<MISSING_FIG href="../books_images/U-IMG-1725275708go.png"/>
॥ श्रीगणेशाय नमः॥
अथादौ प्रायश्चित्तविधानवर्णनम्।
गृहाश्रमेषु धर्मेषु वर्णानामनुपूर्वशः।
प्रायश्चित्तविधिं दृष्ट्वाअङ्गिरामुनिरब्रवीत्॥१॥
अन्त्यानामपि सिद्धान्नं भक्षयित्वा द्विजातयः।
चान्द्रं कृछ्रं तदर्द्धन्तु ब्रह्मक्षत्त्रविशां विदुः॥२॥
रजकञ्चर्मकारश्चनटोचुरुङ्ग एव च।
कैवर्त्तभेदभिदाश्चसप्ततेचान्त्यजाः स्मृताः॥३॥
अन्त्यजानां गृहे तोयं भाण्डे पर्य्युषितञ्चयत्।
प्रायश्चित्तंयदा पीतं तदैव हि समाचरेत्॥४॥
चाण्डालकूपभाण्डेषु त्वज्ञानात् पियते यदि।
प्रायश्चित्तं कथं तेषांवर्णे वर्णे विधीयते॥५॥
चरेत् सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः।
तदर्द्धन्तु चरेद्वैश्यः पादं शूद्रेषु दापयेत्॥६॥
अज्ञानात् पिवते तोयं ब्राह्मणस्त्वन्त्यजातिषु।
अहोरात्रोपितो भूत्वापञ्चगव्येन शुध्यति॥७॥
विप्रो विप्रेणसंस्पृष्टउच्छिष्टेनकदाचन।
आचान्त एव शुध्येत अङ्गिरामुनिरब्रवीत्॥८॥
क्षत्रियेण यदा स्पृष्ट उच्छिष्टेनकदाचन।
स्नानं जप्यन्तु कुर्वीत दिनस्यार्द्धेन शुष्यति॥९॥
वैश्येन तु यदा स्पृष्टःशुना शूद्रेण वा द्विजः।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति॥१०॥
अनुच्छिष्टेन संस्पृष्टौ स्नानं येन विधीयते।
तेनैवोच्छिष्टसंस्पृष्टःप्राजापत्यं समाचरेत्॥११॥
अत ऊर्द्ध्वं प्रवक्ष्यामि नीलीवस्त्रस्य वैविधिम्।
स्त्रीणां क्रीडार्थसंयोगे शयनीये न दुष्यति॥१२॥
पालने विक्रये चैव तद्वृत्तेरूपजीवने।
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्घ्यपोहंति॥१३॥
स्नानंदानं जपो होमः स्वाध्यायः पितृतर्पणम्।
वृथा तस्य महायक्षा नीलोवस्त्रस्य धारणात्॥१४॥
नीलोरक्तं यदा वस्त्रमज्ञानेन तु धारयेत्।
अहोरात्रोपितो भूत्वापश्चगव्येन शुध्यति॥१५॥
नीलीदारुयदा भिन्द्याद्ब्राह्मणं वै प्रसादतः।
शोणितं दृश्यते यत्र द्विजश्चान्द्रायणञ्चरेत्॥१६॥
नीलीवृक्षेण पक्वन्तु अन्नमश्नाति चेद्द्विजः।
आहार वमनं कृत्वा पञ्चगव्येन शुष्यति॥१७॥
भक्षन् प्रमादतोनीलीं द्विजातिस्त्व समाहितः।
त्रिषु वर्णेषु सामान्यं चान्द्रायणमिति स्थितम्॥१८॥
नीलोरक्तेन वस्त्रेण यदन्नमुपनीयते।
नोपतिष्ठति दातारं भोक्ता भुङ्क्तेतु किल्विषम्॥१९॥
नीलीरक्तेन वस्त्रेण यत्पाके श्चपितं भवेत्।
तेन भुक्तेन विप्राणां दिनमेकमजोजनम्॥२०॥
मृते भर्त्तरि या नारी नीलीवस्त्रं प्रधारयेत्।
भर्त्ता तु नरकं याति सा नारी तदनन्तरम्॥२१॥
नील्या चोपहते क्षेत्रे शस्यं यत्तु प्ररोहति।
अभोज्यं तद्द्विजातीनां भुक्त्वाचान्द्रायणं चरेत्॥२२॥
देवद्रोण्यां वृषोत्सर्गे यज्ञे दाने तथैव च।
अत्र स्नानं न कर्त्तव्यं दूषिता च वसुन्धरा॥२३॥
वापिता यत्र नीली स्वात्तावद्भूम्य शुचिर्भवेत्।
यावद्द्द्वादशवर्षाणि अत ऊर्द्ध्वं शुचिर्भवेत्॥२४॥
भोजने चैव पाने च तथा चौपधभेषजैः।
एवं म्रियन्ते या गावः पादमेकं समाचरेत्॥२५॥
घण्टाभरणदोषेण यत्र गौविनिपीड्यते।
चरेदर्द्धं व्रतंतेषां भूषणार्थंहि तत् कृतम्॥२६॥
दमने दामने रोधे अवघाते च वैकृते।
गवाप्रभवता घातैःपादोनं ब्रतमाचरेत्॥२७॥
अङ्गुष्टपर्वमात्रस्तु बाहुमात्रः प्रमाणतः।
सपल्लवश्चसामश्चदण्ड इत्यभिधीयते॥२८॥
दण्डादुक्तापदान्येन पुरुषा प्रहरन्ति गाम्।
द्विगुण गोव्रतंतेषां प्रायश्चित्तं विशोधनम्॥२९॥
शृङ्गभङ्गेत्वस्थिभङ्गे चर्मनिर्म्मोचनेतथा।
दशरात्र्यंचरेत् कृच्छ्रं यावत् स्वस्थोभवेत्तदा॥३०॥
गोमूत्रेण तु समिश्रंयावकञ्चोपजायते।
एतदेव हितं कृच्छ्रमिदमाङ्गिरसं मतम्॥३१॥
असमर्थस्य वालस्य पिता वा यदि वा गुरु।
यमुद्दिश्य चरेद्धर्मं पापं तस्य न विद्यते॥३२॥
अशीतिर्यस्य वर्षाणि बालोवाप्यूनषोडश।
प्रायश्चितार्द्धमर्हन्ति स्त्रियो रोगिण एव च॥३३॥
मूर्च्छिते पतिते चापि गवि यष्टिप्रहारिते।
गायत्र्यष्टसहस्रन्तु प्रायश्चित्तं विशोधनम्॥३४॥
स्नात्वा रजस्वला चैव चतुर्थेऽह्निविशुध्यति।
कुर्य्याद्रजसि निवृत्तेऽनिवृत्ते न कथञ्चन॥३५॥
रोगेण यद्रजः स्त्रीणामत्यर्थं हि प्रवर्त्तते।
अशुच्यन्ता न तेन स्युस्तासां वैकारिकं हि तत्॥३६॥
साध्याचारा न तावत् स्याद्रजोयावत् प्रवर्त्तते।
वृत्त रजसि गम्या स्त्री गृहकर्मणि चैन्द्रिये॥३७॥
प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी।
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति॥३८॥
रजस्वलायदा स्पृष्टा शुना शूद्रेण चैयंहि।
उपोष्य रजनीमेका पश्चगव्येन शुध्यति॥३९॥
दशाहाच्छुध्यते विप्रो द्वादशाहेन भूमिपः।
पाक्षिकं वैश्य एवाह शूद्रोमासेन शुध्यति॥५१॥
अग्निहोत्री च यो विप्रः शूद्रान्न चैव भोजयेत्।
पञ्चतस्य प्रणश्यन्ति आत्मा वेदास्त्रयोऽग्नयः॥५२॥
शूद्रान्नेन तु भुक्तेन यो द्विजो जनयेत्सुतान्।
यस्यान्नंतस्य ते पुत्रा अन्नाच्छुकं प्रवर्त्तते॥५३॥
शूद्रेण स्पृष्टमुच्छिष्टंप्रमादादथ पाणिना।
तद्द्विजेभ्यो न दातव्यमापस्तम्योऽब्रवीन्मुनिः॥५४॥
ब्राह्मणस्य सदा भुङ्क्ते क्षत्रियस्य च पर्वसु।
वैश्येष्यापत्सु भुञ्जीत न शूद्रेऽपि कदाचन॥५५॥
ब्राह्मणान्ने दरिद्रत्वं क्षत्रियान्ने पशुस्तथा।
वैश्यान्नेन तु शूद्रत्वंशूद्रान्नेनरकं ध्रुवम्॥५६॥
अमृतं ब्राह्मणस्यानंक्षत्रियान्नंपयः स्मृतम्।
वैश्यस्य चान्नमेवान्नंशूद्रान्नंरुधिरं ध्रुवम्॥५७॥
दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति।
यो यस्यान्नंसमश्नाति स तस्याश्नाति किल्विषम्॥५८॥
सूतकेषु यदा विप्रो ब्रह्मचारी जितेन्द्रियः।
पिवेत् पानीयमज्ञानाद्भुङ्क्ते(अन्नं) भक्तमथापिवा॥५९॥
उत्तार्य्याचम्य उदकमवतीर्य्य उपस्पृशेत्।
एवं हि समुदाचारो वरुणेनाभिमन्त्रितः॥६०॥
अग्न्यागारे गया गोष्ठे देवब्राह्मण सन्निधौ।
आहारे जपकाले च पादुकानां विसर्जनम्॥६१॥
॥ अथ ॥