<MISSING_FIG href="../books_images/U-IMG-1729442277Screenshotfrom2024-10-2022-07-44.png"/>
श्रीगणेशाय नमः।
अज्ञानतिमिरान्धस्य वृतेनानेन केशव।
प्रसीद सुमुखो नाथ! ज्ञानदृष्टिप्रदो भव॥१॥
हुताग्निहोत्रमासीन मत्रिं श्रुतवतां वरम्।
उपगम्य च पृच्छन्ति ऋषयःशंसितव्रताः॥२॥
भगवन्! केन दानेन जपेन नियमेन च।
शुध्यन्ते पातकैर्युक्ता स्तं ब्रवीषिमहामुने!॥३॥
अपिख्यापितदोषाणां पापानां महतांतथा।
सर्वेषां चोपपातानां शुद्धिं वक्ष्यामि तत्त्वतः॥४॥
प्राणायामैःपवित्रैश्चदानैर्होमैर्जपै स्तथा।
शुद्धिकामाःप्रमुच्यन्ते(पापेभ्यश्च द्विजर्षभाः)पावकेभ्यो न संशयः॥५॥
प्राणायामान् पवित्रांश्च व्याहृतीः प्रणवन्तथा।
पवित्रपाणिरासीनोऽध्यभ्यस्य ब्रह्म नैत्यिकम्॥६॥
आवर्त्तयेत्सदायुक्तः (विप्रः) प्राणायामान् पुनः पुनः।
आकेशाग्रादानखान्तात्तपस्तप्यत उत्तमम्॥७॥
(त्वक्चर्ममांसरुधिरमेदोमज्जास्थिभिः कृताः।
तथेन्द्रियकृता दोषाः दह्यन्ते प्राणनिग्रहात्॥)
निरोधाज्जायते वायुर्वायोरग्निर्हि जायते।
तापेनापो हि जायन्ते ततोऽन्तः शुध्यते त्रिभिः॥८॥
तथा चर्म तथानङ्गा दोषाअभ्यर्ति धर्मतः।
तथेन्द्रियकृता दोषा दह्यन्तेप्राणनिग्रहात्॥९॥
प्राणायामैर्दहेत् दोषाद्धारणाभिश्च किल्बिषम्।
प्रत्याहारेण विषयान्ध्यानेनानैश्वरान् गुणान्॥१०॥
न च तीव्रेण तपसा न स्वाध्यायैर्नचेज्यया।
मतिं(गतिं) गन्तुं सुराः(द्विजाः) शक्ता योगात्संप्राप्नुवन्तियाम्॥११॥
योगात्सम्प्राप्यते ज्ञानं योगाद्धर्मस्य लक्षणम्।
योगः परं तपो नित्यं तस्माद्युक्तः सदा भवेत्॥१२॥
प्रणवाद्या स्तथा वेदाः प्रणवे पर्यवस्थिताः।
वाङ्मयः प्रणवं सर्वं तस्मात्प्रणवमभ्यसेत्॥१३॥
प्रणवे विनियुक्तस्य व्याहृतीषु च सप्तसु।
त्रिपदायां चगायत्र्यां न भयं विद्यते क्वचित्॥१४॥
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः।
ब्रह्माणी चैव गायत्री पावनं परमं (त्रयम्) स्मृतम्॥१५॥
समाहृतीकां (सव्याहृतिकां) सप्रणवांगायत्रीं शिरसा सह।
त्रिः पठेदायतः प्राणः प्राणायामः स उच्यते॥१६॥
इत्यात्रेयस्मृत्यां प्रथमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1729443578Screenshotfrom2024-10-2022-29-25.png"/>
॥अथ द्वितीयोऽध्यायः॥
प्राणायामां (स्तु) स्तथा (यः) कुर्याद्यथाविधिरतन्द्रितः।
अहोरात्रिकृतात्पापात्तत्क्षणादेव शुध्यति॥१॥
कर्म्मणा मनसा वाचा यदेनः कुरुते निशि।
अतिष्ठत् पूर्वसन्ध्यायां प्राणायामैस्तु शुध्यति॥२॥
प्राणायामैर्य (स्वं) आत्मानं संयम्यास्ते पुनः पुनः।
दशद्वादशभिर्वापि चतुर्विंशात्परं तपः॥३॥
कौत्सं जप्त्वाप इत्येतद्वासिष्ठं च तृचं प्रति।
कुष्माण्डं पावमानं च सुरापोऽपि विशुद्धति॥४॥
सकृज्जप्त्वास्य पानीयं (वामीयं) शिवसङ्कल्पमेव च।
सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः॥५॥
हविष्मांस्तु यमभ्यस्य न तमंह (भ) इतीव च।
सूक्तं तु पौरुषंजप्त्वा मुच्यते गुरुतल्पगः॥६॥
सव्याहृतीकाः सप्रणवाः प्राणायामास्तु षोडश।
अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः॥७॥
अपि वाप्सु निमज्जन्वात्रिः पठेदघमर्षणम्।
यथाश्वमेधः क्रतुराट् तादृशं मनुरब्रवीत्॥८॥
आरम्भयज्ञः क्षत्रस्य हविर्यज्ञो विशामपि।
परिचर्ययज्ञः शूद्रस्तु जपयज्ञो द्विजोत्तमः॥९॥
आरम्भयज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः।
उपांशु स्याच्छतगुणः सहस्रो मानसः स्मृतः॥१०॥
न वेदबलमाश्रित्य पापकर्मरति(रतो)र्भवेत्।
अज्ञानाच्च प्रमादाच्चदह्यते कर्म नेतरत्॥४॥
तपस्तपति योऽरण्ये मुनिर्मूलफलाशनः।
ऋचमेकाञ्च योऽधीते तच्च(तच्छ) तानि च तत्फलम्॥५॥
वेदाभ्यासो(ऽन्वहं) यथाशक्त्या महायज्ञक्रियाक्षमाः।
नाशयन्त्याशु पापानि महापातकजान्यपि॥६॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।
विभेत्यल्पश्रुताद्वेदान्मामयं प्रतरिष्यति॥७॥
याजनाध्यापनाद्दानात्तथैवाहुः प्रतिग्रहात्।
विप्रेषु न भवेद्दोषोज्वलनार्कसमा (द्विजाः) हिते॥८॥
शङ्कास्थाने समुत्पन्ने भक्ष्यभोज्यप्रतिग्रहे।
आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु॥९॥
सर्ववेदपवित्राणि वक्ष्याम्यह मतः परम्।
येषांजपैश्चहोमैश्च(शुध्यन्तिमलिनाजनाः) तिलकल्पश्चसंव्रता॥१०॥
अघमर्षणं वेदव्रतं (देवव्रतं) शुद्धवत्यःशरत्समाः।
कुष्माण्डः पावमानश्च दुर्गा सावित्रिरेव च॥११॥
शतरुद्रं (ऽथर्वशिरशं) धर्मशिरं त्रिसुपर्णं महाव्रतम्।
अनिषङ्गादयस्तोभासामानि व्याहृति स्तथा॥१२॥
(अतिष्ठन् गाः पदस्तोमाः सामनि व्याहृतिस्तथा)
गारुडानि च सामानि गायत्रीं रैवतं तथा।
पुरुषव्रतञ्च भावञ्च तथा वेदकृतानि च॥१३॥
अव्लिङ्गा वार्हस्पत्यं च वाक्सूक्तञ्चामृतं (ब्रुवं) तथा।
गोसूक्तञ्चाश्वसूक्तञ्च इन्द्रशुद्धेश्च सामनि॥१४॥
उपांशुस्तुचलज्जिह्वानांदशनच्छद ईरितः।
अधरोष्ठविभागो वा विश्वासोपांशुलक्षणः।
निर्विकारेण वक्रेण मनसा मानसः स्मृतः॥११॥
सहस्रपरमां देवीं शतमध्यां दशावराम्।
गायत्रीं यः पठेद्विप्रो न स पापेन लिप्यते॥१२॥
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः।
वित्तेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः॥१३॥
यथाश्वा रथहीनास्तु रथो वाश्वैर्यथाविना।
एवं तपोऽप्यविद्यस्य विद्या वाप्यतपस्विनः॥१४॥
यथान्नं मधुसंयुक्तं मधु वान्येन संयुतम्।
एवं तपश्च विद्या च संयुक्तं भेषजं महत्॥१५॥
विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपतत्परम्।
कुत्सितैरपि वर्त्तन्तमेनो न प्रतिपद्यते॥१६॥
इति आत्रेयस्मृतौ द्वितीयोऽध्यायः।
___________
यस्य (अथा) कार्यशतं साग्रं कृतं वेदश्चसाध्यते।
सर्वं तत्तस्य (हिनस्ति) वेदाग्निर्दहत्यग्निरिवेन्धनम्॥१॥
यथा जातबलो वाग्निर्दहत्यार्द्रानपि द्रुमान्।
तथा दहन्ति वेदज्ञाःकर्मजन्दोषमात्मनः॥२॥
यथा मदाह्रदे लोष्टंक्षिप्तं(अप्सु) सर्वं विनश्यति।
एवमात्मकृतं पापं त्रयी दहति देहिनः॥३॥
दशसाहस्रमभ्यस्ता गायत्री शोधनी परा।
ब्रह्महागुरुतल्पी वाऽगम्या गामी तथैव च॥४॥
स्वर्णम्तेयी च गोघ्नीच तथा विस्रम्भघातकः।
शरणागतघाती च कूटसाक्षी त्वकार्य्यकृत्॥५॥
एवमाद्येषु चान्येषु पापेष्वभिरतश्चिरम्।
प्राणायामांस्तु यः कुर्यात् सूर्यस्योदयनं प्रति॥६॥
सूर्यस्योदयनं प्राप्य निर्म्मला धौतकल्मषाः।
भवन्ति भास्कराकारा विधूमा इव पावकाः॥७॥
न हि ध्यानेन सदृशं पवित्रमिह विद्यते ।
श्वपाकेष्वपि भुञ्जानो ध्यानेनैवात्र लिप्यते॥८॥
ध्यानमेव व(प)रो धर्मो ध्यानमेव परं तपः।
ध्यानमेव परं शौचं तस्माद्ध्यानपरो भवेत्॥९॥
सर्वपापप्रसक्तोऽपि ध्यानं नियतमभ्यसेत् ।
(ध्यायन् निमिषमुच्यते)
सर्वदा ध्यानयुक्तश्च तपस्वी पंक्तिपावनः॥१०॥
पुनस्तपस्वी भवति पंक्तिपावनपावनः।
इति आत्रेयस्मृतौ चतुर्थोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1729460697Screenshotfrom2024-10-2103-14-43.png"/>
अथ रहस्य प्रायश्चित्तानि व्याख्यास्यामः॥
सामान्यस्त्रीगमनरहस्ये रहस्य प्रकाशे प्रकाशं पावनं अनुतिष्ठेत्। वा—समान्यमगम्यागमनन्दुरन्नभोजनान्तौरहस्यौरहस्यं प्रकाशं वावनमनुतिष्ठेत्। अथवाप्सुनिमज्यन् समन्दोऽयं त्रिरावृत्य (त्रिरात्र्यन्तरं) शुद्धेत्। गोवन्यवधेकन्यादूषणे इन्द्रशुद्ध्या इत्यापः पीत्वा मुच्यते।
वेदस्यैवगुणं वापि (जप्त्वा) सद्यः शोधनमुच्यते।
एकादशगुणान्वापि रुद्रानावर्त्य शुध्यति॥१॥
महापातकोपपातकेभ्यो मलिनीकरणेभ्यो मुच्यते।
त्रि(द्वि)पदा नाम गायत्री वेदे वाजसनेयके॥२॥
त्रिः कृत्वोऽन्तर्जले प्रोक्तासर्वपापं व्यपोहति।
ब्राह्मणी गमने स्नात्वोदकुम्भान् ब्राह्मणाय दद्यात्।
क्षत्रियावैश्यागमने तापसां त्रिरावृत्य शुद्ध्यति।
शूद्रागमने अघमर्षणं त्रिरावृत्य शुद्ध्यति।
गुरुदान् गत्वा वृषभ द्वादशावृत्या शुद्ध्यति।
अपेयं पीत्वा अघमर्षणेनापः पीत्वाविशुद्ध्यति।
अशक्तःप्रायस्त्रित्तेसर्वरात्रमनुशोच्य शुद्ध्येत।
अग्निसोम इन्द्रसोम इति जपित्वाकन्यादूषी विमुच्यते।
सोमं राजानमिति जपित्वा विषदा अग्निदाश्चविमुच्यन्ते।
सर्वेषामेव पापानां सङ्करे समुपस्थिते॥३॥
दशसाहस्रमभ्यस्ता गायत्री शोधनी परा।
ब्रह्महागुरुतल्पी वाऽगम्या गामी तथैव च॥४॥
स्वर्णम्तेयी च गोघ्नी च तथा विस्रम्भघातकः।
शरणागतघाती च कूटसाक्षी त्वकार्य्यकृत्॥५॥
एवमाद्येषु चान्येषु पापेष्वभिरतश्चिरम्।
प्राणायामांस्तु यः कुर्यात् सूर्यस्योदयनं प्रति॥६॥
सूर्यस्योदयनं प्राप्य निर्म्मला धौतकल्मषाः।
भवन्ति भास्कराकारा विधूमा इव पावकाः॥७॥
न हि ध्यानेन सदृशं पवित्रमिह विद्यते।
श्वपाकेष्वपि भुञ्जानो ध्यानेनैवात्र लिप्यते॥८॥
ध्यानमेव व(प)रो धर्मोध्यानमेव परं तपः।
ध्यानमेव परं शौचं तस्माद्ध्यानपरो भवेत्॥९॥
सर्वपापप्रसक्तोऽपि ध्यानंनियतमभ्यसेत्।
(ध्यायन् निमिष मुच्यते)
सर्वदा ध्यानयुक्तश्च तपस्वी पंक्तिपावनः॥१०॥
पुनस्तपस्वी भवति पंक्तिपावनपावनः।
इति आत्रेयस्मृतौ चतुर्थोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1729488654Screenshotfrom2024-10-2103-14-43.png"/>
चतुरस्रंब्राह्मणस्यत्रिकोणं क्षत्रियस्य तु।
वर्त्तुलञ्चैव वैश्यस्य शूद्रस्याभ्युक्षणं स्मृतम्।
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशन एव च॥१॥
मण्डलान्युपजीवन्ति तस्मात् कुर्वन्ति मण्डलम्।
यातुधानाः पिशाचाश्च क्रूराश्चैव तु राक्षसाः॥२॥
हरन्ति रसमन्नस्य मण्डलेन विवर्जितम्।
गोमयैर्मण्डलं कृत्वा भोक्तव्यमिति निश्चितम्॥३॥
यत्र क्वपतितस्यान्नं भुक्त्वा चान्द्रायणं चरेत्।
यतिश्च ब्रह्मचारी चपक्वान्नस्वामिनावुभौ॥४॥
तयोरन्नमदत्त्वाच भुक्त्वाचान्द्रायणं चरेत्।
यतिहस्ते जलं दद्याद्भैक्षं दद्यात् पुनर्जलम्॥५॥
तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम्।
वामहस्तेन यो भुङ्क्ते पयः पिबति वाद्विजः॥६॥
सुरापानेन तत्तुल्यं मनुः स्वायम्भुवोऽब्रवीत्।
हस्तदत्तास्तु ये स्नेहाल्लवणव्यञ्जनादिच॥७॥
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम्।
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम्॥८॥
तथैववृषलस्यान्नं ब्राह्मणेन निमन्त्रितम्।
ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत्॥९॥
उभावेतावभोज्यान्नौ भुक्त्वाचान्द्रायणं चरेत्।
अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम्॥१०॥
वैश्यस्य चान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम्।
शूद्रान्नेनोदरस्थेन योऽधिगच्छति मैथुनम्॥११॥
यस्यान्नं तस्यते पुत्रा अन्नाच्च्छुक्रंप्रवर्त्तते।
शूद्रान्नरसपुष्टाङ्गोऽधीयानोऽपि च नित्यशः॥१२॥
जुह्वत् चापि जपन्वापि गतिमूर्द्धान्न विन्दति।
यस्तु वेदमधीयानः शूद्रान्नमुपभुञ्जते॥१३॥
शूद्रो वेदफलं याति शूद्रत्वं चाधिगच्छति।
मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभो(जीच)जनम्॥१४॥
अहमेवं न जानामि काङ्कां योनिङ्गमिष्यति ।
श्वानस्तु सप्तजन्मानि नवजन्मानि शूकरः॥१५॥
गृध्रो द्वादश(अष्टादश)जन्मानि इत्येवं मनुरब्रवीत्।
परपाक मुपासन्ते ये द्विजागृहमेधिनः॥१६॥
ते वै खरत्वमुष्ट्रत्वं श्वत्वञ्चैवाऽधिगच्छति।
श्राद्धं दत्वा च भुक्त्वा चमैथुनं योऽधिगच्छति॥१७॥
भवन्ति पितरस्तस्य तन्मासे रेतसोभुजः।
उच्छिष्टे नतु संस्पृष्टोद्रव्यहस्तः कथञ्चन॥१८॥
भूमौ निधाय तद्द्रव्यमाचान्तः शुचितामियात्।
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान्॥१९॥
भूमिगैस्ते समाज्ञेया न तैरप्रयतो भवेत्।
आचान्तोऽप्यशुचिस्तावद्यावत्पात्रमनुद्धृतम्॥२०॥
उद्धृतेप्यशुचिस्तावद्यावन्मण्डलशोधनम्।
आसने पादमारोप्य ब्राह्मणो यस्तु भुञ्जते॥२१॥
मुखेन वमितं चान्नं तुल्यं गोमांसभक्षणम्।
उपदंशान्नशेषं वाभोजने मुखनिःसृतम्॥२२॥
द्विजातीनामभोज्यान्नं भुक्त्वाचान्द्रायणं चरेत्।
पीतशेषन्तु यत्तोयं ब्राह्मणः पिबतेपुनः॥२३॥
अपेयं तद्भवेदापःपीत्वा चान्द्रायणं चरेत्।
अनुवंशन्तु भुञ्जीत नानुवंशन्तु संविशेत्॥२४॥
अनुवंशन्तु भुञ्जानो दीर्घमायुरवाप्नुयात्।
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत्॥२५॥
आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात्।
अनार्द्रपादः शयने दीर्घां श्रियमवाप्नुयात्॥२६॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यंदक्षिणामुखः।
श्रियं प्रत्यङ्मुखे भुङ्क्तेऋतं भुङ्क्तउदङ्मुखः॥२७॥
शावे शवगृहं गत्वा श्मशाने वान्तरेऽपि वा।
आतुरं व्यञ्जनं कृत्वादूरस्थोऽप्यशुचिर्भवेत
॥२८॥
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्।
सम्बत्सरे व्यतीते तु स्पृष्ट्वैवापोविशुद्ध्यति॥२९॥
निर्देशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च।
सवासा जलमाप्लुत्यशुद्धोभवति मानवः॥३०॥
अशुद्धं स्वयमप्यन्नं शुद्धस्तु यदि स्पृशेत्।
विशुद्ध्यत्युपवासेन भुङ्क्ते कृच्छ्रेणस द्विजः॥३१॥
सूतकेसूतकंस्पृष्ट्वास्नानं शाते च सूतके।
सूतकेनैवशुद्धिः स्यान्मृतस्यान्निर्दशे शुचिः॥३२॥
सूतके सूतकं स्पृष्ट्वा स्नानं शावे च सूतके।
भुक्त्वापीत्वा तदज्ञानादुपवासस्त्र्यहं भवेत्॥३३॥
मृण्मयानाञ्चपात्राणां दशाहे (दाहे) शुचिरिष्यते।
स्नानादिषु प्रयुक्तानां त्याग एव विधीयते॥३४॥
सूतके मृतके चैव मृतान्ते च प्रसूतके।
तस्मात्तु शङ्गाताशौचे मृताशौचे न शुध्यति॥३५॥
सूतकाद्द्विगुणं शावंशावाद्द्विगुणमार्त्तवम्।
आर्त्तवाद् द्विगुणा सूतिस्ततोऽधिशवदाहकः॥३६॥
अनुगच्छेद्यथा (च्छया) प्रेतं ज्ञातिमज्ञातिमेव वा।
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राप्य विशुध्यति॥३७॥
रजता शुध्यते नारी नदी वेगेन शुध्यति।
भस्मना शुध्यते कांस्यं पुनः पाकेन मृण्मयम्॥३८॥
नोदन्वतोऽम्भसि स्नानं क्षुरकर्म तथैव च।
अन्तर्वत्न्या(रती) पतिः कुर्वन्न प्रजा भवति ध्रुवम्॥३९॥
दम्पती शिशुना सार्द्धं सूतके दशमेऽहनि।
क्षौरं(स्नानं) कुर्यात्ततः पूता(पिता)दानभोजनयोग्यता॥४०॥
केशादि दूषिते तीरे न कुर्यात्तिलतर्पणम्।
जलमध्ये जलं देयं पितॄणां जलमिच्छताम्।
घनस्थाने न दातव्यं पितॄणां नोपगच्छति॥४१॥
रात्रिं कुर्यात् त्रिभागन्तु द्वौ भागौपूर्व एव च।
उत्तरांशः प्रभातेन युज्यते मृत(ऋतु)सूतके॥४२॥
यदिपश्येदृतुंपूर्वं क्रूरवारे मृतिः स्मृता।
इति पश्येत्तु भुक्त्वातु पादुकारोहणं स्मृतम्।
स्नात्वैन्द्रव्रतमादायदेवताभ्यो निवेदयेत्॥४३॥
अपूपं लवणं मुद्गंगुडमिश्रं तथा हविः।
दत्त्वा ब्राह्मणपत्नीभ्यो निशि भोजनमेव च॥४४॥
चतुर्थेऽहनि कर्त्तव्यं क्षुरकर्माति(ऋतुशान्तिश्च)यत्नतः।
पुण्याहं वाचयित्वान्तेभोक्तव्यं (होतव्यं) शुद्धिमिच्छता॥४५॥
अपुण्याहे तु भुञ्जीत विप्रो धर्ममजानतः।
तस्य जातिमयं भुङ्क्तेप्रायश्चित्तं ध्रुवं भवेत्॥४६॥
विवाहे वितते तन्त्रे होमकाल उपस्थिते।
कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः॥४७॥
हविष्मत्या स्नापयित्वा त्वन्यवस्त्रमलङ्कृताम्।
युञ्जानामाहुतिं कृत्वाततः कर्म प्रवर्त्तते॥४८॥
प्रथमेऽइनि चाण्डाली द्वितीये ब्रह्मघातकी।
तृतीये रजकी प्रोका चतुर्थेऽहनि शुध्यति॥४९॥
आर्त्तवाभिप्लुतां नारीं चण्डालं पतितं शुनम्।
भोज्यान्तरे (तु संस्पृश्यन्) प्रयुज्यन्ते।
स्नात्वा मान स्तृचं(वाचस्पतिं) जपेत् ॥५०॥
आर्त्तवाभिप्लुतां नारीं दृष्ट्वा भुङ्क्ते(कामतः)ऽन्धकातराः।
तदन्नं छर्दयित्वा तु कुशवारि पिबेदपः॥५१॥
ये तां दत्त्वा(दृष्ट्वा) तु यो भुङ्क्ते प्राजापत्यं विशोधनम्।
आर्त्तवाभिप्लुतांनारीं आर्त्तवाभिप्लुताभिधः॥५२॥
भाषयित्वा तु संमोहादुपवासस्तयोर्भवेत्।
उदक्यायाः करेणाथ भुक्त्वाचान्द्रायणं चरेत्॥५३॥
प्राजापत्यमसत्याच्चेत् त्रिरात्रं स्पृष्टभोजने।
तद्धस्तभोजनञ्चैव त्रिगुणं सह भोजने॥५४॥
चतुर्गुणं तदुच्छिष्टे पानीये त्वर्द्धमेव च।
उदक्यायाः समीपस्थ मन्नं भुक्त्वात्वकामतः॥५५॥
उपवासेन शुद्धिः स्यात्पिबेद् ब्रह्म सुवर्च्चलम्।
आर्त्तवा यदि चाण्डालमुच्छिष्टेनतु पश्यति॥५६॥
आस्नानकालं नाश्रीयादासीना वाग्यता बहिः।
पादकृच्छ्रन्तु यः कुर्याद् ब्रह्मकृच्छ्रं पिबेत् पुनः॥५७॥
ब्राह्मणान् भोजयेत्पश्चाद्विप्राणा मनुशासनात्।
मृतसूतकसम्पर्के ऋतुं दृष्ट्वा कथं भवेत्॥५८॥
आस्नानकालं नाश्नीयाद् भुक्त्वाचान्द्रायणं चरेत्।
आर्त्तवाभिप्लुता नारीचण्डालं स्पृशते यदि॥५९॥
आर्त्तवाभिप्लुता नारीं आर्त्तवाभिप्लुता स्पृशेत्।
स्नात्वोपवासं कुर्याच्चपञ्चगव्येन शुध्यति॥६०॥
कृच्छ्रमेकञ्चरेत्सा तु तदर्थं चान्तरीकृते।
आतुरा या ऋतुस्नाता स्नानकर्म कथं भवेत्॥६१॥
स्नात्वा स्नात्वा पुनःस्पृश्य दशकृत्वस्त्वनातुराः।
वस्त्रापनयनं कृत्वा भस्मना परिमार्जयेत्॥६२॥
दत्त्वातु शक्तितो दानं पुण्याहेन विशुध्यति।
ब्रह्मणानां करैर्मुक्तंतोयं शिरसि धारयेत्॥६३॥
सर्वतीर्थतटात्पुण्याद्विशिष्टतरमुच्यते।
रजस्वलायाः प्रेतायाःसंस्कारं नाचरेद्द्विजः॥६४॥
ऊर्ध्वं त्रिरात्रात्स्नातायाः शावधर्मेण दाहयेत्।
रजस्वले च द्वे स्पृष्टे चातुर्वर्णस्य याः स्त्रियः॥६५॥
अतिकृच्छ्रं चरेत्पूर्वं कृच्छ्रमेकं क्रमेण तु।
रजस्वलायाः स्नातायाः पुनरेव रजस्वला॥६६॥
विंशतेर्दिवसादूर्ध्वंत्रिरात्रमशुचिर्भवेत्।
प्रसूतिका तु या नारी स्नानतो विंशतेः परम्॥६७॥
रजस्वलातु सा प्रोक्ता प्राक्तुनैमित्तिकंरजः।
शुद्धा नारी शुद्धवासाः पुनरार्तवदर्शने॥६८॥
वस्त्रं तु मलिनं त्यक्त्वातिलमाप्लुत्य शुध्यति।
आतुर स्नानसंप्राप्तौ दशकृत्वस्त्वनातुरः॥६९॥
स्नात्वा स्नात्वा स्पृशेदेनं ततः शुद्धो भविष्यति।
चन्द्रसूर्यग्रहे नाद्यात् स्नात्वा मुक्ते तु भुञ्जते॥७०॥
अमुक्तयो रस्तगयो रद्याद् दृष्ट्वापरेऽहनि।
यस्य स्वजन्मनक्षत्रे गृह्येते शशिभास्करौ॥७१॥
व्याधिः प्रवाहे मृत्युश्च दारिद्र्यञ्च महद्भयम्।
तस्माद्दानं च होमञ्च देवताभ्यर्चनं जपम्॥७२॥
कुर्यात्तस्मिन् दिने युक्ते तस्य शान्तिर्भविष्यति।
सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे॥७३॥
यो नरः स्नाति तत्तीर्थेसमुद्रे सेतुबन्धने।
उपोष्य रजनीमेकां राहुग्रस्ते दिवाकरे॥७४॥
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति।
सोमेऽप्येवं सूर्यतुल्यं तस्मात् सर्वं समाचरेत्॥७५॥
इति आत्रेयस्मृतौ पञ्चमोऽध्यायः॥
_________
स्वर्गसुखप्राप्ति फलम्।
इष्ट्वा क्रतुशतैरेवं देवराजो महाद्युतिः।
स्वगुरुं वाग्मिनां श्रेष्ठं पर्यपृच्छद्वृहस्पतिम्॥१॥
भगवन्! केन दानेन स्वर्गतः सुखमेधते।
यदक्षयं महाभाग! त्वं ब्रूहि वदताम्बर॥२॥
एवं पृष्टः स इन्द्रेण देवदेवपुरोहितः।
वाचस्पतिर्महातेजो वृहस्पति रुवाच ह॥३॥
हिरण्यदानं गोदानं भूमिदानञ्चवासव?।
एतत्प्रयच्छमानोऽपि स्वर्गतः सुखमेधते॥४॥
सुवर्णं रजतं वस्त्रं मणिरत्नं बसूनि च।
सर्वमेव भवेद्दत्तंवसुधां यः प्रयच्छति॥५॥
फलाकृष्टां महीं दद्यात् सवीजां सस्यमालिनीम्।
यावत् सूर्यकरा लोके तायत् सर्गे महीयते॥६॥
इति—आत्रेयस्मृतौ धर्मशास्त्रं सम्पूर्णम्।
_____________
शुभमस्तु।
॥ॐ तत्सद्ब्रह्मणेनमः॥
महर्ष्यात्रिप्रणीता।
अत्रि-संहिता।
॥श्रीगणेशाय नमः॥
हुताग्निहोत्रमासीनमत्रिं वेदविदां वरम्।
सर्वशास्त्रविधिज्ञातमृषिमिश्च नमस्कृतम्॥१॥
नमस्कृत्य च ते सर्व इदं वचनमब्रूवन्।
हितार्थं सर्व लोकानां भगवन्! कथयस्वनः॥२॥
अत्रिरुवाच।
वेदशास्त्रार्थतत्त्वज्ञा! यन्मे पृच्छथ संशयम्।
तत् सर्वं संप्रवक्ष्यामि यथादृष्टं यथाश्रुतम्॥३॥
सर्वतीर्थान्युपस्पृश्य सर्वान् देवान् प्रणम्य च।
जप्त्वा तु सर्वसूक्तानि सर्वशास्त्रानुसारतः॥४॥
सर्वपापहरं नित्यं सर्वसंशयनाशनम्।
चतुर्णामपि वर्णानामत्रिः शास्त्रमकल्पयत्॥५॥
ये चपापकृतोलोके येचान्ये धर्मदूषकाः।
सर्वैःपापैःप्रमुच्यन्ते श्रुत्वेदं शास्त्रमुत्तमम्॥६॥
तस्मादिदं वेदविद्भिरध्येतव्यं प्रयत्नतः।
शिष्येभ्यश्च प्रवक्तव्यं सद्वृत्तेभ्यश्च धर्मतः॥७॥
अकुलीने ह्यसद्वृत्ते जडे शूद्रेशठे द्विजे।
एतेष्वेवन दातव्यमिदं शास्त्रं द्विजोत्तमैः॥८॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत्।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत्॥९॥
एकाक्षरप्रदातारं यो गुरुं नाभिमन्यते।
शुनां योनिशतं गत्वा चाण्डालेष्वपि जायते॥१०॥
वेदं गृहीत्वा यः कश्चिच्छास्त्रञ्चैवावमन्यते।
स सद्यः पशुतां याति सम्भवानेकविंशतिम्॥११॥
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः।
प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः॥१२॥
कर्म विप्रस्य यजनं दानमध्ययनं तपः।
प्रतिग्रहोऽध्यापनञ्चयाजनञ्चेतिवृत्तयः॥१३॥
क्षत्त्रियस्यापि यजनं दानमध्ययनं तपः।
शस्त्रोपजीवनं भूतरक्षणंचेति वृत्तयः॥१४॥
दानमध्ययनंवार्ता यजनं चेति वै विशः।
शूद्रस्य वार्ता शुश्रूषा द्विजानां कारुकर्म च॥१५॥
मयैषधर्मोऽभिहितः संस्थिता यत्र वर्णितः।
बहुमानमिह प्राप्य प्रयान्ति परमां गतिम्॥१६॥
ये व्यपेताः स्वधर्मेभ्य परधर्मे व्यवस्थिताः।
तेषां शास्तिकरोराजा स्वर्गलोके महीयते॥१७॥
आत्मीये संस्थितो धर्मे शूद्रोऽपि स्वर्गमश्नुते।
परधर्मो भवेत्त्याज्यः सुरूपपरदारवत्॥१८॥
बध्यो राज्ञा स वै शूद्रो जपहोमपरश्चयः।
ततो राष्ट्रस्य हन्ताऽसौ यथा वह्नेश्चवै जलम्॥१९॥
प्रतिग्रहोऽध्यापनञ्च तथाऽविक्रेयविक्रयः।
याज्यं चतुर्भिरप्येतैः क्षत्त्रविट्पतनं स्मृतम्॥२०॥
सद्यः पतति मांसेन लाक्षया लवणेन च।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात्॥२१॥
अव्रताश्चानधीयाना यत्र भैक्षचराद्विजाः।
तं ग्रामंदण्डयेद्राजा चौरभक्तप्रदं बुधैः॥२२॥
विद्वद्भोज्यमविद्वांसो येषु राष्ट्रेषु भुञ्जते।
तेऽप्यनावृष्टिमिच्छन्ति महद्वा जायते भयम्॥२३॥
ब्राह्मणान् वेदविदुषः सर्वशास्त्रविशारदान्।
तत्र वर्षति पर्जन्यो यत्रैतान् पूजयेन्नृपः॥२४॥
त्रयो लोकास्त्रयो वेदा आश्रमाश्च त्रयोऽग्नयः।
एतेषां रक्षणार्थाय संसृष्टा ब्राह्मणाः पुरा॥२५॥
उभे सन्ध्ये समाधाय मौनं कुर्वन्ति ये द्विजाः।
दिव्यवर्षसहस्राणि स्वर्गलोके महीयते॥२६॥
य एवं कुरुते राजा गुणदोषपरीक्षणम्।
यशः स्वर्गं नृपत्वञ्चपुनः कोषं समृद्धयेत्॥२७॥
दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोषस्यच संप्रवृद्धिः।
अपक्षपातोऽर्थिषुराष्ट्ररक्षाःपञ्चैव यज्ञाः कथिता नृपाणाम्॥२८॥
यत् प्रजापालने पुण्यंप्राप्नुवन्तीह पार्थिवाः।
न तु क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः॥२९॥
अलाभे देवखातानां ह्रदेषु च सरःसु च।
उद्धृत्य चतुरः पिण्डान् पारके स्नानमाचरेत्॥३०॥
वसाशुक्रमसृङ्मज्जामूत्रविट्कर्णविण्णखाः।
श्लेष्मास्थि दूषिकाः स्वेदो द्वादशैते नृणां मलाः॥३१॥
षण्णां षण्णां क्रमेणैव शुद्धिरुक्तामनीषिभिः।
मृद्वारिभिश्चपूर्वेषामुत्तरेषान्तु वारिणा॥३२॥
शौचमङ्गलनायासाअनसूयाऽस्पृहा दमः।
लक्षणानि च विप्रस्य तथा दानं दयापि च॥३३॥
न गुणान् गुणिनोहन्ति स्तौति चान्यान् गुणानपि।
न हसेच्चान्नदोषांश्च सानसूया प्रकीर्तिता॥३४॥
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः।
आचारेषु व्यवस्थानं शौचमित्यभिधीयते॥३५॥
प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम्।
एतद्धि मङ्गलं प्रोक्तमृषिभिर्धर्मदर्शिभिः॥३६॥
शरीरं पीड्यते येन शुभेन त्वशुभेन वा।
अत्यन्तं तन्न कुर्व्वीत अनायासः सउच्यते॥३७॥
यथोत्पन्नेन कर्त्तव्यं सन्तोषः सर्ववस्तुषु।
न स्पृहेत् परदारेषु साऽस्पृहापरिकीर्त्तिता॥३८॥
वाह्यमध्यात्मिकं वाऽपि दुःखमुत्पाद्यतेऽपरैः।
न कुप्यति न चाहन्ति दम इत्यभिधीयते॥३९॥
अहन्यहनि दातव्यमदीनेनन्तरात्मना।
स्तोकादपि प्रयत्नेन दानमित्यभिधीयते॥४०॥
परस्मिन् बन्धुवर्गे वा मित्रे द्वेष्ये रिपौतथा।
आत्मवद्वर्त्तितव्यं हि दयैषा परिकीर्त्तिता॥४१॥
यश्चैतैर्लक्षणैर्युक्तो गृहस्थोऽपि भवेद्द्विजः।
स गच्छति परं स्थानं जायते नेह वै पुनः॥४२॥
अग्निहोत्रं तपः सत्यं वेदानाञ्चैवपालनम्।
आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते॥४३॥
वापीकूपतडागादि देवतायतनानि च।
अन्नप्रदानमारामाःपूर्त्तमित्यभिधीयते॥४४॥
इष्टंपूर्त्तं प्रकर्त्तव्यं ब्राह्मणेन प्रयत्नतः।
इष्टेन लभते स्वर्गं पूर्त्तेन मोक्षमवाप्नुयात्॥४५॥
इष्टापूर्त्तौद्विजातीनां सामान्यौ धर्मर्साधनौ।
अधिकारी भवेच्छूद्रः पूर्त्तेधर्मे न वैदिके॥४६॥
यमान् सेवेत सततं न नित्यं नियमान् बुधः।
यमान् पतत्यकुर्व्वाणोनियमान् केवलान् भजन्॥४७॥
आनृशंस्यं क्षमा सत्यमहिंसा दानमार्जवम्।
प्रीतिः प्रसादो माधुर्य्यं मार्दवञ्चयमा दश॥४८॥
शौचमिज्या तपोदानं स्वाध्यायोपस्थनिग्रहः।
व्रतमौनोपवासाश्चस्नानञ्चनियमा दश॥४९॥
प्रतिकृतिं कुशमयीं तीर्थवारिषुमज्जयेत्।
यमुद्दिश्य निमज्जेत अष्टभागं लभेव सः॥५०॥
मातरं पितरं वाऽपि भ्रातारं सुहृदं गुरुम्।
यमुद्दिश्य निमज्जेत द्वादशांशफलं लभेत्॥५१॥
अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा।
पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः॥५२॥
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्।
ऋणमस्मिन् संनयति अमृतत्वञ्चगच्छति॥५३॥
जातमात्रेण पुत्रेण पितॄणामनृणी पिता।
तदह्निशुद्धिमाप्नोति नरकात्त्रायते हि सः॥५४॥
जायन्ते बहवः पुत्रायद्येकोऽपि गयां व्रजेत्।
यजते चाश्वमेधञ्चनीलं वा वृषमुत्सृजेत्॥५५॥
काङ्क्षन्ति पितरःसर्वे नरकान्तरभीरवः।
गयांयास्यति यः पुत्रः स नस्त्राता भविष्यति॥५६॥
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वादेवं गदाधरम्।
गयाशीर्षं पदाऽऽक्रम्य मुच्यते ब्रह्महत्यया॥५७॥
महानदीमुपस्पृश्यतर्पयेत् पितृदेवताः।
अक्षयान् लभते लोकान् कुलञ्चैव समुद्धरेत्॥५८॥
शङ्कास्थाने समुत्पन्ने भक्ष्यभोग (भोज्य) विवर्जिते।
आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु॥५९॥
अक्षारलवणं भैक्षं (रौक्षं) पिबेद्ब्राह्मींसुवर्च्चसम।
त्रिरात्रं शङ्खपुष्पीम्बा ब्राह्मणःपयसा सह॥६०॥
मद्यभाण्डाद्द्विजः कश्चिद्ज्ञानात्पिबते जलम्।
प्रायश्चित्तंकथं तस्य मुच्यते केन कर्मणा॥६१॥
शुना चैव तु संस्पृष्टस्तस्य स्नानं विधीयते।
तदुच्छिष्टन्तु संप्राश्य षण्मासान् कृच्छ्रमाचरेत्॥७३॥
असंस्पृष्टेन संस्पृष्टःस्नानं तेन विधीयते।
तस्य चोच्छिष्टमश्नीयात्षण्मासान् कृच्छमाचरेत्॥७४॥
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च।
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः॥७५॥
वपनं मेखला दण्डो भैक्षचर्यव्रतानि च।
निवर्त्तन्ते द्विजातीनां पुनः संस्कारकर्मणि॥७६॥
गृहशुद्धिंप्रवक्ष्यामि अन्तःस्थशवदूषिताम्।
प्रायोज्यं मृण्मयं भाण्डं सिद्धमन्नंतथैव च॥७७॥
गृहान्निष्क्रम्य तत्सर्वं गोमयेनोपलेपयेत्।
गोमयेनोपलिप्याथछागेनाघ्रापयेत् पुनः॥७८॥
ब्राह्मैर्मन्त्रैस्तु पूतन्तु हिरण्यकुशवारिभिः।
तेनैवाभ्युक्ष्यतद्वेश्म शुद्धते नात्र संशयः॥७९॥
राज्ञान्यैः श्वपैचर्वापि बलाद्विचालितो द्विजः।
पुनः कुर्वीत संस्कारं पश्चात् कृच्छ्रत्रयञ्चरेत्॥८०॥
शुना चैव तु संस्पृष्टस्तस्य स्नानं विधीयते।
तदुच्छिष्टन्तु संप्राश्य यत्नेन कृच्छ्रमाचरेत्८१॥
अतःपरं प्रवक्ष्यामि सूतकस्य विनिर्णयम्।
प्रायश्चित्तं पुनश्चैव कथयिष्याम्यतः परम्॥८२॥
एकाहाच्छुद्ध्यते विप्रोयोऽग्निवेदसमन्वितः।
त्र्यहात् केवलवेदस्तु निर्गुणो दशभिर्दिनैः॥८३॥
व्रतिनः शास्त्रपूतस्य आहिताग्नेस्तथैव च।
राज्ञस्तु सूतकं नास्ति यस्य चेच्छति ब्राह्मणः॥८४॥
ब्राह्मणो दशरात्रेण द्वादशाहेन भूमिपः।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति॥८५॥
सपिण्डानान्तु सर्वेषां गोत्रजःसाप्तपौरुषः।
पिण्डाश्चोदकदानञ्चशावाशौचं तथाऽनुगम्॥८६॥
चतुर्थे दशरात्रं स्यात् षडहः पञ्चमेतथा।
षष्ठे चैव त्रिरात्रं स्यात् सप्तमे त्र्यहमेव वा॥८७॥
अष्टमे दिनमेकन्तु नवमे प्रहरद्वयम्।
दशमे स्नानमात्रेण सूतके तु शुचिर्भवेत्॥८८॥
मृतसूतके तु दासीनां पत्नीनाञ्चानुलोमिनाम्।
स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौनिकम्॥८९॥
शवस्पृष्टतृतीयस्तु सचैलः स्नानमाचरेत्।
चतुर्थे सप्तभैक्ष्यं स्यादेषशावविधिः स्मृतः॥९०॥
एकत्र संस्कृतानान्तु मातृणामेकभोजिनाम्।
स्वामितुल्यं भवेच्छौचं विभक्तानां पृथक्पृथक्॥९१॥
उष्ट्रीक्षीरमवीक्षीरं यद्यान्नंमृतसूतके।
पाचकान्नं नवश्राद्धं भुक्त्वाचान्द्रायणं चरेत्॥९२॥
सूतकान्नमधर्माय यस्तु प्राश्नाति मानवः।
त्रिरात्रमुपवासः स्यादेकरात्रं जले वसेत्॥९३॥
महायज्ञविधानन्तु न कुर्यान्मृतजन्मनि।
होमंतत्र प्रकुर्वीतशुष्कान्नेन फलेन वा॥९४॥
एतेषामुदकं पीत्वा पर्णकृच्छ्रन्तदुच्यते।
पञ्चगव्यञ्चगोक्षीरदधिमूत्रशकृद्घृतम्॥११७॥
जग्ध्वा परेऽह्न्यपवसेदेषसान्तपनो विधिः।
पृथक्सान्तपनैर्द्रव्यैःषडहः सोपवासकः॥११८॥
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनं स्मृतम्।
त्र्यहं सायं त्र्यहं प्रातस्त्र्यहं भुङ्क्तेत्वयाचितम्॥११९॥
त्र्यहं परञ्चनाश्नीयात् प्राजापत्योविधिः स्मृतः।
सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः॥१२०॥
अयाचितेचतुर्विंशः परेऽह्न्यनशनं स्मृतम्।
कुक्कुटाण्डप्रमाणं स्याद्यावद्यस्य मुखं विशेत्॥१२१॥
एतद्ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोधनम्।
त्र्यहमुष्णं पिवेदापस्त्र्यहमुष्णं पिबेत् पयः॥१२२॥
त्र्यहमुष्णं घृतं पीत्वावायुभक्षो दिनत्रयम्।
षट्पलानि पिबेदापस्त्रिपलं तु पयः पिबेत्॥१२३॥
पलमेकन्तु वै सर्पिस्तप्तकृच्छ्रं विधीयते।
दध्नाच त्रिदिनंभुङ्क्तेत्र्यहंभुङ्क्तेच सर्पिषा॥१२४॥
क्षीरेण तु त्र्यहंभुङ्क्ते वायुभक्षो दिनत्रयम्।
त्रिपलं दधिक्षीरेण पलमेकं तु सर्पिषा॥१२५॥
एतदेव व्रतं पुण्यं वैदिकं कृच्छ्रमुच्यते।
एकभक्तेन नक्तेन वा तथैवायाचितेन च॥१२६॥
उपवासेन चैकेनपादकृच्छ्रः प्रकीर्त्तितः।
कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम्॥१२७॥
द्वादशाहोपवासेन पराकः परिकीर्त्तितः।
पिण्याकदधिशक्तूनां ग्रासश्चप्रतिवासरम्॥१२८॥
एकैकमुपवासः स्यात् सौम्यकृच्छ्रः प्रकीर्त्तितः।
एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम्॥१२९॥
तुलापुरुषइत्येष ज्ञेयः पञ्चदशाहिकः।
कपिलागोस्तु दुग्धाया धारोष्णं यत्पयः पिबेत्॥१३०॥
एषव्यासकृतः कृच्छ्रः श्वपाकमपि शोधयेत्।
निशायां भोजनञ्चैव तज्ज्ञेयं नक्त्तमेव तु॥१३१॥
अनादिष्टेषु पापेषु चान्द्रायण मथोदितम्।
अग्निष्टोमादिभिर्यज्ञैरिष्टैर्द्विगुणदक्षिणैः॥१३२॥
यत्फलं समवाप्नोति तथा कृच्छ्रैस्तपोधनः।
वेदाभ्यासरतःक्षान्तो धर्मशास्त्राण्यवेक्षयेत्॥१३३॥
शौचाचारसमायुक्तोगृहस्थोऽपि हि मुच्यते।
उक्तमेतद्द्विजातीनां महर्षे! श्रूयतामिति॥१३४॥
अतःपरं प्रवक्ष्यामि स्त्रीशूद्रपतनानि च।
जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम्॥१३५॥
देवताराधनञ्चैव स्त्रीशूद्रपतनानि षट्।
जीवद्भर्त्तरि या नारी उपोष्य व्रतचारिणी॥१३६॥
आयुष्यं हरते भर्त्तुःसा नारी नरकं व्रजेत्।
तीर्थस्नानार्थिनीनारी पतिपादोदकं पिबेत्॥१३७॥
शङ्करस्यापि विष्णोर्वा प्रयाति परमं पदम्।
जीवद्भर्त्तरि वामाङ्गी मृते वापि सुदक्षिणे॥१३८॥
श्राद्धे यज्ञे विवाहे च पत्नी दक्षिणतः सदा।
सोमः शौचं ददौ तासां गन्धर्वाश्च वथाङ्गिराः॥१३९॥
पावकः सर्वमेध्यं च मेध्यं वै योषितां सदा।
जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विजःउच्यते॥१४०॥
विद्यया याति विप्रत्वं श्रोत्रियस्त्रिभिरेव च।
वेदशास्त्राण्यधीते यः शास्त्रार्थञ्चनिषेवते॥१४१॥
तदासौ वेदवित् प्रोक्तोवचनन्तस्थ पावनम्।
एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः॥१४२॥
स ज्ञेयः परमो धर्मो नाज्ञानामयुतायुतैः।
पावकाइव दीप्यन्ते जपहोमैर्द्विजोत्तमाः॥१४३॥
प्रतिग्रहेण नश्यन्ति वारिणा इव पावकः।
तान् प्रतिग्रहजान् दोषान् प्राणायामैर्द्विजोत्तमाः॥१४४॥
उत्सादयन्ति विद्वांसो वायुर्मेघानिवाम्बरे।
भुक्त्वाचम्य यदा विप्र आर्द्रपाणिस्तु तिष्ठति॥१४५॥
लक्ष्मीर्बलं यशस्तेज आयुश्चैव प्रहीयते।
यस्तु भोजनशालायामासनस्थउपस्पृशेत्॥१४६॥
तस्यान्नंनैवभोक्तव्यंभुक्त्वा चान्द्रायणञ्चरेत्।
पात्रोपरिस्थितं पात्रं यः संस्थाप्य उपस्पृशेत्॥१४७॥
तस्यान्नंनैव भोक्तव्यंभुक्त्वा चान्द्रायणञ्चरेत्।
न देवास्तृप्तिमायान्ति दातुर्भवति निष्फलम्॥१४८॥
हस्तंप्रक्ष्याल्य यस्त्वापः पिबेद्भुक्ताद्विजोत्तमः।
तदन्नमसुरैर्भुक्तंनिराशाः पितरो गताः॥१४९॥
नास्ति वेदात् परं शास्त्रं नास्ति मातुः परो गुरुः।
नास्ति दानात् परं मित्रमिह लोके परत्र च॥१५०॥
अपात्रे ह्यपि यद्दत्तं दहत्यासप्तमं कुलम्।
हव्यंदेवा न गृह्णन्ति कव्यञ्च पितरस्तथा॥१५१॥
आयसेन तु पात्रेण यदन्नमुपदीयते।
अन्नं विष्ठासमं भोक्तुर्दाता चनरकं व्रजेत्॥१५२॥
इतरेण तु पात्रेण दीयमानं विचक्षणः।
न दद्याद्वामहस्तेन आयसेन कदाचन॥१५३॥
मृण्मयेषु च पात्रेषु यः श्राद्धे भोजयेत् पितॄन्।
अन्नदाता च भोक्ताच तावेवनरकं व्रजेत्॥१५४॥
अभावे मृण्मयेदद्यादनुज्ञातस्तु तैर्द्विजैः।
तेषांवचः प्रमाणं स्यादृतञ्चानृतमेव च॥१५५॥
सौवर्णायसताम्रेषुकांस्यरौप्यमयेषु च।
भिक्षादातु र्नधर्मोऽस्ति भिक्षुर्भुङ्क्तेकिल्बिषम्॥१५६॥
न च कांस्येषु भुञ्जीयादापद्यपि कदाचन।
पलाशे यतयोऽश्नन्ति गृहस्थः कांस्यभाजने॥१५७॥
कांस्यकस्य च यत्पापं गृहस्थस्य तथैव च।
कांस्यभोजी यतिश्चैव प्राप्नुयात् किल्बिषं तयोः॥१५८॥
अत्राप्युदाहरन्ति॥
सौवर्णायसताम्रेषु कांस्यरौप्यमयेषु च।
भुञ्जन् भिक्षुर्न दूष्येत दूष्येच्चैवपरिग्रहात्॥१५९॥
यदिहस्ते जलं दद्याद्भिक्षांदद्यात् पुनर्जलम्।
तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम्॥१६०॥
चरेन्माधुकरीं वृत्तिमपि म्लेच्छकुलादपि।
एकान्नंनैव भोक्तव्यं बृहस्पतिकुलादपि॥१६१॥
अनापदि चरेद्यस्तु सिद्धं भैक्षं गृहे वसन्।
दशरात्रं पिबेद्वज्रमापस्तु त्र्यहमेव च॥१६२॥
गोमूत्रेण तु संमिश्रं यावकं घृतपाचितम्।
एतद्वज्रमिति प्रोक्तंभगवानत्रिरब्रवीत्॥१६३॥
ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः।
अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः॥१६४॥
यक्ष्मासान् (षण्मासान्) कामयेन्मर्त्योगर्भिणीमेव च स्त्रियम्।
आ दन्तजननादूर्ध्वमेष धर्मो विधीयते॥१६५॥
ब्रह्महाप्रथमञ्चैव द्वितीयं गुरुतल्पगः।
तृतीयन्तु सुरापोऽयं चतुर्थंस्तेयमुच्यन्ते॥१६६॥
(आपो गावस्तिलाभूमिर्गन्धो वा स्तेयते तथा।)
पापानाञ्चैव संसर्गः पञ्चमं पातकं महत्।
एषामेव विशुद्ध्यर्थं चरेद्वर्षा(कृच्छ्रा)ण्यनुक्रमात्॥१६७॥
त्रीणि कृच्छ्राण्यकामश्चेद्ब्रह्महत्यां व्यपोहति।
अर्द्धन्तु ब्रह्महत्यायाः क्षत्त्रियेषु विधीयते॥१६८॥
षड्भागो द्वादशश्चैव विट्शूद्रयोस्तथा भवेत्।
त्रीन् मासान्नक्तमश्नीयाद्भूमौ शयनमेव च॥१६९॥
स्त्रीघातः शुद्ध्यतेऽप्येवं चरेत् कृच्छ्राब्दमेव च।
रजकः शैलुषश्चैव वेणुकर्मोपजीवनः॥१७०॥
भुञ्जते मानवाः पश्चान्न ता दुष्यन्ति कर्हिचित्।
असवर्णैस्तु यो गर्भः स्त्रीणां योनौ निषिच्यते॥१९३॥
अशुद्धा सा भवेन्नारी यावद्धर्मं (गर्भं) न मुञ्चति।
विमुक्तेतु ततः शल्ये रजश्चापिप्रदृश्यते॥१९४॥
तदा सा शुद्ध्यतेनारी विमलंकाञ्चनं यथा।
स्वयं वि़प्रतिपन्नाया यदि वा विप्रतारिता॥१९५॥
वलान्नारी प्रभुक्तांवा चौरभुक्तातथाऽपि वा।
न त्याज्या दूषिता नारी न कामोऽस्या विधीयते॥१९६॥
ऋतुकाल उपासीत पुष्पकालेन शुद्ध्यति।
रजकश्चर्मकारश्चनटो वुरुड एव च॥१९७॥
कैवर्तमेदभिल्लाश्च सप्तैतेचान्त्यजाःस्मृताः।
एषांगत्वास्त्रियो मोहाद्भुक्त्वाच प्रतिगृह्य च॥१९८॥
कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम्।
सकृद्भुक्ता (क्त्वा) तु या नारी म्लेच्छैर्यापापकर्मभिः॥१९९॥
प्राजापत्येन शुद्ध्येत ऋतुप्रसवणेन तु।
वलाद्धृता स्वयं वाऽपि परप्रेरितया येदि॥२००॥
सकृद्भुक्ता तु या नारीप्राजापत्येन (शुद्ध्यति) गृह्यति।
प्रारब्धदीर्घतपसांनारीणां यद्रजो भवेत्॥२०१॥
न तेन तद्व्रतं तासांविनश्यति कदाचन।
मद्यसंस्पृष्टकुम्भेषुयत्तोयं पिबति द्विजः॥२०२॥
कृच्छ्रपादेन शुद्ध्येत पुनः संस्कारमर्हति।
अन्त्यजस्य तु ये वृक्षा बहुपुष्पफलोपगाः॥२०३॥
उपभोग्यास्तु ते सर्वेपुष्पेषु च फलेषु च।
चाण्डालेन तु संस्पृष्टंयत्तोयं पिबति द्विजः॥२०४॥
कृच्छ्रपादेन शुद्ध्येत आपस्तम्बोऽब्रवीन्मुनिः।
श्लेष्मोपानहविण्मूत्रस्त्रीरजोमद्यमेव च॥२०५॥
एभिः सन्दूषिते कूपे तोयं पीत्वा कथं विधिः।
एकं द्व्यहं त्र्यहञ्चैव द्विजातीनां विशोधनम्॥२०६॥
प्रायश्चित्तं पुनश्चैवनक्तं शूद्रस्य दापयेत्।
सद्यो वान्ते सचैलं तु विप्रस्तु स्नानमाचरेत्॥२०७॥
पर्युषिते त्वहोरात्रमतिरिक्ते दिनत्रयम्।
शिरःकण्ठोरुपादांश्चसुरया यस्तु लिप्यते॥२०८॥
दशषट्त्रितयैकाहं चरेदेवमनुक्रमात्।
अत्राप्युदाहरन्ति॥
प्रमादान्मद्यपः सुरां सकृत्पीत्वा द्विजोत्तमः।
गोमूत्रयावकाहारो दशरात्रेण शुद्ध्यति॥२०९॥
मद्यपस्य निषादस्य यस्तु भुङ्क्ते द्विजोत्तमः।
न देवा भुञ्जते तत्र न पिबन्ति हविर्जलम्॥२१०॥
चितिभ्रष्टा तु या नारी ऋतु भ्रष्टा च व्याधितः।
प्राजापत्येन शुध्येत ब्राह्मणान् भोजयेद्दश॥२११॥
ये च प्रव्रजिता विप्राः प्रव्रज्याग्निजलावहाः॥२१२॥
अनाशकान्निवर्त्तन्ते चिकीर्षन्तिगृहस्थितिम्।
धारयेन्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा॥२१३॥
जातकर्मादिकं प्रोक्तंपुनः संस्कारमर्हति।
नाशौचं नोदकं नाश्रु नापवादानुकम्पने॥२१४॥
एतेषां यस्तु भुङ्क्ते वै द्विजश्चान्द्रायणञ्चरेत्।
सर्व्वान्त्यजानां गमने भोजने सम्प्रवेशने॥१७१॥
पराकेण विशुद्धिः स्याद्भगवानत्रिरब्रवीत्।
चाण्डालभाण्डे यत्तोयं पीत्वा चैव द्विजोत्तमः॥१७२॥
गोमूत्रयाबकाहारः सप्तत्रिंशदहान्यपि।
संस्पृष्टं यस्तुपक्वान्नमन्त्यजैर्वाऽप्युदक्यया॥१७३॥
अज्ञानाद्ब्रह्मणोऽश्नीयात् प्राजापत्यार्धमाचरेत्।
चाण्डालान्नं यदा भुङ्क्ते चातुर्वर्णस्य निष्कृतिः॥१७४॥
चान्द्रायणं चरेद्विप्रः क्षत्रः सान्तपनं चरेत्।
षड्रात्रमाचरेद्वैश्यः पञ्चगव्यं तथैव च॥१७५॥
त्रिरात्रमाचरेच्छूद्रो दानं दत्त्वा विशुद्ध्यति।
ब्राह्मणो वृक्षमारूढश्चाण्डालो मूलसंस्पृशः॥१७६॥
फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भवेत्।
ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत्॥१७७॥
नक्तभोजी भवेद्विप्रो घृतं प्राश्य विशुद्ध्यति।
एकवृक्षसमारूढश्चाण्डालो ब्राह्मणस्तथा॥१७८॥
फलान्यत्ति स्थितं तत्र प्रायश्चित्तं कथं भवेत्।
ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत्॥१७९॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति।
एकशाखासमारूढश्चाण्डालो ब्राह्मणो यदा॥१८०॥
फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भवेत्।
त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुद्ध्यति॥१८१॥
स्त्रिया म्लेच्छस्यसम्पर्काच्छुद्धिःसान्तपने तथा।
तप्तकृच्छ्रं पुनः कृत्वा शुद्धिरेषाऽभिधीयते॥१८२॥
सम्वर्तेतयथा भार्यां गत्वा म्लेच्छस्य सङ्गताम्।
सचैलं स्नानमादाय घृतस्य प्राशनेन च॥१८३॥
स्नात्वानद्युदकैश्चैवघृतं प्राश्य विशुद्ध्यति।
संगृहीतामपत्यार्थमन्यैरपि तथा पुनः॥१८४॥
चाण्डालम्लेच्छश्वपचकपालव्रतधारिणः।
अकामतः स्त्रियोगत्वा पराकेण विशुद्ध्यति॥१८५॥
कामतस्तु प्रसूतो वा तत्समो नात्रसंशयः।
स एव पुरुष स्तत्र गर्भो भूत्वाप्रजायते॥१८६॥
तैलाभ्यक्तोघृताभ्यक्तोविण्मूत्रं कुरूते द्विजः।
तैलाभ्यक्तोघृताभ्यक्तश्चाण्डालं स्पृशतेद्विजः॥१८७॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति।
केशकीटनखस्नायु अस्थिकण्टकमेव च॥१८८॥
स्पृष्ट्वानद्युदके स्नात्वा घृतं प्राश्य विशुद्ध्यति।
मत्स्यास्थिजम्बुकास्थीनि नखशुक्तिकपर्दिकाः॥१८९॥
स्पृष्ट्वास्नात्वाहेमतप्तघृतं पीत्वाविशुद्ध्यति।
गोकुलेकन्दुशालायां तैलचक्रेक्षुचक्रयोः॥१९०॥
अमोमांस्यानि शौचानि स्त्रीणाञ्च व्याधितस्य च।
न स्त्री दूष्यति जारेण ब्राह्मणोऽवेदकर्मणा॥१९१॥
नाऽऽपो मूत्रपुरीषाभ्यां नाग्निर्दहतिकर्मणा।
पूर्वं स्त्रिय सुरैर्भुक्ताःसोमगन्धर्ववह्णिभिः॥१९२॥
ब्रह्मदण्डहतानां तु न कार्यं कटधारणम्।
स्नेहं कृत्वा भयादिभ्यो यस्त्वेतानि समाचरेत्॥२१५॥
गोमूत्रयावकाहारःकृच्छ्रमेकं विशोधनम्।
वृद्धःशौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्किय॥२१६॥
आत्मानंघाययेद्यस्तु भृग्वग्न्यनशनाम्बुभिः।
तस्य त्रिरात्रमाशौचंद्वितीये त्वस्थिसञ्चयम्॥२१७॥
तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत्।
यस्यैकाऽपि गृहेनास्ति धेनुर्वत्सानुचारिणी॥२१८॥
मङ्गलानि कुतस्तस्य कुतस्तस्य तमः क्षयः।
अतिदोहातिवाहाभ्यांनासिकाभेदनेन वा॥२१९॥
नदीपर्वतसंरोधे मृते पादोनमाचरेत्।
अष्टागवंधर्महलं षड्गवं व्यावहारिकम्॥२२०॥
चतुर्गवं नृशंसानां द्विगवं(बध्यते सह) गवबध्यकृत्।
द्विगवं वाहयेत् पादंमध्याह्नं तु चतुर्गवम्॥२२१॥
षड्गवं तु त्रिपादोक्तंपूर्णाहस्त्वष्टभिः स्मृतः।
काष्ठलोष्ट्रशिलागोघ्नः कृच्छ्रं सान्तपनञ्चरेत्॥२२२॥
प्राजापत्यं चरेन्मृत्सा (?) अतिकृच्छ्रन्तु आयसैः।
प्रायश्चित्ते ततश्चीर्णेकुर्याद्ब्राह्मणभोजनम्॥२२३॥
अनुडुत्सहितां गाञ्चदद्याद्विप्राय दक्षिणाम्।
शरभोष्ट्रहयान्नागान् सिंहशार्दूलगर्दभान्॥२२४॥
हत्वा चशूद्रहत्यायाः प्रायश्चित्तं विधीयते।
मार्जारगोधानकुलमण्डूकांश्च पतत्त्रिणः॥२२५॥
हत्वात्र्यहं पिबेत् क्षीरं कृच्छ्रंवा पादिकञ्चरेत्।
चाण्डालस्य चसंस्मृष्टंविण्मूत्रस्पृष्टमेव वा॥२२६॥
त्रिरात्रेण विशुद्धिः स्याद्भुक्त्वोच्छिष्टं (समा) तथाचरेत्।
वापीकूपतडागानां दूषितानाञ्चशोधनम्॥२२७॥
उद्धरेद्धटशतं पूर्णं पञ्चगव्येन शुद्ध्यति।
अस्थिचर्मावसिक्तेषु खरश्वानादिदूषिते॥२२८॥
उद्धरेदुदकं सर्वं शोधनं परिमार्जनम्॥२२९॥
गोदोहने चर्मपुटे च तोयं यन्त्राकरे कारूकशिल्पिहस्ते।
स्त्रीबालवृद्धाचरितानि यान्यप्रत्यक्षदृष्टानि शुचीनि तानि॥२३०॥
प्राकाररोधे विषमप्रदेशे सेनानिवेशे भवनस्य दाहे।
आरब्धयज्ञेषु महोत्सवेषु तथैव दोषा न विकल्पनीयाः॥२३१॥
प्रपास्वरण्ये झढकस्य(घटकस्य)कूपे द्रोण्यां जलं कोशविनिर्गतञ्च।
श्वपाकचण्डालपरिग्रहे तु पित्वा जलं पञ्चगव्येन शुद्धिः॥२३२॥
रेतोविण्मूत्रसंस्पृष्टंकौपं यदि जलं पिबेत्।
त्रिरात्रेणैव शुद्धिः त्यात् कुम्भे सान्तपनं तथा॥२३३॥
क्लिन्नभिन्नशवं यत् स्यादज्ञानादुदकं पिबेत्।
प्रायश्चित्तं चरेत्पीत्वा तप्तकृच्छ्रंद्विजोत्तमः॥२३४॥
उष्ट्रीक्षीरं खरीक्षीरं मानुषीक्षीरमेव च।
प्रायश्चित्तं चरेत्पीत्वा तप्तकृच्छ्रंद्विजोत्तमः॥२३५॥
वर्णवाह्येनसंस्पृष्ट उच्छिष्टस्तु द्विजोत्तमः।
पञ्चरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति॥२३६॥
शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम्।
चर्मभाण्डैस्तु धाराभिस्तथा यन्त्रोद्धृतं जलम्॥२३७॥
चण्डालेन तु संस्पृष्टः (ष्टे) स्नानमेव विधीयते।
उच्छिष्टस्तु च संस्पृष्टस्त्रिरात्रेणैव शुद्ध्यति॥२३८॥
आकराहृतवस्तूनि नाशुचीनि कदाचन।
आकराःशुचयः सर्वे वर्जयित्वा सुराकरम्॥२३९॥
भ्र(भृ)ष्टाभ्र(भृ)ष्टयवाश्चैव तथैव चणकाः स्मृताः।
खर्जूरञ्चैव कर्पूरमन्यद्भ्र(भृ)ष्टतरं शुचि॥२४०॥
अमीमांस्यानि शौचानिस्त्रीभिराचरितानि च।
अदुष्टाः सततं धारा वातोद्धूताश्चरेणवः॥२४१॥
बहूनामेव(क) लग्नानामेकश्चेदशुचिर्भवेत्।
अशौचमेकमात्रस्य नेतरेषां कथञ्चन॥२४२॥
एकपङ्क्त्युपविष्टानांभोजनेषु प्रथक् पृथक्।
यद्येको लभते नीलींसर्वे तेऽशुचयः स्मृताः॥२४३॥
यस्य पटेपट्टसूत्रेनीलीरक्तोहि दृश्यते।
त्रिरात्रंतस्य दातव्यं शेषाश्चैवोपवासिनः॥२४४॥
आदित्येऽस्तमिते रात्रावस्पृश्यं स्पृशते यदि।
भगवन्!केन शुद्धिः स्यात्ततो ब्रूहि तपोधन॥२४५॥
आदित्येऽस्तमिते रात्रौस्पृशन्हीनं दिवाजलम्।
तेनैव सर्व शुद्धिः स्याच्छवस्पृष्टन्तु वर्जयेत्॥२४६॥
देशंकालं वयः शक्तिंपापञ्चावेक्षयेत्त(श्य यत्न)तः।
प्रायश्चित्तंप्रकल्प्यंस्याद्यस्य चोक्तान निष्कृतिः॥२४७॥
देवयात्राविवाहेषु यज्ञप्रकरणेषु च।
उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते॥२४८॥
आरनालं तथा क्षीरं कन्दुकं दधिसक्तवः।
स्नेहपक्वञ्चतक्रञ्च शूद्रास्यापि न दूष्यति॥२४९॥
आर्द्रमांसं घृतं तैलंस्नेहाश्चफलसम्भवाः।
अन्त्यभाण्डस्थिता एते निष्क्रान्ताः शुद्धिमाप्नुयुः॥२५०॥
अज्ञानात् पिबते तोयं ब्राह्मणः शूद्रजातिषु।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुद्ध्यति॥२५१॥
आहिताग्निस्तु यो विप्रो महापातकवान् भवेत्।
अप्सु प्रक्षिप्य पात्राणि पश्चादग्निं विनिर्दिशेत्॥२५२॥
योऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते।
अन्नं तस्य न भोक्तव्यं वृथापाको हि सः स्मृतः॥२५३॥
वृथापाकस्य भुञ्जानः प्रायश्चित्तं चरेद्द्विजः।
प्राणानप्सु त्रिराचम्य घृतं प्राश्य विशुद्ध्यति॥२५४॥
वैदिके लौकिके वाऽपि हुतोच्छिष्टेजलेक्षितौ।
वैश्वदेवं प्रकुर्वीत पञ्चसूनापनुत्तये॥२५५॥
कनीयान् गुणवान् श्रेष्ठः श्रेष्ठश्चेन्निर्गुणो भवेत्।
पूर्वं पाणिं गृहीत्वा च गृह्याग्निंधारयेद्बुधः॥२५६॥
ज्येष्ठश्चेद्यदि निर्दोषो गृह्णीयादग्नि(यवीयकः)मग्रतः।
नित्यं नित्यं भवेत्तस्य ब्रह्महत्या न संशयः॥२५७॥
महापातकसंस्पृष्टः (ष्टे) स्नानमेव विधीयते।
संस्पृष्टस्य यदा भुङ्क्तेस्नानमेव विधीयते॥२५८॥
पतितैः सह संसर्गं मासार्द्धं मासमेव वा।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति॥२५९॥
कृच्छ्रार्धंपतितस्यैव सकृद्भुक्त्वाद्विजोत्तमः।
अविज्ञानाच्चतद्भुक्त्वाकृच्छ्रं सान्तपनञ्चरेत्॥२६०॥
पतितान्नंयदा भुक्तंभुक्तंचाण्डालवेश्मनि।
मासार्धन्तु पिबेद्वारि इति शातातपोऽब्रवीत्॥२६१॥
गोब्राह्मणहतानाञ्चपतितानां तथैव च।
अग्निना न च संस्कारः शङ्खस्य वचनं यथा॥२६२॥
यश्चाण्डालीं द्विजो गच्छेत् कथञ्चित् काममोहितः।
त्रिभिः कृच्छ्रैर्विशुध्येत प्राजापत्यानुपूर्वशः॥२६३॥
पतिताच्चान्नामादाय भुक्त्वा वाब्राह्मणो यदि।
कृत्वातस्यसमुत्सर्गमतिकृच्छ्रंविनिर्दिशेत्॥२६४॥
अन्त्यहस्ताच्छवे क्षिप्तं (प्त) काष्ठलोष्ट्रतृणानि च।
न स्पृशेत्तुतथोच्छिष्टमहोरात्रंसमाचरेत्॥२६५॥
चाण्डालं पतितं म्लेच्छं मद्यभाण्डं रजस्वलाम्।
द्विजः स्पृष्ट्वान भुञ्जीतभुञ्जानोयदि संस्पृशेत्॥२६६॥
अतःपरं न भुञ्जीत त्याक्त्वाऽन्नंस्नानमाचरेत्।
ब्राह्मणैःसमनुज्ञातस्त्रिरात्रमुपवासयेत्॥२६७॥
सघृतं यावकं प्राश्यव्रतशेषं समापयेत्॥
भुञ्जानः संस्पृशेद्यस्तु वायसंकुक्कुटंतथा।
त्रिरात्रेणैवशुद्धिः स्यादथोच्छिष्टस्त्वहेन तु (!)॥२६८॥
आरूढोनैष्ठिके धर्मेयस्तु प्रच्यवते पुनः।
चान्द्रायणं चरेन्मासमिति शातातपोऽब्रवीत्॥२६९॥
पशुवेश्याभिगमने प्राजापत्यं विधीयते।
गवां गमनेमनुप्रोक्तं व्रतं चान्द्रायणञ्चरेत्॥२७०॥
अमानुषीषु गोवर्जमुदक्यायामयोनिषु।
रेतः सिक्त्वाजले चैव कृच्छं सान्तपनञ्चरेत्॥२७१॥
उदक्यांसूतिकांवाऽपि अन्त्यजां स्पृशते यदि।
त्रिरात्रेणैव शुद्धिः स्याद्विधिरेष पुरातनः॥२७२॥
संसर्गं यदि गच्छेच्चेदुदक्याया तथाऽन्त्यजैः।
प्रायश्चित्तीस विज्ञेयः पूर्वं स्नानं समाचरेत्॥२७३॥
एकरात्रञ्चरेन्मूत्रं पुरीषं तु दिनत्रयम्।
दिनत्रयं तथा पाने मैथुने पञ्चसप्तवा॥२७४॥
भोजने तु प्रसक्तानां प्राजापत्यं विधीयते।
दन्तकाष्ठे त्वहोरात्रमेषशौचविधिः स्मृतः॥२७५॥
रजस्वला यदा स्पृष्टा श्वानचण्डालवायसैः।
निराहारा भवेत्तावत् स्नात्वा कालेनशुद्ध्यति॥२७६॥
रजस्वलायदा स्पृष्टाउष्ट्रजम्बुकशम्बरैः।
पञ्चरात्रं निराहारापञ्चगव्येन शुध्यति॥२७७॥
स्पृष्टं (ष्टा) रजस्वलाऽन्योन्यं ब्राह्मण्या ब्राह्मणी चया।
एकरात्रंनिराहारा पञ्चगव्येन शुद्ध्यति॥२७८॥
स्पृष्टारजस्वलाऽन्योन्यं ब्राह्मण्याक्षत्त्रियी च या।
त्रिरात्रेण विशुद्धिः स्याद्व्यासस्य वचनं यथा॥२७९॥
स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मण्या वैश्यसम्भवा।
चतूरात्रं निराहारा पञ्चगव्येन शुद्ध्यति॥२८०॥
स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मण्या शूद्रसम्भवा।
षड्रात्रेण विशुद्धिः स्याद्ब्राह्मणीकामकारतः॥२८१॥
अकामतश्चरेदैवं ब्राह्मणी सर्वतःस्पृशेत्॥
चतुर्णामपि वर्णानां शुद्धिरेषा प्रकीर्तिता॥२८२॥
उच्छिष्टेन तु संस्पृष्टोब्राह्मणोब्राह्मणेन यः।
भोजने मूत्रचारे च शङ्खस्य वचनं यथा॥२८३॥
स्नानंब्राह्मणसंस्पर्शे जपहोमौतु क्षत्त्रिये।
वैश्ये नक्तञ्चकुर्वीत शूद्रे चैवउपोषणम्॥२८४॥
चर्मको रजको वैण्यो धीवरो नटकस्तथा।
एतान् स्पृष्ट्वाद्विजो मोहादाचामेत् प्रयतोऽपिसन्॥२८५॥
एतैःस्पृष्टो द्विजो नित्यमेकरात्रं पयः पिबेत्।
उच्छिष्टैस्तैस्त्रिरात्रंस्याद्घृतं प्राश्य विशुद्ध्यति॥२८६॥
यस्तु छायांश्वपाकस्य ब्राह्मणस्त्वधिगच्छति।
तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुद्ध्यति॥२८७॥
अभिशस्तो द्विजोऽरण्ये ब्रह्महत्याव्रतं चरेत्।
मासोपवासं कुर्वीत चान्द्रायणमथापि वा॥२८८॥
वृथा मिथ्योपयोगेनभ्रूणहत्याव्रतञ्चरेत्।
अब्भक्षो द्वादशाहेन पराकेणैव शुद्ध्यति॥२८९॥
शठञ्चब्राह्मणंहत्वाशूद्रहत्याव्रतं चरेत्।
निर्गुणं सगुणो हत्वा पराकव्रतमाचरेत्॥२९०॥
उपपातकसंयुक्तो मानवो म्रियते यदि।
तस्य संस्कारकर्ता च प्राजापत्यद्वयञ्चरेत्॥२९१॥
प्रभुञ्जानोऽतिसस्नेहं कदाचित् स्पृशते द्विजः।
त्रिरात्रमाचरेन्नक्तैर्निःस्नेहमथ वा चरेत्॥२९२॥
विडालकाकाद्युच्छिष्टं जग्ध्वा श्वनकुलस्य च।
केशकीटावपन्नञ्च पिबेद्ब्राह्मींसुवर्च्चसम्॥२९३॥
उष्ट्रयानं समारुह्य खरयानञ्चकामतः।
स्नात्वाविप्रो(स्प-दिग्वासा)जितग्रास प्राणायामेन शुद्ध्यति॥२९४॥
सव्याहृतीं सप्रणवां गायत्रीं शिरसा सह।
त्रिः पठेदा(वा)यतःप्राणः प्राणायामः स उच्यते॥२९५॥
सकृद्द्विगुणगोमूत्रंसर्पिर्दद्याच्चतुर्गुणम्।
क्षीरमष्टगुणं देयं पञ्चगव्ये तथा दधि॥२९६॥
पञ्चगव्यंपिबेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत्।
उभौ तौ तुल्यदोषौच वसतो नरके चिरम्॥२९७॥
अजा गावोमहिष्यश्चअमेव्यंभक्षयन्ति याः।
दुग्धं हव्येच कव्ये च गोमयं न विलेपयेत्॥२९८॥
ऊनस्तनीमधिकौवा या चान्या स्तनपायिनी।
तासां दुग्धं न होतव्यं हुतं चैवाहुतं भवेत्॥२९९॥
ब्राह्मौदने च सोमे च सीमन्तोन्नयने तथा।
जातश्राद्धे नवश्राद्धे भुक्त्वाचान्द्रायणं चरेत्॥३००॥
राजान्नंहस्ते तेजः शूद्रान्नं ब्रह्मबर्च्चसम्।
स्वसुतान्नञ्चयो भुङ्क्तेस भुङ्क्तेपृथिवीमलम्॥३०१॥
स्वसुता अप्रजा तावन्नाश्नीयात्तद्गृहे पिता।
अन्नं भुङ्क्ते तुयो मोहात्पूयंस नरकंव्रजेत्॥३०२॥
अधीत्य चतुरो वेदान् सर्वशास्त्रार्थतत्त्ववित्।
नरेन्द्रभवने भुक्त्वाविष्ठायां जायते कृमिः॥३०३॥
नवश्राद्धेत्रिपक्षे च षण्मासे मासिकेऽब्दिके।
पतन्ति पितरस्तस्ययो भुङ्क्तेऽनापदि द्विजः॥३०४॥
चान्द्रायणं नवेश्राद्धेपराको मासिके तथा।
त्रिपक्षे चैव कृच्छ्रः स्यात् षण्मासे कृच्छ्रमेव च।
आब्दिके पादकृच्छ्रः स्यादेकाहः पुनराब्दिके॥३०५॥
ब्रह्मचर्यमनाधाय मासश्राद्धेषु पर्वसु।
द्वादशाहेत्रिपक्षेऽब्देयस्तु भुङ्क्ते द्विजोत्तमः॥३०६॥
पतन्ति पितरस्तस्य ब्रह्मलोके गता अपि॥३०७॥
एकादशाहेऽहोरात्रंभुक्त्वा संचयने त्र्यहम्।
उपोष्यविधिवद्विप्रःकुष्माण्डीं जुहुयाद्घृतम्॥३०८॥
पक्षेवा यदि वा मासे यस्यनाश्नन्ति वै द्विजाः।
भुक्त्वा दुरात्मनस्तस्य द्विजश्चान्द्रायणं चरेत्॥३०९॥
यन्नवेदध्वनि(श्रान्तं)ध्वान्तंन च गोभिरलङ्कृतम्।
यन्न बालैः परिवृतं श्मशानमिव तद्गृहम्॥३१०॥
हास्येऽपि बहवो यत्र विनाधर्मं वदन्ति हि (न)।
विनाऽपि धर्मशास्त्रेण स धर्मःपावनः स्मृतः॥३११॥
हीनवर्णे च यः कुर्यादज्ञानादभिवादनम्।
तत्र स्नानंप्रकुर्वीत घृतं प्राश्य विशुद्ध्यति॥३१२॥
समुत्पन्ने यदा स्नाने, भुङ्क्ते, वाऽपिपिबेद्यदि।
गायत्र्यष्टसहस्रं तु जपेत् स्नात्वा समाहितः॥३१३॥
अङ्गुल्या दन्तकाष्ठं चप्रत्यक्षंलवणं तथा।
मृत्तिकाभक्षणंचैव तुल्यं गोमांसभक्षणम्॥३१४॥
दिवा कपित्थच्छायायां रात्रौदधि शमीषु च।
कार्पासं दन्तकाष्ठं च विष्णोरपि हरेच्छ्रियम्॥३१५॥
शूर्पवातनखाग्राम्बुस्नानं वस्त्रपदोदकम्।
मार्जनीरेणुकेशाम्बु हन्ति पुण्यं दिवाकृतम्॥३१६॥
मार्जनीरजकेशाम्बु देवतायतनोद्भवम्।
तेनावगुण्ठितं तेषु गङ्गाम्भःप्लुत एव सः॥३१७॥
मृत्तिकाः सप्त न ग्राह्या वल्मीके मूषिकस्थले।
अन्तर्जले श्मशानान्ते वृक्षमूले सुरालये॥३१८॥
वृषभैश्च तथोत्खाते श्रेयष्कामैः सदा बुधैः॥३१९॥
शुचौ देशे तु संग्राह्याशर्कराश्मविवर्जिता॥३२०॥
पुरीषे मैथुने होमे प्रस्रावे दन्तधावने।
स्नानभोजनजप्येषु सदा मौनं समाचरेत्॥३२१॥
यस्तु संवत्सरं पूर्णं भुङ्क्तेमौनेन सर्वदा।
युगकोटिसहस्रेषु स्वर्गलोके महीयते॥३२२॥
स्नानं दानं जपं होमं भोजनं देवतार्चनम्।
प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम्॥३२३॥
सर्वस्वमपि यो दद्यात् पातयित्वाद्विजोत्तम्।
नाशयित्वा तु तत्सर्वं भ्रूणहत्याफलं लभेत्॥३२४॥
ग्रहणोद्वाहसंक्रान्तौ स्त्रीणाञ्च प्रसवे तथा।
दानं नैमित्तिकं ज्ञेयं रात्रौ चापि प्रशस्यते॥३२५॥
क्षौमजं वाऽथ कार्पासं पट्टसूत्रमथापि वा।
यज्ञोपवीतं योदद्याद्वस्त्रदानफलं लभेत्॥३२६॥
कांस्यस्य भाजनं दद्याद्घृतपूर्णं सुशोभनम्।
तथा भक्त्याविधानेन अग्निष्टोमफलं लभेत्॥३२७॥
श्राद्धकाले तु यो दद्याच्छोभनौ (ने) च उपानहौ।
स गच्छत्यन्यमार्गेऽपि अश्वदानफलं लभेत्॥३२८॥
तिलपात्रंतु यो दद्यात् संपूर्णं तु समाहितः।
स गच्छति ध्रुवं स्वर्गे नरो नास्त्र्यत्र संशयः॥३२९॥
दुर्भिक्षे अन्नदाता च सुभिक्षे चहिरण्यदः।
पानीयदस्त्वरण्ये च स्वर्गलोके महीयते॥३३०॥
यावदर्धप्रसूता गौस्तावत् सा पृथिवीस्मृता।
पृथिवीं तेन दत्तास्यादीदृशींगान्ददाति यः॥३३१॥
तेनाग्नयो हुताः सम्यक् पितरस्तेन तर्पिताः।
देवाश्च पूजिताः सर्वे यो ददाति गवाह्निकम्॥३३२॥
जन्मप्रभृति यत्पापं मातृकं पैतृकं तथा।
तत्सर्वंनश्यति क्षिप्रं वस्त्रदानान्न संशयः॥३३३॥
कृष्णाजिनञ्चयो दद्यात् सर्वोपस्करसंयुतम्।
उद्धरेन्नरकस्थानात् कुलान्येकोत्तरं शतम्॥३३४॥
आदित्योवरुणोविष्णुर्ब्रह्मासोमो हुताशनः।
शूलपाणिस्तु भगवानभिनन्दन्ति भूमिदम्॥३३५॥
बालुकानां कृता राशि र्यावत् सप्तर्षिमण्डलम्।
गते वर्षशते चैव पलमेकं विशीर्यति॥३३६॥
क्षयञ्च दृश्यते तस्य कन्यादाने न चैव हि।
आतुरे प्राणदाता च त्रीणिदानफलानि च (!)॥३३७॥
सर्वेषामेव दानानां विद्यादानं ततोऽधिकम्।
पुत्रादिस्वजने दद्याद्विप्राय च न कैतवे॥३३८॥
सकामः स्वर्गमाप्नोति निष्कामो मोक्षमाप्नुयात्।
ब्राह्मणे वेदविदुषि सर्वशास्त्रविशारदे॥३३९॥
मातृ(ता)पितृपरे चैव ऋतुकालाभिगामिनि।
शीलचारित्रसम्पूर्णे प्रातःस्नानपरायणे॥३४०॥
तस्यैव दीयते दानं यदीच्छेच्छ्रेय आत्मनः॥
संपूज्य विदुषो विप्रानन्येभ्योऽपि प्रदीयते।
तत्कार्यं नैव कर्तव्यं न दृष्टंन श्रुतं मया॥३४१॥
अतःपरं प्रवक्ष्यामि श्राद्धकर्मणि ये द्विजाः।
पितॄणामक्षयं दानं दत्तंयेषान्तु निष्फलम्॥३४२॥
न हीनाङ्गो न रोषी(गी) च श्रुतिस्मृति विवर्जितः।
नित्यञ्चानृतवादी च तांस्तु श्राद्धेन भोजयेत्॥३४३॥
हिंसारतं च कपटं उपगूह्य श्रुतं च यः।
किङ्करं कपिलं काणंश्वित्रिणं रोगिणंतथा॥३४४॥
दुश्चर्माणं शीर्णकेशं पाण्डुरोगं जटाधरम्।
भारवाहकमुग्रञ्च द्विभार्यं वृषलीपतिम्॥३४५॥
भेदकारी भवेच्चैव बहुपीडाकरोऽपि वा।
हीनातिरिक्तगात्रो वा तमप्यपनयेत्तथा॥३४६॥
बहुभोक्तादीनमुखो मत्सरी क्रूरबुद्धिमान्।
एतेषां नैवदातव्यः कदाचिद्वै प्रतिग्रहः॥३४७॥
अथ चेन्मन्त्रविद्युक्तःशारीरैः पङ्क्तिदूषणैः।
अदूष्यं तं यमः प्राह पङ्क्तिपावन एव सः॥३४८॥
श्रुतिः स्मृतिश्च विप्राणां नयने द्वे प्रकीर्तिते।
काणः स्यादेकहीनोऽपि द्वाभ्यामन्धः प्रकीर्तितः॥३४९॥
न श्रुतिर्न स्मृतिर्यस्य न शीलं न कुलं यतः।
तस्य श्राद्धं न दातव्यं त्वन्धकस्यात्रिरब्रवीत्॥३५०॥
तस्माद्वेदेन शास्त्रेण ब्राह्मण्यंब्राह्मणस्य तु।
न चैकेनैव वेदेन भगवानत्रिरब्रवीत्॥३५१॥
योगस्थैर्लोचनैर्युक्तः पादाग्रञ्चप्रयच्छति।
लौकिकज्ञैश्चशास्त्रोक्तंपश्येच्चैवाधरोत्तरम्॥३५२॥
वेदैश्चऋषिभिर्गीतंदृष्टिमान् शास्त्रवेदवित्॥३५३॥
व्रतिनं च कुलीनं च श्रुतिस्मृतिरतं सदा।
तादृशं भोजयेच्छाद्धेपितॄणामक्षयं भवेत्॥३५४॥
यावतो ग्रसतेग्रासान् पितृृणांदीप्ततेजसाम्।
पिता पितामहश्चैव तथैवप्रपितामहः॥३५५॥
नरकस्था विमुच्यन्ते ध्रुवंयान्ति त्रिविष्टपम्।
तस्माद्विप्रं परीक्षेतश्राद्धकाले प्रयत्नतः॥३५६॥
न निर्व्वपति यः श्राद्धं प्रमीतपितृको द्विजः।
इन्दुक्षये मासि मासि प्रायश्चित्ती भवेत्तु सः॥३५७॥
सूर्ये कन्यागते कुर्याच्छ्राद्धं यो न गृहाश्रमी।
धनं पुत्रान् कुलं तस्य पितृनिश्वासपीड़या॥३५८॥
कन्यागते सवितरि पितरो यान्ति सत्सुतान्।
शून्या प्रेतपुरी सर्व्वा यवाद्वृश्चिकदर्शनम्॥३५९॥
ततो वृश्चिकसंप्राप्ते निराशाः पितरोगताः।
पुनः स्वभवनं यान्ति शापं दत्त्वा सुदारुणन्॥३६०॥
पुत्रं वा भ्रातरं वापि दौहित्रं पौत्रकं तथा।
पितृकार्ये प्रसक्ताये ते यान्ति परमांगतिम्॥३६१॥
यथा निर्मन्थनादग्निःसर्व्वकाष्ठेषु तिष्ठति।
तथा स दृश्यते धर्म्याच्छ्राद्धदानान्न संशयः॥३६२॥
सर्वशास्त्रार्थगमनं सर्वतीर्थावगाहनम्।
सर्वयज्ञफलं विन्द्याच्छ्राद्धदानान्न संशयः॥३६३॥
महापातकसंयुक्तोयो युक्तश्चोपपातकैः।
घनैर्मुक्तो यथा भानूराहुमुक्तश्च चन्द्रमाः॥३६४॥
सर्वपापविनिर्मुक्तःसर्वपापं विलङ्घयेत्।
सर्वसौख्यं स्वयं प्राप्तः श्राद्धदानान्न संशयः॥३६५॥
सर्वेषामेव दानानां श्राद्धदानं विशिष्यते।
मेरुतुल्यं कृतं पापं श्राद्धदानं विशोधनम्॥३६६॥
श्राद्धं कृत्वा तु मर्त्त्योवै स्वर्गलोके महीयते।
अमृतंब्राह्मणस्यान्नंक्षत्रियान्नंपयःस्मृतम्॥३६७॥
वैश्यस्य चान्नमेवान्नंशूद्रान्नंरुधिरं भवेत्।
एतत् सर्वं मया ख्यातं श्राद्धकाले समुत्थिते॥३६८॥
वैश्वदेवे च होमे च देवताभ्यर्च्चने जपे।
अमृतं तेन विप्रान्नमृग्यजुःसामसंस्कृतम्॥३६९॥
व्यवहारनुपूर्वेण धर्मेण बलिभिर्जितम्।
क्षत्रियान्नं पयस्तेन घृतान्नंयज्ञपालने॥३७०॥
देवो मुनिर्द्विजो राजा वैश्यः शूद्रो निषादकः।
पशुर्म्लेच्छोऽपि चाण्डालो विप्रा दशविधाः स्मृताः॥३७१॥
सन्ध्यां स्नानं जपं होमं देवतानित्यपूजनम्।
अतिथिं वैश्वदेवञ्चदेवब्राह्मण उच्यते॥३७२॥
शाके पत्रे फले मूले वनवासे सदा रतः।
निरतोऽहरहः श्राद्धे स विप्रो मुनिरुच्यते॥३७३॥
वेदान्तं पठते नित्यं सर्वसङ्गं परित्यजेत्।
साङ्ख्ययोगविचारस्थःस विप्रो द्विज उच्यते॥३७४॥
अस्त्राहताश्चधन्वानः संग्रामे सर्वसंमुखे।
आरम्भे निर्जिता येन स विप्रः क्षत्र उच्यते॥३७५॥
कृषिकर्मरतो यश्चगवाञ्चप्रतिपालकः।
वाणिज्यव्यवसायश्च स विप्रो वैश्य उच्यते॥३७६॥
लाक्षालवणसंमिश्रं कुसुम्भं क्षीरसर्पिषः।
विक्रेता मधुमांसानां स विप्रः शूद्र उच्यते॥३७७॥
चौरश्चतस्करश्चैवसूचको दंशकस्तथा।
मत्स्यमांसे सदालुब्धो विप्रो निषाद उच्यते॥३७८॥
ब्रह्मतत्त्वं न जानाति ब्रह्मसूत्रेण गर्वितः।
तेनैव स च पापेन विप्रः पशुरुदाहृतः॥३७९॥
वापीकूपतड़ागानामारामस्य सरःसु च।
निःशङ्कं रोधकश्चैव स विप्रो म्लेच्छ उच्यते॥३८०॥
क्रियाहीनश्च मूर्खश्च सर्वधर्मविवर्जितः।
निर्दयः सर्वभूतेषु विप्रश्चाण्डाल उच्यते॥३८१॥
वेदैर्विहिनाश्च पठन्ति शास्त्रंशास्त्रेण हीनाश्चपुराणपाठाः।
पुराणहीनाः कृषिणो भवन्ति भ्रष्टास्ततो भागवता भवन्ति॥३८२॥
ज्योतिर्विदोह्यथर्वाणः कीराः पौराणपाठकाः।
श्राद्धे यज्ञे महादाने वरणीयाः कदाचन॥३८३॥
श्राद्धञ्चपितरं घोरं दानं चैव तु निष्फलम्।
यज्ञे च फलहानिः स्यात्तस्मात्तान् परिवर्जयेत्॥३८४॥
आविकश्चित्रकारश्चवैद्यो नक्षत्रपाठकः।
चतुर्विप्रा न पूज्यन्ते वृहस्पतिसमा यदि॥३८५॥
मागधोमाधु(थु)रश्चैव कापटःकीटकानजौ।
पञ्चविप्रा न पूज्यन्ते वृहस्पतिसमा यदि॥३८६॥
क्रयक्रीता चया कन्या पत्नी सा न विधीयते।
तस्यां जाताः सुतास्तेषां पितृपिण्डं न विद्यते॥३८७॥
अष्टशल्यागतो नीरं पाणिना पिबते द्विजः।
सुरापानेन तत्तुल्यं तुल्यं गोमांसभक्षणम्॥३८८॥
ऊर्द्ध्वजङ्घेषु विप्रेषु प्रक्षाल्य चरणद्वयम्।
तावच्चाण्डालरूपेण यावद्गङ्गां न मज्जति॥३८९॥
दीपशय्यासनच्छाया कार्पासं दन्तधावनम्।
अजारेणुस्पृशं चैव शक्रस्यापि श्रियं हरेत्॥३९०॥
गृहाद्दशगुणं कूपं कूपाद्दशगुणं तटम्।
तटाद्दशगुणं नद्यां गङ्गासंख्या न विद्यते॥३९१॥
स्रवद्यद्ब्राह्मणंतोयं रहस्यं क्षत्रियंतथा।
वापीकूपे तुवैश्यस्य शौद्रं भण्डोदकं तथा॥३९२॥
तीर्थस्नानं महादानं यच्चान्यत्तिलतर्पणम्।
अब्दमेकं न कुर्वीत महागुरुनिपाततः॥३९३॥
गङ्गा गया त्वमावस्या वृद्धिश्राद्धे क्षयेऽहनि।
मघापिण्डप्रदानं स्यादन्यत्रपरिवर्ज्जयेत्॥३९४॥
घृतं वा यदि वा तैलंपयोवा यदि वा दधि।
चत्वारो ह्याज्यसंस्थानं हुतंनैवतु वर्जयेत्॥३९५॥
श्रुत्वैतानृषयो धर्मान् भाषितानत्रिणा स्वयम्।
इदमूचुर्महात्मानं सर्वे ते धर्मनिष्ठिता॥३९६॥
य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः।
इह लोके यशः प्राप्य ते यास्यन्ति त्रिपिष्टपम्॥३९७॥
विद्यार्थी लभते विद्यां धनकामो धनानि च।
आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम्॥३९८॥
इति श्रीमदत्रिमहर्षिसंहिता समाप्ता।
____________
॥श्रीः॥