२८ समाह्वयः

विश्वास-प्रस्तुतिः - २८।१

अन्योन्य-परिगृहीताः
पक्षि-मेष-वृषादयः।
प्रहरन्ते कृत-पणास्
तं वदन्ति समाह्वयम् ॥ २८।१ ॥

मूलम् - २८।१

अन्योन्य-परिगृहीताः
पक्षि-मेष-वृषादयः।
प्रहरन्ते कृत-पणास्
तं वदन्ति समाह्वयम् ॥ २८।१ ॥

विश्वास-प्रस्तुतिः - २८।२

द्वन्द्व-युद्धेन यः कश्चिद्
अवसादम् अवाप्नुयात्।
तत्-स्वामिना पणो देयो
यस् तत्र परिकल्पितः ॥ २८।२ ॥

मूलम् - २८।२

द्वन्द्व-युद्धेन यः कश्चिद्
अवसादम् अवाप्नुयात्।
तत्-स्वामिना पणो देयो
यस् तत्र परिकल्पितः ॥ २८।२ ॥