विश्वास-प्रस्तुतिः - २९।१
एष वादि-कृतः प्रोक्तो
व्यवहारः समासतः।
नृपाश्रयं प्रवक्ष्यामि
व्यवहारं प्रकीर्णकम् ॥ २९।१ ॥
मूलम् - २९।१
एष वादि-कृतः प्रोक्तो
व्यवहारः समासतः।
नृपाश्रयं प्रवक्ष्यामि
व्यवहारं प्रकीर्णकम् ॥ २९।१ ॥
विश्वास-प्रस्तुतिः - २९।२
वाग्-धिग्-दण्डं वधं चैव
चतुर्धा कल्पितं दमम्।
पुरुषं दोष-विभवं
ज्ञात्वा सम्परिकल्पयेत् ॥ २९।२ ॥
मूलम् - २९।२
वाग्-धिग्-दण्डं वधं चैव
चतुर्धा कल्पितं दमम्।
पुरुषं दोष-विभवं
ज्ञात्वा सम्परिकल्पयेत् ॥ २९।२ ॥
विश्वास-प्रस्तुतिः - २९।३
सुवर्ण-शतम् एकं तु
वधार्हो दण्डम् अर्हति।
अङ्ग-च्छेदे तद्-अर्धं तु
विवासे पञ्चविंशतिम् ॥ २९।३ ॥
मूलम् - २९।३
सुवर्ण-शतम् एकं तु
वधार्हो दण्डम् अर्हति।
अङ्ग-च्छेदे तद्-अर्धं तु
विवासे पञ्चविंशतिम् ॥ २९।३ ॥
विश्वास-प्रस्तुतिः - २९।४
हस्ताङ्घ्रि-लिङ्ग-नयनं
जिह्वा-कर्णौ च नासिका।
जिह्वा पादार्ध-सन्दंश-
ललाटौष्ठ-गुदं कटिः ॥ २९।४ ॥
मूलम् - २९।४
हस्ताङ्घ्रि-लिङ्ग-नयनं
जिह्वा-कर्णौ च नासिका।
जिह्वा पादार्ध-सन्दंश-
ललाटौष्ठ-गुदं कटिः ॥ २९।४ ॥
विश्वास-प्रस्तुतिः - २९।५
स्थानान्य् एतानि दण्डस्य
निर्दिष्टानि चतुर्दश।
ललाटाङ्को ब्राह्मणस्य
नान्यो दण्डो विधीयते ॥ २९।५ ॥
मूलम् - २९।५
स्थानान्य् एतानि दण्डस्य
निर्दिष्टानि चतुर्दश।
ललाटाङ्को ब्राह्मणस्य
नान्यो दण्डो विधीयते ॥ २९।५ ॥
विश्वास-प्रस्तुतिः - २९।६
अधार्मिकांस् त्रिभिर् न्यायैर्
निगृह्णीयात् प्रयत्नतः।
निरोधनेन बन्धेन
विविधेन भयेन च ॥ २९।६ ॥
मूलम् - २९।६
अधार्मिकांस् त्रिभिर् न्यायैर्
निगृह्णीयात् प्रयत्नतः।
निरोधनेन बन्धेन
विविधेन भयेन च ॥ २९।६ ॥
विश्वास-प्रस्तुतिः - २९।७
वेधेनापि यदा त्व् एतान्
निगृहीतुं न शक्नुयात्।
तदैषु सर्वम् अप्य् एतत्
प्रयुञ्जीत चतुष्टयम् ॥ २९।७ ॥
मूलम् - २९।७
वेधेनापि यदा त्व् एतान्
निगृहीतुं न शक्नुयात्।
तदैषु सर्वम् अप्य् एतत्
प्रयुञ्जीत चतुष्टयम् ॥ २९।७ ॥
विश्वास-प्रस्तुतिः - २९।८
वाग्-दण्डं प्रथमं कुर्याद्
धिग्-दण्डं तद्-अनन्तरम्।
तृतीयं धन-दण्डं तु
वध-दण्डम् अतः परम् ॥ २९।८ ॥
मूलम् - २९।८
वाग्-दण्डं प्रथमं कुर्याद्
धिग्-दण्डं तद्-अनन्तरम्।
तृतीयं धन-दण्डं तु
वध-दण्डम् अतः परम् ॥ २९।८ ॥
विश्वास-प्रस्तुतिः - २९।९
बन्धनानि च सर्वाणि
राज-मार्गे निवेशयेत्।
दुःखिता यत्र दृश्यन्ते
विकृताः पाप-कारिणः ॥ २९।९ ॥
मूलम् - २९।९
बन्धनानि च सर्वाणि
राज-मार्गे निवेशयेत्।
दुःखिता यत्र दृश्यन्ते
विकृताः पाप-कारिणः ॥ २९।९ ॥
विश्वास-प्रस्तुतिः - २९।१०
दशमांशं हरेद् अर्थं
पञ्चमं सर्वम् एव वा।
मृतस्य वित्ताद् आदद्याद्
अज्ञातिः शव-दहकः ॥ २९।१० ॥
मूलम् - २९।१०
दशमांशं हरेद् अर्थं
पञ्चमं सर्वम् एव वा।
मृतस्य वित्ताद् आदद्याद्
अज्ञातिः शव-दहकः ॥ २९।१० ॥
विश्वास-प्रस्तुतिः - २९।११
बहु-रक्षस्य दशमम्
अल्प-रक्षस्य पञ्चमम्।
अपुत्र-पितृ-भार्यस्य
सर्वम् एवेति शौनकः ॥ २९।११ ॥
मूलम् - २९।११
बहु-रक्षस्य दशमम्
अल्प-रक्षस्य पञ्चमम्।
अपुत्र-पितृ-भार्यस्य
सर्वम् एवेति शौनकः ॥ २९।११ ॥
विश्वास-प्रस्तुतिः - २९।१२
षड्-भागस् तर-शुल्कं च
गते देयस् तथैव च।
सङ्ग्राम-चौर-भेदी च
सस्य-घातन-कृत् तथा ॥ २९।१२ ॥
मूलम् - २९।१२
षड्-भागस् तर-शुल्कं च
गते देयस् तथैव च।
सङ्ग्राम-चौर-भेदी च
सस्य-घातन-कृत् तथा ॥ २९।१२ ॥
विश्वास-प्रस्तुतिः - २९।१३
निष्कृतीनाम् अकरणं
आज्ञा-सेध-व्यतिक्रमः।
वर्णाश्रमाणां लोपश् च
वर्ण-सङ्कर-लोपनम् ॥ २९।१३ ॥
मूलम् - २९।१३
निष्कृतीनाम् अकरणं
आज्ञा-सेध-व्यतिक्रमः।
वर्णाश्रमाणां लोपश् च
वर्ण-सङ्कर-लोपनम् ॥ २९।१३ ॥
विश्वास-प्रस्तुतिः - २९।१४
निधिर् निष्कुल-वित्तं च
दरिद्रस्य धनागमः।
अनाम्नातानि कार्याणि
क्रिया-वादाश् च वादिनाम् ॥ २९।१४ ॥
मूलम् - २९।१४
निधिर् निष्कुल-वित्तं च
दरिद्रस्य धनागमः।
अनाम्नातानि कार्याणि
क्रिया-वादाश् च वादिनाम् ॥ २९।१४ ॥
विश्वास-प्रस्तुतिः - २९।१५
प्रकृतीनां प्रकोपश् च
सङ्केतश् च परस्परम्।
अशास्त्र-विहितं यच् च
प्रजायां सम्प्रकीर्त्यते ॥ २९।१५ ॥
मूलम् - २९।१५
प्रकृतीनां प्रकोपश् च
सङ्केतश् च परस्परम्।
अशास्त्र-विहितं यच् च
प्रजायां सम्प्रकीर्त्यते ॥ २९।१५ ॥
विश्वास-प्रस्तुतिः - २९।१६
साक्षि-सभ्यार्थ-सन्नानां
दूषणे दर्शनं पुनः।
स्व-वाचैव जितानां तु
नोक्तः पौनर्भावो विधिः ॥ २९।१६ ॥
मूलम् - २९।१६
साक्षि-सभ्यार्थ-सन्नानां
दूषणे दर्शनं पुनः।
स्व-वाचैव जितानां तु
नोक्तः पौनर्भावो विधिः ॥ २९।१६ ॥
विश्वास-प्रस्तुतिः
वेदार्थोपनिबद्धत्वात्
प्राधान्यं तु मनोः स्मृतम्।
मन्व्-अर्थ-विपरीता या
स्मृतिः सा न प्रशस्यते ॥
मूलम्
वेदार्थोपनिबद्धत्वात्
प्राधान्यं तु मनोः स्मृतम्।
मन्व्-अर्थ-विपरीता या
स्मृतिः सा न प्रशस्यते ॥