दक्षस्मृतिः

<MISSING_FIG href="../books_images/U-IMG-1725159820q.png"/>

प्रथमोऽध्यायः।

<MISSING_FIG href="../books_images/U-IMG-1725159874w.png"/>

श्रीगणेशाय नमः।

अथादौ – आश्रमवर्णनम्।

सर्वधर्मार्थतत्त्वज्ञ सर्ववेदविदां वरः।
पारगः सर्वविद्यानां दक्षो नाम प्रजापतिः॥१॥

उत्पत्तिः प्रलयश्चैव स्थितिः संहार एव च।
आत्मा चात्मनि तिष्ठेत आत्मा ब्रह्मण्यवस्थितः॥२॥

ब्रह्मचारी गृहस्थश्चवानप्रस्थो यतिस्तथा।
एतेषान्तु हितार्थाय दक्षः शास्त्रमकल्पयत्॥३॥

जातमात्रः शिशुस्तावद्यावदष्टौ समा वयः।
स हि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रदर्शितः॥४॥

भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथाऽनृते।
तस्मिन् काले न दोषोऽस्ति स यावन्नोपनीयते॥५॥

उपनीतस्य दोषोऽस्ति कियमाणैर्विगर्हितैः।
अप्राप्तव्ययहारोऽसौ यावत् षोडशवार्षिकः॥६॥

स्वीकरोति यदा वेदं धत्ते वेदव्रतानिच।
ब्रह्मचारी भवेत्तावदूद्ध्वं स्नातो भवेद्गुही॥७॥

द्विविधो ब्रह्मचारी तु स्मृतः शास्त्रे मनीषिभिः।
उपकुर्वाणकस्त्वाद्यो द्वितीयो नैष्ठिकः स्मृतः॥८॥

यो गृहाश्रममास्थाय ब्रह्मचारी भवेत् पुनः।
न यतिर्न वनाथश्च सर्वाश्रमविवर्ज्जितः॥९॥

अनाश्रमीन तिष्ठेच्चदिनमेकमपि द्विजः।
आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः॥१०॥

क्षपे होमे तथा दाने स्वाध्याये च रतस्तु यः।
नासौ तत्फलमाप्नोति कुर्वाणोऽप्याश्रमाच्च्युतः।
त्रयाणामानुलोम्यं हि प्रातिलोम्यं न विद्यते॥११॥

प्रातिलोम्येन यो याति न तस्मात् पापकृतमः।
मेखलाजिनदण्डेन ब्रह्मचारीतु लक्ष्यते॥१२॥

गृहस्थो देवयद्याद्यैर्नखलोम्यावनाश्रितः।
त्रिदण्डेन यतिश्चैवं लक्षणानि पृथक् पृथक्॥१३॥

यस्यैतल्लक्षणंनास्तिप्रायश्चित्ती न चाश्रमी।
उक्तं कर्म क्रमेनोक्तो न कालो मुनिभिः स्मृतः।
द्विजानान्तु हितार्थाय दक्षस्तु स्वयममब्रवीत्॥१४॥

इति दाक्षेधर्मशास्त्रे प्रथमोऽध्यायः।

अथ द्वितीयोऽध्यायः।

प्रातरुत्थाय कर्त्तव्यंयद्विजेन दिने दिने।
तत्सर्वं संप्रवक्ष्यामि द्विजानामुपकारकम्॥१॥

उदयास्तमयं यावन्न विप्रः क्षणिको भवेत्।
नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः॥२॥

यः स्वकर्म परित्यज्य यदन्यत् कुरुते द्विजः।
अज्ञानाद्यदि वा मोहात् स तेन पतितो भवेत्॥३॥

दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते।
द्वितीये च तृतीये च चतुर्थेपश्चमे तथा॥४॥

षष्ठे च सप्तमेचैव अष्टमे चपृथक् पृथक्।
विभागेष्येषुयत्कर्म तत्प्रवक्ष्याम्यशेषतः॥५॥

उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत्।
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम्॥६॥

अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः।
स्रवत्येषदिवा रात्रौ प्रातः स्नानं विशोधनम्॥७॥

क्लिद्यन्तिहि प्रसुप्तस्यइन्द्रियाणि स्रवन्ति च।
अङ्गानि समतां यान्ति उत्तमान्यधमैः सह॥८॥

नानास्येदसमाकीर्णः शयनादुत्थितःपुमान्।
अस्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन्॥९॥

प्रातरुत्थाय योविप्रः प्रातस्नायी भवेत् सदा।
समस्तजन्मजं पापं त्रिभिर्वर्षैर्व्यपोहति॥१०॥

उपस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ।
प्राजापत्येन तत्तुल्यं महापातकनाशनम्॥११॥

प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरंहि तत्।
सर्वमर्हति भूतात्मा प्रातः स्नायीजपादिकम्॥१२॥

स्नानादनन्तरं तावदुपस्पर्शनमुच्यते।
अनेन तु विधानेन आचरन्तः शुचिता मियात्॥१३॥

प्रक्षाल्य पादौ हस्तौच त्रिः पिवेदस्तुवीक्षितम्।
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम्॥१४॥

संहृत्य तिसृभिः पूर्वमास्यमेवमुवमुपस्पृशेत्।
ततः पादौ समभ्युक्ष्य अङ्गानिसमुपस्पृशेत्॥१५॥

अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्।
अङ्गुष्ठानामिकाभ्याश्च चक्षुः श्रोत्रे पुनः पुनः॥१६॥

कनिष्ठाङ्गुष्ठया नाभि हृदयश्चतलेन वै।
सर्व्याभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत्॥ १७॥

सन्ध्यायाश्च प्रभाते च मध्यह्ने च ततः पुनः।
सन्ध्यां नोपासते यस्तु ब्राह्मणो हि विशेषतः॥१८॥

स जीवन्नेव शूरः स्यान्मृतः श्वा चैव जायते ।
सन्ध्याहीनोऽशुचिर्नित्यमनर्हःसर्वकर्मसु॥१६॥

यदन्यत् कुरुते कर्म न तस्य फलमश्नुते॥
सन्धाकर्मावसानेतु स्वयं द्दोमोविधीयते।
स्वयंद्दोमे फलं यत्तु तदन्येन न जायते॥२०॥

ऋत्यिक् पुत्रोगुरुर्भ्राताभागिनेयोऽथ विट्पतिः।
एभिरेव हुतं यत्तु तद्ब्रूतं स्वयमेवहि॥२१॥

देवकार्य्यं ततः कृत्वा गुरुमङ्गलवीक्षणम्।
देवकार्य्याणि पूर्वाह्णेमनुष्याणाञ्चमध्यमे॥२२॥

पितृगामपराह्ने च कार्य्याण्येतानियत्नतः।
पौर्व्याद्विकन्तु यत् कर्म यदि तत् सायमाचरेत्॥२३॥

न तस्य फलमाप्नोति वन्ध्यास्त्रीमैथुनं यथा।
दिवसस्याद्यभागे तु सर्वमेतद्विधीयते॥२४॥

द्वितीये च तथाभागे वदाभ्यासो विधीयते।
वेदाभ्यासो हि विप्राणां परमं तप उच्यते॥२५॥

ब्रह्मयज्ञः स विज्ञेयः षड्ङ्गसहितस्तु सः।
वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः॥२६॥

ततो दानश्च शिष्येभ्यो वेदाभ्यासो हि पञ्चधा।
समित्युपकुशादीनां स कालः समुदाहृतः॥२७॥

तृतीये चैव भागे तु पोष्यवर्गार्थसाधनम्।
पिता माता गुरुर्भाय्या प्रजादीनांसमाश्रिताः॥२८॥

अभ्यागतोऽतिथिश्चान्यः पोष्यवर्ग उदाहृतः।
ज्ञातिर्बन्धुजनः क्षीणस्तथानाथः समाश्रितः॥२९॥

अन्येऽप्यधनयुक्ताश्च पोष्यवर्ग उदाहृतः।
भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम्॥३०॥

नरकं पीड़ने चास्य तस्माद्यत्नेन तं भरेत्।

सुधावस्तूनि वक्ष्यामि विशिष्ठे गृहमागते।
मनश्चक्षुर्मुखं वाचं सौम्यं दद्याच्चतुष्टयम्॥४॥

अभ्युत्थानमिहागच्छ पृच्छालापप्रियान्वितः।
उपासन मनुब्रज्या कार्याण्येतानि यत्नतः॥५॥

ईषद्दानानि धान्यानि भूमिरापस्तृणानि च।
पादशौचं तथाभ्यङ्गमाश्रयः शयनन्तथा॥६॥

किञ्चिच्चान्नंयथाशक्ति नास्यानश्नन् गृहे वसेत्।
मृच्चलं चार्थिने देय मेतान्यपि सदा गृहे॥७॥

सन्ध्यास्नानं जपोहोमः स्वाध्यायो देवतार्चनम्।
वैश्वदेवं तथातिय्यमुद्धृतश्चापि शक्तितः॥८॥

पितृदेवमनुष्याणां दीनानाथतपस्विनाम्।
मातापितृगुरुणाश्चसंविभागोयथार्हतः॥९॥

एतानि नव कर्माणि विकर्माणि तथा पुनः।
अनृतं पारदार्य्यश्चतथाभक्ष्यस्य भक्षणम्॥१०॥

अगम्यागमनापेयपा स्तेयश्चहिंसनम्।
अश्रौतकर्माचरणं मित्रधर्मवहिष्कृतम्॥११॥

नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत्।
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम्॥१२॥

तपोदानावमानौच नव गोप्यानि यत्नतः।
प्रायोग्यमृणशुद्धिश्चदानाध्ययनविक्रयाः॥१३॥

कन्यादानं वृषोत्सर्गो रहः पापमकुत्सनम्।
प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तथा॥१४॥

सार्वभौतिकमन्नाद्यंकर्त्तव्यन्तु विशेषतः।
ज्ञानविद्भ्यःप्रदाव्यमन्यथा नरकं व्रजेत्॥३१॥

स जीवति य एवैकोबहुभिश्चोपजीव्यते।
जीवन्ते मृतकाश्चाम्ये य आत्मम्भरयो नराः।
ब्रह्मर्यं जीव्यते कश्चित् कुटुम्बार्थे तथा परैः॥३२॥

आत्मार्येऽन्यो न शक्नोति स्वोदरेणापि दुःखितः।
दीनानाथविशिष्टेभ्यो दातव्यं भूतिमिच्छता॥३३॥

अदत्तदानः जायन्ते परभाग्योपजीविनः।
यद्ददातिविशिष्टेभ्यो यज्जुहोति दिने दिने॥३४॥

तत्तु वित्तमहं मन्ये शेषं कस्यापि रक्षति।
चतुर्थे च तथा भागे स्नानार्थंमृदमाहरेत्॥३५॥

तिलपुष्पकुशादीनि स्नानश्चाकृत्रिमे जले।
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते॥३६॥

तेषां मध्ये तु यन्नित्वंतत्पुनर्भिद्यते त्रिधा।
मलापहरणंपञ्चान्मन्त्रवत्तुतस्यैमृतम्॥३७॥

सन्ध्यास्नानानुमाभ्याञ्चस्नानभेदाः प्रकीर्तिताः।
मार्जनं जलमध्ये तु प्रणायामयतस्ततः॥३८॥

उपस्थानं ततः पश्चात् सावित्र्या जप उच्यते।
सविता देवता यस्या मुखमग्निस्त्रियास्थितः॥३९॥

विश्वामित्रऋषिश्छन्दोगायत्री सःविशिष्यते।
पवने च तथाभागे सम्विभागो यथार्हतः॥४०॥

पितृदेवमनुष्याणां कीटानाञ्चोपदिश्यते।
देवैश्चैव मनुष्यैश्च तिर्य्यग्भिश्चोपजीव्यते॥४१॥

गृहस्थः प्रत्यहं यस्मात्तस्माज्ज्येष्ठाश्रमोगृही
त्रयाणामाश्रमाणान्तु गृहस्थो योनिरुच्यते॥४२॥

तेनैव सीदमानेन सीदन्तीहेतरे श्रयः।
मूलप्राणो भवेत् स्कन्दः स्कान्दाच्छाखाः सपल्लवाः॥४३॥

मूलेनैव विनष्टेन सर्वमेतद्विनश्यति।
तस्मात् सर्वप्रयत्नेन रक्षितव्यो गृहाश्रमी॥४४॥

राज्ञा चान्यैस्त्रिभिः पूज्यो माननीयश्च सर्वदा।
गृहस्थोऽपि क्रियायुक्तो न गृहेण गृहाश्रमी॥४५॥

न चैव पुत्रदारेण स्वकर्मपरिवर्जितः।
अस्नात्वाचाप्यहुत्या चाज्ञप्त्वाऽदत्त्वाच मानवः॥४६॥

देवादीना मृगी भूत्वानरकं प्रतिपद्यते।
एक एवहि भुक्तेऽन्नमपरोऽन्नेन भुज्यते॥४७॥

न भुज्यते स एवैको योभुद्भक्तेऽन्नं ससाक्षिणा।
विभागशीलो योनित्यं क्षमायुक्तो दयापरः॥४८॥

देवतातिथिभक्तञ्चगृहस्थः स तु धार्मिकः।
दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः कृतज्ञता॥४९॥

एते यस्य गुणाः सन्ति सगृहीमुख्य उच्यते।
सम्विभागं ततः कृत्वा गृहस्थः शेषमुम्भनेन॥५०॥

मुक्त्वातु मुखमास्थाय तदघ्नंपरिणामयेन।
इतिहासपुराणाद्यैःषष्ठञ्चसप्तमं नयेत्॥५१॥

मातापित्रोर्गुरौमित्रे विनीते चोपकारिणि।
दीनानाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत्॥१५॥

धूर्त्ते वन्दिनि सन्दे च कुवैद्येकितवेशठे।
चादुचारणचौरभ्यो दत्तंभवति निष्फलम्॥१६॥

सामान्यं याचितं न्यास आधिदाराश्च तद्धनम्।
कमावातच निक्षेपः सर्वस्वस्यान्वये सति॥१७॥

आपत्स्वपि न देयानि नव वस्तूनि सर्वदा।
यो ददाति स मूढात्माप्रायश्चित्तीयतेनरः॥१८॥

नवनवकवेत्तारमनुष्ठानपरं नरम्।
इह लोके परे न श्रीः स्वर्गस्मञ्चन मुञ्चति॥१९॥

यथैवात्मा परस्तद्वद्द्रष्टव्यःसुखमिच्छता।
सुखदुःखानि तुल्यानि यथामति तथा परे॥२०॥

सुखं वा यदि वा दुःखं यत्किञ्चित् क्रियते परे।
ततस्तत्तुपुनः पश्चात् सर्वमात्मनि जायते॥२१॥

न क्लेशेन विना द्रव्यं द्रव्यहीने कुतःक्रिया।
क्रियाहीने न धर्मः स्याद्धर्महीने कुतः सुखम्॥२२॥

सुखं वाञ्छन्ति सर्वे हि तच्च धर्मसमुद्भवम्।
तस्माद्धर्मः सदा कार्य्यःसर्ववर्णैः प्रयत्नवः॥२३॥

न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम्।
दानञ्च विधिना देयं काले पात्रे गुणान्विते॥२४॥

समद्विगुणसाहस्रमानन्त्यञ्चयथाक्रमम्।
दाने फलविशेषः स्याद्भिसायां तावदेव तु॥२५॥

सममब्राह्मणे दानं द्विगुणं ब्राह्मणयब्रुवे।
सहस्रगुणमाचार्य्येत्वनन्तं वेदपारगे॥२६॥

विधिहीने तथा पात्रेयो ददाति प्रतिग्रहम्।
न केवलं तद्विनश्येच्छेपमप्यस्य नश्यति॥२७॥

व्यसनप्रतिकाराय कुटुम्बार्थञ्चयाचते।
एवमन्विष्य दातव्यमन्यथा न फलं भवेत्॥२८॥

मातापितृविहीनन्तु संस्कारोद्वहनादिभिः।
यः स्थापयति तस्येह पुण्यसंख्या न विद्यते॥३०॥

न तच्छ्रेयोऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते।
यच्छेयः प्राप्यते पुंसा विप्रेण स्थापितेन तु॥३१॥

यद्यदिष्टतमं लोके यच्चापि दयितं गृहे।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता॥३२॥

इति दाक्षे धर्मशास्त्रे तृतीयोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1725264436w.png"/>

॥ अथ चतुर्थोऽध्यायः॥

पत्नीमूलं गृहं पुंसां यदि च्छन्दोऽनुवर्तिनी।
गृहाश्रमसमं नास्ति यदि भार्य्यां यशानुगा॥१॥

तया धर्मार्थकामानां त्रिवर्गफलमश्नुते।
प्राकाम्ये वर्त्तमाना तु स्नेहान्नतुनिवारिता॥२॥

अवश्या सा भवेत् पश्चाद् यथा व्याधिरुपेक्षितः।
अनुकूला नवाग्दुष्टा दक्षा साध्वी प्रियम्वदा॥३॥

अत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी॥४॥

अनुकूलकलत्रोयस्तस्य स्वर्ग इहैव हि।
प्रतिकूलकलत्रस्य नरको नात्र संशयः॥५॥

स्वर्गेऽपि दुर्लभं ह्येतदनुरागः परस्परम्।
रक्त एको विरक्तोऽन्यस्तस्मात् कष्ठतरं नु किम्॥६॥

गृह्यासः सुखार्थाय पत्नीमूलं गृहे सुखम्।
सा पत्नी या विनीता स्याच्चितज्ञा वशवर्त्तिनी॥७॥

दुःखा ह्यन्या सदा खिन्ना चित्तभेदः परस्परम्।
प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः॥८॥

योपित्सर्वाजलोकेवभूषणाच्छादनाशनैः।
सुभूत्यापि कृतानित्यं पुरुषं ह्यमकर्षति॥९॥

जलौका रक्तमादत्ते केवलं सा तपस्विनी।
इतरा तु धनं वित्तं मासंपीयं बलं सुखम्॥१०॥

सशङ्का बालभावे तु यौवने विमुखी भवेत्।
तृणवन्मन्यते पश्चाद्वृद्धभावेस्वकं पतिम्॥११॥

अनुकूला नवाग्दुष्टा दक्षा साध्वीपतिव्रता।
एभिरेव गुणैर्युक्ता श्रीरेव स्त्री न संशयः॥१२॥

या हृष्टमनसा नित्यं स्थानमानविचक्षणाI
भत्तुःप्रीतिकरी नित्यं साभार्य्या हीतरा जरा॥१३॥

शिष्योभाय्यां शिशुश्रोतापुत्रोदासः समाश्रितः।
यस्यैतानि विनोतानि तस्य लोहे हिगौरवम्॥१४॥

प्रथमा धर्मपत्नी च द्वितीया रतिवर्द्धिनी।
दृष्टमेव फलं तत्र नादृष्टमुपजायते॥१५॥

धर्मपत्नी समाख्याता निर्द्दोषायदि सा भवेत्।
दोषेसति न दोषः स्वादन्याभार्य्या गुणान्विता॥१६॥

अदृष्टापतितां भार्य्यां यौवने यः परित्यजेत्।
स जीवनान्ते स्त्रीत्वञ्चयन्यत्वश्चसमाप्नुयात्॥१७॥

दरिद्रंव्याधितं चैव भर्त्तारं यावमन्यते।
शुनी गृध्रीच मकरी जायते सा पुनः पुनः॥१८॥

मृते भर्तरि या नारी ममारोहेद्धुताशनम्।
सा भवेत्तु शुभाचारा स्वर्गलोके महीयते॥१९॥

व्यालग्राहीयथा व्यालं बलादुद्धरते विलात्।
तथा सा पतिमुद्वृत्य तेनैव सह मोदते॥२०॥

चाण्डालप्रत्यवसितपरिब्राजकतापसाः।
तेषां जातान्यपत्यानि चाण्डालैःसह वासयेत्॥२१॥

इति दाक्षेधर्मशास्त्रे चतुर्थोऽध्यायः॥

॥ अथ पञ्चमोऽध्यायः॥

उक्तं शौचमशौचञ्चकार्य्यं त्यज्यं मनीषिभिः।
विशेषार्थं तयोः किञ्चिद्वक्ष्यामि हितकाम्यया॥१॥

शौचे यत्नःसदाकार्य्यःशौचमूलोद्विजः स्मृतः।
शौचाचारविहीनस्य समस्तनिष्फलाः क्रियाः॥२॥

शौचश्चद्विविधं प्रोक्तं बाह्यमाभ्यन्तरन्तथा।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्वरम्॥३॥

अशौचाद्धि वरं बाह्यं तस्मादाभ्यन्तरं वरम्।
उभाभ्याश्च शुचिर्यस्तु सं शुचिर्नेतरः शुचिः॥४॥

एका लिङ्गेगुदेतिस्रोदश वामकरे तथा।
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः॥५॥

गृहस्थशौचमाख्यातं त्रिष्यन्येषु यथाक्रमम्।
द्विगुणं त्रिगुणञ्चैव चतुर्थस्य चतुर्गुणम्॥६॥

अर्द्धप्रसृतिमात्रन्तु प्रथमा मृत्तिका स्मृता।
द्वितीया च तृतीया च तदर्द्धं परिकीर्तिता॥७॥

लिङ्गेऽप्य

त्र समाख्याता त्रिपर्वी पूर्य्यतेयथा।
एतच्छोचंगृहस्थानां द्विगुणं ब्रह्मचारिणाम्॥८॥

त्रिगुणन्तु वनस्थानांयतीनाश्चचतुर्गुणम्।
दातव्यमुदकन्तावन्मृदभायो यथा भवेत्॥९॥

मृदा जलेन शुद्धिः स्थानक्लेशो न धनव्ययः।
यस्य शौचेऽपि शैथिल्यं चित्तं वस्य परीक्षितम्॥१०॥

अन्यदेव दिवाशौचं रात्राश्चन्यद्विधीयते।
अन्यदापत्सु विप्राणामन्यदेव ह्यनापदि॥११॥

दिवोदितस्य शौचस्य राज्ञावद्धंविधीयते।
तदर्द्वैमातुरस्याद्दुरत्वरायामर्द्धमध्वनि॥१२॥

न्यूनाधिकं न कर्त्तव्यं शौचे शुद्धमभीप्सिता।
प्रायश्चित्तेन युग्मेणविहितादिकमे कृते॥१३॥

इति दाक्षेधर्मशास्त्रे पञ्चमोऽध्यायः॥

——————

॥ अथ षष्ठोऽध्यायः॥

सूतकं तु प्रवक्ष्यामि जन्ममृत्युसमुद्भवम्।
यावज्जीवं तृतीयन्तु यथावदनुपूर्वशः॥१॥

सद्यः शौचं तथैकादोद्वित्रिचतुरहस्तथा।
दशाहो द्वादशाहश्च पक्षोमासस्तवैव च॥२॥

मरणान्तं तथा चान्यद्दशपक्षन्तु सूतके।
उपन्यस्तक्रमेणैव वक्ष्याम्यहमशेपतः॥३॥

ग्रन्थार्थं यो विजानाति वेदमङ्गैः समन्वितम्।
सकल्पं सरहस्यञ्चकियावांश्चेन्नसूतकी॥४॥

राजर्त्विग्दीक्षितानाञ्च वाले देशान्तरे तथा।
व्रतिनां सत्रिणाञ्चैव सद्यः शौचं विधीयते॥५॥

एकाहस्तु समाख्यातो योऽग्निवेदसमन्वितः।
हीने हीनतरेच्चैव द्वित्रिचतुरहस्तथा॥६॥

जातिविप्रो दशाहेन द्वादशाहेन भूमिपः।
वैश्य पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति॥७॥

अस्नात्वाचाप्यहुत्याच भुङ्क्तेऽदत्वा च यः पुनः।
एवं विधस्य सर्वस्य सूचकं समुदाहृतम्।
व्याधितस्य कदर्य्यस्यऋणग्रस्तस्य सर्वदा।
क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः॥८॥

व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः।
श्रद्धात्यागविहीनस्य भस्मान्तं सूतकं भवेत्॥९॥

न सूतकं कदाचित् स्याद्यावज्जीवन्तु सूतकम्।
एवं गुणविशेषेण सूतकं समुदाहृतम्॥१०॥

सूतके मृतके चैव तथा च मृतसूतके।
एतत्संहतशौचानां मृतशौचेन शुद्ध्यति॥११॥

दानं प्रतिग्रहो होमः स्वाध्यायश्चनिवर्तते।
दशाहात्तुपरं शौचं विप्रोऽर्हति च धर्मवित्॥१२॥

दानञ्चविधिना देयं अशुभात्तारकं हि तत्।
मृतकान्ते मृतो यस्तु सूतकान्ते च सूतकम्॥१३॥

एतत्संहतशौचानां पूर्वाशौचेन शुद्ध्यति।
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते॥१४॥

चतुर्थेऽहनि कर्तव्यमस्थि सञ्चयनं द्विजैः।
ततः सञ्चयनादूर्द्ध्वमद्गस्पर्शो विधीयते॥१५॥

अभियोगात्तथाभ्यासात्तस्मिन्नेव तु निश्चयात्।
पुनः पुनश्च निर्वेदाद्योगः सिद्ध्यति नान्यथा॥६॥

आत्मचिन्ताविनोदेन शौचक्रीड़नकेन च।
सर्व्वभूतसमयेन योगः सिध्यति नान्यथा॥७॥

यश्चात्मनि रतोनित्यमात्मक्रीडन्तथैव च।
आत्मनिष्ठश्च सततमात्मन्येवस्वभावतः॥८॥

रतश्चैव स्वयं तुष्ठःसन्तुष्टो नान्यमानसः !
आत्मन्येव सुतृप्तोऽसौ योगस्तस्य प्रसिद्ध्यति॥९॥

सुप्तोऽपि योगयुक्तः स्याज्जाघ्रश्चापिविशेषतः।
ईदृक्चेष्टः स्मृतः श्रेष्ठो गरिष्ठो ब्रह्मवादिनाम्॥१०॥

य आत्मव्यतिरेकेण द्वितीयं नैव पश्यति।
ब्रह्मीभूय स एवं हि दक्षपक्ष उदाहृतः॥११॥

विषयासक्तचित्तो हि यतिर्मोक्षं न विन्दति।
यत्नेन विषयासंति तस्माद्योगी विवर्जयेत्॥१२॥

विषयेन्द्रियसंयोगः केचिद्योगं वदन्ति हि।
अधर्मो धर्मरूपेण गृहीतन्तैरपण्डितैः॥१३॥

मनसश्चात्मनश्चैव संयोगश्चतथापरे।
उक्तनामधिका ह्येतेकेवलं योगवस्थिताः॥१४॥

वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञंपरमात्मनि।
एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते॥१५॥

कषायमोहविक्षेपलज्जाशङ्कादिचेतसः।
व्यापारास्तु समाख्यातास्तान् जित्वा वशमानयेत्॥१६॥

कुटुम्बैः पञ्चभिर्ग्रामैःषष्टस्तत्र महत्तरः।
देवासुरमनुष्यैस्तु स जेतुं नैव शक्यते॥१७॥

वलेन परराष्ट्राणि गृह्णन् शूरस्तु नोच्यते।
जितो येनेन्द्रियप्रामः स शूरः कथ्यते बुधैः॥१८॥

बहिर्मुखानि सर्व्वाणि कृत्वा चाभिमुखानि वै।
सर्वञ्चैवेन्द्रियग्रामं मनश्चात्मनि योजयेत्॥१९॥

सर्वभावविनिमुक्तः क्षेत्रज्ञं ब्रह्मणि न्यसेत्।
एतद्ध्यानञ्चयोगञ्च शेषः स्युर्ग्रन्थविस्तराः॥२०॥

त्यक्त्वाविषयभोगाश्च मनोनिश्चलतां गतम्।
आत्मशक्तिस्वरूपेण समाधिः परिकीर्त्तितः॥२१॥

चतूर्णां सन्निकर्षेण पदं यत्तदशाश्वतम्।
द्वयोस्तु सन्निकर्षेण शाश्वतं ध्रुवमक्षयम्॥२२॥

यन्नास्ति सर्व्वलोकस्य तदस्तीति विरुद्ध्यते।
कथ्यमानं तथान्यस्य हृदये नावतिष्ठते॥२३॥

स्वसम्वेद्यं हि तद्ब्रह्म कुमारीमैथुनं यथा।
अयोगी नैव जानाति जातान्धोहि यथा घटम्॥२४॥

नित्याभ्यसनशीलस्य सुसंवेद्यं हि तद्भवेत्।
वत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम्॥२५॥

वुधस्त्वाभरणं भावं मनसालोचनं यथा।
मन्यते स्त्री च भूखश्चतदेव बहुमन्यते॥२६॥

सत्त्वोत्कटाः सुराश्चापि विषयेण वशीकृताः।
प्रमादिभिः क्षुद्रसत्वैर्मानुषैरत्र का कथा॥२७॥

तस्मात्त्यक्तकषायेण कर्तव्यं दण्डधारणम्।
इतरस्तु न शक्नोति विषयैरभिभूयते॥२८॥

न स्थिरं क्षणमप्येकमुदकं हि यथोर्मिभिः !
वाताहतं तथा चित्तं तस्मात्तस्य न विश्वसेत्॥२९॥

त्रिदण्डपदेशेन जीवन्ति बहवो नराः।
योहि ब्रह्म न जानाति न त्रिदण्डार्हएव सः॥३०॥

ब्रह्मचर्य्यं सदा रक्षेदष्टधामैथुनं पृथक्।
स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम्॥३१॥

सङ्कल्पोऽव्यवसायश्च क्रियानिष्पत्तिरेव च।
एतन्मैथुनमष्टाङ्गंप्रवदन्ति मनीषिणः॥३२॥

न ध्यातव्यं न वक्तव्यं न कर्त्तव्यं कदाचन।
एतैः सर्वैः सुसम्पन्नोयतिर्भवति नेतरः॥३३॥

पारिषज्यं गृहीत्वा च योधर्मे नावतिष्ठते।
श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत्॥३४॥

एकोभिक्षुर्यथोक्तस्तु द्वौ चैव मिथुनं स्मृतम्।
त्रयो ग्रामस्तथा ख्यात ऊर्द्ध्वन्तुनगरायते॥३५॥

नगरं हि सकर्त्तव्यं ग्रामो वा मिथुनं तथा।
एतत्त्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः॥३६॥

राजवार्त्तादि तेषान्तु भिक्षावार्तापरस्परम्।
स्नेहपैशून्यमात्सर्य्यंसन्निकर्षादसंशयम्॥३७॥

लाभपूजानिमित्तं हि व्याख्यानं शिष्यसंग्रहः।
एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम्॥३८॥

ध्यानं शौचं तथा भिक्षा नित्यमेकान्तशीलता।
भिक्षोश्चत्वारि कर्माणि पश्चमो नोपपद्यते॥३९॥

तपोजपैः कृशीभूतोव्यायितोऽवसधावहः।
वृद्धोप्रहगृहीतश्च यश्चान्यो विकलेन्द्रियः॥४०॥

नीरुजश्चयुवा चैव भिक्षुनां वसधावहः।
स दूषयति तत्स्थानं बुधान् पीडयतीति च॥४१॥

नीरुजश्व युवा चैव ब्रह्मचर्याद्विनश्यति।
ब्रह्मचर्याद्विनष्टस्तु कुलञ्चैव तु नाशयेत्॥४२॥

वसन्नावसथे भिक्षुर्मैथुनं यदि सेवते।
तस्यावसथनाथस्य मूलान्यपि निकृन्तति॥४३॥

आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत्।
किन्तस्यान्येन धर्मेण कृतकृत्योऽभिजायते॥४४॥

समितं यद्गृहस्थेन पापमामरणान्तिकम्।
स निर्दहति तत् सर्व्वमेकत्रोपितोयतिः॥४५॥

योगाश्रमपरिश्रान्तं यस्तु भोजयते यतिम्।
निखिलं भोजितं तेन त्रैलोक्यं सचराचरम्॥४६॥

यस्मिन् देशे वसेद्योगी ध्यानयोगविचक्षणः।
सोऽपि देशो भयेत् पूतः किंपुनस्तस्य बान्धवाः॥४७॥

द्वैतञ्चैव तथाद्वैतद्वैताद्वैतं तथैव च।
न द्वैतं नापि चाद्वैतमित्येतत् परमार्थिकम्॥४८॥

नाहंनैवान्यसम्बन्धोब्रह्मभावेन भावितः।
ईदृशायामवस्थायामवाप्यं परमं पदम्॥४९॥

द्वैतपक्षाः समाख्याता येद्वैतेतु व्यवस्थिताः।
अद्वैत्तिनां प्रवक्ष्यामि यथा धर्मः सुनिश्चितः॥५०॥

तत्रात्मव्यतिरेकेण द्वितीयं यदि पश्यति।
ततः शास्त्राण्यधीयन्ते श्रूयन्ते ग्रन्थसञ्चयाः॥५१॥

दक्षशास्त्रं यथा प्रोक्तमशेषाश्रममुत्तमम्।
अधीयन्ते तु ये विप्रारते यान्त्यमरलोकताम्॥५२॥

इदन्तु यः पठेद्भक्त्याशृणुयादधमोऽपिवा।
स पुत्रपौत्रपशुमान् कीर्त्तिञ्चसमवाप्नुयात्॥५३॥

श्रावयित्वा त्विदं श्रास्त्रंश्राद्धकालेऽपि वा द्विजः।
अक्षयं भवति श्राद्धं पितृभ्यञ्चोपजायते॥५४॥

इति दाक्षे धर्मशास्त्रे सप्तमोऽध्यायः।

समाप्ता चेयंदक्षस्मृतिः।

——————
॥ शुभम्॥

॥ अथ॥