणो ब्रजेत्॥१२४
उपस्थमुदरं जिह्वाहस्तौ पादौ च पंचमम्।
चक्षुर्नासाच कर्णौ च धनं देहस्तथैव च॥१२५
अनुवन्धं परिज्ञाय देशकालौ च तत्वतः।
सारापराधौचालोक्य दण्डं दण्ड्येषु पातयेत्॥१२६
अधर्मदण्डनं लोके यशोघ्नं कीर्त्तिनाशनम्।
अस्वर्ग्यंच परत्रापि तस्मात्तत्परिवर्जयेत्॥१२७
अदण्ड्यान्दण्डयनाजा दण्ड्याश्चैवाप्यदण्डयन्।
अयशो महदाप्नोति नरकं चैव गच्छति॥१२८
वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम्।
तृतीयं धनदण्डं तु बधदण्डमतस्परम्॥१२९
बधेनापि यदा त्वातान्निग्रहीतुं न शक्नुयात्।
तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम्॥१३०
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्यामशेषतः॥१३१
जालान्तरगते भानौयत्सूक्ष्मं दृश्यते रजः।
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते॥१३२
त्रसरेणवोऽष्टौविज्ञेया लिक्षैका परिमाणतः।
ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः॥१३३
सर्षपाःषट्यवो मध्यस्त्रियवं स्वेककृष्णलम्।
पञ्चकृष्णलिको माषस्ते सुवर्णस्तु षोडश॥१३४
पलं सुवर्णाश्चत्वारः पलानि धरणं दश।
द्वे कृष्णले समधुते विज्ञेयो रौप्यमाषकः॥१३५
ते षोडश स्याद्धरणं पुराणश्चैव राजतः।
कार्षापणस्तुविज्ञेयस्ताम्रिकः कार्षिकः पणः॥१३६
धरणानि दश ज्ञेयः शतमानस्तु राजतः।
चतुःसौवर्णको निष्को विज्ञेयस्तु प्रमाणतः॥१३७
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः।
मध्यमः पंच विज्ञेयः सहस्रंत्वेव चोत्तमः॥१३८
ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति।
अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्॥१३९
वसिष्टविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम्।
अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते॥१४०
द्विकं शतं वर गृहीयात्सतां धर्ममनुस्मरन्।
द्विकं शतं हि गृह्णानो न भवत्यर्धकिल्बिषी॥१४१
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम्।
मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः॥१४२
न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात्।
न चाधेःकालसंरोधान्निसर्गोऽस्ति न विक्रयः॥१४३
न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत्।
मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत्॥१४४
आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः।
अवहार्यौ भवतां तौदीर्घकालमवस्थितौ॥१४५
संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन।
धेनुरुष्ट्रोबहन्नश्वोयश्च दम्यः प्रयुज्यते॥१४६
यत्किंचिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी।
भुज्यमानं परैस्तूष्णीं न सतल्लव्धुमर्हति॥१४७
अजडश्चेदपोगण्डोविषये चास्य भुज्यते।
भग्नंतद्व्यवहारेण भोक्तातद्द्रव्यमर्हति॥१४८
आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः।
राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति॥१४९
यः स्वामिनाऽननुज्ञातमाधि भुङ्क्तेऽविचक्षणः
तेनार्धवृद्धिर्मोक्तव्यावरय भोगस्य निष्कृतिः॥१५०
कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता।
धान्ये सदे लवे वाह्येनातिक्रामति पञ्चताम्॥१५१
कृतानुसारादधिका व्यतिरिक्ता नसिद्ध्यति।
कुसीदपथमाहुतं पञ्चकं शतमर्हति॥१५२
नातिसांवत्सरीं
वृद्धिं न चादृष्टांविनिर्हरेत्।
चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या॥१५३
ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम्।
स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत्॥१५४
अदर्शयित्वा तत्रैवहिरण्यं परिवर्तयेत्।
यावती सम्भवेद्विस्तावतीं दातुमर्हति॥१५५
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः।
अतिक्रामन्देशकालौ न तत्फलमवाप्नुयात्॥१५६
समुद्रयानकुशला देशकालार्थदर्शिनः।
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति॥१५७
यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः।
अदर्शयन्स तं वस्य प्रयच्छे (यतेन) त्स्वधनादृणम्॥१५८
प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत्।
दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति॥१५९
दर्शनप्रातिभाव्ये तु बिधिः स्यात्पूर्वचोदितः।
दानप्रतिभुवि प्रेतेदायादानपि दापयेत्॥१६०
अदातरि पुनर्दाता विज्ञातप्रकृतावृणम्।
पश्चात्प्रतिभुवि प्रेतेपरीप्सेत्केन हेतुना॥१६१
निरादिष्टधनश्चेत्तुप्रतिभूः स्यादलंघनः।
स्वधनादेव तद्दद्यान्निरादिष्टइति स्थितिः॥१३२
मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा।
असंबद्धकृतश्चैव व्यवहारो न सिद्ध्यति॥१६३
सत्या न भाषाभवति यद्यपि स्यात्प्रतिष्ठिता।
बहिश्चेद्भाष्यते धर्मान्नियताद्व्यावहारिकात्॥१६४
योगाधमनविक्रीतं योगदानप्रतिग्रहम्।
यत्र वाऽप्युपधिं पश्येत्तत्सर्वंविनिवर्तयेत्॥१६५
ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः।
दातव्यं बान्धवैस्तरत्यात्मविभक्तैरपि स्वतः॥१६६
कुटुम्बार्थेऽभ्यधीनोऽपि व्यहारं यमाचरेत्।
स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत्॥१६७
बलाद्दतं बलाद्भुक्तं बलाद्यच्चापि लेखितम्।
सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत्॥१६८
त्रयः परार्थेक्लिश्यन्ति साक्षिणः प्रतिभूः कुलम्।
चत्वारस्तूपचीयन्ते विप्रं आढ्यो वणिङ्नृपः॥१६९
अनादेयं नाददीत परिक्षोणोऽपि पार्थिवः।
न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत्॥१७०
अनादेयस्य चादानादादेयस्य च वर्जनात्।
दौर्बल्यं ख्याप्यते राज्ञःस प्रेत्येह च नश्यति॥१७१
स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात्
बलं सञ्जायते राज्ञः स प्रेत्येह च वर्धते॥१७२
तस्माद्यम इव स्वामी स्वयं हित्वाप्रियाप्रिये।
वर्तेत याम्यया वृत्त्या जितकोधोजितेन्द्रियः॥१७३
यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः॥१७४
कामक्रोधौतु संयम्य योऽर्थान्धर्मेण पश्यति।
प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः॥१७५
यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे।
स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम्॥१७६
कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः।
समोऽवजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः॥१७७
अनेन विधिना राजा मिथोविवदतां नृणाम्।
साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत्॥१७८
कुलजे वृत्तसम्पन्ते धर्मज्ञे सत्यवादिनि।
महापक्षे धनित्थार्येनिक्षेपं निक्षिपेद्बुधः॥१७९
यो यथा निक्षिपेद्धस्ते यमर्थं यस्य मानवः।
स तथैव महोतव्योयथा दायस्तथा ग्रहः॥१८०
यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति।
स याच्यः प्राडूविवाकेन तन्निक्षेप्तुरसन्निधौ॥१८१
साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः।
अपदेशश्चसंन्यस्य हिरण्यं तस्य तत्त्वतः॥१८२
सयदि प्रतिपद्यते यथान्यस्तं यथाकृतम्।
न तत्र विद्यते किंचिद्यत्परैरभियुज्यते॥१८३
तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि।
उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा॥१८४
निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे।
नश्यतो विनिपाते तावनिपाते त्वनाशिनी॥१८५
स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे।
न स राज्ञा नियोक्तव्यो न निक्षेप्तुःश्च बन्धुभिः॥१८६
अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम्।
विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत्॥१८७
निक्षेपेषु सर्वेषु विधिः स्यात्वरिसाधने।
समुद्रे नाप्नुयात्किचिद्यदि तस्मान्न संहरेत्॥१८८
चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा।
न दद्याद्यदि तस्मात्स न संहरति किंचन॥१८९
निक्षेपस्यापहर्तारमनिक्षेप्ताररमेव च।
सर्वैरुपायैरन्विच्छेच्छपयैश्चैव वैदिकैः॥१९०
योनिक्षेपंनार्पयति यश्चानिक्षिप्य याचते।
तावुभौ चौरवच्छास्यौदाप्यौवा तत्समं दमम्॥१९१
निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम्।
तथोपनिधिहर्तारमविशेषेण पार्थिवः॥१९२
उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः।
ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः॥१९३
निक्षेपो यः कृतो येन गावांश्च कुलसन्निधौ।
तावानेव स विज्ञेयो विब्रुवन्दण्डमर्हति॥१९४
मिथो दायः कृतो येन गृहीतो मिथ एव वा।
मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः॥१९५
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च।
राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम्॥१९६
विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः।
न तंनयेत साक्ष्यं तु स्तेनमस्तेनमानिनम्॥१९७
अवाहार्यो भवेत्चैव सान्वयः षट्शतंदमम्।
निरन्वयोऽनपसरः प्राप्तः स्याच्चैरकिल्बिषम्॥१९८
अस्वामिनाकृतो यस्तु दायो विक्रय एव वा।
अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः॥१९९
सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित्।
आगमः कारणं तत्र न सम्भोग इति स्थितिः॥२००
विक्रयाद्यो धनं किंचिद्गृह्णीयात्कुलसन्निधौ।
क्रयेण स विशुद्धं हि न्यायतो लभते धनम्॥२०१
अथ मूलमनाहार्यं प्रकाशक्रयशोधितः।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम्॥२०२
नान्यदन्येनसंसृष्टरूपं विक्रयमर्हति।
न चासारं न च न्यूनं न दूरेण तिरोहितम्॥२०३
अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते।
उभे त एकशुल्केन वहेदित्यब्रवीन्मनुः॥२०४
नोन्मत्ताया न कुष्टिन्या न च या स्पष्टमैथुना।
पूर्वं दोपानभिख्याप्यप्रदाता दण्डमर्हति॥२०५
ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत्।
तस्य कर्मानुरूपेण देयोंऽशः सह कर्तृभिः॥२०६
दक्षिणासु च दत्तासु स्वकर्म परिहापयन्।
कृत्स्ननमेवलभेतांशमन्येनैव च कारयेत्॥२०७
यस्मिन्कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः।
स एव ता आददीतभजेरन्सर्व एव वा॥२०८
रथंहरेत चाध्वर्युर्ब्रह्माधाने च वाजिनम्।
होता वापि हरेदश्वमुद्गाता चाप्यनः क्रये॥२०९
सर्वेषामनिर्द्धिनोमुख्यास्तदर्धेनार्धिनोऽपरे।
तृतीयिनस्तृतीयांशाश्चतुर्थांशश्चपादिनः॥२१०
संभूय स्वानि कर्माणि कुर्वद्विरिह मानवैः।
अनेन विधियोगेन कर्तव्यांशप्रकल्पना॥२११
धर्मार्थं येन दत्तं स्यात्कस्मैचिद्याचते धनम्।
पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत्॥२१२
यदि संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः।
राज्ञा दाप्यः सुपर्णं स्यात्तस्यस्तेयस्य निष्कृतिः॥
दत्तस्यैषोदिता धर्म्यायथावदनपक्रिया।
अत ऊर्ध्वंप्रवक्ष्यामि वेतनस्यानपक्रियाम्॥२१४
भृतोऽनार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम्।
स दण्ड्यःकृष्णलान्योष्टौन देयं चास्य वेतनम्॥२१५
आर्तस्तु कुर्यात्स्वस्थःसन्यथाभाषितमादितः।
स दीर्घस्यापि कालस्य तल्लभेतेव वेतनम्॥२१६
यथोक्तमार्तः सुस्थोवा यस्तत्कर्म न कारयेत्।
न तस्य वेतनं देयमल्पोनस्यापि कर्मणः॥२१७
एष धर्मोऽखिलेनोक्तोवेतनादानकर्मणः।
अत उर्ध्यं प्रवक्ष्यामि धर्मं समयभेदिनाम्॥२१८
यो ग्रामदेशङ्घानांकृत्वा सत्येन संविदम्।
विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत्॥२१९
निगृह्यदापयेच्चैनं समयव्यभिचारिणम्।
चतुःसुवर्णान् षण्णिष्कांश्छतमानंच राजतम्॥२२०
एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम्॥२२१
क्रीत्या विक्रीय वा किंचिद्यस्येहानुशयो भवेत्।
सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वा॥२२२
परेण तु दशाहस्य न दद्यान्नपि दापयेत्।
आददानोददच्चैवराज्ञादण्ड्यः शतानि षट्॥२२३
यस्तु दोषवतों कन्यामनाख्याय प्रयच्छति।
तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान्॥२२४
अकन्येति तु यः कन्यां ब्रुयाद्द्वेषेण मानवः।
स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन्॥२२५
पाणिग्रहणिका मन्त्राःकन्यास्वेवप्रतिष्ठिताः।
नाकन्यासु क्वचिन्नृणां लुप्तधर्मक्रिया हि ताः॥२२६
पाणिग्रहनिका मन्त्रा नियतं दारलक्षणम्।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे॥२२७
यस्मिन्यस्मिन्कृते कार्ये यस्येहानुशयो भवेत्।
तमनेन विधानेन धर्म्ये पथि निवेशयेत्॥२२८
पशुषुस्वामिनां चैव पालानां च व्यतिक्रमे।
विवादं सम्प्रक्ष्यामि यथावद्धर्मतत्त्वतः॥२२९
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे।
योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात्॥२३०
गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम्।
गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः॥२३१
नष्टं विनष्टंकृमिभिः श्वहतं विषमे मृतम्।
द्दीनं पुरुषकारेण प्रदद्यात्पाल एव तु॥२३२
विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति।
यदि देशे च काले च स्वामिनः स्वस्य शंसति॥२३३
कर्णोचर्मच बालांश्चवस्तिं स्नायुं च रोचनाम्।
पशुषुस्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत्॥२३४
अजाविके तु संरुद्धेवृकैः पाले त्वनायति।
यांप्रसह्यवृको हन्यात्पाले तत्किल्विषंभवेत्॥२३५
तासांचेदवरुद्धानां चरन्तीनां मिथो वने
यामुत्प्लुत्यवृको हन्यान्न पालस्तत्र किल्बिषी॥२३६
धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः।
शम्यापातास्रयोवापि त्रिगुणो नगरस्य तु॥२३७
तत्रापरिवृतं धान्यं विहिंस्युः पृशवोयदि।
न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम्॥२३८
वृतिं तत्र प्रकुर्वीत यां मुष्ट्रो न विलोकयेत्।
छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम्॥२३९
पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः।
सपालः शतदण्डार्होविपालान्वारयेत्पशून्॥२४०
क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति।
सर्वत्र तु सदो देयः क्षेत्रिकस्योति धारणा॥२४१
अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा।
सपालान्वा विपालान्वान दण्ड्यान्मनुरब्रवीत्॥२४२
क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणोभवेत्।
ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु॥२४३
एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः।
स्वामिनां च पशूनां च पालानां च व्यतिक्रमे॥२४४
सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः।
ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु॥२४५
सीमावृक्षांश्चकुर्वीत न्यग्रधाश्वत्थकिंशुकान्।
शाल्मलीन्शालतालांश्च क्षीरिणश्चैव पादपान्॥२४६
गुल्मान्वेणूंश्च विविधाञ्छमीवल्लीस्थलानि च।
शरान्कुब्जकगुल्मांश्चतथा सीमा न नश्यति॥२४७
तडागान्युपानानि वाप्यः प्रस्रवणानि च।
सीमासन्धिषु कार्याणि देवतायतनानि च॥२४८
उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत्।
सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम्॥२४९
अश्मनोऽस्थीनि गोबालांस्तुषान्भस्मकपालिकाः।
करीषमिष्टकाङ्गारांश्छर्कराबालुकास्तथा॥२५०
यानि चैवं प्रकाराणि कालाद्भूमिर्नभक्षयेत्।
तानि सन्धिषु सीमायामप्रकाशानि कारयेत्॥२५१
एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः।
पूर्वभुक्त्या च सततमुदकस्यागमेन च॥२५२
यदि संशय एव स्याल्लिङ्गानामपि दर्शने।
साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः॥२५३
ग्रामेयककुलानां च समक्षंसीम्नि साक्षिणः।
प्रष्टव्याःसीमलिङ्गानि तयोश्चैव विवादिनोः॥२५४
तेपृष्टास्तु यथा ब्रूयुः समस्ता सीम्नि निश्चयम्।
निवध्नीयात्तथासीमां सर्वांस्तांश्चैव नामतः॥२५५
शिरोभिस्ते गृहीत्वोर्वी स्त्रग्विणो रक्तवाससः।
सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्तेसमञ्जसम्॥२५६
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः।
विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम्॥२५७
साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः।
सीमाविनिर्णयं कुर्युः प्रयता राजसन्निधौ॥२५८
सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम्।
इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान्॥२५९
व्याधाच्छाकुनिकान्गोपान्कैवर्तान्मूलखानकान्।
व्यालग्राहानुच्छवृत्तीनन्यांश्च वनचारिणः॥२६०
तेपृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम्।
तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः॥२६१
क्षेत्रकूपतडागानामारामस्य गृहस्य च।
सामन्तप्रत्योयो ज्ञेयः सीमासेतुविनिर्णयः॥२६२
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम्।
सर्वे पृथक्पृथग्दड्याराज्ञा मध्यमसाहसम्॥२६३
गृहं तडागमारामं क्षेत्रं वा भीषया हरन्।
शतानि पञ्च दण्ड्यः स्यादज्ञानादुद्विशतो दमः॥२६४
सीमायामविषाह्यायां स्वयं राजैव धर्मवित्।
प्रदिशेद्भूमिमेतेषामुपकारादिति स्थितिः॥२६५
एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये।
अत ऊर्ध्वंप्रवक्ष्यामि वाक्पारुष्य विनिर्णयम्॥२६६
शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति।
वैश्योऽयर्धशतं द्वे वा शूद्रस्तु बधमर्हति॥२६७
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने।
वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्वादशको दमः॥२६८
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत्॥२३९
एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन्।
जिह्वयाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः॥२७०
नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः।
निःक्षेप्योऽयोमयः शङ्कुर्ज्वन्नास्ये दशाङ्गुलः॥२७१
धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः।
तप्तमासेचयेत्तैलं वक्त्रेश्रोत्रे च पार्थिवः॥२७२
च्युतं(श्रुतं) देशं च जातिच कर्म शारीरमेव च।
वितथेन व्रुवन्दर्पाद्दाप्यःस्याद्द्विशतं दमम्॥२७३
काणंवाऽप्यथ वा खञ्जमत्यंवाऽपि तथाविधम्।
तथ्येनापि व्रुवन्दाप्योदण्डं कार्षापणावरम्॥२७४
मातरं पितरं जायां भ्रातरं तनयं गुरुम्।
आक्षारयच्छतंदाप्यः पन्थानं चाददद्गुरोः॥२७५
ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता।
ब्राह्मणे साहसः पूर्वः क्षत्त्रिये त्वेवमध्यमः॥२७६
विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः।
छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः॥२७७
एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः।
अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम्॥२७८
येन केनचिदङ्गेन हिंस्याच्चेच्छ्रोष्टमन्त्यजः।
छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम्॥२७९
पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति।
पादेन प्रहरन्कोपात्पादच्छेदनमर्हति॥२८०
सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः।
कट्यांकृताङ्कोनिर्वास्यः स्फिचं वास्यावकर्तयेत्॥२८१
अवनिष्ठीबतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः।
अवमूत्रयतो मेढ्रमवशर्धयतो गुदम्॥२८२
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन्।
पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च॥२८३
त्वग्भेदकःशतं दण्ड्यो लोहितस्य च दर्शकः।
मांसभेत्ता तु षण्णिष्कान्प्रवास्यस्त्वस्थिभेदकः॥२८४
वनस्पतीनां सर्वेषामुपभोगो यथा यथा।
तथा तथा दमः कार्यो हिंसायामिति धारणा॥२८५
मनुष्याणां पशूनां च दुःखाय प्रहृते सति।
यथा यथा महद्दुखं दण्डं कुर्यात्तथा तथा॥२८६
अङ्गावपीडनायां चप्राणशोणितयोस्तथा।
समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा॥२८७
द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा।
स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम्॥२८८
चर्मचार्मिकभाण्डेषु काष्ठलोष्ठमयेषु च।
मूल्यात्पञ्चगुणोदण्डः पुष्पमूलफलेषु च॥२८९
यानस्य चैवयातुश्च यानस्वामिन एव च।
दशातिवर्तनान्याहुः शेषे दण्डो विधीयते॥२९०
छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते।
अक्षभङ्गेच यानस्य चक्रभङ्गेतथैव च॥२९१
छेदने चैव योक्तृरश्म्योस्तथैव च।
आक्रन्दे चाप्यवैहीति न दण्डं मनुरब्रवीत्॥२९२
यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु।
तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम्॥२९३
प्राजकश्चेद्भवेदाप्तःप्राजको दण्डमर्हति।
युग्यस्थाःप्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम्॥२९४
स चेत्तु पथि संरुद्धः पशुभिर्वारथेन वा।
प्रमापयेत्प्राणभृतस्तत्रदण्डोऽविचारितः॥२९५
मनुष्यमारणे क्षिप्रं चौवत्किल्बिषं भवेत्।
प्राणभृत्सुमहत्सर्धंगोगजोष्ट्रहयादिषु॥२९६
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः।
पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु॥ २९७
गर्दभाजाविकानां तु दण्डः स्यात्पाञ्चमाषिकः।
माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने॥२९८
भार्या पुत्रश्चदासश्चशिष्यो (प्रेष्यो) भ्राता च सोदरः।
प्राप्तापराधास्ताड्याःस्यू रज्ज्या वेणुदलेन वा॥२९९
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गेकथंचन।
अतोऽन्यथा तु प्रहरन्प्राप्तःस्याच्चौरकिल्बिषम्॥३००
एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः।
स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये॥३०१
परमं यन्त्रमातिष्ठेत्स्तेनानां निग्रहे नृपः।
स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते॥३०२
अभयस्य हियो दाता स पूज्यः सततं नृपः।
सत्रंहिवर्धते तस्य सदैवाभयदक्षिणम्॥३०३
सर्वतो धर्मषड्भागो राज्ञोभवति रक्षतः।
अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः॥३०४
यदधीते यद्यजते यद्ददाति यदर्चति।
तस्य पड्भागभाग्राजा सम्यग्भवति रक्षणात्॥३०५
रक्षन्धर्मेण भूतानि राजा बध्यांश्चघातयन्।
यजतेऽहरहर्यज्ञैःसहस्रशतदक्षिणैः॥३०६
योऽरक्षन्बलिमादत्ते करं शुल्कं च पार्थिव।
प्रतिभागं च दण्डं च स सद्योनरकं ब्रजेत्॥३०७
अरक्षितारमत्तारं बलिषड्भागहारिणम्।
तमाहुः सर्वलोकस्य समग्रमलहारकम्॥३०८
अनवेक्षितमर्यादं नास्तिकं विमलुम्पकम्।
अरक्षितारमत्तरंनृपं विद्यादधोगतिम्॥३०९
अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः।
निरोधनेन बन्धेन विविधेन बधेन च॥३१०
निग्रहेण हि पापानां साधूनां संग्रहेण च।
द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः॥३११
क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम्।
बालबृद्वातुराणां च कुर्वता हितमात्मनः॥३१२
यः क्षिप्तोमर्षयत्यार्तैस्तेन स्वर्गे महीयते।
यस्त्वैश्वर्यान्नक्षमते नरकं तेन गच्छति॥३१३
राजा स्तेतेन गन्तव्यो मुक्तकेशेन (धीमता) धावता।
आचक्षाणेन तत्स्तेयमेवङ्कर्मास्मि शाधि माम्॥३१४
स्कन्धेनादाय मुशलं लगुडं वापि खादिरम्॥
शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा॥३१५
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते।
अशासित्वा तु तं राजा स्तेनस्थाप्नोति किल्बिषम्॥३१६
अन्नादे भ्रूर्णहा मार्ष्टिपत्यौभार्यापचारिणी।
गुरौ शिष्यश्च याग्यश्च स्तेनो राजनि किल्विषम्॥३१७
राजभिःकृत (धृत) दण्डास्तु कृत्वा पापानि मानवाः।
निर्मला : स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥३१८
यस्तु रज्जुं घटंकूपाद्धरेभ्दिद्याच्चयः प्रपाम्।
स दण्डं प्राप्नुयान्माषंतच्चतस्मिन्समाहरेत्॥३१९
धान्यंदशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः।
शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम्॥ ३२०
तथा धरिममेयानां शतादभ्यधिके वधः।
सुवर्णरजतादीनामुत्तमानां च वाससाम्॥३२१
पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते।
शेषे त्वेकादशगुणं मूल्यादण्डं प्रकल्पयेत्॥३२२
पुरुषाणां कुलीनानां नारीणां च विशेषतः।
मुख्यानां चैब रत्नानांहरणेबधमर्हति॥३२३
महापशूनां हरणेशास्त्राणामौषधस्य च।
कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत्॥३२४
गोषुब्राह्मणसंस्थासु क्षरिका (खरिका) याश्च भेदने।
पशून हरणे चैव सद्यः कार्योऽर्धपादिकः॥३२५
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च।
दध्नःक्षीरस्यतक्रस्यपानीय य तृणस्य च॥३२६
वेणुवैदलभाण्डानां लवणानां तथैवच।
मृन्मयानां च हरणे मृदो भस्मन एव च॥३२७
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च।
मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम्॥३२८
अन्येषां चैवमादीनामद्यानामोदनस्य च।
पक्कान्नानां च सर्वेषां तन्मूल्याद्विगुणो दमः॥३२९
पुष्पेषु हरिते धान्येगुल्मवल्लीनगेषु च।
अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृऽणलः॥३३०
परिपूतेषु धान्येषु शाकमूलफलेषु च।
निरन्वयेशतं दण्डः सान्वयेऽर्द्धशतं दमः॥३३१
स्यात्साहसंत्वन्वयवत्प्रसभं कर्म यत्कृतम्।
निरन्वयं भवेत्स्तेयंहृत्त्वापव्ययतेच यत्॥३३२
यस्त्वेतान्युपक्लृप्तानि द्रव्याणि स्तेनयेन्नरः।
तमाद्यं(तं शतं) दण्डयेद्राजा यश्चाग्निंचोरयेद्गृहात्॥३३३
येन येन यथाङ्गने स्तेनो नृषु विचेष्टते।
तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः॥३३४
पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः।
नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति॥३३५
कार्षापणंभवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः।
तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा॥३३६
अष्टापाद्यंतु शूद्रस्य स्तेये भवाति किल्विषम्।
षोडशैव तु वैश्यत्य द्वात्रिंशत्क्षत्रियस्य च॥३३७
ब्राह्मणत्य चतुःषष्टिः पूर्णं वाऽपि शतं भवेत्।
द्विगुणा वाचतुःषष्टिस्तद्दोषगुणविद्धि सः॥३३८
वानस्पत्यंमूलफलं दार्वग्न्यर्थं तथैव च।
तृणं च गोभ्यो ग्रासार्थमास्तेयं मनुरव्रवीत्॥३३९
योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम्।
याजनाध्यापनेनापि यथा स्तेनस्तथैव सः॥३४०
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षु द्वे चमूलके।
आददानः परक्षेत्रान्न दण्डं दातुमर्हति॥ ३४१
असंदितानां संदाता संदितानां च मोक्षकः।
दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्विषम्॥३४२
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम्।
यशोऽस्मिन्प्राप्तुयाल्लोके प्रेत्य चानुत्तमं सुखम्॥३४३
ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम्।
नोपेक्षेत क्षणमपि राजा साहसिकं नरम्॥३४४
वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः।
साहसस्य नरः कर्त्ता विज्ञेयः पापकृत्तमः॥३४५
साहसे वर्तमानं तु यो मर्षयति पार्थिवः।
स विनाशं व्रजत्याशु विद्वेषंचाधिगच्छति॥३४६
न मित्रकारणाद्राजा विपुलाद्वा धनागमात्।
समुत्सृजेत्साहसिकान्सर्वभूतभयावहान्॥३४७
शस्त्रं द्विजातिभिर्ग्राह्यंधर्मो यत्रोपरुध्यते।
द्विजातीनां च वर्णानां विप्लवेकालकारिते॥३४८
आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे।
स्त्रीविप्राभ्युपपत्तौ च धर्मेण ध्नन्न दुष्यति॥३४९
गुरुं वा बालबृद्धौवा ब्राह्मणं वा बहुश्रुतम्।
आततायिनमायान्तं हन्यादेवाविचारयन्॥३५०
नाततायिवधेदोषोहन्तुर्भवति कश्चन।
प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति॥३५१
परदाराभिमर्शेषु प्रवृत्तान्तृृन्महीपतिः।
उद्वेजनकरैर्दण्डैश्चिह्नयित्वा प्रवासयेत्॥३५२
तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः।
येन मूलहरोऽधर्मः सर्वनाशाय कल्पते॥३५३
परस्य पत्न्या पुरुषः संभाषां योजयन्रहः।
पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम्॥३५४
यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात्।
न दोषं प्राप्नुयात्किञ्चिन्न हि तस्य व्यतिक्रमः॥ ३५५
परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा।
नदीनां वाऽपि संभेदे स संग्रहणमाप्नुयात्॥ ३५६
उपकारक्रियाकेलिः स्पर्शो भूषणवाससाम्।
सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम्॥३५७
स्त्रियं स्पृशेददेशे यःस्पृष्टोवा मर्षयेत्तया।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम्॥३५८
अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति।
चतुर्णामपि वर्णानां द्वारा रक्ष्यतमाः सदा॥३५९
भिक्षुका वन्दिनश्चैव दीक्षिताः कारवस्तथा।
संभाषणंसह स्त्रीभिः कुर्युरप्रतिवारिताः॥३६०
न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत्।
निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति॥ ३६१
नैषचारणदारेषु विधिर्नात्मोपजीविषु।
सञ्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च॥३६२
किंचिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन्।
प्रेष्यासु चैकभक्तासु रहः प्रव्रजितासु च॥ ३६३
योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति।
सकामां दूषयंस्तुल्यो न वधंप्राप्नुयान्नरः॥३६४
कन्यां भजन्तीमुत्कृष्टं न किंचिदपि दापयेत्।
जघन्यं सेवमानां तु संयतां वासयेद्गृहे॥३६५
उत्तमां सेवमानस्तु जघन्यो वधमर्हति।
शुल्कंदद्यात्सेवमानः समामिच्छेत्पिता यदि॥३६६
अभिषह्यतु यः कन्यां कुर्याद्दर्पेण मानवः।
तस्याशु कर्त्त्यांअङ्गुल्यो दण्डं चार्हति षट्शतम्॥३६७
सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात्।
द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये॥३६८
कन्यैव कन्या या कुर्यात्तस्याः स्याद्द्विशतो दमः।
शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश॥३६९
या तु कन्यां प्रकुर्यात्स्त्री सा सद्योमोण्डमर्हति।
अङ्गुल्योरेव वा छेदं स्वरेणोद्वहनंतथा॥३७०
भर्तारं लङ्घ्येद्या तु स्त्री ज्ञातिगुणदर्पिता।
तां श्वभिः स्वादयेद्राजा संस्थाने बहुसंस्थिते॥३७१
पुमांसं दाहयेत्पापं शयने तप्त आयसे।
अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥३७२॥
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः।
ब्रात्यया सह संवासे चाण्डाल्या तावदेव तु॥३७३॥
शूद्रो गुप्तमगुप्तं वाद्वैजातं वर्णमावसन्।
अगुप्तमङ्गसर्वस्यी गुप्तंसर्वेण हीयते॥३७४॥
वैश्यः सर्वस्यदण्डःस्यात्संवत्सरनिरोधतः।
सहस्रं क्षत्रियोदण्ड्यो मौण्ड्यंमूत्रेण चार्हति॥३७५॥
ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ।
वैश्यंपञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम्॥३७६॥
उभावपि तु तावेव ब्राह्मण्या गुप्तया सह।
विप्लुतौ शुद्रवद्दण्ड्यौदग्धव्यौवा कटाग्निना॥३७७॥
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्ब्रजन्।
शतानि पश्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः॥३७८॥
मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते।
इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत्॥३७९॥
न जातु ब्राह्मणंहन्यात्सर्वपापेष्वपि स्थितम्।
राष्ट्रादेनं वहिःकुर्यात्समग्रधनमक्षतम्॥३८०॥
न ब्राह्मणबधाद्भूयानधर्मोविद्यते भुवि।
तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत्॥३८१॥
वैश्यश्चेत्क्षत्रियां गुप्तांवैश्यां वा क्षत्रियो ब्रजेत्।
यो ब्राह्मण्यामगुप्तायांतावुभौ दण्डमर्हतः॥३८२॥
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्।
शूद्राया क्षत्रियविशोः साहस्रो वै भवेद्दमः ॥३८३
क्षत्रियायामगुप्तायां वैश्ये पश्चशतं दमः।
मूत्रेण मौण्ड्यमृच्छेतु क्षत्रियो दण्डमेव वा॥३८४
अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन्।
शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्त्यजस्त्रियम्॥३८५.
यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक्।
न साहसिकदण्डघ्नो स राजा शक्रलोकभाक्॥३८६
एतेषांनिग्रहो राज्ञःपञ्चानां विषये स्वके।
साम्राज्यकृत्सजात्येषु लोके चैव यशस्करः॥३८७
ऋत्विजं यस्त्यजेद्याज्यो याज्यं चर्त्विक्त्यजेद्यदि।
शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम्॥३८८
न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति।
त्यजन्नपतितानेत्न्राज्ञा दण्ड्यः शतानि षद्॥३८९
आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः।
न विव्रूयान्नृपो धर्मं चिकीर्षन्हितमात्मनः॥३९०
यथार्हमेतानभ्यर्च्य ब्राह्मणैःसह पार्थिवः।
सान्त्वेन प्रशमय्यादौ स्वधर्मंप्रतिपादयेत्॥३९१
प्रतिवेश्यानुवेश्यौ चकल्याणे विंशतिद्विजे।
अर्हावभोजयन्विप्रोदण्डमर्हति माषकम्॥३९२
श्रोत्रियः श्रोत्रियं साधुंभूतिकृत्यैष्यभोजयन्।
तदन्नंहिगुणं दाप्योहिरण्यं चैव माषकम्॥३९३
अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्चयः।
श्रोत्रियेषूपकुर्वंश्च न दाप्याः केनचित्करम्॥३९४
श्रोत्रियं व्याधितार्त्तौच बालवृद्धावकिंचनम्।
महाकुलीनमार्यं च राजा सम्पूजयेत्सदा॥ ३९५
शाल्मलीफलकेश्लक्ष्णे नेनिज्यान्नेजकः शनैः।
न च वासांसि वासोभिर्निहरेन्न च वासयेत्॥३९६
तन्तुवायो दशपलं दद्यादेकपलाधिकम्।
अतोन्यथा वर्तमानो दाप्यो द्वादशकं दमम्॥३९७
शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः।
कुर्युर्रघं यथापण्यं ततो विंशं नृपो हरेत्॥३९८
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च।
तानि निर्हरतो लोभात्सर्वहारं हरेन्नृपः॥३९९
शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी।
मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम्॥ ४००
आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ।
विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ॥४०१
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथवा गते।
कुर्वीत चैषां प्रत्यक्षमर्धसंस्थापनं नृपः॥४०२
तुला मानं प्रतीमानं सर्वं च स्यात्सुलक्षितम्।
षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत्॥४०३
पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे।
पादे पशुश्चयोषिच्चपदार्घंरिक्तकः पुमान्॥४०४
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः।
रिक्तभाण्डानि यत्किंचित्पुमांसश्चापरिच्छदाः॥४०५
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत्।
नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम्॥४०६
गर्भिणी तु द्विमासादिस्तथा प्रवजितो मुनिः।
ब्राह्मणा लिङ्गिनश्चैवन दाप्यास्तारिकं तरे॥४०७
यन्नावि किंचिद्दाशानां विशीर्येतापराधतः।
तद्दाशौरेव दातव्यं समागम्य स्वतोंऽशतः॥४०८
एषनौयायिनामुक्तो व्यवहारस्य निर्णयः।
दाशापराधतस्तोये दैविके नास्ति निग्रहः॥४०९
वाणिज्यंकारयेद्वैश्यंकुसीदं कृषिमेव च।
पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम्॥४१०
क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्षितौ।
विभृयादानृशंस्येन स्वानि कर्माणि कारयेत्॥४११
दास्यं तु कारयल्ँलोभाद्ब्राह्मणः संस्कृताद्विजान्।
अनिच्छतः प्राभवत्याद्राज्ञादण्ड्यः शतानि षट्॥४१२
शूद्रं तु कारयेद्दास्यंक्रीनमक्रीतमेव वा।
दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयम्भुवा॥४१३
न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते।
निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति॥४१४
ध्वजाहृतो भक्तदासोगृहजःक्रीतदत्रिमौ।
पैत्रिकोदण्डदासश्च सप्तैतेदासयोनयः॥४१५
भार्या पुत्रश्च दासश्च त्रय एवाधना स्मृताः।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्॥ ४१६
विस्रब्धंब्राह्मणः शूद्राद्द, व्योपादानमाचरेत्।
न हि तस्यास्ति किचित्त्स्वंभर्तृहार्यधनो हि सः॥४१७
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत्।
तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत्॥४१८
अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च।
आयव्ययौ च नियतावाकरान्कोशमेव च॥४१९
एवं सर्वानिमाम्त्राजा व्यवहरान्समापयन्।
व्यपोह्य किल्विषं सर्वं प्राप्नोति परमां गतिम्॥४२०
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुम्मृत्यां
अष्टमोऽध्यायः॥८
<MISSING_FIG href="../books_images/U-IMG-1725119070जद.PNG"/>
नवमोऽध्यायः।
अत्रादौ—स्त्रीस्वातन्त्र्यमधर्मवर्णनम्।
पुरुषस्य स्त्रियाश्चैव धर्म्येवर्त्मनि तिष्ठतोः।
संयोगे विप्रयोगे च धर्मान्वक्ष्यामि शाश्वतान्॥१
अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम्।
विषयेषु च सज्जन्त्यःसंस्थाप्या आत्मनो वशे॥२
नैतारूपं परीक्षन्ते नासां वयसि संस्थितिः।
सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते॥१४
र्पौश्चल्याच्चलचित्ताच्च नैःस्नेह्याच्चस्वभावतः।
रक्षिता यत्नेतोऽपीह भत्तृैष्येताविकुर्वते॥१५
एवं स्वभावं ज्ञात्वाऽऽसां प्रजापतिनिसर्गजम्।
परमं यत्नमातिष्ठेत्पुरुपो रक्षणं प्रति॥१६
शय्यासनमलङ्कारं कामं क्रोधमनार्यताम्।
द्रोग्धृभावंकुचर्यां च स्त्रीभ्यो मनुरकल्पयत्॥ १७
नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः।
निरिन्द्रिया ह्यमन्त्राश्र स्त्रियोऽनृतमिति स्थितिः॥१८
तथा च श्रुतयो बह्व्योनिगीता निगमेष्वपि।
स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः॥१९
यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता।
तन्मे रेतः पिता वृंक्तामित्यस्यौतन्निदर्शनम्॥२०
ध्यायत्यनिष्टंयत्किञ्चित्पाणिग्राहस्य चेतसा।
तस्यौष व्यभिचारस्य निह्नवःसम्यगुच्यते॥२१
यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि।
तादृग्गुनासा भवति समुद्रेणेव निम्रगा॥२२
अक्षमाला वशिष्ठेन संयुक्ताऽधमयोनिजा।
शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम्॥२३
एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः।
उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भतृर्गुणैः शुभैः॥२४
एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा।
प्रेत्योहच सुखोदकार्न्प्रजाधर्मान्निबोधत॥२५
प्रजनार्थं महाभागाः पूजार्हागृहदीप्तयः।
स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन॥२६
उत्पादनमपत्यस्य जातस्य परिपालनम्।
प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम्॥२७
अपत्यं धर्मकार्याणि शुश्रूषारतिरुत्तमा।
दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह॥२८
पतिं या नाभिचरति मनोवाग्देहसंयता।
सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते॥२९
व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्।
शृगालयोनिं चाप्नोति पापरोगैश्चपीड्यते॥३०
पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्चमहर्षिभिः।
विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत॥३१
भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु भर्त्तरि।
आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः॥३२
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान्।
क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम्॥३३
विशिष्टंकुत्रचिद्बीजं स्त्रीयोनिस्त्येवकुत्रचित्।
उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते॥३४
वीजस्य चैव योन्याश्चबीजमुत्कृष्टमुच्यते।
सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता॥३५
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते।
तादृग्रोहति तत्तस्मिन्बीजं स्वैर्व्यञ्जितं गुणैः॥३६
इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते।
न च योनिगुणान्कांश्चिद्वीजं पुष्यति पुष्टिषु॥३७
भूमावप्येककेदारे कालोप्तानि कृषीबलैः।
नानारूपाणि जायन्ते बीजानीह स्वभावतः॥३८
ब्रीहयः शालयोमुद्गास्तिला माषास्तथा यवाः।
यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा॥३९
अन्यदुप्तंजातमन्यदित्येतन्नोपपद्यते।
उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति॥४०
तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना।
आयुष्कामेन वप्तव्यं न जातु परयोषिति॥४१
अत्रगाथा वायुगीताः कीर्त्तयन्ति पुराविदः।
यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे॥ ४२
नश्यतिषुर्यथा विद्धः खे विद्धमनुविध्यतः।
तथा नश्यति चैं क्षिप्रं बीजं परपरिग्रहे॥ ४३
पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः।
स्थाणुच्छेदस्य केदारमाहुः शल्यवतो मृगम्॥४४
एतावानेव पुरुषो यज्जायात्मा प्रजेति ह।
विप्राः प्राहुस्तथा चैतद्यो भर्त्ता सा स्मृताङ्गना॥४५
न निष्क्रयविसर्गाभ्यां भर्त्तुर्भार्या विमुच्यते।
एवं धर्मं विजानीमः प्राक्प्रजापतिनिर्मितम्॥४६
सकृदंशो निपतति सकृत्कन्या प्रदीयते।
सकृदाह ददानीति त्रीण्येतानि सतां सकृत्॥४७
यथा गोऽश्वोष्ट्रदासीषु महीष्य जाविकासुच।
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि॥४८
येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः।
ते वै सस्यस्य जातस्य न लभन्ते फलं क्वचित्॥४९
यदन्यगोषु वृषभो वत्सानां जनयेच्छतम्।
गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम्॥५०
तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः।
कुर्वन्ति क्षेत्रियामर्थं न बीजी लभते फलम्॥५१
फलं त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा।
प्रत्यक्षं क्षेत्रिणामर्थोबीजाद्योनिर्गरीयसी(बलीयसी)॥५२
क्रियाभ्युपगमात्वेतद्बीजार्थंयत्प्रदीयते।
तस्येह भागिनौदृष्टौबीजी क्षेत्रिक एव च॥५३
ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति।
क्षेत्रिकस्यैव तद्बीजं न वप्ता लभते फलम्॥५४
एषधर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च।
विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति॥५५
एतद्वःसारफल्गुत्वं बीजयोन्योः प्रकीर्तितम्।
अतः परं प्रवक्ष्यामि योषितां धर्ममापदि॥५६
भ्रातुर्ज्येष्ठस्य भार्या या गुरुपल्यनुजस्य सा।
यवीयसस्तु या भार्या स्तुषाज्येष्ठस्य मा स्मृता॥५७
ज्येष्ठो यवीयसो भार्या यवीयान्वाऽग्रजस्त्रियम्।
पतितौभवतो गत्या नियुक्तावप्यनापदि॥५८
देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया।
प्रजेप्सिताधिगन्तब्यासन्तानस्य परिक्षये॥५९
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि।
एकमुत्पादयेत्पुत्रं न द्वितीयं कथञ्चन॥६०
द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः।
अनिर्वृत्तं नियोगार्थं पश्यन्तो धर्मतस्तयोः॥६१
विधवायां नियोगार्थे निवृत्ते तु यथाविधि।
गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम्॥६२
नियुक्तौ यौविधिं हित्वा वर्तेयातां तु कामतः।
तावुभौ पतितौ स्यातां स्तुषागगुरुतल्पगौ॥६३
नान्यस्मिन्विधवा नारी नियोक्तत्र्या द्विजातिभिः।
अन्यस्मिन्हिनियुञ्जाना धर्मं हन्युः सनातनम्॥ ६४
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित्।
न विवाहविधावुक्तं विधवावेदनं पुनः॥६५
अयं द्विजैरविद्वद्धिः पशुधर्मो विगर्हितः।
मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति॥ ६६
स महीमखिलां भुञ्जन्राजर्षिप्रवरः पुरा।
वर्णानां सङ्करं चक्रे कामोपहतचेतनः॥६७
ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम्।
नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः॥ ६८
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः।
तामनेन विधानेन निजो विन्देत देवरः॥६९
यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम्।
मिथो भजेताप्रसवात्सकृत्सकृदृतावृतौ॥७०
न दत्वा कस्यचित्कन्यां पुनर्दद्याद्विचक्षणः।
दत्वा पुनः प्रयच्छन्हि प्राप्नोति पुरुषानृतम्॥७१
विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम्।
व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम्॥७२
यस्तु दोषवतींकन्यामनाख्यायोपपादयेत्।
तस्य तद्वितथंकुर्यात्कन्यादातुदुर्रात्मनः॥७३
विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः।
अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि॥७४
विधाय प्रोषिते वृत्तिं जीवन्नियममास्थिता।
प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः॥७५
प्रोषितो धर्मकार्यार्थंप्रतीक्ष्योऽष्टौनरः समाः।
विद्यार्थंषड्यशोऽर्थंया कामार्थ त्रींस्तु वत्सरान्॥७६
संवत्सरं प्रतीक्षेत द्विषाणां योषितं पतिः।
ऊर्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत्॥७७
अतिक्रामेत्प्रमत्तं या मत्तंरोगार्त्तमेव वा।
सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा॥७८
उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम्।
न त्यागोऽस्तिद्विषन्त्याश्च न च दायापवर्तनम्॥७९
मद्यपाऽसत्य(असाधु) वृत्ता च प्रतिकूला च या भवेत्।
व्याधिता वाऽविवेत्तत्र्या हिंस्राऽर्थघ्नी च सर्वदा॥८०
बन्ध्याष्टमेऽविवेद्याब्देदशमे तु मृतप्रजा।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी॥८१
या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः।
साऽनुज्ञाप्याऽधिवेत्तव्या नावमान्या च कर्हिचित्॥८२
अधिविन्ना तु या नारी निर्गच्छेदुषिता गृहात्।
सा सद्यः सन्निरोद्धव्या त्याज्या या कुलसन्निधौ॥८३
प्रतिषेधे पिबेद्या तु मद्यमभ्युदयेष्वपि।
प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट्॥८४
यदि स्वाश्चापराश्चैव विन्देरन्योषितो द्विजाः।
तासां वर्णक्रमेण स्याज्ज्यैष्ठ्यं पूजा च वेश्म च॥८५
भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम्।
स्वा स्वैव कुर्यात्सर्वेषां नास्वजातिः कथंचन॥८६
यस्तु तत्कारयेन्मोहात्सजात्यास्थितयाऽन्यया।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः॥८७
उस्कृष्टायाभिरूपाय वराय सदृशाय च।
अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि॥८८
काममा मरणात्तिष्ठेद्गृहे कन्यर्तुमत्यपि।
न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित॥८९
त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती।
ऊद्र्ध्वंतु कालादेतस्माद्विन्देत सदृशं पतिम्॥९०
अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम्ः।
नैनः किञ्चिदवाप्नोति न च यं साऽविगच्छति॥९१
अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा।
मातृकं भ्रातृदत्तं वास्तेना स्याद्यदि सं हरेत्॥९२
पित्रे न दद्याच्छुल्कं तु कन्यामृतुमतीं हरन्।
स हि स्वाम्यादतिक्रामेदृतूनां प्रतिरोधनात्॥९३
त्रिंशद्वर्षो द्वहेत्कन्यां हृद्यां द्वादशवार्षिकीम्।
त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः॥९४
देवदत्तां पतिर्भार्यां विन्दते नेच्छ्यात्मनः।
तांसाध्वी बिभृयान्नित्यं देवानां प्रियमाचरन्॥९५
प्रजनार्थंस्त्रियः सृष्टाःसन्तानार्थं च मानवाः।
तस्मात्साधारणो धर्मः श्रुतौ पत्न्यासहोदितः॥९६
कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः।
देवराय प्रदातव्या यदि कन्याऽनुमन्यते॥९७
आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन्।
शुल्कं हि गृह्णन्कुरूते छन्नंदुहितृविक्रयम्॥९८
एतत्तुन परे चक्रुर्नापरेजातु साधवः।
यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते॥९९॥
नानुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु।
शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम्॥१००
अन्योन्यस्यान्यभीचारो भवेदामरणान्तिकः।
एषधर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः॥१०१
तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ।
यथा नातिचरेतां तौवियुक्तावितरेतरम्॥ १०२
एषस्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः।
आपद्यपत्यप्राप्तिश्चदाय(धर्मं) भागं निबोधत॥१०३
ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम्।
भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः॥१०४
ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः।
शेषास्तमुपजीवेयुर्यथैवपितरं तथा॥१०५
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः।
पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति॥१०६
यस्मिन्नृणं सन्नयति येन चानन्त्यमश्नुते।
स एव धर्मजः पुत्रः कामजानितरान्विदुः॥१०७
पितेव पालयेत्पुत्रान् ज्येष्ठो भ्रातृृन्यवीयसः।
पुत्रवच्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः॥१०८
ज्येष्ठः पूज्य तमो लोके ज्येष्ठः सद्भिरगर्हितः।
ज्येष्टः कुलं वर्धयति विनाशयति वा पुनः॥१०९
यो ज्येष्टो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः।
अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत्॥११०
एवं सह वसेयुर्वा पृथवा धर्मकाम्यया।
पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक्क्रिया॥१११
ज्येष्ठस्य विंश उद्धारःसर्वद्रव्याच्च यद्वरम्।
ततोऽर्धंमध्यमस्य स्यात्तुरीयं तु यवीयसः॥११२
ज्येष्ठश्चैव कनिष्ठश्च संहरेता यथोदितम्।
येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम्॥११३
सर्वेषां धनजातानामाददीताग्र्यमग्रजः।
यच्च सातिशयं किंचिद्दशतश्चाप्नुयाद्वरम्॥११४
उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु।
यत्किञ्चिदेव देयं तु ज्यायसे मानवर्धनम्॥११५
एवं समुद्धतोद्धारे समानंशान्प्रकल्पयेत्।
उद्धारेऽनुद्धते त्वेषामियं स्यादंशकल्पना॥ ११६
एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धंततोऽनुजः।
अंशमंशं यवीयांस इति धर्मों व्यवस्थितः॥११७
स्वाभ्यः स्वाभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक्।
स्वात्स्वादंशाच्चतुर्भागं पतिताःस्युरदित्सवः॥११८
अजाविकं सैकशफं न जातु विषमं भजेत्।
अजाविकं तु विषमं ज्येष्ठत्यैव विधीयते॥११९
यवीयाञ्ज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि।
समन्तत्र विभागः स्यादिति धर्मों व्यवस्थितः॥१२०
उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते।
पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत्॥१२१
पुत्रः कनिष्ठो ज्येष्ठायां कनिष्टायां च पूर्वजः।
कथं तत्र विभागः स्यादिति चेत्संशयो भवेत्॥ १२२
एकं वृषभमुद्धारं संहरेत स पूर्वजः।
ततोऽपरेज्येष्ठवृषास्तदूनानां स्वमातृतः॥ १२३
ज्येष्ठस्तु जातोज्येष्ठायं हरेद्वृषभषोडशाः।
ततः स्वमातृतः शेषा भजेरन्निति धारणा॥१२४
सहस्त्रीषु जातानां पुत्राणामविशेषतः।
न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्येष्ठ्यमुच्यते॥१२५
जन्मज्येष्ठेन चाह्वानं सुव्रह्मण्यास्वपि स्मृतम्।
यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता॥१२६
अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम्।
यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम्॥१२७
अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः।
विबृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः॥१२८
ददौ स दश धर्माय कश्यपाय त्रयोदश।
सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम्॥१२९
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
तस्यामात्मनि तिष्ठन्त्यां कथमत्यो धनं हरेत्॥१३०
मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः।
दौहित्र एव च हरेदपुत्रस्याखिलं धनम्॥१३१
दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत।
स एव दद्याद्दौ पिण्डौपित्रे मातामाहाय च॥१३२
पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः।
तयोर्हिमातापितरौसंभूतौ तस्य देहतः॥१३३
पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते।
समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः॥१३४
अपुत्रायां मृतायां तु पुत्रिकायां कथंचन।
धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन्॥१३५
अकृता वा कृता वाऽपि यं विन्देत्सदृशात्सुतम्।
पौत्री मातामह्स्तेन दद्यात्पिण्डं हरेद्धनम्॥१३६
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम्॥१३७
पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः।
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा॥१३८
पौत्रदोहित्रयोर्लोकेविशेषो नोपपद्यते।
दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत्॥१३९
मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः।
द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुःपितुः॥१४०
उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः।
स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः॥१४१
गोत्ररिक्थं जनयितुर्नहरेद्दत्रिमःक्वचित्।
गोत्ररिक्थानुगःपिण्डोव्यपैति ददतःस्वधा॥१४२
अनियुक्तासुतश्चैवपुत्रिण्याप्तश्चदेवरात्।
उभौतौ नार्हतोभागं जारजातककामजौ॥१४३
नियुक्तायामपि पुमान्नार्याञ्जातोऽविधानतः।
नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः॥१४४
हरेत्तत्र नियुक्तायां जातः पुत्र यथौरसः।
क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः॥१४५
धनं यो विभृयाद्भ्रातुर्मृतस्य स्त्रियमेव च।
सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम्॥१४६
याऽनियुक्ताऽन्यतः पुत्रं देवराद्वाऽप्यवाप्नुयात्।
तं कामजरिक्थीयंमिथ्योत्पन्नं प्रचक्षते॥१४७
एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु।
बह्नीषुचैकजातानां नानास्त्रीषुनिबोधत॥१४८
ब्राह्मणस्यानुपूर्व्येणचतस्रस्तु यदि स्त्रियः।
तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः॥१४९
कोनाशो गोवृषोयानमलङ्कारश्चवेश्म च।
विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः॥१५०
त्र्यंशं दायाद्धरेविप्रोद्वावंशौक्षत्रियासुतः।
वैश्याजः सार्धमेवांशमंशं शूद्रासुतोहरेत्॥१५१
सर्वं वा रिक्थजातं तद्दशधा परिकल्प्य च।
धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित्॥१५२
चतुरोंऽशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः।
वैश्या पुत्रो हरेद् व्यंशमंशं शूद्रासुतोहरेत्॥१५३
यद्यपि स्यात्तु सत्पुत्रो(यद्यपुत्रो) ऽप्यसत्पुत्रोऽपि वा भवेत।
नाविकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः॥१५४
ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक्।
यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत्॥१५५
समवर्णासु ये (वा) जाताः सर्वे पुत्रा द्विजन्मनाम्।
उद्वारं ज्यायसे दत्वा भजेरन्नितरे समम्॥१५६
शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते।
तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत्॥१५७
पुत्रान्द्वादश यानाह नृणां स्वायम्भुवो मनुः।
तेषां षड्बन्धुदायादाः षडदायादबान्धवाः॥१५८
औरसःक्षेत्रजश्चैव दत्तः कृत्रिम एव च।
गुढोत्पन्नोऽपविद्धश्चदायादा बान्धवाश्च षट्॥१५९
कानीनश्च सहोढश्चक्रीतः पौनर्भवस्तथा।
स्वयंदत्तश्चशौद्रश्चषडदायादबान्धवाः॥ १६०
यादृशं फलमाप्नोति कुप्लवैः सन्तरं जलम्।
तादृर्शं फलमाप्नोति कुपुत्रैःसंतरंस्तमः॥१६१
यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ।
यस्ययत्पैतृकं रिक्थंस तद्गृह्नीत नेतरः॥१६२
एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः।
शेषाणामानृशंस्यार्थंप्रदद्यात्तु प्रजीवनम्॥१६३
पष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात्।
औरसो विभजन्दायं पित्र्यं पंचममेव वा॥१६४
औरसक्षेत्रजौ पुत्रौ पितुरिक्थस्य भागिनौ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः॥१६५
स्वेक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम्।
तमौरसं विजानीयात्पुत्रंप्राथमकल्पिकम्॥१६६
यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा।
स्वधर्मेण नियुक्तायां सपुत्रः क्षेत्रजः स्मृतः॥१६७
माता पिता वा दद्यातां यमद्भिः पुत्रमापदि।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः॥१६८
सदृशं तु प्रकुर्याद्यंगुणदोषविचक्षणम्।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः॥१६९
उत्पद्यते गृहे यस्य (यस्तु) न च ज्ञायेत कस्य सः।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः॥१७०
मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा।
यं पुरं परिगृह्णीयादपविद्धः स उच्यते॥१७१
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः।
तं कानीनं वदेन्नाम्ना वोढुःकन्यासमुद्भवम्॥१७२
या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती।
वोढुः स गर्भो भवति सहोढइति चोच्यते॥ १७३
क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात्।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा॥१७४
या पत्याया परित्यक्ता विधवा वा स्वयेच्छया।
उत्पादयेत्पुनर्भूत्वास पौनर्भव उच्यते॥१७५
सा चेदक्षतयोनिः स्याद्गतप्रत्यागताऽपि वा।
पौनर्भवेन मन्त्री सा पुनः संस्कारमर्हति॥१७६
मातापितृबिहीनोयस्त्यक्तो वा स्यादकारणात।
आत्मानमर्प (स्पर्श) येद्यस्मैस्वयंदत्तस्तु स स्मृतः॥१७७
यं ब्राह्मणस्तु शद्रायां कामादुत्पादयेत्सुतम्।
स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः॥१७८
दास्यांवादासदास्यां वा यः शूद्रस्य सुतो भवेत्।
सोऽनुज्ञातो हरेदंशमिति धर्मों व्यवस्थितः॥१७९
क्षेत्रजादीन्सुतानेतानेकादश यथोदितान्।
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः॥१८०
य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः।
यस्य ते बीजतो जातास्तस्यते नेतरम्य तु॥१८१
भ्रातृणामेकजातानामेकश्चेत्पुत्रवान्भवेत्।
सर्वांस्तांस्तेन पुत्रेण पुत्रिणोमनुरब्रवीत॥१८२
सर्वासामेकपत्नीनामेका चेत्पुत्रिणीभवेत्।
सर्वास्तास्तेन पुत्रेणप्राह पुत्रवतीर्मनुः॥१८३
श्रेयसः श्रेयसोऽलाभेपापीयान्रिक्थमर्हति।
वहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः॥१८४
न भ्रातरो न पितर पुत्रारिक्थहराः पितुः।
पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च॥१८५
त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते।
चतुर्थः संप्रदातैषांपञ्चमोनोपपद्यते॥१८६
अनन्तरः सपिण्डाद्यतस्य तस्य धनं भवेत्।
अत ऊर्ध्वंसकुल्यः स्यादाचार्यः शिष्य एव वा॥१८७
सर्वेषामप्यभावं तु ब्राह्मणा रिक्थभागिनः।
त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते॥१८८
अहार्यंब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः।
इतरेषां तु वर्णानां सर्बाभावं हरेन्नृपः॥१८९
संस्थितस्यानपत्यस्य सगोत्रात्पुत्रमाहरेत्।
तत्र यद्रिक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेत्॥१९०
द्वौ तु यौ विवदेयातां द्वाभ्यां जातौस्त्रिया धने।
तयोर्यद्यस्य य पित्र्यं स्यात्तत्स गृह्नीत नेतरः॥१९१
जनन्यां संस्थितायां तु समं सर्वे सहोदराः।
भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः॥१९२
यस्तासां स्युदुर्हितरस्तासामपि यथार्हतः।
मातामह्याधनात्किञ्चित्प्रदेयं प्रीतिपूर्वकम्॥१९३
अध्यग्न्यध्याबाहनिकं दत्तञ्चप्रीतिकर्मणि।
भ्रातृमातृपितृप्राप्तंषड्विधं स्त्रीधनं स्मृतम्॥१९४
अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत्।
पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत्॥९९५
ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्वसु।
अप्रजायामतीतायां भर्तुरेव तदिष्यते॥१९६
यत्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु।
अप्रजायामतीतायां मातापित्रोस्तदिष्यते॥१९७
स्त्रियां तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन।
ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेन्॥१९८
न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमध्यगात्।
स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया॥१९९
पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत्।
न तं भजेरन्दायादा भजमानाः पतन्ति ते॥२००
अनंशौक्लीवपतितौजात्यन्धबधिरौ तथा।
उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः॥२०१
सर्वेषामपि तुन्याय्यं दातुं शक्त्या मनीषिणा।
ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत्॥२०२
यद्यर्थिता तु दारैःस्यात्क्लीवादीनां कथंचन।
तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति॥२०३
यत्किञ्चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति।
भागो यवीयसां तत्र यदि विद्यानुपालिनः॥२०४
अविद्यानां तु सर्वषामीहातश्चेद्धनं भवेत्।
समस्तत्र विभागः स्यादपित्र्य इति धारणा॥२०५
विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत्।
मैत्रमौद्वाहिकंचैव माधुपर्किकमेव च॥२०६
भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा।
स निर्भाज्यःस्वकादंशात्किञ्चिदत्तोपजीवनम्॥२०७
अनुपध्नन्पितृद्रव्यंद्रव्यं श्रमेण यदुपा(र्जितम्) जयेत्।
स्वयमीहितलब्धंतन्नाकामो दातुमर्हति॥२०८
पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात्।
न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम्॥२०९
विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि।
समस्तत्र विभागः स्याज्यैष्ट्यं नत्र न विद्यते॥२१०
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः।
म्रियेतान्यतरोवापि तस्य भागो न लुप्यते॥२११
सोदर्या विभजेरंस्तं समेत्य सहिताः समम्।
भ्रातरो ये च संसृष्टाभगिन्यश्चसनाभयः॥२१२
यो ज्येष्ठो विनिकुर्वीत लोभाद्भ्रातृृन्यवीयसः।
सोऽज्येष्ठः स्यादभागश्चनियन्तव्यश्चराजभिः॥२१३
सर्व एव विकर्मस्या नार्हन्ति भ्रातरो धनम्।
न चादत्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम्॥२१४
भ्रातॄणामविभक्तानां यद्युत्थुानं भवेत्सह।
न पुत्रभागं विषमंपिता दद्यात्कथंचन॥२१५
ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेवहरेद्धनम्।
संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह॥२१६
अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात्।
मातयर्पि च वृत्तायां पितुर्माता हरेद्धनम्॥२१७
ऋणे धने च सर्वस्मिन्प्रविभक्ते यथाविधि।
पश्चाद् दृश्येतयत्किञ्चित्तत्सर्वं समतां नयेत्॥२१८
वस्त्रंपत्रमलङ्कारंकृतान्नमुदकं स्त्रियः।
योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते॥२१९
अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः।
क्रमशःक्षेत्रजादीनां द्यूतधर्मं निबोधत॥२२०
द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत्।
राजान्तकरणावेतौ द्वौदोषौ पृथिवीक्षिताम्॥२२१
प्रकाशमेतत्तास्कर्यंयद्देवनसमाह्वयौ।
तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान्भवेत्॥२२२
अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते।
प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः॥२२३
द्युतं समाह्वयं चैव यःकुर्यात्कारयेत वा।
तान्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः॥२२४
कितवान्कुशीलवान्क्रूरान्पाषण्डस्थांश्च मानवान्।
विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात्॥२२५
एते राष्ट्रे वर्तमाना राज्ञःप्रच्छन्नतस्कराः।
विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः॥२२६
द्यूतमेत्त्पुरा कल्पे वैरकरं महत्।
तस्माद्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्॥२२७
प्रच्छन्नं वाप्रकाशं वा तन्निषेवेत यो नरः।
तस्य दण्डविकल्पः स्याद्य्येष्टंनृपतेस्तथा॥२२८
क्षत्रवि़ट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन।
आनृण्यंकर्मणा गच्छेद्विप्रोदद्याच्छनैः शनैः॥२२९
स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम्।
शिफाविदलंज्ज्बाद्यैर्विदध्यांनृपतिदंमम्॥२३०
ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम्।
धनोष्मणापच्यमानास्तान्निःस्वान्कारयेन्नृपः॥२३१
कूटशासनकर्तृृंश्च प्रकृतीनां च दूषकान्।
स्त्रीबालब्राह्मणध्नांश्चहन्याद्द्विट्सेविनस्तथा॥२३२
तीरितं चानुशिष्टं च यत्र क्वचन यद्भवेत्।
कृतं तद्धर्मतोविद्यान्ननद्भूयो निवर्तयेत्॥२३३
अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा।
तत्स्त्रयं नृपतिः कुर्यात्तंसहस्रञ्च दण्डयेत्॥२३४
ब्रह्महाच सुरापश्च स्तेयीच गुरुतल्पगः।
एते सर्वे पृथग्ज्ञेया महापातकिनो नराः॥२३५
चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम्।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत्॥२३६
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः।
स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः पुमान्॥२३७
असंभोज्या ह्यसंयाज्या असंपाठ्या(विगर्हिताः) विवाहिनः।
चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः॥२३८
ज्ञातिसम्बन्धिभिस्त्वेतेत्यक्तत्र्याः कृतलक्षणाः।
निर्दया निर्नमस्कारास्तन्मनोरनुशासनम्॥२३९
प्रायश्चित्तं तु कुर्वाणाः सर्वे (पूर्वे) वर्णा यथोदितम्।
नाङ्क्याराज्ञा ललाटेस्युर्दाप्यसूत्तमसाहसम्॥२४०
आगस्तु ब्राह्मणस्यैव कार्यो मध्यमसाहसः।
बिवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः॥२४१
इतरे कृतवन्तस्तु पापान्येतान्यकामतः।
सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम्॥२४२
नाददीत नृपः साधुर्महापातकिनो धनम्।
आददानस्तु तल्लोभात्तेन दोषेण लिप्यते॥२४३
अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत्।
श्रुतवृत्तोपपन्ने या ब्राह्मणे प्रतिपादयेत्॥२४४
ईशो दण्डस्य वरूणो राज्ञां दण्डधरो हि सः।
ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः॥२४५
यत्र वर्जयते राजा पापकृद्भ्योधनागमम्।
तत्र कालेन जायन्ते मानवा दीर्घजीविनः॥२४६
निष्पद्यते च शस्यानि यथोप्तानि विशां पृथक्।
बालाश्च न प्रमीयन्ते विकृतं न च जायते॥२४७
ब्राह्मणान्बाधमानं तु कामादवरवर्णजम्।
हन्याच्चित्रैर्बधोपायैरुद्वेजनकरैर्नृपः॥२४८
यावानबध्यस्य बचेतावान्बध्यस्य मोक्षणे।
अधर्मो नृपतेर्दृष्टो धर्मस्तुविनियच्छतः॥२४९
उदितोऽयं विस्तरशो मिथोविवदमानयोः।
अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः॥२५०
एवं धर्म्याणि कार्याणि सम्यकुर्वन्महीपतिः।
देशानलब्धांल्लिपसेत लब्धांश्चपरिपालयेत्॥२५१
सम्यङ्निविष्टदेशस्तु कृतदुर्गश्चशाश्वतः।
कण्टकोद्धरणे नित्यमातिष्टेद्यन्नमुत्तमम्॥२५२
रक्षणादार्यवृत्तानां कण्टकानां च शोधनात्।
नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः॥२५३
अशासंस्तस्करान्यस्तु वलिं गृह्णाति पार्थिवः।
तस्य प्रक्षुभ्यते राष्ट्रंस्वर्गाच्च परिहीयते॥२५४
निर्भयं तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम्।
तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः॥२५५
द्विविधांस्तस्करान्विद्यात्परद्रव्यापहारकान्।
प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः॥२५६
प्रकाशवंचकास्तेषां नानापण्योपजीविनः।
प्रच्छन्नवञ्चकारस्त्वेते ये स्तेनाटविकादयः॥२५७
उत्कोचकाश्चोपधिका वञ्चकाः कितवास्तथा।
मङ्गलादेशवृत्ताश्च भद्रप्रेक्षणिकैः सह॥२५८
असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः।
शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः॥२५९
एवमाद्यान्विजानीयात्प्रकाशांल्लोककण्टकान्।
निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः॥२६०
तान्विदित्वासुचरितैर्गुढैस्तत्कर्मकारिभिः।
चारैश्चानेकसंस्थानैःप्रोत्साद्यवशमानयेत्॥२६९
तेषां दोषानभिख्याप्य स्वेस्वेकर्मणि तत्त्वतः।
कुर्वीत शासनं राजा सम्यक्सारापराधतः॥२६२
न हि दण्डादृते शक्यः कर्त्तुं पापविनिग्रहः।
स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ॥२६३
सभा प्रपापूपशालावेशमद्यान्नविक्रयाः।
चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च॥२६४
जीर्णोद्यनान्यरण्यानि कारुकावेशनानि च।
शून्यानि चाप्यगाराणि वनान्युपवनानि च॥२६५
एवं विधान्नृपो देशान्गुल्मैःस्थावरजङ्गमैः।
तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत्॥२६६
तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः।
विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः॥२६७
भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः।
शौर्यकर्मापदेशैश्च कुर्युस्तेपां समागमम्॥२६८
ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये।
तान्प्रसह्य नृपो हन्यात्समित्रज्ञातिबान्धवान्॥२६९
न होढेन विना चौरं घातयेद्धार्मिको नृपः।
सहोढं सोपकरणं घातयेदविचारयन्॥२७०
ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः।
भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत्॥२७१
राष्ट्रेषु रक्षाधिकृतान्सामन्तांश्चैव चोदितान्।
अभ्याघातेषु मध्यस्थान् शिष्याच्चौरानिव द्रुतम्॥२७२
यश्चापि धर्मसमयातप्रच्युतो धर्मजीवनः।
दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धिविच्युतम्॥२७३
ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने।
शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः॥२७४
राज्ञः कोशापहर्त्तृृश्च प्रातिकूल्येष्वस्थितान्।
धातयेद्विविधैर्दण्डैररीणां चोपजापकान्॥२७५
सन्धिं भित्वातु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः।
तेषां छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत्॥२७६
अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत्प्रथमेग्रहे।
द्वितीये हस्तचरणौ तृतीये बधमर्हति॥ २७७
अग्निदान्भक्तदांश्चैवतथा शस्त्रावकाशदान्।
संनिधातृृंश्च मोषस्य हन्याच्चौरमिवेश्वरः॥२७८
तडागभेदकं हन्यादप्सु शुद्धवचेन था।
यद्वाऽपि प्रतिसंस्कृर्याद्दाप्यस्तूत्तमसाहसम्॥२७९
कोष्ठागारायुधागारदेवतागारभेदकान्।
हस्त्यश्वरथहर्तृृंश्च हन्यादेवाविचारयन्॥२८०
यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत्।
आगमं वाप्यपां भिद्यात्स दाप्य पूर्वसाहसम्॥२८१
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि।
सद्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत्॥२८२
आपद्गतोऽथवा वृद्धा गर्भिणीबाल एव वा।
परिभाषणमर्हन्ति तच्चशोध्यमिति स्थितिः॥२८३
चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः।
अमानुषेषु प्रथमो मानुषेषु तु मध्यमः॥२८४
संक्रमध्यजयष्टीनां प्रतिमानां च भेदकः।
प्रतिकुर्याच्च तत्सर्वं पञ्च दद्याच्छतानि च॥२८५
अदूषितानां द्र्व्याणां दूषणे भेदने तथा।
मणीनापवेधेच दण्डः प्रथमसाहसः॥२८६
समैर्हि विषमं यस्तु चरेद्धैमूल्यतोऽपि वा।
समाप्नुयाद्दमं पूर्वं नरो मध्यममेव वा॥२८७
बन्धनानि च सर्वाणि राजमार्गे निवेशयेत्।
दुःखिता यत्रदृश्येरन्विकृताः पापकारिणः॥२८८
प्राकारस्य च भेत्तारं परिखाणां च पूरकम्।
द्वाराणां चैव भङ्क्तारं क्षिप्रमेवप्रवासयेत्॥२८९
अभिचारेषु सर्वेषु कर्त्तव्यो द्विशतो दमः।
मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च॥२९०
अवीजविक्रयी चैवबीजोत्क्रष्टा तथैव च।
मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम्॥२९१
सर्वकण्टपापिष्टं हेमकारं तु पार्थिवः।
प्रवर्त्तमानमन्याये छेदये(खण्डशः) ल्लवशः क्षुरेः॥२९२
सीताद्रव्यापहरणेशस्त्राणामौषधस्य च।
कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत्॥२९३
स्वाम्य्ऽमात्यौपुरं राष्ट्रं कोशदण्डौ सुहृत्तथा।
सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते॥२९४
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम्।
पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं महत्॥२९५
सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत्।
अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते॥२९६
तेषु तेषु तु कृत्येषु ततदङ्ग विशिष्यते।
येन यत्साध्यते कार्यं तत्तस्मिन् श्रेष्ठमुच्यते॥२९७
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम्।
स्वशक्तिं परशक्तिं च नित्यं विद्या (न्महीपतिः)त्परात्मनोः॥२९८
पीडनानि च सर्वाणि ब्यसनानि तथैव च।
आरभेत ततः कार्यं संचिन्त्यगुरुलाघवम्॥२९९
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः।
कर्माण्यारभमाणं हि पुरुषं श्रीर्न्निषेवते॥३००
कृतं त्रेतायुगं चैव द्वापरं कलिरेव च।
राज्ञोबृत्तानि सर्वाणि राजा हि युगमुच्यते॥३०१
कलिः प्रसुप्तोभवति स जाग्रद्द्वापरं युगम्।
कर्मस्वभ्युद्यतस्तत्रेता विचरंस्तु कृतं युगम्॥३०२
इन्द्रस्यार्कस्यवायोश्च यमस्य वरुणस्य च।
चन्द्रस्याग्नेः पृथिव्याश्चतेजोवृत्तं नृपश्चरेत॥३०३
वार्षिकांश्चतुरोमासान्यथेन्द्रोऽभिप्रयर्षति।
तथाभिवर्षेत्स्त्रं राष्ट्रं कामैरिन्द्रब्तं चरन्॥ ३०४
अष्टौ मासान्यथादित्यस्तोयं हरति रश्मिभिः।
तथा हरेत्करं राष्ट्रान्नित्यमर्कव्रतं हि तत्॥ ३०५
प्रविश्य सर्वभूतानि यथा चरति माहतः।
तथा चारैः प्रवेष्टव्यं ब्रतमेतद्धि मारुतम्॥३०६
यथा यमः प्रियद्वेष्यौप्राप्ते काले नियच्छति।
तथा राज्ञा नियन्तव्या प्रजास्तद्धियमब्रतम्॥३०७
वरूणेनयथा पाशैर्बद्ध एवाभिदृश्यते।
तथा पापान्निगृह्नीयाद्व्रतमेतद्धि वारुणम्॥३०८
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः।
तथा प्रकृतयो यस्मिन्स चान्द्रव्रतिको नृपः॥३०९
प्रतापयुक्तस्तेजस्वीनित्यं स्यात्पापकर्मसु।
दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम्॥३१०
यथा सर्वाणि भूतानि धरा धारयते समम्।
तथा सर्वाणि भूतानि विभ्रतः पार्थिवं ब्रतम्॥३११
एतैरुपायैरन्यैश्चयुक्तो नित्यमतन्द्रितः।
स्तेनात्राजा निगृह्णीयातस्वराष्ट्रे परएव च॥३१२
परामप्यापदंप्राप्तो ब्राह्मणान्न प्रकोपयेत्।
ते ह्येनं कुपिता हन्युः सद्यःसबलवाहनम्॥३१३
यैः कृतः सर्वभक्षोऽग्निरपेयश्चमहोदधिः।
क्षयीचाप्यायितः सोमः को न नश्येप्रकोप्यतान्॥३१४
लोकानन्यान्सृजेयुर्ये लोकपालांश्च कोपिताः।
देवान्कुर्युरदेवाश्चकः क्षिण्वंस्तान्समृध्नुयात्॥३१५
यानुपाश्रित्य तिष्ठन्ति लोका देवाश्चसर्वदा।
ब्रह्म चैवधनं येषां को हिंस्यात्ताञ्जिजीविषुः॥३१६
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्।
प्रणीतश्चाप्रणीतश्चयथाग्निर्दैवतं महत्॥३१७
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति।
हूयमानश्चयज्ञेषु भूय एवाभिवर्धते॥२१८
एवं यद्यप्यनिष्टेषु वर्त्तन्ते सर्वकर्मसु।
सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत्॥३१९
क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान्प्रति सर्वशः।
ब्रह्मैव सन्नियन्तृस्यात्क्षत्रं हि ब्रह्मसंभवम्॥३२०
अद्भ्योऽग्निर्ब्रह्मतःक्षत्रमश्मनो लोहमुत्थितम्।
तेषांसर्वत्रगं तेजः स्वासुयोनिषु शाम्यति॥३२१
नाब्रह्मक्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्धते।
ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते॥३२२
दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम्।
पुत्रे राज्यं समा (साद्य) सृज्य कुर्वीत प्रायणं रणे॥३२३
एवं चरन्सदा युक्तोराजधर्मेषु पार्थिवः।
हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत्॥३२४
एषोऽखिलःकर्मविधिरुक्तो राज्ञः सनातनः।
इमं कर्मविधिं विद्यात्क्रमशो वैश्यशूद्रयोः॥३२५
वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम्।
वार्तायां नित्ययुक्तः स्यात्पशूनां चैवरक्षणे॥३२६
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून्।
ब्राह्मणाय च राज्ञेच सर्वाः परिददे प्रजाः॥३२७
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति।
वैश्ये चेच्छति नान्येन रक्षितव्याःकथंचन॥३२८
मणिमुक्ताप्रवालानांलोहानां तांतवस्य च।
गन्धानां च रसानां च विद्यादर्घबलाबलम्॥ ३२९
बीजानामुप्तिविच्च स्यात्क्षेत्रदोषगुणस्य च।
मानयोगं च जानीयात्तुलायोगांश्च सर्वशः॥ ३३०
सारासारं च भाण्डानां देशानां च गुणागुणान्।
लाभालाभं पण्यानांपशूनां परिवर्धनम्॥३३१
भृत्यानां च भृतिंविद्याद्भषाश्च विविधा नृणाम्।
द्रव्यणां स्थानयोगांश्च क्रयविक्रयमेव च॥३३२
धर्मेण च द्रव्यवृद्धावातिष्ठेद्यत्नमुत्तमम्।
दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः॥३३३
विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम्।
शुश्रूषैव तु शूद्रस्य धर्मा नैःश्रेयसः परम्॥२३४
शुचिरूत्कृष्टशुश्रूषुर्मृदुवागनकृतः।
ब्राह्मणापाश्रयो नित्यमुत्कृष्टां जातिमश्नुते॥३३५
एषोऽनापदि वर्णानामुक्तःकर्मविधिः शुभः।
आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत॥३३६
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां
नवमोऽध्यायः॥९॥
<MISSING_FIG href="../books_images/U-IMG-1725374434हग.PNG"/>
दशमोऽध्यायः।
अथादौ—वर्णानां भेदान्तरविवेकवर्णनम्।
अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः।
प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः॥१
सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि।
प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत्॥२
वैशेष्यात्प्रकृतिश्रेष्ठ्यान्नियमस्य च धारणात्।
संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः॥ ३
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णाद्विजातयः।
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पंचमः॥ ४
सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु।
आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते॥ ५
स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान्।
सदृशानेव तानाहुर्मातृदोषविगर्हितान्॥ ६
अनन्तरासुजातानां विधिरेष सनातनः।
द्व्येकान्तरासुजातानां धर्म्यंविद्यादिमं विधिम्॥ ७
ब्राह्मणाद्वैश्यकन्यायामंबष्ठो नाम जायते।
निषादः शूद्रकन्यायां यः पारशव उच्यते॥ ८
क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान्।
क्षत्त्रशूद्रवपुर्जं तु रुग्रो नाम प्रजायते॥९
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः।
वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः॥१०
क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः।
वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ॥ ११
शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम्।
वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः॥ १२
एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ।
क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि॥ १३
पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम्।
ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते॥ १४
ब्राह्मणादुग्रकन्यायामावृतो नाम जायते।
आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः॥ १५
आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम्।
प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः॥ १६
वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु।
प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः॥ १७
जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः।
शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः॥ १८
क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते।
वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते॥ १९
द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान्।
तान्सावित्रीपरिभ्रष्टान्व्रात्यानिति विनिर्दिशेत्॥ २०
व्रात्यात्तु जायते विप्रात्पापात्मा भूज्जकण्टकः।
आवन्त्यवाटधानौ च पुष्पधः शैख एव च॥ २१
झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च।
नटश्च करणश्चैव खसो द्रविड एव च॥ २२
वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च।
कारुषश्च विजन्मा च मैत्रः सात्वनएव च॥ २३
व्यभिचारेण वर्णानामवेद्यावेदनेन च।
स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः॥ २४
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः।
अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः॥ २५
सूतो वैदेहकश्चैव चण्डालश्च नराधमः।
मगधःक्षत्तृजातिश्च तथायोगव एव च॥ २६
एते षट्सदृशान्वर्णाञ्जनयन्ति स्वयोनिषु।
मातृजात्याःप्रसूयन्ते प्रवारासु च योनिषु॥ २७
यथा त्रयाणां वर्णानां द्वयोरात्माऽस्य जायते।
आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात्॥ २८
ते चापि बाह्यान्सुबहूंस्ततोऽप्यधिकदूषितान्।
परस्परस्य दारेषु जनयन्ति विगर्हितान्॥ २९
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते।
तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते॥ ३०
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान्पुनः।
हीना हीनान्प्रसूयन्ते वर्णान्पञ्चदशैव तु॥ ३१
प्रसाधनोपचारज्ञमदासं दासजीवनम्।
सैरन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे॥ ३२
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते।
नॄन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये॥ ३३
निषादो मार्गवं सूते दासं नौकर्मजीविनम्।
कैवर्त्तमिति यं प्राहुरार्यावर्तनिवासिनः॥ ३४
मृतवस्त्रभृत्सुनारीषु गर्हितान्नाशनासु च।
भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः॥ ३५
कारावरो निषादात्तु चर्मकारंप्रसूयते।
वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ॥ ३६
चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान्।
आहिण्डिको निषादेन वैदेह्यामेव जायते॥ ३७
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान्।
पुल्कस्यां जायते पापः सदा सज्जनगर्हितः॥ ३८
निषादस्त्री तु चण्डालात्पुत्रमन्त्यावसायिनम्।
श्मशानगोचरं सूते बाह्यानामपि गर्हितम्॥ ३९
सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः॥ ४०
स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः।
शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः॥ ४१
तपोवीजप्रभावैस्तु ते गच्छन्ति युगे युगे।
उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः॥ ४२
शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः।
वृषलत्वं गता लोके ब्राह्मणा (तिक्रमेण)दर्शनेन च॥ ४३
पुण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः।
पारदापह्लवाश्चीनाः किराता दरदाः खशाः॥ ४४॥
मुखबाहूरुपज्जानां या लोके जातयो बहिः।
म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः॥ ४५
ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः।
ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः॥ ४६
सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम्।
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः॥ ४७
मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च।
मेदान्ध्रचुञ्चुमद्गूनामरण्यपशुहिंसनम्॥ ४८
क्षत्त्रुग्रपुक्कसानां तु बिलौको वधबन्धनम्।
धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम्॥ ४९
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च।
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः॥ ५०
चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः।
अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम्॥ ५१
वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम्।
कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः॥ ५२
न तैः समयमन्विच्छेत्पुरुषो धर्ममाचरन्।
व्यवहारो मिथस्तेषां विवाहः सदृशैः सह॥ ५३
अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने।
रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च॥ ५४
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः।
अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः॥ ५५
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया।
वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च॥ ५६
वर्णापेतमविज्ञातं नरं कलुषयोनिजम्।
आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत्॥ ५७
अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्॥ ५८
पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा।
न कथञ्चन दुर्योनिः प्रकृतिं स्वां नियच्छति॥ ५९
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसंकरः।
संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु॥ ६०
यत्र त्वेते परिध्वंसाज्जायन्ते वर्णदूषकाः।
राष्ट्रीयैःसह तद्राष्ट्रं क्षिप्रमेव विनश्यति॥ ६१
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः।
स्त्रीबाला(भ्यव)भ्युपपत्तौ च बाह्यानां सिद्धिकारणम्॥ ६२
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः।
एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः॥ ६३
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते।
अश्रेयान्श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात्॥ ६४
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्।
क्षत्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च॥ ६५
अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया।
ब्राह्मण्यामप्यनार्यात्तु श्रेयस्त्वं क्वेति(कस्य) चेद्भवेत्॥ ६६
जातो नार्यामनार्यायामर्यादार्यो भवेद्गुणैः।
जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः॥ ६७
तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः।
वैगुण्याज्जन्मनः पूर्वमुत्तरः प्रतिलोमतः॥ ६८
सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा।
तथाऽऽर्याज्जात आर्यायां सर्वं संस्कारमर्हति॥ ६९
बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः।
बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः॥ ७०
अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति।
अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत्॥ ७१
यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन्।
पूजिताश्च प्रशस्ताश्च तस्माद्बीजं (विशिष्यते) प्रशस्यते॥ ७२
अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम्।
सम्प्रधार्याब्रवीद्धाता न समौ नासमाविति॥ ७३
ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः।
ते सम्यगुपजीवेयुः षट्कर्माणि यथाक्रमम्॥ ७४
अध्यापनमध्ययनं यजनं याजनं तथा।
दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः॥ ७५
षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः॥ ७६
त्रयो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति।
अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः॥ ७७
वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः।
न तौ प्रति हितान्धर्मान्मनुराह प्रजापतिः॥ ७८
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विशः।
आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः॥ ७९
वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम्।
वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु॥ ८०
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा।
जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः॥ ८१
उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत्।
कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम्॥ ८२
वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत्॥ ८३
कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः।
भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्॥ ८४
इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणम्।
विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम्॥ ८५
सर्वान् रसानपोहेत कृतान्नं च तिलैः सह।
अश्मनो लवणं चैव पशवो ये च मानुषाः॥ ८६
सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च।
अपि चेत्स्युररक्तानि फलमूले तथौषधीः॥ ८७
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः।
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्॥ ८८
आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च।
मद्यं नीलींच लाक्षां च सर्वांश्चैकशफांस्तथा॥ ८९
काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः।
विक्रीणीत तिलान्शूद्रान्धर्मार्थमचिरस्थितान्॥ ९०
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति॥ ९१
सद्यः पतति मांसेन लाक्षया लवणेन च।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात्॥ ९२
इतरेषां तु पण्यानां विक्रयादिह कामतः।
ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति॥ ९३
रसा रसैर्निमातव्या न त्वेव लवणं रसैः।
कृतान्नं च कृतान्नेन(कृतान्नेन) तिला धान्येन तत्समाः॥ ९४
जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः।
न त्वेव ज्यायंसीं वृत्तिमभिमन्येत कर्हिचित्॥ ९५
यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः।
तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत्॥ ९६
वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः।
परधर्मेण जीवन्हि सद्यः पतति जातितः॥ ९७
वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत्।
अनाचरन्नकार्याणि निवर्तेत च शक्तिमान्॥ ९८
अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम्।
पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः॥ ९९
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः।
तानि कारुककर्माणि शिल्पानि विविधानि च॥ १००
वैश्यवृत्तिमनातिष्ठन्ब्राह्मणः स्वे पथि स्थितः।
अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत्॥ १०१
सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः।
पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते॥ १०२
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात्।
दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते॥ १०३
जीवितात्ययमापन्नो योऽन्नमत्ति यत (तत) स्ततः।
आकाशमिव पङ्केन न स पापेन लिप्यते॥ १०४
अजीगर्तः सुतं हन्तुमुपासर्पद्बुभुक्षितः।
न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन्॥ १०५
श्वमांसमिच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः।
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान्॥ १०६
भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने।
बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः॥ १०७
क्षुधार्तश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम्।
चण्डालहस्तादादाय धर्माधर्मविचक्षणः॥ १०८
प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि।
प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः॥ १०९
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम्।
प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः॥ ११०
जपहोमैरपैत्येनो याजनाध्यापनैः कृतम्।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च॥ १११
शिलोञ्छमप्याददीत विप्रोऽजीवन्यतस्ततः।
प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते॥ ११२
सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः।
याच्यः स्यात्स्नातकैर्विप्रैरदित्संस्त्यागमर्हति॥ ११३
अकृतं च कृतात्क्षेत्राद्गौरजाविकमेव च।
हिरण्यं धान्यमन्नं च पूर्वं पूर्वमदोषवत्॥ ११४
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च॥ ११५
विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः।
धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः॥ ११६
ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत्।
कामं तु खलु धर्मार्थं दद्यात्पापीयसेऽल्पिकाम्॥ ११७
चतुर्थमाददानोऽपि क्षत्रियो भागमापदि।
प्रजा रक्षन्परं शक्त्या किल्बिषात्प्रतिमुच्यते॥ ११८
स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः।
शस्त्रेण वैश्याद्रक्षित्वा धर्म्यमाहारयेद्बलिम्॥ ११९
धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम्।
कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा॥ १२०
शूद्रस्तु वृत्तिमाकाङ्क्षन्क्षत्रमाराधयेद्यदि।
धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविषेत्॥ १२१
स्वर्गार्थंमुभयार्थं वा विप्रानाराधयेत्तु सः।
जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता॥ १२२
विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते।
यदतोऽन्यद्धि कुरुते तद्भवत्यस्य निष्फलम्॥ १२३
प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः।
शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम्॥ १२४
उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च।
पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः॥ १२५
न शूद्रे पातकं किंचिन्न च संस्कारमर्हति।
नास्याधिकारो धर्मोऽस्ति न धर्मात्प्रतिषेधनम्॥ १२६
धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्त(धर्म)मनुष्ठिताः।
मन्त्रव(र्जं)र्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च॥ १२७
यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः।
तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः॥ १२८
शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः।
शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते॥ १२९
एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः।
यान्सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम्॥ १३०
एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः।
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम्॥ १३१
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां
दशमोऽध्याय ॥१०॥
एकादशोऽध्यायः।
अथ धर्मप्रतिरूपवर्णनम्।
सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम्।
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः॥ १
न वै तान्स्नातकान्विद्याद्ब्राह्मणान्धर्मभिक्षुकान्।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः॥ २
एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम्।
इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते॥ ३
सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत्।
ब्राह्मणान्वेदविदुषो यज्ञार्थं चैव दक्षिणाम्॥ ४
कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति।
रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः॥ ५
धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत्।
वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते॥ ६
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये।
अधिकं वाऽपि विद्येत स सोमं पातुमर्हति॥ ७
अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः।
स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम्॥ ८
शक्तः परजने दाता स्वजने दुःखजीविनि।
मध्वापातो विषास्वादः स धर्मप्रतिरूपकः॥ ९
भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम्।
तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च॥ १०
यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः।
ब्राह्मणस्य विशेषेणधार्मिके सति राजनि॥ ११
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः।
कुटुम्बात्तस्य तद्द्रव्यमाहरेद्यज्ञसिद्धये॥ १२
आहरेत्त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः।
न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः॥ १३
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः।
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्॥ १४
आदाननित्याच्चादातुराहरेदप्रयच्छतः।
तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते॥ १५
तथैव सप्तमे भक्ते भक्तानि षडनश्नता।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः॥ १६
खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते।
आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति॥ १७
ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन।
दस्युनिष्क्रिययोस्तु स्वमजीवन्हर्तुमर्हति॥ १८
योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति।
स कृत्वा प्लवमात्मानं संतारयति तावुभौ॥ १९
यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः।
अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते॥ २०
न तस्मिन्धारयेद्दण्डं धार्मिकः पृथिवीपतिः।
क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा॥ २१
तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः।
श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत्॥ २२
कल्पयित्वास्य वृत्तिं च रक्षेदेनं समतंतः।
राजा हि धर्मषड्भागं तस्मात्प्राप्नोति रक्षितात्॥ २३
न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हिचित्।
यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते॥ २४
याज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति।
स याति भासतां विप्रः काकतां वा शतं समाः॥ २५
देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः।
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति॥ २६
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये।
क्लृप्तानांपशुसोमानां निष्कृत्यर्थमसंभवे॥ २७
आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः।
स नाप्नोति फलं तस्य परत्रेति विचारितम्॥ २८
विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः।
आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः॥ २९
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते।
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम्॥ ३०
न ब्राह्मणो वेदयेत किञ्चिद्राजनि धर्मवित्।
स्ववीर्येणैव ताञ्छिष्यान्मानवानपकारिणः॥ ३१
स्ववीर्याद्राजवीर्याच्च स्ववीर्यं बलवत्तरम्।
तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन्द्विजः॥ ३२
श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन्।
वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्द्विजः॥ ३३
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः।
धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः॥ ३४
विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते।
तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत्॥ ३५
न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः।
होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा॥ ३६
नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत्।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः॥ ३७
प्राजापत्यमदत्त्वाऽश्वमग्न्याधेयस्य दक्षिणाम्।
अनाहिताग्निर्भवति ब्राह्मणो विभवे सति॥ ३८
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः।
न त्वल्पदक्षिणैर्यज्ञैर्यजेते ह कथंचन॥ ३९
इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून्।
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत्॥ ४०
अग्निहोत्र्यपविध्याग्नीन्ब्राह्मणः कामकारतः।
चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत्॥ ४१
ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते।
ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः॥ ४२
तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम्।
पदा मस्तकमाक्रम्य दाता दुर्गाणि सन्तरेत्॥४३॥
अकुर्वन्विहितं कर्म निन्दितं च समाचरन्।
प्रस(ज्जन्नि)क्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः॥४४॥
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः।
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात्॥४५॥
अकामतः कृतं पापं वेदाभ्यासेन शुद्ध्यति।
कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः॥४६॥
प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा।
न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः॥४७॥
इह दुश्चरितैः केचित्केचित्पूर्वकृतै(कृत)स्तथा।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम्॥४८॥
सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम्।
ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः॥४९॥
पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम्।
धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः॥५०॥
अन्नहर्तामयावित्वं मौक्यं वागपहारकः।
वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः॥५१॥
दीपहर्ता भवेदन्धः काणो निर्वापको भवेत्।
हिंसया व्याधिभूयस्त्वं स्फीतोऽन्यस्त्र्यभिमर्षकः॥५२॥
एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः।
जडमूकान्धबधिरा विकृताकृतयस्तथा॥५३॥
चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये।
निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः॥५४॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह॥५५॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम्।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया॥५६॥
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः।
गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट्॥५७॥
निक्षेपस्यापहरणं नराश्वरजतस्य च।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम्॥५८॥
रेतः सेकः स्वयोनीषु कुमारीष्वन्त्यजासु च।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः॥५९॥
गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयाः।
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च॥६०॥
परिवित्तितानुजेऽनूढे परिवेदनमेव च।
तयोर्दानं च कन्यायास्तयोरेव च याजनम्॥६१॥
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम्।
तडागारामदाराणामपत्यस्य च विक्रयः॥६२॥
व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च।
भृताच्चाध्ययनादानमपण्यानां च विक्रयः॥६३॥
सर्वाकरेष्वधीकारो महायन्त्रप्रवर्तनम्।
हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च॥६४॥
इन्धनार्थमशुष्काणां द्रुमाणामवपातनम्।
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा॥६५॥
अनाहिताग्निता स्तेयमृणानामनपक्रिया।
असच्छास्त्राधिगमनं कौशीलव्यस्य च क्रिया॥६६॥
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम्।
स्त्रीशूद्रविट्क्षत्त्रवधो नास्तिक्यं चोपपातकम्॥६७॥
ब्राह्मणस्य रुजः कृत्यंघ्रातिरघ्रेयमद्ययोः।
जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम्॥६८॥
खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा।
सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च॥६९॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम्।
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम्॥७०॥
कृमिकीटवयोहत्या मद्य (अनुगत) संस्पृष्टभोजनम्।
फलैधः कुसुमस्तेयमधैर्यं च मलावहम्॥७१॥
एतान्येनांसि सर्वाणि यथोक्तानि पृथक् पृथक्।
यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यङ्निबोधत॥७२॥
ब्रह्महा द्वादशसमाः कुटीं कृत्वा वने वसेत्।
भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम्॥७३॥
लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः।
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः॥७४॥
यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुताऽपि वा॥७५॥
जपन्वान्यतमं वेदं योजनानां शतं व्रजेत्।
ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रियः॥७६॥
सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत्।
धनं वा जीवनायालं गृहं वासःपरिच्छदम्॥७७॥
हविष्यभुग्वाऽनुसरेत्प्रतिस्रोतः सरस्वतीम्।
जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम्॥७८॥
कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः॥७९॥
ब्राह्मणार्थे गवार्थे वा सद्यः (सम्यक्)प्राणान्परित्यजेत्।
मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च॥८०॥
त्र्यवरं प्रतिरोद्धा वा सर्वस्वमवजित्य वा।
विप्रस्य तन्निमित्ते वा प्राणालाभेऽपिमुच्यते॥८१॥
एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः।
समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति॥८२॥
शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे।
स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते॥८३॥
धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते।
तस्मात्समागमे तेषामेनोविख्याप्य शुध्यति॥८४॥
ब्राह्मणः सम्भवेनैव देवानामपि दैवतम्।
प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम्॥८५॥
तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम्।
सा तेषां पावनाय स्यात्पवित्रं विदुषां हि वाक्॥८६॥
अतोऽन्यतममास्थाय विधिं विप्रः समाहितः।
ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया॥८७॥
हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत्।
राजन्यवैश्यौ चेजानावात्रेयीमेव च स्त्रियम्॥८८॥
उक्त्वा चैवानृतं साक्ष्ये प्रतिरुद्ध्य (रभ्य) गुरुं तथा।
अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम्॥८९॥
इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम्।
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते॥९०॥
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत्।
तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः॥९१॥
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा।
पयो घृतं वाऽऽमरणाद्गोशकृद्रसमेव वा॥९२॥
कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि।
सुरापानापनुत्यर्थं बालवासा जटी ध्वजी॥९३॥
सुरां वै मलमन्नानां पाप्मा च मलमुच्यते।
तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत्॥९४॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः॥९५॥
यक्षरक्षः पिशाचान्नं मद्यं मांसं सुरासवम्।
तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः॥९६॥
अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेद्।
अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहतः॥९७॥
यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत्।
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति॥९८॥
एषा विचित्राऽभिहिता सुरापानस्य निष्कृतिः।
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम्॥९९॥
सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु।
स्वकर्म ख्यापयन्ब्रूयान्मां भवाननुशास्त्विति॥१००॥
गृहीत्वा मुसलं राजा सकृद्वन्यात्तु तं स्वयम्।
वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु॥१०१॥
तपसाऽपनुनुत्सुस्तु सुवर्णस्तेयजं मलम्।
चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणोऽव्रतम्॥१०२॥
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः।
गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत्॥१०३॥
गुरुतल्प्यभिभाष्यैनस्तल्पेस्वप्यादयोमये।
सूर्मी ज्वलन्तीं वाश्लिष्येन्मृत्युना स विशुद्ध्यति॥१०४॥
स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ।
नैरृतीं दिशमातिष्ठेदानिपातादजिह्नगः॥१०५॥
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने।
प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः॥१०६॥
चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः।
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये॥१०७॥
एतैर्व्रतैरपोहेयुर्महापातकिनो मलम्।
उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः॥१०८॥
उपपातकसंयुक्तो गोघ्नो मासं यवान्पिबेत्।
कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः॥१०९॥
चतुर्थकालमश्नीयादक्षारलवणं मितम्।
गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः॥११०॥
दिवानुगच्छेद्गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत्।
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनौवसेत्॥१११॥
तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत्।
आसीनासु तथासीनो नियतो वीतमत्सरः॥११२॥
आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः।
पतितां पङ्कलग्नांवा सर्वोपायै(सर्वप्राणै)र्विमोचयेत्॥११३॥
उष्णे वर्षति शीते वा मारुते वापि (वाति) वा भृशम्।
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः॥११४॥
आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथवा खले।
भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम्॥११५॥
अनेन विधिना यस्तु गोघ्नो गामनुगच्छति।
स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति॥११६॥
वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत्॥११७॥
एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः।
अवकीर्णिव(र्जं)र्ज्यं शुद्ध्यर्थं चान्द्रायणमथापि वा॥११८॥
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे।
पाकयज्ञविधानेन यजेत निर्ऋतिं निशि॥११९॥
हुत्वाऽग्नौ विधिवद्धोमानन्ततश्च समेत्यृचा।
वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः॥१२०॥
कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः।
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः॥१२१॥
मारुतं पुरुहूतं च गुरुं पावकमेव च।
चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः॥१२२॥
एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम्।
सप्तागारांश्चरेद्भैक्षं स्वकर्म परिकीर्तयन्॥१२३॥
तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम्।
उपस्पृशं स्त्रिषवणं त्वब्देन स विशुद्ध्यति॥१२४॥
जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया।
चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया॥१२५॥
सङ्करापात्रकृत्यासु मासं शोधनमैन्दवः।
मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम्॥१२६॥
तुरीयो ब्रह्महत्यायाः क्षत्त्रियस्य वधे स्मृतः।
वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः॥१२७॥
अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः।
वृषभैकसहस्रा गा दद्यात्सुचरितव्रतः॥१२८॥
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम्।
वसन्दूरतरे ग्रामाद्वृक्षमूलनिकेतनः॥१२९॥
एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः।
प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम्॥१३०॥
एतदेव व्रतं कृत्स्नं षण्मासान्शूद्रहा चरेत्।
वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः॥१३१॥
मार्जारनकुलौ हत्वा चापं मण्डूकमेव च।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत्॥१३२॥
पयः पिबेत्त्रिरात्रं वा योजनं वाऽध्वनो व्रजेत्।
उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाऽब्दैवतं जपेत्॥१३३॥
अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः।
पलालभारकं षण्ढे सैसकं चैकमापकम्॥१३४॥
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ।
शुके द्विहायनं वत्सं क्रौंचं हत्वा त्रिहायनम्॥१३५॥
हत्वा हंसं बलाकां च बकं बर्हिणमेव च।
वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम्॥१३६॥
वासो दद्याद्धयं हत्वा पंच नीलान्वृषान्गजम्।
अजमेषावनड्वाहं खरं हत्वैकहायनम्॥१३७॥
क्रव्यादांस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम्।
अक्रव्यादान्वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम्॥१३८॥
जीनकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये।
चतुर्णामपि वर्णानां नारीर्हत्वाऽनवस्थिताः॥१३९॥
दानेन वधनिर्णेकं सर्पादीनामशक्नुवन्।
एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये॥१४०॥
अस्थिमतां तु सत्वानां सहस्रस्य प्रमापणे।
पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत्॥१४१॥
किंचिदेव तु विप्राय दद्यादस्थिमतां वधे।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुद्ध्यति॥१४२॥
फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम्।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम्॥१४३॥
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम्॥१४४॥
कृष्टजानामोषधीनां जातानां च स्वयं वने।
वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोव्रतः॥१४५॥
एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम्।
ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे॥१४६॥
अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुद्ध्यति।
मतिपूर्वमनिर्द्देश्यं प्राणान्तिकमिति स्थितिः॥१४७॥
अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा।
पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः॥१४८॥
स्पृष्ट्वा दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च।
शूद्रोच्छिष्टाश्च पीत्वाऽऽपः कुशवारि पिबेत्त्र्यहम्॥१४९॥
ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः।
प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति॥१५०॥
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च।
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः॥१५१॥
वपनं मेखलादण्डो भैक्षचर्या व्रतानि च।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि॥१५२॥
अभोज्यानां तु भुक्त्वाऽऽन्नं स्त्रीशूद्रोच्छिष्टमेव च।
जग्धा मांसमभक्ष्यञ्च सप्तरात्रं यवान्पिबेत्॥१५३॥
शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः।
तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः॥१५४॥
विड्वराहखरोष्ट्राणां गोमायो कपिकाकयोः।
प्राश्य मूत्रपुरीषाणि द्विजश्चांद्रायणं चरेत्॥१५५॥
शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च।
अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत्॥१५६॥
क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे।
नरकाकखराणां च तप्तकृच्छ्रं विशोधनम्॥१५७॥
मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः।
स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत्॥१५८॥
ब्रह्म(व्रत)चारी तु योऽश्नीयान्मधु मांसं कथंचन।
स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत्॥१५९॥
बिडालकाकाखूच्छिष्टं जग्ध्वाश्वनकुलस्य च।
केशकीटावपन्नं च पिबेद्ब्रह्मसुवर्चलाम्॥१६०॥
अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता।
अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्याशु शोधनैः॥१६१॥
एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः।
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः॥१६२॥
धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः।
स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति॥१६३॥
मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः।
गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत्॥१७५॥
चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति॥१७६॥
विप्रदुष्टां स्त्रियं भर्त्ता निरुन्ध्यादेकवेश्मनि।
यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्॥१७७॥
सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपमन्त्रिता।
कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम्॥१७८॥
यत्करोत्येकरात्रेण वृषलीसेवनाद्विजैः।
तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति॥१७९॥
एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः।
पतितैः सम्प्रयुक्तानामिमाः शृणुत निष्कृतीः॥१८०॥
संवत्सरेण पतति पतितेन सहाचरन्।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात्॥१८१॥
यो येन पतितेनैषां संसर्गं याति मानवः।
स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये॥१८२॥
पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः।
निन्दितेऽहनि सायाह्ने ज्ञात्र्यृत्विग्गुरुसन्निधौ॥१८३॥
दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा।
अहोरात्रमुपासीरन्नशौचं बान्धवैः सह॥१८४॥
निवर्तेरंश्च तस्मात्तु सम्भाषण सहासने।
दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी॥१८५॥
सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम्।
गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम्॥१९७॥
व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति॥१९८॥
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः।
संवत्सरं यवाहारस्तत्पापमपसेधति॥१९९॥
श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च।
नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति॥२००॥
षष्ठान्नकालता मासं संहिताजप एव वा।
होमाश्च शाकला नित्यमपांक्त्यानां विशोधनम्॥२०१॥
उष्ट्रयानं समारुह्य खरयानं तु कामतः।
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति॥२०२॥
विनाऽद्भिरप्सु वाऽप्यार्त्तःशारीरं सन्निषेव्य च।
सचैलो बहिराप्लुत्य गामालभ्य विशुद्धति॥२०३॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्॥२०४॥
हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः।
स्नात्वाऽनश्नन्नहः शेषमभिवाद्य प्रसादयेत्॥२०५॥
ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा।
विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत्॥२०६॥
अवगूर्य त्वब्दशतं सहस्रमभिहत्य च।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते॥२०७॥
शोणितं यावतः पांसून्संगृह्णाति महीतले।
तावन्त्यब्दसहस्राणि तत्कर्ता नरकं (व्रजेत्) वसेत्॥२०८॥
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम्॥२०९॥
अनुक्तनिष्कृतीनां तु पापानामपनुत्तये।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत्॥२१०॥
यैरभ्युपायैरेनांसि मानवो व्यपकर्षति।
तान्वोऽभ्युपायान्वक्ष्यामि देवर्षिपितृसेवितान्॥२११॥
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः॥२१२॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्।
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्॥२१३॥
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत्।
त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन्द्विजः॥२१४॥
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान्।
प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः॥२१५॥
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्।
पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः॥२१६॥
एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत्।
उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम्॥२१७॥
एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे।
शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम्॥२१८॥
अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते।
नियतात्मा हविष्याशी यतिचान्द्रायणं चरन्॥२१९॥
चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः।
चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम्॥२२०॥
यथाकथंचित्पिण्डानां तिस्रोऽशीतीः समाहितः।
मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम्॥२२१॥
एतद्रुद्रास्तथादित्या वसवश्चाचरन्व्रतम्।
सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः॥२२२॥
महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्।
अहिंसा सत्यमक्रोधमार्जवं च समाचरेत्॥२२३॥
त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत्।
स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित्॥२२४॥
स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा।
ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः॥२२५॥
सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः।
सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः॥२२६॥
एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः।
अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत्॥२२७॥
ख्यापनेनानुतापेन तपसाऽध्ययनेन च।
पापकृन्मुच्यते पापात्तथा दानेन चापदि॥२२८॥
यथा यथा नरोऽधर्मं स्वयं कृत्वाऽनुभाषते।
तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते॥२२९॥
यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति।
तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते॥२३०॥
कृत्वा पापं हि सन्तप्य तस्मात्पापात्प्रमुच्यते।
नैवं कुर्यां पुनरिति निवृत्या पूयते तु सः॥२३१॥
एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम्।
मनोवाङ्मूर्त्तिभिर्नित्यं शुभं कर्म समाचरेत्॥२३२॥
अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम्।
तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत्॥२३३॥
यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम्।
तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत्॥२३४॥
तपोमूलमिदं सर्वं दैवमानुषकं सुखम्।
तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः॥२३५॥
ब्राह्मणस्य तपो ज्ञानं तपः क्षत्त्रस्य रक्षणम्।
वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम्॥२३६॥
ऋषयः संयतात्मानः फलमूलानिलाशनाः।
तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम्॥२३७॥
औषधान्यगदो (गदा) विद्या दैवी च विविधा स्थितिः।
तपसैव प्रसिद्ध्यन्ति तपस्तेषां हि साधनम्॥२३८॥
यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम्।
सर्वं तत् तपसा साध्यं तपो हि दुरतिक्रमम्॥२३९॥
महापातकिनश्चैव शेषाश्चा कार्यकारिणः।
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः॥२४०॥
कीटाश्चाहिपतङ्गाश्च पशवश्च वयांसि च।
स्थावराणि च भूतानि दिवं यान्ति तपोबलात्॥२४१॥
यत्किञ्चिदेनः कुर्वन्ति मनोवाङ्मूर्ति(क्कर्म)भिर्जनाः।
तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः॥२४२॥
तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः।
इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च॥२४३॥
प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः।
तथैव वेदानृषयस्तपसा प्रतिपेदिरे॥२४४॥
इत्ये(यदे)तत्तपसो देवा महाभाग्यं प्रचक्षते।
सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्य(मुद्भवम्)मुत्तमम्॥२४५॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमा।
नाशयन्त्याशु पापानि महापातकजान्यपि॥२४६॥
यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात्।
तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित्॥२४७॥
इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि।
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत॥२४८॥
सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश।
अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः॥२४९॥
कौत्सं जप्त्वाप इत्येतद्वसिष्ठं च प्रतीत्यृचम्।
माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति॥२५०॥
सकृज्जप्त्वास्य वामीयं शिवसङ्कल्पमेव च।
अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः॥२५१॥
हवीष्यान्तीयमभ्यस्य न तमं ह इतीति च।
जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः॥२५२॥
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम्।
अवेत्यृचं जपेदब्दं यत्किञ्चेदमितीति वा॥२५३॥
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्।
जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात्॥२५४॥
सोमारौद्रं तु बह्वेनाः समामभ्यस्य शुध्यति।
स्रवन्त्यामाचरन्स्नानमर्यम्णामिति च तृचम्॥२५५॥
अब्दार्थमिन्द्रमित्येतदेनस्वी सप्तकं जपेत्।
अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्षभुक्॥२५६॥
मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः।
सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्र्यृचम्॥२५७॥
महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः।
अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति॥२५८॥
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम्।
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः॥२५९॥
त्र्यहं तूपवसेद्युक्तस्त्रिरह्नोऽभ्युपयन्नपः।
मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाऽघमर्षणम्॥२६०॥
यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः।
तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम्॥२६१॥
हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः।
ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन॥२६२॥
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः।
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते॥२६३॥
यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति।
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति॥२६४॥
ऋचो यजूंषि चाद्यानि सामानि विविधानि च।
एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित्॥२६५॥
आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता।
स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित्॥२६६॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यामेकादशोऽध्यायः॥११॥
<MISSING_FIG href="../books_images/U-IMG-1729052587Screenshotfrom2024-10-1609-52-30.png"/>
द्वादशोऽध्यायः
अथेदानीं कर्मणांशुभाशुभफलवर्णनम्।
चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयाऽनघ।
कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम्॥१॥
स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः।
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम्॥२॥
शुभाशुभफलं कर्म मनोवाग्देहसम्भवम्।
कर्मजा गतयो नॄणामुत्तमाधममध्यमः॥३॥
तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः।
दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम्॥४॥
परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम्।
वितथाभिनिवेशश्च त्रिविधं कर्म मानसम्॥५॥
पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः।
असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्॥६॥
अदत्तानामुपादानं हिंसा चैवाविधानतः।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम्॥७॥
मानसं मनसैवायमुपभुंक्ते शुभाशुभम्।
वाचा वाचा कृतं कर्म कायेनैव च कायिकम्॥८॥
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्॥९॥
वागदण्डोऽथ मनोदण्डः कायदण्डस्तथैव च।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते॥१०॥
त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः।
कामक्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति॥११॥
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः॥१२॥
जीवसंज्ञोऽन्तरात्माऽन्यः सहजः सर्वदेहिनाम्।
येन वेदयते सर्वं सुखं दुःखं च जन्मसु॥१३॥
तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च।
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः॥१४॥
असंख्या मूर्त्तयस्तस्य निष्पतन्ति शरीरतः।
उच्चावचानि भूतानि सततं चेष्टयन्ति याः॥१५॥
पञ्चभ्य एव भूतेभ्यः (मात्राभ्यः) प्रेत्य दुष्कृतिनां नृणाम्।
शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम्॥१६॥
तेनानुभूय ता यामीः शरीरेणेह यातनाः।
तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः॥१७॥
सोऽनुभूयासुखोदर्कान्दोषान्विषयसङ्गजान्।
व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ॥१८॥
तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह।
याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम्॥१९॥
यथाचरति धर्मं स प्रायशोऽधर्ममल्पशः।
तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते॥२०॥
यदि तु प्रायशोऽधर्मं सेवते धर्ममल्पशः।
तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः॥२१॥
यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः।
तान्येव पञ्चभूतानि पुनरप्येति भागशः॥२२॥
एता दृष्ट्वाऽस्य जीवस्य गतीः स्वेनैव चेतसा।
धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः॥२३॥
सत्त्वं रजस्तमश्चैव त्रीन्विद्यादात्मनो गुणान्।
यैर्व्याप्येमान्स्थितो भावान्महान्सर्वानशेषतः॥२४॥
यो यदैषां गुणो देहे साकल्येनातिरिच्यते।
स तदा तद्गुणप्रायं तं करोति शरीरिणम्॥२५॥
सत्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्।
एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः॥२६॥
तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत्।
प्रशान्तमिव शुद्धाभं सत्वं तदुपधारयेत्॥२७॥
यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः।
तद्रजोप्रतिपं विद्यात्सततं हर्तृ देहिनाम्॥२८॥
यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम्।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्॥२९॥
त्रयाणामपि चैतेषां गुणानां यः फलोदयः।
अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः॥३०॥
वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः।
धर्मक्रियाऽत्मचिन्ता च सात्त्विकं गुणलक्षणम्॥३१॥
आरम्भरुचिताऽथैर्यमसत्कार्यपरिग्रहः।
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम्॥३२॥
लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता।
याचिष्णुता प्रमादश्च तामसं गुणलक्षणम्॥३३॥
त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम्।
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम्॥३४॥
यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति।
तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम्॥३५॥
येनास्मिन्कर्मणा लोके ख्यातिमिच्छति पुष्कलाम्।
न च शोचत्यसम्पत्तौ तद्विज्ञेयं तु राजसम्॥३६॥
यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन्।
येन तुष्यति चात्माऽस्य तत्सत्त्वगुणलक्षणम्॥३७॥
तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम्॥३८॥
येन यस्तु गुणेनैषां संसरान्प्रतिपद्यते।
तान्समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम्॥३९॥
देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः।
तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः॥४०॥
त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः॥४१॥
स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः।
पशवश्च मृगाश्चैव जघन्या तामसी गतिः॥४२॥
हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः।
सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः॥४३॥
चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः।
रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः॥४४॥
झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः।
द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः॥४५॥
राजानः क्षत्त्रियाश्चैव राज्ञां चैव पुरोहिताः।
वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः॥४६॥
यो यदैषां गुणो देहे साकल्येनातिरिच्यते।
स तदा तद्गुणप्रायं तं करोति शरीरिणम्॥२५॥
सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्।
एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः॥२६॥
तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत्।
प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत्॥२७॥
यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः।
तद्रजोप्रतिपं विद्यात्सततं हर्तृ देहिनाम्॥२८॥
यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम्।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्॥२९॥
त्रयाणामपि चैतेषां गुणानां यः फलोदयः।
अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः॥३०॥
वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः।
धर्मक्रियाऽत्मचिन्ता च सात्त्विकं गुणलक्षणम्॥३१॥
आरम्भरुचिताऽधैर्यमसत्कार्यपरिग्रहः।
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम्॥३२॥
लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता।
याचिष्णुता प्रमादश्च तामसं गुणलक्षणम्॥३३॥
त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम्।
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम्॥३४॥
यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति।
तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम्॥३५॥
येनास्मिन्कर्मणा लोके ख्यातिमिच्छति पुष्कलाम्।
न च शोचत्यसम्पत्तौ तद्विज्ञेयं तु राजसम्॥३६॥
यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन्।
येन तुष्यति चात्माऽस्य तत्सत्त्वगुणलक्षणम्॥३७॥
तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम्॥३८॥
येन यांस्तु गुणेनैषां संसारान्प्रतिपद्यते।
तान्समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम्॥३९॥
देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः।
तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः॥४०॥
त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः॥४१॥
स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः।
पशवश्च मृगाश्चैव जघन्या तामसी गतिः॥४२॥
हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः।
सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः॥४३॥
चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः।
रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः॥४४॥
झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः।
द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः॥४५॥
राजानः क्षत्त्रियाश्चैव राज्ञां चैव पुरोहिताः।
वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः॥४६॥
गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये।
तथेवाप्सरसः सर्वा राजसीषूत्तमा गतिः॥४७॥
तापसा यतयो विप्रा ये च वैमानिका गणाः।
नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः॥४८॥
यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः।
पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः॥४९॥
ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च।
उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः॥५०॥
एष सर्वः समुद्दिष्टस्त्रिःप्रकारस्य कर्मणः।
त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः॥५१॥
इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च।
पापान्संयान्ति संसारानविद्वांसो नराधमाः॥५२॥
यां यां योनिं तु जीवोऽयं येन येनेह कर्मणा।
क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत॥५३॥
बहून्वर्षगणान्घोरान्नरकान्प्राप्य तत्क्षयात्।
संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान्॥५४॥
श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम्।
चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति॥५५॥
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम्।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत्॥५६॥
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम्।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः॥५७॥
तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः॥५८॥
हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः।
परस्परादिनः स्तेनाः प्रेताऽन्त्यस्त्रीनिषेविणः॥५९॥
संयोगं पतितैर्गत्वा परस्यैव च योषितम्।
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः॥६०॥
मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः।
विवधानिच रत्नानि जायते हेमकर्तृषु॥६१॥
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः।
मधु दंशः पयः काको रसं श्वा नकुलो घृतम्॥६२॥
मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः।
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि॥६३॥
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः।
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम्॥६४॥
छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं तु बर्हिणः।
श्वावित्कृतान्नं विविधमकृतान्नं तु शल्यकः॥६५॥
बको भवति हृत्वाऽग्निं गृहकारी ह्युपस्करम्।
रक्तानि हृत्वा वासांसि जायते जीवजीवकः॥६६॥
वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः।
स्त्रीमृक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः॥६७॥
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः॥६८॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति॥९१॥
यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्॥९२॥
एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा॥९३॥
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम्।
अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः॥९४॥
या वेदबाह्याः श्रुतयो (स्मृतयो)याश्च काश्च कुदृष्टयः।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः॥९५॥
उत्पद्यन्ते विनश्यन्ति(वन्ते च)यान्यतोऽन्यानि कानिचित्।
तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च॥९६॥
चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक्।
भूतं भवद्भविष्यं च सर्वं वेदात्प्रसिध्यति॥९७॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः।
वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः॥९८॥
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम्।
तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम्॥९९॥
सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति॥१००॥
यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान्।
तथा दहति वेदज्ञः कर्मजं दोषमात्मनः॥१०१॥
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन्।
इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते॥१०२॥
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः॥१०३॥
तपो विद्या च विप्रस्य निःश्रेयसकरं परम्।
तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते॥१०४॥
प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम्।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता॥१०५॥
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः॥१०६॥
नैःश्रेयसमिदं कर्म यथोदितमशेषतः।
मानवस्यास्य शास्त्रस्य रहस्यमुपदेक्ष्यते (दिश्यते)॥१०७॥
अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत्।
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः॥१०८॥
धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः॥१०९॥
दशावरा वा परिषद्यं धर्मं परिकल्पयेत्।
त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत्॥११०॥
त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः।
त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा॥१११॥
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये॥११२॥
एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः।
स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः॥११३॥
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्।
सहस्रशः समेतानां परिषत्त्वं न विद्यते॥११४॥
यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः।
तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति॥११५॥
एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम्।
अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम्॥११६॥
एवं स भगवान्देवो लोकानां हितकाम्यया।
धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान्॥११७॥
सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः।
सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मतिम् (मनः)॥११८॥
आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम्।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम्॥११९॥
खं सन्निवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम्।
पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु॥१२०॥
मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम्।
वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम्॥१२१॥
प्रशासितारं सर्वेषामणीयांसमणोरपि।
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम्॥१२२॥
एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्।
इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम्॥१२३॥
एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः।
जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत्॥१२४॥
एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना।
स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम्॥१२५॥
इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्द्विजः।
भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम्॥१२६॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां द्वादशोऽध्यायः॥
मनुस्मृतिः समाप्तैषा।
शुभं भवतु।
<MISSING_FIG href="../books_images/U-IMG-1725550933EBHARAT.PNG"/>
॥श्रीः॥